90

                        
                        
जैमिनीय न्यायमाला विस्तरः (चतुर्थो भागः - 9,10 अध्यायौ) विषयसूचिका नवमोऽध्याययस्य प्रथमः पादः 405 उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः। 405  प्रथमे- अग्निहोत्रादिषूक्तानां धर्माणामपूर्वप्रयुक्तत्वाधिकरणे सूत्रम्  406  द्वितीये प्रोक्षणस्यापूर्वप्रयुक्तत्वाधिकरणे सूत्रे 2-3  407  वर्णकान्तरे (उच्चावचध्वनेः परमापूर्वाप्रयुक्तताधिकरणे) सूत्रम्  407  तृतीये- फलदेवतासंबद्धधर्माणामप्यपूर्वप्रयुक्तताधिकरणे सूत्रे 4-5  408  चतुर्थे- धर्माणामदेवताप्रयुक्तत्वाधिकरणे सूत्राणि (देवताधिकरणम्) 6-10  408  पञ्चमे- प्रोक्षणादीनामपूर्वप्रयुक्तताधिकरणे सूत्राणि 11-19  409  षष्ठे- अग्निष्टोम उपांशुत्वस्य प्राचीनपदार्थप्रयुक्तत्वाधिकरणे सूत्राणि 20-25  410  अष्टमे- इष्टकासु सकृद्विकर्षणाद्यनुष्ठानाधिकरणे सूत्राणि 26-28  411  नवमे- उत्तमान्यानामह्नां पत्नीसंयाजसंस्थाधिकरणे सूत्राणि 29-32  412  दशमे- सामिधेनीनामभ्यासस्य स्थानधर्मताधिकरणे सूत्रम्  412  एकादशे- आरभ्यणीयेष्ट्यधिकरणे सूत्रे 34-35  413  द्वादशे निर्वापमन्त्रे सावित्रादिपदानामनूहाधिकरणे सूत्रे (असमवेतार्थानामनूहः) 36-37  414  त्रयोदशे वर्णकद्वयसहितेऽधिकरणे सूत्रे 38-39  414  चतुर्दशे- इडोपह्वानमन्त्रे यज्ञपतिशब्दस्यानूहाधिकरणे सूत्रम्  415  पञ्चदशे प्रस्तरप्रहरणकरणसूक्तवाके यजमानपदस्योहाधिकरणे सूत्रम्  416  षोडशे वर्णकद्वयसहिते सूत्राणि 42-44  417  षोडशाधिकरणे सुब्रह्मण्याह्वाननिगदे हरिवच्छब्दस्यानूहप्रदर्शकं प्रथमवर्णकमारचयति  417  सोमक्रयसाधनसाण्डे 'तस्मै शृतम्' इत्याद्यनूहप्रदर्शकं द्वितीयवर्णकमारचयति  417  सप्तदशे ससारस्वत्यां मेष्यामध्रिगुवचनानूहाधिकरणे सूत्राणि 45-49  418  अष्टादशे यज्ञायज्ञीये गिराशब्दस्य स्थान इराशब्दस्यैव कर्तव्यताधिकरणे सूत्राणि 50-53  419  एकोनविंशे- इरापदस्य प्रगीतताधिकरणे सूत्राणि 54-58  419 नवमाध्यायस्य द्वितीयः पादः 420 सपरिकरः सामोहः। 420  प्रथमे वर्णकद्वयसहितेऽधिकरणे सूत्रे 1-2  420  द्वितीयपादस्य प्रथमाधिकरणे (गीतीनां सामनामताप्रदर्शकं) प्रथमवर्णकमारचयति  420  (ऊहग्रन्थस्य पौरुषेयत्वप्रदर्शकं) द्वितीयवर्णकमारचयति  421  द्वितीये साम्न ऋक्संस्कारकर्मताधिकरणे सूत्राणि 3-13  422  तृतीये- तृचे प्रत्यृचं कृत्स्नसाम्नः समापनाधिकरणे सूत्राणि 14-20  423  चतुर्थे- समास्वेव तिसृष्वृक्षु गानाधिकरणे सूत्रे- 21-22  423  पञ्चमे प्रथमवर्णके 'उत्तरयोर्गायति' इत्यत्रोत्तराग्रन्थस्थयोर्ऋचोर्ग्रहणाधिकरणे सूत्रे 23-24  424  द्वितीयवर्णके- अतिजगत्यामभ्यस्यमानायां त्रिशोकगानाधिकरणे सूत्राणि 21-24  425  षष्ठे वर्णकचतुष्टयसहिते सूत्राणि 25-28  425  बृहतीविस्तारपङ्क्त्योः प्रग्रथनेन रौरवयौधाजयसाम्नोर्गानसाधकं  427  सप्तमे गीतिसंपादकाक्षरविकारादीनां विकल्पाधिकरणे सूत्रम्  430  अष्टमे- वर्णकत्रयसहिते सूत्रे 30-31  430  नवमे- उत्तरावर्णवशेन गानाधिकरणे सूत्रे 32-33  432  दशमे- उत्तरयोः स्तोभातिदेशाधिकरणे सूत्राणि 34-38  432  एकादशे- स्तोभलक्षणाधिकरणे सूत्रम्  433  द्वादशे- नीवारादिषु प्रोक्षणावघातादिधर्मानुष्ठानाधिकरणे सूत्रम्  433  त्रयोदशे- परिधौ यूपधर्मानुष्ठानाधिकरणे सूत्राणि 41-43  434  चतुर्दशे- शृतादौ प्रणीताधर्मानुष्ठानाधिकरणे सूत्रे 44-45  434  पञ्चदशे- बृहद्रथंतरयोर्धर्मव्यवस्थाधिकरणे सूत्रे 46-47  435  षोडशे- कण्वरथंतरे बृहद्रथंतरधर्मसमुच्चयाधिकरणे सूत्रम्  435  सप्तदशे- द्विसामके बृहद्रथंतरयोर्व्यवस्थाधिकरणे सूत्रे 49-50  436  अष्टादशे- सौर्यादिषु पार्वणहोमाद्यननुष्ठानाधिकरणे सूत्राणि 51-56  436  एकोनविंशे- दर्शपूर्णमासयोर्होमद्वयस्य व्यवस्थाधिकरणेसूत्रे 57-58  437  विंशे- समिदादीनां यागनामधेयताधिकरणे सूत्राणि 59-60  437 नवमाध्यायस्य तृतीयः पादः 438 मन्त्रोहः। 438  प्रथमे- विकृतौ मन्त्रगतव्रीह्यादिशब्दानामूहाधिकरणे सूत्रे 1-2  438  द्वितीये- पौण्डरीकेषु बर्हिःषु स्तरणमन्त्रस्योहाधिकरणे सूत्राणि 3-8  438 तृतीये- अग्नीषोमीयपशौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणे सूत्रम्  439  चतुर्थे द्विपशुयागे पाशमन्त्रयोरेकवचनान्तबहुवचनान्तयोर्द्विवचनान्तेनोहाधिकरणे सूत्राणि 10-14  439  पञ्चमे- अग्नीषोमीयपशौ पाशैकत्वपाशबहुत्वाभिधायिमन्त्रयोर्विकल्पाधिकरणे सूत्राणि 15-19  440  षष्ठे दर्शपूर्णमासयोर्द्विपत्नीके प्रयोगे 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्  441  सप्तमे द्विपत्नीकविकृतियागेऽपि 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्  441  अष्टमे सवनीयपशूनामग्नीषोमीयसमानविधानत्वे 'प्रास्मै,अग्निम्' इति मन्त्रेऽनूहाधिकरणे सूत्रम्  442  नवमे नीवाराणां व्रीहिप्रतिनिधित्वे मन्त्रे व्रीहिशब्दस्यानूहाधिकरणे सूत्राणि 23-26  443  दशमे द्विपशुयागे 'सूर्यं चक्षुर्गमयतात्' इतिमन्त्राणामनूहाधिकरणे सूत्रे 27-28  443  एकादशे द्विपशुयागे, अध्रिगुप्रैषे 'एकधा' इत्यस्य शब्दस्याभ्यासाधिकरणे सूत्राणि 29-31  444  द्वादशे द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणे सूत्राणि 32-40  445  त्रयोदशे बहुदैवत्ये पशावप्येकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणे सूत्रे 41-42  446  चतुर्दशे- एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणे सूत्रम्  447 नवमाध्यायस्य चतुर्थः पादः 448 मन्त्रोहप्रसङ्गापतितो विचारः। 448  प्रथमे 'षड्विंशतिरस्य वङ्क्रयः' इत्यादौ समस्योहाधिकरणे सूत्राणि 1-16  448  द्वितीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनविकल्पाधिकरणे सूत्रम्  449  तृतीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनाधिकरणे सूत्राणि 18-21  450  चतुर्थे- अग्नीषोमीयपशावुरूकशब्देन वपाभिधानाधिकरणे सूत्रम्  451  पञ्चमे- अध्रिगौ प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणे सूत्रे- 23-24  452  षष्ठे- अध्रिगुप्रैषे श्येनादिशब्दानां कार्त्स्न्यवचनाधिकरणे सूत्राणि 25-27  452  सप्तमे दर्शार्थोद्धृताग्निलोपे प्रायश्चित्तरूपज्योतिष्मत्या अननुष्ठानाधिकरणे सूत्रम्  453  अष्टमे- धार्योद्वाने प्रायश्चित्तरूपज्योतिष्मत्यननुष्ठानाधिकरणे सूत्रे 29-30  453  नवमे दर्शार्थस्योद्धरणस्यामन्त्रकत्वाधिकरणे सूत्रम्  454  दशमे- प्रायणीयचरौ प्रदानधर्माणामननुष्ठानाधिकरणे सूत्राणि 32-40  455  एकादशे- अभ्युदयेष्टौ दधिशृतयोः प्रदेयधर्मानुष्ठानाधिकरणे सूत्रे 41-42  455  द्वादशे पशुकामेष्टौ दधिशृतयोः प्रदेयधर्माननुष्ठानाधिकरणे सूत्रे 43-44  456  त्रयोदशे- ज्योतिष्टोमे श्रयणानां प्रदेयधर्माननुष्ठानाधिकरणे सूत्राणि 45-50  457  चतुर्दशे- 'ईशानाय परस्वत' इत्यत्र यागान्तरविधानाधिकरणे सूत्राणि 51-55  457  पञ्चदशे- 'आज्येन शेषं संस्थापयति' इत्यनेन कर्मान्तरविधानाधिकरणे सूत्राणि 56-60  458 दशमोध्याययस्य प्रथमः पादः 459 बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः। 459  प्रथमे- वर्णकत्रयसहिते सूत्राणि 1-3  459  द्वितीये- दीक्षणीयादिषु- आरम्भणीयाबाधाधिकरणे सूत्रम्  462  तृतीये- अनुयज्ञादिष्वारम्भाणीयाबाधाधिकरणे सूत्रम्  462  चतुर्थे- आरम्भणीयायामारम्भणीयाबाधाधिकरणे सूत्राणि 6-8  463  पञ्चमे- खलेवाल्यां यूपाहुतिबाधाधिकरणे सूत्रम्  464  षष्ठे- खलेवाल्यां स्थाण्वाहुतिबाधाधिकरणे सूत्राणि 10-13  465  सप्तमे- उत्तमप्रयाजस्य संस्कारकर्मताधिकरणे सूत्रे 14-15  465  अष्टमे- अग्नियागस्यारादुपकारकत्वाधिकरणे सूत्राणि 16-18  466  नवमे- पशुपुरोडाशयागस्य देवतासंस्कारकत्वाधिकरणे सूत्राणि 19-33  468  दशमे- चरुशब्दस्यौदनवाचिताधिकरणे सूत्राणि 34-44  469  एकादशे सौर्यचरोः स्थाल्यामेव पाकाधिकरणे सूत्राणि 45-48  470 दशमाध्यायस्य द्वितीयः पादः 471 संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। 471  प्रथमे- कृष्णले चरौ पाकानुष्ठानाधिकरणे सूत्रे 1-2  471  द्वितीये- कृष्णल उपस्तरणाभिधारणयोर्बाधाधिकरणे सूत्राणि 3-12  472  तृतीये- कृष्णलचरौ भक्षसद्भावाधिकरणे सूत्राणि 13-16  473  चतुर्थे- कृष्णलचरौ सहपरिहारविधानाधिकरणे सूत्रम्  473  पञ्चमे- कृष्णलचरौ ब्रह्मणे सर्वभक्षभागार्पणाधिकरणे सूत्रे 18-19  474  षष्ठे- भक्षभागानां स्वस्वकाले ब्रह्मणा भक्षणाधिकरणे सूत्रम्  474  सप्तमे- ब्रह्मभक्षे चतुर्धाकरणादीनामभावाधिकरणे सूत्रम्  475  अष्टमे- ऋत्विग्दानस्यानत्यर्थताधिकरणे सूत्राणि 22-28  475  नवमे- ज्योतिष्टोमे भक्षस्य प्रतिपत्त्यर्थताधिकरणे सूत्राणि 29-33  476  दशमे- सत्रे ऋत्विग्वरणाभावाधिकरणे सूत्रम्  476  एकादशे- सत्रे परिक्रयाभावाधिकरणे सूत्राणि 35-38  477  द्वादशे- उदवसानीये दानस्य परिक्रयार्थताधिकरणे सूत्रे 39-40  478  त्रयोदशे- उदवसानीयस्यर्त्विजां सत्रिभ्यो भिन्नताधिकरणे सूत्रे 41-42  478  चतुर्दशे- पृष्ठशमनीये प्रत्येकं यष्टृताधिकरणे सूत्रम्  479  पञ्चदशे- कामेष्टौ दानस्यादृष्टार्थताधिकरणे सूत्रे 44-45  479  षोडशे- दर्शपूर्णमासयोर्द्वेष्याय दानस्यादृष्टार्थताधिकरणे सूत्रम्  480  सप्तदशे- जीवतामस्थियज्ञाधिकरणे सूत्रे 47-48  480  अष्टादशे- अस्थियागे,अस्थ्नां जपाद्यननुष्ठानाधिकरणे सूत्रम्  481 एकोनविंशे- अस्थियज्ञे शाखामानशुक्रस्पर्शानुष्ठानाधिकरणे सूत्रम्  481  विंशे- अस्थियज्ञेऽस्थ्नां काम्यकर्माद्यननुष्ठानाधिकरणे सूत्रम्  481  एकविंशे- अस्थियज्ञेऽस्थ्नां सूक्तवाकगताशासनाननुष्ठानाधिकरणे सूत्राणि 52-54  482  द्वाविंशे- अस्थियज्ञे होतृकामाभावाधिकरणे सूत्रे 55-56  482  त्रयोविंशे- यजमानस्य मरणेऽपि सर्वस्वारस्य समापनाधिकरणे सूत्रे 57-58  483  चतुर्विंशे- सर्वस्वारे कार्यबाध्यव्यवस्थाधिकरणे सूत्रम्  483  पञ्चविंशे- सर्वस्वारे यजमानस्य दिष्टगतावप्यायुराशंसनाधिकरणे सूत्रे 60- 61  483  षड्विंशे- द्वादशाहे, ऋतुयाज्याद्यनुष्ठानाधिकरणे सूत्रम्  484  सप्तविंशे- पवमानेष्टौ निर्वापानुष्ठानाधिकरणे सूत्रम्  484  अष्टाविंशे- वाजपेये मुष्टिलोपाधिकरणे सूत्राणि 64-67  485  एकोनत्रिंशे- धेन्वादिशब्दानां गोवाचिताधिकरणे सूत्रम्  486  त्रिंशे- 'वायव्यं श्वेतम्' इत्यत्राजस्यैवालम्भनाधिकरणे सूत्रम्  486  एकत्रिंशे- खलेवालीतण्डुलयोः खादिरव्रैहत्वानियमाधिकरणे सूत्रम्  486  द्वात्रिंशे- खलेवाल्यां तक्षणाद्यननुष्ठानाधिकरणे सूत्रे 71-72  487  त्रयस्त्रिंशे- खलेवाल्यां पर्यूहणादिसंस्काराणामनुष्ठानाधिकरणे सूत्रम्  487  चतुस्त्रिंशे- मतद्वयसहितेऽधिकरणे सूत्रम्  488 दशमाध्यायस्य तृतीयः पादः 490 बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते। 490  प्रथमे- पश्वादौ सामिधेन्यादिप्राकृतेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 1-12  490  द्वितीये- हिरण्यगर्भमन्त्रस्योत्तराघारगुणताधिकरणे सूत्राणि 13-17  491  तृतीये- चातुर्मास्येषु सोमेष्वासादननियोजनयोः प्राकृतगुणविधित्वाधिकरणे सूत्राणि 18-22  492  चतुथ- अग्निचयने प्राकृतवैकृतोभयदीक्षाहुतीनामनुष्ठानाधिकरणे सूत्राणि 23-29  493  पञ्चमे- पुनराधानेऽग्न्याधानदक्षिणानां निवृत्त्यधिकरणे सूत्राणि 30-33  494  षष्ठे- आग्रयणे वासोवत्साभ्यामन्वाहार्यस्य निवृत्त्यधिकरणे सूत्रम्  494  सप्तमे- आग्रयणे वासोवत्सयोरन्वाहार्यधर्मानुष्ठानाधिकरणे सूत्रम्  494  अष्टमे- आग्रयणे वत्से पाकाभावाधिकरणे सूत्रम्  495  नवमे- आग्रयणे वाससि पाकाभावाधिकरणे सूत्रम्  495  दशमे- आग्रयणे वासोवत्सयोरभिघारणाभावाधिकरणे सूत्रम्  495  एकादशे ज्योतिष्टोमे गवामेव द्वादशशतस्य दक्षिणात्वाधिकरणे सूत्राणि 39-49  496  द्वादशे- विभज्य गोदक्षिणाया दानाधिकरणे सूत्राणि 50-52  497  त्रयोदशे- ज्योतिष्टोमे समाख्यानुसारेण दक्षिणाविभागाधिकरणे सूत्राणि 53-55  498  चतुर्दशे भूनाम्नि धेनुदानेन निखिलदक्षिणाबाधाधिकरणे सूत्राणि 56-58  499  पञ्चदशे 'एकां गाम्' इत्यनेन गोगतसंख्याबाधाधिकरणे सूत्रम्  499  षोडशे- साद्यस्क्रे त्रिवत्सेन सोमक्रयसाधनमात्रबाधाधिकरणे सूत्राणि 60-62  500  सप्तदशे- अश्वमेधे प्राकाशेनाध्वर्युभागबाधाधिकरणे सूत्रे 63-64  500  अष्टादशे- उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणे सूत्राणि 65-67  501  एकोनविंशे- सोमचमसेन कृत्स्नदक्षिणापुरुषान्तरयोर्बाधाधिकरणे सूत्राणि 67-73  501  विंशे- वाजपेये रथस्य भागनियामकताधिकरणे सूत्रे 74-75  502 दशमाध्यायस्य चतुर्थः पादः 503 नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः। 503  प्रथमे- नारिष्ठहोमादिभिर्नक्षत्रेष्ट्यादीनां समुच्चयाधिकरणे सूत्रे 1-2  503  द्वितीये- वर्णकद्वयसहिते सूत्रम्  504  तृतीये- बार्हस्पत्यग्रहादिभिः प्रकृतैन्द्रवायवादिग्रहाणां समुच्चयाधिकरणे सूत्राणि 3-5  505  चतुर्थे- वाजपेये प्राजापत्यपशुभिः क्रतुपशूनां समुच्चयाधिकरणे सूत्रम्  505  पञ्चमे- सांग्रहणीष्टौ, आमनहोमैरनुयाजानां समुच्चयाधिकरणे सूत्रम्  506  षष्ठे- महाव्रते पत्न्युपगानेनर्त्विगुपगानस्य समुच्चयाधिकरणे सूत्रे 8-9  507  सप्तमे- अञ्जनाभ्यञ्जने नवनीताभ्यञ्जनस्य गौग्गुलवाभ्यञ्जनादिभिः समुच्चयाधिकरणे सूत्राणि 10-12  507  अष्टमे- महाव्रते अहतवाससस्तार्यादिभिः समुच्चयाधिकरणे सूत्राणि 13-15  508  नवमे- महाव्रते रथंतरादिसाम्नां श्लोकादिसामभिः समुच्चयाधिकरणे सूत्रे 16-17  508  दशमे- विकृतिविशेषे प्राकृतसाम्नां कौत्सादिभिर्बाधाधिकरणे सूत्रम्  508  एकादशे- कौत्सादिभिर्व्यवस्थयैकादिबाधाधिकरणे सूत्रे 18-19  509  द्वादशे- विवृद्धाविवृद्धस्तोमक्रतुषु क्रमेण प्राकृतसामबाधाबाधाधिकरणे सूत्रम्  509  त्रयोदशे- पवमाने विवृद्धाविवृद्धस्तोमकक्रतूनां सामावापोद्वापाधिकरणे सूत्रे 21-22  510  चतुर्दशे- यागादौ विधिशब्देनैव देवताभिधानाधिकरणे सूत्रे 23-24  510  पञ्चदशे- अतिदेशस्थलेऽपि वैधशब्देनैव देवताभिधानाधिकरणे सूत्रम्  511  षोडशे- आधानेऽग्नेः सगुणेनाभिधानाधिकरणे सूत्राणि 26-29  511  सप्तदशे- आधानाज्ययोरग्नेर्निर्गुणेनाभिधानाधिकरणे सूत्रे 30-31  512  अष्टादशे- गवानुबन्धपृषदाज्यहोमयोर्विधिशब्दाभ्यामेवोस्रावनस्पतिशब्दाभ्यामभिधानाधिकरणे सूत्रे 32-33  512  एकोनविंशे- अवभृथेऽग्नीवरुणयोः सस्विष्टकृच्छब्देनाभिधानाधिकरणे सूत्रे 34-35  513  विंशे- अग्नीषोमीयपशौ सर्वत्रैव प्रयोगे निर्गुणेनाग्निशब्देनाग्नेरभिधानाधिकरणे सूत्रे 36-37  514  एकविंशे- अनुयाजेषु स्विष्टकृद्यागस्य संस्कारकर्मताधिकरणे सूत्रम्  514  द्वाविंशे- दर्शपूर्णमासयोर्याज्यापुरोनुवाक्ययोः संस्कारकर्मताधिकरणे सूत्राणि 39-41  515  त्रयोविंशे- मनोतायामूहाभावाधिकरणे सूत्रम्  515  चतुर्विंशे- कण्वरथंतरस्य स्वयोनौ गानाधिकरणे सूत्राणि 43-46  516  पञ्चविंशे- कण्वरथंतरस्य स्वयोन्युत्तरयोर्गानाधिकरणे सूत्रे 47-48  516  षङ्विंशे- अग्निष्टुति स्तुतशस्त्रयोरविकाराधिकरणे सूत्रम्  517  सप्तविंशे- चातुर्मास्येष्वाज्यशब्दस्याविकारेणावाहनाधिकरणे सूत्राणि 50-59  517 दशमाध्यायस्य पञ्चमः पादः 519 षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः। 519  प्रथमे- एकदेशग्रहणे प्राथमिकानामेव ग्रहणाधिकरणे सूत्राणि 1-6  519  द्वितीये- एकत्रिक आद्ये तृचे गानाधिकरणे सूत्राणि 7-9  520  तृतीये- एकस्यामृचि धूर्गानाधिकरणे सूत्रे 10-11  520  चतुर्थे- द्विरात्रादिषु दशरात्रस्य विध्यन्तानुष्ठानाधिकरणे सूत्रे 12-13  521  पञ्चमो- अग्नौ धूननाद्यर्थानां मन्त्राणामनियमेनोपादानाधिकरणे सूत्रम्  521  षष्ठे- विवृद्धस्तोमकेऽप्राकृतानां साम्नामागमाधिकरणे सूत्राणि 15-25  522  सप्तमे- बहिष्पवमान ऋगागमाधिकरणे सूत्रम्  523  अष्टमे- सामिधेनीष्ववशिष्टानामागमेन संख्यापूरणाधिकरणे सूत्राणि 27-33  523  नवमे- षोडशिनां प्राकृतत्वाधिकरणे सूत्राणि 34-41  524  दशमे- आग्रयणादेव षोडशिग्रहणाधिकरणे- सूत्रे 42-43  525  एकादशे- तृतीयसवन एव षोडशिग्रहणाधिकरणे सूत्राणि 44-48  525  द्वादशे- षोडशिग्रहस्य सस्तोत्रशस्त्रताधिकरणे सूत्राणि 49-52  526  त्रयोदशे- अङ्गिरसां द्विरात्रे षोडशिनः परिसंख्याधिकरणे सूत्रे 53-54  526  चतुर्दशे- नानाहीने षोडशिग्रहग्रहणाधिकरणे सूत्राणि 55-57  527  पञ्चदशे- वर्णकद्वयविशिष्टेऽधिकरणे सूत्रम्  527  षोडशे- गोसवे-उपवत्यग्रवत्योरभावाधिकरणे सूत्राणि 59-61  529  सप्तदशे- ऐन्द्रवायवस्य सर्वादावप्रतिकर्षाधिकरणे सूत्राणि 62-64  529  अष्टादशे- कामसंयोगेऽप्यैन्द्रवायवस्यादावप्रतिकर्षाधिकरणे सूत्रे 65-66  530  एकोनविंशे- आश्विनाग्रादीनां ग्रहाणां प्रतिकर्षाधिकरणे सूत्राणि 67-69  530  विंशे- आश्विनादीनां ग्रहाणामैन्द्रवायवस्य पुरस्तात्प्रतिकर्षाधिकरणे सूत्राणि 70-72  531  एकविंशे- सादनस्यापि प्रतिकर्षाधिकरणे सूत्रे 73-74  531  द्वाविंशे- प्रदानस्याप्रतिकर्षाधिकरणे सूत्रे 75-76  531  त्रयोविंशे- त्र्यनीकायामैन्द्रवायवाग्रतोक्तेः समानविध्यर्थताधिकरणे सूत्रे 77-78  532  चतुर्विंशे- व्यूढद्वादशाहस्य समूढविकारत्वाधिकरणे सूत्राणि 79-82  533  पञ्चविंशे- संवत्सरसत्रेऽनीकानां विवृद्ध्यधिकरणे सूत्राणि 83-87  534  षड्विंशे- व्यूढे मन्त्राणां छन्दोव्यतिक्रमाधिकरणे सूत्रम्  535 दशमाध्यायस्य षष्ठः पादः 536 ''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः। 536  प्रथमे- रथंतरादीनां साम्नां तृचे गानाधिकरणे सूत्रे 1-2  536  द्वितीये- स्वर्दृक्शब्देन वीक्षणस्य कालार्थताधिकरणे सूत्रम्  536  तृतीये- गवामयनिके पृष्ठ्यषडहे बृहद्रथंतरयोर्विभागाधिकरणे सूत्रे 4-5  537  चतुर्थे- प्रायणीयोदयनीययोरैकादशिनानां विभागाधिकरणे सूत्राणि 6-12  538  पञ्चमे- सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणे सूत्रे 13-14  538  षष्ठे- वैरूपवैराजसाम्नोः पृष्ठकार्ये निवेशाधिकरणे सूत्राणि 15-21  539  सप्तमे- त्रिवृति स्तोमगतसंख्याविकाराधिकरणे सूत्रे 22-23  540  अष्टमे- उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणे सूत्राणि 24-26  540  नवमे- मध्वशनघृताशनयोः षडहान्तेऽनुष्ठानाधिकरणे सूत्रे 27-28  541  दशमे- षडहावृत्तावपि मध्वशनघृताशनयोः सकृदनुष्ठानाधिकरणे सूत्रे 29-30  541  एकादशे- गवामयने मध्वशनघृताशनयोः प्रतिमासमावृत्त्यधिकरणे सूत्रम्  541  द्वादशे- द्वादशाहे सत्रिभिरपि मध्वशनाधिकरणे सूत्रे 32-33  542  त्रयोदशे- मानसस्य द्वादशाहाङ्गताधिकरणे सूत्राणि- 34-44  543  चतुर्दशे- सत्रस्य बहुकर्तृकत्वाधिकरणे सूत्राणि 45-50  544  पञ्चदशे- सत्रे यजमानानामेवर्त्विक्त्वाधिकरणे सूत्राणि 51-58  544  षोडशे- सत्राहीनयोर्विवेकाधिकरणे सूत्रे 59-60  545  सप्तदशे- पौण्डरीके सकृदेव दक्षिणादानाधिकरणे सूत्राणि 61-67  545  अष्टादशे- पौण्डरीके सर्वासां दक्षिणानां विभज्य नयनाधिकरणे सूत्राणि 68-71  546  एकोनविंशे- मानवीषु पञ्चदशानामेव सामिधेनीत्वाधिकरणे सूत्राणि 72-75  547  विंशे- वाससि मानोपावहरणयोरनुष्ठानाधिकरणे सूत्रम्  547  एकविंशे- अहर्गणे वासोन्तरोत्पादनाधिकरणे सूत्रम्  547  द्वाविंशे- उपावहरणार्थमेव वासोन्तरोत्पादनाधिकरणे सूत्रे 78-79  548 दशमाध्यायस्य सप्तमः पादः 548 पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः। 548  प्रथमे- ज्योतिष्टोमे प्रत्यङ्गं हविर्भेदाधिकरणे सूत्रे 1-2  548  द्वितीये- पशोर्हृदयादिभिरेवाङ्गविशेषैर्यागानुष्ठानाधिकरणे सूत्राणि 3-9  549  तृतीये- ज्योतिष्टोमेऽनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमाधिकरणे सूत्रे 10-11  550  चतुर्थे- अध्यूध्न्या इडाविकारताधिकरणे सूत्राणि 12-16  550 पञ्चमे- वनिष्ठोर्भक्षविकारताधिकरणे सूत्रम्  551  षष्ठे- मैत्रावरुणस्यापि शेषभक्षास्तित्वाधिकरणे सूत्रे- 18- 19  551  सप्तमे- मैत्रावरुणस्यैकभागताधिकरणे सूत्रे 20-21  552  अष्टमे- प्रतिप्रस्थातुर्भक्षाभावाधिकरणेः सूत्रे 22-23  552  नवमे- गृहमेधीयकेऽपूर्वाज्यभागविधानादिकरणे सूत्राणि 24-33  553  दशमे- गृहमेधीये स्विष्टकृदाद्यनुष्ठानाधिकरणे सूत्रम्  555  एकादशे- गृहमेधीये प्राशित्रादिभक्षणाभावाधिकरणे सूत्राणि 35-37  555  द्वादशे- प्रायणीयातिथ्ययोः शंय्विडान्ततानियमाधिकरणे सूत्रे 38- 39  555  त्रयोदशे- प्रायणीयातिथ्ययोः पूर्वाभ्यामेव शंय्विडाभ्यां संस्थाधिकरणे सूत्राणि 40-42  556  चतुर्दशे- उपसदामपूर्वार्थत्वाधिकरणे सूत्राणि 43-46  557  पञ्चदशे- अवभृथेऽपूर्वकर्मताधिकरणे सूत्राणि 47-50  558  षोडशे- वाजपेयादौ यूपादीनां खादिरत्वादिनियमाधिकरणे सूत्राणि 51-57  559  सप्तदशे- काम्येष्टिषु प्राकृतद्रव्यदैवतस्य निवृत्त्यधिकरणे सूत्राणि 58-60  559  अष्टादशे- सौमापौष्णपशौ खादिरयूपस्य नियमाधिकरणे सूत्राणि 61-63  560  एकोनविंशे- ब्रह्मवर्चसकामैर्व्रीहिभिरेव यागाधिकरणे सूत्राणि 64-71  561  विंशे- पञ्चावदानतायाः सर्वाङ्गसाधारणताधिकरणे सूत्रे 72-73  561 दशमाध्यायस्याष्टमः पादः 562 ''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो 562 नञर्थविचारः। 562 तन्त्रस्योपोद्घातो वर्णितः। 563  प्रथमे- प्रदेशानारभ्यविधानयोर्निषेधस्य पर्युदासताधिकरणे सूत्राणि 1-4  563  द्वितीये- निषेधस्यार्थवादताधिकरणे सूत्रम्  564  तृतीये- अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणे सूत्रम्  564  चतुर्थे- जर्तिलोक्तौ निषेधस्यार्थवादताधिकरणे सूत्रम्  565  पञ्चमे- त्रैयम्बकादावभिघारणानभिघारणादीनामर्थवादताधिकरणे सूत्रम्  566  षष्ठे- आधान उपवादस्य विकल्पताधिकरणे सूत्राणि 9-11  566  सप्तमे- दीक्षितदाननिषेधस्य पर्युदासताधिकरणे सूत्राणि 12-15  567  अष्टमे- वर्त्महोमादिभिराहवनीयस्य बाधाधिकरणे सूत्रम्  568  नवमे- वैमृधादिषु साप्तदश्यविधेर्वाक्यशेषाधिकरणे सूत्राणि 17-19  569  दशमे- अविहितस्वाहाकारेषु प्रदानेषु स्वाहाकारविधानाधिकरणे सूत्राणि 20-22  569  एकादशे- अग्न्यतिग्राह्यस्य विकृतावुपदेशाधिकरणे सूत्राणि 23-28  571  द्वादशे- उपस्तरणाभिधारणाभ्यां सहैव चतुरवदानाधिकरणे सूत्राणि 29-32  572  त्रयोदशे- उपांशुयाजेऽपि चतुरवत्तस्यावश्यकताधिकरणे सूत्रे 33-34  572  चतुर्दशे- दर्शपूर्णमासयोराग्नेयैन्द्राग्नयोरनुवादताधिकरणे सूत्राणि 35-46  573  पञ्चदशे- उपांशुयाजस्य ध्रौवाज्यद्रव्यताधिकरणे सूत्रे 47-48  575  षोडशे- उपांशुयागस्य प्राकृतदेवतानियमाधिकरणे सूत्रे 49-50  575  सप्तदशाष्टादशयोः- उपांशुयाजस्य विष्णवादिदेवताकत्वपौर्णमासीकर्तव्यत्वयोरधिकरणयोः सूत्राणि 51-61  576  एकोनविंशे- एकपुरोडाशायामप्युपांशुयाजाधिकरणे सूत्राणि 62-70  578 ------- नवमोऽध्याययस्य प्रथमः पादः उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः। अतिदेशोऽष्टमेऽध्याये समाप्तो नवमे पुनः। अतिदिष्टपदार्थानामूहानूहविचारणा।। 1।। अष्टमनवमयोरध्याययोरनेन पूर्वोत्तरभाव उपजीव्योपजीवकरूपेणोपन्यस्तः। मन्त्रसामसंस्कारेष्वतिदिष्ट-पदार्थेषु यत्रास्त्यूहः, यत्र च नास्ति, तदुभयमत्र विचार्यम्। ऊहस्य लक्षणमेवमाहुः- प्राकृतस्थानपतितपदार्थान्तरकार्यतः। ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः।। इति।।  प्रथमे- अग्निहोत्रादिषूक्तानां धर्माणामपूर्वप्रयुक्तत्वाधिकरणे सूत्रम्  यज्ञकर्मप्रधानम्, तद्धि चोदनाभूतम्, तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात्।। 1।। नवमाध्यायस्य प्रथमपादे प्रथमाधिकरणे प्रथमवर्णकमारचयति- इष्ट्यग्निहोत्रसोमानां धर्मः किं यजयेऽथवा। अपूर्वायात्र निर्णीतिः स्मार्यते सप्तमोदिता।। 2।। सप्तमस्याद्याधिकरणेऽवघातादीनां धर्माणां यज्यन्वयं निराकृत्यापूर्वान्वयो निर्णीतः। स एवात्रोहारम्भोपयोगित्वेन स्मार्यते। यदि यज्यर्थाः स्युः, तदा सर्वे सर्वत्रोपदिश्यन्ते, न त्वतिदेशः क्वाप्यस्ति। ततोऽतिदिष्टपदार्थविषय ऊहो नारभ्यते। अपूर्वार्थत्वे तु प्रकरणनियमितत्वादश्रुतधर्मकेष्वतिदेशादूह आरम्भणीयः।। 1।। द्वितीयवर्णकमारचयति- अवघाते ब्रीहिरूपं विवक्ष्येत न वा श्रुतेः। आद्यः साधनतामात्रमवर्ज्यत्वाद्विवक्ष्यते।। 3।। ''व्रीहीनवहन्ति'' इत्यत्र व्रीहीणां स्वरूपं श्रूयमाणत्वाद्विवक्षितम्। तथा सति ''नैवारश्चरुर्भवति'' इत्यत्र नीवारणां प्रयोगे नोहः। यदा ब्रीहिष्वेव नियतोऽवघातो व्रीहिनिवृत्तौ निवर्तते, तदा कुत ऊहावसरः। इति प्राप्ते- ब्रूमः- व्रीहिस्वरूपविवक्षायामपि व्रीहिगतोऽपूर्वसाधनत्वाकारो न वर्जयितुं शक्यः। अन्यथाऽवघात-वैयर्थ्यापत्तेः। ततोऽपूर्वसाधनत्वाकारोऽवश्यं विवक्षितव्यः। तत्र व्रीहिस्वरूपस्यापि विवक्षायां गौरवं स्यात्। तदविवक्षायां तु नीवाराणामपि विहितत्वेनापूर्वसाधनत्वाकारसद्भावादवघातविषयत्वेनोहः सिध्यति।। 3।। तृतीयवर्णकमारचयति- नापूर्वस्य निमित्तत्वमस्ति वा, न प्रयोक्तृतः। अस्ति शाब्दप्रयोक्तृत्वमार्थिकी तु निमित्तता।। 4।। अवघातप्रयाजाद्यनुष्ठाननिमित्तत्वमपूर्वस्य नास्ति। कुतः- अपूर्वस्य प्रयोजकत्वात्। निमित्तत्वप्रयोजकत्वयोः सिद्धसाध्यरूपेण विरुद्धत्वात्। यस्मिन्विद्यमाने क्रियते, तन्निमित्तम्। यस्य सिद्ध्यर्थं क्रियते, तत्प्रयोजकम्। वर्णिता चापूर्वस्य सप्तमाद्याधिकरणनिर्णयस्मारणेन प्रयोजकता। ततो यजतेर्निमित्तत्वं वक्तव्यम्। तथा सति यजतिवद्व्रीह्यादिस्वरूपस्यापि निमित्तत्वेन तदभावे सत्यवघाताभावान्नीवाराद्यूहो नास्ति। इति प्राप्ते- ब्रूमः- अपूर्वस्य शाब्दं प्रयोजकत्वं सप्तमे वर्णितम्। इह तु- आर्थिकी निमित्तता वर्ण्यते। यद्यपि स्वरूपेण साध्यमपूर्वम्, तथाऽपि मनसि विपरिवर्तमानत्वाकारेण सिद्धत्वमप्यस्ति। अतो यजेर्निमित्तत्वाभावात्तद्दृष्टान्तेन व्रीहिस्वरूपस्याप्यनिमित्तत्वान्नीवाराद्यूहः संभवति।। 4।।  द्वितीये प्रोक्षणस्यापूर्वप्रयुक्तत्वाधिकरणे सूत्रे 2-3   संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात्।। 2।।  तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसंबन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात्।। 3।। द्वितीयाधिकरणे प्रथमवर्णकमारचयति- मुसलाद्युक्षणं हन्त्यै स्यादपूर्वाय वोक्तितः। आद्यः प्रकरणादन्त्यो व्यर्थं तत्स्यादिहान्यथा।। 5।। ''प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति'' इति श्रूयते। तत्र प्रोक्षणमुलूखलमुसलद्रव्यद्वारा हन्त्यर्थः। कुतः- वाक्येन तच्छेषत्वप्रतीतेः। इति चेत्- मैवम्। प्रकरणेनापूर्वशेषत्वावगमात्। न च वाक्यं प्रकरणाद्बलीयः- इति वाच्यम्, अपूर्वशेषत्वाभावे वैयर्थ्यप्रसङ्गात्। पूर्वपक्षे यत्रावघातः, तत्रैव प्रोक्षणम्। तथा सति नैर्ऋतचरौ ''कृष्णानां व्रीहीणां नखनिर्भिन्नानाम्'' इति श्रुतेषु नखेषु प्रोक्षणं नोह्यते। सिद्धान्ते तु- अपूर्वस्य प्रयोजकत्वादस्ति तत्रोहः।। 5।।  वर्णकान्तरे (उच्चावचध्वनेः परमापूर्वाप्रयुक्तताधिकरणे) सूत्रम्   तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसंबन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात्।। 3।। द्वितीयवर्णकमारचयति- मन्द्रादिकमपूर्वाय परायावान्तराय वा। फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते।। 6।। ज्योतिष्ठोमे श्रूयते ''यावत्या वाचा कामयेत तावत्या दीक्षिणीयायामनुब्रूयात्, मन्द्रं प्रायणीयायाम्, मन्द्रतरमातिथ्यायाम्, उपांशूपसत्सु, उच्चैरग्नीषोमीये'' इति। तत्र ध्वनेरुच्चावचीभावः परमापूर्वप्रयुक्तः, तस्य फलवत्त्वात्। इति चेत्- मैवम्। अवान्तरापूर्वेऽपि समानं फलवत्त्वम्, परमापूर्वजननद्वारेण फलसंबन्धात्। समाने च फलवत्त्वे संनिकृष्टलक्षणया निर्णयः। तथा हि दीक्षणीयादिशब्दा अङ्गकर्मवाचिनः। न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम्, अपूर्वप्रयुक्तेः निर्णीतत्वात्। ततो दीक्षणीयादिशब्दैरपूर्वं लक्षणीयम्। तत्र वाक्यगतमवान्तरापूर्वं संनिकृष्टम्। तद्द्वारकं परमापूर्वं विप्रकृष्टम्। तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः। अश्वमेधगतत्रैधातवीयायामूहाभावः फलम्। तथा हि- अश्वमेधे समाम्नायते- ''त्रैधातवीया दीक्षणीया भवति'' इति। यदि परमापूर्वप्रयुक्तः स्यात्, ततस्तस्योपकारविशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायामूहो भविष्यति। अथ- आग्नावैष्णवापूर्वप्रयुक्तः, तदा त्रैधातवीयायां तदपूर्वं न भवति। किंतु- अन्यदेवेति नास्त्यूहः।। 6।।  तृतीये- फलदेवतासंबद्धधर्माणामप्यपूर्वप्रयुक्तताधिकरणे सूत्रे 4-5   फलदेवतयोश्च।। 4।।  न चोदनातो हि ताद्गुण्यम्।। 5।। तृतीयाधिकरणमारचयति- अगन्मादेः स्वर्गदेवौ हेतू यद्वाऽत्र चोदितम्। आद्यो लिङ्गान्मैवमङ्गस्यापूर्वाकाङ्क्षितत्वतः।। 7।। दर्शपूर्णमासयोर्मन्त्रौ श्रुतौ- ''अगन्म सुवः'' इत्येकः। ''अग्नेरहमुज्जितिमनूज्जेषम्'' इत्यपरः। तयोरुभयोः स्वर्गदेवौ क्रमेण प्रयोजकौ। कुतः- तल्लिङ्गदर्शनात्। तथा सति ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यत्र स्वर्गाग्न्योरभावान्नास्त्यूहः। इति प्राप्ते- ब्रूमः- चोदितं यदपूर्वं तस्यैव फलवत्तवेनानुष्टेयतयेतिकर्तव्यताकाङ्क्षा युक्ता। ततो मन्त्रयोरपूर्वं प्रयोजकम्। तथा सति विकृतौ 'अगन्म ब्रह्मवर्चसं सूर्यस्याहमुज्जितिमनूज्जेषम्' इत्येव मन्त्रयोरस्त्यूहः।। 7।।  चतुर्थे- धर्माणामदेवताप्रयुक्तत्वाधिकरणे सूत्राणि (देवताधिकरणम्) 6-10   देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्।। 6।।  आर्थपत्यात्।। 7।।  ततश्च तेन संबन्धः।। 8।।  अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः।। 9।।  अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात्।। 10।। चतुर्थाधिकरणमारचयति- देवः प्रयोजकोऽपूर्वं वाद्योऽस्य फलदत्वतः। न विधेये गुणो ह्येषोऽपूर्वस्य फलितोचिता।। 8।। ''आग्नेयोऽष्टाकपालः''- इत्यादिषु सर्वेषु कर्मसु धर्माणामग्न्यादिर्देवः प्रयोजकः। कुतः- यागेन पूजिताया देवतायाः फलप्रदत्वात्। संभवति हि फलप्रदत्वम् मन्त्रार्थवादादिभ्यो विग्रहादिपञ्चकावगमात्। विग्रहः, हविःस्वीकारः, तद्भोजनम्, तृप्तिः, प्रसादश्च, इत्येतच्चेतनस्योचितं पञ्चकम्। ''सहस्त्राक्षो गोत्रभिद्वज्रबाहुः'' इति विग्रहः। ''अग्निरिदं हविरजुषत'' इति हविःस्वीकारः। ''अद्धीदिन्द्र प्रस्थिते मा हवींषि''- इति हविर्भोजनम्। ''तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तपर्यति'' इति तृप्तिप्रसादौ। ततः सेवितराजादिवत्पूजितदेवतायाः फलप्रदत्वेन प्राधान्यात्सैर्यधर्माणां प्रयोजिका। तथा सति यत्र सौर्यादावग्निर्नास्ति, तत्र- अग्निदेवतायां नियता धर्मा एव तावन्नातिदिश्यन्ते, कुतस्तत्रोहस्य प्राप्तिः। इति पूर्वपक्षः। किं देवतायाः फलप्रदत्वलक्षणं प्राधान्यं शब्दादापाद्यते, वस्तुसामर्थ्याद्वा। नाद्यः। 'स्वर्गकामो यजेत' इति शब्देन विधेयस्य यागस्य फलप्रदत्वावगमात्। द्रव्यदेवते तु सिद्धत्वेन विद्ध्यनर्हे। तत्र यथा द्रव्यस्य विधेयं प्रति गुणत्वम्, तथा देवताया अपि। यदि यागस्य कालान्तरभाविफलं प्रति व्यवहितत्वम्, तर्हि तत्साधनभूता देवता ततोऽपि व्यवहिता, का तर्हि फलस्य गतिः। 'अपूर्वम्' इति वदामः। तच्च श्रुत्या श्रुतार्थापत्त्या वा प्रतीयमानत्वाच्छाब्दमिति तस्य फलप्रदत्वमुचितम्। नापि वस्तुसामर्थ्याद्देवस्य फलप्रदत्वम्, विग्रहादिपञ्चकप्रतिपादकयोर्न्मत्रार्थवादयोः स्वार्थे तात्पर्याभावात्। अन्यथा ''वनस्पतिभ्यः स्वाहा। मूलेभ्यः स्वाहा'' इत्यादिमन्त्रेष्वपि देवत्वं विग्रहादिपञ्चकयुक्तं कल्प्येत। तच्च प्रत्यक्षविरुद्धम्। ततो न राजादिवत्फलप्रदत्वम्। किंच विग्रहादिमद्देवतावाद्यपि न विना कर्मणा फलमभ्युपैति। ततः- प्राप्ताप्राप्तविवेकेनोभयवादिसिद्धस्य यागस्यैव फलप्रदत्वमस्तु। किंच मातापितृगुर्वादिशुश्रूषायां विनाऽपि देवतां फलप्रदत्वमुभयवादिसिद्धम्। तस्मात्- फलप्रदमपूर्वमेव धर्माणां प्रयोजकम्। तथा सत्यग्न्यादिदेवताभावेऽप्यपूर्वप्रयुक्तधर्माणामतिदेशादस्ति तत्रोहस्यावकाशः।। 8।।  पञ्चमे- प्रोक्षणादीनामपूर्वप्रयुक्तताधिकरणे सूत्राणि 11-19   द्रव्यसंख्याहेतुसमुदायं वा श्रुतिसंयोगात्।। 11।।  अर्थकारिते च द्रव्येण न व्यवस्था स्यात्।। 12।।  अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात्।। 13।।  अपूर्वत्वाद्व्यवस्था स्यात्।। 14।।  तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम्।। 15।।  तद्युक्तस्येति चेत्।। 16।।  नाश्रुतित्वात्।। 17।।  अधिकारादिति चेत्।। 18।।  तुल्येषु नाधिकारः स्यादचोदितश्च संबन्धः,पृथक्सतां यज्ञार्थेनाभिसंबन्धस्तस्माद्यज्ञ-प्रयोजनम्।। 19।। पञ्चमाधिकरणमारचयति- व्रीह्यादयः प्रयोक्तारोऽपूर्वं वा प्रेक्षणादिषु। वाक्यश्रुतिभ्यामाद्यः स्याच्चोदिताकाङ्क्षयाऽन्तिमः।। 9।। ''व्रीहीन्प्रोक्षति'' इत्यत्र वाक्येन द्वितीयाश्रुत्या च प्रोक्षणे व्रीहिस्वरूपं प्रयोजकम्। इति चेत्- मैवम्। फलवत्त्वेन कर्तव्यतया चोदितस्यापूर्वस्येतिकर्तव्यतायामाकाङ्क्षा भवति। व्रीहिस्वरूपं तु सिद्धत्वान्न कर्तव्यतया चोद्यते, किंतु गुणत्वेन। ततो द्रव्यस्वरूपस्य नेतिकर्तव्यताकाङ्क्षा। तस्मात्- वाक्यश्रुती उपेक्ष्य प्रकरणादपूर्वस्य प्रयोजकत्वमेवेष्टव्यम्। न च- अपूर्वप्रयुक्ते स्रुवादौ प्रोक्षणस्यातिप्रसङ्गः, प्रकृतापूर्वाय हविराकारस्य विवक्षितत्वात्। सप्तमस्य प्रथमाधिकरणे संनिपत्त्योपकारिणामारादुपकारिणां च सामान्येनापूर्वप्रयुक्तत्वमतिदेशारम्भसिद्धये वर्णितम्। तदेवात्रापि प्रथमाधिकरणस्य प्रथमवर्णक ऊहारम्भसिद्धये स्मारितम्। द्वितीयवर्णके पुनः संनिपत्योपकारिणां विशेषाकारेण साधितम्। पुनरपि दार्ढ्याय द्वितीयाधिकरणस्य प्रथमवर्णके, तृतीयपञ्चमाधिकरणयोश्च क्रमेण वाक्यं लिङ्गं श्रुतिं चोपजीव्य प्रवृत्तास्त्रयः पूर्वपक्षा निराकृताः। अतो न पुनरुक्तिभ्रमः कर्तव्यः।। 1।।  षष्ठे- अग्निष्टोम उपांशुत्वस्य प्राचीनपदार्थप्रयुक्तत्वाधिकरणे सूत्राणि 20-25   देशबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिदेशात्तस्य च तत्र भावात्।। 20।।  यज्ञस्य वा तत्संयोगात्।। 21।।  अनुवादश्च तदर्थवत्।। 22।।  प्रणीतादि तथेति चेत्।। 23।।  न यज्ञस्याश्रुतित्वात्।। 24।।  तद्देशानां वा संघातस्याचोदितत्वात्।। 25।। षष्ठाधिकरणमारचयति- प्राचीनोपांशुताऽपूर्वे परमेऽवान्तरेऽपि वा। यज्ञयोगादादिमोऽन्त्यो देशबन्धश्रुतत्वतः।। 10।। ज्योतिष्टोमे श्रूयते ''त्सरा वा एषा यज्ञस्य, तस्माद्यत्किंचित्प्राचीनमग्नीषोमीयात्, तेनोपांशु चरन्ति'' इति। अत्र- उपांशुपरता परमापूर्वे संबद्धा। परमापूर्वप्रयुक्तेत्यर्थः। कुतः- शकुनिग्राहकगतिन्यायेन यज्ञसंबन्धावगमात्। तथा हि यज्ञस्य संबन्ध यत्किंचिदग्नीषोमीयात्प्राचीनमारादुपकारकं प्रधानहविःसंस्कारकं च, तस्य सर्वस्योपांशुत्वं विधीयते। यज्ञो नाम परमापूर्वं तस्य यज्ञसाध्यत्वात्। येयमुपांशुत्वानुष्ठितिः, एषा त्सरा छद्मगतिः। यथा शकुनिं जिघृक्षवः प्रच्छन्ना गतिर्भवति। शनैः पदन्यासो दृष्टिप्रणिधानमशब्दकरणं चेति तत्सर्वं शकुनिग्रहणाय। तथैव- अनुष्ठातुरुपांशुत्वानुष्ठानं छद्मगतिरूपमनुष्ठानसाध्याय यज्ञशब्दनिर्दिष्टाय परमापूर्वाय। सति च परमापूर्वप्रयुक्तत्वे कुण्डपायिनामयनेऽप्यग्नीषोमीयपशोः प्राचीनेषूपांशुत्वस्योहः। इति प्राप्ते- ब्रूमः- अवान्तरापूर्वप्रयुक्तमुपांशुत्वम्। कुतः- देशबन्धेन श्रुतत्वात्। 'अग्नीमीयात्प्राचीनं यत्किंचित्' इति मर्यादया देशलक्षिता ये पदार्थाः, ते श्रूयमाणेन वाक्येनोपांशुत्वसंबद्धाः प्रतीयन्ते। यज्ञसंबन्धस्तु न वाक्येन श्रूयते। ''यज्ञस्य त्सरा'' इत्यन्वयप्रतीतेः। न हि 'यज्ञस्य यत्किंचित्प्राचीनम्' इत्यन्वयः संभवति, 'तस्मात्' इत्यनेन पदेन व्यवधानात्। तस्मान्मर्यादावच्छिन्नपदार्थजन्यावान्तरापूर्वप्रयुक्तमुपांशुत्वम्। ''यज्ञस्य त्सरा'' इत्यनेनार्थवादेनावान्तरापूर्वप्रयुक्तमेवोपांशुत्वं प्रशस्यते। एवं सत्युदाहृतोहाभावः फलम्। यत्तु द्वितीयाधिकरणस्य द्वितीयवर्णके अग्नीषोमीयात्प्राचीने दीक्षणीयादौ स्वरान्तरमुक्तम्, तद्दीक्षणीयादिसंयोगात्तत्रत्यप्रधानविषयम्। इदं तूपांशुत्वमङ्गविषयमिति न विरोधः। सप्तमाधिकरणमारचयति- प्रणीतावाग्यमे पक्षौ योजनीयौ पुरेव तौ। पुरा हविष्कृदाह्वानाद्ये तत्रापूर्वकारिता।। 11।। दर्शपूर्णमासयोः श्रूयते ''यज्ञं तनिष्यन्तावध्वर्युयजमानौ वाचं यच्छतः'' इति। तत्र प्रणीतासंबन्धिनि वाङ्नियमे यज्ञसंयोगात्परमापूर्वं प्रयोजकम्। इति पूर्वः पक्षः। यज्ञशब्दस्य 'तनिष्यन्तौ' इत्यनेनान्वयः, न तु वाग्यमेन। ततो न परमापूर्वं प्रयोजकम्। तथा सति हविष्कृदाह्वाने वाग्विसर्गस्य विहितत्वात्ततः पुरा ये प्रोक्षणादिपदार्थास्तेष्वन्वितास्तत्रत्येन परमापूर्वेण प्रयुज्यन्ते।। 10।। 11।।  अष्टमे- इष्टकासु सकृद्विकर्षणाद्यनुष्ठानाधिकरणे सूत्राणि 26-28   अग्निधर्मः प्रतीष्टकं संघातात्पौर्णमासीवत्।। 26।।  अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थत्वात्।। 27।।  चोदनासमुदायात्तु पौर्णमास्यां तथा स्यात्।। 28।। अष्टमाधिकरणमारचयति- विकर्षप्रोक्षणे कार्ये प्रतीष्टकमुतैकधा। आद्योऽवयव्यसत्त्वेन मैवं भूदेशसत्त्वतः।। 12।। ''इष्टकाभिरग्निं चिनुते'' इति श्रुतम्। तत्रेदमाम्नायते- ''मण्डूकेनाग्निं विकर्षति। वेतसशाखयाऽवकाभिश्चाग्निं विकर्षति। हिरण्यशकलसहस्त्रेणाग्निं प्रोक्षति। दध्ना मधुमिश्रेणाग्निं प्रोक्षति'' इति। 'शाखाग्रे मण्डूकं वद्ध्वा तेन विकर्षयति' इत्यर्थः। ते च विकर्षणप्रोक्षणे प्रतीष्टकं कर्तव्ये। कुतः- चिताभ्य इष्टकाभ्यः पृथगग्निशब्दार्थस्य कस्यचिदवयविद्रव्यस्याभावात्। इति चेत्- मैवम्। उपहिताभिरिष्टकाभिः संयुक्तस्य प्रदेशस्यावयविद्रव्यत्वात्। तस्य चाग्न्याधारत्वेनाग्निशब्दार्थत्वम्। तस्मादग्नेरेकत्वात्सकृदेव विकर्षणप्रोक्षणे कुर्यात्।। 12।।  नवमे- उत्तमान्यानामह्नां पत्नीसंयाजसंस्थाधिकरणे सूत्राणि 29-32   पत्नीसंयाजान्तत्वं सर्वेषामविशेषात्।। 29।।  लिङ्गाद्वा प्रागुत्तमात्।। 30।।  अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य।। 31।।  स्याद्वाऽनारभ्य विधानादन्ते लिङ्गविरोधात्।। 32।। नवमाधिकरणमारचयति- पत्नीसंयाजसंस्था किं सर्वेष्वन्त्येतरेषु वा। अविशेषादादिमोऽन्त्योऽसंस्थितत्वोक्तिलिङ्गतः।। 13।। द्वादशाहे श्रूयते ''पत्नीसंयाजान्तान्यहानि संतिष्ठन्ते'' इति। तत्र द्वादशसंख्याकेषु सर्वेष्वहःसु पत्नीसंयाजान्तं कर्मानुष्ठायावशिष्टं हारियोजनादिकं त्याज्यम्। कुतः- 'एतावत्सु पत्नीसंयाजैः समाप्तिर्नेतरेषु' इति विशेषनियामकाभावात्। इति चेत्- मैवम्। असंस्थितत्ववाक्योक्तलिङ्गेन प्रागुत्तमादह्नो यानीतराण्यहानि तेषु पत्नीसंयाजान्तत्वं व्यवतिष्ठते। तथा हि- 'पत्नीसंयाजान्तान्यहानि संतिष्ठन्ते' इत्यस्य विधेः शेष एवमाम्नायते- ''न बर्हिरनुप्रहरत्यसंस्थितो हि तर्हि यज्ञः'' इति। तत्र पत्नीसंयाजैः सर्वेषामह्नां समाप्तावसंस्थितत्वं व्याहन्यते। तस्मात् 'संतिष्ठते' इति संशब्दो न समाप्तिवचनः, किं तर्हि सत्येव तदहःसंबन्धिकर्तव्यशेषे व्यापारोपरममात्रं ब्रूते। अयं च कर्तव्यशेषश्चरमेऽहन्यनुष्ठातव्यः। तथा सति द्वादशानामह्नां विहितः सहप्रयोगोऽनुगृहीतो भवति। तथा हि ''द्वादशाहेन यजेत'' इति सहप्रयोगो विहितः। अत एव दीक्षोपसदादिकं तन्त्रेणानुष्ठीयते। तत्र प्रथममहः पत्नीसंयाजान्तमनुष्ठाय हारियोजनादिकं बर्हिप्रहरणान्तं कर्तव्यत्वेनावस्थाप्य द्वितीयमहः प्रक्रमेत। एवमुत्तरत्रापि। तत्र सर्वत्रावशिष्टं कर्तव्यमुत्तमेऽहन्यनुष्ठातव्यम्। तथा सत्युपक्रमैक्यवदुपसंहारस्याप्येकत्वाद्विहितः सहप्रयोगः सिध्यति। एकैकस्याह्नः पत्नीसंयाजैः समाप्तौ भिन्नाः प्रयोगाः प्रसज्येरन्। यत्तु दशमस्याह्नो मानसग्रहेण समापनम्, तद्वाचनिकम्। तस्मात्- उत्तमव्यतिरिक्तानामेवाह्नां पत्नीसंयाजानन्तरं व्यापारोपरमः।। 13।।  दशमे- सामिधेनीनामभ्यासस्य स्थानधर्मताधिकरणे सूत्रम्   अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मः स्यात्।। 33।। दशमाधिकरणमारचयति- त्रिरनूक्तिर्ऋचो धर्मः स्थानधर्मोऽथवाऽग्रिमः। स्त्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः।। 14।। दर्शपूर्णमासयोः सामिधेनीः प्रकृत्य श्रूयते ''त्रिः प्रथमामन्वाह'' इति। सोऽयं त्रिरभ्यास आदौ पठितस्य ''प्र वो वाजा'' इत्यृग्विशेषस्य धर्मः। कुतः- 'प्रथमाम्' इत्यस्य पदस्य स्त्रीलिङ्गत्वादृक्परत्वोपपत्तेः। इति चेत्- नैतद्युक्तम्। स्त्रीलिङ्गवाचिनष्टाप्प्रत्ययादपि पूर्वपठितस्य स्थानवाचिनः 'प्रथम' इत्यस्य प्रातिपदिकस्य प्रबलत्वात्। अतो विकृतिष्वन्यस्या अप्यृचः प्रथमस्थाने पठितायास्त्रिरभ्यासः कर्तव्यः। स्थानान्तरे पठिताया 'प्र वो वाजा' इत्यस्या ऋचो नास्त्यभ्यासः।। 14।।  एकादशे- आरभ्यणीयेष्ट्यधिकरणे सूत्रे 34-35   इष्ट्यावृत्तौ प्रयाजवदावर्तेतारम्भणीया।। 34।।  सकृद्वारम्भसंयोगादेकः पुनरारम्भो यावज्जीवप्रयोगात्।। 35।। एकादशाधिकरणे (यावज्जीवदर्शपूर्णमासयोरारम्भणीयेष्टेः सकृदनुष्ठानाङ्गीकर्तृ-) वृत्तिकारमतमारचयति- प्रतिप्रयोगमारम्भयजिरस्ति न वाऽस्त्यसौ। अङ्गत्वेन, न तत्सर्वधर्म आधानवद्भवेत्।। 15।। ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समानः'' इति विहितेयमारम्भणीयेष्टि-र्दर्शपूर्णमासयोर्यावज्जीवमावर्त्यमानयोः प्रतिप्रयोगमावर्तनीया। कुतः- प्रयाजादिवदङ्गत्वात्। इति चेत्- नैतद्युक्तम्। कुतः- सर्वप्रयोगसाधारणत्वात्। 'यावज्जीवं मया दर्शपूर्णमासौ कर्तव्यौ' इत्यध्यवसाय आरम्भः। स चैक एव। तेन चारम्भेण प्रयुक्तेयमिष्टिः। तस्मान्नावर्तनीया। यथा- आधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यम्, तद्वत्। आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते।। 15।। 'आरम्भणीयेष्टेः पुरुषार्थत्वान्नावृत्तिः' इति स्वकीयं मतमारचयति- अन्वाधानाङ्गमारम्भो यद्वा पुरुषसंस्कृतिः। फलवत्त्वादादिमोऽन्त्यः पुंयोगान्न पृथक्फलम्।। 16।। दर्शपूर्णमासयोरन्वाधानस्य प्रथमपदार्थत्वेनारम्भरूपत्वादारम्भप्रयुक्तेयमिष्टिरन्वाधानस्याङ्गम्। तथा सति यागफलेनैव फलवती स्यात्। कर्तृसंस्कारपक्षे पृथक्फलं कल्प्येत। तस्मात्- प्रतिप्रयोगमन्वाधानावृत्तौ तदङ्गभूतेयमिष्टिरावर्तनीया। इति प्राप्ते- ब्रूमः- आरम्भो नाम पुरुषस्य प्रथमप्रवृत्तिः, न त्वन्वाधानपदार्थः। अतो नान्वाधानाङ्गम्। किंतु 'आरिप्समानो निर्वपेत्' इति पुरुषसंयोगात्तत्संस्कारोऽयम्। न च फलकल्पनाप्रसङ्गः, कृतारम्भस्य पुरुषस्य प्रयोगपरिगृहीतत्वेन पृथक्फलाकाङ्क्षाया अभावात्। ननु- एवमपि तत्तत्प्रयोगानारिप्समानस्य संस्कारायावृत्तिः स्यात्। न स्यात्। 'प्रयोगमारिप्समानः' इत्यश्रुतत्वात्। 'दर्शपूर्णमासावारिप्समानः' इति हि श्रूयते। तयोश्चैक एवारम्भः। तस्मान्नास्त्यावृत्तिः।। 16।।  द्वादशे निर्वापमन्त्रे सावित्रादिपदानामनूहाधिकरणे सूत्रे (असमवेतार्थानामनूहः) 36-37   अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात्।। 36।।  ततश्चावचनं तेषामितरार्थं प्रयुज्येते।। 37।। द्वादशाधिकरणमारचयति- सवित्रश्व्याद्यूहनीयं न वाऽर्थः संगतस्ततः। ऊहो नाविकृतस्यैव निर्वापान्वयसंभवात्।। 17।। दर्शपूर्णमासयोर्निर्वापमन्त्रः श्रूयते ''देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताम्यामग्नये जुष्टं निर्वपामि'' इति। तत्र सवित्रश्विपूषशब्दाः कर्मणि संगतं देवतारूपमर्थमभिधातुमर्हन्ति। तथा सति दृष्टप्रयोजनलाभात्। अग्निश्च कर्मसमवेतदेवता। ततः कयाचिदपि व्युत्पत्त्या सवित्रादिशब्दैरग्निरभिधीयताम्। अथोच्येत 'अग्निशब्देनैवाग्नेरभिधानात्पुनस्तदभिधानं व्यर्थम्। किंच- देवान्तरेषु रूढास्ते शब्दा नाग्निमभिदध्युः' इति। एवं तर्हि तास्तिस्रो देवता अग्निना साकं कर्मणि विकल्प्यन्ताम्। ततः प्राकृतस्य मन्त्रस्य विकृतिष्वतिदेशे सति सवित्रादिशब्दस्थाने तत्तद्देवतावाचकः शब्द ऊहनीयः। इति प्राप्ते- ब्रूमः- नात्रोहः कर्तव्यः। कुतः- अविकृतस्यैव मन्त्रस्य निर्वापशेषत्वेनान्वयसंभवात्। नहि प्रकृतावग्निना सह सवित्रादिदेवतानां विकल्पः। वाक्यभेदादिदोषप्रसङ्गात्। तस्मात्- नास्त्यूहः।। 17।।  त्रयोदशे वर्णकद्वयसहितेऽधिकरणे सूत्रे 38-39   गुणशब्दस्तथेति चेत्।। 38।।  न समवायात्।। 39।। त्रयोदशाधिकरणे (विकृतावग्निशब्दोहप्रदर्शकं) प्रथमवर्णकमारचयति- तत्राग्निशब्दो नोह्यः स्यादूह्यो वा स्तावकत्वतः। सवित्रादिवदाद्यो नो समवेतार्थवर्णनात्।। 18।। तस्मिन्पूर्वोदाहृत एव मन्त्रे 'अग्नये जुष्टम्' इत्ययमग्निशब्दो विकृतिषु नोहनीयः। कुतः- देवतान्तरवाचिसवित्रादिशब्दवदग्निशब्दस्याप्यत्र निर्वापस्तावकत्वेन पाठात्। इति प्राप्ते- ब्रूमः- विषमो दृष्टान्तः। कर्मण्यसमवेतार्थाः सवित्रादिशब्दाः। अग्निशब्दस्त्वाग्नेये कर्मणि समवेतमर्थं ब्रूते। ननु- अत्र जुष्टशब्दोऽसमवेतार्थः। निर्वापात्पूर्वं हविषो जुष्टत्वाभावात्। तद्योगादग्निशब्दोऽपि तथा स्यात्- इति चेत्- मैवम्। 'जुष्टं यथा भवति तथा निर्वपामि' इति क्रियाविशेषणत्वेन भविष्यज्जोषणपरत्वे सति समवेतार्थत्वात्। तस्मात्- सौर्ये यागे 'सूर्याय जुष्टं निर्वपामि' इत्येवमूहनीयम्।। 18।। (तण्डुलनिर्वापमन्त्रे धान्यशब्दोहप्रदर्शकं) द्वितीयवर्णकमारचयति- नोह्य ऊह्योऽथवा धान्यशब्दो नासंगतोक्तिता। ऊह्यो लक्षणयाऽर्थस्य गोपानस्येव संगतेः।। 19।। दृषदि पेषणाय तण्डुलावापे मन्त्रो विहितः- ''धान्यमसि धिनुहि देवान्'' इति। सोऽयं धान्यशब्दोऽसपवेतमर्थं ब्रूते निस्तुषाणां तण्डुलानां धान्यशब्दार्थत्वाभावात्। ततः सवित्रादिशब्दवन्नोहनीयः। इति चेत्- मैवम्। लक्षणया वृत्त्या धान्यशब्दस्य तण्डुलरूपेऽर्थे समवेतत्वात्। यथा 'गावः पीयन्ते' इत्यत्र मुख्यवृत्त्यभावेऽपि नासमवेतार्थत्वं लोका वर्णयन्ति। किंतु दुग्धं लक्षयित्वाऽर्थं समवेतमेव प्रतियन्ति। तद्वत्। तस्मात्- शाक्यानामयने- षट्त्रिंशत्संवत्सरे धान्यशब्द ऊहनीयः। तत्र ह्येवमाम्नायते- ''संस्थिते संस्थितेऽहनि गृहपतिर्मृगयां याति, स तत्र यान्मृगान्हन्ति, तेषां तरसमयाः सवनीयाः पुरोडाशा भवन्ति'' इति। तत्र दृषदि पेषणाय मांसमावपन्। 'मांसमसि धिनुहि देवान्' इत्येवं मन्त्रमूहेत। न च धान्यशब्दवल्लक्षको मृगशब्द ऊहे प्रयोक्तव्यः- इति वाच्यम्, लक्षणावृत्तेः प्रकृतावार्थिकत्वेनातिदेशानर्हत्वात्।। 19।।  चतुर्दशे- इडोपह्वानमन्त्रे यज्ञपतिशब्दस्यानूहाधिकरणे सूत्रम्   चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात्।। 40।। चतुर्दशाधिकरणमारयति- ऊह्यो यज्ञपतिर्नो वा वृद्ध्यर्थोत्साहतोऽग्रिमः। प्रत्यक्षोक्त्या कृत्स्नमन्त्र इडार्थो नोहनं ततः।। 20।। दर्शपूर्णमासयोरिडोपह्वानमन्त्रे वाक्यमेतदाम्नायते- ''दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः, य इमं यज्ञमवान्, ये च यज्ञपतिं वर्धान्'' इति। 'ये दैव्या अध्वर्यवो यज्ञमवन्ति, ये च मनुष्या यज्ञपतिं वर्धयन्ति, ते सर्वेऽप्यत्रोपहूताः' इत्यर्थः। अस्मिन्वाक्ये यज्ञपतेरभिवृद्धिकथनेनोत्साहजननेन समवेतोऽर्थः प्रतीयते। तत इडोपह्वानमन्त्रात्पृथक्कृत्याभिवृद्ध्यर्थे जपे मन्त्रवाक्यमिदं लिङ्गेन विनियुज्यताम्। तथा सति सत्रे यज्ञपतीनां बहुत्वाद्बहुवचनान्ततया शब्द ऊहनीयः। इति प्राप्ते- ब्रूमः- प्रत्यक्षश्रुत्या कृत्स्नो मन्त्र इडोपह्णाने विनियुक्तः। एकवाक्यत्वं च कृत्स्ने मन्त्र उपलभ्यते। प्रकरणं चेदमिडायाः। ततः श्रुतिवाक्यप्रकरणैर्विरोधान्न लिङ्गविनियोगः संभवति। तदभावे च यज्ञपतिवृद्धिप्रतिपादकमवान्तरवाक्यमिडाप्रतिपादकेन महावाक्येन सहैकवाक्यतामापन्नमिडां प्रशंसति। प्रशंसा चैकवचनान्तेनापि यज्ञपतिशब्देन सिध्यतीति नास्ति सत्रे तदूहः।। 20।।  पञ्चदशे प्रस्तरप्रहरणकरणसूक्तवाके यजमानपदस्योहाधिकरणे सूत्रम्   विकारस्तत्प्रधाने स्यात्।। 41।। पञ्चदशाधिकरणमारचयति- यजमानो नोहितव्य ऊह्यो वा नहि पूर्ववत् ।मन्त्रः फलप्रधानोऽत ऊह्यः सर्वफलित्वतः।। 21।। दर्शपूर्णमासयोः ''सूक्तवाकेन प्रस्तरं प्रहरन्ति'' इति प्रहरणकरणत्वेन विनियुक्ते सूक्तवाकमन्त्रे वाक्यमेतदाम्नायते- ''अयं यजमान आयुराशास्ते'' इति। तत्र पूर्वोक्तयज्ञपतिशब्दवत्सत्रेषु यजमानशब्दो नोहितव्यः। इति चेत्- मैवम्। वैषम्यात्। तथा हि सर्वत्र प्रकरणे मन्त्रो द्विविधः 'क्रियाप्रकाशकः', 'फलप्रकाशकश्चेति'। पूर्वोदाहृतो मन्त्र इडोपह्वानक्रियाप्रकाशकः। ''उपहूतं रथंतरं सह पृथिव्या'' इत्यस्मिन्ननुवाके तदुपह्वानमन्त्ररूपे सर्वस्मिन्नपि तदवभासात्। 'इडोपहूता, उपहूतेडा, उपो अस्या इडा ह्वयताम्। इडोपहूता दैव्या अध्वर्यव उपहूताः' इत्यादिभिरवान्तरवाक्यैरुपह्वानक्रियाया एव प्राधान्यावभासात्। तन्मध्यपतितं त्वेकमेव यज्ञपतिवाक्यं वृद्धिफलं गमयतीति न तस्य स्वार्थो विवक्षितः। सूक्तवाकमन्त्रस्तु फलमेव प्रकाशयति, न तु प्रहरणक्रियाम्। ''इदं द्यावापृथिवी भद्रमभूत्'' इत्यस्मिन्ननुवाके सूक्तवाकमन्त्रे सर्वस्मिन्फलावभासात्। ''अयं यजमान आयुराशास्ते, सुप्रजास्त्वमाशास्ते, उत्तरां देवयज्यामाशास्ते, भूयो हविष्करणमाशास्ते, दिव्यं धामाशास्ते'' इत्यादिभिः सर्वैरप्यवान्तरवाक्यैः फलस्यैवावभासनात्। तस्मात्- विवक्षितं फलम्। फलिनश्च सत्रेषु सर्वे यजमानाः ततः सर्वेषां फलसिद्धये यजमानशब्दो बहुवचनान्तत्वेन सर्वेषु सत्रेषूहनीयः।। 21।।  षोडशे वर्णकद्वयसहिते सूत्राणि 42-44   असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत।। 42।।  कर्माभावादेवमिति चेत्।। 43।।  न परार्थत्वात्।। 44।।  षोडशाधिकरणे सुब्रह्मण्याह्वाननिगदे हरिवच्छब्दस्यानूहप्रदर्शकं प्रथमवर्णकमारचयति  हरिवच्छब्द ऊह्यः स्यान्नो वेन्द्रे समवायतः। ऊह्यो मैवं स्तावकत्वादसता स्तुतिसंभवात्।। 22।। ज्योतिष्टोमे सुब्रह्मण्याह्वानार्थे निगदे पठ्यते- ''इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार'' इति। सोऽयं निगदो विकृतावग्निष्टुति चोदकेनातिदिष्टः। तत्र- 'आग्नेयी सुब्रह्मण्या भवति' इत्यग्निसंबन्धविधानादिन्द्रपदं परित्यज्य 'अग्न आगच्छ' इत्यूहः कृतः। 'तस्मिन्निगदे यानीन्द्रपदस्य विशेषणानि 'हरिवः' इत्यादिसंबुद्ध्यन्तपदानि तान्यप्यूहनीयानि' इति तावत्प्राप्तम्। कुतः- इन्द्र एव नियमेन समवेतस्यार्थस्याभिधानात्। अग्नौ तस्याभावात्। स चार्थस्तत्तत्संबुद्ध्यन्तपदमनूद्य व्याचक्षाणेन ब्राह्मणेन स्पष्टीकृतः। तथा च श्रूयते ''हरिव आगच्छेति, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी, ताभ्यां ह्येष सर्वं हरतीति। मेधातिथेर्मेषेति, मेधातिथिं काण्वायनिं मेषो भूत्वा जहार। वृषणश्वस्य मेन इति, वृषणश्वस्य मेनका नाम दुहिता बभूव, तामिन्द्रश्चकमे। गौरावस्कन्दिन्निति, गौरमृगो भूत्वा राजानं पिबति'' इति। एतस्यार्थस्येन्द्र एवान्वितस्याग्नावसंभवात्तत्परित्यागेनाग्नेरुचितानि कानिचिद्विशेषणान्यूहनी-यानि। इति प्राप्ते- ब्रूमः- इन्द्रशब्दस्य कर्मसमवेतदेवताप्रकाशकत्वान्न स्ताकत्वमित्यस्ति तस्योहः। हरिवदादिशब्दा ब्राह्मणव्याख्यातगुणाभिधानद्वारेणेन्द्रं स्तुवन्ति। स्तुतिश्च विद्यमानगुणवदविद्यमानेनापि गुणेन कर्तुं शक्यते। तस्मात्- अग्निस्तुतिसंभवान्नास्त्यूहः।। 22।।  सोमक्रयसाधनसाण्डे 'तस्मै शृतम्' इत्याद्यनूहप्रदर्शकं द्वितीयवर्णकमारचयति  ऊह्यं तस्यै शृतं नो वा भाविवृत्त्या समन्वयात्। एकाब्दायां साण्ड ऊहो नोहः साम्यत्स्तुतिर्द्वयोः।। 23।। ज्यातोष्टोम एकहायन्या मन्त्र एवमाम्नायते- ''इयं गौः सोमक्रयणी, तया ते क्रीणामि। तस्यै शृतम्, तस्यै शरः, तस्यै दधि, तस्यै मस्तु, तस्या आतञ्चनम्, तस्यै नवनीतम्, तस्यै घृतम्, तस्या आमिक्षा, तस्यै वाजिनम्'' इति। साद्यस्क्रे त्वेवमाम्नातम्- ''त्रिवत्सः साण्डः सोमक्रयणः'' इति। तस्मिन्साण्डे पूर्वो मन्त्रश्चोदकेनातिदिष्टः। तस्मिन्मन्त्रे पूर्वभागस्य समवेतार्थत्वात् 'अयं साण्डः सोमक्रयणः, तेन क्रीणामि' इत्येवमूहोऽस्ति। तथैव 'तस्यै शृतम्' इत्याद्युत्तरभागेऽप्यस्त्यूहः। यद्यप्येकहायन्या शृतादिकं न संभवति, तथाऽपि त्रिचतुरवर्षोत्तरकाले भविष्यति। साण्डोऽपि कस्यांचिद्गवि वत्सोत्पादनेन क्षीरादिनिमित्तम्। ततस्तस्मिन्नपि समवेतार्थ उत्तरभाग ऊहनीयः। तथा सति 'तस्मै शृतम्' इत्येवं पुंलिङ्गतया पठनीयम्। इति प्राप्ते- ब्रूमः- एकहायन्यामपि मुख्यया वृत्त्या समवेतार्थत्वाभावेन स्तुतित्वात्साण्डेऽपि स्तुतित्वान्नास्त्यूहः।। 23।।  सप्तदशे ससारस्वत्यां मेष्यामध्रिगुवचनानूहाधिकरणे सूत्राणि 45-49   लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात्।। 45।।  पश्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम्।। 46।।  विशेषो वा तदर्थनिर्देशात्।। 47।।  पशुत्वं चैकशब्द्यात्।। 48।।  यथोक्तं वा संनिधानात्।। 49।। सप्तदशाधिकरणमारचयति- दैव्या इत्यस्ति मेष्यां नो वाऽस्मा इति पशूक्तितः। अस्ति मैवं पश्वनुक्तेः पुंव्यक्तित्वविवक्षया।। 24।। अध्रिगुनामा दैव्यः शमिता। तं प्रति प्रैषमन्त्रो हौत्रे पाशुके पठ्यते ''दैव्याः शमितार उत मनुष्या आरभध्वम् उपनयत मेध्याः'' इत्यादि। अतिरात्रे सवनीयपशुरेवमाम्नायते ''सारस्वती मेष्यतिरात्रे'' इति। तस्यां मेष्यामप्युदाहृतो मन्त्रोऽस्ति। कुतः- पशुधर्मविधेः सर्वपशुसाधारणत्वेनाग्नीषोमीयपशाविव मेष्यां संभवात्। ननु तस्मिन्मन्त्रे ''प्रास्मा अग्निं भरता'' इति पुंलिङ्गं चतुर्थ्यन्तं पदं श्रुतम्। तच्च न मेष्याप्युक्तमिति चेत्- मैवम्। 'अस्मै पशवः' इत्युक्त्या प्रातिपदिकार्थस्य जातिमात्रस्य विवक्षितत्वात्। इति प्राप्ते- ब्रूमः- पशुशब्दस्तावन्न मन्त्रे पठितः। तथासति प्रयुक्त इदंशब्दः पुरोवर्तिनीं व्यक्तिमाचष्टे। व्यक्तिविशेषश्चाग्नीषोमीये पुमात्मक इति श्रूयमाणचतुर्थ्येकवचनद्योत्यं लिङ्गमपि विवक्षितम्। तस्मात्- न मेष्यामस्त्ययं मन्त्रः। ननु- 'पशुधर्मा अग्नीषोमीय एवोपदिष्टाः, प्रकरणेन तन्नियमात्' इति तृतीयेऽभिहितम्। अष्टमेऽपि 'अग्नीषोमीयपशुः सवनीयादिपशूनां प्रकृतिः' इत्युक्तम्। ततो मेष्यामयं मन्त्रश्चोदकप्राप्तः। पुंलिङ्गं चोहनीयमिति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु।। 24।।  अष्टादशे यज्ञायज्ञीये गिराशब्दस्य स्थान इराशब्दस्यैव कर्तव्यताधिकरणे सूत्राणि 50-53   आम्नातादन्यदधिकारे वचनाद्विकारः स्यात्।। 50।।  द्वैधं वा तुल्यहेतुत्वात्सामान्यविकल्पः स्यात्।। 51।।  उपदेशाच्च साम्नः।। 52।।  नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत्।। 53।। अष्टादशाधिकरणमारचयति- इरागिराविकल्पः स्यादुतेरैवाविशेषतः। आद्यो मैवं बाधपूर्वमिराया विहितत्वतः।। 25।। ज्योतिष्टोमे श्रूयते ''यज्ञायज्ञीयेन स्तुवीत'' इति। 'यज्ञायज्ञ' इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम्। तस्यामृचि गिराशब्दः पठ्यते- ''यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे'' इति। तत्र सामगा योनिगानमधीयानाः सहैव गकारेण गायन्ति- 'गायीरा, गिरा' इति। ब्राह्मणे तु गकारलोपपूर्वकमाकारयकारादिकं गानं विधीयते 'ऐरं कृत्वोद्गेयम्' इति। 'गिराशब्दे गकारलोपादिराशब्दो भवति। इरायाः संबन्धि गानमैरम्। तादृशं कृत्वा प्रयोगकाल उद्गानं कर्तव्यम्' इत्यर्थः। तत्र योनिगानब्राह्मणयोः समानबलत्वेन विशेषाभावाद्विकल्पेन प्रयोक्तव्यम्। इति प्राप्ते- ब्रूमः- ''न गिरागिरेति ब्रूयात्, यद्गिरागिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेत्'' इति गकारसहितगाने बाधमुक्त्वा गकाररहितमिरापदं गेयत्वेन विधीयते। तत्पदादेरिकारस्य गानार्थमाकारो यकार इकारश्चेति त्रीन्वर्णान्प्रयुञ्जते। ततः- 'आयीरा यीरा' इत्येव गातव्यम्।  एकोनविंशे- इरापदस्य प्रगीतताधिकरणे सूत्राणि 54-58   अप्रगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात्।। 54।।  यत्स्थाने वा तद्रीतिः स्यात् पदान्यत्वप्रधानत्वात्।। 55।।  गानसंयोगाच्च।। 56।।  वचनमिति चेत्।। 57।।  न तत्प्रधानत्वात्।। 58।। एकोनविंशाधिकरणमारचयति- इरापदं न गेयं स्याद्गेयं वा गीत्यमुक्तितः। न गेयं, गीयमानस्य स्थाने पातात्प्रगीयते।। 26।। ब्राह्मणेन विहित इराशब्दो न गातव्यः। कुतः- 'ऐरम्' इति शब्देन गीतेरनुक्तत्वात्। पाणिनीयेन 'विमुक्तादिभ्योऽण्' (5।2।61) इति सूत्रेणेराशब्दादण्प्रत्ययो मत्वर्थीयो विहितः। तथा सति 'इरापदोपेतं कृत्वा' इत्येतावानेवार्थो भवति। यदि प्रगीतेरापदसंबन्धस्तद्धितेन विवक्ष्येत, तदानीमाकारो यकार ईकारो रेफ आकारश्चेत्येतैः पञ्चभिर्वर्णैर्निष्पन्नम् 'आयीरा' रूपं गीयमानेराशब्दप्रातिपदिकं भवति। तादृशात्प्रातिपदिकात्पाणिनीयेन 'वृद्धाच्छः' (4।2।114) इति सूत्रेण प्रत्ययान्तरे सति 'आयीरीयं कृत्वा' इति ब्राह्मणपाठो भवेत्। तस्मान्न गेयम्। इति प्राप्ते- ब्रूमः- गीयमानस्य गिरापदस्य स्थान इरापदं विधीयत इति पदमात्रस्य बाधः। गानं तु न बाध्यते। किंच 'विमुक्तादिभ्योऽण्' (पा.सू. 5।2।61) इति सूत्रेणाण्प्रत्ययेऽपि पूर्वस्मात् 'मतौ छः सूक्तसाम्नोः' (पा.सू. 5।2।59) इति सूत्रात्सामानुवृत्तेः 'ऐरं साम' इत्यर्थो भवति। सामत्वं च गीतिसाध्यम्। यदा तु 'तस्य विकारः' (पा.सू.4।3।124) इत्यस्मिन्नर्थेऽण्प्रत्ययः, तदानीम् 'इराया विकारः' इति विग्रहे यथोक्तं गानं लभ्यते। तस्मात्- गातव्यम्।। 26।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 18, सूत्राणि 58। आदितः- अधिकरणानि 547, सूत्राणि 1589। नवमाध्यायस्य द्वितीयः पादः सपरिकरः सामोहः।  प्रथमे वर्णकद्वयसहितेऽधिकरणे सूत्रे 1-2   सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम्।। 1।।  तदुक्तदोषम्।। 2।।  द्वितीयपादस्य प्रथमाधिकरणे (गीतीनां सामनामताप्रदर्शकं) प्रथमवर्णकमारचयति  सामोक्तिबृहदाद्युक्ती गीतायामृचि केवले । गाने वा, गान एवेति स्मार्यते सप्तमोदितम्।। 1।। 'सामान्यवाची सामशब्दः, विशेषवाचिनो बृहद्रथंतरादिशब्दाश्च गानमात्रे वर्तन्ते, न तु गानविशिष्टायामृचि' इत्ययं निर्णयः सप्तमस्य द्वितीयपादे सिद्धः। सोऽत्र वक्ष्यमाणविचारोपयोगितया स्मार्यते।। 1।।  (ऊहग्रन्थस्य पौरुषेयत्वप्रदर्शकं) द्वितीयवर्णकमारचयति  ऊहग्रन्थोऽपौरुषेयः पौरुषेयोऽथवाऽग्रिमः। वेदसामसमानत्वाद्विधिसार्थत्वतोऽन्तिमः।। 2।। यस्मिन्ग्रन्थे सामगास्तृचे तृचे सामैकैकं गायन्ति, सोऽयमूहग्रन्थो नित्यः, न तु पुरुषेण निर्मितः। कुतः- अनध्यायवर्जनेन, कर्तुरस्मरणेन, अध्यापकानां वेदत्वप्रसिद्ध्या च वेदसामनामकयोनिग्रन्थसदृशत्वात्। इति चेत्- मैवम्। अपौरुषेयत्वे विधिवैयर्थ्यप्रसङ्गात्। ''यद्योन्यां, तदुत्तरयोर्गायति'' इति विधीयते। अयमर्थः अपौरुषेयत्वेन संप्रतिपन्ने वेदसामनामके ग्रन्थे ''कयानश्चित्र आभुवत्'' इत्येतस्यां योन्यामेकस्यामृचि यद्वामदेव्यनामकं सामोपदिष्टम्, तदेवोत्तरयोर्ऋचोः ''कस्त्वा सत्यो मदानाम्'' ''अभीषुणः सखीनाम्'' इत्यनयोर्द्वितीयतृतीययोर्गातव्यम्- इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्। वेदसामवदध्ययनादेव तत्सिद्धेः। उपरितन ऋग्द्वये सामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभूतानां तिसृणामृचां च वेदत्वादनध्याया वर्जनीयाः। कर्तुरस्मरणं जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपन्नम्। अस्मरणमूलैवाध्यापकानां वेदत्वप्रसिद्धिः। यथा बह्वृचा अध्यापका महाव्रतप्रयोगप्रतिपादकमाश्वलाघ्यननिर्मितं कल्पसूत्रमरण्येऽधीयानाः पञ्चमारण्यकमिति वेदत्वेन व्यवहरन्ति। न च तस्यापि वेदत्वमस्तु- इति वाच्यम्। प्रथमारण्यकेन पुनरुक्तत्वात्, अर्थवाद साहित्येन ब्राह्मणसादृश्याभावाच्च। तस्मात्- पञ्चमारण्यकवदूहः पौरुषेयः। पौरुषेयस्य च न्यायमूलत्वाद्यत्र वक्ष्यमाणन्यायविरोधः, तदप्रमाणम्।  द्वितीये साम्न ऋक्संस्कारकर्मताधिकरणे सूत्राणि 3-13   कर्म वा विधिलक्षणम्।। 3।।  तदृग्द्रव्यं वचनात्पाकयज्ञवत्।। 4।।  तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश्च।। 5।।  शब्दार्थत्वात्तु नैवं स्यात्।। 6।।  परार्थत्वाच्च शब्दानाम्।। 7।।  असंबन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात्।। 8।।  संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात्।। 9।।  अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत।। 10।।  आश्रितत्वाच्च।। 11।।  प्रयुज्यत इति चेत्।। 12।।  ग्रहणार्थं प्रयुज्येत।। 13।। द्वितीयाधिकरणमारचयति- सामर्चं प्रति मुख्यं स्याद्गुणो वा बाह्यपाठतः। मुख्यमभ्यसितुं पाठो गुणो गीताक्षरैः स्तुतेः।। 3।। ''रथंतरं गायति'' इत्यादौ यद्गानं विहितं, तदेव सामशब्दार्थः- इति प्रतिपादितं स्मारितं च। तदेतद्गानमृचं प्रति प्रधानकर्म स्यात्। कुतः- यागप्रयोगाद्बहिरध्ययनकालेऽपि पठ्यमानत्वात्। गुणकर्मत्वे तु व्रीहिप्रोक्षणादिवद्यागप्रयोगमध्य एव गानमनुष्ठीयेत। ततो बहिर्गानस्य विश्वजिदादिवत्फलं कल्पनीयम्। मध्यकालीनगानं तु प्रयाजादिवदारादुपकारकम्। तस्मात्- मुख्यमेतत्, न तु गुणकर्म। इति प्राप्ते- ब्रूमः- न तावद्बहिः पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति। भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः। यथा भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति, यथा वा छात्रः शुष्केष्ट्या प्रयोगपाटवं संपादयति, तद्वत्। नापि गुणकर्मत्वे प्रयोजनाभावात्प्रधानकर्मत्वम्- इति वाच्यम्। गानेन संस्कृतैर्ऋगक्षरैः स्तुतिसंभवात्। 'आज्यैः स्तुवते' 'पृष्ठैः स्तुवते' इति स्तुतिविधानात्। तस्मात्- ऋगक्षराणां स्वरविशिष्टत्वाकाराभिव्यक्तिर्दृष्टं प्रयोजनमित्यदृष्टस्याकल्पनीयत्वाद्गानं संस्कारकर्म।। 3।।  तृतीये- तृचे प्रत्यृचं कृत्स्नसाम्नः समापनाधिकरणे सूत्राणि 14-20   तृचे स्याच्छ्रुतिनिर्देशात्।। 14।।  शब्दार्थत्वाद्विकारस्य।। 15।।  दर्शयति च।। 16।।  वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्संस्कारस्य तदर्थत्वात्।। 17।।  तथा चान्यार्थदर्शनम्।। 18।।  अनवानोपदेशश्च तद्वत्।। 19।।  अभ्यासेनेतरा श्रुतिः।। 20।। तृतीयाधिकरणमारचयति- अंशैः सामर्क्षु कृत्स्नं वा प्रत्यृचं तिसृभिः श्रुतेः। अंशैर्मैवं स्तुतेरंशैरसिद्धेः प्रत्यृचं भवेत्।। 4।। ''एकं साम तृचे क्रियते स्तोत्रीयम्'' इति श्रूयते। तत्र त्रेधाविभक्तेषु सामांशेष्वेकैकोंऽश एकैकस्यामृचि गातव्यः। कुतः- एकस्य साम्नस्तिसृभिर्ऋग्भिर्निष्पादनस्य श्रवणात्। इति प्राप्ते- ब्रूमः- 'स्तोत्रीयम्' इति स्तुतिनिष्पादकत्वं कृत्स्नस्य साम्नो विधीयते, न तु सामांशानाम्। स्तुतिर्नाम गुणकथनपरमेकं वाक्यम्। तच्च वाक्यमेकस्यामृचि संपूर्णम्। ततः कृत्स्नेन साम्ना तद्वाक्यं संस्कार्यमिति प्रत्यृचं सामाभ्यसनीयम्। तथा सति द्वितीयतृतीययोर्ऋचोस्तस्यैव साम्न आवर्तमानतया सामान्तरत्वाभावादृक्त्रय-निष्पाद्यत्वमप्यविरुद्धम्। तस्मात्- प्रत्यृचं कृत्स्नं साम समापनीयम्।। 4।।  चतुर्थे- समास्वेव तिसृष्वृक्षु गानाधिकरणे सूत्रे- 21-22   तदभ्यासः समासु स्यात्।। 21।।  लिङ्गदर्शनाच्च।। 22।। चतुर्थाधिकरणमारचयति- तिसृष्वृक्षूदितं साम विषमासु समासु वा। यथेच्छानियमादन्त्यः शरलेशापनुत्तये।। 5।। विषमच्छन्दस्कासु समच्छन्दस्कासु वा तिसृष्वृक्षु स्वेच्छया साम गातव्यम्। 'इत्थमेव' इति नियामकस्य कस्यचिदभावात्। इति चेत्- मैवम्। शरलेशप्रसङ्गस्य नियामकत्वात्। शरो हिंसा, लेशोऽल्पत्वम्। 'शॄ हिंसायाम्' 'लिश अल्पीभावे' इत्येतद्धातुद्वयदर्शनात्। यद्यधिकच्छन्दस्कायां योनावुत्पन्नं साम न्यूनच्छन्दस्कयोरुत्तरयोर्गायेत्, तदा सामभागेनैव तत्पूर्तेरवशिष्टः सामभाग आश्रयाभावाद्विनश्येत्। यदि योनेरप्यधिकच्छन्दस्कयोर्गायेत्, तदा साम्नोऽल्पत्वादवशिष्ट ऋग्भागः सामरहितः स्यात्। तस्मात्- समानच्छन्दरकास्वेव गातव्यम्।। 5।।  पञ्चमे प्रथमवर्णके 'उत्तरयोर्गायति' इत्यत्रोत्तराग्रन्थस्थयोर्ऋचोर्ग्रहणाधिकरणे सूत्रे 23-24   नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत।। 23।।  ऐकार्थ्याच्च तदभ्यासः।। 24।। पञ्चमाधिकरणे प्रथमवर्णकमारचयति- छन्दःस्थयोरुत्तरास्थयोर्वा गीतेरिहोहनम्। अविशेषाद्विकल्पः स्यादन्त्यः संज्ञाबलित्वतः।। 6।। सामगानामृक्पाठाय द्वौ ग्रन्थौ विद्येते- छन्दः, उत्तरा चेति। तत्र छन्दोनामके ग्रन्थे नानाविधानां साम्नां योनिभूता एवर्चः पठिताः, उत्तराग्रन्थे तृचात्मकानि सूक्तानि पठितानि। एकस्मिंस्तृचे छन्दोगता योन्यृक्प्रथमा, इतरे द्वे उत्तरे। एवं स्थिते सति 'रथंतरमुत्तरयोर्गायति। यद्योन्यां तदुत्तरयोर्गायति' इत्यत्र द्विविधे उत्तरे संभाविते। रथंतरस्य च्छन्दोग्रन्थे ''अभि त्वा शूर'' इतीयमृग्योनित्वेन पठिता। तस्या उपरि ''त्वामिद्धि हवामहे'' इत्यादयो बृहदादिसाम्नां योनयः पठिताः। उत्तराग्रन्थे तु ''आत्वा शूर'' इति सूक्ते तस्या ऋच ऊर्ध्वं ''न त्वा वाँ अन्ये'' इत्येषा साम्नः कस्याप्ययोनिभूता पठिता। तत्र च्छन्दोग्रन्थापेक्षया सामान्तरयोर्योनी द्वे रथंतरस्य स्वयोन्युत्तरे भवतः। उत्तराग्रन्थापेक्षया तृचगते द्वितीयतृतीये स्वयोन्युत्तरे भवतः। तत्र विशेषनियामकाभावाद्ययोः कयोश्चिदुत्तरयोर्गानम्। इति चेत्- मैवम्। 'उत्तरा' इति संज्ञा सहसा बुद्धिस्था भवति, प्रतियोगिनिरपेक्षत्वात्। पूर्वपठितानां योनिमृचमपेक्ष्य यदुत्तरात्वम्, तद्विलम्बेन प्रतीयमानत्वाद्दुर्बलम्। ईदृशमेवोत्तरात्वं छन्दसि पठितयोः स्वयोन्यनन्तरभाविन्योः सामान्तरयोन्योर्द्वयोर्ऋचोः। तृचगतयोस्तु द्वितीयतृतीययोरुत्तरात्वं संज्ञया वर्तते। अतस्तयोरेव गानम्। एवं सति पूर्वाधिकरणनिर्णीतं समास्वेव गानमनुगृहीतं भवति। किंच तृचात्मकेषु सूक्तेषु या प्रथमा योनिभूता तन्नाम्ना छन्दोग्रन्थस्य 'योनिग्रन्थः' इत्यध्यापकसमाख्या। इतरस्य तु तृचसंघरूपस्य ग्रन्थस्योपरितनयोर्ऋचोर्नामधेयेन 'उत्तरा' इति समाख्या। स एव ग्रन्थः कर्माङ्गसमर्पकं प्रकरणम्। पञ्चदशसप्तदशादिस्तोमानां तृचेष्वेवोत्पत्तेः। तस्मादुत्तराग्रन्थस्थयोस्तृचगतयोर्द्वितीयतृतीययोरयमूहः।। 6।।  द्वितीयवर्णके- अतिजगत्यामभ्यस्यमानायां त्रिशोकगानाधिकरणे सूत्राणि 21-24   तदभ्यासः समासु स्यात्।। 21।।  लिङ्गदर्शनाच्च।। 22।।  नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत।। 23।।  ऐकार्थ्याच्च तदभ्यासः।। 24।। द्वितीयवर्णकमारचयति- त्रैशोकेति जगत्यौ द्वे आग्नेये गीतयेऽथवा। बृहत्या वादिमः याम्यान्नोत्तरात्वश्रुतेर्बलात्।। 7।। द्वादशाहे चतुर्थेऽहनि त्रैशोकनामकं साम विहितम्। तच्च ''विश्वाः पृतनाः'' इत्येतस्यामतिजगत्यामुत्पन्नम्। तस्मिंश्च तृचे तस्या योनेरुत्तरे बृहत्यौ ''नेमिं नमन्ति'' इत्यादिके आम्नाते। तत्र बृहत्यावुपेक्ष्य तयोः स्थाने द्वे उत्पत्तिसिद्धे अतिजगत्यावानीय तासु तिसृषु गेयम्। तथासति समासु गानं पूर्वत्र निर्णीतमनुगृह्यते। 'अतिजगतीषु स्तुवन्ति' इति श्रूयमाणमतिजगतीबहुत्वमन्यथा नोपपद्येत। इति चेत्- मैवम्। 'उत्तरयोर्गायति' इत्युक्तस्य संज्ञारूपस्योत्तराशब्दस्याधीयमानयोर्बृहत्योर्मुख्यत्वात्। श्रुतिश्च बहुत्वलिङ्गात् 'समासु गानम्' इति न्यायाच्च बलीयसी। यदेतदतिजगतीबहुत्वम्, तद्बृहत्योः स्वीकारेऽप्युपपद्यते। एकविंशस्तोमस्यात्र विहितत्वेन तत्सिद्धये प्रथमाया अतिजगत्याः सप्तकृत्व आवर्तनीयत्वात्। तस्मात्- त्रैशोकं साम बृहत्योरूहनीयम्।। 7।।  षष्ठे वर्णकचतुष्टयसहिते सूत्राणि 25-28   प्रागाथादिकं तु।। 25।।  स्वे च।। 26।।  प्रगाथे च।। 27।।  लिङ्गदर्शनाव्यतिरेकाच्च।। 28।। षष्ठाधिकरणे (बृहृतीपङ्क्योरेव प्रगाथेन रथंतरस्य गानसाधकं) प्रथमवर्णकमारचयति- रथंतरे ककुब्ग्राह्या ग्रथ्या वाद्योऽर्थवत्त्वतः। पुनःपदाप्रसिद्ध्यादेरन्त्योऽर्थोऽन्यत्र वीक्ष्यताम्।। 8।। इदमाम्नायते- ''न वै बृहद्रथंतरमेकच्छन्दो, यत्तयोः पूर्वा बृहती, ककुभावुत्तरे'' इति। अयमर्थः 'बृहद्रथंतरं तदेतत्सामद्वयमितरसामवदेकच्छन्दस्कं न भवति। यस्मात्कारणात्तयोबृहद्रथंतरसाम्नोराश्रयभूतास्वृक्षु पूर्वा बृहतीछन्दस्का, उत्तरे तु द्वे ऋचौ ककुप्छन्दस्के। इतरेषां वामदेव्यादिसाम्नामाश्रये तृचेऽवस्थितास्तिस्त्र ऋच एकच्छन्दस्का उत्तराग्रन्थ आम्नाताः, संशरविलेशपरिहाराय 'समासु गायेत्' इति न्यायेन निर्णीताश्च। इह तु वाचनिकं विषमच्छन्दस्कासु गानम्'- इति। तत्र रथंतरस्याश्रयतया तृचो नोत्तराग्रन्थे समाम्नातः। किं तर्हि, प्रगाथस्तदाश्रयत्वेनाम्नातः। स च द्वाभ्यामृग्भ्यां निष्पन्नत्वान्न तृचो भवति। तयोश्च द्वयोर्ऋचोः ''अभि त्वा शूर'' इत्येषा प्रथमा, सा च बृहती। ''न त्वा वा अन्यो दिव्यः'' इत्येषा द्वितीया, सा च पङ्किंच्छन्दस्का। तथा सति तां पङ्क्तिमपनीय तस्याः स्थाने दाशतयीगते द्वे उत्पत्तिककुभावृचौ ग्रहीतव्ये। कुतः- अर्थवत्त्वात्। उदाहृतेन 'ककुभावुत्तरे' इति वाक्येन रथंतरसाम्न आश्रयत्वेन ककुभोर्विनियुज्यमानयोः ककुबुत्पत्तिरर्थवती भवति। अन्यथा वैयर्थ्यं स्यात्। किंच- आम्नाताया एकस्याः पङ्क्तेः स्वीकारे सत्यृचोर्द्वयोरेव लाभात् 'एकं साम तृचे क्रियते, स्तोत्रीयम्' इति वचनं विरुध्येत। तस्मात्- रथंतरसाम्नि द्वे ककुभावुत्तरे ग्रहीतव्ये। अयमेव न्यायो बृहत्साम्न्यपि योजनीयः। इति प्राप्ते- ब्रूमः- आम्नातयोर्बृहतीपङ्क्त्योरेव ककुब्ग्रथनीया। तथा हि ''अभि त्वा शूर'' इत्येषा बृहती प्रथमा स्तोत्रीया। तस्यामविकृतायामेव रथंतरं गातव्यम्। ततस्तस्यामृचि चतुर्थं पादं पुनरुपादायोत्तरस्याः पङ्क्तेः पूर्वार्धेन सह ग्रथनीयम्। सेयमष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रीया। सा चैका ककुप्संपद्यते। तस्यां च ककुभि चरमं पादं पङ्क्त्युत्तरार्धेन सह प्रग्रथ्य तृतीया स्तोत्रीया कर्तव्या। सा च द्वितीया ककुप्संपद्यते। अनेन प्रग्रथनप्रकारेण द्वयोर्ऋचोराम्नातयोस्तृचनिष्पत्तेर्नास्त्युक्तो वचनविरोधः। अस्मिन्ग्रथने 'पुनः पदा' इति श्रौतोक्तिर्लिङ्गम्। तथा च श्रूयते ''एषा वै प्रतिष्ठिता बृहती या पुनःपदा। तद्यत्पदं पुनरारभते। तस्माद्वत्सो मातरमभिहिंकरोति'' इति। अयमर्थः- 'या बृहती पुनःपदा भवति, सैषा प्रतिष्ठिता स्थिरा भवति। पदं चतुर्थः पादः। स ह्यृगन्तरसंपादनाय पुनः पठ्यते। ततः सा बृहती पुनःपदा। सेयमृग्माता। तस्याः पादो वत्सः। तथा सति यस्मादृक्चतुर्थपादमुद्गाता पुनरारभते। तस्मात्- लोके वत्सो मातरमभिलक्ष्य हिमिति शब्दं करोति' इति। न केवलं लिङ्गमात्रेण प्रग्रथनम्। किंतु छन्दोगानां प्रसिद्ध्याऽपि। ते ह्येवं स्मरन्ति 'काकुभः प्रगाथः' इति। किंच प्रगाथशब्दार्थपर्यालोचनेनापि ग्रथनं गम्यते। प्रकर्षेण गानं यत्र स प्रगाथः। प्रकर्षो नामाम्नातादृक्पाठादाधिक्यम्। तच्च पूर्वोक्तनीत्या पादाभ्यासपुरःसरमृगन्तरसंपादनेनोपजायते। तस्मात्- नोत्पत्तिककुभौ ग्रहीतव्ये। किं तर्हि प्रग्रथनेन द्वे उत्तरे ककुभौ संपाद्य तासु तिसृषु रथंतरं गातव्यम्। तथा बृहदपि। एवं सति पङ्क्तेः पाठः सार्थो भवति। न च- एवं ककुबुत्पत्तेर्वैयर्थ्यमिति शङ्कनीयम्, वाचः स्तोभे तदुपयोगात्। तस्मान्न काऽपि प्रग्रथनेऽनुपपत्तिः।। 8।।  बृहतीविस्तारपङ्क्त्योः प्रग्रथनेन रौरवयौधाजयसाम्नोर्गानसाधकं  द्वितीयवर्णकमारचयति- यौधाजये रौरवे च बृहत्योरागमोऽथवा। ग्रथनं पूर्ववत्पक्षौ षष्टिलिङ्गमिहोच्यते।। 9।। इदमाम्नायते ''रौरवयौधाजये बार्हते तृचे भवतः'' इति। अयमर्थः 'रौरवनामकं किंचित्साम, तथा यौधाजयनामकमपरम्। तयोर्द्वयोः साम्नोर्बृहतीछन्दस्कस्तृच आश्रयः' इति। उत्तराग्रन्थे तु तस्य सामद्वयस्याश्रय एकः प्रगाथ आम्नातः। तस्मिंश्च प्रगाथे ''पुनानः सोम'' इत्यसावृक्प्रथमा। सा च बृहती। ''दुहान ऊधर्दिव्यम्'' इत्यसावृग्द्वितीया, सा तु विष्टारपङ्क्तिः। तामेनां विष्टारपङ्क्तिमपनीय तस्याः स्थान उत्पत्तिबृहत्यौ द्वे ऋचावानेतव्ये। इति पूर्वः पक्षः। बृहतीविष्टारपङ्क्योः प्रग्रथनविशेषेण द्वे बृहत्यावुत्तरे संपादनीये इति राद्धान्तः। तत्रोभयत्र युक्तिः पूर्वन्यायेन द्रष्टव्या। लिङ्गं त्वेवमाम्नायते ''षष्टिस्त्रिष्टुभोमाध्यंदिनं सवनम्'' इति। अयमर्थः- 'रौरवयौधाजयनामके सामनी माध्यंदिनसवने गीयेते। तस्मिंश्च सवने त्रिष्टुप्छन्दस्का ऋचः षष्टिर्भवन्ति' इति। सेयं षष्टिसंख्या प्रग्रथनपक्ष उपपद्यते। तथा हि माध्यंदिनसवने पवमान एकः। पृष्ठस्तोत्राणि चत्वारि। पवमाने त्रीणि सूक्तानि। ''उच्चा ते जातम्'' इत्येकं सूक्तम्। तत्र गायत्र्यस्तिस्त्र ऋचः। ''पुनानः सोम'' इति द्वितीयं सूक्तम्। तच्च प्रगाथरूपम्। तत्र पूर्वा बृहती, उत्तरा विष्टारपङ्क्तिः। ''प्र तु द्रव परिकोशम्'' इति तृतीयं सूक्तम्। तत्र त्रिष्टुभस्तिस्त्रः। पृष्ठस्तोत्रेषु ''अभि त्वा शूर'' इति प्रगाथरूपम्। तत्र पूर्वा बृहती, उत्तरा पङ्क्तिः। ''कया नश्चित्र'' इति द्वितीयम्। तत्र तिस्रो गायत्र्यः। ''तं वो दस्ममृतीषहम्'' इति तृतीयं प्रगाथरूपम्। तत्र बृहतीपङ्क्त्यौ। ''तरोभिर्वो विदद्वसुम्'' इति प्रगाथरूपं चतुर्थम्। तत्रापि बृहतीपङ्क्त्यौ। एवमस्मिन्सवने सप्त सूक्तानि। तेषु नव सामानि गेयानि। प्रथमे सूक्ते- गायत्रम्, आमहीयवं चेति द्वे सामनी। द्वितीये- रौरवं, यौधाजयं च। तृतीये- औशनम्। चतुर्थे- रथंतरम्। पञ्चमे- वामदेव्यम्। षष्ठे- नौधसम्। सप्तमे- कालेयम्। तत्र प्रथमसूक्तस्य सामद्वयनिष्पत्तये द्विरावृत्तावाश्रयभूता ऋचः षड्गायत्र्यो भवन्ति। पञ्चमसूक्तगता वामदेव्यसामाश्रयभूतास्तिस्त्र ऋचः सप्तदशस्तोमसिद्ध्यर्थमावर्तमानाः सप्तदश गायत्र्य इत्येवं मिलित्वा त्रयोविंशतिर्गायत्र्यः। षष्ठे सूक्ते बृहतीपङ्क्त्योः प्रग्रथनेन बार्हतस्तृचो भवन्ति। तथा सप्तमेऽपि। तत्रोभयत्र सप्तदशस्तोमे सति चतुस्त्रिंशद्बृहत्यो भवन्ति। चतुर्थसूक्ते रथंतरसामार्थं पूर्ववर्णकोक्तनीत्या प्रग्रथने सति द्वे ककुभावुत्तरे भवतः। प्रथमा तु स्वतःसिद्धा बृहती। तत्र सप्तदशस्तोमे कृते पञ्च बृहत्यो द्वादश ककुभश्च संपद्यन्ते। तस्य च स्तोमविधायकं ब्राह्मणमेवमाम्नायते- ''पञ्चभ्यो हिंकरोति स तिसृभिः, स एकया, स एकया। पञ्चभ्यो हिंकरोति स एकयाः, स तिसृभिः, स एकया। सप्तभ्यो हिंकरोति स एकया, स तिसृभिः स तिसृभिः'' इति। अयमर्थः- 'एका स्वतःसिद्धा बृहती, प्रग्रथिते द्वे ककुभौ- इत्येवंविधस्तृचस्त्रिभिः पर्यायैरावर्तनीयः। प्रथमे पर्याये- त्रिर्बृहती गातव्या। सकृत्सकृत्ककुभौ। द्वितीये पर्याये- सकृद्बृहती, त्रिवारमनन्तरा ककुप्, सकृदन्त्या ककुप्। तृतीये पर्याये- सकृद्बृहती, त्रिस्त्रिः, त्रिवारमनन्तरा ककुप्, सकृदन्त्या ककुप्। तृतीये प्रर्याये- सकृद्बृहती, त्रिस्त्रिः ककुभौ' इति। हिंकरोति हिंकारोपलक्षितं गानं कुर्यादित्यर्थः। तदेवं तृतीयसूक्तव्यतिरिक्तेषु षट्सु सूक्तेषु त्रयोविंशतिर्गायत्र्यः, पञ्चचत्वारिंशद्बृहत्यः, द्वादश ककुभः संपन्नाः। तत्र- ककुबष्टाविंशत्यक्षरा। तस्यां षोडशाक्षरे गायत्रीपादद्वये योजिते चतुश्चत्वारिंशदक्षरा त्रिष्टुप्संपद्यते। अनया दिशा द्वादशानां ककुभां त्रिष्टुप्संपादनाय चतुर्विंशतिर्गायत्रीपादा योजनीयाः। तथा सति अष्टौ गायत्र्यो गताः, पञ्चदश गायत्र्योऽवशिष्यन्ते। तासां पञ्चचत्वारिंशत्पादाः। तांश्च तावतीषु बृहतीषु संयोज्य त्रिष्टुभः संपादनीयाः। तत एताः पञ्चचत्वारिंसत्ककुप्सु निष्पन्ना द्वादश तृतीये सूक्ते स्वतःसिद्धास्तिस्त्रः, इत्येवं प्रग्रथनपक्षे षष्टिस्त्रिष्टुभ उत्तराग्रन्थे समाम्नाता एव लभ्यन्ते। उत्पत्तिबृहत्यानयने तु प्रकरणाम्नातानां तावतीनामलाभात्प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। तस्मात्- 'त्रिष्टुभः षष्टिः' इत्येतद्बृहतीप्रग्रथनस्य लिङ्गम्। प्रग्रथनप्रकारस्त्वभिधीयते ''पुनानः सोम'' इत्यस्या बृहत्याश्चतुर्थं पादं पुनरुपादाय द्विरभ्यस्य ''दुहान ऊधर्दिव्यम्'' इत्येतस्या विष्टारपङ्क्तेः पूर्वार्धेन संयोजयेत्। सा बृहती भवति। एतदीयं चतुर्थं पादं द्विरभ्यस्योत्तरार्धेन योजयेत्। साऽपि बृहती भवति। तस्मात्- यौधाजयरौरवयोर्बृहत्यावुत्तरे ग्रथनीये। एवं नौधसकालेययोरपि द्रष्टव्यम्।। 9।। अनुष्टुष्गायत्र्योः प्रग्रथनेन श्यावाश्वान्धीगवयोर्गानसाधकं तृतीयं वर्णकमारचयति- श्यावाश्वान्धीगवेऽनुष्टुबानेया ग्रथ्यतेऽथवा। पुरेव लिङ्गं जगतीचतुर्विंशतिकीर्तनम्।। 10।। इदमाम्नायते- ''पञ्चच्छन्दा आवापः, आर्भवः पवमानः सप्तसामा। गाथत्रसंहिते गायत्रे तृचे भवतः। श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवतः। उष्णिहि सफम्। ककुभि पौष्कलम्। कावमन्त्यं जगतीषु'' इति। अयमर्थः- 'अस्ति तृतीयसवने पवमान आर्भवसंज्ञकः। तस्मिन्- पञ्च सूक्तानि, सप्त सामानि। ''स्वादिष्ठया मदिष्ठया'' इत्येकं सूक्तम्। तस्मिन्गायत्र्यस्तिस्त्र ऋचः। तासु गायत्रं संहितं चेति द्वे सामनी। ''पुरोजिती वो अन्धसः'' इति सूक्तान्तरम्। तत्र- एकाऽनुष्टुप्, उत्तरे द्वे गायत्र्यौ। तासु श्यावाश्वम्, आन्धीगवं चेति द्वे सामनी। ''इन्द्रमच्छसुता इमे'' इत्यपरं सूक्तम्। तस्मिन्नुष्णिहस्तिस्रः। तासु सफं साम। ''पवस्व मधुमत्तमः'' इति प्रगाथः। तस्मिन्पूर्वा ककुप्, उत्तरा पङ्क्तिः। तत्र पौष्कलं साम। ''अभि प्रियाणि पवते च नो हितः'' इत्यन्यत्सूक्तम्। तत्र तिस्रो जगत्यः। तासु कावं साम। एतेषां पञ्चानां सूक्तानां मध्ये पुरोजितीयः। 'परस्व' इत्यनयोः सूक्तयोर्यद्यपि द्वे द्वे छन्दसी, तथाऽपि समासु गानं निष्पादयितुं प्रग्रथने कृते सत्येकैकमेव च्छन्दः संपद्यते। ततो गायत्र्यनुष्टुवुष्णिक्ककुब्जगतीभिः पञ्चच्छन्दाः। 'पवमानोऽस्मिन्सवन आवपनीयः' इति। तत्र 'पुरोजितं वो' इत्यस्मिन्सूक्ते श्यावाश्वमान्धीगवं च समासु गातुमुत्तरे गायत्र्यावाम्नाते परित्यज्य द्वे उत्पत्त्यनुष्टुभावानेतव्ये। इति पूर्वः पक्षः। चतुर्थं पादं पुनरादाय द्वे अनुष्टुभौ ग्रथनीये- इति राद्धान्तः। तत्रोभयत्र पूर्ववर्णकद्वयन्यायेन युक्तिर्द्रष्टव्या। लिङ्गं त्वेवमाम्नायते- 'चतुर्विंशतिर्जगत्यस्तृतीयसवन एका च ककुप्' इति। सेयं संख्या प्रग्रथन उपपद्यते। तथा हि गायत्रसंहितयोः साम्नोराश्रये गायत्रे तृचे द्विरभ्यस्ते सति षड्गायत्र्यो भवन्ति। चतुर्विंशत्यक्षरा गायत्री। अष्टाचत्वारिंशदक्षरा जगती। ततः षड्भिर्गायत्रीभिस्तिस्त्रो जगत्यो भवन्ति। श्यावाश्वान्धीगवयोराश्रयभूता प्रग्रथिता द्विरभ्यस्ताः षडनुष्टुभो भवन्ति। मिलित्वा सप्त जगत्यः संपन्नाः। सफस्य पौष्कलस्य च सामान्तरवत्तृचे गानं न कर्तव्यम्। किंत्वेकैकस्यामृचि। तत्कुतोऽवगम्यते 'उष्णिहि, ककुभि' इति सप्तम्येकवचनान्ताभ्यां विशेषविधानात्। अष्टाविंशत्यक्षरयोरुष्णिक्ककुभोरेका जगती, गायत्रीपादश्च संपद्यते। ककुभि मध्यमः पादो द्वादशाक्षरः, उष्णिहि च परः पादः- इति तयोर्भेदः। कावस्याश्रयभूताः स्वतःसिद्धास्तिस्त्रो जगत्य इति मिलित्वा पवमानेऽस्मिन्नेकादश जगत्यो भवन्ति। गायत्रीपादश्चातिरिच्यते। आर्भवपवमानवत्तृतीयसवने यज्ञायज्ञीयस्तोत्रमेकमस्ति। तस्य चाश्रयः ''यज्ञायज्ञा वो अग्नयः'' इत्यसौ प्रगाथः। तत्र पूर्वा जगती, उत्तरा विष्टारपङ्क्तिः। तयोः प्रग्रथनेन ककुभावुत्तरे कर्तव्ये। तत्रैकविंशस्तोमः। तस्य विधायिका विष्टुतिरेवमाम्नायते ''सप्तभ्यो हिंकरोति, स तिसृभिः, स तिसृभिः, स एकया। सप्तभ्यो हिंकरोति, स एकया, स तिसृभिः, स तिसृभिः। सप्तभ्यो हिंकरोति, स तिसृभिः, स एकया, स तिसृभिः'' इति। अयमर्थः- 'प्रथमाया बृहत्यास्त्रिषु पर्यायेषु क्रमेण त्रिवारमेकवारं पुनस्त्रिवारम्- इति सप्तबृहत्यः। मध्यमायाः प्रथमद्वितीययोः पर्याययोस्त्रिस्त्रिः पाठः, अन्त्ये सकृत्। उत्तमायाः ककुभ आदौ सकृत्, द्वितीयतृतीययोस्त्रिस्त्रिः' इत्येवं चतुर्दश ककुभः। तासु ककुप्सु द्वादशाक्षरा मध्यपादाश्चतुर्दश। तेषु सप्त पादाः सप्तसु बृहतीषु योजनीयाः। ततः सप्त जगत्यो भवन्ति। अवशिष्टाक्षराः ककुभामाद्यपादा अन्त्यपादाश्च मिलित्वाऽष्टाविंशतिः। तेषु षड्भिः पादैरेका जगती, इत्यनेन क्रमेण चतुर्विंशतिपादैश्चतस्त्रो जगत्यो भवन्ति। ये तु द्वादशाक्षराः सप्त पादाः पूर्वमवशिष्टाः, तेषु पवमानशेषोऽष्टाक्षरः पादो योजनीयः, ककुभां शेषेष्वष्टाक्षरेषु चतुर्षु पादेषु चत्वार्यक्षराणि योजनीयानि। ते द्वे जगत्यौ भवतः। तदेवं यज्ञायज्ञीयस्तोत्रे त्रयोदश जगत्यः, पूर्वोक्ताः पवमानगता एकादश, इति चतुर्विंशतिर्जगत्यः। चतुरक्षरवर्जिताश्चत्वारोऽष्टाक्षरपादा मिलित्वा ककुबेका भवति। अनेन लिङ्गेन श्यावाश्वमान्धीगवं च प्रग्रथिते तृचे गातव्यम्। न तु तत्रोत्पत्त्यनुष्टुबानयनमिति स्थितम्।। 10।। (पादप्रग्रथनेन ब्रह्मसामगानसाधकं) चतुर्थवर्णकमारचयति- चतुःशते प्रग्रथनमृचः पादस्य वाऽग्रिमः। तृचे मुख्यत्वतो मैवमृगन्यत्वस्य वर्णनात्।। 11।। गवामयने ब्रह्मसाम विहितम्- ''अभीवर्तो ब्रह्मसामँ भवति'' इति प्रकृत्य श्रूयते ''चतुः शतमैन्द्रा बार्हताः प्रगाथाः'' इति। चतुरुत्तरशतसंख्याका इन्द्रदेवताका बृहतीछन्दस्काः प्रगाथा ऋग्द्वयात्मकाः। तेषु- एकप्रगाथगते द्वे ऋचौ द्वितीयप्रगाथगतामृचं च प्रग्रथ्य तृचेऽभीवर्तनामकं साम गातव्यम्। तथा सति- आम्नातानामविकृतानामेव तिसृणामृचां लाभात्तृचस्य मुख्यत्वं भवति। पूर्वोक्तनीत्या पादप्रग्रथने तु विकृतत्वादमुख्यस्तृचः स्यात्। इति प्राप्ते- ब्रूमः- 'अन्या अन्या ऋचो भवन्ति, तदेव साम' इत्यृचामन्यत्वमत्र वर्ण्यते। तच्च पादप्रग्रथने संभवति। ऋक्प्रग्रथने तु येयमृक्पूर्वस्य तृचस्यान्त्या, सैवोत्तरस्य तृचस्याद्या, इत्यन्यत्वमृचो न स्यात्। तस्मात्- पादस्य प्रग्रथनम्।। 11।।  सप्तमे गीतिसंपादकाक्षरविकारादीनां विकल्पाधिकरणे सूत्रम्   अर्थैकत्वाद्विकल्पः स्यात्।। 29।। सप्तमाधिकरणमारचयति- समुच्चेया विकल्प्या वा विभिन्ना गीतिहेतवः। आद्यः प्रयोगग्रहणादर्थैकत्वाद्विकल्पनम्।। 12।। छान्दोग्ये तलवकारादिशाखाभेदेषु विलक्षणा गीतिहेतवोऽक्षरविकारादय आम्नायन्ते। ते सर्वे कर्मानुष्ठाने समुच्चेतव्याः। कुतः- प्रयोगवचनेन सर्वेषां परिगृहीतत्वात्। मैवम्। एकैकशाखोक्तैरेवाक्षरविकारादिभिरध्ययनकाल इव गीतिस्वरूपनिष्पत्तेः। तन्निष्पत्तिलक्षणस्य प्रयोजनस्यैकत्वात्प्रयोगवचनपरिगृहीता अपि व्रीहियववद्बृहद्रथंतरवच्च विकल्प्यन्ते।। 12।।  अष्टमे- वर्णकत्रयसहिते सूत्रे 30-31   अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात्।। 30।।  वचनाद्विनियोगः स्यात्।। 31।। अष्टमाधिकरणे (साम्नैव स्तवविधानसाधकं) प्रथमवर्णकमारचयति- ऋक्सामाभ्यां विकल्पेन स्तुतिः साम्नैव वाऽग्रिमः। पुरेव मैवमृङ्निन्दासामप्राशस्त्यदर्शनात्।। 13।। क्वचित्कर्मविशेषे श्रूयते ''ऋचा स्तुवते। साम्ना स्तुवते'' इति। तत्र पूर्वन्यायेन विकल्पः। इति चेत्- मैवम्। ऋङ्निन्दासामप्रशंसयोर्वाक्यशेषेऽवगमात्। ''यदृचा स्तुवते, तदसुरा अन्ववायन्। यत्साम्ना स्तुवते, तदसुरा नान्ववायन्। य एवं विद्वान्साम्ना स्तुवीत'' इत्यृचं निन्दित्वा साम प्रशस्य लिङ्प्रत्ययेन साम विहितम्। तस्मात्- साम्नैव स्तोतव्यम्।। 13।। प्रगीतयैवर्चा वह्न्युपस्थानसाधकं द्वितीयवर्णकमारचयति- गानस्य नियमो नोत विद्यते वह्न्युपस्थितौ। नाम्नानद्वयतोऽस्त्येव प्रकृतत्वाच्छ्रुतेरपि।। 14।। क्वचित्कर्मविशेषे श्रूयते ''अयं सहस्रमानवः- इत्येतयाहवनीयमुपतिष्ठते'' इति। असावृगप्रगीता संहिताग्रन्थे समाम्नाता, प्रगीता गानग्रन्थे। ततो वह्नेरुपस्थाने तस्यामृचि गानं न नियतम्, किंतु विकल्पितम्। इति प्राप्ते- ब्रूमः- अस्त्येव नियमो गाने। कुतः- सामवेदे गानस्यैव प्रकृतत्वात्। ऋचां संहितापाठोऽत्र गानायैव। नह्याधारमन्तरेण गातुं शक्यते। अथोच्येत- ''अयं सहस्र'' इत्यृक्प्रतीकपूर्वकेण वाक्येनोपस्थानविधानाद्वाक्यस्य प्रकरणात्प्रबलत्वा-दृचैवोपस्थानमिति। तन्न। प्रकृतप्रगीतमन्त्रवाचिन्याः 'एतया' इति सर्वनामश्रुतेः प्रबलतरत्वात्। तस्मात्- प्रगीतयोपस्थानम्।। 14।। याज्यानुवाक्यादीनां तानेन(एकश्रुतिः) प्रयोगसाधकं तृतीयवर्णकमारचयति- त्रैस्वर्यादि समुच्चेयं विकल्प्यं तान एव वा। प्रयोगादर्थतो द्वौ नो वचनात्स्मृतिकल्पितात्।। 15।। ''अग्निर्मूर्धा'' इत्यादियाज्यानुवाक्यादयो मन्त्राः सामप्रसङ्गाद्विचार्यन्ते। ते च कस्यांचिच्छाखायां त्रैस्वर्येणाधीयन्ते। कैश्चिच्चातुःस्वर्येण। उदात्तानुदात्तस्वरितेभ्यो व्यतिरिक्तश्चतुर्थस्वर एकश्रुतिः। तां चाध्यापकाः 'प्रचयः' इत्याचक्षते। तत्र प्रयोगवचनस्य सर्वाङ्गोपसंहारित्वात्समुच्चयस्त्रैस्वर्यादीनाम्। इत्येकः पक्षः। अध्ययननिर्वृत्तिलक्षणस्य प्रयोजनस्यैकत्वाद्विकल्पः। इति द्वितीयः पक्षः। नैतौ द्वौ पक्षौ युक्तौ, एकश्रुतेर्व्याकरणस्मृतौ विहितत्वात्। तथा च पाणिनीयं सूत्रम्- 'यज्ञकर्मण्यजपन्यूङ्खसामसु' (1।2।34) इति। ''अग्निं गृह्णामि सुरथम्'' इत्यादयो मन्त्रा यजमानेनैव जप्यन्ते। न्यूङ्खाः प्रणवाः। सामानि रथंतरादीनि। एतेभ्यो जपादिभ्यो व्यतिरिक्तानां मन्त्राणां यज्ञकर्मण्येकश्रुतिर्भवति। अनया च स्मृत्याऽनुमितं वेदवाक्यमेतत्- ''तानो यज्ञकर्मणि'' इति। 'तानः' इत्येकश्रुतेः पूर्वाचार्यसंज्ञा। न च- एकश्रुतित्वे स्वराध्ययनं व्यर्थमिति वाच्यम्। स्वरविशेषेण बहुव्रीहितत्पुरुषसमासादिनिश्चये सत्यर्थविशेषस्यावबोद्धुं शक्यत्वात्। जपादिषु तु यथाध्ययनं स्वरः प्रयोक्तव्यः।। 15।।  नवमे- उत्तरावर्णवशेन गानाधिकरणे सूत्रे 32-33   सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात्।। 32।।  वर्णे तु बादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात्।। 33।। नवमाधिकरणमारचयति- आयीभावो योनिवशादुत्तरावशतोऽथवा। गीत्यर्थत्वादादिमोऽन्त्यो वर्णाभिव्यञ्जकत्वतः।। 16।। ''यद्योन्याम्, तदुत्तरयोर्गायति'' इति श्रूयते। तत्र ''कया नश्चित्र आभुवत्'' इत्यसावृग्योनिः। तस्यामृचि 'कया' इत्यक्षरद्वयमाद्यो भागः। 'नश्चित्र आभुवत्' इत्यक्षरषट्कं द्वितीयो भागः। तस्मिन्भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थान आयीभावमाम्नाय गीतिर्निष्पादिता। ''कस्त्वा सत्यो मदानाम्'' इत्यनन्तरभाविन्युत्तरा। तस्यां योनिन्यायेन चतुर्थाक्षरे तकारस्योपरितनं यकारमोकारं च लोपयित्वा तयोः स्थान आयीभावः। 'अभीषुणः' इत्यसावपरोत्तरा। तस्यामपि चतुर्थाक्षरे णकारस्योपरितनमकारं लोपयित्वा तस्य स्थान आयीभावः कर्तव्यः। अन्यथा गीतिनाशप्रसङ्गात्। इति प्राप्ते- ब्रूमः- नात्र योनौ वर्णान्तरस्यागमः कृतः। किं तर्हि विद्यमान एव चकारस्योपरितन इकारः सामप्रसिद्धया प्रक्रियया वृद्धः सन्नैकारो भवति। तस्य संध्यक्षरत्वादकारः पूर्वभागः, ईकार उत्तरभागः। तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्येते। तथा च सामगा आहुः- 'वृद्धं तालव्यमायी भवति' इति। तथा सति चतुर्थाक्षरे नास्ति तालव्य इकार इत्यायीभावो न कर्तव्यः। ''अभीषुणः सखीनामविता जरितॄणाम्'' इत्येत-स्यामुत्तरायां द्वादशाक्षरगतस्य रेफस्योपरितन इकारः पूर्ववदायी भवति। सोऽयमायीभाव उक्तनीत्या वर्णा-भिव्यञ्जकत्वादुत्तरागतवर्णवशेन कर्तव्यः। गीत्यर्थत्वाभावेन योनिक्रमे तेन विनाऽपि न गीतिर्विनश्यति।। 16।।  दशमे- उत्तरयोः स्तोभातिदेशाधिकरणे सूत्राणि 34-38   स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत्।। 34।।  सर्वातिदेशस्तु सामान्याल्लोकवद्विकारः स्यात्।। 35।।  अन्वयं चापि दर्शयति।। 36।।  निवृत्तिर्वाऽर्थलोपात्।। 37।।  अन्वयो वाऽर्थवादः स्यात्।। 38।। दशमाधिकरणमारचयति- स्तोभा नोत प्रदिश्यन्ते नागीतित्वेन वर्णवत्। स्वरादिवत्प्रदिश्यन्ते गीतिकालोपयोगतः।। 17।। वामदेव्यसाम्नो योनौ द्वयोरर्धयोर्मध्य ओकारद्वयेन हो शब्देन हायीशब्देन च निष्पन्नः स्तोम एवमाम्नातः- ''ओ ओ हो हायी'' इति। सोऽयं स्तोभो नोत्तरयोरतिदिश्यते। कुतः- अगीतित्वात्। इह गीतिमात्रमतिदिश्यते। तत्र प्रथमाया ऋचो वर्णा यथा नातिदिश्यन्ते, तथा स्तोभा अपि। इति प्राप्ते- ब्रूमः- स्वरो वर्णविशेषो विराम इत्येते गीत्युपयोगित्वाद्यथाऽतिदिश्यन्ते, तथा स्तोभा अपीति कालपरिच्छेदकत्वादतिदिश्यन्ताम्।। 17।।  एकादशे- स्तोभलक्षणाधिकरणे सूत्रम्   अधिकं च विवर्णं च जैमिनिः स्तोभशब्दत्वात्।। 39।। एकादशाधिकरणमारचयति- स्तोभस्य लक्षणं नास्ति किंवाऽस्ति, न विवर्णता। आधिक्यमप्यतिव्याप्तं विशिष्टं लक्षणं भवेत्।। 18।। न तावद्विवर्णत्वं तल्लक्षणम्, वर्णविकारस्य विपरीतवर्णत्वेन स्तोभत्वप्रसङ्गात्। ''अग्न आयाहि'' इत्यस्यामृचि, अकारस्य स्थान ओकारं कृत्वा गायन्ति ''ओग्नायी'' इति। 'अधिको वर्णः स्तोभः' इत्युक्ते सत्यभ्यासेऽतिव्याप्तिः। ''पिबासोममिन्द्र मन्दतु त्वा'' इत्येतस्यामृचि 'दतु त्वा' इत्यक्षरत्रयं गानकाले त्रिरभ्यस्तम्। अतो विकाराभ्यासयोरतिव्याप्तेर्नास्ति लक्षणम्। इति चेत्- मैवम्। 'अधिकत्वे सत्यृग्विलक्षणवर्णः स्तोभः' इति विशिष्टस्य तल्लक्षणत्वात्। लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमात्रहेतुं शब्दराशिं 'स्तोभः' इत्याचक्षते। तस्मात्- अस्ति लक्षणम्।। 18।।  द्वादशे- नीवारादिषु प्रोक्षणावघातादिधर्मानुष्ठानाधिकरणे सूत्रम्   धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात्।। 40।। द्वादशाधिकरणमारचयति- न स्युः स्युर्वाऽत्र नीवारा व्रीहिस्थानेऽमितेर्नहि। विकारतद्धितात्ते स्युः, प्रोक्षणादिरतो भवेत्।। 19।। मध्वाशनखपूतत्वपरिधीरापदेष्वपि। ये धर्माः षडहादीनां ते कार्याः स्थानपाततः।। 20।। सामोहो गतः। अथ संस्कारोहः। वाजपेये नैवारश्चरुः श्रुतः। तत्र नीवाराणां व्रीहिस्थानपाते प्रमाणाभावाद्व्रीहिधर्माः पोक्षणावघातादयो नीवारेषु न कर्तव्याः। इति चेत्- मैवम्। 'नैवारः' इत्यस्य विकारार्थतद्धितस्य व्रीहिस्थानीयत्वे प्रमाणत्वात्। यथा व्रीहयस्तण्डुलद्वारेण हविर्निष्पादसाधनम्, तथा नीवारा अपि। तस्मात्- सन्ति प्रोक्षणादयः। अयं न्यायो मध्वशनादौ योजनीयः। ''संस्थिते पृष्ठ्ये षडहे मध्वाशयेत्। घृतं वा'' इत्यत्र षडहधर्मो व्रतनियमादिर्मध्वशनैः कर्तव्यः। राजसूये ''नैर्ऋतं चरुं नखावपूतानाम्'' इत्यत्रोलूखलमुसलयोधर्मः प्रोक्षणं नखेषु कर्तव्यम्। चातुर्मास्येषु ''परिधौ पशुं नियुञ्जीत'' इत्यत्र यूपधर्मः पशुनियोजनं विस्पष्टमेव पशौ श्रुतम्। ज्योतिष्टोमे ''ऐरं कृत्वोद्वेयम्'' इत्यत्र गिरापदधर्म आयभिवादिरिरापदे कर्तव्यः।। 19।। 20।।  त्रयोदशे- परिधौ यूपधर्मानुष्ठानाधिकरणे सूत्राणि 41-43   तदुत्पत्तेस्तु निवृत्तिस्तत्कृतत्वात्स्यात्।। 41।।  आवेश्येरन्वाऽर्थवत्त्वात्संस्कारस्य तदर्थत्वात्।। 42।।  आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात्।। 43।। त्रयोदशाधिकरणमारचयति- न यूपधर्माः परिधौ सन्ति वाऽन्यार्थजत्वतः। नाविरोधादञ्जनाद्याः स्युर्नियोजनसाधने।। 21।। चतुर्मास्येषु यूपकार्यं पशुनियोजनं स्थविष्ठे मध्यमे परिधावाम्नायते ''परिधौ पशुं नियुञ्जीत'' इति। तत्र नियोजनकार्येण परिधेर्यूपस्थानीयत्वेऽपि न यूपधर्मास्तक्षणादयोऽञ्जनादयश्च तत्र युक्ताः। कुतः- अग्निपरिधानार्थं मध्यमपरिधेरितरपरिधिवदुत्पन्नत्वात्। इति चेत्- बाढम्। अन्यार्थमुत्पन्नस्यापि वचनान्नियोजनसाधनत्वमस्ति। यूपोऽपि पशुनियोजनार्थं संस्क्रियते। ततो नियोजनसाधने परिधौ युक्ताः संस्काराः। ननु परिधिस्त्वक्सहितः, शयानश्च। तत्र तक्षणोच्छ्रायौ यूपधर्मौ विरुध्येते। एवं तर्हि तौ मा भूताम्। अविरुद्धास्त्वञ्जनादयः कर्तव्याः। तथा सति संस्कार निमित्तस्य यूपशब्दस्य परिधावपि मुख्यत्वात्। 'यूपायाज्यमानायानुब्रूहि' इत्यस्मिन्प्रैषमन्त्रे 'परिधयेऽज्यमानाय' इत्येवमूहो न कर्तव्यः।। 21।।  चतुर्दशे- शृतादौ प्रणीताधर्मानुष्ठानाधिकरणे सूत्रे 44-45   परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात्।। 44।।  क्रियेरन्वाऽर्थनिर्वृत्तेः।। 45।। चतुर्दशाधिकरणमारचयति- शृतदध्नोः प्रणीतानां न धर्माः सन्ति वा नहि। अपाकार्थत्वतः, सन्ति पाकहेतुत्वसाम्यतः।। 22।। अभ्युदयेष्ट्यां ''शृते चरुम्। दधनि चरुम्'' इति शृतदधिनी आम्नाते। तयोः प्रणीताधर्मा न कर्तव्याः। हविःश्रपणार्थमुत्पन्ना उत्पवनादिधर्मसंस्कृता आपः प्रणीताः। दधिपयसी तु श्रपणार्थं नोत्पन्ने। किंतु हविष्ट्वेन प्रदानार्थमुत्पन्ने। ततः साम्याभावान्नोत्पवनादयो धर्मास्तयोः। इति चेत्- मैवम्। अन्यार्थमुत्पन्नयोरपि दधिपयसोरत्र चन्द्रोदयं निमित्तीकृत्य चरुश्रपणहेतुत्वं वाचनिकम्। ततः समानत्वात्तद्धर्माः सन्ति।। 22।।  पञ्चदशे- बृहद्रथंतरयोर्धर्मव्यवस्थाधिकरणे सूत्रे 46-47   एकार्थत्वादविभागः स्यात्।। 46।।  निर्देशाद्वा व्यवतिष्ठेरन्।। 47।। पञ्चदशाधिकरणमारयति- बृहद्रथंतरे धर्मैः संकीर्णे वा व्यवस्थिते। पृष्ठैक्यात्संकरो धर्मे निर्देशादेर्व्यवस्थितिः।। 23।। ज्योतिष्टोम विकल्पितं पृष्ठस्तोत्रं विहितम्- ''बृहत्पृष्ठं भवति। रथंतरं वा पृष्ठं भवति'' इति। तत्रोमयत्र धर्माः श्रुताः- ''बृहति स्तूयमाने मनसा समुद्रं ध्यायेत्। रथंतरे प्रस्तूयमाने संमीलयेत्'' इत्यादयः। ते ह्युभयत्र संकीर्येरन्, पृष्ठसिद्धिलक्षणस्य कार्यस्यैकत्वात्। इति चेत्- न। निर्देशभेदात्। सांकर्ये त्ववैलक्षण्येन 'बृहत्' इति, 'रथंतरम्' इति च द्वौ निर्देशौ नोपपद्येयाताम्। किंच- उभयधर्मसाहित्यं विरुद्धम्। 'उच्चैर्गेयम्। बलवद्गेयम्' इति बृहद्धर्माः। 'नोच्चैर्गेयम्। न बलवद्गेयम्' इति रथंतरधर्माः। तस्मात्- उभयोर्धर्मा व्यवतिष्ठन्ते।। 23।।  षोडशे- कण्वरथंतरे बृहद्रथंतरधर्मसमुच्चयाधिकरणे सूत्रम्   अप्राकृते तद्विकाराद्विरोधाद्व्यवतिष्ठेरन्।। 48।। षोडशाधिकरणमारचयति- तयोर्धर्माः समुच्चेया न वा कण्वरथंतरे। द्विस्थानत्वाद्भाष्य आद्यो विरोधाद्वार्तिकेऽन्तिमः।। 24।। वैश्यस्तोमे ''कण्वरथंतरं पृष्ठं भवति'' इति श्रूयते। तत्र कण्वरथंतराख्यसाम्नः प्राकृतयोः पृष्ठस्तोत्रसाधनयोर्बृहद्रथंतरयोरुभयोः स्थाने पतितत्वादुभयसंबन्धिधर्माः समुच्चेतव्याः। ये तु विरुद्धर्माः- 'उच्चैर्गेयम्' 'नोच्चैर्गेयम्' इत्यादयः, ते विकल्प्यन्ताम्। समुद्रध्याननिमीलनादीनां विरोधाभावात्। प्रकृताविव निर्देशभेदस्यात्राभावाच्च समुच्चयः। इति भाष्यकारस्य मतम्। विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद्विरुद्धधर्मस्वारस्याच्च विकल्प एव युक्तः, न तु समुच्चयः। इति वार्तिककारस्य मतम्। तत्रोभयत्र तत्तन्मतविपरीतः पूर्वः पक्ष उन्नेयः।। 24।।  सप्तदशे- द्विसामके बृहद्रथंतरयोर्व्यवस्थाधिकरणे सूत्रे 49-50   उभयसाम्नि चैवमेकार्थापत्तेः।। 49।।  स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत्।। 50।। सप्तदशाधिकरणमारचयति- द्विसामके द्वयोर्धर्मसांकर्यं वा व्यवस्थितिः। पृष्ठैक्यात्संकरो मैवं धर्माणां सामगत्वतः।। 25।। ''गोसव उभे कुर्यात्'' इत्यादिना गोसवादौ बृहद्रथंतरसामद्वयसाध्यं पृष्ठस्तोत्रं विहितम्। तत्र पृष्ठस्तोत्रस्यैकत्वेन धर्मव्यवस्थाया असंभवाद्बृहत्युभयधर्माः कर्तव्याः। रथंतरेऽप्युभयधर्मा इत्येवं सांकर्यम्। इति चेत्- मैवम्। न ह्येते पृष्ठस्तोत्रप्रयुक्ता धर्माः, किंतु सामप्रयुक्ताः। ततः- साम्नोर्भेदाद्धर्मा व्यवतिष्ठन्ते।। 25।।  अष्टादशे- सौर्यादिषु पार्वणहोमाद्यननुष्ठानाधिकरणे सूत्राणि 51-56   पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि।। 51।।  कालस्येति चेत्।। 52।।  नाप्रकरणत्वात्।। 53।।  मन्त्रवर्णाच्च।। 54।।  तदभावेऽग्निवदिति चेत्।। 55।।  नाधिकारिकत्वात्।। 56।। अष्टादशाधिकरणमारचयति- सौर्यादौ पार्वणौ होमौ स्तो न वा कालदेवकौ। स्तः संघदेवकौ संघाविकारत्वान्न तत्र तौ।। 26।। दर्शपूर्णमासयोः श्रूयते ''स्रुवेण पार्वणौ जुहोति'' इति। तत्र पर्वशब्दः कालविशेषवाची। ततः कालदेवकौ तौ होमावारादुपकारकतया प्रयाजादिवत्सौर्यादिविकृतिष्वतिदिश्यौ इति चेत्- मैवम्। पर्वशब्दस्याग्नेयादित्रिकसंघपरत्वात्। दानार्थवाचिनः पृणातेर्धातोर्निष्पन्नोऽयं पर्वशब्दः। स च 'प्रियते दीयतेऽस्मिन्' इत्यधिकरणव्युत्पत्त्या कालमाचष्टे। भावव्युत्पत्त्या तु क्रियापरः सन्प्रकरणवशादाग्नेयादिकर्मत्रयसंधमाह। तथा च मन्त्रवर्णोऽप्यनुगृहीतो भवति- ''ऋषभं वाजिनं वयं पूर्णमासं यजामहे'' इत्येको मन्त्रः। ''अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना'' इत्यपरो मन्त्रः। तत्र- अग्नीषोमवत्कर्मत्रयसंघस्य व्यासक्तदेवतात्वम्। न च संघस्य विकृतिः सौर्यादिः, किंतु- आग्नेयस्यैव। ततः संघार्थयोर्होमयोर्नास्ति सौर्यादौ प्राप्तिः।। 26।।  एकोनविंशे- दर्शपूर्णमासयोर्होमद्वयस्य व्यवस्थाधिकरणेसूत्रे 57-58   उभयोरविशेषात्।। 57।।  यदभीज्या वा तद्विषयौ।। 58।। एकोनविंशाधिकरणमारचयति- संकीर्णौ संघयोर्होमौ न वा प्रकरणादुभौ। संकीर्णावुपकार्यस्य भेदादेतौ व्यवस्थितौ।। 27।। दर्शपूर्णमासप्रकरणे पठितत्वात्प्रयाजादिवद्दर्शेऽपि होमद्वयं कर्तव्यम्। पूर्णमासेऽपि तथा। इति चेत्- मैवम्। उपकार्ययोः संघयोर्व्यवस्थितत्वेनोपकारकयोर्होमयोरपि व्यवस्थाया युक्तत्वात्।। 27।।  विंशे- समिदादीनां यागनामधेयताधिकरणे सूत्राणि 59-60   प्रयाजेऽपीति चेत्।। 59।।  नाचोदितत्वात्।। 60।। विंशाधिकरणमारचयति- देवता यजयो वा स्युः प्रयाजे समिदादयः। विष्ण्वादिवद्देवतात्वं न चतुर्थ्याद्यभावतः।। 28।। दर्शपूर्णमासयोः प्रयाजपञ्चकमाम्नातम्- ''सनिधो यजति'' इत्यादिना। तत्र यथा ''विष्णुं यजति'' ''वरुणं यजति'' इत्यादौ द्वितीयानिर्दिष्टा विष्ण्वादयो देवताः, तथा समिदादीनां देवतात्वम्। ततो यागैर्देवताः संस्क्रियन्ते, इति दृष्टार्थत्वलाभः। इति चेत्- मैवम्। सर्वत्र चतुर्थ्या तद्धितेन वा देवता निर्दिश्यन्ते। तद्यथा ''यदग्नये सायं जुहुयात्'' ''आग्नेयोऽष्टाकपालः'' इति। न च- अत्र समिदादिषु चतुर्थीतद्धितौ विद्येते। तादर्थ्यप्रतीतौ देवता भवति। न च- द्वितीयया तादर्थ्यं प्रतीयते, किंतु- ईप्सिततमत्वम्। तच्च कर्मनामत्व उपपद्यते। ''अग्निहोत्रं जुहोति'' इत्यादौ तद्दर्शनात्। यथा 'पाकं पचति' इत्युक्ते पचिक्रियायाः कर्तव्यता प्रतीयते। तथा ''समिधो यजति'' इत्युक्ते समिद्यागः कर्तव्य इत्यर्थो भवति। ''विष्णुं यजति'' इत्यादौ तादर्थ्यमुपचर्यते। प्रयाजमन्त्रेषु ''समिधो अग्न आज्यस्य व्यन्तु'' इत्यादिषु समिदादिशब्दैर्बहुवचनैकवचनान्तैर्देवता निर्दिष्टाः। तदेव निमित्तीकृत्य तादृशैरेव शब्दैरिह यागा अभिधीयन्ते ''समिधो यजति। तनूनपातं यजति। इडो यजति। बर्हिर्यजति। स्वाहाकारं यजति'' इति। तस्मात्- नात्र देवतासंस्कारविधिः। किंतु यागाः केवला विधीयन्ते। तेषां च श्रुत्यादिभिः कार्यविशेषानवगमात्प्रकरणेनारादुपकारकत्वम्। पञ्चमप्रयाजस्य तु यक्ष्यमाणाज्यभागादिदेवतादिसंस्कारकत्वं दशमेऽभिधास्यते।। 28।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 20, सूत्राणि 61। आदितः- अधिकरणानि 567, सूत्राणि 1650। नवमाध्यायस्य तृतीयः पादः मन्त्रोहः।  प्रथमे- विकृतौ मन्त्रगतव्रीह्यादिशब्दानामूहाधिकरणे सूत्रे 1-2   प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वात्।। 1।।  लिङ्गदर्शनाच्च।। 2।। तृतीयपादस्य प्रथमाधिकरणमारचयति- अग्निव्रीह्यादयो नोह्या ऊह्या वा नहि चोदनात्। विवक्षा देवहविषोर्दृष्टत्वादूह्यते ततः।। 1।। प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति देवताविषयो मन्त्र आम्नातः। ''व्रीहीणां मेध सुमनस्यमानः'' इति द्रव्यविषयः। विकृतिषु 'सूर्याय जुष्टं निर्वपामि' इति, 'नीवाराणां मेध सुमनस्यमानः' इत्येवमूहो न कर्तव्यः। कुतः- चोदकेन यथावस्थितस्यैव मन्त्रपाठस्यातिदिष्टत्वात्। इति चेत्- मैवम्। प्रकृतौ देवताहविर्लक्षणयोरर्थयोरेव विवक्षा। तथा सति तत्प्रकाशनरूपस्य दृष्टप्रयोजनस्य लाभात्। अग्निव्रीहिशब्दविवक्षायामदृष्टार्थो मन्त्रपाठः प्रसज्येत। तस्मात्- सूर्यनीवारलक्षणार्थप्रकाशनायोहः कर्तव्यः।। 1।।  द्वितीये- पौण्डरीकेषु बर्हिःषु स्तरणमन्त्रस्योहाधिकरणे सूत्राणि 3-8   जातिनैमित्तिकं यथास्थानम्।। 3।।  अविकारमेकेऽनार्षत्वात्।। 4।।  लिङ्गदर्शनाच्च।। 5।।  विकारो वा तदुक्तहेतुः।। 6।।  लिङ्गं मन्त्रचिकीर्षार्थम्।। 7।।  नियमो वोभयभागित्वात्।। 8।। द्वितीयाधिकरणमारचयति- हरितोक्तिः पौण्डरीके न त्याज्या त्यज्यतेऽथवा। नादृष्टार्थत्वतो मैवं गुणिद्रव्यस्य भासनात्।। 2।। ''मौद्गं चरुं निर्वपेच्छ्रियै श्रीकामः'' इत्यत्र ''पौण्डरीकाणि बर्हीषि भवन्ति'' इति श्रुतम्। तत्र स्तरणमन्त्रश्चोदकप्राप्तः ''दर्भैः स्तृणीत हरितैः'' इति। तत्र पूर्वन्यायेन दर्भशब्दस्थाने पुण्डरीकशब्दः प्रयोक्तव्यः। हरितशब्दस्तु प्रकृतौ नापूर्वीयद्रव्यवाची। ततोऽसमवेतार्थत्वाद्विकृतावप्यदृष्टार्थमनूहेन प्रयोक्तव्यः। इति चेत्- मैवम्। गुणद्वारा गुणिद्रव्यप्रकाशने सति दृष्टार्थत्वलाभेन समवेतार्थत्वात्। तस्मात्- 'पुण्डरीकैः स्तृणीत रक्तैः' इत्यूहनीयम्।। 2।। तृतीये- अग्नीषोमीयपशौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणे सूत्रम्   लौकिके दोषसंयोगादपवृक्ते हि चोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात्।। 9।। तृतीयाधिकरणमारचयति- यूपस्पर्शे वैदिके वा लौकिके मन्त्रकीर्तनम्। आद्यः प्रकरणान्मैवं लौकिके प्रतिषेधतः।। 3।। ज्योतिष्टोमेऽग्नीषोमीयपशुप्रकरणे यूपस्पर्शस्य प्रायश्चित्तमाम्नातम् ''यद्येकं यूपमुपस्पृशेत्। 'एष ते वायो' इति ब्रूयात्'' इति। तदिदमुच्छ्रयणाञ्जनादिकालीने वैदिकस्पर्शे भवति। कुतः- तत्प्रकरणात्। इति चेत्- मैवम्। 'यूपो वै यज्ञस्य दुरिष्टमामुञ्चते। यद्यूपमुपस्पृशेद्यज्ञस्य दुरिष्टमामुञ्चेत्। तस्माद्यूपो नोपस्पृश्यः' इति प्रतिषिध्य पश्चात्प्रायश्चित्ताम्नानात्। प्रतिषेधश्च लौकिकस्पर्शविषयः, वैदिकस्य विहितत्वात्। तस्मात्- लौकिके स्पर्शे प्रायश्चित्तम्।। 3।।  चतुर्थे द्विपशुयागे पाशमन्त्रयोरेकवचनान्तबहुवचनान्तयोर्द्विवचनान्तेनोहाधिकरणे सूत्राणि 10-14   अन्यायस्त्वविकारेणादृष्टप्रतिघातित्वादविशेषाच्च तेनास्य।। 10।।  विकारो वा तदर्थत्वात्।। 11।।  अपि त्वन्यायसंबन्दात्प्रकृतिवत्परेष्वपि यथार्थं स्यात्।। 12।।  यथार्थं त्वन्यायस्याचोदितत्वात्।। 13।।  छन्दसि तु यथादृष्टम्।। 14।। चतुर्थाधिकरणमारचयति- पाशं पाशान्द्वयोः पश्वोरेको मन्त्रोऽथवा द्वयम्। एकैकत्वे द्वयत्वे किमेकस्योहोऽथवा द्वयोः।। 4।। एकेनैव कृतार्थत्वादेको मन्त्रस्तदाऽपि च। अविकारेण बह्वर्थ एकार्थः समवायतः।। 5।। प्राकृतत्वादुभावूह्य एकार्थोऽत्र विवक्षया। बह्वर्थोऽप्यूहनीयोऽत्र द्वयोः शक्तेरक्लृप्तितः।। 6।। ज्योतिष्टोमेऽग्नीषोमीयपशावेकवचनान्तबहुवचनान्तौ द्वौ पाशमन्त्रौ भिन्नयोः शाखयोराम्नातौ ''अदितिः पाशं प्रमुमोक्त्वेतम्'' इत्येकत्र। ''अदितिः पाशान्प्रमुमोक्त्वेतान्'' इत्यपरत्र। तावुभौ पशुद्वयोपेतायां विकृतौ चोदकेनातिदिष्टौ। सा च विकृतिरेवमाम्नायते ''मैत्रं श्वेतमालभेत, वारुणं कृष्णम्, अपां चौषधीनां च संधावन्नकामः'' इति। तत्रैकेनैव मन्त्रेण चरितार्थत्वान्न द्वयोरतिदेशः। इत्याद्यः पक्षः। तदाऽप्यविकृतस्यैव प्रयोक्तुं शक्यत्वाद्बहुवचनान्तो मन्त्रो युक्तः। प्रकृतावेकस्मिन्पशावसमवेतार्थतया बहुवचनस्य विकृतावनूहनीयत्वात्। इत्येकः पक्षः। तादृग्बहुवचनोपेतत्वादेव मन्त्रोऽप्यसावसमवेतार्थः प्रकृतौ भवति। एकवचनान्तस्तु मन्त्रः प्रकृतौ समवेतार्थत्वाद्विकृतावतिदिश्यताम्। स च द्विवचनान्तेनोहनीयः। इति पक्षान्तरम्। प्रकृतौ विद्यमानयोरुभयोर्मन्त्रयोर्विकृतावतिदेशस्य वारयितुमशक्यत्वादेकमन्त्रपक्षस्यावान्तरत्वेनो-पन्यस्तावुभावपि पक्षावयुक्तौ। मन्त्रद्वयातिदेशपक्षे त्वेकवचनान्तः प्रकृतौ समवेतार्थतया विकृतावूहनीयः। बहुवचनान्तो यथावस्थित एव पठनीयः। इति पूर्वः पक्षः। लोके वेदे वा बहुवचनस्य द्वयोरर्थयोरक्लृप्तशक्तित्वाद्द्विवचनान्ततया सोऽप्यूहनीयः। इति राद्धान्तः।। 4।। 5।। 6।।  पञ्चमे- अग्नीषोमीयपशौ पाशैकत्वपाशबहुत्वाभिधायिमन्त्रयोर्विकल्पाधिकरणे सूत्राणि 15-19   विप्रतिपत्तौ विकल्पः स्यात्समत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात्।। 15।।  प्रकरणविशेषाच्च।। 16।।  अर्थाभावात्तु नैवं स्यात्, गुणमात्रमितरत्।। 17।।  द्यावोस्तथेति चेत्।। 18।।  नोत्पत्तिशब्दत्वात्।। 19।। पञ्चमाधिकरणमारचयति- उत्क्रष्टव्यो न वा मन्त्रो बह्वर्थोऽसंगतत्वतः। उत्कर्षो न विकल्प्योऽसौ गुणे त्वन्यायकल्पना।। 7।। योऽयं पूर्वोदाहृतो बहुवचनान्तः पाशमन्त्रः, तस्य प्रकरणादुत्कर्षो बहुपाशयुक्तेषु पशुगणेषु कर्तव्यः। कुतः- एकस्मिन्पशौ प्रकृते तस्यानन्वितत्वात्। इति चेत्- मैवम्। नासावुत्क्रष्टव्यः। किंत्वेकवचनान्तेन मन्त्रेण सह विकल्पनीयः। न हि 'पाशान्' इत्यत्र प्रधानस्यांशस्यानन्वितत्वमस्ति। प्रातिपदिकविभक्त्योः प्रातिपदिकं प्रधानम्। धर्मिवाचकत्वात्। विभक्तिस्तु कर्मत्वकरणत्वादिधर्मवाचकत्वाद्गुणभूता। तथा विभक्तिवचनयोर्विभक्तेः कर्मादिकारकवाचित्वात्प्राधान्यम्। वचनस्य कारकसंख्याभिधायित्वाद्गुणत्वम्। तथा सति बहुवचनान्ते पाशशब्दे प्रातिपादिकं कर्मकारकविभक्तिश्चैकस्मिन्नपि पाशे संगच्छेते। गुणभूते तु बहुवचने लक्षणावृत्तिः कल्पनीया, पाशावयवगतं बहुत्वं लक्ष्यत इति। तस्मात्- गुणभूतं वचनमात्रमनुसृत्य कृत्स्नस्य मन्त्रस्य प्रकरणपाठो न बाधनीयः, किंतु प्रधानानुसारेण मन्त्रयोः समानत्वाद्विकल्पः कर्तव्यः।। 7।।  षष्ठे दर्शपूर्णमासयोर्द्विपत्नीके प्रयोगे 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्   अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत।। 20।। षष्ठाधिकरणमारचयति- पत्नीमिति द्विपत्न्यादावूह्यं नो वोह्यतेऽर्थतः। नोपदेशस्य सामान्यादतिदेशाप्रवृत्तितः।। 8।। दर्शपूर्णमासयोर्मन्त्र आम्नायते- ''पत्नीं संनह्य'' इति। तत्र- एकपत्नीकस्य यजमानस्य प्रयोगे समवेतार्थः एकवचनान्तः पत्नीशब्दः। स च द्विपत्नीकस्य बहुपत्नीकस्य च प्रयोगेऽर्थवशादूहनीयः। इति चेत्- मैवम्। किमुपदेशप्राप्तस्योहः, अतिदेशप्राप्तस्य वा। नाद्यः। उपदेशस्य सर्वप्रयोगसाधारणत्वात्। यदि- एकपत्नीकप्रयोगार्थमेवायं मन्त्रोपदेशः स्यात्, तदानीमेकवचनं विवक्ष्येत। न त्वेवमस्ति। अन्यथा द्विपत्नीकबहुपत्नीकप्रयोगयोर्मन्त्र एव नोपदिश्येत। तत्र कुत ऊहानूहचिन्तावकाशः। साधारणे तूपदेशे सर्वप्रयोगसमवेतार्थतया पत्नीपदे प्रातिपदिकं कर्मकारकविभक्तिश्चेत्युभयमेव पाशन्यायेन विवक्षितम्। एकवचनं त्वदृष्टार्थम्। तथा च सर्वप्रयोगे समवेतार्थतया पत्नीपदेषु यथावस्थितमेव पठनीयम्। नापि 'अतिदेशप्राप्तस्योहः' इति द्वितीयः पक्षः। द्विबहुपत्नीकप्रयोगयोरविकृतित्वेनातिदेशायोगात्। तस्मादत्र नास्त्यूहः।। 8।।  सप्तमे द्विपत्नीकविकृतियागेऽपि 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम्   विकृतौ चापि तद्वचनात्।। 21।। सप्तमाधिकरणमारचयति- ऊह्यो नो वैष विकृतावूह्योऽपाठेन पाशवत्। नादृष्टच्छान्दसत्वाभ्यां पाशे छान्दसता न हि।। 9।। एष एकवचनान्तः पत्नीमन्त्रो विकृतौ द्विबहुपत्नीकप्रयोगयोरूहनीयः। कुतः- पाठाभावात्। प्रकृतावर्थानुसारेण प्राप्तोऽप्यूहः सर्वप्रयोगसाधारणेन मन्त्रपाठेन बाधितः। विकृतौ तु बाधितस्य पाठस्याभावेनास्मदायत्ते प्रयोगेऽर्थानुसारेणोहो युक्तः। अत एव पूर्वत्र द्विपाशयुक्तायां विकृतावेकवचनान्तो बहुवचनान्तश्च पाशमन्त्र ऊहितः। इति चेत्- मैवम्। 'पत्नीम्' इत्येकवचनस्याविवक्षितत्वेन प्रकृतावदृष्टार्थतया यथावस्थितपाठे सति विकृतावप्यदृष्टार्थं यथावस्थितस्यैव पठितव्यत्वात्। अश्चोच्येत 'प्रकृतौ छान्दसत्वेन व्यत्ययेनैकचचनमेव द्वित्वबहुत्वयोरप्यर्थयोर्वर्तते' इति। एवं तर्हि विकृतावप्यूहमन्तरेणैव द्वित्वबहुत्वाभिधानान्मा भूदूहः। न च एवं पाशेऽप्यूहो मा भूदिति शङ्कनीयम्। प्रकृतावेकवचनबहुवचनयोरेकस्मिन्नेव पाशे वैहिकप्रयोगदर्शनात्। द्विंत्वे तदभावात्। तस्मात्- पाशस्योहो विकृतौ, न तु पत्नीशब्दस्य।। 9।।  अष्टमे सवनीयपशूनामग्नीषोमीयसमानविधानत्वे 'प्रास्मै,अग्निम्' इति मन्त्रेऽनूहाधिकरणे सूत्रम्   अध्रिगौ सवनीयेषु तद्वत्समानविधानाश्चेत्।। 22।। अष्टमाधिकरणमारचयति- अग्नीषोमीयसवनस्थास्तुल्यविधयो यदि। प्रास्मा इति तदा मन्त्रे पत्नीन्यायेन नोहनम्।। 10।। अग्निष्ठोमोक्थ्यषोडश्यतिरात्ररूपासु ज्योतिष्टोमस्य संस्थास्वेकोत्तरवृद्ध्या सवनीयाः पशव आम्नाताः- ''आग्नेयः पशुरग्निष्टोम आलभ्यः। ऐन्द्राग्न उक्थ्ये द्वितीयः। ऐन्द्रो वृष्णिः षोडशिनि तृतीयः। सारस्वती मेष्यतिरात्रे चतुर्थी'' इति। त एते सवनीयपशवोऽग्नीषोमीयपशुना समानविधयः, न तु तद्विकृतयः- इति कस्यचित्पूर्वपक्षिणो मतम्। तदेवाभ्युपगम्य कृत्वाचिन्ता क्रियते। अध्रिगुप्रैषमन्त्रे ''प्रास्मा अग्निं भरता'' इति वाक्ये पुंलिङ्गचतुर्थ्येकवचनान्त इदं शब्दः पठितः। तस्य मेष्यां स्त्रीलिङ्गतया नास्त्यूहः, इति प्रथमपादे निर्णीतम्। इह त्वेकवचनस्य पशुद्वित्वबहुत्वयोः पत्नीशब्दवत्पूर्वोत्तरपक्षौ द्रष्टव्यौ। अर्थानुसारेण द्विवचनबहुवचनयोरूहः। इति पूर्वः पक्षः। उपदेशस्य साधारणत्वेन सर्वत्र समवेतार्थयोः प्रातिपदिकविभक्त्योरेव विवक्षितत्वेनैकवचनस्याविवक्षितत्वात्, कथंचिद्विवक्षितत्वेऽपिच्छान्दसेन वचनव्यत्ययेन द्व्यर्थबह्वर्थवाचित्वान्नास्त्यूहः। इति राद्धान्तः। परमार्थतस्तु सवनीयपशूनामग्नीषोमीयविकृतित्वादस्त्येव लिङ्गवचनयोः पाशन्यायेनोहः।। 10।।  नवमे नीवाराणां व्रीहिप्रतिनिधित्वे मन्त्रे व्रीहिशब्दस्यानूहाधिकरणे सूत्राणि 23-26   प्रतिनिधौ चाविकारात्।। 23।।  अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात्।। 24।।  तादर्थ्याद्वा तदाख्यं स्यात्संस्कारैरविशिष्टत्वात्।। 25।।  उक्तं च तत्त्वमस्य।। 26।। नवमाधिकरणमारचयति- व्रीहिप्रतिनिधावूहो व्रीहीणामिति नास्ति वा। अर्थादूहो न सादृश्यादंशानां साधनत्वतः।। 11।। श्रुतस्य द्रव्यस्यापचारे भूयोवयवसामान्योपेतं द्रव्यान्तरं तस्य प्रतिनिधिर्भवति। तद्यथा व्रीहीणामपचारे नीवारास्तेषां स्थाने निविशन्ते। तदेतत्षष्ठेऽध्यायेऽवस्थितम्। प्रतिनिहितेषु नीवारेषु ''व्रीहीणां मेध'' इत्ययं मन्त्र ऊहितव्यः। कुतः- अर्थानुसारात्। इति चेत्- मैवम्। नैवारचरौ नीवाराणां साधनत्वेन विहितानां व्रीहिस्थानीयतया नवति मन्त्रस्योहः। इह तु न नीवाराः साधनत्वेन विहिताः, किंतु भूयोवयवसादृश्यद्वारा प्राप्यन्ते। ततोऽवयवानामेव साधनत्वम्। तथा सति व्रीह्यवयवेष्वविकारेण यथा व्रीहिशब्दः, तथा नीवारावयवेष्वपि प्रवृत्तेर्नास्त्यूहः।। 11।।  दशमे द्विपशुयागे 'सूर्यं चक्षुर्गमयतात्' इतिमन्त्राणामनूहाधिकरणे सूत्रे 27-28   संसर्गिषु चार्थस्यास्थितपरिमाणत्वात्।। 27।।  लिङ्गदर्शनाच्च।। 28।। अग्नीषोमीयपशावध्रिगुप्रैषे पशुसंबन्धिनां सूर्यादिसंसर्ग आम्नायते ''सूर्यं चक्षुर्गमयतात्। वातं प्राणमन्ववसृजतात्। दिशः श्रोत्रम्'' इत्यादि। ''मैत्रं श्वेतमालभेत। वारुणं कृष्णम्'' इति विहितयोर्द्वयोः पश्वोर्मन्त्रगताश्चक्षुरादिशब्दा द्विवचनान्तत्वेनोहनीयाः। कुतः- पशुभेदेन चक्षुरादीनां भिन्नत्वात्। इति चेत्- मैवम्। न खल्वत्रेन्द्रियाधिष्ठानं शरीरगतं गोलकं चक्षुःशब्देन विवक्षितम्। तद्विवक्षायामेकस्मिन्नपि पशौ गोलकभेदादेकवचनान्तचक्षुःशब्दस्यानन्वयप्रसङ्गात्। गोलकस्य सूर्यादिप्राप्त्यसंभवाच्च। यत्तु रूपदर्शनादिसामर्थ्यलक्षणं तेजोमात्रम्, तदत्र चक्षुरादिशब्दैर्विवक्षितम्। तच्च पश्वनेकत्वेऽपि ततो निर्गत्य सूर्यादावेकीभूतत्वात्समुद्रप्रविष्टनदीवन्न भेदेनावतिष्ठते। तस्मात्- नास्त्यूहः।। 12।।  एकादशे द्विपशुयागे, अध्रिगुप्रैषे 'एकधा' इत्यस्य शब्दस्याभ्यासाधिकरणे सूत्राणि 29-31   एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात्।। 29।।  अविकारो वा बहूनामेककर्मवत्।। 30।।  सकृत्त्वं त्वैकध्यं स्यादेकल्पत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानं स्यात्।। 31।। एकादशाधिकरणमारचयति- एकधेत्यविकारः स्यादभ्यासो वा सहत्वतः। आद्यो मैवं प्राकृतस्य सकृत्त्वस्योचितत्वतः।। 13।। तस्मिन्नेवाध्रिगुप्रैषे श्रूयते ''एकधाऽस्य त्वचमाच्छ्यतात्'' इति। छिन्धीत्यर्थः। तत्र द्वयोः पश्वोरेकधेत्यस्य शब्दस्य नास्ति विकारः। कुतः- तस्य शब्दस्येह सहत्ववाचित्वात्। 'एकधा गाः पाययति' इत्यत्र यौगपद्ये प्रयोगदर्शनात्। पश्वनेकत्वेऽपि त्वगुत्पाटनस्यैककालीनत्वं बहुपुरुषकर्तृकस्य घटते। इति प्राप्ते- ब्रूमः- प्रकृतावेकस्मिन्पशौ यौगपद्यलक्षणोऽर्थो न संभवति। ततः सकृत्वं तस्य शब्दस्यार्थः। त्वगियमवयवशो बहुकृत्वो न च्छेत्तव्या, किंतु सर्वाऽपि सकृदेकप्रयत्नेनेत्युक्तं भवति। यत्प्रकृतौ सकृत्वं, तदेव विकृतावुचितम्। ततः प्रतिपशु सकृत्त्वमभिधातुम् 'एकधा' इत्ययं मन्त्रोऽभ्यसितव्यः।। 13।।  द्वादशे द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणे सूत्राणि 32-40   मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्, तस्य चान्यायनिगदत्वात्, सर्वत्रैवाधिकारः स्यात्।। 32।।  अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात्।। 33।।  स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात्।। 34।।  देवता तु तदाशीष्ट्वात्संप्राप्तत्वात्स्वामिन्यनर्थिका स्यात्।। 35।।  उत्सर्गाच्च भक्त्या तस्मिन्पतित्वं स्यात्।। 36।।  उत्कृष्येतैकसंयुक्तो द्विदेवते संभवात्।। 37।।  एकस्तु समवायात्तस्य तल्लक्षणत्वात्।। 38।।  संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात्।। 39।।  एकत्वेऽपि गुणानपायात्।। 40।। द्वादशाधिकरणमारचयति- अविकारो विकारो वा स्यान्मेधपतिशब्दयोः। विकारे स्वामिदेवार्थ एकार्थो वाऽन्तिमेऽपि किम्।। 14।। स्वाम्यर्थो देवतार्थो वा स्यादन्याय्यत्वतोऽग्रिमः। अर्थभेदाद्विकारोऽत्र द्वावर्थौ शब्दयोर्द्वयोः।। 15।। मन्त्रैक्यादर्थ एकोऽत्र स्वाम्यस्मिञ्जायया द्विता। देवार्थाशीर्देव एकोऽधिष्ठाने द्वे द्विधेरणम्।। 16।। अध्रिगुप्रैषनिगदस्यादाविदमाम्नायते- ''दैव्याः शमितार उत मनुष्या आरभध्वम्। उपनयत मेध्या दुरः। आशासाना मेधपतिभ्यां मेधम्'' इति। शाखान्तरे तु 'मेधपतये मेधम्' इति। अयमर्थः- 'शमितारः पशुघातिनो द्विविधाः दैव्याः, मानुषाश्च। तानुभयान्संबोध्य होता कर्तव्यविशेषान्निर्दिशति- आरम्भः कर्तव्यः। मेधो यज्ञः, तद्योग्यान्दुरः पदार्थान्हिंसाहेतूनिहानयत। किं कुर्वन्तः यज्ञपतिभ्यां यज्ञपतये वा यज्ञमाशासानाः' इति। तत्र- एकवचनान्तस्य मेधपतिशब्दस्य द्विवचनान्तस्य च बहुपशुयुक्तासु विकृतिष्वनूहः, ऊहो वा, इति संशयः। ऊहपक्षेऽपि किमेकवचनान्तस्य यजमानोऽर्थः, द्विवचनान्तस्याग्नीषोमौ देवते इत्येवमर्थभेदः। किंवा शब्दद्वयस्यैक एवार्थ इति संशयः। एकार्थत्वपक्षेऽपि यजमान एवार्थः, देवतैव वा, इति संशयः। तत्र- अग्नीषोमीये पशौ यजमानः, अग्नीषोमौ च, इति त्रयो मेधस्य पतयः, तेष्वेकवचनस्य द्विवचनस्य वाऽन्याय्यनिगदत्वेन प्रकृतावविवक्षितस्य वचनस्य विकृतावनूहः। इत्याद्यः पक्षः। प्रकृतौ समवेतार्थत्वे संपादयितुं शक्ये सत्यन्याय्यनिगदत्वाभावाद्विकृतावूहः कर्तव्यः। इति द्वितीयः पक्षः। अस्मिन्द्वितीयपक्षेऽपि प्रकृतावुपन्यस्तप्रकारेणार्थभेदाद्विकृतिषु बहुयजमानयुक्तास्वहीनादिषु यजमानानुसारेणैकवचनान्त ऊहनीयः। अनेकपशुयुक्तासु विकृतिषु देवतानुसारेण द्विवचनान्त ऊहनीयः। सोऽयं शाखाविकल्पेन प्रथमः पक्षः। शाखाभेदेन पाठभेदेऽपि मन्त्रभेदाभावादर्थभेदो न युक्तः। किंतु- एक एवार्थः। इति पक्षान्तरम्। तदपि देवतायाः संप्रदानत्वेन स्वामित्वाभावान्मेधपतिशब्दयोग्यता नास्तीति यजमान एव तच्छब्दार्थः। तस्मिंश्च यजमाने स्वत एकत्वम्, जायया सह द्वित्वम्। इत्येकवचनद्विवचने उभे अपि समवेतार्थे। ततो यजमानद्वयोपेतायां विकृतावेकवचनान्तो द्वित्वेनोहनीयः। द्विवचनान्तो बहुत्वेन। इति पूर्वः पक्षः। मेधस्य यजमानार्थत्वं नैवाशासनीयम्। तस्य सिद्धत्वात्। देवतार्थत्वं त्वाशासनीयम्। ततो मेधमाशासाना इत्येतद्देवतायां समवेतार्थम्। संप्रदानस्याप्युद्देश्यत्वेन प्राधान्यान्मेधपतित्वमविरुद्धम्, देवताकारेणैकत्वादग्नित्वसोमत्वाकारेण द्वित्वाच्चैकवचनद्विवचने उपपन्ने। तस्मात्- देवतानुसारेण विकृतावूहः। इति राद्धान्तः।। 14।। 15।। 16।।  त्रयोदशे बहुदैवत्ये पशावप्येकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणे सूत्रे 41-42   नियमो बहुदेवते विकारः स्यात्।। 41।।  विकल्पो वा प्रकृतिवत्।। 42।। त्रयोदशाधिकरणमारचयति- आदित्येष्वेकवाच्येष ऊह्यो नो वोह्यतेऽन्यवत्। गणार्थत्वादनूहोऽतो विकल्पः प्रकृताविव।। 17।। प्रजापशुसंपत्तिकामस्य बहुदैवत्यः पशुराम्नायते- ''यः कामयेत प्रथेय पशुमिः प्र प्रजया जायेय- इति, स एतामविं वशामादित्येभ्यः कामायालभेत'' इति। वशा बन्ध्या। कामाय कामुकेभ्य इत्यर्थः। अत्र- चोदकप्राप्तो 'मेधपतये' इत्येकवचनान्तः शब्द आदित्यानां बहुत्वाद्बहुवचनान्तत्वेनोहनीयः। यथा 'मेधपतिभ्याम्' इति द्विवचनान्त ऊह्यते। यथा वा 'पाशः' इत्येकवचनान्त ऊह्यते। तद्वत्। इति चेत्- मैवम्। प्रकृतावग्नीषोमयोर्गणैकत्वमेकवचनान्तो ब्रूते। आदित्यानामपि गणैकत्वं समानमित्यनूहः। तस्मात्- अविकृत एकवचनान्त इतरेण सह प्रकृताविवात्रापि विकल्प्यते।। 17।।  चतुर्दशे- एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणे सूत्रम्   अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात्।। 43।। चतुर्दशाधिकरणमारचयति- कृष्णग्रीवादिके नोह ऊहो वाऽस्य न पूर्ववत्। देवत्वं न गणस्यात ऊहो बह्वभिधित्सया।। 18।। यूपैकादशिन्यामग्न्यादिदेवताकाः पशव आम्नाताः- ''प्रैवाग्नेयेन वापयति। मिथुनं सारस्वत्या करोति। रेतः सौम्येन दधाति। प्रजनयति पौष्णेन'' इत्यादिना। ते च स्वनामभिरन्यत्राम्नाताः ''आग्नेयः कृष्णग्रीवः। सारस्वती मेषी। बभ्रुः सौम्यः। पौष्णः श्यामः'' इत्यादिना। तत्र- अस्यैकवचनान्तस्य मेधपतिशब्दस्यादित्येष्विव नोहः। इति चेत्- मैवम्। वैषम्यात्। आदित्यगणस्य तत्र देवत्वम्, इह त्वेकैकस्य पृथग्देवत्वम्। अतो बहून्देवानभिधातुं बहुवचनान्तत्वमूहनीयम्।। 18।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 14, सूत्राणि 43। आदितः- अधिकरणानि 581, सूत्राणि 1693। नवमाध्यायस्य चतुर्थः पादः मन्त्रोहप्रसङ्गापतितो विचारः।  प्रथमे 'षड्विंशतिरस्य वङ्क्रयः' इत्यादौ समस्योहाधिकरणे सूत्राणि 1-16   षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गुणस्य प्रविभक्तत्वादविकारे हि तासामकार्न्येसे नाभिसंबन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः।। 1।।  अभ्यासेऽपि तथेति चेत्।। 2।।  न गुणादर्थकृतत्वाच्च।। 3।।  समासेऽपि तथेति चेत्।। 4।।  नासंभवात्।। 5।।  स्वाभिश्च वचनं प्रकृतौ तथेह स्यात्।। 6।।  वङ्क्रीणां तु प्रधानत्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात्।। 7।।  तासां च कृत्स्नवचनात्।। 8।।  अपि त्वसंनिपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात्।। 9।।  विकारस्तु प्रदेशत्वाद्यजमानवत्।। 10।।  अपूर्वत्वात्तथा पत्न्याम्।। 11।।  आम्नातस्त्वविकारात्संख्यासु सर्वगामितत्वात्।। 12।।  संख्या त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम्।। 13।।  अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः।। 14।।  अभ्यासो वाऽविकारात्स्यात्।। 15।।  पशुस्त्वेवं प्रधानं स्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात्।। 16।। चतुर्थपादस्य प्रथमाधिकरणमारचयति- षड्विंशतिर्वङ्क्रयोऽस्येत्यनूहः स्यादुतोह्यते। ऊहेऽपि वचनान्यत्वमस्येत्यावर्त्यतेऽथवा।। 1।। षड्विंशतेरुताभ्यासः समस्तोक्तिर्भवेदुत। अनूहोऽकरणत्वेन दृष्टलाभात्तदूहनम्।। 2।। संख्यायाश्च पशौ युक्तेर्वङ्क्रीणां मुख्यतावशात्। अमी पक्षा युज्यतेऽन्त्यस्ता अनुष्ठ्येतिशेषतः।। 3।। अध्रिगुप्रैषे वाक्यमिदमाम्नायते ''षड्विंशतिरस्य वङ्क्रयः, ता अनुष्ठ्योच्च्यावयतात्'' इति। अयमर्थः- 'वङ्क्रयो वक्राणि पार्श्वास्थीनि। तान्यस्य पशोः षड्विंशतिसंख्यानि, एकैकस्मिन्पार्श्वे त्रयोदशानामवस्थितत्वात्। ताश्च वङ्क्रीरनुष्ठ्य, अनुष्ठायानुक्रमेण गणयित्वेति यावत्। उच्च्यावयतादुद्धरतात्' इति। सोऽयं मन्त्रो वङ्क्रीणामुद्धरणे करणतया न विनियुक्तः। किंतु संज्ञपनात्प्राक्पशौ नीयमाने होत्रा प्रयुज्यते। ततोऽसमवेतार्थत्वादनूहः। इत्याद्यः पक्षः। अकरणत्वेऽपि नादृष्टार्थत्वम्, शमितॄणामुद्धरणायार्थस्यावश्यकत्वेन दृष्टार्थलाभात्। तस्मात्प्रकृतौ समवेतार्थतया विकृतावूहः। तदाऽपि चत्वारः पक्षाः। तत्र संख्या मुख्यत्वेन प्रकाश्या। तेन द्वयोः पश्वोर्द्विगुणितां षड्विंशतिसंख्यां प्रकाशयितुं द्विवचनान्ततया षड्विंशतिशब्द ऊहनीयः। इत्याद्यः पक्षः। पशोश्चोदितत्वेन मुख्यत्वात्तद्वाचकं षष्ठ्यन्तम् 'अस्य' इति पदं पश्वनुसारेणावर्तनीयम्। इति द्वितीयः पक्षः। युक्तिर्योगः। षड्विंशतिसंख्यायाः पशुना सह संबन्धः, तस्य मुख्यत्वात्प्रतिपशुविभक्तां संख्यां प्रकाशयितुं षड्विंशतिपदस्याभ्यासः। इति तृतीयः पक्षः। अत्र सर्वत्र मुख्यानुसारेण पदान्तराण्यूहनीयानि। संख्येयानां वङ्क्रीणां मुख्यत्वात्तासामियत्ता समस्य वक्तव्या। ततो 'द्विपञ्चाशदनयोर्वङ्क्रयः। अष्टसप्ततिरेषां वङ्क्रयः' इत्येवं यथायोगमूहनीयम्। इति चुतुर्थः पक्षः। अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात्। 'ता अनुष्ठ्य' इत्ययं वाक्यशेषः स च व्याख्यातः।। 1।। 2।। 3।।  द्वितीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनविकल्पाधिकरणे सूत्रम्   अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम्।। 17।। द्वितीयाधिकरणमारचयति- न चतुस्त्रिंशदित्येष निषेधो नियतो न वा। गिरापदवदाद्यः स्यान्नैवकारहतत्वतः।। 4।। निषेधः प्राप्तिपूर्वोऽतः प्रापकोऽत्रानुमीयते। निषेधकप्रापकाभ्यां चतुस्त्रिंशद्विकल्प्यते।। 5।। अश्वमेधे त्रयः सवनीयाः पशवः श्रुताः- 'अश्वः, तूपरः, गोमृगः, ते प्राजापत्याः' इति। तेष्वश्वस्य चतुस्त्रिंशद्वङ्क्रयः। तथा च मन्त्रः ''चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति'' इति। वाजी गन्धर्ववाहको जातिविशेषः। अत एवाम्नायते- ''हयो भूत्वा देवानवहत्, अर्वाऽसुरान्, वाजी गन्धर्वान्'' इति। देवबन्धुर्देवानां प्रियः। स्वधितिश्छेदनहेतुः शस्त्रमित्यर्थः। एवं सत्यध्रिगुप्रैषे विशेषोऽयमाम्नायते ''न चतुस्त्रिंशदिति ब्रूयात्। षड्विंशतिरित्येव ब्रूयात्'' इति। सोऽयं 'चतुस्त्रिंशद्वाजिनः' इत्यादिकाया ऋचः प्रतिषेधो गिरापदनिषेधवन्नित्यः, न तु विकल्पितः। यथा ''न गिरागिरेति ब्रूयात्, ऐरं कृत्वोद्गेयम्'' इत्यत्र गिरापदनिषेधपुरःसरमिरापदे विहिते सति निषिद्धस्य नित्यनिवृत्तिः। तथा चतुस्त्रिंशन्मन्त्रनिषेधपुरःसरं षड्विंशतिमन्त्रे विहिते सति नित्यनिवृत्तिर्निषिद्धस्य। इति चेत्- मैवम्। 'षड्विंशतिरित्येव ब्रूयात्' इत्येवकारेण विधित्वप्रत्ययबाधात्। षड्विंशतिमन्त्रस्तावच्चोदकप्राप्तत्वान्न विधेयः। तस्य चतुस्त्रिंशन्मन्त्रेणापवादप्रसक्तौ 'न चतुस्त्रिंशत्' इत्यपवादकं मन्त्रं प्रतिषिध्य चोदकप्राप्तस्यानपोदितत्वेन यथापूर्वमवस्थानमनूद्यते- इत्येवमर्थं सूचयितुमेवकारः प्रयुक्तः। गिरापददृष्टान्तस्तु विषमः। अप्राप्तत्वादिरापदं तत्र विधीयते। तेन च विहितेन पाठप्राप्ते गिरापदे बाधिते स बाधो 'न गिरा' इति प्रतिषेधेनानूद्यते। ततो दृष्टान्ते निषेधानुवादः, दार्ष्टान्तिके विध्यनुवादः, इति महद्वैषम्यम्। ननु विधिवाक्यस्थस्यैवकारस्यानुवादत्वे सति 'न चतुस्त्रिंशत्' इत्यस्मिन्निषेधे कृत्स्नवाक्यतात्पर्यान्निषिद्धस्य नित्यनिर्वृत्तिस्तदवस्था स्यात्। मैवम्। प्रापकस्यापि सद्भावेन निषेधप्राप्तिभ्यां चतुस्त्रिंशन्मन्त्रस्य विकल्पितत्वात्। अथोच्यते ''चतुस्त्रिंशद्वाजिनः'' इत्येवं मन्त्रः केवलं स्वरूपेणैव पठितः। न त्वस्याघ्रिगुप्रैषवत्प्रापकं किंचिदस्तीति। तन्न। प्रापकवचनस्य कल्पनीयत्वात्। अन्यथा प्रसक्त्यभावेन प्रतिषेधानुपपत्तेः। तस्मात्प्रसञ्जकेनोपजीव्येनानुमितविधिना प्रत्यक्षनिषेधेन च समानबलतया 'चतुस्त्रिंशत्' इत्ययं मन्त्रोऽश्वस्याध्रिगुप्रैषे विकल्प्यते।। 4।। 5।।  तृतीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनाधिकरणे सूत्राणि 18-21   तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात्।। 18।।  ऋग्वा स्यादाम्नातत्वादविकल्पश्च न्याय्यः।। 19।।  तस्यां तु वचनादैरवत्पदविकारः स्यात्।। 20।।  सर्वप्रतिषेधो वाऽसंयोगात्पदेन स्यात्।। 21।। तृतीयाधिकरणमारचयति- पृथग्वचनमश्वस्य स्यादन्याभ्यां समस्य वा। आद्यः पदे निषिद्धेऽत्र विशेषो नियतो यतः।। 6।। वङ्क्रीयत्तानुक्तिदोषादृगेवात्र निषिध्यते । पक्षे प्राप्तः प्राकृतोऽस्मिन्समस्योक्तः पुरा यथा।। 7।। पूर्वोक्ताश्वस्य तूपरगोमृगाभ्यां समस्य वङ्क्रीयता न वक्तव्या, किंतु पृथगेव। कुतः- यस्मात् 'चतुस्त्रिंशद्वाजिनः' इत्ययं मन्त्रविशेषोऽश्वस्य नियतः। ननु प्रत्यक्षनिषेधेनानुमितविधिना च विकल्पः पूर्वमुक्तः। तन्न। ऋचो निषेधाभावात्। ''न चतुस्त्रिंशदिति ब्रूयात्'' इति ऋचि प्रथमपदमात्रं निषिध्यते। ननु निषेधस्य प्रसक्तिपूर्वकत्वमुपजीव्य विधिरनुमितः। तत्रानुमापकस्य निषेधस्याभावेनानुमेयस्य विधेरप्यभावात्। 'चतुस्त्रिंशत्' इत्यस्या ऋचः प्राप्तिरेव नास्ति, तत्र कुतो नियतिरिति चेन्न। प्रकरणपाठमन्त्रलिङ्गाभ्यां विनियोगविधेरनुमेयत्वात्। तस्मादनेन मन्त्रेणाश्वस्य पृथग्वचनम्। इति प्राप्ते- ब्रूमः- यदि 'चतुस्त्रिंशत्' इत्येकमेव पदं निषेध्येत, तदा तस्यामृचि वङ्क्रीणामियत्ता नोच्येत। ननु 'षड्विंशतिरित्येव ब्रूयात्' इत्यनेन वाक्येन संख्यावाचिपदान्तरप्रक्षेपविधानादियत्तोच्यते- इति चेन्न। तस्य वाक्यस्यैवकारेण विधिशक्तेः कुण्ठितत्वात्। तस्मात्- न पदमात्रस्य निषेधः, किंतु कृत्स्नाया ऋचः। तथा सति पूर्वोक्तविकल्पस्य तदवस्थत्वादृग्विशेषविधिपक्षे पृथग्वचनं कर्तव्यम्। तन्निषेधपक्षे चोदकप्राप्ते प्राकृतेऽध्रिगुप्रैषे प्रथमाधिकरणन्यायेन समस्य वक्तव्यम्। तत्र तूपरगोमृगयोः प्रत्येकं षड्विंशतित्वादश्वस्य चतुस्त्रिंशत्त्वात्समासेन 'षडशीतिरेषां वङ्क्रयः' इत्येवमूहनीयम्।। 6।। 7।।  चतुर्थे- अग्नीषोमीयपशावुरूकशब्देन वपाभिधानाधिकरणे सूत्रम्   वनिष्ठुसंनिधानादुरूकेण वपाभिधानम्।। 22।। चतुर्थाधिकरणमारचयति- पक्षी वपाऽथवोरूको रलयोरविशेषतः। पक्षी वपा संनिधानाद्भ्रान्तिच्छेदनिषेधतः।। 8।। अध्रिगुप्रैषे वचनमिदमाम्नायते ''वनिष्ठुमस्य मा राविष्ट। उरूकं मन्यमानाः'' इति। वनिष्ठुर्वपासमीपवर्ती कश्चित्पश्वङ्गविशेषः। तं मा राविष्ट तस्य लवनं मा कुरुत। व्यत्ययेन लकारस्य रेफः। किं कुर्वन्तः- उरूकं मन्यमाना वनिष्ठावुरूकबुद्धिं कुर्वन्त इत्यर्थः। अत्र- उरूकशब्देन काकविरोधी कश्चिदुलूकनामा पक्षिविशेषोऽभिधीयते। कुतः- रलयोरविशेषात्। 'पर्यङ्कः, पल्यङ्कः, लोमानि, रोमाणि' इत्यादिदर्शनात्। उरूकशब्दः सादृश्यलक्षकः। 'पक्षिसदृशं वनिष्ठुं विवेकेन मन्यमाना मा राविष्ट' इति वाक्यार्थः। तस्मादुरूकः पक्षी इति प्राप्ते- ब्रूमः- उरूकशब्देनात्र वपा लक्ष्यते। कुतः- वनिष्ठुसंनिधानात्। सति हि संनिधावुरूकभ्रान्तिर्वनिष्ठौ संभवति। भ्रान्तिप्राप्तं च लवनमत्र निषिध्यते। 'उरूकं मन्यमाना वनिष्ठुं मा राविष्ट' इत्युक्तत्वात्। वपालवनकाले व्रान्त्या वनिष्ठोर्यल्लवनं तस्य निषेधे सति दृष्टोऽर्थो लभ्यते। भ्रान्तिनिवारणस्य दृष्टत्वात्। त्वत्पक्षे तु वनिष्ठोर्लवनमेव नास्ति। तच्चायुक्तम्। हृदयाद्यङ्गवल्लवितव्यत्वात्। 'वनिष्ठुमग्नीधे षडवत्तं संपादयति' इत्याद्यनुष्ठानविधानात्। ततो लवननिषेधस्यासमवेतार्थत्वेनादृष्टार्थो मन्त्रपाठः प्राप्नुयात्। तस्याद्वपावचन उरूकशब्दः। यद्यपि वपायामप्रसिद्धः [उरूक] शब्दः, तथाऽपि 'उरु विस्तीर्णमूको मेदो यत्र' इत्यवयवार्थद्वारा मेदस्विन्यां वपायां युक्त उरूकशब्दः। एवं सत्यनेकवपासु विकृतिष्वेकवचनान्त उरूकशब्द ऊहनीयः।। 8।।  पञ्चमे- अध्रिगौ प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणे सूत्रे- 23-24   प्रशसाऽस्यभिधानम्।। 23।।  बाहुप्रशंसा वा।। 24।। पञ्चमाधिकरणमारचयति- प्रशसेत्यसिरर्थः स्यात्स्तुतिर्वा छेदनादसिः। स्तुतिः कार्त्स्न्याय वाह्वोः स्यात्स्वधितिश्छेदसाधनम्।। 9।। अध्रिगुप्रैषे वाक्यान्तरमाम्नातम्- 'प्रशसा बाहू' इति। तत्र 'शसु हिंसायाम्' इत्यस्माद्धातोः सोपसर्गादुत्पन्नस्य सकारान्तप्रातिपदिकस्य तृतीयैकवचनान्तस्य 'प्रशसा' इति रूपं भवति। तच्चासेर्वाचकम्। तदेतत्केनचिद्ब्राह्मणवाक्येनानूद्यते ''दश प्रयाजानिष्ट्वाह 'शासमाहर'' इति, असिं वै 'शास' इत्याचक्षते'' इति। सोऽयमसिर्बाह्वोश्छेदनहेतुः। तस्मात्- दृष्टार्थलाभादसिः 'प्रशसा' इत्यस्य पदस्यार्थः। इति चेत्- मैवम्। 'शसु स्तुतौ' इत्यस्माद्धातोरयमुत्पन्नः 'प्रशसौ' इत्यस्य द्वितीयाद्विवचनान्तस्य शब्दस्य च्छान्दस औकारलोप आकारादेशे च कृते 'प्रशसा' इति भवति। बाह्वोः प्रशस्तत्वं नाम कार्त्स्न्यम्। 'प्रशसा बाहू कृणुतात्' इत्युक्ते 'निःशेषेणोद्धर्तव्यौ बाहू' इतीदृशो दृष्टार्थो लभ्यते। नात्र च्छेदनसाधनत्वमसेः संभवति, स्वधितेस्तत्साधनत्वेन विहितत्वात्। तस्मात्- स्तुतिरेवास्य शब्दस्यार्थः। तथा सति बाहुवृद्धौ बहुवचनान्तत्वेन 'प्रशसा' इति पदमूहनीयम्।। 9।।  षष्ठे- अध्रिगुप्रैषे श्येनादिशब्दानां कार्त्स्न्यवचनाधिकरणे सूत्राणि 25-27   श्येन-शला-कश्यप-कवष-स्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसंनिधानात्।। 25।।  कार्त्स्न्यं वा स्यात्तथाभावात्।। 26।।  अध्रिगोश्च तदर्थत्वात्।। 27।। षष्ठाधिकरणमारचयति- सादृश्यमुत साकल्यं श्येनाद्युक्त्या विवक्षितम्। प्रसिद्धसंनिधेराद्यस्तत्सत्त्वादखिलोद्धृतिः।। 10।। अध्रिगुप्रैषवचन एतदाम्नायते- ''श्येनमस्य वक्षः कृणुतात्'' इति। तत्र यथा 'अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम्' इत्युक्ते प्रसिद्धसिंहसंनिधानात्पिष्टपिण्डेषु सिंहसादृश्यं वक्षसि कर्तव्यतया प्रतीयते। ततो वक्ष उद्धृत्य कर्तनाद्युपायेन पक्षचरणचञ्च्वादिकं संपाद्य श्येनसंस्थानं कर्तव्यम्। इति प्राप्ते- ब्रूमः- वक्षसि श्येनसादृश्यं स्वत एव पूर्वमस्ति। ततो 'यथा तन्न नश्यति तथा साकल्योनोद्धरणीयम्' इति विवक्षया श्येनशब्दः प्रयुज्यते। तथा सति हविरविकलं भवति। अंसादिष्वनेन न्यायेन साकल्यविवक्षया तत्तद्रूपकोक्तिर्द्रष्टव्या। एतदेवाभिप्रेत्य श्रूयते ''गात्रं गात्रमस्यानूनं कृणुतात्'' इति।। 10।।  सप्तमे दर्शार्थोद्धृताग्निलोपे प्रायश्चित्तरूपज्योतिष्मत्या अननुष्ठानाधिकरणे सूत्रम्   प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते।। 28।। सप्तमाधिकरणमारचयति- ज्योतिष्मती भवेन्नो वा दर्शार्थोद्धृतलोपने। निमित्तसत्त्वात्स्यान्नाग्निहोत्रार्थोद्धृतिवर्जनात्।। 11।। अग्निहोत्रप्रक्रियायामिदमाम्नायते- ''अग्नये ज्योतिष्पते पुरोडाशमष्टाकपालं निर्वपेत्। यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत्'' इति। 'प्रतिदिनमग्निहोत्रं होतुं गार्हपत्यादुद्धृत्याहवनीयेऽग्निः प्रक्षिप्यते, सोऽयमुद्धृतोऽग्निः कदाचिदहुतेऽग्निहोत्रे यदि शाम्येत्, तदानीमियमिष्टिः प्रायश्चितम्' इत्यर्थः। तत्र दर्शपूर्णमासार्थमुद्धृतस्याप्यग्नेः शान्तौ सेयं ज्योतिष्मतीष्टिर्भवेत्। कुतः- अग्न्युद्वानस्य निमित्तस्य सद्भावात्। इति चेत्- मैवम्। अग्निहोत्रार्थमुद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते। अनया चेष्ट्याऽग्निहोत्रायैवाग्निः पुनरुत्पाद्यते। तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति। अतोऽग्निहोत्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते।। 11।।  अष्टमे- धार्योद्वाने प्रायश्चित्तरूपज्योतिष्मत्यननुष्ठानाधिकरणे सूत्रे 29-30   धारणे च परार्थत्वात्।। 29।।  क्रियार्थत्वादितरेषु कर्म स्यात्।। 30।। अष्टमाधिकरणमारचयति- धार्योद्वाने साऽस्ति नो वा सर्वार्थत्वेन विद्यते। गतश्रीत्वनिमित्तं तत्परार्थत्वान्न विद्यते।। 12।। इदमाम्नायते ''धार्यो गतश्रिय आहवनीयः'' इति। गतश्रीशब्दार्थस्त्वेवं श्रूयते 'त्रयो ह वै गतश्रियः ब्राह्मणः शुश्रुवान्, ग्रामणीः, राजन्यः' इति, 'और्वो गौतमो, भारद्वाजः' इति कल्पसूत्रकारः। गतश्रीभिर्धार्यमाणस्याहवनीयस्य सर्वकर्मार्थत्वे सत्यग्निहोत्रार्थत्वमप्यस्तीति तदुद्वाने सा ज्योतिष्मतीष्टिर्विद्यते। इति चेत्- मैवम्। न ह्यस्य धारणेऽग्निहोत्रं निमित्तम्, किंतु गतश्रीत्वम्, सर्वकर्मसमुदायस्य चोदनया कयाचिदप्यचोदितत्वात्सर्वार्थत्वं शङ्कितुमप्यशक्यम्। गतश्रीत्वं निमित्तीकृत्य धृतोऽग्निः प्रसङ्गात्सर्वकर्मसूपकुर्वन्नग्निहोत्रेऽप्युकरोति- इति चेत्- उपकरोतु नाम। नैतावता प्रायश्चितस्य निमित्तं लभ्यते। अग्निहोत्रार्थमुद्धृतस्योद्वानं तन्निमित्तम्। न चात्र तदस्ति। किंत्वन्यस्य यस्य कस्यचित्कर्मणोऽर्थे समुद्धृतस्य गतश्रीत्वनिमित्तं धारणं क्रियते। तस्मात्- निमित्ताभावान्नास्ति सेष्टिः।। 12।।  नवमे दर्शार्थस्योद्धरणस्यामन्त्रकत्वाधिकरणे सूत्रम्   न तूत्पन्ने यस्य चोदनाऽप्राप्तकालत्वात्।। 31।। नवमाधिकरणमारचयति- दर्शार्थोद्धरणे वाचेत्यादिर्नो वा, समन्त्रकम्। कर्तुं स्यान्न निमित्तस्य कालस्यात्र विवर्जनात्।। 13।। अस्त्यग्निहोत्रे वह्न्युद्धरणमन्त्रः- ''वाचा त्वा होत्रा, प्राणेनोद्गात्रा, चक्षुषाऽध्वर्युणा, मनसा ब्रह्मणा, श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामि'' इति। सोऽयं मन्त्रो दर्शपूर्णमासार्थेऽपि वह्न्युद्धरणे पठितव्यः। कुतः- तदुद्धरणस्याग्निहोत्रेऽप्यङ्गत्वात्। उद्धृते हि तस्मिन्नग्नौ पर्वणि सायं, प्रतिपदि प्रातश्चाग्निहोत्रमनुष्ठीयते। यदि तत्र मन्त्रो न पठ्यते, तदानीमग्निहोत्राङ्गमुद्धरणं विगुणं स्यात्। ततः समन्त्रकं कर्तुं मन्त्रः पठनीयः। इति चेत्- मैवम्। अग्निहोत्राङ्गे समन्त्रकाग्न्युद्धरणे निमित्तस्य कालस्यासंभवात्। अधिवृक्षसूर्य आविःसूर्ये च काले क्रमेण सायं प्रातश्चाग्निहोत्रवह्न्युद्धरणं विहितम्। दर्शपूर्णमासार्थं तु पर्वणि प्रातरग्निहोत्रे हुते पश्चादग्निमुद्धृत्यान्वाधानं क्रियते। अतो निमित्तस्य कालस्याभावान्नैमित्तिकं समन्त्रोद्धरणं नास्ति।। 13।।  दशमे- प्रायणीयचरौ प्रदानधर्माणामननुष्ठानाधिकरणे सूत्राणि 32-40   प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत्।। 32।।  संस्कारप्रतिषेधश्च तद्वत्।। 33।।  तत्प्रतिषेधे च तथाभूतस्य वर्जनात्।। 34।।  अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः।। 35।।  परो नित्यानुवादः स्यात्।। 36।।  विहितप्रतिषेधो वा।। 37।।  वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम्।। 38।।  व्रतधर्माच्च लेपवत्।। 39।।  रसप्रतिषेधो वा पुरुषधर्मत्वात्।। 40।। दशमाधिकरणमारचयति- प्रदेयधर्माः स्युर्नो वा पयसि प्रायणीयगे। चरुवत्स्युः पाकहेतुः सप्तम्या स्युर्न ते ततः।। 14।। ज्योतिष्टोमे श्रूयते ''आदित्यः प्रायणीयः पयसि चरुः'' इति। तत्र चरुपयसोरुभयोर्देवतासंबन्धेन प्रदेयद्रव्यत्वसाम्यात्, यथा चरौ निर्वापावघातादयः समन्त्रकाः प्रदेयद्रव्यधर्मा अनुष्ठीयन्ते, तथा पयसि समन्त्रकवत्सापाकरणादयः प्रदेयद्रव्यधर्मा अनुष्ठेयाः। इति चेत्- मैवम्। आधारवाचिन्या 'पयसि' इति सप्तम्या श्रपणहेतुत्वावगमात्। ततो न ते धर्माः कर्तव्याः, किंतु प्रणीताधर्मा उत्पवनादयस्तत्र कर्तव्याः।। 14।।  एकादशे- अभ्युदयेष्टौ दधिशृतयोः प्रदेयधर्मानुष्ठानाधिकरणे सूत्रे 41-42   अभ्युदये दोहापनयः स्वधर्मा स्यात्प्रवृत्तत्वात्।। 41।।  शृतोपदेशाच्च।। 42।। एकादशाधिकरणमारचयति- पयोदध्नोरभ्युदये न ते स्युर्वा, पुरेव नो। प्रवृत्तत्वाद्देवयोगमात्रोक्तेः सन्ति तेऽन्यवत्।। 15।। अभ्युदयेष्टिरेवमाम्नायते ''वि वा एनं प्रजया पशुभिरर्धयति, वर्धयत्यस्य भ्रातृव्यम्। यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति। त्रेधा तण्डुलान्विभजेत्। ये मध्यमाः स्युः, तानग्न्ये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधंश्चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति। अयमर्थः 'यस्य यजमानस्य दर्शकर्मार्थं हविर्भ्रान्त्या चतुर्दश्यां निरुप्तं भवति। तत उषसि पूर्वस्यां दिशि चन्द्रमा अभ्युदेति। तं यजमानमध्वर्युः प्रजया पशुभिश्च वियोजयति। तदीयं च वैरिणं वर्धयति। ततः प्रवृत्तेऽस्मिन्दर्शकर्मणि चन्द्रोदयं निमित्तीकृत्य पूर्वदेवतापनयनेन तण्डुलानां देवतान्तरसंबन्धः कर्तव्यः' इति। तदिदं षष्ठाध्याये निर्णीतम्। इह तु पूर्वोक्तप्रायणीयन्यायेन सप्तमीनिर्दिष्टयोर्दधिशृतयोः प्रदेयद्रव्यधर्मा न कर्तव्याः, किंतु प्रणीताधर्माः। इति प्राप्ते- ब्रूमः- विषमो दृष्टान्तः। प्रायणीयस्य पूर्वमप्राप्ततया द्रव्यं, देवता, श्रपणाधारभूतं पयश्च, इत्येवमनेकैर्गुणैर्विशिष्टं कर्मैकेन वाक्येन विधातुं शक्यम्। इह तु कर्मणः प्रवृत्तत्वात्तस्मिन्कर्मणि तण्डुलानां नैमित्तिको देवतान्तरसंबन्ध एक एव गुणो विधातुं शक्यते, न तु दधिशृतयोः प्रणीतार्थत्वं गुणान्तरम्, अनेकगुणविधौ वाक्यभेदप्रसङ्गात्। तस्मात्तण्डुलवत्प्रदेयत्वेन प्रवृत्तयोर्दधिशृतयोः प्रदेयधर्माः कर्तव्याः।। 15।।  द्वादशे पशुकामेष्टौ दधिशृतयोः प्रदेयधर्माननुष्ठानाधिकरणे सूत्रे 43-44   अपनयो वाऽर्थान्तरे विधानाच्चरुपयोवत्।। 43।।  लक्षणार्था शुतश्रुतिः।। 44।। द्वादशाधिकरणमारचयति- स न्यायः पशुकामेष्टौ प्रायणीयनयोऽथवा। तुल्यश्रुतित्वात्स्यादाद्योऽपूर्वकर्मत्वतोऽन्तिमः।। 16।। इदमाम्नायते ''यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात्'' इति। तत्रेदमपरमाम्नातम्- ''ये मध्यमाः स्युः, तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधनि चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति। तत्र- अभ्युदयेष्ट्यां समानश्रुतित्वात्तेनैव न्यायेन दधिशृतयोः प्रदेयधर्माः। इति चेत्- मैवम्। पाठसाम्येऽप्यपूर्वकर्मत्वादर्थसाम्यं नास्ति। ततः प्रायणीयन्यायेन सप्तम्या श्रपणाधारत्वावगमात्प्रणीताधर्मा एवात्र कार्याः।। 16।।  त्रयोदशे- ज्योतिष्टोमे श्रयणानां प्रदेयधर्माननुष्ठानाधिकरणे सूत्राणि 45-50   श्रयणानां त्वपूर्वत्वात्प्रदानार्थे विधानं स्यात्।। 45।।  गुणो वा श्रयणार्थत्वात्।। 46।।  अनिर्देशाच्च।। 47।।  श्रुतेश्च तत्प्रधानत्वात्।। 48।।  अर्थवादश्च तदर्थवत्।। 49।।  संस्कारं प्रति भावाच्च तस्मादथ प्रधानं स्यात्।। 50।। त्रयोदशाधिकरणमारयति- मिश्रणे पय आदीनां सोमधर्मा न वाऽग्रिमः। प्रदातुं मेलनान्मैवं संस्कारार्थत्वतः श्रुतेः।। 17।। ज्योतिष्टोमे पयःप्रभृतिभिर्द्रव्यैर्ग्रहपात्रनिष्ठस्य सोमस्य मिश्रणमाम्नातम्- ''पयसा मैत्रावरुणं श्रीणाति, सक्तुभिर्मन्थिनम्, धानाभिर्हारियोजनम्, हिरण्येन शुक्रम्, आज्येन पात्नीवतम्'' इति। तत्र मिश्रणं सोमेन सह प्रदानार्थम्। ततः प्रदेयस्य सोमस्य ये धर्माः क्रयादयः, ते पयःप्रभृतिषु कर्तव्याः। इति चेत्- मैवम्। मेलनस्य सोमसंस्कारार्थत्वात् 'मैत्रावरुणम्' इत्यादिभिर्द्वितीयाश्रुतिभिः सोमस्य प्राधान्यं गम्यते। 'पयसा' इत्यादिभिस्तृतीयाश्रुतिभिः पयःप्रभृतीनां तादर्थ्यम्। ततः संस्कारकाणां प्रदेयत्वाभावान्न तद्धर्माः सन्ति।। 17।।  चतुर्दशे- 'ईशानाय परस्वत' इत्यत्र यागान्तरविधानाधिकरणे सूत्राणि 51-55   पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत्।। 51।।  शेषप्रतिषेधो वाऽर्थाभावादिडान्तवत्।। 52।।  पूर्ववत्त्वाञ्च शब्दस्य संस्थापयतीति चाप्रवृत्ते नोपपद्यते।। 53।।  प्रवृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाज्यस्य।। 54।।  क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात्।। 55।। चतुर्दशाधिकरणमारचयति- स्पर्शः परस्वदालम्भो यागो वोत्सर्गतोऽग्रिमः। द्रव्यदेवान्वयाद्यागोऽङ्गरीतिविधिरुत्तमः।। 18।। अश्वमेघे समाम्नायते ''ईशानाय परस्वत आलभते पर्यग्निकृतानारण्यानुत्सृजति'' इति। परस्वच्छब्देनारण्याः पशुविशेषा उच्यन्ते। तेषामालम्भः स्पर्शमात्रम्। कुतः- पर्यग्निकृतानां तेषां पशूनामुत्सर्गविधानात्। यागपक्षे तदसंभवात्। इति चेत्- मैवम्। द्रव्यदेवतान्वयेन यागत्वावगमात्। 'ईशानाय' इति देवताया निर्देशः। 'परस्वतः' इति द्रव्यस्य। नहि यागमन्तरेण द्रव्यदेवतयोरन्वयः संभवति। पर्यग्निकृतोत्सर्गवाक्येन क्लृप्तोपकारप्राकृतपर्यग्निकरणान्ताङ्गरीतिर्विधीयते। तया प्रत्यक्षविहितया निराकाङ्क्ष ईशानप्रयोगवचने न चोदकमपेक्षते। तस्मादालम्भो यागः। इतरस्तत्र गुणविधिः।। 18।।  पञ्चदशे- 'आज्येन शेषं संस्थापयति' इत्यनेन कर्मान्तरविधानाधिकरणे सूत्राणि 56-60   आज्यसंस्थाप्रतिनिधिः स्याद्द्रव्योत्सर्गात्।। 56।।  समाप्तिवचनात्।। 57।।  चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात्।। 58।।  अनिज्यां च वनस्पतेः प्रसिद्धां तेन दर्शयति।। 59।।  संख्या तद्देवतत्वात्स्यात्।। 60।। पञ्चदशाधिकरणमारचयति- आज्येन शेषमित्युक्तौ द्रव्यप्रतिनिधिर्भवेत्। कर्मान्यद्वाऽग्रिमस्त्यागशेषसंस्थापनोक्तिभिः।। 19।। अङ्गरीत्या समाप्तत्वाद्देवतोक्त्यनुवर्तनात्। साम्याच्छेषः संस्थितिस्तु याग आलम्भनादिवत्।। 20।। ''त्वाष्ट्रं पात्नीवतमालभेत'' इति प्रकृत्य ''पर्यग्निकृतं पात्नीवतमुत्सृजति'' इति श्रुतम्। तत्र पुनः श्रूयते ''आज्येन शेषं संस्थापयति'' इति। तदिदमाज्यं पशुद्रव्यस्य प्रतिनिधिर्भवेत्। उत्सर्गशेषसंस्थापनशब्दैस्तदवगमात्। पर्यग्निकरणादूर्ध्वं पशुद्रव्यस्य त्यागमभिधाय 'आज्येन' इति द्रव्यान्तरं पशुस्थानीयं साधनभूतपदिश्य 'चोदकप्राप्तमुत्तरकालीनमङ्गजातं तेन द्रव्येण समापनीयम्' इति विधीयते। इति प्राप्ते- ब्रूमः- पूर्वाधिकरणन्यायेनाङ्गरीत्या पात्नीवतः पशुः समाप्तः। यदि 'पात्नीवतमालभेत' इति विहितस्य कर्मणः समाप्तिर्न स्यात्, केवलं पशुद्रव्यत्यागः क्रियते, तदा विहितो द्रव्यदेवतासंबन्धरूपो यागो नानुष्ठितः स्यात्। ततो देवतामुद्दिश्य त्यागोऽवश्यं कर्तव्यः स्यात्। तथा सति पशुसाधनके यागे मुख्येन पशुनैव साधिते कुतः प्रतिनिधिः। देवतोद्देशत्यागस्य चोत्पत्तिवाक्येनैव सिद्धत्वात्। पर्यग्निकरणोत्सर्गवाक्येनाङ्गरीतिविधाने संस्थापनीयः शेषो न कोऽप्यस्ति। तस्मात्- आज्यवाक्येन कर्मान्तरं विधीयते। देवता तु पात्नीवतशब्दस्यानुवृत्त्या लभ्यते। कर्मान्तरत्वेऽपि शेषत्वमुपचर्यते। पश्वाज्यद्रव्यकयोः पूर्वोत्तरकर्मणोः पत्नीवदाख्याया देवताया एकत्वेनाव्यवहितानुष्ठानेन चोपक्रमोपसंहारसदृशत्वात्। संस्थितिक्रियया त्वालम्भननिर्वापादिवद्यागो विवक्ष्यते। लिङ्प्रत्ययश्चापूर्वभावनामभिधत्ते। तस्मादाज्यद्रव्यकं पत्नीवद्देवताकं शेषवत्पशुयागसमनन्तरभाविकर्मान्तरमत्र विधीयते।। 19।। 20।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे नवमाध्यायस्य चतुर्थः पादः।। 4।। ।। समाप्तश्चायं नवमोऽध्यायः।। 9।। अत्र पादे- अधिकरणानि 15, सूत्राणि 60। आदितः- अधिकरणानि 596, सूत्राणि 1653। दशमोध्याययस्य प्रथमः पादः बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः। रूपान्तरत्वादासन्नं नवमे स्थितमूहनम्। निवृत्तित्वाद्विप्रकृष्टो दशमे बाध उच्यते।। 1।। अतिदिष्टपदार्थस्य रूपान्तरमूहनम्, ततः संनिकृष्यते। बाधस्तु पदार्थनिवृत्तिस्ततो विप्रकृष्यते। तस्मान्नवमदशमयोरध्याययोः पूर्वोत्तरभाव उपपन्नः।। 1।।  प्रथमे- वर्णकत्रयसहिते सूत्राणि 1-3   विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात्।। 1।।  अपि वाऽभिधानसंस्कारद्रव्यमर्थे क्रियेत तादर्थ्यात्।। 2।।  तेषामप्रत्यक्षविशिष्टत्वात्।। 3।। दशमाध्यायस्य प्रथमपादे प्रथमाधिकरणे (विकृतौ लुप्तार्थप्राकृतानां बाधसाधकं) प्रथमवर्णकमारचयति- वेदिः स्वयंकृतेत्यादौ प्राकृतं सर्वमाचरेत्। लुप्तार्थं बाध्यतां वाद्यश्चोदकप्रापितत्वतः।। 2।। अपेक्षासत्तियोग्यत्वहानेरुद्धननादिकम् । बाध्यतेऽपेक्षितं सर्वं चोदकेनातिदिश्यते।। 3।। ''रत्निनामेतानि हवींषि भवन्ति'' इति वाक्येन राजसूये रत्निनामकानां देवानां संबन्धीनि कानिचिद्धवींषि दर्शपूर्णमासेष्टिविकृतिरूपाणि विहितानि। तेषु मैत्राबार्हस्पत्ये हविषि श्रूयते ''स्वयंकृता वेदिर्भवति, स्वयंदिनं बर्हिः, स्वयंकृत इध्मः'' इति। इष्टावुद्धननखननपरिलेखनादिभिः क्रियाविशेषैर्वेदिर्निष्पाद्यते। ''स्फ्येनोत्तमां त्वचमुद्धन्ति, 'देवस्य त्वा सवितुः प्रसवे' इति खनति, स्फ्येन वेदिं परिलिखन्परिगृह्णाति'' इति तद्विधानात्। ''यज्ञस्य घोषदसि'' इत्यस्मिन्ननुवाके प्रोक्तैमन्त्रैर्दात्रच्छिन्नं बर्हिः संपाद्यते। ''त्रीन्परिधीन्'' इत्यादिमन्त्रोपेताभिः क्रियाभिरिध्मः सिध्यति। विकृतिरूपे तु हविष्युद्धननाद्यपेक्षां वारयितुं 'स्वयम्' इत्युक्तम्। यथावस्थित एव भूप्रदेशो वेदित्वेन स्वीकर्तव्यः। इध्माबर्हिषी अपि स्वत एव च्छिन्ने शास्त्रीयच्छेदननिरपेक्षे ग्राह्ये इत्यर्थः। तत्र प्रकृतौ सप्रयोजनानामुद्धननादीनां विकृतौ प्रयोजनं लुप्यते। उद्धननादिकृतस्य वेद्युपकारस्य स्वयंशब्देन निवारितत्वात्। बर्हिस्तरणहविरासादनोदयो वेदिधर्मा विकृतावप्यलुप्तार्थाः। तत्र संशयः 'किं लुप्तार्थमलुप्तार्थं च सर्वमङ्गजातं विकृतावप्यनुष्ठेयम्, उत लुप्तार्थं वर्जनीयम्' इति। चोदकस्य साधारणत्वात्सर्वमनुष्ठेयमित्याद्यपक्षे प्राप्ते- सिद्धान्तं ब्रूमः- अङ्गी ह्यङ्गैरुपकृतः फलं साधयति। तथा सत्यङ्गिनोऽङ्गकृत उपकारे साक्षादपेक्षा, उपकारद्वारा त्वङ्गेषु। प्रत्यासन्नश्चाङ्गिनं प्रत्यङ्गेभ्य उपकारः। योग्यताऽपि साक्षादपेक्षां पूरयितुमुपकारस्यैवास्ति, न त्वङ्गानाम्। वेदिनिष्पादनलक्षणदृष्टोपकारयुक्तानि प्रकृतावुद्धननाद्यङ्गानि। विकृतौ तु वेद्याः स्वतः सिद्धत्वेन निष्पादनोपकारो लुप्यते। तत उपकारद्वारकाण्याकाङ्क्षासंनिधियोग्यत्वान्युद्धननाद्यङ्गेषु हीयन्ते। तस्मात्- उद्धननादीनि नानुष्ठेयानि। सोऽयं चोदकप्रापितस्योद्धननाद्यनुष्ठेयत्वप्रत्ययस्य भ्रान्तित्वेन निश्चयो बाध इत्युच्यते। चोदकस्य त्वलुप्तोपकारैरुपकारद्वारेणाकाङ्क्षासंनिधियोग्यत्वयुक्तैर्हविरासादनाद्यङ्गैश्चरितार्थता संपद्यते।। 2।। 3।। (कृष्णलेष्ववहन्तिबाधसाधकं) द्वितीयवर्णकमारचयति- अवघातः कृष्णलानामस्ति नो वाऽस्ति पाकवत्। प्रत्यक्षोक्त्या चरेत्पाकमवघाते तु नास्ति सा।। 4।। विकृतिरूपाणां काम्येष्टीनां काण्डे पठ्यते ''प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्कामः'' इति। कृष्णलशब्दः सुवर्णशकलवाची। प्रकृतौ 'व्रीहीनवहन्ति' इति पुरोडाशहेतूनां व्रीहीणामवघातो विहितः, सोऽत्र चरुहेतूनां कृष्णलानां चोदकवशादस्ति, नो वा, इति संदेहः। 'अस्ति' इति पूर्वपक्षप्रतिज्ञा। वितुषीकरणं प्राकृत उपकारः। लुप्तेऽप्युपकारे तत्सत्तायां 'पाकवत्' इति निदर्शनम्। लुप्तेऽपि विक्लेदनोपकारे पाकः प्रतिवादिनोऽभिमतः, तद्वदवघातोऽप्यस्तु- इति चेत्- 'घृते श्रपयति' इति प्रत्यक्षोक्त्या पाकोऽभ्युपगन्तव्यः। अवघाते तु सोक्तिर्नास्ति, इति वैषम्यादवघातो नास्ति।। 4।। (वैश्वदेवचरौ विष्ण्वावाहनबाधसाधकं) तृतीयवर्णकमारचयति- वेश्वदेवस्य तन्त्रे यः पक्षे विष्णुः स किं पुरा। आवाह्यो वा न वावाह्य आग्नेयाङ्गातिदेशनात्।। 5।। वैश्वदेवावाहनस्य काले स्फ्याश्लेषवर्जनात्। विष्णुयागस्य संदेहाद्विष्णोरावाहनं न हि।। 6।। काम्येष्टिष्वेवं श्रूयते ''वैश्वदेवं चरुं निर्वपेद्भ्रातृव्यवान्। तं बर्हिषदं कृत्वा शम्यया स्फ्येन व्यूहेत् 'इदमहममुं चामुं च व्यूहामि' इति। यं द्विष्यासं ध्यायन्यदधो विमृज्येद्यच्च स्फ्य आश्लिष्येत्, तद्विष्णव उरुक्रमायावद्येत्'' इति। अस्यायमर्थः 'अयं शत्रुक्षयार्थश्चरुः। तस्य प्रकृतिभूतादाग्नेयपुरोडाशाद्विशेष उच्यते पुरोडाशशेषं यागोत्तरकाले बर्हिष्यवस्थाप्य चतुर्णामृत्विजां भक्ष्यविभागाय हस्तेन चतुर्धा कुर्यात्। ततः- इदं ब्रह्मणः, इदमध्वर्योः, इदं होतुः, इदमग्नीधः, इति तत्तद्भागान्पृथगुपदिशेत्। अत्रोग्रकर्मत्वान्न हस्तेन विभागः। किंतु तीक्ष्णाग्रेण शम्या स्फ्यनामकेन यज्ञायुधद्वयेन। मन्त्रं च ''इदमिदमहं ब्रह्मभागं व्यूहामि'' इत्येवमादिरूपं पठेत्, इत्येतावान्विशेषः। ततो यदि कदाचिच्चरुलेशो व्यूहनकाले भूमौ पतेत्, यज्ञायुधेन वा लिप्येत। तदा तं पतितं लिप्तं चरुलेशं तीव्रपराक्रमाय शत्रुक्षयसमर्थाय विष्णवेऽवद्येत्। व्यूहनकालेऽवदानकाले च शत्रुं तीक्ष्णं ध्यायेत्' इति। तत्र वैश्वदेविकतन्त्रमध्ये चरुलेशस्याधःपाताश्लेषणपक्षे वैष्णवयागो विहितः। अतो वैश्वदेविकेऽनुष्ठितान्याघारप्रयाजाज्यभागादीन्यङ्गानि वैष्णवेऽपि प्रसङ्गादुपकुर्वन्ति, इति न पृथक्क्रियन्ते। आवाहनं त्वनुष्ठानवैषम्येण न प्रसङ्गात्सिध्यति। 'विश्वान्देवानावह' इति हि तत्रावाहनम्। अत्र तु 'विष्णुमावह' इति वैषम्यम्। सामिधेनीप्रयाजयोर्मध्यकाले होत्रा देवतावाहनार्थो निगदः पठ्यते। सोऽयं वैश्वदेवावाहनस्य कालः। न खलु तदानीं विष्णुः प्रसक्तः। प्रयाजाज्यभागप्रधानयागनारिष्ठहोमचतुर्धाकरणेष्वनुष्ठितेष्वाश्लेषणपक्षे वैष्णवयागस्य प्राप्स्यमानत्वात्। अतोऽप्रसक्तोऽपि विष्णुर्भविष्यद्यागसिद्धये पूर्वस्मिन्काल आवाह्यो, न वा, इति संदेहः। 'आवाह्यश्चोदकवशात्' इति प्राप्तम्। न च वैष्णवस्य वैश्वदेवाप्रकृतित्वान्नास्ति चोदकः- इति शङ्क्यम्। तयोरुभयोरप्याग्नेयविकृतित्वेनोभयत्राप्याग्नेयाङ्गानामतिदेशात्। तस्मात्- मान्यानां विप्रादीनामनिमन्त्रणे भोजनार्थागमनादर्शनान्मान्यतमाया देवताया अनावाहने हविःस्वीकारस्य दूरापेतत्वादप्रसक्तोऽपि विष्णुर्भविष्यद्यागसिद्ध्यर्थमावाह्यः। इति प्राप्ते- ब्रूमः- किं चतुर्धाकरणादूर्ध्वमावाह्यते, किंवा प्रयाजेभ्यः पुरा। नाद्यः। 'अकाले कृतमकृतं स्यात्' इति न्यायेनावाहनस्य निरर्थकत्वात्। न द्वितीयः। विष्णुयागनिमित्तस्य भविष्यदाश्लेषस्य पाक्षिकत्वेन नैमित्तिकस्य विष्णुयागस्यापि पाक्षिकत्वात्। तथा सत्ययागपक्षे कृतमावाहनमनर्थायैव स्यात्। न हि निमन्त्रितो विप्रादिरभोजितः संतुष्यति, प्रत्युत शपत्येव। एतदेवाभिप्रेत्योच्यते ''देवताभ्यो वा एष आवृश्च्यते, यो यक्ष्य इत्युक्त्वा न यजते'' इति। यागपक्षे तु विनाऽप्यावाहनं याग उपपद्यते। कदाचिदनिमन्त्रितानामपि पूज्यानां स्नेहातिशयेन स्वयमेव भोक्तुमागच्छतां लोके दृष्टत्वात्। तस्मात्- नास्ति विष्णोरावाहनम्।। 5।। 6।।  द्वितीये- दीक्षणीयादिषु- आरम्भणीयाबाधाधिकरणे सूत्रम्   इष्टिरारम्भसंयोगादङ्गभूताग्निवर्तेतारम्भस्य प्रधानसंयोगात्।। 4।। द्वितीयाधिकरणमारचयति- आरम्भणीया सोमाङ्गदीक्षणीयादिगा न वा। अलोपादादिमोऽन्त्यः स्यादारम्भद्वारलोपनात्।। 7।। दर्शपूर्णमासयोरारप्स्यमानपुरुषसंस्कारार्थमारम्भणीयेष्टिर्विधीयते- ''आग्नावैष्णवमेकादशकपालं निर्वपद्देर्शपूर्णमासावारप्स्यमानः'' इति। सेयं सोमयागाङ्गभूतासु दीक्षणीयादिषु दर्शपूर्णमासेष्टिविकृतिषु कार्या, न वा- इति संदेहः। दर्शपूर्णमासेष्ट्यङ्गभूता या आरम्भणीया, तासु प्रयाजादिवच्चोदकप्राप्ताया लोपकारणाभावात्कार्या- इत्याद्यः पक्षः। किम्- आरम्भणीयाऽत्र क्रियमाणा सती सोमयागमारप्स्यमानस्य संस्कारः स्यात्, किंवा दीक्षणीयामारप्स्यमानस्य। नाद्यः। सोमयागस्य दर्शपूर्णमासविकृतित्वाभावेन सोमयागमारप्स्यमानस्य चोदकेनारम्भणीयाया अप्राप्तत्वात्। न द्वितीयः। अङ्गानां दीक्षणीयादीनां पृथगारम्भासंभवात्। ननु 'दीक्षणीयायास्तन्त्रं प्रकल्पयति' इति कल्पसूत्रकारैः पृथगारम्भो विहितः। मैवम्। अस्यारम्भस्य पुरुषसंस्कारेष्टिं प्रत्यप्रयोजकत्वात्। अन्यथा ततः प्रागनुष्ठितानामृत्विग्वरणादीनामसंस्कृत पुरुषानुष्ठानं प्रसज्येत। तस्मादारम्भाख्यद्वारलोपादारम्भणीया लुप्यत इत्यन्तिमः पक्षोऽभ्युपेयः।। 7।।  तृतीये- अनुयज्ञादिष्वारम्भाणीयाबाधाधिकरणे सूत्रम्   प्रधानाच्चान्यसंयुक्तात्सर्वारम्भान्निवर्तेतानङ्गत्वात्।। 5।। तृतीयाधिकरणमारचयति- सा किमस्त्यनुमत्यादौ न वाऽङ्गिन्यस्त्युपक्रमात्। संघस्योपक्रमो नेष्टेर्द्वारलोपान्न सा भवेत्।। 8।। ''अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति'' इत्यादिना राजसूये दर्शपूर्णमासेष्टिविकृतयोऽनुमत्यादयो विहिताः, तास्वारम्भणीयाऽस्ति, न वा, इति संशयः। दीक्षणीयादिवदनुमत्यादीनामन्याङ्गत्वाभावात्सोमयाग-वत्सर्वासामङ्गित्वेनोपक्रमसंभवात्तद्द्वारेणारम्भणीयाऽस्ति- इति पूर्वः पक्षः। यद्यपि- अङ्गिभूता अनुमत्यादयः, तथाऽप्येकैकस्या इष्टेः पृथगारम्भो नास्ति। अन्यथा प्रधानेष्वाग्नेयादिष्वारम्भणीयायाः षट्कृत्वोऽनुष्ठानं प्रसज्येत। अथोच्येत प्रधानानां षण्णामाग्नेयादीनां संघस्य दर्शपूर्णमासेष्टित्वात्तस्यैक आरम्भः- इति। तर्ह्यत्रापीष्टिपशुसोमदर्विहोमरूपाणामनेकेषां प्रधानानां संघस्य राजसूयत्वात्संघस्यैवोपक्रमोऽस्तु। न चासौ संघो दर्शपूर्णमासविकृतिः। येन तत्रारम्भणीयाशङ्क्येत। अस्ति चात्रापरः सर्वारम्भार्थो यागः, ''अग्निष्टोममग्ने ज्योतिष्टोममाहरति'' इति ज्योतिष्टोमावान्तरसंस्थाभेद-रूपस्याग्निष्टोमस्याम्नानात्। तस्मादनुमत्यादिष्विष्टिष्वारम्भद्वारस्य लोपात्साम्भणीया न भवेत्।। 8।।  चतुर्थे- आरम्भणीयायामारम्भणीयाबाधाधिकरणे सूत्राणि 6-8   तस्यां तु स्यात्प्रयाजवत्।। 6।।  न वाऽङ्गभूतत्वात्।। 7।।  एकवाक्यत्वाच्च।। 8।। चतुर्थाधिकरणमारयति- तस्यां साऽस्ति न वाऽङ्गत्वेऽप्यस्याः पृथगुपक्रमात्। अस्ति मैवं वचोऽशक्तेर्विधाने चातिदेशने।। 9।। येयमारम्भणीया, साऽपीष्टित्वाद्दर्शपूर्णमासविकृतिः। अतस्तस्यामपि दर्शपूर्णमासयोरिवारप्स्यमान-पुरुषसंस्काराय साऽनुष्ठेया, न वा, इति संशयः। चोदकप्राप्तत्वादनुष्ठेया। ननु सोमाङ्गदीक्षणीयादिवदस्या दर्शपूर्णमासाङ्गत्वेनारम्भद्वारं लुप्यते- इति। न, वैषम्यात्। ऋत्विग्वरणादिना प्रयोगमारभ्यानुतिष्ठतः पुरुषस्यानुष्ठानमध्ये दीक्षणीया प्रवर्तते। दर्शपूर्णमासारम्भस्त्वारम्भणीयायामनुष्ठितायां पश्चात्संपद्यते। ततो दर्शपूर्णमासोपक्रमादन्य आरम्भणीयोपक्रमः- इति। द्वारसद्भावादारम्भणीयामारप्स्यमानः स्वसंस्कारार्थमारम्भणीयामन्यां कुर्यात्। अनवस्था तु लोकसिद्धबीजाङ्कुरादिदृष्टान्तेन समाधेया इति प्राप्ते- ब्रूमः- आरम्भणीयायामारम्भणीयान्तरं न कार्यम्। कुतः- अङ्गान्तरवदतिदेष्टुमशक्यत्वात्। तथा हि प्रकृतौ ''समिधो जयति'' इत्यादिवाक्यैः प्रयाजाद्यङ्गानां स्वरूपमुपदिश्यते। प्रकरणेन त्वङ्गाङ्गिभावो बोध्यते। ततः ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यादिकायां विकृतौ निर्वापलिङ्गानुमितं चोदकवाक्यमेवं पवर्तते 'इष्टिवच्चरौ प्रयाजाद्यङ्गान्यनुष्ठेयानि' इति। एवं च सत्यारम्भणीयायामिदं वाच्यं, किम्-''आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः'' इत्येतद्वाक्यं समिदादिवाक्यवदङ्गभूतामारम्भणीयां विदधातु किंवा यथा सौर्यादिवाक्यमङ्गातिदेशमनुमापयति, तथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामन्यस्या आरम्भणीयाया अङ्गातिदेशमनुप्रापयतु उत- उभयं करोतु- इति। नाद्यः। अङ्गविधावुपक्षीणत्वेनातिदेशानुमाने शक्त्यभावात्। न द्वितीयः। अविहितत्वेनातिदेष्टुमयोग्यस्याङ्गस्यातिदेशे शक्त्यभावात्। न तृतीयः। वाक्यभेदापत्तेः। ननु- अनेन न्यायेन सौर्यवाक्येऽपि वाक्यभेदः स्यात्। एकस्यैव वाक्यस्य यागविध्यङ्गातिदेशयोः प्रवृत्तत्वात्। मैवम्। वाक्यद्वयसद्भावात्। प्रत्यक्षं वाक्यं यागविधायकम्। अनुमितं वाक्यमङ्गातिदेशकम्। तर्हि- अत्रापि तादृशं वाक्यद्वयं भवतु- इति चेत्- बाढम्। अत एवारम्भणीयायां प्रयाजाद्यङ्गान्यनुष्ठीयन्ते। तद्वदारम्भणीयान्तररूपमप्यङ्गमनुष्ठीयताम्- इति चेत्- न। दर्शपूर्णमासप्रकरणे प्रयाजाद्यङ्गविधायकसमिदादिवाक्यवदारम्भणीयान्तररूपाङ्गविधायिनः कस्यचिद्वाक्यस्याभावात्। नहि प्रकृतावविद्यमानमङ्गं विकृतावतिदेशमर्हति। तस्मात्- संप्रतिपन्नस्यैवारम्भणीयाविधायिनो वाक्यस्येष्ट्यङ्गस्वरूपविधानाय समिदादिवाक्यस्थानीयत्वम्, अतिदेशाय सौर्यवाक्यस्थानीयत्वं च, इत्याकारद्वयं वर्णनीयम्। तथा सति- आवृत्तिलक्षणो वाक्यभेदः केन वार्येत। तस्मात्- आरम्भणीयायामारप्स्यमानपुरुषसंस्कारायारम्भणीयान्तरं न कार्यम्।। 9।।  पञ्चमे- खलेवाल्यां यूपाहुतिबाधाधिकरणे सूत्रम्   कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात्।। 9।। पञ्चमाधिकरणमारचयति- यूपाहुतिः खलेवाल्यां कार्या नो वाऽतिदेशतः। कार्या होमच्छेदनार्थो नाच्छेद्यायां स युज्यते।। 10।। अस्ति साद्यस्क्रनामकः कश्चिद्यागः, ''सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः'' इति तद्विधानात्। सन्ति साद्यस्क्राः पशवः। ''सह पशूनालभते'' इति श्रुतेः। तेषु पशुषु वेद्युत्तरवेदियूपाः शास्त्रीयसंस्कारनिरपेक्षा एव गृह्यन्ते। अत एव- आश्वलायन आह- 'साद्यस्क्रेषूर्वरा वेदिः, खलेवाली यूपः' इति। खले बलीवर्दबन्धनाय निखातो मेढिः खलेवाली। तेषां च पशूनामग्नीषोमीयपशुविकृतित्वात्तदीययूपकार्याः पशुनियोजनादयः खलेवाल्यां क्रियन्ते। तथा प्रकृतौ यूपमाप्तुं गमिष्यतः पुरुषस्याहुतिर्विहिता ''यूपमच्छैष्यता होतव्यम्'' इति। तां चाहुतिमापस्तम्बो दर्शयति- ''उरु विष्णो विक्रमस्व' इति स्रुवेणाहवनीये यूपाहुतिं जुहोति'' इति। सेयमाहुतिः खलेवाल्यां कार्या, न वा, इति संशयः। 'तद्धर्मातिदेशात्पशुनियोजनवत्कार्या' इति पूर्वपक्षः। 'यूपमच्छैष्यता' इति वाक्यस्यायमर्थः- 'अयूपं खादिरादिकाष्ठविशेषं शास्त्रीयच्छेदनादिसंस्कारैर्यूपीकर्तुं काष्ठस्य शास्त्रीयच्छेदनयोग्यतायै होमः कर्तव्यः' इति। नहि खलेवाल्याः शास्त्रीयं छेदनमस्ति। पूर्वमेव च्छिन्नस्य काष्ठस्य कृषीवलैः खले निखातत्वात्। तस्मात्- छेदनद्वारलोपादाहुतिर्न विद्यते।। 10।।  षष्ठे- खलेवाल्यां स्थाण्वाहुतिबाधाधिकरणे सूत्राणि 10-13   स्थाणौ तु देशमात्रत्वादनिवृत्तिः प्रतीयेत।। 10।।  अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत।। 11।।  समाख्यानं च तद्वत्।। 12।।  मन्त्रवर्णश्च तद्वत्।। 13।। षष्ठाधिकरणमारचयति- तस्यां स्थाण्वाहुतिः कार्या न वा, स्थाणौ विधानतः। कर्तव्योपकरोत्यारात्पशौ सा प्रकृताविव।। 11।। यूपीयाव्रश्चनस्थाणुद्वाराऽसौ यूपसंस्कृतिः। स्रग्वत्तत्संभवात्सेयमयूपाद्विनिवर्तते।। 12।। अग्नीषोमीययूपप्रकरणे- ''स्थाण्वाहुतिं जुहोति'' इति श्रूयते। यूपे वृक्णे सत्यवशिष्टं वृक्षमूलं काष्ठरूपत्वेन स्थाणुरित्युच्यते। तत्राहुतिविशेष एवं श्रूयते ''वनस्पते शतवल्शो विरोह- इत्याव्रश्चने जुहोति'' इति। सेयमाहुतिस्तस्यां खलेवाल्यां कार्या, न वा, इति संशयः। स्थाणुमुपजीव्याहुतिविधानात्खलेवाल्यामपि स्थाणुत्वात्सा कर्तव्या। न च खलेवाल्याः शास्त्रीयसंस्काराभावेनाहुतिर्व्यर्था- इति शङ्कनीयम्। पशावारादुपकारकत्वात्। यथा प्रकृतौ यूपाद्वियोजितस्याव्रश्चनस्थाणोरसंस्कार्यत्वेन पशावुपकारः, तद्वत्। इति प्राप्ते- ब्रूमः- 'आव्रश्च्यतेऽस्मात्' इत्याव्रश्चनमवशेषं वृक्षमूलम्। न खलु स्थाणुमात्रम्, आव्रश्चनमात्रं वोपजीव्येयमाहुतिः प्रवृत्ता, किं तर्हि यूपप्रकरणबलेन यूपीयाव्रश्चनस्थाणुत्वमुपजीव्य प्रवृत्ता। ततस्तद्द्वारेणासावाहुतिर्यूपसंस्कृतिः स्यात्। तथा च दृष्टसंस्कारे संभवत्यदृष्टमारादुपकारकत्वं कल्पयितुमयुक्तम्। न च यूपवियोजितस्थाणुगतातिशयेन यूपसंस्कारो न संभवति। यूपसंबन्धित्वेन तत्संभावात्। यथा- आचार्यस्य देवदत्तस्य शिरसोऽवतारिताया अपि स्रजः शिष्येण शुचि देशेऽवस्थापनम्। तत्संबन्धादाचार्यस्यैव संस्कारायावकल्पते, तद्वत्। अतो यूपसंस्कारार्थेयमाहुतिरयूपात्मिकायाः खलेवाल्या निवर्तते।। 11।। 12।।  सप्तमे- उत्तमप्रयाजस्य संस्कारकर्मताधिकरणे सूत्रे 14-15   प्रयाजे च तन्न्यायत्वात्।। 14।।  लिङ्गदर्शनाच्च।। 15।। सप्तमाधिकरणमारचयति- अन्त्यः प्रयाज आरात्किमुपकार्युत संस्कृतिः। स्वाहाकारेतिदेवोक्तेर्मातृवन्मन्त्रवर्णनात्।। 13।। आद्यो मैवं चतुर्थ्यादेरभावाद्यागमात्रके। विधित्सयाऽत्र सौर्यादावर्थोऽग्न्यादिनिवर्तनम्।। 14।। दर्शपूर्णमासेष्टौ पञ्चमः प्रयाज एवमाम्नायते ''स्वाहाकारं यजति'' इति। स किमिष्टेरारादुपकारकः, उत- आज्यभागादिषु यक्ष्यमाणानामग्न्यादिदेवतानां संस्कारकः, इति संशयः। तत्र स्वाहाकारशब्देन देवतोच्यते, यागस्य तदाकाङ्क्षणात्। न च प्रत्यक्षवचनमुपेक्ष्य मन्त्रवर्णाद्देवताकल्पनमुचितम्। ननु एवं सति विधिमन्त्रयोर्वैयधिकरण्यं प्रसज्येत। विधिना हि स्वाहाकाराख्या देवता विहिता, मन्त्रे तु यक्ष्यमाणाज्यभागादिदेवता अग्न्यादिदेवताः प्रतीयन्ते। ''स्वाहाऽग्निं, स्वाहा सोमं, स्वाहा प्रजापतिं, स्वाहाऽग्नीषोमौ'' इत्यादिको हि तन्मन्त्रः। नैष दोषः, मातृशब्दवन्मान्त्रवर्णिकाग्न्यादिशब्दानामनेकार्थत्वसंभवात्। यथा मातृशब्दः प्रस्थादिना धान्यस्य मातारं, जननीं चाचष्टे। तथाग्न्यादिशब्दः स्वाहाकाराख्यदेवतामाचक्षताम्। न च स्वाहाकाराख्यदेवतैव संस्क्रियतामिति वाच्यम्। संस्कृतायास्तस्या अन्यत्रोपयोगाभावात्। तस्मादिष्टेरारादुपकारकः। इत्याद्यः पक्षोऽभ्युपेयः। मैवम्। चतुर्थ्या तद्धितेन वा सर्वत्र देवता विधीयते। न चात्र तौ विद्येते। किंच- अयं विधिर्देवतायागावुभौ विधत्ते, देवतामात्रं वा, यागमात्रं वा। नाद्यः। वाक्यभेदापत्तेः। न द्वितीयः। गौरवप्रसङ्गात्। न तृतीयः। अप्राप्तस्य यागस्याननुवाद्यत्वे सति तदनुवादेन देवताविध्ययोगात्। तस्मात्- चतुर्थः परिशिष्यते। तत्र च द्वितीयान्तः स्वाहाकारशब्दः ''पौर्णमासीं यजते'' इत्यादाविव कर्मनामधेयं भविष्यति। तस्मात्- आज्यभागादिदेवतासंस्कार उत्तमः प्रयाजः। एवं च सति सौर्यादिविकृतिषूत्तमप्रयाजमन्त्रे प्रधानदेवतावाच्यग्न्यादिपदपरित्यागो बाधविचारान्तर्गतस्याधिकरणस्य फलं भविष्यति।। 13।। 14।।  अष्टमे- अग्नियागस्यारादुपकारकत्वाधिकरणे सूत्राणि 16-18   तथाज्यभागाग्निरपीति चेत्।। 16।।  व्यपदेशाद्देवतान्तरम्।। 17।।  समत्वाच्च।। 18।। अष्टमाधिकरणमारचयति- आज्यभागो य आग्नेयः किं मुख्याग्नेः स संस्कृतिः। आरादुतोपकारी स्यात्पूर्वन्यायेन संस्कृतिः।। 15।। निगदेऽग्नेर्द्विरुक्तत्वाद्विधावेकपदोक्तितः। उपकारी ततः सोऽग्निः सौर्यादौ न निवर्तते।। 16।। दर्शपूर्णमासयोराम्नायते ''आज्यभागावग्नीषोमाभ्यां यजति'' इति। तयोः प्रथम आग्नेयः, द्वितीयः सौम्यः। तत्र सौम्यस्य नास्ति संदेहः। प्रधानदेवतासु केवलस्य सोमस्याभावात्। अग्निश्च केवल आग्नेयपुरोडाशे विद्यते। तस्मादाग्नेय आज्यभागः पुरोडाशदेवताया अग्नेः किं संस्कारः, उत- इष्टेरारादुपकार इति संदिह्यते। तत्र यथोत्तमप्रयाजो मन्त्रोक्तानां यक्ष्यमाणदेवतानां संस्कारः, तथा प्रथम आज्यभागोऽपि ''अग्निमग्न आवह'' इति निगदोक्तस्य प्रधानयागदेवतारूपस्याग्नेः संस्कारः- इति पूर्वः पक्षः। अत्रोच्यते- निगदस्तावदेवं पठ्यते- ''अग्निमग्न आवह। सोममावह। अग्निमावह'' इति। अस्यायमर्थः- 'भो आहुत्यधिकरणभूताग्ने, हविर्ग्राहिण आज्यभागद्वयाष्टाकपालपुरोडाशदेवतारूपान्- अग्निः, सोमः, अग्निः, इत्येतांस्त्रीनिहेष्टावावह' इति। तत्र पुरोडाशदेवतारूपादग्नेः प्रथमाज्यभागदेवतारूपोऽग्निरन्य इति गम्यते। अन्यथावाह्यस्याग्नेरेकस्य द्विरुक्तिवैयर्थ्यात्। ततः प्रथमाज्यभाग इज्यमानस्याग्नेः पुरोडाशदेवतात्वाभावात्तत्संस्कारकत्वमयुक्तम्। किंच- आज्यभागविधौ ''अग्नीषोमाभ्यां यजति'' इति देवताद्वयं समस्तेनैकेन पदेनोच्यते। तत्र यथा सोमस्य यागं प्रति गुणत्वं भवताऽभुपगमतम्, तथाऽग्नेरप्यभ्युपगन्तव्यम्। तच्च संस्कारपक्षे विरुद्धम्। संस्कार्यत्वेन प्राधान्यावश्यभावात्। तस्मात्- संस्कारपक्षासंभवात्प्रथमाज्यभागो द्वितीयाज्यभागवदिष्टेरारादुपकारकः। एवं च सति सौर्ययागेऽपि प्रथमाज्यभागेऽग्निर्न निवर्तते। इति बाधापवादो विचारफलं भविष्यति।। 15।। 16।।  नवमे- पशुपुरोडाशयागस्य देवतासंस्कारकत्वाधिकरणे सूत्राणि 19-33   पशावपीति चेत्।। 19।।  न तद्भूतवचनात्।। 20।।  लिङ्गदर्शनाच्च।। 21।।  गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च।। 22।।  अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात्।। 23।।  व्यृद्धवचनं च विप्रतिपत्तौ तदर्थत्वात्।। 24।।  गुणेऽपीति चेत्।। 25।।  नासंहानात्कपालवत्।। 26।।  ग्रहाणां च संप्रतिपत्तौ तद्ववचनं तदर्थत्वात्।। 27।।  ग्रहाभावे च तद्वचनम्।। 28।।  देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति।। 29।।  अविरुद्धोपपत्तिरर्थापत्तेः शृतवद्गुणभूतविकारः स्यात्।। 30।।  स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्वमुक्तं तस्यार्थवादत्वम्।। 31।।  विप्रतिपत्तौ तासामाख्याविकारः स्यात्।। 32।।  अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः।। 33।। नवमाधिकरणमारचयति- उपकारी संस्कृतिर्वा पुरोडाशः पशूदितः। तद्धितोक्त्या द्वयोर्देवभेदादुपकृतिर्मता।। 17।। संदंशान्निश्चितेऽङ्गत्वे दृष्टोऽर्थः स्मृतिसंस्कृतिः। देवान्तरं चेद्विकृतावग्नीषोमनिवर्तनम्।। 18।। ज्योतिष्टोमाङ्गभूताग्नीषोमीयपशौ श्रूयते ''अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशुपुरोडाशमेकादशकपालं निर्वपति'' इति। तत्र पशावुक्तः पुरोडाशः किं पशोरारादुपकारकः, उत प्रशुदेवतासंस्कारकः, इति संदेहः। तत्र ''अग्नीषोमीयं पशुमालभेत'' इति पशुविधौ तद्धितोक्त्याऽग्नीषोमदेवता यथा गुणत्वेन पशौ विधीयते तथा पशुपुरोडाशे। तथा सति विधिभेदेन विधेयदेवताभेदात्संस्कारो न युक्तः। गुणत्वं च संस्कार्यत्वविरोधीति पूर्वोक्तम्। तस्मात्- पशोरारादुपकारकः। इति प्राप्ते- ब्रूमः- देवताभेदवादिना तावदिदं वक्तव्यम्- पशुः पुरोडाशश्चेत्युभौ किं स्वतन्त्रौ यागौ, किंवाऽङ्गाङ्गिरूपौ। तत्रापि किमङ्गम्, किंवाऽङ्गी, इति। तत्र पशुधर्मैरुभयतः संदष्टस्य पुरोडाशस्य स्वतन्त्राङ्गित्वे प्रकरणपाठो बाध्येत, तद्वदभिमतमुपकारकत्वं न सिध्येत्। अङ्गत्वेऽपि दृष्टसंभवाददृष्टकल्पनमन्याय्यम्। संभवति चात्र दृष्टम्। पुरोडाशवाक्यगतेन तद्धितान्तपदेन पशुवाक्यविहिताया देवताया अनुवादे सति तदीयस्मरणपूर्वकनिर्वापेण पशुदेवतायाः संस्क्रियमाणत्वात्। एवं च सति पशुवाक्ये गुणत्वेन प्रतीयमानाया अपि देवतायाः पुरोडाशवाक्ये प्राधान्यावगमात्संस्कार्यत्वमविरुद्धम्। तस्मात्पशुदेवतासंस्कारः पुरोडाशः। एवं च सत्यग्नीषोमीयपशुविकृतौ वायव्यपशावग्नीषोमीयदेवतायां निवृत्तायां तदीयपशुपुरोडाशेऽपि सा निवर्तत इति बाधः फलिष्यति।। 17।। 18।।  दशमे- चरुशब्दस्यौदनवाचिताधिकरणे सूत्राणि 34-44   चरुर्हविर्विकारः स्यादिज्यासंयोगात्।। 34।।  प्रसिद्धग्रहणत्वाच्च।। 35।।  ओदनो वाऽग्नसंयोगात्।। 36।।  न द्व्यर्थत्वात्।। 37।।  कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम्।। 38।।  गुणमुख्यविशेषाच्च।। 39।।  तच्छ्रुतौ चान्यहविष्ट्रवात्।। 40।।  लिङ्गदर्शनाच्च।। 41।।  ओदनो वा प्रयुक्तत्वात्।। 42।।  अपूर्वव्यपदेशाच्च।। 43।।  तथा च लिङ्गदर्शनम्।। 44।। दशमाधिकरणमारचयति- सौर्यं चरौ चरुः स्थाली किंवाऽन्नं लौकिकोक्तितः ।स्थाल्यस्यां श्रपणं योग्यं कपालविकृतित्वतः।। 19।। विद्वच्छ्रुतिप्रसिद्ध्याऽन्नं देवता तद्धितोक्तितः। योग्यत्वेन प्रदेयं तत्पुरोडाशहविर्यथा।। 20।। ''सौर्यं चरुं निर्वपेत्'' इत्यादिवाक्ये चरुशब्दः किं स्थालीं वक्ति, उत- ओदनम्, इति संदेहः। तत्र लौकिका आ हिमवत आ च कुमारीभ्यः सर्वेऽपि स्वस्वदेशीयभाषाप्रसिद्ध्या यत्किंचिद्गकारवकाराद्यक्षरमुपरि प्रक्षिप्य चरुशब्दमल्पे पात्रे पाकाधिकरणे ताम्रादिमये प्रयुञ्जते। निघण्टुकाराश्च- 'उखा स्थाली चरुः' इत्येताञ्शब्दान्पर्यायत्वेनोपदिशन्ति। तस्मात्- चरुशब्दः स्थालीं वक्ति। यदि तस्या अदनीयत्वाभावेन पुरोडाशवत्प्रदानयोग्यता न स्यात्तर्हि मा भूत्पुरोडाशविकृतित्वम्। कपालविकृतित्वं भविष्यति। श्रपणयोग्यतायाः सद्भावात्। यथा कपालेषु हविः श्रप्यते तथा स्थाल्यामपि श्रपयितुं शक्यते। तस्मात्- चरुः स्थाली। इति प्राप्ते- ब्रूमः- अन्नमेव चरुशब्देनोच्यते। कुतः- श्रुतिप्रसिद्धेः। ''आदित्यः प्रायणीयश्चरुः'' इति विधाय तद्वाक्यशेषे हि ''अदितिमोदनेन'' इत्योदनशब्देन चरुरनूद्यते। यदि भोज्यान्ने चरुशब्दः क्वापि न प्रयुज्यते, तर्हि- ओदनविशेषवाची चरुशब्दोऽस्तु, तत्र विद्वत्प्रसिद्धेः। विद्वांसो याज्ञिकाः शब्दैकगम्यधर्माधर्मव्यवहारिणः शब्दार्थाविप्लवे तात्पर्यवन्तोऽनवस्रावितान्तरूष्मपक्वे जीवतण्डुले विशदसिद्ध ओदने चरुशब्दं प्रयुञ्जते। एवं सत्योदनवाचित्वे 'सौर्यम्' इति तद्धितोऽप्युपपद्यते। यथा 'आग्नेयः' इति देवतातद्धितसंयुक्तः पुरोडाशः प्रदेयद्रव्यम्, तथा चरुरपि। अन्ये च निघण्टुकाराः 'हव्यपाके चरुः पुमान्' इति पठन्ति। तस्मात्- चरुशब्दोऽन्नवाची।। 19।। 20।।  एकादशे सौर्यचरोः स्थाल्यामेव पाकाधिकरणे सूत्राणि 45-48   स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात्।। 45।।  एकस्मिन्वा विप्रतिषेधात्।। 46।।  न वाऽर्थान्तरसंयोगादपूपे पाकसंयुक्तं धारणार्थं चरौ भवति तत्रार्थात्पात्रलाभः स्यादनियमोऽविशेषात्।। 47।।  चरौ वा लिङ्गदर्शनात्।। 48।। एकादशाधिकरणमारचयति- चरुः कपाले पक्तव्यः क्वापि वाप्युचितेऽथवा। कपाले चोदकप्राप्तेरनपूपत्वतः क्वचित्।। 21।। स्थाल्यां चरुत्वयोग्यत्वात्कटाहे योग्यता नहि। चिन्ताद्वयफलं त्वत्र पेषणादिनिवर्तनम्।। 22।। विषयसंशयनिर्देशकं पूर्वार्धं स्पष्टार्थम्। यथा प्रकृतौ पुरोडाशस्य कपाले पाकः, तथा विकृतौ चरोः। इत्याद्यः पूर्वपक्षः। पुरोडाशस्यापूपत्वात्कपालगतोष्मणा पाकः संभवति, चरुस्त्वोदनत्वादुदकगतोष्मणा पक्तव्यः, अतोऽप्राकृतकार्यत्वाच्चोदकप्राप्तिर्नास्तीति यद्युच्येत तर्ह्यनपूपस्य चरोरुदकधारणयोग्ये कटाहघटादौ यत्र क्वापि पाकः। इति द्वितीयः पक्षः। निरुप्तानां मुष्टिचतुष्टयपरिमितानां तण्डुलानामल्पेनैव पात्रेण पक्तुं योग्यत्वाच्चरोः स्थाल्यामेव पाकः। इति राद्धान्तः। पूर्वत्र 'चरुरोदनः' इति चिन्तितम्। तर्ह्योदने पेषणादिरस्ति। अतः पेषणादिनिवृत्तिः पूर्वचिन्तायाः साक्षात्फलम्। तद्द्वारेण चरुनिष्पादकस्थालीचिन्ताया अपि फलमित्युपचर्यते।। 21।। 22।। पेषणादीन्यनुक्रामति- पेषणं यवनं वापस्तापश्चोपहितिः प्रथा। मार्जनाध्यूहनज्वालास्तथा व्युद्धृत्यसादनम्।। 23।। पेषणं चूर्णनम्। यवनं पिष्टस्योदकमिश्रणम्। वाप उदकमिश्रणाय पिष्टस्य पात्रे प्रक्षेपः। तापः कपालानामङ्गारैः प्रतापनम्। उपहितिरङ्गारेषु कपालस्थापनम्। प्रथा कपालेष्ववस्थापितस्य पुरोडाशस्य हस्तसंघट्टनेन सर्वेषु कपालेषु प्रसारणम्। मार्जनं श्लक्ष्णीकरणम्। अध्यूहनं भस्मनाऽङ्गारैश्चोपर्याच्छादनम्। ज्वाला दर्भपिञ्जलैः प्रज्वालनम्। व्युद्धृत्यसादनं कपालेभ्यः पुरोडाशं पृथक्कृत्यान्तर्वेद्यवस्थापनम्।। 23।। ननु पेषणादिनिवृत्तेः पूर्वाधिकरणद्वयफलत्वे किमिति सूत्रकारः प्रत्येकं सूत्रैर्विचारितवान्- इत्याशङ्क्य 'मन्दमतिव्युदासाय' इत्याह- एतानि मन्दप्रज्ञस्य कर्तव्यानीति विभ्रमः। अपूपस्यैव योग्यानीत्येतत् * सूत्रैर्निरूपितम्।। 24।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 11, सूत्राणि 58। आदितः- अधिकरणानि 607, सूत्राणि 1711। दशमाध्यायस्य द्वितीयः पादः संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः।  प्रथमे- कृष्णले चरौ पाकानुष्ठानाधिकरणे सूत्रे 1-2   कृष्णलेष्वर्थलोपादपाकः स्यात्।। 1।।  स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत्।। 2।। द्वितीयपादे प्रथमाधिकरणमारचयति- नास्त्यस्ति वा कृष्णलेषु पाकः श्रौतोऽप्यसंभवी। अदृष्टार्थतया स स्यादौष्ण्ये तु सुतरां भवेत्।। 1।। ''घृते श्रपयति'' इति प्रत्यक्षश्रुतिविहितोऽपि पाको विक्लेदनायोग्येषु न कर्तव्यः। इति पूर्वः पक्षः। दृष्टार्थस्य विक्लेदनस्यासंभवेऽप्यदृष्टार्थं कर्तव्यः। अन्यथा विधिवैयर्थ्यापत्तेः। यदा तु पाकशब्द औष्ण्यवाची, तदा न कोऽपि विवादः।। 1।।  द्वितीये- कृष्णल उपस्तरणाभिधारणयोर्बाधाधिकरणे सूत्राणि 3-12   उपस्तरणाभिधारणयोरमृतार्थत्वादकर्म स्यात्।। 3।।  क्रियेत वाऽर्थवादत्वात्तयोः संसर्गहेतुत्वात्।। 4।।  अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम्।। 5।।  क्रिया वा मुख्यावदानपरिमाणात्सामान्यात्तद्गुणत्वम्।। 6।।  तेषां चैकावदानत्वात्।। 7।।  आप्तिः संख्यासमानत्वात्।। 8।।  सतोस्त्वाप्तिवचनं व्यर्थम्।। 9।।  विकल्पस्त्वेकावदानत्वात्।। 10।।  सर्वविकारे त्वभ्यासानर्थक्यं हविषो हीतरस्य स्यात्, अपि वा स्विष्टकृतः स्यात्, इत रस्यान्याय्यत्वात्।। 11।।  अकर्म वा संसर्गार्थनिवृत्तित्वात्, तस्मादाप्तिसमर्थत्वम्।। 12।। द्वितीयाधिकरणमारचयति- उपस्ताराभिघारौ स्तस्तेषु नो वा द्वयं भवेत्। अदृष्टार्थमसंसक्तिर्दृष्टार्थो नेति लुप्यते।। 2।। तेषु कृष्णलेषूपस्तरणमभिधारणं चेत्युभयं पाकवददृष्टार्थं कार्यम्। इति पूर्वः पक्षः। न तावत्पाकवदत्र प्रत्यक्षविधिरस्ति। चोदकस्तु दृष्टं द्वारमपेक्षते। प्रकृतादुवस्तरणाभिघारणयोर्दृष्टार्थत्वात्। सूक्ष्माणां पुरोडाशावयवानां स्रुचि संसक्तिं निवारयितुं तदुभयं क्रियते। कृष्णलानां तु संसक्तिप्रसङ्ग एव नास्ति। अतस्तन्निवारणलक्षणं द्वारं नास्तीत्युपस्तरणाभिघारणद्वयं लुप्यते।। 2।।  तृतीये- कृष्णलचरौ भक्षसद्भावाधिकरणे सूत्राणि 13-16   भक्षाणां तु प्रीत्यर्थत्वादकर्म स्यात्।। 13।।  स्याद्वा निर्धानदर्शनात्।। 14।  वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात्।। 15।।  वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात्।। 16।। तृतीयाधिकरणमारचयति- भक्षो नास्त्यस्ति वा तेषु नास्ति प्रीतेरभावतः। चुश्चुषाकारनिर्धानवचनात्स्यात्प्रदानवत्।। 3।। यथा पुरोडाशे प्राशित्रादिभागो भक्ष्यते न तथा तेषु कृष्णलेषु भक्षोऽस्ति, प्रीतिरूपस्य दृष्टद्वारस्यासंभवात्। इति पूर्वः पक्षः। ''चुश्चुषाकारं भक्षयन्ति निर्धयन्तो भक्षयन्ति'' इति प्रत्यक्षवचनामाम्नायते। 'इक्षुदण्डभक्षणे तद्रसस्वीकारे च यः शब्दविशेषः, तस्यानुकरणं 'चुश्चुषा' इति। घृते निरुप्तेषु कृष्णलेषु यल्लिप्तमाज्यम्, तदन्तर्नेतुमिव बालाश्चुश्चुषां कृत्वा तदाज्यं निःशेषेण पिबन्तो भक्षयेयुः' इत्यर्थः। अनदनीयद्रव्याणामपि कृष्णलानां यथा वचनात्प्रदानम्। तद्वदभक्ष्यणामपि भक्षणं भवेत्।। 3।।  चतुर्थे- कृष्णलचरौ सहपरिहारविधानाधिकरणे सूत्रम्   एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहृतत्वात्।। 17।। चतुर्थाधिकरणमारचयति- सकृत्सहत्वयोरेकमेकधेत्यन्त्यमेव वा। एकं नियामकाभावादबाधादन्त्यमेव हि।। 4।। तत्रैव कृष्णलभक्षणे श्रूयते ''एकधा ब्रह्मण उपहरति'' इति। तत्र 'एकधा' इत्ययं धाप्रत्ययः प्रकारवाची सन् 'एकवारम्' इत्यमुमर्थं बहूनां सहभावं वा ब्रूते। उपहारो भक्षणाय समर्पणम्। 'एकधा' इत्यनेन सकृत्त्वसहत्वयोरन्यतरद्विवक्षितम्, उत सहत्वमेव, इति संशयः। 'नियामकाभावादुभयोर्मध्ये यत्किंचिदन्यतरत्' इति पूर्वपक्षः। अबाधोऽत्र नियामकः। प्रकृतौ- इडाप्राशित्रचतुर्धाकरणशंयुवाककालेषु चतुर्धाभक्षणसिद्धये चत्वार उपहारा उपदिष्टाः। अत्रापि ते चोदकप्राप्ताः। तत्र सकृत्त्वपक्षे- उपरितनास्त्रय उपहारास्तत्तत्कालविशेषाश्च बाध्येरन्। सहत्वपक्षे कालविशेषा एव बाध्यन्ते, न तु त्रय उपहाराः। तस्मात्- अन्त्यपक्षरूपं सहत्वमेव 'एकधा' इत्यस्य शब्दस्यार्थः।। 4।।  पञ्चमे- कृष्णलचरौ ब्रह्मणे सर्वभक्षभागार्पणाधिकरणे सूत्रे 18-19   सर्वत्वं च तेषामधिकारात्स्यात्।। 18।।  पुरुषापनयो वा तेषामवाच्यत्वात्।। 19।। पञ्चमाधिकरणमारचयति- सर्वं ब्रह्मण इत्यत्र ब्रह्मभागस्य सर्वता। अन्यभागस्यापि वाद्यो भागान्तरमबाधितुम्।। 5।। सर्वत्वमन्यभागीयं ब्रह्मणोऽत्र विधीयते। स्वभागीयं चोदकाप्तं बाध्यतामन्यभक्षणम्।। 6।। कृष्णलभक्षण एवेदमपरं श्रूयते ''सर्वं ब्रह्मणे परिहरति'' इति। परिहारः समर्पणम्। ब्रह्मसहितानामृत्विजामेकैकस्य चतुर्षु कालेषु चत्वारो भक्षभागाश्चोदकप्राप्ताः। तत्र सर्वता किं ब्रह्मसंबन्धिचतुर्भागविषया, उत- इतरसंबन्धिभागचतुष्टयविषयाऽपि, इति संदेहः। अध्यर्युप्रभृतीनामृत्विजां ये ये चत्वारो भागाः, तेषां बहूनामबाधनायाद्यः पक्षोऽभ्युपेयः। तत्रैषा वचनव्यक्तिः ब्रह्मसंबन्धमनूद्य सर्वत्वपरिहारयोरेकमनुवादेऽन्तर्भाव्येतरद्विधेयम्। 'यद्ब्रह्मणे सर्वं, तत्परिहरति' इति, 'यद्ब्रह्मणे परिहरति, तत्सर्वम्' इति। उभयथाऽपि विधेर्ब्रह्मभागमात्रे पर्यवसानाच्चोदकप्राप्ता अन्यभागा अबाधिता भविष्यन्ति। इति पूर्वः पक्षः। सर्वत्वपरिहारावनूद्य ब्रह्मसंबन्धोऽत्र विधीयते- 'यत्परिहर्तव्यं सर्वं, तद्ब्रह्मणे' इति वचनव्यक्तिः। तत्र ब्रह्मभागानामितरभागानां च यत्सर्वत्वं, तस्य ब्रह्मसंबन्धे सति ब्रह्मभागानां व्रह्मसंबन्धस्य चोदकादेव प्राप्तत्वात्तत्रानर्थको विधिरन्यभागानां ब्रह्मसंबन्धविधाने पर्यवस्यति। तस्मादन्येषां भक्षणं बाध्यते।। 5।। 6।।  षष्ठे- भक्षभागानां स्वस्वकाले ब्रह्मणा भक्षणाधिकरणे सूत्रम्   पुरुषापनयात्स्वकालत्वम्।। 20।। षष्ठाधिकरणमारचयति- युगपत्स्वस्वकाले वा तत्सर्वं भक्षयेदयम्। अविलम्बादादिमोऽन्त्यस्तं तं कालमबाधितुम्।। 7।। अतीताधिकरणद्वयेन 'युगपत्सर्वं ब्रह्मणे समर्पयेत्' इत्युक्तम्। तत्र भक्षयितुं युगपत्समर्पितस्य सर्वस्य मध्ये कियदपि भक्षयित्वाऽवशेषितस्य विलम्बे कारणाभावात् 'युगपत्' इत्यादिमः पक्षः प्राप्नोति। चोदकप्राप्तस्य तत्तत्कालस्याबाधो विलम्बे हेतुः। तस्मात्- 'स्वस्वकाले' इत्यन्त्यः पक्षोऽभ्युपेयः।। 7।।  सप्तमे- ब्रह्मभक्षे चतुर्धाकरणादीनामभावाधिकरणे सूत्रम्   एकार्थत्वादविभागः स्यात्।। 21।। सप्तमाधिकरणमारचयति- चतुर्धाकृतिनिर्देशो तद्भक्षे स्तो न वाऽग्रिमः। चोदकात्तौ तु बह्वर्थव्यवस्थार्थत्वतोऽत्र न।। 8।। प्रकृतौ पुरोडाशं चतुर्धा कृत्वा पश्चात् 'इदं ब्रह्मणः' इत्यादिना तत्तद्भागान्निर्दिशेत्। तौ चतुर्धाकरणनिर्देशौ पूर्वोक्ते ब्रह्मभक्षे चोदकवशाद्विद्येते। इत्यग्रिमः पक्षः प्राप्नोति। तत्र चतुर्धाकरणं बहूनामृत्विजां विभागार्थम्, निर्देशो भागानामसांकर्यार्थः। अत्र तु ब्रह्मण एकत्वात्तावुभौ न विद्येते।। 8।।  अष्टमे- ऋत्विग्दानस्यानत्यर्थताधिकरणे सूत्राणि 22-28   ऋत्विग्दानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात्।। 22।।  परिक्रयार्थं वा कर्मसंयोगाल्लोकवत्।। 23।।  दक्षिणायुक्तवचनाच्च।। 24।।  न चान्येनानम्येत परिक्रयात्कर्मणः परार्थत्वात्।। 25।।  परिक्रीतवच्चनाच्च।। 26।।  सनिवन्येव भृतिवचनात्।। 27।।  नैष्कर्तृकेण संस्तवाच्च।। 28।। अष्टमाधिकरणमारचयति- ऋत्विग्दानमदृष्टार्थमानत्यै वाऽग्रिमः श्रुतेः। वैरूप्यान्नियमान्मैवं दृष्टत्वादानतेः श्रुतिः।। 9।। भृतौ च नियमादेतददृष्टं स्याद्विरूपता। वचनात्तेन सत्रेषु स्वामिनां न भृतिः क्वचित्।। 10।। ''ऋत्विग्भ्यो दक्षिणां ददाति'' इति प्रकृतौ श्रूयते। तत्किमदृष्टार्थम्, आनत्यर्थं वा, इति संशयः। भृत्या परिक्रीय वशीकार आनतिः। अदृष्टार्थं तत्स्यात्। अन्नहिरण्यादीनामदृष्टार्थे त्यागे दानशब्दस्य प्रसिद्धत्वात्। यदि- अत्र दानं भृतिः स्यात्, तदानीमल्पाधिककर्मानुरूप्येण द्रव्यं देयं स्यात्। वैरूप्यं त्वत्र दृश्यते स्वल्पकर्मणि त्रैधातवीये सहस्रं देयम्, अधिककर्मणि ऋतपेये स्वल्पं सोमचमसमात्रं दीयते। तथा द्वादशशतादिपरिमाणनियमो मन्त्रवत्त्वनियमश्च भृतौ नोपपद्यते। कर्मकरानुमत्या न्यूनाधिकभावसंभवात्। तक्षरजकादिभृतौ मन्त्रादर्शनाच्च। तस्मात् 'अदृष्टार्थम्' इत्यग्रिमः पक्षः प्राप्नोति। मैवम्। आनतेर्दृष्टप्रयोजनत्वात्। दानश्रुतिस्तु दृष्टार्थायां भृतावप्यस्ति 'भृतिर्देया' इति प्रयोगात्। परिमाणमन्त्रवत्त्वनियमाददृष्टमस्तु, दृष्टस्याभावात्। वैरूप्यं तु वचनबलादभ्युपगम्यते। दक्षिणाया भृतिरूपत्वं प्रत्यक्षवेदवाक्यादप्यवगम्यते ''दीक्षितमदीक्षिता दक्षिणापरिक्रीता ऋत्विजो याजयेयुः'' इति। तस्मात्- ऋत्विग्दानमानत्यर्थम्। एवं च सति सत्रे ऋत्विजां यजमानत्वाद्भृतिरूपा दक्षिणा न काऽपि देया- इत्येतद्विचारफलं द्रष्टव्यम्।। 9।। 10।।  नवमे- ज्योतिष्टोमे भक्षस्य प्रतिपत्त्यर्थताधिकरणे सूत्राणि 29-33   शेषभक्षाश्च तद्वत्।। 29।।  संस्कारो वा द्रव्यस्य परार्थत्वात्।। 30।।  शेषे च समत्वात्।। 31।।  स्वामिनि च दर्शनात्तत्सामान्यादितरेषां तथात्वम्।। 32।।  तथा चान्यार्थदर्शनम्।। 33।। नवमाधिकरणमारचयति- क्रयाय प्रतिपत्त्यै वा चमसेडादिभक्षणम्। क्रयाय पूर्ववन्मैवं यागीये स्वत्ववर्जनात्।। 11।। अक्रीतयजमानस्य भक्षसत्त्वाच्च तेन सा। प्रतिपत्तिः संस्कृतित्वात्सत्रेषु न निवर्तते।। 12।। अस्ति सोमे चमसभक्षः, अस्ति चेष्टाविडाप्राशित्रादिभक्षः। तत्र भक्षेण प्रीतानामृत्विजामानति-संभवाद्दक्षिणान्यायेन क्रयार्थं भक्षणम्। इति पूर्वः पक्षः। यागदेवतायै संकल्पिते द्रव्ये स्वत्वमलभमानो यजमानो न तेन क्रेतुं शक्नोति। किंच ''यजमानपञ्चमाः संभूयेडां भक्षयन्ति'' इत्यक्रीतस्यापि यजमानस्य भक्षः श्रूयते। तत्साहचर्यादृत्विजामपि भक्षणं न क्रयार्थमिति गम्यते। तस्मात्प्रतिपत्त्यर्थो भक्षः। तेन क्रयार्थत्वाभावेन परिशिष्यमाणा सा प्रतिपत्तिर्यागोपयुक्तद्रव्यसंस्कारत्वेन सत्रेषु न बाध्यते।। 11।। 12।।  दशमे- सत्रे ऋत्विग्वरणाभावाधिकरणे सूत्रम्   वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात्।। 34।। दशमाधिकरणमारचयति- ऋत्विजां वरणं सत्रे कार्यं नो वाऽत्र सोमवत्। कार्यं मैवं स्वकर्मत्वात्क्रयार्था प्रकृतौ वृतिः।। 13।। ''अग्निर्होता'' इत्यादिमन्त्रैः सोमे वरणमृत्विजामाम्नातम्। सोमवत्सत्रेऽपि तत्कार्यम्। अन्यथा वरणरहितानामृत्विक्त्वाभावात्सत्रं न सिध्येत्। अत एव तत्सिद्धये सत्रप्रकरणे 'ये यजमानाः, त ऋत्विजः' इति स्वतः प्रवृत्तानपि यजमानाननूद्य वरणसाध्यमृत्विक्त्वं तेष्वाधातव्यमिति विदधाति। तस्मात्- ऋत्विग्वरणं सत्रे कार्यम्। मैवम्। सत्रं ह्यनुष्ठातॄणां सर्वेषां स्वकर्म। नहि स्वकर्मणि क्रयार्थं वरणमपेक्ष्यते। क्रयार्थं हि प्रकृतौ वरणम्। दानमेव क्रयार्थम्, वरणं त्वदृष्टार्थमिति चेत्- मैवम्। वरणस्य भविष्यद्दानसूचनेनोत्साहजननार्थत्वात्। अन्यथा वरणकाले 'कच्चित्कल्याण्यो दक्षिणाः' इत्यृत्विजां प्रश्नः कथं संगच्छेत न च- ऋत्विक्त्वासिद्धिः शङ्कनीया। तत्र वक्तव्यम्- ऋत्विक्त्वं नाम किं कर्मकरत्वम्, उत- यागकर्तृत्वम्, इति। आद्ये कर्मकराणां स्वामित्वाभावेन 'ये यजमानास्त ऋत्विजः' इति वचनं विरुध्येत। द्वितीये तु स्वत एव यागं कर्तुं प्रवृत्तत्वाद्वरणमन्तरेणाप्यृत्विक्त्वं सिध्यति। ईदृशमेवार्त्विज्यं वचनेन विधीयते। तस्माद्दानवद्वरणं सत्रे लुप्यते।। 13।।  एकादशे- सत्रे परिक्रयाभावाधिकरणे सूत्राणि 35-38   परिक्रयश्च तादर्थ्यात्।। 35।।  प्रतिषेधश्च कर्मवत्।। 36।।  स्याद्वा प्रासर्पिकस्य धर्ममात्रत्वात्।। 37।।  न दक्षिणाशब्दात्, तस्मान्नित्यानुवादः स्यात्।। 38।। एकादशाधिकरणमारचयति- क्रयः कार्यो न वा सत्रे निषेधात्कृतिकल्पनम्। नित्यानुवादेनाक्लृप्तेर्न क्रयो वरणं यथा।। 14।। सत्कारपुरःसरम् ''अग्निर्होता'' इत्यादिप्रार्थना वरणम्। तच्च वरणं चिकीर्षुर्यजयानो वरणीयेभ्यो ब्राह्मणेभ्यः सोमं ब्रूयात्। 'तेभ्यः सोमं प्राह' इत्यापस्तम्बवचनात्। सोमाभिधानप्रकारश्चात्र कल्पे दर्शितः 'ज्योतिष्टोमेनाग्निष्टोमसंस्थेन रथंतरपृष्ठेन गवां द्वादशशतदक्षिणेनाहं यक्ष्ये, तत्र त्वमुद्गाता भव' इति। तत्र देयदक्षिणाद्रव्यनिश्चये ब्राह्मणाः स्वकीयाः कर्मविशेषे नियोक्तुं योग्या भवन्ति। सोऽयं क्रयः। स च प्रकृताविव सत्रे कार्यः। न च दक्षिणादानस्य निराकृतत्वेन देयद्रव्यनिश्चये लुप्ते सति तत्साध्यः क्रयोऽपि लुप्येत- इति शङ्क्यम्। निषेधमुपजीव्य क्रयानुष्ठानस्य कल्पयितुं शक्यत्वात्। तथा हि 'नह्यत्र गौर्दीयते, न वासः, न हिरण्यम्' इति सत्रे गवादिदानं निषिध्यते। स च निषेधोऽसत्यां प्रसक्तौ न संभवति। ततः सोमे देयद्रव्याणां सत्रे दानप्रसक्तिरभ्युपेया। सोमे च देयद्रव्याण्येवं श्रूयन्ते ''गौश्चाश्वश्चाश्वतरश्च गर्दभश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा'' इति। तत्र गोवासोहिरण्यानां विशेषतो निषेधेन द्रव्यान्तराणां चोदकप्राप्तानामभ्यनुज्ञा प्रतीयते। ततो देयद्रव्यसद्भावात्क्रयः कार्यः। इति पूर्वः पक्षः। 'न ह्यत्र गौर्दीयते' इत्यनेन निषेधो न विधीयते। किंतु पूर्वोक्तेन निर्णयेन प्राप्त एव दानाभावोऽनूद्यते, ''अदक्षिणानि सत्राणीत्याहुः। नह्यत्र गौर्दीयते'' इति श्रुतौ परोक्त्युपन्यासस्य, प्रसिद्धिवाचकहिशब्दस्य च प्राप्तिगमकत्वात्। तस्मात्- नित्यानुवादस्य कल्पकत्वाभावाद्वरणवत्तदविनाभूतः क्रयोऽपि न कार्यः।। 14।।  द्वादशे- उदवसानीये दानस्य परिक्रयार्थताधिकरणे सूत्रे 39-40   उदवसानीयः सत्रधर्मा स्यात्, तदङ्गत्वात्तत्र दानं धर्ममात्रं स्यात्।। 39।।  न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च।। 40।। द्वादशाधिकरणमारचयति- सत्राङ्गं स्यान्न वा पृष्ठशमनीयो ल्यपाऽङ्गता। सौत्रामण्यादिवन्मैवं त्यागादूर्ध्वं विधानतः।। 15।। श्रूयमाणा दक्षिणेयं पूर्वपक्षेऽत्र धर्मकृत्। परिक्रयार्था सिद्धान्ते निमित्तं स्यात्समापनम्।। 16।। अस्ति सोमविकृतिः पृष्ठशमनीयनामको यागः। ''सत्रादुदवसाय पृष्ठशमनीयेन ज्योतिष्टोमेन सहस्रदक्षिणेन यजेरन्'' इति। 'उदवसाय' इत्यनेन ल्यप्प्रत्ययेन सत्रसमाप्तेः पूर्वकालत्वं, सत्रपृष्ठशमनीययोरेककर्तृकत्वं च प्रतीयते। तथा सति ''अग्निं चित्वा सौत्रामण्या यजेत। वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत। संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय पुरोडाशमष्टाकपालं निर्वपति'' इत्यत्र सौत्रामण्यादीनां यथा चयनाद्यङ्गत्वम्, तथा पृष्ठशमनीयस्य सत्राङ्गता भविष्यति। अङ्गत्वे सति श्रूयमाणा सहस्रदक्षिणा सत्रेष्विव परिक्रयार्था न भवतीत्यदृष्टार्थताऽभ्युपगम्यते। फलं च न कल्प्यम्, सत्रफलेनैव फलवत्त्वसिद्धेः। इति पूर्वः पक्षः। उदवसानशब्दस्य त्यागवाचित्वात्सत्रत्यागादूर्ध्वं विधीयमानः कथं सत्राङ्गं भवेत्। 'अग्निं चित्वा' इत्यादौ त्यागशब्दो नास्तीति वैषम्यम्। एककर्तृकत्वपूर्वकालत्वे तु निमित्तविवक्षयाऽप्युपपद्येते। सत्रसमापनं निमित्तीकृत्य विधाने गृहदाहेष्टिवत्फलनैरपेक्ष्याद्विश्वजिन्न्यायेन फलं न कल्प्यम्। सत्येवमनङ्गत्वे सोमवद्दक्षिणा परिक्रयार्था। दक्षिणायाः श्रौतत्वेनालोपः पूर्वोत्तरपक्षयोः समानः। न्यायेनाप्यलोपः सिद्धान्ते विशिष्यते।। 15।। 16।।  त्रयोदशे- उदवसानीयस्यर्त्विजां सत्रिभ्यो भिन्नताधिकरणे सूत्रे 41-42   तेषां तु वचनाद्द्वियज्ञवत्सहप्रयोगः स्यात्।। 41।।  तत्रान्यानृत्विजो वृणीरन्।। 42।। त्रयोदशाधिकरणमारचयति- तत्रर्त्विजः सत्रिणः किमन्ये वा स्युर्ल्यबुक्तितः। त एव, यष्ट्रभेदेऽपि क्रीतत्वादृत्विजः परे।। 17।। तस्मिन्पृष्ठशमनीये सत्रिणामेवार्विज्यम्, 'उदवसाय' इति ल्यबन्तशब्देन कर्त्रैक्यप्रतीतेः। इति पूर्वः पक्षः। 'उदवसाय यजेरन्' इति समभिव्याहारात्सत्रिभिः सहैकत्वं यष्टॄणां प्रतीयते। न च- ऋत्विजोऽयष्टारः। यजमानेन तेषां दक्षिणया क्रीतत्वात्। तस्मादृत्विजः सत्रिभ्योऽन्ये।। 17।।  चतुर्दशे- पृष्ठशमनीये प्रत्येकं यष्टृताधिकरणे सूत्रम्  एकैकशस्त्वविप्रतिषेधात्प्रकृतेश्चैकसंयोगात्।। 43।। चतुर्दशाधिकरणमारचयति- संभूयैकैकशो वाऽत्र यष्टृताद्यो बहूक्तितः। द्वियागवद्बहुत्वस्य प्राप्तेरन्त्योऽस्तु सोमवत्।। 18।। अस्मिन्पृष्ठशमनीये सत्रिणां संभूय यजमानत्वम्, उत- प्रत्येकम्, इति संशयः। 'संभूय' इत्याद्यः पक्षः प्राप्नोति। कुतः- 'यजेरन्' इति बहुवचननिर्देशात्। 'एतेन राजन्यपुरोहितौ सायुज्यकामौ यजेयाताम्' इत्यत्रोपादेयगतद्वित्वस्य विवक्षितत्वादुभौ संभूय यष्टारौ, तद्वदत्रापि स्यात्। मैवम्। 'उदवसाय' इत्यत्रोदवसातॄणां सत्रिणां यद्बहुत्वं प्राप्तम्, तदेव तत्स्थानानाधिकृतेन 'यजेरन्' इत्यनेनानूद्याप्राप्तो यागो विधीयते। द्वियागे तु द्वित्वमप्यप्राप्तत्वेन विधेयमिति वैषम्यम्। ततो 'ग्रहं संमार्ष्टि' इत्यत्र ग्रहैकत्वमिवोद्देश्यगतत्वात् 'यजेरन्' इति बहुत्वमविवक्षितम्। एवमपीच्छया द्विशो बहुशो वा यष्टुं शक्यत्वादेकैकशो न नियमः- इति चेत्- न। चोदकेन तन्नियमसिद्धेः। सोमे तद्दर्शनात्। तस्मात्- 'सत्रिजः प्रत्येकं यजेरन्' इत्यन्त्यः पक्षोऽत्रास्तु।। 18।।  पञ्चदशे- कामेष्टौ दानस्यादृष्टार्थताधिकरणे सूत्रे 44-45   कामेष्टौ च दानशब्दात्।। 44।।  वचनं वा सत्रत्वात्।। 45।। पञ्चमाधिकरणमारचयति- अश्वां पुरुषीं वानत्यै धर्मार्थं वानतिर्यतः। इष्टिर्न सत्रं धर्मार्थे सत्रादङ्गं बहिर्न हि।। 19।। सारस्वतसत्रे कामेष्टौ 'अश्वां पुरुषीं धेनुके दत्त्वा' इति तुरगमनुष्यगोजातीयानां स्त्रीणां दक्षिणात्वेन दानं श्रुतम्। तच्च- आनत्यर्थम्। कुतः- इष्टेरसत्रत्वात्। सत्रत्वे तु यजमानानामेवार्त्विज्याद्दानसाध्यक्रयाभावेन तत्साध्यमानमनमसंभवि स्यात्। इष्टिर्न सत्रम्, तल्लक्षणाभावात्। 'आसीरन्, उपेयुः' इत्यनयोरन्यतरचोदना तल्लक्षणम्। इह तु- इष्टिलक्षणभूता निर्वपतिचोदना पठ्यते ''अग्नये कामायाष्टाकपालं निर्वपति'' इति। इष्टौ च यजमानादृत्विजां पृथक्त्वादानत्यर्थं दानम्। इति पूर्वः पक्षः। धर्मार्थं दानम्। कुतः- इष्टेः स्वरूपेणासत्रत्वेऽपि सत्राङ्गत्वेनेतराङ्गेष्विवेष्टावप्यस्यां यजमानानामेवार्त्विज्यात्। ननु द्वादशाहः सत्राणां प्रकृतिः। न च तत्र कामेष्टिरस्ति। अतो न सत्रचोदकेनेष्टौ यजमानार्त्विज्यप्राप्तिः। इष्टिचोदकेन त्वन्य एवर्त्विजः प्राप्नुवन्ति। मैवम्। सत्रप्रयोगान्तःपातित्वेन प्रसङ्गाद्यजमानकर्तृकत्वसिद्धेः। तस्मात्- अत्र दानमदृष्टार्थम्।। 19।।  षोडशे- दर्शपूर्णमासयोर्द्वेष्याय दानस्यादृष्टार्थताधिकरणे सूत्रम्   द्वेष्ये चाचोदनाहक्षिणापनयः स्यात्।। 46।। षोडशाधिकरणमारचयति- क्रीत्यै धर्माय वा द्वेष्ये दानं स्याद्दक्षिणोक्तितः। क्रयाय मैवं द्वेष्यत्वं नर्त्विजो धर्मकृत्ततः।। 20।। दर्शपूर्णमासयोः श्रूयते ''यदि पत्नीः संयाजयन्कपालमभिजुहुयात्, वैश्वानरं द्वादशकपालं निर्वपेत्। तस्यैकहायनी गौर्दक्षिणा। तां द्वेष्याय दद्यात्'' इति। अत्र यजमानेन द्वेषणीये पुरुषे यद्दानं, तत्क्रयार्थम्, दक्षिणाशब्देन व्यवहृतानां प्रकृतौ क्रयार्थत्वदर्शनात्। इति पूर्वः पक्षः। न तावदृत्विजो द्वेष्यत्वं युक्तम्। 'ऋत्विगाचार्यौ नातिचरितव्यौ' इति शास्त्रात्। यस्तु द्वेष्यः पुरुषः, नासावृत्विक्त्वाभावेन यागे कर्मकरत्वाभावात्क्रयमर्हति। तस्मात्- इदं दानमदृष्टार्थम्।। 20।।  सप्तदशे- जीवतामस्थियज्ञाधिकरणे सूत्रे 47-48   अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम्।। 47।।  यावदुक्तमुपयोगः स्यात्।। 48।। सप्तदशाधिकरणमारचयति- अस्थियागः किमस्थ्नां स्याज्जीवतां वाऽस्थिशब्दतः। अस्थ्नां मैवमनर्हत्वाल्लक्ष्यन्ते जीविनोऽस्थितः।। 21।। इदं श्रूयते ''यदि सत्राय संदीक्षितानां यजमानः प्रमीयेत। अथ तं दग्ध्वा तस्य कृष्णाजिनेऽस्थीन्युपनह्य योऽस्य नेदिष्ठः स्यात्, तं तस्य स्थाने दीक्षयित्वा तेन सह यजेरन्। ततः संवत्सरेऽस्थीनि याजयेयुः'' इति। अत्र संवत्सरेऽतीते यो यागः श्रुतः तत्रास्थीन्येव कर्तॄणि। कुतः- अस्थिशब्दस्य तत्र मुख्यत्वात्। मैवम्। अचेतनानामस्थ्नां यष्टुमनर्हत्वात्। जीवतामश्रुतत्वादयुक्तोऽयं यागः- इति चेन्न। अस्थिशब्दस्य तल्लक्षकत्वात्। एतादृशास्थिमता सह पुरुषेण पूर्वं यष्टुं प्रकान्तत्वेन लक्ष्यलक्षकयोरस्ति संबन्धः। जीवतां यष्टृत्वात् 'याजयेयुः' इत्युक्तणिजर्थभूताः के स्युः। न खल्वत्रान्ये संभवन्ति। अस्य यागस्य सत्राङ्गत्वात्- इति चेत्तर्हि परस्परं याजकाः सन्तु। तस्मात्- जीवतामयं यागः।। 21।।  अष्टादशे- अस्थियागे,अस्थ्नां जपाद्यननुष्ठानाधिकरणे सूत्रम्   यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टितदर्थत्वात्।। 49।। अष्टादशाधिकरणमारचयति- अस्थिकर्तृमते चिन्तापञ्चकं स्याज्जपादिकम्। न वा, तच्चोदकात्कुर्युर्न कुर्वीरन्नसंभवात्।। 22।। 'अस्थीनि कर्तॄणि' इति पूर्वाधिकरणे पूर्वपक्षिणो मतम्। तदनुसारेणाधिकरणपञ्चकं कृत्वाचिन्तारूपेण प्रवर्तते। प्रकृतौ यजमानस्य मन्त्रजपः केशश्मश्रुवपनं दीक्षानियमा इत्येवमादयः कर्तव्याः सन्ति। तत्सर्वं चोदकप्राप्तमस्थीनि कुर्युः। इति पूर्वः पक्षः। अचेतनानां तदसंभवान्न कुर्युः। इति राद्धान्तः।। 22।। एकोनविंशे- अस्थियज्ञे शाखामानशुक्रस्पर्शानुष्ठानाधिकरणे सूत्रम्   क्रत्वर्थं तु क्रियेत गुणभूतत्वात्।। 50।। एकोनविंशाधिकरणमारचयति- औदुम्बरीमानशुक्रस्पर्शौ नोतास्ति तद्द्वयम्। पूर्ववन्नेति चेन्मैवमचैतन्येऽपि संभवात्।। 23।। प्रकृतौ औदुम्बर्याः शाखाया यजमानप्रमाणत्वम्, तथा शुक्रग्रहस्य यजमानस्पर्शः। तावुभावचेतनानामस्थ्नां जपादिवन्न विद्येते। इति पूर्वः पक्षः। अचेतनैरपि दण्डेनेव मातुं स्पष्टुं च शक्यत्वाद्विद्येते। इति राद्धान्तः।। 23।।  विंशे- अस्थियज्ञेऽस्थ्नां काम्यकर्माद्यननुष्ठानाधिकरणे सूत्रम्   काम्यानि तु न विद्यन्ते कामाज्ञानाद्यथेतरस्यानुच्यमानानि।। 51।। विंशाधिकरणमारचयति- वृष्टिकामः सदो नीचैरिति कामोऽस्ति वा न वा। विद्यते स्पर्शवत्कामश्चेतनस्थस्ततो न हि।। 24।। ''यदि कामयेत वर्षुकः पर्जन्यः स्यात्- इति, नीचैः सदो मिनुयात्'' इत्यत्र 'सदोनामकस्य मण्डपस्य नीचमानेन गुणेन वृष्टिः फलति' इत्युक्तम्। तस्यां वृष्टौ कामः स्पर्शवदस्थ्नां विद्यते। इति मन्दप्रज्ञस्य पूर्वः पक्षः। कामस्य चेतनधर्मत्वान्नास्ति। इति राद्धान्तः।। 24।।  एकविंशे- अस्थियज्ञेऽस्थ्नां सूक्तवाकगताशासनाननुष्ठानाधिकरणे सूत्राणि 52-54   ईहार्थाश्चाभावात्सूक्तवाकवत्।। 52।।  स्युर्वाऽर्थवादत्वात्।। 53।।  नेच्छाभिधानात्तदभावादितरस्मिन्।। 54।। एकविंशाधिकरणमारचयति- सूक्तवाकाशासनं स्यान्न वा, नित्यप्रवृत्तितः। स्यान्मैवं फलनिर्देशात्फलेच्छाऽस्थ्नां न युज्यते।। 25।। ''इदं द्यावापृथिवी भद्रमभूत्'' इत्यादिः सूक्तवाको होत्रा पठ्यते। तत्रैवं श्रूयते ''आशास्तेऽयं यजमानोऽसौ, आयुराशास्ते, सुप्रजास्त्वमाशास्ते'' इत्यादिः। तत्र सूक्तवाकगतो योऽयं यजमानाशासनप्रतिपादको मन्त्रभागः, तमस्थियज्ञे होता पठेत्, न वा, इति संशयः। अस्थियज्ञगतायाः प्रायणीयादेरिष्टेः प्रस्तरप्रहरणमङ्गम्, तस्य नित्यत्वात्तस्मिन्विनियुक्तस्य सूक्तवाकमन्त्रस्य नित्यप्रवृत्ततया तद्भागपाठोऽपि स्यात्। इति पूर्वः पक्षः। यथा 'स्वर्गकामः' इत्यत्र कमियोगेन साध्यताप्रतीतेः स्वर्गशब्देन फलनिर्देशः। एवमाशासन-योगादायुरादिशब्दैः फलं निर्दिश्यते। फलेच्छा चास्थ्नां न युक्ता। तस्मात्तद्भागपाठो बाध्यते।। 25।।  द्वाविंशे- अस्थियज्ञे होतृकामाभावाधिकरणे सूत्रे 55-56   स्युर्वा होतृकामाः।। 55।।  न तदाशीष्ट्वात्।। 56।। द्वाविंशाधिकरणमारचयति- होतृकामो भवेन्नो वा होतुर्जीवनतो भवेत्। यजमानेष्टमेवासौ कामयेत्तेन नास्त्यसौ।। 26।। प्रकृतौ- अस्ति होतृकामः 'यं कामयेत' 'वसीयान्स्यात्' इति, 'उच्चैस्तरां तस्य वषट्कुर्यात्' इत्यादिः। सोऽस्थियज्ञेऽपि निर्दिश्यताम्। कामयितुर्होतुर्जीवतस्तत्संभवात्। इति पूर्वः पक्षः। ''यां वै कांचन यज्ञे ऋत्विज आशिषमाशास्ते, यजमानायैव तामाशिषमाशासते'' इति श्रुतेर्यजमानेष्टमेव होत्रा कामयितव्यम्। अस्थीनि त्वचेतनान्येष्टुं न शक्नुवन्ति। तस्मात्- अत्र नास्ति होतृकामः। तदेतधिकरणपञ्चकं 'जीवतामयं यागः' इत्यस्मिन्सिद्धान्तिपक्षे विरुद्धम्। अचेतनत्वमुपजीव्य प्रवृत्तत्वात्। तस्मात्- तत्पक्षे चोदकप्राप्तानां यथोक्तधर्माणां नास्ति बाधः।। 26।।  त्रयोविंशे- यजमानस्य मरणेऽपि सर्वस्वारस्य समापनाधिकरणे सूत्रे 57-58   सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात्।। 57।।  स्याद्वोभयोः प्रत्यक्षशिष्टत्वात्।। 58।। त्रयोविंशाधिकरणमारचयति- सर्वस्वारो मृतेरूर्ध्वं त्यज्यतां वा समाप्यताम्। त्यज्यतां स्वाम्यभावेन प्रैषादन्यैः समाप्यताम्।। 27।। सर्वस्वाराख्यः क्रतुरेवं श्रूयते ''मरणकामो ह्येतेन यजेत। यः कामयेत- अनामयः स्वर्गं लोकमियाम्'' इति। तस्य च क्रतोस्तृतीयसवने यजमानस्याग्निप्रवेश आम्नायते ''आर्भवे स्तूयमान औदुम्बरीं दक्षिणेन देशेनाहतेन वाससा परिवेष्ट्य 'ब्राह्मणाः समापयत मे यज्ञम्' इति संप्रेष्य संविशति'' इति। तस्य संशयपूर्वोत्तरपक्षा विस्पष्टाः।। 27।।  चतुर्विंशे- सर्वस्वारे कार्यबाध्यव्यवस्थाधिकरणे सूत्रम्   गते कर्मास्थियज्ञवत्।। 59।। चतुर्विंशाधिकरणमारचयति- किं कार्यमत्र किं बाध्यमिति प्रश्ने तदुत्तरम्। क्रत्वर्थमस्थिवत्कार्यं बाध्यते मृतकर्तृकम्।। 28।। मरणादूर्ध्वं समापनीयः सर्वस्वारशेषो विषयः। तत्र बाध्याबाध्यानध्यवसायः संशयः। अनध्यवसायस्य संशयत्वं न्यायविद्भिर्दर्शितम् 'अनवधारणत्वाविशेषादूहानध्यवसाययोर्न संशयादर्थान्तरभावः' इति। विप्रतिपत्त्यभावान्नास्त्यत्र पूर्वपक्षः। यद्वा नियामकाभावादिच्छया किमपि कार्यम्, किमपि बाध्यम्। इति पूर्वः पक्षः। अस्थिकर्तृत्वपक्षे 'शुक्रस्पर्शादिकं क्रत्वर्थं योग्यत्वात्कार्यम्, मृतयजमानकर्तृकमन्त्रजपादिकमयोग्यत्वा-द्बाध्यम्' इति निर्णीतम्। एवमत्रापि यद्योग्यं क्रत्वर्थं तत्कार्यम्, यदयोग्यं यजमानकर्तृकं तद्बाध्यम्।। 28।।  पञ्चविंशे- सर्वस्वारे यजमानस्य दिष्टगतावप्यायुराशंसनाधिकरणे सूत्रे 60- 61   जीवत्यवचनमायुराशिषस्तदर्थत्वात्।। 60।।  वचनं वा भागित्वात्प्रग्यथोक्तात्।। 61।। पञ्चविंशाधिकरणमारचयति- मृतेः प्रागायुराशीर्नो स्याद्वा नो मृतिकामनात्। प्रागार्भवाज्जीवनार्थमायुराशासनं भवेत्।। 29।। होत्रा पठितव्ये सूक्तवाके योऽयम् 'आयुराशास्ते' इति भागो यजमानविषयः, स किं सर्वस्वारे यजमानमरणात्पूर्वं वर्जनीयः, पठितव्यो वा, इति संशयः। मुमूर्षोर्यजमानस्यायुर्निरपेक्षत्वेनार्थलोपाद्वर्जनीयः। इति पूर्वः पक्षः। आर्भवाख्यस्य पवमानस्य स्तूयमानत्वं यजमानस्य मरणकालः, ततः पूर्वं जिजीविषुत्वात्पठितव्यः।। 29।।  षड्विंशे- द्वादशाहे, ऋतुयाज्याद्यनुष्ठानाधिकरणे सूत्रम्   क्रिया स्याद्धर्ममात्राणाम्।। 62।। षड्विंशाधिकरणमारचयति- आत्रेयदानर्तुयाज्यावृती सत्रेषु नाचरेत्। कुर्याद्वानतिलोपान्नो धर्मार्थं क्रियतां द्वयम्।। 30।। प्रकृतौ ''हिरण्यमात्रेयाय ददाति'' इति श्रुतम्, ऋतुयाज्यावरणं चास्ति। तदुभयं सत्रेषु न कार्यम्। द्वारभूताया आनतेर्लुप्तत्वात्। यद्यपि- आत्रेयः कर्मकरेभ्यो बहिर्भूतः, तथाऽपि तद्दानेन यजमानस्यौदार्यं पश्यन्त ऋत्विजो धनकामा आनता भवन्ति। वरणस्य चानत्यर्थत्वमृत्विग्वरणे प्रारम्भकालीने प्रसिद्धम्। तस्मात्- आनत्यर्थमुभयं नाचरेत्। इति पूर्वः पक्षः। प्रथमवरणेनैवानतिसिद्धेः कालान्तरे वरणमदृष्टार्थम्। धनकामानामपि कर्मकराणां प्रारम्भकाले स्वयमङ्गीकृताया मृतेरधिकं धनं न लभ्यत इत्यात्रेयदानदर्शनं नानतिकरम्। तस्मात्- अदृष्टार्थमुभयं कर्तव्यम्।। 30।।  सप्तविंशे- पवमानेष्टौ निर्वापानुष्ठानाधिकरणे सूत्रम्   गुणलोपे च मुख्यस्य।। 63।। सप्तविंशाधिकरणमारचयति- लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा। लुप्यते साधनाभावात्तेन मुख्यो न लुप्यते।। 31।। आधानप्रकरणगतायां पवमानेष्टौ निर्वापसाधनं नास्ति। अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनम्। सा च नाधानकाले संभवति। अग्निहोत्रस्याधानोत्तरकालीनत्वेन तद्धोमसाधनभूतायास्तस्या अपि तथात्वात्। इति प्राप्ते- ब्रूमः- मुख्यो निर्वापः। तं प्रति गुणभूताऽग्निहोत्रहवणी। न हि गुणलोपेन मुख्यो लोपमर्हति।। किंच- अधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम्। ततः 'साधनाभावात्' इत्युपन्यासः। तस्मान्न निर्वापो लुप्यते।। 31।।  अष्टाविंशे- वाजपेये मुष्टिलोपाधिकरणे सूत्राणि 64-67   मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात्।। 64।।  न निर्वापशेषत्वात्।। 65।।  संख्या तु चोदनां प्रतिसामान्यात्तद्विकारः संयोगाच्च परं मुष्टेः।। 66।।  न चोदनाभिसंबन्धात्प्रकृतौ संस्कारयोगात्।। 67।। अष्टाविंशाधिकरणमारयति- शरावैः सप्तदशभिर्यश्चरुस्तत्र मुष्टयः। चत्वारः सन्ति नो वोत स्यादेकं मुष्टिसंख्ययोः।। 32।। तत्किमाद्यश्चोदितत्वाच्छरावापूरणान्न सः। द्वितीयोऽस्त्विति चेन्मैवं द्विलोपे बाधगौरवात्।। 33।। तृतीयोऽस्त्वेकलोपोऽत्र धर्मः संख्यैव लुप्यताम् । क्रियायोगान्न तद्धर्मः प्राथम्यात्साऽनुगृह्यताम्।। 34।। प्रकृतौ ''चतुरो मुष्टीन्निर्वपति'' इति मुष्टितत्संख्ये श्रुते। तथा वाजपेये विकृतिरूपः सप्तदशशरावश्चरुः श्रुतः। तत्र चरौ किं मुष्टिसंख्ये द्वे अपि विद्येते, किंवा द्वे अपि न विद्येते, उत- उभयोरेकमस्ति, अन्यन्नास्ति, यदा- एकम्, तदाऽपि किं मुष्टिरेव, किंवा संख्यैव, इति संशयः। चोदकप्राप्तेः 'उभयमस्ति' इत्याद्यः पक्षः प्राप्नोति। चतुर्भिर्मुष्टिभिः सप्तदशशरावपूरणसमर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि 'मुष्टितत्संख्ये द्वे अपि बाध्ये' इति द्वितीयः पक्षोऽस्तु। इति चेत्- मैवम्। एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात्। ननु- अत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते। तथा सप्तदशसंख्यया चतुःसंख्या बाध्यते। इत्युभयबाधोऽवश्यंभावी। मैवम्। भिन्नविषयत्वेन बाधासंभवात्। शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे, इति विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः, 'अन्यथानुपपत्त्यैव' इति वदामः। अनुपपत्तिश्च पूरणासंभवेन दर्शिता। पूरणं चैकबाधेनाप्युपपद्यते। मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात्, चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति। एवं तर्हि 'एकलोपः' इति तृतीयः पक्षोऽस्तु। तत्र संख्या धर्मः, मुष्टिर्धर्मी। तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी। संख्यायां लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्। तस्मात् 'संख्यैव लुप्यताम्' इति प्राप्ते- ब्रूमः- चतुःसंख्या तावन्न मुष्टिनाऽन्वेति कर्मकारकवाचिद्वितीयाविभक्त्यन्तस्य चतुःशब्दस्य सकर्मकेण निर्वपतिधातुना साक्षादन्वयात्। अतश्चतुःसंख्या न मुष्टिधर्मः। पार्ष्ठिकान्वयेन तु मुष्टिविशेषणं भविष्यति। संख्यामुष्ट्योः क्रियासंबन्धे समाने सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते। चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यते। इति राद्धान्तः।। 32।। 33।। 34।।  एकोनत्रिंशे- धेन्वादिशब्दानां गोवाचिताधिकरणे सूत्रम्   औत्पत्तिके तु द्रव्यतो विकारः स्यादकार्यत्वात्।। 68।। एकोनत्रिंशाधिकरणमारचयति- धेनुवत्सर्षभाश्छागे गवि वा गुणकीर्तनात्। अजेऽतिदिष्टे स्युर्मैवं गोजात्येकगुणोक्तितः।। 35।। पशुविकृतिषु श्रूयते ''द्यावापृथिव्यां धेनुमालभेत। मारुतं वत्सम्। ऐन्द्रमृषभम्'' इति। तत्र धेनुशब्दो नवप्रसूतिकामाचष्टे। वत्सशब्दो बालम्। ऋषभशब्दः पुमांसम्। तथा सति गुणवाचिन एते शब्दा अतिदिष्टमजद्रव्यमबाधित्वा तदेव द्रव्यं यथोक्तगुणविशिष्टं वदन्ति। गौस्तु न प्रत्यक्षमिह श्रूयते, नाप्यतिदिश्यते प्रकृतावनुपदिष्टत्वात्। अतो न गां विशिंषन्ति। इति पूर्वः पक्षः। न खल्वेते यथोक्तगुणसामान्यवाचिनः, किं तर्हि गोगतानेव तान्गुणानाहुः। अतस्ते शब्दा अजेऽनुपपन्नाः सन्तोऽनुपदिष्टमनतिदिष्टमपि गां मुख्यवृत्त्या विशिंषन्तश्छागं बाधन्ते। इति राद्धान्तः।। 35।।  त्रिंशे- 'वायव्यं श्वेतम्' इत्यत्राजस्यैवालम्भनाधिकरणे सूत्रम्   नौमित्तिके तु कार्यत्वात्प्रकृतेः स्यात्तदापत्तेः।। 69।। त्रिंशाधिकरणमारचयति- वायव्यं श्वेतमित्यत्र यः कोऽपि च्छाग एव वा। विशेषानुक्तितः कोऽपि च्छाग एवास्त्वबाधनात्।। 36।। ''वायव्यं श्वेतमालभेत भूतिकामः'' इत्यत्र श्वेतशब्दस्य धेन्वादिशब्दवज्जातिविशेषवाचित्वाभावाद्यं कंचिदपि पशुं श्वेतगुणकं समर्पयति। इति पूर्व पक्षः। चोदकप्राप्तस्याजस्य बाधे कारणाभावात्तमेव समर्पयति। इति राद्धान्तः।। 36।।  एकत्रिंशे- खलेवालीतण्डुलयोः खादिरव्रैहत्वानियमाधिकरणे सूत्रम्   विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेन च कर्मसंयोगात्।। 70।। एकत्रिंशाधिकरणमारचयति- खलेवालीतण्डुलयोः खादिरव्रैहता न वा। यूपोक्तेर्मुख्यवृत्त्यर्थमुद्देशात्खादिरी हि सा।। 37।। अवघाताद्यबाधार्थं व्रैहता तण्डुलेष्वपि। प्रत्यक्षवचनत्वार्थं कार्यं यूपेन लक्ष्यताम्।। 38।। अन्तरेण हविर्देवयोगान्नात्रातिदेशनम्। न नियन्तुं शक्यतेऽतः खादिरव्रैहताऽनयोः।। 39।। ''स्वलोवाली यूपो भवति'' इति साद्यस्क्रे श्रुतम्। तथा ''दधि घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यम्'' इति चित्रायागे श्रुतम्। तत्र प्रकृतौ यद्यूपस्य खादिरत्वम्, यच्च तण्डुलानां व्रीहिसंबन्धित्वम्. तदुमयमनयोर्विकृत्योरस्ति, न वा, इति संशयः। तत्र 'या खलेवाली सा यूपो भवति' इत्येवमुद्देश्यविधेयभावे यूपशब्दस्य मुख्यवृत्तिर्न सिध्येत्, यूपाहुतिशास्त्रीयतक्षणादिरहितायाः खलेवाल्या यूपशब्दवाच्यत्वासंभवात्। अतो यूपशब्देन यूपकार्यं पशूनियोजनादिकं लक्षणीयं स्यात्। 'यो यूपः सा खलेवाली' इत्येवमुद्देश्यविधेयभावे तु संस्कृतस्य खादिरयूपस्य खले मेढित्वेन स्थापयितुं शक्यत्वान्न कस्यापि शब्दस्य लक्षणावृत्तिः। तस्मात्- अस्ति खलेवाल्याः खादिरत्वम्, तथा चोदकप्राप्तावघाताद्यबाधार्थं तण्डुलेष्वपि व्रीहित्वमस्ति। इति पूर्वः पक्षः। यूपमुद्दिश्य खलेवालीत्वविधाने यूपशब्दव्यवहितयोः खलेवालीशब्दभवतिशब्दयोरश्रुतस्य नैरन्तर्यपाठस्य कल्प्यत्वेन वाक्यं परोक्षं स्यात्। ततः प्रत्यक्षवाक्यपरित्यागाद्वरं यूपशब्दस्य मुख्यवृत्तिमात्रहानम्। तथासति 'खलेवाल्यां पशुनियोजनादिकं कार्यम्' इति वाक्यार्थः संपद्यते। तत्र कुतो यूपः, कुतस्तरां तदीयं खादिरत्वम्। तथा तण्डुलानां पेषणसंयवनादिरहितानामेव प्रजापतिदेवतासंबन्धोऽत्र श्रूयते। प्रकृतौ तु पेषणादिपरम्परया निष्पन्नस्य तण्डुलकार्यस्य पुरोडाशस्य हविषो देवतासंबन्धः। अतोऽसमानत्वान्नात्र चोदकातिदेशः। तथा सति खादिरत्वव्रैहत्वनियमाभावाद्या काचित्खलेवाली, तण्डुलाश्च ये केचित्सन्तु। इति राद्धान्तः।। 37।। 38।। 39।।  द्वात्रिंशे- खलेवाल्यां तक्षणाद्यननुष्ठानाधिकरणे सूत्रे 71-72   परेषां प्रतिषेधः स्यात्।। 71।।  प्रतिषेधाच्च।। 72।। द्वात्रिंशाधिकरणमारचयति- खलेवाल्यां जोषणं च च्छेदनं तक्षणोच्छ्रयौ। स्युर्वा नो चोदकात्स्युर्नो वैयर्थ्याच्च विरोधतः।। 40।। जोषणं प्रीतिपूर्वको यूपीयवृक्षस्य लक्षणलक्षिततया सेव्यत्वनिश्चयः। तल्लक्षणानि चापस्तम्बेनोक्तानि 'समेजातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमशुषिरम्' इत्यादीनि। खलेवाल्यां चोदकप्राप्ता अपि जोषणादयो नो कर्तव्याः। कुतः- वैयर्थ्यात्। पूर्वसिद्धाया एव खलेवाल्या यूपकार्ये विनियोगमात्रेण शास्त्रार्थस्य कृतत्वादन्यज्जोषणादिकं कृतमप्यनर्थकम्। अपि च तक्षणादीनि यूपत्वसंपादकानि। खलेवाली तु न यूपः। किंतु- अयूपे केवलं यूपकार्यमतिदिश्यते। तस्मात्- तक्षणादीनि तत्र न कर्तव्यानि। किंच यथा वृक्षस्य च्छेदनादिना वृक्षत्वमपैति, तथा खलेवालीत्वमेवापेयात्। नहि वरघाताय कन्योद्वाहः। जोषणस्य तु वृक्षत्वदशायां कर्तव्यस्य न खलेवालीत्वदशायां प्राप्तिरस्ति। तस्मात्- जोषणादयो न सन्ति।  त्रयस्त्रिंशे- खलेवाल्यां पर्यूहणादिसंस्काराणामनुष्ठानाधिकरणे सूत्रम्   अर्थाभावे संस्कारत्वं स्यात्।। 73।। त्रयस्त्रिंशाधिकरणमारचयति- पर्यूहणाद्यञ्जनादि न स्यात्स्याद्वाऽत्र पूर्ववत्। न स्याद्दृष्टादृष्टभावादविरोधाच्च तद्भवेत्।। 41।। सन्ति प्रकृतौ पर्यूहणादयः। तथा च कल्पसूत्रकारः ''ब्रह्मवनिं त्वा क्षत्रवनिम्'' इति प्रदक्षिणं पांसुभिः पर्यूह्य, ''ब्रह्म दृंह क्षत्रं दृंह'' इति मैत्रावरुणदण्डेन समभूमिपरिदृंहणं कृत्वा, ''उत्तम्भय पृथिवीम्- इत्यद्भिः परिषिञ्चति'' इति। अस्ति चाञ्जनप्रोक्षणादि। तदेतदुभयविधमत्र खलेवाल्यां नास्ति, अयूपत्वेन च्छेदनादिवत्तन्निवृतेः। इति पूर्वः पक्षः। न तावदुभयं छेदनादिवद्व्यर्थम्, बलीवर्दादिभिश्चालितस्य मेढेः पर्यूहणादिभिर्दृढीकरणस्य दृष्टप्रयोजनस्य संभवात्। अञ्जनादिकं प्रकृताविवादृष्टार्थम्। न चैतेनोभयेन खलेवालीत्वमपैति। तस्मात्- अयूपत्वेऽपि (यत्) सार्थकमविरुद्धं च, तद्भवेत्।। 41।।  चतुस्त्रिंशे- मतद्वयसहितेऽधिकरणे सूत्रम्   अर्थेन च विपर्यासे तादर्थ्यात्तत्त्वमेव स्यात्।। 74।। चतुस्त्रिंशाधिकरणं (महापितृयज्ञे धानास्ववघातानुष्ठानबोधक) भाष्यमतेनारचयति- नावघातोऽवघातो वा धानानां नाविनष्टये। न नाशः क्रमबाधेऽतोऽवघातो नात्र बाध्यते।। 42।। महापितृयज्ञे हविः किंचिच्छ्रूयते ''पितृभ्यो बर्हिषद्भ्यो धानाः'' इति। धानाशब्देन भृष्टं धान्यमभिधीयते। तासां धानानामवघाते सति सक्तुभावापत्तेर्धानात्वमेव विनश्येत्। अतस्तासाममिनाशाय नास्त्यवघातः। इति पूर्वः पक्षः। ''धाना अवहन्तव्याः'' इति ह्यत्र चोदकवाक्यम्। तस्मिंश्च वाक्ये भर्जनसंपादितं धानात्वं पूर्वभावि, पश्चाद्भावी त्ववघातः, इति क्रमः प्रतीयते। तं क्रमं बाधित्वा प्रथमतोऽवघाते सति नास्ति धानात्वनाशः। अवधातस्य पदार्थस्य बाधाद्वरं तद्धर्मस्य क्रममात्रस्य बाधनम्। तस्मात्- अवघातः कार्यः।। 42।। तदेवाधिकरणं (पेषणस्य प्राकृतताबोधक) वार्तिकमतेनारचयति- पेषणं नूतनं मन्थे प्राकृतं वा क्रमान्तरात्। नूतनं प्राकृतं धर्ममात्रबाधस्य लाघवात्।। 43।। महाप्रितृयज्ञ एवं श्रयते ''पितृम्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्'' इति। मृतवत्सा धेनुरभिवान्या। द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः। तत्र यत्पेषणम्, तन्न प्राकृतम्। कुतः- क्रमव्यत्यासात्। प्रकृतौ हि प्रथमतः पेषणम्, पश्चात्पुरोडाशश्रपणम्, अत्र तु प्रथमतः श्रपणेन धानाः संपाद्य पश्चात्सक्तुभावाय पेषणम्। तस्मात्- नूतनम्। इति प्राप्ते- ब्रूमः- चोदकप्राप्तप्राकृतपेषणतत्क्रमयोरुभयोर्बाधे गौरवात्क्रममात्रं बाध्यम्। पेषणपदार्थस्तु स एवेति तद्धर्माः 'दृषदि मन्थः' इत्यादयोऽत्र कर्तव्याः। इति श्रीमाधवीये जैमिनीन्यायमालाविस्तरे दशमस्याध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 34, सूत्राणि 74। आदितः- अधिकरणानि 641, सूत्राणि 1785। दशमाध्यायस्य तृतीयः पादः बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते।  प्रथमे- पश्वादौ सामिधेन्यादिप्राकृतेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 1-12   विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः संनिधानात्।। 1।।  प्रकृतिवत्तस्य चानुपरोधः।। 2।।  चोदनाप्रभुत्वाच्च।। 3।।  प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः।। 4।।  न चाङ्गविधिरनङ्गे स्यात्।। 5।।  कर्मणश्चैकशब्द्यात्संनिधाने विधेराख्यासंयोगो गुणेन तद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात्।। 6।।  अकार्यत्वाच्च नाम्नः।। 7।।  तुल्या च प्रभुता गुणे।। 8।।  सर्वमेवं प्रधानमिति चेत्।। 9।।  तथाभूतेन संयोगाद्यथार्थविधयः स्युः।। 10।।  विधित्वं चाविशिष्टमेवं प्राकृतानां वैकृतैः कर्मणा योगात्तस्मात्सर्वं प्रधानार्थम्।। 11।।  समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात्।। 12।। तृतीयपादे प्रथमाधिकरणमारचयति- प्रयाजैकादशत्वादिविशेषविधिभिर्युते। पश्वादौ सामिधेन्यादिविध्यन्तो नास्त्युतास्त्यसौ।। 1।। विशिष्टाङ्गविधौ नासौ चोदकस्याप्रवृत्तितः। लाघवाद्गुणमात्रस्य विधेः सोऽस्त्यतिदेशतः।। 2।। अग्नीषोमीयपशावेकादश प्रयाजाः श्रुताः, चातुर्मास्येषु नव प्रयाजाः, वायव्यपशौ ''हिरण्यगर्भः'' इत्याघारमन्त्रः, इत्यादिभिर्युतेषु पश्वादिषु प्राकृतेतिकर्तव्यता सामिधेन्यादिर्नास्ति। कुतः- संख्यामन्त्रादिगुणविशिष्टस्य प्रयाजाघाराद्यङ्गस्य प्रत्यक्षविधौ सत्युपदिष्टेनैवाङ्गेन निराकाङ्क्षे पश्वादौ चोदकस्याप्रवृत्तेः। इति पूर्वः पक्षः। पश्वादिविधिस्तावदितिकर्तव्यतामाकाङ्क्षति। तत्र 'प्राकृताङ्गान्यतिदिश्य वा तदाकाङ्क्षा पूर्यताम्, विधास्यमानान्यङ्गान्तराण्युपदिश्य वा' इति वीक्षायां कॢप्तोपकारतया प्राकृताङ्गातिदेश एव न्याय्यः। ततश्चातिदेशतः प्राप्तप्रयाजाद्यङ्गमनूद्य गुणमात्रविधौ लाघवं भवति। गुणविशिष्टाङ्गविधौ तु गौरवं स्यात्। तस्मात्- संख्यान्तरमन्त्रान्तराभ्यां पूर्वयोः संख्यामन्त्रयोर्बाधेऽपि प्रयाजाघारसामिधेन्यादीतिकर्तव्यता प्राप्नोत्येवातिदेशात्। इति राद्धान्तः।। 1।। 2।।  द्वितीये- हिरण्यगर्भमन्त्रस्योत्तराघारगुणताधिकरणे सूत्राणि 13-17   हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात्।। 13।।  प्रकृस्यनुपरोधाच्च।। 14।।  उत्तरस्य वा मन्त्रार्थित्वात्।। 15।।  विध्यातिदेशात्तच्छ्रुतौ विकारः स्याद्गुणानामुपदेश्यत्वात्।। 16।।  पूर्वस्मिंश्चामन्त्रत्वदर्शनात्।। 17।। द्वितीयाधिकरणमारचयति- हिरण्यगर्भ आघारे पूर्वस्मिन्नुत्तरेऽथवा। लिङ्गादाद्ये समं लिङ्गं क्लृप्तकार्यत्वतोऽन्तिमे।। 3।। वायव्यपशौ ''हिरण्यगर्भः समवर्तताग्रे- इत्याघारमाघारयति'' इति श्रुतो मन्त्रः पूर्वस्मिन्नाघारे स्यात्। कुतः- मन्त्रलिङ्गात्। प्रकृतौ प्राजापत्यः पूर्व आघारः। अस्मिन्नपि मन्त्रे हिरण्यगर्भशब्देन प्रजापतिरभिधीयते। ''प्रजापतिर्वैहिरण्यगर्भः'' इति वाक्यशेषात्। इति प्राप्ते- ब्रूमः- अन्तिम आघारेऽयं मन्त्रः। कुतः- क्लृप्तकार्यत्वात्। प्रकृतावमन्त्रकः प्रथमाघारः ''प्रजापतिं मनसा ध्यायन्नाघारयति'' इति ध्यानमात्रस्याभिधानात्। यतः ''तूष्णीमाघारमाघारयति'' इत्यमन्त्रकत्वं साक्षादेव श्रुतम्। द्वितीये त्वाघार ''ऊर्ध्वोऽध्वरः'' इत्याद्यैन्द्रो मन्त्रो विहितः। अतो मन्त्रकार्यं तत्र क्लृप्तम्। तस्मात्- द्वितीय आघारे ''हिरण्यगर्भः'' मन्त्रविधिः। यत्तु प्रजापतिदेवता लिङ्गम्, तदिन्द्रेऽपि समानम्। इन्द्रोऽपि हि प्रजानां पतिः। तस्मात् ''ऊर्ध्वोऽध्वरः'' इति मन्त्रं बाधित्वा हिरण्यादिमन्त्रस्तत्र विधीयते।। 3।।  तृतीये- चातुर्मास्येषु सोमेष्वासादननियोजनयोः प्राकृतगुणविधित्वाधिकरणे सूत्राणि 18-22   संस्कारे तु क्रियान्तरं तस्य विधायकत्वात्।। 18।।  प्रकृत्यनुपरोधाच्च।। 19।।  विधेस्तु तत्र भावात्संदेहे यस्य शब्दस्तदथः स्यात्।। 20।।  संस्कारसामर्थ्याद्गुणसंयोगाच्च।। 21।।  विप्रतिषेधात्क्रियाप्रकरणे स्यात्।। 22।। तृतीयाधिकरणमारचयति- किमुत्करासादनं च परिधौ च नियोजनम्। कर्मान्तरे प्राकृतयोर्गुणो वाद्योऽस्त्वसंभवात्।। 4।। पृथुतामुत्कराग्रस्य परिधेश्च स्थविष्ठताम्। आश्रित्य संभवात्कर्तुं गुणौ तौ लाघवान्मतौ।। 5।। सौमिकेषु चातुर्मास्येषु श्रूयते ''उत्करे वाजिनमासादयति परिधौ पशुं नियुञ्जीत'' इति। एते आसादननियोजने प्राकृताभ्यामन्ये कर्मणी विधीयेते, इत्याद्यः पक्षो युक्तः। कुतः- प्राकृतयोरत्यन्तमसंभवात्। वेदेरुद्धृतानां पांसूनां तीक्ष्णाग्रौ राशिरुत्करः। न हि तत्र वाजिनाख्यनीरस्यासादनं संभवति। नाप्यङ्गुलीवदणीयसि परिधौ पशुर्नियोक्तुं शक्यते। ततः प्राकृतस्य दृष्टप्रयोजनस्यासंभवाददृष्टार्थत्वम्। तदेतत्सदृशे आसादननियोजने कर्मान्तरे विधीयेते। इति प्राप्ते- ब्रूमः- प्रयाजैकादशत्वादिवल्लाघवात्प्राकृतयोरेव वाजिनासादनपशुनियोजनयोरुत्करपरिधिगुणौ विधीयेते। न च तीक्ष्णत्वेऽपि सूच्यग्रवदयोग्यत्वम्, मृद्राश्यग्रस्य पृथुत्वेन स्वल्पपात्रासादनयोग्यत्वात्। परिधिश्चैष्टिकवेद्यामिव नाणीयान्, किं तूत्तरवेद्यां स्थविष्ठः। तस्मात्- गुणविधिः।। 4।। 5।।  चतुथ- अग्निचयने प्राकृतवैकृतोभयदीक्षाहुतीनामनुष्ठानाधिकरणे सूत्राणि 23-29   षड्भिर्दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात्।। 23।।  अभ्यासात्तु प्रधानस्य।। 24।।  आवृत्त्या मन्त्रकर्म स्यात्।। 25।।  अपि वा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्चकृतेऽभ्यासः।। 26।।  पौर्वापर्यं चाभ्यासे नोपपद्यते नैमित्तिकत्वात्।। 27।।  तत्पृथक्त्वं च दर्शयति।। 28।।  न चाविशेषाद्व्यपदेशः स्यात्।। 29।। चतुर्थाधिकरणमारचयति- षड्भिर्दीक्षयतीत्यग्निगतं प्राकृतबाधकम्। समुच्चितं वा बाधः स्यात्कार्यैक्यात्तच्च वाक्यतः।। 6।। अग्नौ होमाङ्गताक्लृप्तेरतिदिष्टेन तुल्यता । विनावृत्तिं द्वादशत्वसिद्धये स्यात्समुच्चयः।। 7।। अग्निचयने दीक्षाहुतयः श्रूयन्ते ''षड्भिर्दीक्षयति'' इति। प्राकृतावपि ''स्रुवेण चतस्त्रो जुहोति दीक्षितत्वाय'' इत्यादिना दीक्षाहुतयः षड्विहिताः। तत्र मन्त्रा भिन्नाः ''आकूत्यै प्रयुजेऽग्नये स्वाहा'' इत्यादयः प्राकृता मन्त्राः। ''आकूतिमग्निं प्रयुजं स्वाहा'' इत्यादयो वैकृताः। तत्र 'वैकृतमाहुतिमन्त्रषट्कं किं प्राकृतस्य बाधकम्, किंवा प्राकृतेन समुच्चितम्' इति संशये- 'बाधकम्' इति तावत्प्राप्तम्। कुतः- कार्यैक्यात्। दीक्षणीयेष्ट्यङ्गभूताहुत्युपकारलक्षणं यत्कार्यं प्राकृतानां मन्त्राणाम्, तदेव वैकृतानामपि। न च विकृतौ तन्न प्रतीयते- इति शङ्कयम्, स्वाहान्ततारूपेण लिङ्गेन मन्त्राणामाहुत्युपकारकत्वप्रतीतेः। आहुतीनां च ''षड्भिर्दीक्षयति'' इति वाक्येन दीक्षणीयाङ्गत्वप्रतीतेः। तस्मात्- श्रूयमाणैर्मन्त्रैरतिदिष्टानां बाधः। इति पूर्वः पक्षः। अग्नौ मन्त्राणां स्वरूपं यद्यपि प्रत्यक्षश्रुतिसिद्धम्। तथाऽपि होमाङ्गत्वं लिङ्गेन कल्प्यम्। तथा चातिदेशकल्प्यैर्मन्त्रैस्तुल्यबलत्वान्न बाध्यबाधकता। एवमपि न समुच्चये प्रमाणमस्ति इति चेत्- अस्त्येव, ''द्वादश जुहोति'' इति संख्याविधानेन तत्सिद्धेः। न च वैकृतानामेव षण्णामावृत्त्या सिध्यतीति वाच्यम्, आवृत्तेरश्रुतत्वात्। न च सा कल्पयितुं शक्यते अन्यथाऽपि संख्योपपत्तेः। तस्मात्- समुच्चयः इति सिद्धान्तः।  पञ्चमे- पुनराधानेऽग्न्याधानदक्षिणानां निवृत्त्यधिकरणे सूत्राणि 30-33   आग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणा दानमधिकं स्याद्वाक्यसंयोगात्।। 30।।  शिष्टत्वाच्चेतरासां यथास्थानम्।। 31।।  विकारस्त्वप्रकरणे हि काम्यानि।। 32।।  शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते।। 33।। पञ्चमाधिकरणमारचयति- एकादिना समुच्चेयं पुनर्निष्कृत इत्यदः । बाधकं वा समुच्चेयमुभयीरित्युदीरणात्।। 8।। आधानदक्षिणोपेतमुभयीरित्यनूद्यते। ददातीत्यविधायित्वात्कार्यैक्याद्बाधकं भवेत्।। 9।। आधाने विकल्पिता गोद्रव्यदक्षिणा द्रव्यान्तरदक्षिणाश्चैवं श्रूयन्ते ''एका देया, षड्देयाः, द्वादश देयाः'' इत्यादिना। पुनराधाने तु ''पुनर्निष्कृतो रथो दक्षिणा'' इत्यादि श्रुतम्। भग्नः सन्पुनः समाहितः पुनर्निष्कृतः। सेयं पुनर्निष्कृतादिदक्षिणा किमतिदिष्ट्यैकादिसंख्यया समुच्चीयते, उत तां बाधते, इति संशयः। 'उभयीर्ददात्याधेयिकीः पौनराधेयिकीश्च' इत्युक्तत्वासमुच्चयः। इति पूर्वः पक्षः। 'ददाति' इति वर्तमाननिर्देशस्य विधित्वाभावादाधानकाले पूर्वं दत्तं पुनराधानकाले तदेव दीयमानं च मिलित्वा 'उभयीः' इत्यनूद्यते। दक्षिणास्वरूपस्य कार्यस्यैकत्वादुपदिष्टमतिदिष्टस्य बाधकम्।। 8।। 9।।  षष्ठे- आग्रयणे वासोवत्साभ्यामन्वाहार्यस्य निवृत्त्यधिकरणे सूत्रम्   वासो वत्सं च सामान्यात्।। 34।। षष्ठाधिकरणमारचयति- वासो वत्सं समुच्चेयमन्वाहार्येण वा न वा। अविरोधात्समुच्चेयं न कार्यैक्याद्विरोधतः।। 10।। आग्रयणे श्रूयते ''वासो दक्षिणा, वत्सः प्रथमजो दक्षिणा'' इति। तदेतत्प्राकृतेनान्वाहार्येण सह विरोधाभावात्समुच्चीयते। इति मन्दः पूर्वपक्षः। एककार्यत्वेन विरोधित्वान्न समुच्चयः, किंतु बाधः। इति राद्धान्तः।। 10।।  सप्तमे- आग्रयणे वासोवत्सयोरन्वाहार्यधर्मानुष्ठानाधिकरणे सूत्रम्   अर्थापत्तेस्तद्धर्मा स्यान्निमित्ताख्याभिसंयोगात्।। 35।। सप्तमाधिकरणमारचयति- अन्वाहार्यस्य धर्मोऽत्र न कार्यः क्रियतेऽथ वा। न तद्धर्मत्वतो मैवं साधनत्वप्रयुक्तितः।। 11।। सन्त्यन्वाहार्यधर्माः। तान्कल्पसूत्रकार उदाजहार- 'दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति। ये ब्राह्मणा उत्तरतः, तान्यजमान आह 'दक्षिणस एत' इति। तेभ्योऽन्वाहार्यं ददाति। ''ब्राह्मणा अयं व ओदनः, प्रतिगृह्णीत। उत्तरतः परीत' इति संप्रेष्यति' इति। सोऽयं धर्मोऽत्र वासोवत्से न कार्यः, तस्यान्वाहार्यनिमित्तत्त्वात्- इति चेत्- मैवम्। अन्वाहार्यस्य दक्षिणारूपत्वेनानतिसाधनत्वप्रयुक्तास्ते धर्माः क्रियन्ते। तत्साधनत्वं वाससि वत्सेऽपि समानम्। तस्मात्- अत्रापि सन्ति ते धर्माः।। 11।।  अष्टमे- आग्रयणे वत्से पाकाभावाधिकरणे सूत्रम्   दाने पाकोऽर्थलक्षणः।। 36।। अष्टमाधिकरणमारचयति- पाकोऽस्ति नो वा वत्से स्यादन्वाहार्यस्य दर्शनात्। न वत्सनाशादश्रौती दक्षिणा मांसदानतः।। 12।। अन्वाहार्ये पाकोऽस्ति। पूर्वन्यायेन तद्धर्मातिदेशाद्वत्सेऽपि पाकः स्यात्। इति चेत्- न। वत्सनाशप्रसङ्गात्। 'अस्तु' इति चेन्न। तथासति मांसदानेन श्रुतहानाश्रुतकल्पने प्रसज्येयाताम्। तस्मात्- नास्ति वत्से पाकः।। 12।।  नवमे- आग्रयणे वाससि पाकाभावाधिकरणे सूत्रम्   पाकस्य चान्नकारितत्वात्।। 37।। नवमाधिकरणमारचयति- वासस्यस्ति न वा पाको विनाशाभावतोऽस्त्यसौ। वैयर्थ्यादप्यशक्यत्वात्पाको वाससि नोचितः।। 13।। वासस उष्णोदकभाण्डप्रक्षेपेण वत्सस्येव विनाशो नास्ति। तस्मात्- अन्वाहार्यवत्पाकोऽस्ति। इति चेत्- न। ओदनत्वार्थो हि पाकः। न हि वाससः सहस्रधा पच्यमानस्याप्योदनता संभवति। न च पाकः कर्तुं शक्यते। नह्युष्णोदकसंयोगः पाकशब्दार्थः, किं तर्हि तण्डुलानां विक्लित्तिं जनयितुं कृतः पुरुषप्रयत्नः। न च वाससि विक्लित्तिः। तस्मात्- अतिदिष्टः पाको बाध्यते।। 13।।  दशमे- आग्रयणे वासोवत्सयोरभिघारणाभावाधिकरणे सूत्रम्   तथाऽभिघारणस्य।। 38।। दशमाधिकरणमारचयति- अभिघारोऽस्ति नो वाऽत्र शक्यत्वाद्वत्सवाससोः। अस्त्यन्वाहार्यवन्मैवं स्वादुताया असंभवात्।। 14।। स्पष्टोऽर्थः।। 14।।  एकादशे ज्योतिष्टोमे गवामेव द्वादशशतस्य दक्षिणात्वाधिकरणे सूत्राणि 39-49   द्रव्यविधिसंनिधौ संख्या तेषां गुणत्वात्स्यात्।। 39।।  समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात्।। 40।।  यस्य वा संनिधाने स्याद्वाक्यतो ह्यभिसंबन्धः।। 41।।  असंयुक्ता तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात्।। 42।।  असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः।। 43।।  शब्दार्थश्चापि लोकवत्।। 44।।  सा पशूनामुत्पत्तितो विभागात्।। 45।।  अनियमोऽविशेषात्।। 46।।  भागित्वाद्वा गवां स्यात्।। 47।।  प्रत्ययात्।। 48।।  लिङ्गदर्शनाच्च।। 49।। एकादशाधिकरणमारचयति- दक्षिणा द्वादशशतं तस्यैत्येतद्गवादिषु। सर्वेषु केषुचिद्वाद्ये प्रत्येकं मिलितेषु वा।। 15।। संख्यागुणस्य प्रत्येकं गवाद्यन्वयतोऽग्रिमः । वाक्यभेदान्न तत्किंतु मिलितेषु समुच्चयात्।। 16।। संख्यानौचित्यतो धान्ये सर्वेषां न समुच्चयः । असर्वेष्विति पक्षेऽपि पशवो वैकमेव वा।। 17।। संख्यौचित्येन पशवो नैतत्तस्येत्यनन्वयात्। एकत्वेऽप्यत्र यत्किंचिन्माषा वा गाव एव वा।। 18।। यत्किंचिन्नियमाभावान्माषाः सन्ति हि तत्त्वतः । माषा निराकृता गावः प्राथम्याच्चोपकारतः।। 19।। तस्येति वाक्याद्गोद्रव्यं न युक्तः प्रकृतः क्रतुः। संख्यान्तरं चेद्विकृतौ स्याद्गवां बाध्यतामियम्।। 20।। ज्योतिष्टोमे देयद्रव्याण्यनुक्रम्य संख्याविशिष्टा दक्षिणा विधीयते- ''गौश्चाश्वश्चाश्वतरश्च गर्दभाश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा'' इति। द्वादशाधिकं शतम्। तत्र संशयः सेयं संख्या किं गवादिसर्वद्रव्यविषया किंवा कतिपयविषया। सर्वत्वपक्षेऽपि प्रतिद्रव्यमियं संख्या, उत मिलितानाम्। तत्र गवादिद्रव्याणि प्रधानानि, संख्या, तद्गतो गुणः। प्रतिप्रधानं च गुणावृत्तिर्न्याय्या। तस्मात्- 'गवादिद्रव्येषु प्रत्येकमियं संख्या' इति प्रथमपक्षगते प्रथमे संख्याविकल्पे प्राप्ते- ब्रूमः- नैतद्युक्तम्। वाक्यभेदप्रसङ्गात्। अतो 'मिलितानामियं संख्या' इति द्वितीयसंख्याविकल्पोऽभ्युपेयः। तथा च सति समुच्चयवाचिनश्चशब्दा अनुगृह्यन्ते। एतदप्ययुक्तम्। अनौचित्यात्। न हि व्रीहियवादिधान्येषु द्वादशाधिकशतान्तर्गता द्वित्रादिसंख्योचिता। परिक्रीतस्यार्त्विजो द्वित्रैर्त्बीजैः प्रयोजनाभावात्प्रस्थाधिकखार्यादिसंख्या तत्रोचिता। न चेयमत्र श्रुता। तस्मात्- 'मिलितानां सर्वेषां समुच्चयः' इत्ययं पक्षो न युक्तः। 'कतिपयविषया संख्या' इत्यस्मिन्नपि पक्षे किमाद्याः षड्विधाः पशवः, किंवा गवादिद्रव्येष्वेकं द्रव्यम्। तत्र पशुषु श्रूयमाणायाः संख्याया उचितत्वात् 'पशवः' इति प्राप्ते- ब्रूमः- नैतद्युक्तम्। 'तस्य द्वादशशतं दक्षिणा' इत्यत्र 'तस्य' इत्येकवचनान्तेन षष्णां गवादिपशूनामन्वेतुमयोग्यत्वात्। एकत्वपक्षे किं यत्किंचिदेकम्, किं वा माषद्रव्यम्, उत गोद्रव्यम्। तत्र-नियामकाभावात् 'यत्किंचित्' इति प्राप्तम्। तन्न। संनिधेर्नियामकत्वात्। 'माषाश्च तस्य द्वादशशतं दक्षिणा' इति माषाः संनिहिताः। तर्हि 'अस्तु माषद्रव्यम्' इति चेत्- न। प्रस्थादिपरिमाणसंख्यौचित्येन निराकृतत्वात्। तस्मात् 'गोद्रव्यम्' इति पक्षः परिशिष्यते। प्रथमश्रुतत्वोपकारौ तत्र नियामकौ। अस्ति हि महानुपकारः, ऋत्विजः प्रतिग्रहीतुर्गव्येनाज्यक्षीरा-दिनाऽग्निहोत्रदर्शपूर्णमासादिसिद्धेः। ननु 'तस्य प्रकृतस्य ऋतोर्द्वादशशतं दक्षिणा' इत्यन्वयाद्गोद्रव्यं न प्रतीयते- इति चेन्न। 'यद्वोद्रव्यं तस्य द्वादशशतम्' इति वाक्येन तत्प्रतीतेः। वाक्यं हि प्रकरणाद्बलीयः। तस्मात्- 'गवां द्वादशशतम्' इति राद्धान्तः। विकृतिषु यत्र गोर्दक्षिणायाः संख्यान्तरं श्रुतम्। तत्रास्याः संख्याया बाधो विचारफलम्।। 19।। 20।।  द्वादशे- विभज्य गोदक्षिणाया दानाधिकरणे सूत्राणि 50-52   तस्य दानं विभागेन प्रदानानां पृथक्त्वात्।। 50।।  परिक्रयाच्च लोकवत्।। 51।।  विभागं चापि दर्शयति।। 52।। द्वादशाधिकरणमारचयति- गोदाने विहिते स्वेच्छा नियतिर्वाऽन्तिमेऽपि किम्। अविभागो विभागो वा नियमानुक्तितोऽग्रिमः।। 21।। अविभागो बहुत्वोक्तेर्बहुत्वं न विवक्षितम्। विभागे स्वामिभिः स्वत्वसिद्धेर्लिङ्गं च दृश्यते।। 22।। पूर्वोक्त एव गवां दाने संशयः- ऋत्विग्भ्यो देयानामुक्तसंख्यानां गवां विभागाविभागयोर्यजमानेच्छैव प्रयोजिका, उतास्त्यन्यतरनियतिः। यदाऽपि नियतिः, तदाऽपि अविभागः, विभागो वा विभागनियामकस्यानुक्तत्वात् 'इच्छा' इति तावत्प्राप्तम्। 'ऋत्विग्भ्यो दक्षिणां ददाति' इति बहुवचनश्रवणेन समूहस्य प्रतिग्रहीतृत्वात् 'अविभागः' इति पक्षान्तरम्। ग्रहैकत्ववदुद्देश्यगतत्वाद्बहुत्वं न विवक्षितमित्येकैकः प्रतिग्रहीता। तथा सति विभागावश्यंभावात्। समूहाय दत्ते सत्येकैकस्य स्वामित्वाभावे परस्वत्वापादनलक्षणो दानशब्दार्थो न सिध्येत्। किंच ''तुथो वा विश्ववेदा विभजतु'' इति मन्त्रे विभागलिङ्गं दृश्यते। तस्मात्- विभागानियमो राद्धान्तः।। 22।।  त्रयोदशे- ज्योतिष्टोमे समाख्यानुसारेण दक्षिणाविभागाधिकरणे सूत्राणि 53-55   समं स्यादश्रुतत्वात्।। 53।।  अपि वा कर्म वैषम्यात्।। 54।।  अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाऽभ्युदये।। 55।। त्रयोदशाधिकरणमारचयति- स विभागः समो नो वा विशेषाश्रवणात्समः ।वैषम्यं स्याद्यथायासमेवं तत्स्यात्समाख्यया।। 23।। पूर्वोक्तः स विभागः समः स्यात्। कुतः- वैषम्यहेतोर्विशेषस्याश्रवणात्। साम्यहेतुस्तु लौकिको न्यायः। लोके हि पुत्राणां पितृधने समविभागो दृष्टः। तस्मात् 'समः' इत्येकः पक्षः। कर्मकरेषु प्रयासानुरूपेण भृतितारतम्यं दृष्टम्। तद्वदत्रापि। इति द्वितीयः पक्षः। द्वादशाहे दीक्षायामेवं समाम्नायते ''अर्धिनो दीक्षयति, पादिनो दीक्षयति'' इति। अर्धं येषामृत्विजां तेऽर्धिनः। एवं पादिनो योजनीयाः। तद्विशेषो याज्ञिकमुखादवगन्तव्यः। ततः श्रौतसमाख्यानुरूपेण केषांचिदर्धम्, केषांचित्पादः, इत्यादिविषमो विभागः। इति राद्धान्तः।। 23।।  चतुर्दशे भूनाम्नि धेनुदानेन निखिलदक्षिणाबाधाधिकरणे सूत्राणि 56-58   तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन।। 56।।  सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात्समवायाद्धि कर्मभिः।। 57।।  चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात्।। 58।। चतुर्दशाधिकरणमारचयति- भूनाम्नि धेनुर्बाधेत गाः किंवा कृत्स्नदक्षिणाम्। धेन्वा विशेषितत्वाद्गा दक्षिणैकत्वतोऽखिलाम्।। 24।। अतीताभ्यामधिकरणाभ्यां बाधोपोद्घातत्वेन प्रकृतौ दक्षिणा निरूपिता। अत्र विकृतौ बाधो निरूप्यते। 'अथैष भूः' इति भूनामकमेकाहविशेषमुपक्रम्य 'धेनुर्दक्षिणा' इति श्रूयते। सेयं धेनुर्गोमात्रं बाधते। कुतः- 'या गौः सा धेनुः' इति विशेषयितुं योग्यत्वात्। न हि 'योऽश्वः, सा धेनुः' इति विशेषणं युज्यते। तस्मात्- गोविशेषरूपया धेन्वा प्राकृतस्य गोसामान्यस्यैव बाधो नेतरस्य इति प्राप्ते- ब्रूमः- इयं धेनुरखिलां दक्षिणां बाधते। कुतः- गवादीनां माषान्तानां सर्वेषामेव दक्षिणारूपत्वात् 'दक्षिणा' इत्येकवचनमिह प्रयुज्यते। 'गौश्च' इत्यादयः समुच्चचवाचिनश्च शब्दा एकत्व एवोपपद्यन्ते। आनतिश्चैवं सत्यत्यन्तसुलभा। यदि दक्षिणा भिद्येरन्, तदानीमेकयैवानतिसिद्धेरितरासां वैयर्थ्यं दुर्वारम्। तस्मात्- निखिलदक्षिणाबाधः।। 24।।  पञ्चदशे 'एकां गाम्' इत्यनेन गोगतसंख्याबाधाधिकरणे सूत्रम्   एकां पञ्चेति धेनुवत्।। 59।। पञ्चदशाधिकरणमारचयति- एकां पञ्चेति कृत्स्नां वा गोसंख्यां वा निवर्तयेत्। स्यादाद्यो दक्षिणायोगान्मैवं व्यवहितत्वतः।। 25।। इदं श्रूयते ''यस्य सोममपहरेयुरेकां गां दक्षिणां दद्यात्। अभिदग्धे पञ्चगाः'' इति। तदिदं संख्याविशिष्टं द्रव्यं विधीयमानं गवाश्वादिदाक्षिणां कृत्स्नां निवर्तयेत्। तस्य दक्षिणाशब्दयोगेन कार्यैकत्वात्। मैवम्। विशिष्टविधौ गौरवात्, गवां प्राप्तवाच्च, संख्यामात्रं विधेयम्। तस्य च गोपदेन व्यवधानान्न दक्षिणायोगोऽस्ति। योगे तु गोगतां स्वविरोधिनीं पूर्वप्राप्तां संख्यामेव निवर्तयेत्, न त्वन्यत्किंचित्। इति राद्धान्तः।। 25।।  षोडशे- साद्यस्क्रे त्रिवत्सेन सोमक्रयसाधनमात्रबाधाधिकरणे सूत्राणि 60-62   त्रिवत्सश्च।। 60।।  तथा च लिङ्गदर्शनम्।। 61।।  एके तु श्रुतिभूतत्वासंख्यया गवां लिङ्गविशेषेण।। 62।। षोडशाधिकरणमारचयति- त्रिवत्सेनर्षभो बाध्यः कृत्स्नं वा क्रयसाधनम्। ऋषभः पुंगवत्वान्न क्रयोद्देशबिधानतः।। 26।। साद्यस्क्रे वर्षत्रयोपेतो गौः श्रूयते ''त्रिवत्सः साण्डः सोमक्रयणः'' इति। प्रकृतौ- ''अजया क्रीणाति, हिरण्येन क्रीणाति, वृषभेण क्रीणाति'' इत्यादिना क्रयसाधनान्याम्नातानि। तत्र पुंगवत्वसाम्येन बाध्यं वृषभमात्रम्। इति पूर्वः पक्षः। नैतद्युक्तम्। कुतः- क्रयमुदिश्य त्रिवत्सविधानात्। साण्डत्वोद्देशेन तद्विधावग्नीषोमीयादावपि त्रिवत्सः प्रसज्येत। तस्मात्- क्रयसाधनं कृत्स्नं बाध्यम्।। 26।।  सप्तदशे- अश्वमेधे प्राकाशेनाध्वर्युभागबाधाधिकरणे सूत्रे 63-64   प्राकाशौ तथेति चेत्।। 63।।  अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदंताविकारः स्यात्।। 64।। सप्तदशाधिकरणमारचयति- किं प्राकाशौ बाधकौ स्तः कृत्स्नस्याध्वर्यवस्य वा। ददातियोगात्कृत्स्नस्य न विशिष्टेन योगतः।। 27।। अश्वमेधे श्रूयते ''हिरण्मयौ प्राकाशावर्ध्वयवे ददाति'' इति। प्राकाशौ दीपस्तम्भावित्येके। दर्पणावित्यपरे। तै किं प्राकृतस्य दक्षिणाद्रव्यस्य कृत्स्नस्य बाधकौ, उत- अध्वर्युभागस्यैव। तत्र 'प्राकाशौ ददाति' इति कर्मकारकवाचिद्वितीयाश्रुतिकृतेन दानसंबन्धेन 'प्राकाशावध्वर्यवे' इति वाक्यकृते पुरुषसंबन्धेऽपोदिते सति देयद्रव्यप्रतीतेर्देयान्तरस्य कृत्स्नस्य बाधः। इति पूर्वः पक्षः। 'अध्वर्यवे ददाति' इति संप्रदानवाचिचतुर्थीश्रुतिकृतस्य दानक्रियासंबन्धस्यापवदितुमशक्यत्वात्संप्रदान-विशिष्टदानक्रियया संबन्धेऽपि द्वितीयाश्रुतेरविरोधादध्वर्युभागस्यैव बाधः। इति राद्धान्तः।। 27।।  अष्टादशे- उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणे सूत्राणि 65-67   धेनुवच्चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य।। 65।।  एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण।। 66।।  अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात्।। 67।। अष्टादशाधिकरणमारचयति- श्यावाश्वो ब्रह्मभागस्य बाधको निखिलस्य वा। आद्यः प्राकाशवन्मैवं धेनुवत्सोऽपि नान्यगः।। 28।। अस्त्युपहव्यनामक एकाहविशेषः। तत्र श्रूयते ''अश्वः श्यावो रुक्मललाटो दक्षिणा'' ''स ब्रह्मणे देयः'' इति। प्राकाशन्यायेनायं ब्रह्मभागस्यैव बाधकः। इति पूर्वः पक्षः। दक्षिणाशब्दसंयोगाद्धेनुन्यायेन कृत्स्नस्य बाधकः। उपरितनेन तु 'ब्रह्मणे देयः' इति वाक्यान्तरेण तस्याश्वस्य ब्रह्मव्यतिरिक्तपुरुषान्तरसंबन्धो बाध्यते। सथा सति पुरुषान्तरस्यातिदिष्टोपदिष्टदक्षिणाद्वयबाधाल्लौकिकदानादिना केनचिदुपायेनानतिः सिध्यति।। 28।।  एकोनविंशे- सोमचमसेन कृत्स्नदक्षिणापुरुषान्तरयोर्बाधाधिकरणे सूत्राणि 67-73   तथा च सोमचमसः।। 68।।  सर्वविकारो वा क्रत्वर्थे प्रतिषेधात्पशूनाम्।। 69।।  ब्रह्मदानेऽविशिष्टमिति चेत्।। 70।।  उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्म स्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात्।। 71।।  यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात्।। 72।।  सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात्।। 73।। एकोनविंशाधिकरणमारचयति- किं सोमचमसो ब्रह्मभागहार्युत कृत्स्नहृत्। पशूनां निन्दया सर्वप्रसक्तेर्ब्रह्मभागहृत्।। 29।। निन्देयं न निषेधाय चमसस्तुतये त्वसौ। श्यावाश्ववत्सर्वदेयपुरुषान्तरबाधकः।। 30।। ऋतपेये श्रूयते ''औदुम्बरः सोमचमसो दक्षिणा'' ''स प्रियाय सगोत्राय ब्रह्मणे देयः'' इति। सोऽयं सोमचमसो ब्रह्मभागमेव बाधते। कुतः- ''यत्पशून्दद्यात्, सोऽनृतं कुर्यात्'' इति पशुदाननिन्दया सर्वदानप्रसक्तेः। तस्मान्न सर्वबाधकः। इति प्राप्ते- ब्रूमः- नात्र निषेधाय पशुनिन्दोच्यते। किंतु विधित्सितसोमचमसस्तुत्यर्थोऽयमर्थवादः। तेन निन्दायाः सर्वप्रसञ्जकत्वं नास्ति। तस्मात्- सर्वप्रसक्तिरूपाया अभ्यधिकाशङ्काया निराकृतत्वात्पूर्वाधिकरणन्यायेनात्र निर्णयो द्रष्टव्यः।। 29।। 30।। तस्मिन्नेवाधिकरणे कृत्वाचिन्तारूपं विचारं बुद्धिव्युत्पादनाय रचयति- पूर्वोक्तं निर्णयं पूर्वपक्षयित्वैकवाक्यताम्। भ्रान्त्या कृत्वा दक्षिणांशं ब्रह्मभागं निवर्तयेत्।। 31।। श्यावाश्वाधिकरणे ''रुक्मललाटो दक्षिणा'' इत्यस्य ''स ब्रह्मणे देयः'' इत्यस्य चान्तराले ''स ह्यनिरुक्तः'' इति वाक्यान्तरं पठितम्। तेन व्यवधानाद्विस्पष्टो वाक्यभेदः। इह त्वव्यवधानादेकं वाक्यमिति भ्रान्तिः। एकवाक्यतायां तु चमसशब्दस्य दक्षिणाशब्देन ब्रह्मशब्देन च संबन्धे सति कृत्स्नदक्षिणायाः पुरुषान्तरस्य च निवृत्तिः। तथा सति पूर्वोक्तसिद्धान्त एवात्र पूर्वपक्षी भवति। दक्षिणामुद्दिश्य चमस एको विधेयः। तस्य ब्रह्मसंबन्धोऽपरो विधेयः। ततोऽर्थभेदाद्वाक्यभेदो दुर्वारः। तस्मात्- दक्षिणाशब्देन तदंशं लक्षयित्वा ब्रह्मसंबद्धदक्षिणांशमनूद्य चमसमात्रविधानात्तद्भागस्यैव निवृत्तिः। कृत्वाचिन्तामुद्घाटयति- दक्षिणोक्तिः क्रतौ दृष्टा सर्वत्रासौ न पुंसि सा। वाक्यभेदश्च दुर्वारो युक्तोऽतः पूर्वनिर्णयः।। 32।। प्रायेण वैदिकव्यवहारेषु दक्षिणाशब्दः क्रतुविषय एव दृष्टः, न तु पुरुषविषयः। अतः क्रतुदक्षिणारूपश्चमसः सर्वां क्रतुदक्षिणां निवर्तयेत्। वाक्यभेदस्तु विस्पष्टं भासमानः काशकुशमवलम्ब्य न्यायविदा न निवारयितुं युक्तः। तस्मात्- कृत्स्नदक्षिणापुरुषान्तरयोर्बाधः। इत्ययमेव राद्धान्तो युक्तः।। 31।। 32।।  विंशे- वाजपेये रथस्य भागनियामकताधिकरणे सूत्रे 74-75   यजुर्युक्ते त्वध्वर्योर्दक्षिणा विकारः स्यात्।। 74।।  अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते।। 75।। विंशाधिकरणमारचयति- यजुर्युक्तोऽध्वर्युभागं बाधते यमयत्युत। बाधः प्राकाशवन्मैवं पक्षे प्राप्तेर्नियम्यते।। 33।। वाजपेये श्रूयते ''यजुर्युक्तं रथमध्वर्यवे ददाति'' इति। अस्यायमर्थः 'रथशकटदासीनिष्कादीनि सप्तदश द्रव्याणि प्राकृतगवाश्वादिदक्षिणाद्रव्यबाधकान्यत्र विहितानि। तेषु च प्रतिद्रव्यं सप्तदशसंख्या विहिता। ततो रथाः सप्तदश। तेषु मुख्यं रथं यजमानारोहणाय ''इन्द्रस्य वज्रोऽसि'' इत्यादियजुर्वेदोक्तैर्मन्त्रैः सज्जी करोति। सोऽयं यजुर्युक्तो रथः। त च दक्षिणाकालेऽध्वर्यवे दद्यात्' इति। 'प्राकाशावध्वर्यवे ददाति' इत्यत्र यथा चोदकप्राप्तस्याध्वर्युभागस्य बाधः, एवमत्रापि। ननु सप्तदशद्रव्यविधानेनैव प्राकृतद्रव्यबाधसिद्धिः। बाढम्। तथाऽपि 'अर्धिनः, पादिनः' इत्यादिसमाख्याप्रापिता विषमविभागविशेषक्लृप्तिः, सा यजुर्युक्तरथरूपभागविशेषविधिना बाध्यते। तस्मात्- अध्वर्योर्न रथान्तरभागोऽस्ति, नापि शकटदास्यादिभागः। इति पूर्वः पक्षः। नैतद्युक्तम्। प्राकाशदृष्टान्तवैषम्यात्। अत्यन्तमप्राप्तौ हि प्राकाशौ तत्र विधेयौ। यजुर्युक्तरथस्तु पक्षे प्राप्तः। तथा हि 'सप्तदश रथान्ददाति' इत्युक्ते 'कस्य को रथः' इति चिन्तायां यजमानेच्छाया नियामकत्वात्। 'यदाऽध्यर्यवे तं दातुमिच्छति, तदा प्राप्नोति, यदा नेच्छति, तदा न प्राप्नोति' इति पक्षे प्राप्तः। ततो यो यजुर्युक्तो रथः, सोऽध्वर्यवेऽवश्यं देय इति नियम्यते। अतो न कस्याप्यनेन बाधः।। 33।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 20, सूत्राणि 75। आदितः- अधिकरणानि 661, सूत्राणि 1860। दशमाध्यायस्य चतुर्थः पादः नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः।  प्रथमे- नारिष्ठहोमादिभिर्नक्षत्रेष्ट्यादीनां समुच्चयाधिकरणे सूत्रे 1-2   प्रकृतिलिङ्गासंयोगात्कर्मसंस्कारं विकृतावधिकं स्यात्।। 1।।  चोदनालिङ्गसंयोगे तद्विकारःप्रतीयेत प्रकृतिसंनिधानात्।। 2।। चतुर्थपादे प्रथमाधिकरणमारचयति- नक्षत्रेष्ट्युपहोमादिर्नारिष्ठादेर्निवर्तकः। समुच्चितो वा कार्यैक्यादाद्योऽन्त्योऽपूर्वभेदतः।। 1।। सन्ति नक्षत्रेष्टौ ''अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहा, अम्बायै स्वाहा, दुलायै स्वाहा'' इत्यादय उपहोममन्त्राः। प्रकृतौ प्रधानहोमादूर्ध्वं नारिष्ठहोमोविहितः। ''नारिष्ठान्होमाञ्जुहोति'' इत्युक्तत्वात्। ''दश ते तनुवो यज्ञ यज्ञियाः'' इत्यादयस्तत्र मन्त्राः। अयमेको विषयः। तथा श्येने श्रूयते ''लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति'' इति। प्रकृतावुपवीतं विहितम् 'उपव्ययते' इति। अयं द्वितीयो विषयः। तथा पृष्ठ्ये षडहे श्रूयते ''मध्वाशयेद्घृतं वा'' इति। प्रकृतौ श्रुतम् ''पयो व्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्य'' इति। अयं तृतीयो विषयः। तत्र- उपहोमनिवीतमध्वशनानि क्रमेण नारिष्ठहोमोपवीतपयोव्रतानां निवर्तकानि। कुतः- कार्यैक्यात्। उपहोमनारिष्ठहोमयोस्तावज्जुहोतिशब्दैक्य-तदर्थैक्याभ्यां कार्यैक्यं प्रतीयते। अशनव्रतयोः शब्दभेदेऽप्यर्थभेदो नास्ति। निवीतोपवीतयोः शब्दार्थभेदेऽपि वीतशब्दस्मारितं कार्यमेकं स्यात्। तस्मात्- बाधः। इति पूर्वः पक्षः। भवतु नाम दृष्टार्थैक्यं दृष्ट्वा बाधः। उदाहृतानि त्वपूर्वार्थानि। अपूर्वं च विध्येकगम्यतया विधिभेदेन भिद्यते। तस्मात्कार्यभेदात्समुच्चयोऽभ्युपेयः। न च निवीतोपवीतयोर्विरोधः शङ्कनीयः। वासोभ्यां तदुभयोपपत्तेः। नापि पयोव्रतस्य दृष्टार्थत्वम्, अल्पेन पयसा तृप्तिपुष्ट्यसंभवात्। उदाहरणद्वये कृत्वाचिन्ता वाऽस्तु।। 1।।  द्वितीये- वर्णकद्वयसहिते सूत्रम्   चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसंनिधानात्।। 2।। द्वितीयाधिकरण(स्य शरमयबर्हिषा कौशबर्हिर्बाधसाधकं प्रथम वर्णक)मारचयति- समुच्चेयं शरमयं कौशेनोतास्य बाधकम्। प्राचुर्यस्य विधेराद्यो मैवं प्रतिपदोक्तितः।। 2।। ''सौमारौद्रं चरुं निर्वपेत्कृष्णानां व्रीहीणामभिचरन्'' इत्यत्र ''शरमयं बर्हिर्भवति'' इति श्रुतम्। तदिदं प्राकृतेन कुशबर्हिषा सह समुच्चीयते। कुतः- मयट्शब्देन शरप्राचुर्यस्य विधानादबाधेनापि तदुपपत्तेः। इति पूर्वः पक्षः। 'नित्यं वृद्धशरादिभ्यः' [पा. सू. 4।3।143] इति सूत्रेण शरशब्दाद्विकारार्थे मयट्प्रत्ययः प्रतिपदोक्तः। अतस्तं परित्यज्य प्राचुर्यार्थो न ग्रहीतुं शक्यः। किंच प्राचुयर्थे कार्यान्तरं कल्प्यं स्यात्। तस्मात्कुशबर्हिषो बाधः। इति राद्धान्तः।। 2।। वाजपेये रथघोषदुन्दुभिघोषाभ्यां दर्भमन्त्रयोरुभयोर्बाधकं द्वितीयवर्णकमारचयति- रथदुन्दुभितद्घोषौ किं बर्हिर्मन्त्रयोः क्रमात्। बाधकावुत तद्घोष एक एव हि बाधकः।। 3।। रथघोषेत्ययं द्वंद्वस्तेनैतौ बाधकौ, न तत्। घोषाभ्यामिति वा घोषे लक्षणा वा प्रसज्यते।। 4।। पूर्वपक्षेऽन्यदीयोऽपि शब्दोऽत्रास्तु रथे सति। राद्धान्ते रथदुन्दुभ्योरेव घोषः प्रयोजकः।। 5।। वाजपेये श्रूयते ''रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति। दुन्दुभिघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति'' इति। प्रकृतौ त्वेवं श्रूयते ''उपावर्तध्वमिति बर्हिभ्यां स्तोत्रमुपाकरोति'' इति। उपाकरणं नाम स्तोत्रं प्रति प्रेरणम्। तत्र रथद्रव्यं दुन्दुभिद्रव्यं च द्वयं बर्हिर्द्रव्यस्य बाधकम्। घोषो मन्त्रस्य बाधकः, इति तावत्प्राप्तम्। रथश्च घोषश्चेति द्वंद्वसमासेनोभयोः प्राधान्यात्। नैतद्युक्तम्। इतरेतरयोगद्वंद्वे 'रथघोषाभ्याम्' इति द्विवचनप्रसङ्गात्। समाहारद्वंद्वे तु घोषशब्दस्य समाहारलक्षकतया मुख्यवृत्तिर्हीयेत। 'रथस्य घोषः' इति तत्पुरुषसमासे मुख्यवृत्तिर्न हीयते। तत्रापि रथप्राधान्यं हीयते- इति चेत्- समाहारेऽपि समानम्। तस्मात्- घोषो द्रव्यमन्त्रयोर्बाधकः। ननु यद्युभयं बाधकम्, यदि वैकं बाधकम्, सर्वथा द्रव्यमन्त्रौ बाध्येते। तत्र कोऽतिशयः- इति चेत्- उच्यते। पूर्वपक्षे स्वयमघुष्यन्नपि रथः सद्भावमात्रेण बर्हिर्निवर्तयति, घोषश्च रथेनाविशेषितत्वादन्यदीयोऽपि मन्त्रं निवर्तयेत्। सिद्धान्ते तु नान्यघोषः। इत्यतिशयः।। 3।। 4।। 5।।  तृतीये- बार्हस्पत्यग्रहादिभिः प्रकृतैन्द्रवायवादिग्रहाणां समुच्चयाधिकरणे सूत्राणि 3-5   सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत्।। 3।।  अधिकैश्चैकवाक्यत्वात्।। 4।।  लिङ्गदर्शनाच्च।। 5।। तृतीयाधिकरणमारचयति- बार्हस्पत्यादयः किं स्युः प्राकृतग्रहबाधकाः। समुच्चिता उताद्योऽस्तु कार्यैक्याद्ग्रहलिङ्गतः।। 6।। समुच्चयः प्रमाणाभ्यां ग्रहाणां प्रकृतौ यथा। विधेयोक्तेर्न लिङ्गं तच्चोक्तं लिङ्गं सुराग्रहे।। 7।। बृहस्पतिसवे श्रूयते ''बार्हस्पत्यं ग्रहं गृह्णाति'' इति। विषुवति ''अर्कं गृह्णाति'' इति। महाव्रते ''शुक्रं गृह्णाति'' इति। अश्वमेधे श्रूयते ''सौवर्णराजताभ्यां महिमानौ गृह्णाति'' इति। तत्र बार्हस्पत्यादयो ग्रहाः प्राकृतानामैन्द्रवायवादिग्रहाणां बाधकाः। कुतः- यागनिष्पादनलक्षणस्य कार्यस्यैकत्वात्। ग्रहशब्दसंयोगः कार्यैक्यगमकः। तस्मात्- बाधः। इति प्राप्ते- ब्रूमः- यथा प्रकृतौ प्रथमचोदितस्यैन्द्रवायवग्रहस्य, पश्चाच्चेदितानां मैत्रावरुणादिग्रहाणां च समुच्चयः तथाऽत्रोपदिष्टानामतिदिष्टानां च समुच्चयः स्यात्। अथोच्यते प्राकृतानां परस्परमेककार्यत्वे मानाभावात्, प्रत्युत प्रयोगवचनेन संभूयकारित्वावगमाद्युक्तः समुच्चयः- इति। तर्ह्यत्रापि समानम्। यागनिष्पादकत्वं तु प्रयोगवचनप्रापितत्वात्सहितानामेव, न त्वेकैकस्य, ''अर्केण यजेत'' ''शुक्रेण यजेत'' इत्येवं पृथक्पृथक्त्यागसंबन्धाभावात्। ग्रहशब्दोऽपूर्वविधेयग्रहणक्रियां ब्रूते, न तु प्रकृतौ क्लृप्तकार्यं पदार्थमनुवदति, येन लिङ्गं स्यात्। किंच 'वाजपेये सोमग्रहाः सुराग्रहाश्च' इत्यदिष्टानामुपदिष्टानां च समुच्चयार्थमुच्यमानश्चशब्दः सर्वत्र समुच्चयं गमयति। तस्मान्न बाधः।। 6।। 7।।  चतुर्थे- वाजपेये प्राजापत्यपशुभिः क्रतुपशूनां समुच्चयाधिकरणे सूत्रम्   प्राजापत्येषु चाम्नानात्।। 6।। चतुर्थाधिकरणमारचयति- प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः। अक्रियार्था पशूक्तिः स्याल्लिङ्गं तत्रास्ति बाधनम्।। 8।। पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा। कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः।। 9।। वाजपेये श्रूयते ''सप्तदश प्राजापत्यान्पशूनालभते'' इति। तैरेतैः प्राकृतपशूनामाग्नेयादीनां बाधः स्यात्। कुतः- पशुत्वलिङ्गात्। न हि पशुशब्दो ग्रहशब्दवदपूर्वो विधेयां क्रियां ब्रूते, येन लिङ्गत्वं हीयेत इति प्राप्ते- ब्रूमः- किमत्र प्राकृतपश्वनुवादेन सप्तदशसंख्या, प्रजापतिदेवता च, इति गुणद्वयं विधीयते, उत विशिष्टमन्यत्कर्म। नाद्यः। वाक्यभेदापत्तेः। द्वितीये तु न पशुशब्दो लिङ्गम्। ततो ग्रहन्यायो योजनीयः। किंच- अवरोधनमेवमाम्नायते ''ब्रह्मवादिनो वदन्ति नाग्निष्टोमो नोक्थ्यो न षोडशी नातिरात्रः। अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति। पशुभिरिति ब्रूयात्। आग्नेयं पशुमालभते। अग्निष्टोममेतेनावरुन्धे। ऐन्द्राग्नेनोक्थ्यम्। ऐन्द्रेण षोडशिनः स्तोत्रम्। सारस्वत्याऽतिरात्रम्। मारुत्या बृहत्स्तोत्रम्। एतावन्तो वै यज्ञक्रतवः। तान्पशुभिरेवावरुन्धे'' इति। अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादिपशुसद्भावस्य सिद्धवदनुवादात्समुच्चयोऽ-वगम्यते।। 8।। 9।।  पञ्चमे- सांग्रहणीष्टौ, आमनहोमैरनुयाजानां समुच्चयाधिकरणे सूत्रम्   आमने लिङ्गदर्शनात्।। 7।। पञ्चमाधिकरणमारयति- आमनाहुतिभिर्बाध्या अनुयाजा न वाऽग्रिमः। त्रित्वलिङ्गाद्विशिष्टोक्तेर्भेदौ मध्योक्तितोऽन्तिमः।। 10।। सांग्रहणीये श्रूयते ''आमनमस्यामनमस्य देवा ये सजाता इति तिस्र आहुतीर्जुहोति'' इति। एताभिस्तिसृभिराहुतिभिः प्राकृतास्त्रयोऽनुयाजा बाध्याः। कुतः- त्रित्वलिङ्गात्। पूर्वाधिकरणे सप्तदशसंख्या-विशिष्टप्राकृतपश्वभावेन माभूद्बाध्यत्वम्। इह तु त्रित्वविशिष्टत्वादनुयाजा बाध्यन्ताम्। यद्वा तदनुवादेन मन्त्रगुणविधानात्प्राकृतमन्त्रबाधः। इति पूर्वः पक्षः। किं त्रित्वमात्रमनूद्य मन्त्रसहिता आहुतयो विधीयन्ते, उत त्रित्वविशिष्टा आहुतीरनूद्य मन्त्रविधिः। आद्ये त्रित्वमग्न्यादिष्वपि सत्त्वेनान्वयान्न लिङ्गम्। द्वितीये विशेषणविशेष्ययोर्भेदेन वाक्यं भिद्येत। तस्मात्कर्मान्तरविधानान्न बाधः। किं तर्हि समुच्चयः। तत्र मध्योक्तिर्लिङ्गम्। तथा चाम्नायते ''पुरस्ताच्चोपरिष्टाद्वा जुहुयाद्बहिरात्मनः सजातीयान्दध्यात्। यन्मध्यतो जुहोति मध्यत एव सजातीयान्मनुते'' इति। तस्मादामनहोमानामनुयाजैः सह समुच्चयः।। 10।।  षष्ठे- महाव्रते पत्न्युपगानेनर्त्विगुपगानस्य समुच्चयाधिकरणे सूत्रे 8-9   उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसंयोगात्।। 8।।  आनर्थक्यात्त्वधिकं स्यात्।। 9।। षष्ठाधिकरणमारचयति- पत्नय उपगायन्तीत्यृत्विजां विनिवर्तिकाः। न वाद्यः सामगानोपचयः काण्डादिजस्ततः।। 11।। नदनं दुन्दुभीनां हि चित्ते विपरिवर्तते। उपगानं भवेत्तेन योग्यं वीणादिजं ततः।। 12।। गवामयने महाव्रतं नामैकाहः। तत्र श्रूयते ''पत्नय उपगायन्ति'' इति। तत्र पत्नय उपगायन्त्यः प्राकृतानामृत्विजामुपगातॄणां निवर्तिकाः, शारीरसामगानोपचयहेतुकाण्डवीणादिजोपगानकर्तृत्वात्। इति चेत्- न। ''दिक्षु दुन्दुभयो नदन्ति'' इति दन्दुभिगानानामनन्तरविहितानां चित्तेविपरिवर्तमानानामिदमुपगानं कर्मान्तरम्। न च शारीरमेव गानम्, तस्येदमुपगानम्। दुन्दुभिनदनस्याशारीरत्वान्न पत्नीभिः क्रियमाणमुपगानमिति तन्त्रीगानेऽपि गानशब्दप्रयोगात्। किंच काण्डवीणादिभिः क्रियमाणमुपगानं दुन्दुभिगानसजातीयम्। तस्मात्- पत्न्यो नर्त्विङ्निवर्तिकाः।। 11।। 12।।  सप्तमे- अञ्जनाभ्यञ्जने नवनीताभ्यञ्जनस्य गौग्गुलवाभ्यञ्जनादिभिः समुच्चयाधिकरणे सूत्राणि 10-12   संस्कारे चान्यसंयोगात्।। 10।।  प्रयाजवदिति चेत्।। 11।।  नार्थान्यत्वात्।। 12।। सप्तमाधिकरणमारचयति- अभ्यङ्गो नावनीतः किं बाध्यो गौग्गुलवादिभिः। न वाद्यो लेपजैकत्वान्न शैत्यस्नेहभेदतः।। 13।। अस्त्यञ्जनाभ्यञ्जनसंज्ञक एकोनपञ्चाशद्रात्रः सत्रविशेषः। तत्र श्रूयते ''गौग्गुलवेन प्रातःसवनेऽभ्यञ्जते, पैलुदारवेण माध्यंदिने सवने, सौगन्धिकेन तृतीयसवने'' इति। प्रकृतौ तु 'नवनीतेनाभ्यङ्गः' इति श्रुतम्। सोऽयमभ्यङ्गो बाध्यः, लेपजन्यस्य शरीरगतस्नेहकार्यस्योभयत्रैकत्वात्। इति पूर्वः पक्षः। नैतद्युक्तम्। कुतः- कार्यभेदात्। गौग्गुलवादिलेपजन्यं कार्यं चन्दनवच्छैत्यम्। तच्च नावनीतस्नेहाद्भिन्नम्। किंच नावनीतो दीक्षाकालीनः, इतरः सुत्याकालीनः। तस्माद्बाध्याभावात्समुच्चयः।। 13।।  अष्टमे- महाव्रते अहतवाससस्तार्यादिभिः समुच्चयाधिकरणे सूत्राणि 13-15   आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात्।। 13।।  अधिकं वाऽन्यार्थत्वात्।। 14।।  समुच्चयं च दर्शयति।। 15।। अष्टमाधिकरणमारचयति- तार्प्याद्यहतवस्त्रस्य बाधकं स्यान्न वाऽग्रिमः। गुह्याच्छादनकार्यैक्यादयोग्यत्वात्समुच्चयः।। 14।। महाव्रते श्रूयते ''तार्प्यं यजमानः परिधत्ते दर्भमयं पत्नी'' इति। प्रकृतौ- ''अहतं वासः परिधत्ते'' इति। घृताक्तः कम्बलस्तार्प्यमित्युच्यते। ताभ्यां तार्प्यदर्भमयाभ्यां दंपत्योरहतं वस्त्रं बाध्यते। कुतः- 'परिधत्ते' इत्यनेन प्रकृतिलिङ्गेन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात्। मैवम्। तार्प्यदर्भमययोर्गुह्यमाच्छादयितुमयोग्यत्वात्। तार्प्यादिपरिधानं 'वासांसि विस्त्रंसयति' इति वासोबहुत्वानुवादादुपरितनं प्रावरणं विधीयते। तस्मात्- कार्यभेदात्समुच्चयः।। 14।।  नवमे- महाव्रते रथंतरादिसाम्नां श्लोकादिसामभिः समुच्चयाधिकरणे सूत्रे 16-17   सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत।। 16।।  अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात्।। 17।। नवमाधिकरणमारचयति- बाध्यं श्लोकादिनाज्यादि न वाद्यः स्तुतिलिङ्गतः। देशसाम्नोर्विधौ भेदे वैशिष्ट्याच्च समुच्चयः।। 15।। महाव्रते श्रूयते ''श्लोकेन पुरस्तात्सदसः स्तुवते, अनुश्लोकेन पश्चात्'' इत्यादि। तत्र श्लोकानुश्लोकनामकैः सामभिः प्राकृतान्याज्यपृष्ठादिस्तोत्रगतानि रथंतरवामदेव्यनामकानि सामानि बाध्यानि। कुतः- 'स्तुवते' इति प्रकृतिलिङ्गदर्शनात्। प्रकृतौ 'आज्यैः स्तुवते' 'पृष्ठैः स्तुवते' इति हि श्रुतम्। नैतत्सारम्। किमत्र स्तुतिमनूद्य देशसामगुणौ विधीयेते, किंवा गुणद्वयविशिष्टा स्तुतिः। नाद्यः। वाक्यभेदापत्तेः। द्वितीये तु कार्यभेदेन बाधाभावात्समुच्चयः स्यादिति।। 15।।  दशमे- विकृतिविशेषे प्राकृतसाम्नां कौत्सादिभिर्बाधाधिकरणे सूत्रम्   अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात्।। 17।। दशमाधिकरणमारचयति- समुच्चीयेत कौत्सादि यद्वा प्राकृतबाधकम्। स्तुत्यभावादादिमोऽन्त्यो लिङ्गप्रकरणद्वयात्।। 16।। विकृतिविशेषे श्रूयते ''कौत्सं भवति, काण्वं भवति'' इति। तदेतत्कौत्सादिनामकं साम प्राकृतेन साम्ना समुच्चीयते। कुतः- प्राकृतस्य स्तुतिलिङ्गस्याभावेन कार्यैक्याभावात्। मैवम्। प्रकरणात्क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्तिसामर्थ्यलक्षणप्राकृतलिङ्गेन कार्यैक्यावगमात्। तस्मात्- बाधकम्।। 16।।  एकादशे- कौत्सादिभिर्व्यवस्थयैकादिबाधाधिकरणे सूत्रे 18-19   सर्वेषामविशेषात्।। 18।।  एकस्य वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात्।। 19।। एकादशाधिकरणमारचयति- तत्सर्वबाधकं सर्वमेकद्व्याद्युक्तितोऽथवा। अविशेषादादिमोऽन्त्य एकाद्युक्तिविशेषतः।। 17।। तत्पूर्वोक्तं कौत्सादिसाम विषयः। तत्र किं कौत्सं साम प्राकृतसामनिवर्तकम्, काण्वमपि तथा, इत्येकैकस्य सर्वनिवर्तकत्वमुच्यते। आहोस्विदेकवचनान्तनिर्दिष्टमेकस्य निवर्तकम्, द्विवचनान्तनिर्दिष्टं द्वयोः, बहुवचनान्तनिर्दिष्टानि बहूनाम्। तत्र नियामकाभावादाद्यः पक्षः प्राप्नोति। एकादिवचनरूपाणां श्रुतीनां नियामकत्वादन्त्यः पक्षोऽभ्युपेयः। तथा हि- ''कौत्सं भवति, वासिष्ठस्य जनित्रे भवतः, क्रौञ्चानि भवन्ति'' इति निवर्तकेषु श्रूयमाणान्येकद्विबहुवचनानि निवर्त्यानामेतत्संख्यावत्त्वं प्रत्यासत्त्या बोधयन्ति। किंचैवं सत्यबाधितसामविषयश्चोदकोऽनुगृहीतो भवति। कृत्स्नबाधे तु सर्वश्चोदको निरुध्येत। तस्मात्- न सर्वबाधकः।। 17।।  द्वादशे- विवृद्धाविवृद्धस्तोमक्रतुषु क्रमेण प्राकृतसामबाधाबाधाधिकरणे सूत्रम्   स्तोमविवृद्धौ त्वधिकं स्यादविवृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च।। 20।। द्वादशाधिकरणमारचयति- स्तोमस्थयोर्वृद्ध्यवृद्ध्योः प्राकृतः किं निवर्तते। अवृद्धावेव वाद्यः स्यात्सामोत्पत्त्युपयोगतः।। 18।। अवृद्धावुपयोगाय प्राकृतस्य निवर्तकम्। वृद्धिं प्रत्युपयोगित्वाद्वृद्धौ तु न निवर्तकः।। 19।। सन्ति विवृद्धस्तोमका अविवृद्धस्तोमकाश्च विकृतिरूपाः क्रतवः। तत्रोभयत्रापि यानि सामान्युपदिष्टानि, तैरतिदिष्टानां साम्नां निवृत्तिः स्यात्। अन्यथा सामोत्पत्तिवैयर्थ्यात्। इति पूर्वः पक्षः। सिद्धान्तः स्पष्टार्थः।। 18।। 19।।  त्रयोदशे- पवमाने विवृद्धाविवृद्धस्तोमकक्रतूनां सामावापोद्वापाधिकरणे सूत्रे 21-22   पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात्।। 21।। त्रयोदशाधिकरणमारचयति- क्वापि स्तोत्र ऋचि क्वापि स्यादावापस्तथोद्धृतिः। पवमानेषु गायत्र्यादिष्वेवोताविशेषतः।। 20।। आद्यो नो परिसंख्यानादत्र ह्येवेति तद्विधेः। विध्यन्तराशेषभूतमपूर्वं तद्विधीयते।। 21।। अवृद्धस्तोमकेषु प्राकृतस्यातिदिष्टस्य साम्न उद्वापः, प्रत्यक्षोपदिष्टानामावापः। 'वृद्धस्तोमकेष्वावाप एव' इति पूर्वाधिकरणे स्थितम्। तावेवावापोद्वापौ यस्मिन्कस्मिंश्चित्स्तोत्रे यस्यां कस्यांचिदृचि स्याताम्। कुतः- नियामकाभावात्। इति पूर्वः पक्षः। नो स्वल्वेतद्युक्तम्। एवकारेण प्रकृतपवमानव्यतिरिक्तेष्वाज्यादिस्तोत्रेषु, गायत्रीबृहत्यनुष्टुव्युक्तास्वृक्ष्वा-वापोद्वापयोः परिसंख्यातत्वात्। एवकारश्चैवमाम्नायते ''त्रीणि ह वै यज्ञस्योदराणि यद्गायत्री, बृहती, अनुष्टुप्, च। अत्र ह्येवावपन्ति, अत एवोद्वपन्ति'' इति। ननु मा भूतामन्यत्रावापोद्वापौ। विवक्षितदेशेषु कथं प्राप्नुतः- इति चेत्- अनेन वाक्येन तद्विधानात्- इति ब्रूमः। न च अयमर्थवादः। अनन्यशेषत्वात्। नाप्यनुवादः। अपूर्वार्थत्वात्। तस्मात्- पवमानेष्वेव गायत्र्यादिष्वावापोद्वापौ।। 20।। 21।।  चतुर्दशे- यागादौ विधिशब्देनैव देवताभिधानाधिकरणे सूत्रे 23-24   विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना।। 23।।  शेषाणां चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते।। 24।। चतुर्दशाधिकरणमारचयति- पर्यायेणापि देवोक्तिर्वैधेनैव पदेन वा। अर्थाभेदादादिमोऽन्त्यः शब्दपूर्वान्वयित्वतः।। 22।। दर्शपूर्णमासयोर्ये निगमाः, तेष्वग्न्यादिदेवताः किं पावकशुच्यादिना येन केनापि पर्यायेणाभिधातव्याः, किंवा तत्तद्विध्युद्देशगतेनाग्न्यादिपदेनैव, इति संशयः। तत्र शब्दोऽर्थप्रत्यायनार्थः, तत्पर्यायाणां स्वरूपभेदेऽप्यर्थाभेदाद्येन केनाप्यमिधानम्। इति पूर्वः पक्षः। यत्र ह्यर्थैः कार्यमासाद्यते तत्र शब्दोऽर्थप्रत्यायनार्थो भवति। यत्र पुनः शब्द एव कार्यम्, तत्र कार्यसंबन्धार्थं शब्द एव प्रत्याययितव्यः। तद्यथा देवदत्ते गौरवातिशयमुत्पादयितुं राजसभायामाचार्योपाध्यायादिशब्दैस्तं व्यवहरन्ति। पितृमातॄमातुलादयश्च तत्रसंबन्धविशेषवाचकशब्देन यथा तुष्यन्ति न तथा स्वनामग्रहणेन। प्रत्युत कुप्यन्त एव। तद्वदत्रापि- अग्न्यादिवैधशब्द एव कार्यमासक्तम्। विधिं विना यागदेवतयोः संबन्धाभावात्। विधिकृते तु तत्संबन्धे शब्दस्य प्रयोजकत्वं दुर्वारम्। अत एव- अयाट्स्वाहाकारोज्जित्यादिनिगमेषु नियमेन वैधा एवाग्न्यादिशब्दाः प्रयुज्यन्ते- ''अयाडग्नेः प्रिया धामानि'' ''अयाट् सोमस्य प्रिया धामानि'' ''स्वाहाऽग्निम्'' ''स्वाहा सोमम्'' ''अग्नेरहनुज्जितिमनूज्जेषम्'' ''सोमस्याहमुज्जितिमनूज्जेषम्'' इत्यादिना। तस्मात्- वैधपदैरेव तत्तद्वेवताभिधानम्।। 22।।  पञ्चदशे- अतिदेशस्थलेऽपि वैधशब्देनैव देवताभिधानाधिकरणे सूत्रम्   तथोत्तरस्यां ततौ तत्प्रकृतित्वात्।। 25।। पञ्चदशाधिकरणमारचयति- सौर्यादिनिगमे कोऽपि शब्दः स्याद्वैध एव वा। चरौ सूर्यान्वयादाद्यः प्रयोगान्वयतोऽन्तिमः।। 23।। 'सौर्यं चरुं निर्वपेत्' इत्यादिविकृतिषु चोदकातिदिष्टा ये निगमाः, तेष्वग्न्यादिशब्दस्थाने सूर्याद्यर्थप्रत्यायकः शब्द ऊहितव्यः। स चार्थ आदित्यादिना पर्यायेणापि प्रत्याययितुं शक्यते। वैधस्तु सूर्यशब्दश्चरुयाग एवान्वितः। न त्वग्न्यादिशब्दवन्निगमेषु पठितः। तस्मात्- यः कोऽपि। इति प्राप्ते- ब्रूमः- अत्र 'सौर्यं निर्वपेत्' इति प्रयोगवचनेन सूर्यान्वयो भवति। न तु 'सौर्यश्चरुः' इति चरुणा। कारकविभक्तिर्हि द्वितीया। सा चाख्यातेन संबध्यते न नाम्ना। सति प्रयोगान्वये याज्यापुरोनुवाक्ययोर्निगमे वा यत्र प्रयोगोऽपेक्षितः, तत्र सर्वत्र सूर्यशब्द एव युक्तः। प्रकृतावपि निगमेषु नार्थमात्रविवक्षयाऽग्निशब्दः प्रयुज्यते, किं तर्हि वैधविवक्षयाऽपि। तथा सत्यतिदेशोऽपि वैधशब्दविषय एव भविष्यति। तस्मात्- सूर्यशब्द एव प्रयोक्तव्यः।। 23।।  षोडशे- आधानेऽग्नेः सगुणेनाभिधानाधिकरणे सूत्राणि 26-29   प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात्।। 26।।  अविकारो वाऽर्थशब्दानपायात्स्याद्द्रव्यवत्।। 27।।  तथारम्भासमवायाद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशास्त्रमनर्थकं स्यात्।। 28।।  द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात्।। 29।। षोडशाधिकरणमारचयति- निगमे पावकाग्न्योः किमग्निः स्यादथवोभयम्। अग्निश्चोदकतो मैवं वैधोऽग्निः सगुणो यतः।। 24।। आधाने श्रूयते ''अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेत्। अग्नये पावकाय। अग्नये शुचये'' इति। तत्र गुणगुणिनोः पावकाग्न्योर्मध्येऽग्निशब्द एव निगमे प्रयोक्तव्यः। कुतः- तस्यैव चोदकप्राप्तमन्त्रपठितत्वात्। मैवम्। पावकगुणयुक्तस्याग्नेर्वैधत्वेन सर्वप्रयोगेषु तथैव प्राप्तत्वात्। तस्माच्छब्दद्वयं पठनीयम्।। 24।।  सप्तदशे- आधानाज्ययोरग्नेर्निर्गुणेनाभिधानाधिकरणे सूत्रे 30-31   बुधन्वान्पवमानवद्विशेषनिर्देशात्।। 30।।  मन्त्रविशेषनिर्देशान्न देवताविकारः स्यात्।। 31।। सप्तदशाधिकरणमारचयति- बृधन्वत्तादिगुणको देवो वाच्योऽथ केवलः। आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः।। 25।। आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते ''वृधन्वानाग्नेयः कार्यः, पावकवान्सौम्यः'' इति। तत्र निगमेषु 'बृधन्वन्तमग्निमावह, पावकवन्तं सोममावह' इत्येवं सगुणो देवो वक्तव्यः। कुतः- वृधन्वत्त्वादेर्देवगुणत्वात्। तथा हि श्रूयते ''वृधन्वानाग्नेयः कार्यः, पावकवान्सौम्यः'' इति। न खल्वाज्यभागस्य देवताद्वारेण विना साक्षाद्बृधन्वच्छब्दः संभवति। तस्मात्- देवगुणत्वात्सगुणो देवो वाच्यः। मैवम्। बृधन्वत्ताया मन्त्रगुणत्वात्। न ह्यत्राग्नेयशब्दो यागपरः। किं तर्हि मन्त्रपरः। संभवति हि मन्त्रस्य साक्षाद्वृधन्वच्छब्दयोगः। ''अग्निं स्तोमेन बोधय'' इत्यस्मिन्मन्त्रे वृधिधातोः प्रयुक्तत्वाद्बृधन्वत्ताविधिनाग्नेयमन्त्रान्तरं निवर्त्यते। न च तद्धितान्त आग्नेयपद उपसर्जनीभूतो देवतावाचकोऽग्निशब्दो वृधन्वच्छब्देन विशेष्टुमर्हति। तस्मात्- केवलोऽग्निशब्दो निगमे पठितव्यः।। 25।।  अष्टादशे- गवानुबन्धपृषदाज्यहोमयोर्विधिशब्दाभ्यामेवोस्रावनस्पतिशब्दाभ्यामभिधानाधिकरणे सूत्रे 32-33   विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपि भेदः स्यात्।। 32।।  यथोक्तं वा विप्रतिपत्तेर्न चोदना।। 33।। अष्टादशाधिकरणमारचयति- किं गोवनस्पती केनाप्युतोस्राविधिशब्दतः। वक्तव्यौ निगमाद्भेदो विधेर्दृष्टस्तथाऽग्रिमः।। 26।। स भेद आर्थिकस्तं तु प्रापयेच्चोदको न हि। उस्रा प्रकरणाम्नानाद्वैधत्वेन वनस्पतिः।। 27।। ज्योतिष्टोमे पशुः श्रूयते ''गौरनुबन्ध्यः'' इति। तथा पशौ स्विष्टकृद्विकारः पठितः- ''पृषदाज्येन वनस्पतिं यजति'' इति। तावेतौ गोवनस्पती निगमेषु येन केनापि पर्यायशब्देन वक्तव्यौ। कुतः- प्रकृतौ विधिनिगमयोर्भेददर्शनेन वैधशब्दनियमाभावात्। तथा हि- अग्नीषोमीयपशुरनुबन्ध्यस्य प्रकृतिः। तत्र पशुशब्दो वैधः, 'अग्नीषोमीयं पशुमालाभेत' इति तद्विधानात्। निगमेषु च्छागशब्दः ''छागस्य वपाया भेदसोऽनुब्रूहि'' इति। तथा वनस्पतियागस्य स्विष्टकृद्यागः प्रकृतिः। तत्र स्विष्टकृच्छब्दसहितोऽग्निशब्दो वैधः, ''अग्निं स्विष्टकृतं यजति'' इति विधानात्। निगमेषु केवलोऽग्निशब्दः पठितः ''ये दैव्या ऋत्विजस्तेभिरग्ने'' इति। सत्येवं विधिनिगमभेदे वैधशब्दनियमस्य प्रकृतावभावाद्विकृतावपि तदभावे सति येन केनाप्यभिधानम्। इति पूर्वः पक्षः। प्रकृतौ योऽयं विधिनिगमभेदः स आर्थिकः। न चार्थिकं चोदकः प्रतिदिशति। तस्मात्- वैध एव निगमेषु प्रयोक्तव्यः। न चैवमनुबन्ध्यनिगमे वैधो गोशब्दः प्राप्नुयात्, इति शङ्कनीयम्। तत्रोस्राशब्दस्य साक्षादाम्नातत्वात्। ''उस्राया वपाया मेदसोऽनुब्रूहि'' इति ह्याम्नायते। तस्मादुस्रावनस्पतिशब्दौ वक्तव्यौ। इति राद्धान्तः।। 26।। 27।।  एकोनविंशे- अवभृथेऽग्नीवरुणयोः सस्विष्टकृच्छब्देनाभिधानाधिकरणे सूत्रे 34-35   स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निर्वर्तेत।। 34।।  संयोगो वाऽर्थापत्तेरभिधानस्य कर्मजत्वात्।। 35।। एकोनविंशाधिकरणमारचयति- किंमग्नीवरुणौ स्विष्टकृच्छब्देन विवर्जितौ। वक्तव्यौ सहितौ वाद्यो रूढत्वादगुणोक्तितः।। 28।। कदाचित्कृतवान्स्विष्टमिति योगाद्गुणे सति। पावकाग्निनयेनात्र वक्तव्यौ सगुणाविमौ।। 29।। अवभृथे श्रूयते ''अग्नीवरुणौ स्विष्टकृतौ यजति'' इति। तत्र निगमेषु स्विष्टकृच्छब्दवर्जितावग्नीवरुणौ वक्तव्यौ। कुतः- स्विष्टकृच्छब्दस्य योगासंभवेन वह्नौ रूढस्य गुणवाचित्वाभावात्। 'स्विष्टं कृतवान्' इत्येवं भूतार्थे किप्प्रत्ययविधानात्तादृशो योगो वक्तव्यः। न चासावत्र संभवति। स्विष्टस्य करिष्यमाणत्वात्। रूढौ तु कार्यलक्षणया 'स्विष्टकृत्कार्ये, अग्नीवरुणौ' इति वचनव्यक्तिः संपद्यते। तस्मात्- स्विष्टकृच्छब्देन वर्जितौ। इति प्राप्ते- ब्रूमः- तेन सहितौ वक्तव्यौ। कुतः- अस्मिन्प्रयोगे स्विष्टस्य करिष्यमाणत्वेऽप्यतीतप्रयोगे कृतत्वेन योगसंभवे क्लृप्तयोगं परित्यज्य कल्प्यरूढ्याश्रयणायोगात्। ततः- पावकत्वगुणयुक्ताग्निवत्स्विष्टकृत्त्वगुणयुक्तौ वक्तव्यौ।। 28।। 29।।  विंशे- अग्नीषोमीयपशौ सर्वत्रैव प्रयोगे निर्गुणेनाग्निशब्देनाग्नेरभिधानाधिकरणे सूत्रे 36-37   सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात्।। 36।।  सर्वस्य वैककर्म्यात्।। 37।। विंशाधिकरणमारचयति- स्विष्टकृत्त्वगुणो लोप्यो याग एवाखिलेषु वा। यज्यन्वयाद्याग एव प्रयोगान्वयतोऽन्तिमः।। 30।। पशुपुरोडाशे स्विष्टकृति गुणरहितः केवलोऽग्निः श्रूयते ''अग्निं यजति'' इति। तत्र गुणरहितस्याग्नेर्यजिधातुनाऽन्वयाद्याग एव स्विष्टकृत्त्वगुणो लोप्यः। मैवम्। यजतिशब्दस्य प्रयोगवचनत्वादखिलेषु निगमप्रयोगेष्वसौ लोप्यः।। 30।।  एकविंशे- अनुयाजेषु स्विष्टकृद्यागस्य संस्कारकर्मताधिकरणे सूत्रम्   स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात्।। 38।। एकविंशाधिकरणमाह- अनुयाजोऽन्तिमो योऽसौ किमारादुपकारकः। स्विष्टकृत्संस्कृतिर्वाद्योऽनुयाजान्तरसाम्यतः।। 31।। स्विष्टकृत्त्वगुणस्याग्नेः प्रत्यभिज्ञार्थवत्त्वतः । दृष्टार्थत्वाच्च संस्कारो भवेदन्त्यप्रयाजवत्।। 32।। दर्शपूर्णमासयोस्त्रयोऽनुयाजाः समाम्नाताः। तत्र प्रथमद्वितीयानुयाजवत्तृतीयोऽप्यारादुपकारः। इति पूर्वः पक्षः। अस्ति प्रधानहोमनारिष्ठहोमानन्तरभावी प्राशित्रादिभक्षणात्प्राचीनः पुरोष्ठाशादिद्रव्यकः स्विष्टकृद्धोमः सर्वेषां हविषाम्। ''उत्तरार्धात्सकृत्स्विष्टकृतेऽवद्यति'' इत्यादिना प्राशित्रादिभक्षणोत्तरकालीनेष्वाज्य-द्रव्यकेष्वनुयाजेषु तृतीये स्विष्टकृत्त्वगुणेन प्रत्यभिज्ञाऽस्ति। ''देवोऽग्निः स्विष्टकृत्'' इति मन्त्रपाठात्। सा च पूर्वस्विष्टकृद्देवतास्मरणसंस्कारे सत्यर्थवती स्यात्, प्रथमद्वितीययोस्तु मास्ति सा, इति वैषम्यम्। किंच संस्कारपक्षे दृष्टार्थस्तृतीयः स्यात्। तस्मात्- अन्त्यप्रयाजवदन्त्योऽनुयाजः स्यात्।  द्वाविंशे- दर्शपूर्णमासयोर्याज्यापुरोनुवाक्ययोः संस्कारकर्मताधिकरणे सूत्राणि 39-41   अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात्।। 39।।  संस्कारो वा चोदितस्य शब्दवचनार्थत्वात्।। 40।।  स्याद्गुणार्थत्वात्।। 41।। द्वाविंशाधिकरणमारचयति- अन्वाहेत्यर्थकर्म स्यात्संस्कारो वाऽर्थकर्मता। शस्त्रवत्कार्यताज्ञानाद्दृष्टार्थत्वेन संस्कृतिः।। 33।। ''तिष्ठन्याज्यामन्वाह, आसीनः पुरोनुवाक्याम्'' इति दर्शपूर्णमासयोः श्रुतम्। तदेतच्छस्त्रादिवदर्थकर्म स्यात्। यथा 'स्तौति शंसति' इत्यत्र कर्तव्यताप्रतीतेः स्तोत्रशस्त्रयोरर्थकर्मत्वम्, तथाऽनुवचनस्यापि- इति चेत्- मैवम्। चोदितदेवतास्मरणसंस्कारस्य दृष्टप्रयोजनत्वात्। तस्मिन्सत्यदृष्टस्य कल्पयितुमशक्यत्वात्। ननु मन्त्रसामर्थ्यादेव देवतास्मरणसिद्धेः 'अन्वाह' इति तद्विधानं व्यर्थम्। एवं तर्हि प्रागनुवचनमनूद्य 'तिष्ठन्, आसीनः' इति स्थानासनगुणौ विधीयेयाताम्।। 33।।  त्रयोविंशे- मनोतायामूहाभावाधिकरणे सूत्रम्   मनोतायां तु वचनादविकारः स्यात्।। 42।। त्रयोविंशाधिकरणमारचयति- मनोतामन्त्र ऊहोऽस्ति वायव्ये नास्ति वाऽस्त्यसौ। आग्नेय्येवेतिवचनं प्रकृतौ सार्थकं यतः।। 34।। अग्नीषोमावग्निनैव लक्ष्येतां वचनं विना। अनर्थकात्तत्र वाक्याद्विकृतावूहवारणम्।। 35।। ''त्वं ह्यग्ने प्रथमो मनोता'' इत्ययं मनोतामन्त्रोऽग्नीषोमीयपशौ पठितः। वायव्यपशावप्ययं चोदकप्राप्तः। तत्र ''त्वं हि वायो प्रथमः'' इत्यवेमूहोऽस्ति। यत्तु वचनम् 'यद्यप्यन्यदेवत्यः पशुः, आग्नेय्येव मनोता कार्या' इति। तत्प्रकृतौ पठितं तत्रैव सार्थकम्। द्विदेवत्यपशावेकदेवत्यमन्त्रस्य प्रकरणपठितस्याप्ययोग्यत्वशङ्कायां पुनर्विघानार्थत्वात्। मैवम्। 'छत्रिणो गच्छन्ति' इत्यादिवन्मन्त्रगतस्याग्निशब्दस्याग्नीषोमलक्षकत्वेनायोग्यत्वाशङ्काया अनुदयात्प्रकृतावनर्थकं तद्वाक्यं विकृतावूहनिवारणेन चरितार्थं भवति। तस्मात्- ऊहो नास्ति।। 34।। 35।।  चतुर्विंशे- कण्वरथंतरस्य स्वयोनौ गानाधिकरणे सूत्राणि 43-46   पृष्ठार्थेऽन्यद्रथंतरात्तद्योनिपूर्वत्वात्स्यादृचां प्रविभक्तत्वात्।। 43।।  स्वयोनौ वा सर्वाख्यत्वात्।। 44।।  यूपवदिति चेत्।। 45।।  न कर्मसंयोगात्।। 46।। चतुर्विंशाधिकरणमारचयति- बृहद्रथंतरैकीययोनौ कण्वरथंतरम्। रथंतरस्यैव योनौ किं स्वयोनावुताग्रिमः।। 36।। चोदकस्याविशेषेण, द्वितीयो नामसाम्यतः। अनङ्गत्वान्नातिदेशः स्वयोनौ पठितत्वतः।। 37।। वैश्यस्तोमे पृष्ठस्तोत्रे सामविशेषो विहितः ''कण्वरथंतरं पृष्ठं भवति'' इति। प्रकृतौ पृष्ठस्तोत्रे बृहद्रथंतरसामनी विकल्पिते। ''त्वामिद्धि हवामहे'' इतीयमृग्वृहतो योनिः। ''अभि त्वा शूर'' इति रथंतरस्य।''पुनानः सोम'' इति कण्वरथंतरस्य। तत्र बृहद्रथंतरयोरन्यतरस्य साम्नो योनौ कण्वरथंतरं गेयम्। कुतः- चोदकप्राप्तयोर्विशेषनियामकाभावात्। अथवा रथंतरस्यैव योनौ गेयम्। कुतः- 'रथंतर' इति नामसाम्यस्य धर्मातिदेशार्थत्वेन नियामकत्वात्। नैतद्युक्तम्। बृहद्रथंतरसाम्नोरेव प्रकृतावङ्गत्वेन विधानम्, न तु तद्योन्योः। अतो नास्ति तयोरतिदेशतः प्राप्तिः। तस्मात् 'स्वयोनौ गेयम्' इति परिशिष्यते। प्राप्तिश्च सामगानामुत्तराग्रन्थपाठादवगन्तव्या। एवं सति श्रुतहान्यश्रुतकल्पने न भविष्यतः।। 36।। 37।।  पञ्चविंशे- कण्वरथंतरस्य स्वयोन्युत्तरयोर्गानाधिकरणे सूत्रे 47-48   कार्यत्वादुत्तरयोर्यथाप्रकृति।। 47।।  समानदेवते वा तृचस्याविभागात्।। 48।। पञ्चविंशाधिकरणमारचयति- संदेहनिर्णयौ पूर्ववदेवोत्तरयोर्ऋचोः। योनित्यागः समश्चेन्न तृचशब्देन बाधनात्।। 38।। ''एकं साम तृचे क्रियते'' इति श्रुतेः कण्वरथंतरसाम्न ऋचां त्रयमाश्रयः। तत्र- एका स्वयोनिः, इतरे स्वयोन्युत्तरे। एवं बृहद्रथंतरसाम्नोर्द्रष्टव्यम्। तत्र बृहदुत्तरयो रथंतरोत्तरयोर्वाऽतिदेशप्राप्त्यविशेषेण स्वेच्छया गेयम्। इत्याद्यः पक्षः। नामसाम्याद्रथंतरोत्तरयोरेव गेयम्। इति द्वितीयः। प्रकृतावृचः साक्षादङ्गत्वाभावेऽपि सामद्वारकमङ्गत्वमङ्गीकृत्य चोदकप्राप्त्या पक्षद्वयोपन्यासः। योनिवदुत्तरयोरप्यृचोरुत्तराग्रन्थे पठितत्वात्स्वयोन्युत्तरयोर्गेयम्। इति तृतीयपक्षो राद्धान्तः। बृहदुत्तरयोः स्वयोन्युत्तरयोर्वा गीयताम्। सर्वथाऽपि स्वयोन्यृक्त्यागः, ऋगन्तरपरिग्रहश्च समानः। तथा सति चोदकोऽत्र प्रापकः। इति पूर्वपक्षिणोऽभ्यधिका शङ्का। तृचशब्दः समानच्छन्दस्कानामेकदेवत्यानामृचां त्रये प्रसिद्धः। अतस्तृचश्रुत्या प्रत्यक्षया चोदकप्राप्तस्य बाधः। इति राद्धान्ताशयः।। 38।।  षङ्विंशे- अग्निष्टुति स्तुतशस्त्रयोरविकाराधिकरणे सूत्रम्   ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात्।। 49।। षड्विंशाधिकरणमारचयति- आग्नेयेषु ग्रहेषूहो नास्ति वा स्तुतशस्त्रयोः। संस्कारत्वादस्ति मैवमर्थकर्मत्वनिश्चयात्।। 39।। अग्निष्टुदाख्य एकाहे श्रूयते ''आग्नेया ग्रहा भवन्ति'' इति। तेषु चोदकप्राप्तयोर्नानादेवतयोः स्तुतशस्त्रयोः संस्कारकर्मत्वभ्रमेणास्त्यूहः। इति वदन्तं प्रत्येतदुत्तरम्- द्वितीयाध्याये तयोरर्थकर्मत्वस्य निर्णीतत्वान्नास्त्यूह इति।। 39।।  सप्तविंशे- चातुर्मास्येष्वाज्यशब्दस्याविकारेणावाहनाधिकरणे सूत्राणि 50-59   उभयपानात्पृषदाज्ये दध्नः स्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात्।। 50।।  न वा परार्थत्वाद्यज्ञपतिवत्।। 51।।  स्याद्वावाहनस्य तादर्थ्यात्।। 52।।  न वा संस्कारशब्दत्वात्।। 53।।  स्याद्वा द्रव्याभिधानात्।। 54।।  दध्नस्तु गुणभूतत्वादाज्यपा निगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात्।। 55।।  दधि वा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात्।। 56।।  अपि वाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात्।। 57।।  अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम्।। 58।।  न वा स्याद्गुणशास्त्रत्वात्।। 59।। सप्तविंशाधिकरणमारचयति- चातुर्मास्यातिदिष्टेषु निगमेष्वाज्यपानिति। विक्रियेत न वाद्येऽपि किं स्याद्दध्याज्यपानिति।। 40।। दधिपानिति वा यद्वेत्येवं स्यात्पृषदाज्यपान्। द्रव्यद्वयोक्तेराद्यः स्याद्दधिमात्रहविष्ट्वतः।। 41।। द्वितीयः स्यात्तृतीयोऽस्तु द्रव्यान्तरविधानतः। गुणो दध्नां चित्रताज्ये ततो विक्रियते नहि।। 42।। चातुर्मास्येषु चोदकेनावाहनस्वाहाकारायाड्जोषणनिगमा अतिदिष्टाः। तत्र आज्यपशब्दः प्रयुक्तः। ''देवानाज्यपानावह'' ''स्वाहा देवानाज्यपान्'' ''अयाड्देवानामाज्यपानां प्रिया धामानि'' ''देवा आज्यमजुषन्त'' इति। सोऽयमाज्यपशब्दो विक्रियते, न वा, इति संशयः। विकारोऽपि त्रिविधः। तत्र 'दध्याज्यपान्' इत्याद्यस्तावत्प्राप्नोति। कुतः- 'अथ पृषदाज्यं गृह्णाति द्वयं वा, इदं सर्पिश्चैव दधि च' इति द्रव्यद्वयस्योक्तत्वात्। आज्यस्योपस्तरणाभिधारणार्थत्वेन हविःशेषत्वाद्धविष्ट्वं नास्तीति दध्येव हविः। ततः 'दधिपान्' इति द्वितीयः पक्षः। पृषदाज्यशब्देन द्रव्यान्तरमुच्यते। ''पृषदाज्येनानुयाजान्यजति'' इति तस्य हविष्ट्वम्। ततः 'पृषदाज्यपान्' इति तृतीयः पक्षः। पृषत्त्वं नाम चित्रता। सा चाज्यगतो गुणः। स च दधिमेलनेन निष्पद्यते। तस्मात्- आज्यस्यैव द्रव्यत्वादाज्यपशब्दोपेता एव निगमाः पठितव्याः।। 40।। 41।। 42।। इति श्रीमाधवीय जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य चतुर्थः पादः।। 4।। अत्र पादे- अधिकरणानि 27, सूत्राणि 59। आदितः- अधिकरणानि 688, सूत्राणि 1919। दशमाध्यायस्य पञ्चमः पादः षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः।  प्रथमे- एकदेशग्रहणे प्राथमिकानामेव ग्रहणाधिकरणे सूत्राणि 1-6   आनुपूर्व्येवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात्।। 1।।  लिङ्गदर्शनाच्च।। 2।।  विकल्पो वा समत्वात्।। 3।।  क्रमादुपजनोऽन्ते स्यात्।। 4।।  लिङ्गमविशिष्टं संख्याया हि तद्वचनम्।। 5।।  आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यविधिः स्यात्।। 6।। पञ्चमपादस्य प्रथमाधिकरणमारचयति- प्राकृतानामेकदेशे कोऽपि स्यादाद्य एव वा। अविशेषेण कोऽप्याद्यः पूर्वेणास्यैव बोधनात्।। 1।। प्रकृतौ 'आग्नेयमष्टाकपालम्' इत्यष्टसंख्याकानि कपालानि विहितानि। विकृतिषु ''द्यावापृथिव्यमेककपालम, आश्विनं द्विकपालकम्, वैष्णवं त्रिकपालम्'' इत्यादिष्वष्टानामेकदेशः। तत्र- आद्यो मध्यमोऽन्त्यो वा यः कोऽप्येकदेश इच्छया स्वीकार्यः, उत- आद्य एवैकदेशः। नियामकाभावात्- यः कोऽपि। इति प्राप्ते- ब्रूमः- 'आचतुर्थात्कर्मणोऽभिसमीक्षेत- इदं करिष्यामि, इदं करिष्यामि' इत्युक्तत्वादनुक्रमेण स्मृत्वाऽनुष्ठेयानि। तत्र प्राकृतोऽनुक्रम एवंविधः- उपवेशनामकेन काष्ठविशेषेण प्रथममङ्गारविशेषं सम्यगवस्थाप्य ''ध्रुवमसि'' इति मन्त्रेण तस्मिन्नङ्गारे पुरोडाशकपालमुपदधाति। सोऽयमनुक्रमश्चोदकप्राप्तस्यैव स्मर्यते। तत्राङ्गारावस्थापनेन पूर्वपदार्थेनानन्तरभावि प्रथमकपालोपधानमेव बुद्धावुपस्थाप्यते। तेन च द्वितीयम्। न च प्रथमद्वितीययोर्विशेषाभावः, द्वितीयस्य हि ''धर्त्रमसि'' इति मन्त्रः प्राचीनदेशश्च विशिष्यते। सत्येवं क्रमनियमे प्रतीतपरित्यागाप्रतीतस्वीकारयोरयुक्तत्वादाद्य एवैकदेशः स्वीकार्यः। अवशिष्टस्तु प्रयोजनाभावाल्लुप्यते। ''एकां सामिधेनीमन्वाह'' इत्यस्मिन्पञ्चदशसामिधेन्येकदेशे, द्विरात्रत्रिरात्रादिषु द्वादशाहैकदेशेषु च, अयमेव न्यायो योज्यः।। 1।।  द्वितीये- एकत्रिक आद्ये तृचे गानाधिकरणे सूत्राणि 7-9   एकत्रिके तृचादिषु माध्यंदिने छन्दसां श्रुतिभूतत्वात्।। 7।।  आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात्।। 8।।  यथानिवेशं च प्रकृतिवत्संख्यामात्रविकारत्वात्।। 9।। द्वितीयाधिकरणमारचयति- तृचाद्यासु तृचे वाद्ये तिसृष्वित्युच्यतेऽग्रिमः। त्रिच्छन्दस्त्वात्प्राकृतं तत्क्रमादत्र तृचोऽखिलः।। 2।। एकसंख्यायास्त्रिसंख्यायाश्च व्यतिषङ्गविधानादेकत्रिकनामकः कश्चित्क्रतुर्भवति। स चैवं श्रूयते ''अथैष एकत्रिकः। तस्यैकस्यां बहिष्पवमानम्, तिसृषु होतुराज्यम्। एकस्यां मैत्रावरुणस्य, तिसृषु ब्राह्मणाच्छंसिनः। एकस्यामच्छावाकस्य, तिसृषु माध्यंदिन पवमानः'' इति। सन्ति प्रकृतौ माध्यंदिनपवमानस्य त्रयस्तृचाः- ''उच्चा ते जातम्'' इत्ययं प्रथमो गायत्रीच्छन्दस्कः। ''पुनानः सोमः'' इत्ययं द्वितीयो बृहती छन्दस्कः। ''प्रतुद्रव'' इत्ययं तृतीयस्त्रिष्टुप्छन्दस्कः। एतदेवाभिप्रेत्य श्रुतम् ''त्रिच्छन्दा आवापो माध्यंदिनः पवमानः'' इति। एवं सति 'एकत्रिकस्य माध्यंदिने तिसृषु' इति यदुक्तम्, तत्र त्रयाणां तृचानामाद्यास्तिस्त्र ऋचो ग्राह्याः, किंवा प्रथमतृचस्थाः क्रमाम्नातास्तिस्त्रः, इति संशयः। तत्र त्रिच्छन्दस्त्वश्रुत्या प्रबलया दुर्बलं पाठक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः। इति प्राप्ते- अभिधीयते- यदेतत्त्रिच्छन्दस्त्वम्, तदतेत्प्राकृतम्, तत्र च्छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात्। विकृतावपि तत्सर्वमतिदिष्टमिति चेत्- बाढम्। अत एव पाठक्रमोऽप्यतिदिष्टः। तथा सति प्रकान्तगायत्रीछन्दस्कस्य तृचस्य समाप्तौ सत्यां पश्चाद्बृहतीछन्दस्के तृचे प्रथमायाः प्रारम्भावसरः। स चारम्भः 'तिसृषु' इति विशेषविधानेन बाध्यते। तस्मात्- आद्यस्तृचो निखिलो ग्राह्यः।। 2।।  तृतीये- एकस्यामृचि धूर्गानाधिकरणे सूत्रे 10-11   त्रिकस्तृचे धुर्ये स्यात्।। 10।।  एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात्।। 11।। तृतीयाधिकरणमारचयति- तृचे स्यादृचि वैकस्यां धूर्गानं प्रकृताविव। तृचे भवेदिहैकस्यां श्रुत्यावृत्तिविधानतः।। 3।। एकत्रिक एव क्रतौ व्यतिषङ्गेणैकस्यां तिसृषु च स्तोत्रेषु संपाद्यमानेषु यद्धूर्गानम्, तत्किं तृचे स्यात्, उत एकस्यामृचि, इति संशयः। तत्र चोदकेन तृचे भवेत्। इति प्राप्ते- ब्रूमः- इहैकत्रिकक्रतावेकस्यामृचि धूर्गानं भवेत्। कुतः- 'आवृत्तं धूर्षु स्तुवते' इत्यावृत्तिविधानात्। ननु तृचे गीतेऽपि साम्नस्त्रिरावृत्तिर्भवेत्। न। आवृत्तेः स्तुतिविशेषणत्वात्। गुणसंकीर्तनपरः पदसमूहः स्तुतिः। तच्चर्गावृत्तिं विना तिसृप्वृक्षु न सिध्यति। तस्मात्- एकस्यां धूर्गानम्।। 3।।  चतुर्थे- द्विरात्रादिषु दशरात्रस्य विध्यन्तानुष्ठानाधिकरणे सूत्रे 12-13   चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात्।। 12।।  प्राप्तिस्तु रात्रिशब्दसंबन्धात्।। 13।। चतुर्थाधिकरणमारचयति- द्विरात्रादौ द्वादशाहप्रायणीयादिकः क्रमः। आद्यन्तौ वर्जयित्वा वा विशेषाभावतोऽग्रिमः।। 4।। द्वादशाहे द्वितीयस्य त्रिरात्रे प्रथमत्वतः। जागतस्यान्तरायाच्च विध्यन्तो दशरात्रगः।। 5।। अहीनरूपस्य द्वादशाहस्य विकृतयो द्विरात्रत्रिरात्रादयः। तेषु किं द्वादशाहस्य प्रथममहः प्रायणीयसंज्ञमारभ्य क्रमेण विध्यन्तः प्रवर्तते, किंवा प्रायणीयोदयनीयावाद्यन्तौ वर्जयित्वा तन्मध्यगस्य दशरात्रस्य विध्यन्तः प्रवर्तते, इति संशयः। 'ईदृशमहरुपादेयम्, ईदृशं वर्जनीयम्' इति विशेषनियामकाभावादादित आरभ्य प्रवर्तते। इति पूर्वः पक्षः। द्विरात्रप्रकरण एवमाम्नायते ''यत्प्रथमं तद्द्वितीयम्, यद्द्वितीयं तत्तृतीयम्'' इति। अयमर्थः- 'यद्द्विरात्रस्य प्रथममहरनुष्ठेयम्, तद्द्वादशाहस्य द्वितीयम्' इति। एवमुत्तरत्रापि योज्यम्। तदेतत्प्रायणीयवर्जने लिङ्गम्। तथा 'जगतीमन्तर्गच्छति' इति जागतस्याह्नोऽन्तराय आम्नायते। तच्चोदयनीयवर्जने लिङ्गम्। एवमादिभिर्लिङ्गैरुभयं वर्जयित्वाऽवशिष्टस्य विध्यन्तो यत्र यावानपेक्षितः, तत्र तावान्प्रवर्तते- इत्यवगन्तव्यम्।। 4।। 5।।  पञ्चमो- अग्नौ धूननाद्यर्थानां मन्त्राणामनियमेनोपादानाधिकरणे सूत्रम्   अपूर्वासु तु संख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात्।। 14।। पञ्चमाधिकरणमारचयति- धूनने वपने चाग्नौ सप्त चोक्ताश्चतुर्दश। किमाद्यारम्भनियमः किंवारम्भो निजेच्छया।। 6।। कपालवत्क्रमः प्राप्तः केचित्प्रकरणोचिताः। व्यर्थाः स्युस्तेन मन्त्राणामारम्भोऽत्र विकल्पितः।। 7।। अग्निचयने मन्त्रा आधूननार्था वपनार्थाश्च बहवः पठिताः। प्रयोगे तु तदेकदेशसंख्याविहिताः 'सप्तभिराधूनोति, चतुर्दशभिर्वपति' इति। तत्र प्रथमाधिकरणोक्तकपालसामिधेन्यादिन्यायेन प्रथमपठितस्यैव मन्त्रस्योपक्रमः प्राप्नोति। तदयुक्तम्। कुतः- यथोक्तसंख्यातिरिक्तानां प्रकरणपठितमन्त्राणां वैयर्थ्यप्रसङ्गात्। प्रकरणेन क्रमं बाधित्वा निजेच्छया प्रथमतो मध्यतोऽन्ततश्चोपक्रम्य विहितसंख्या पूरणीया।। 6।। 7।।  षष्ठे- विवृद्धस्तोमकेऽप्राकृतानां साम्नामागमाधिकरणे सूत्राणि 15-25   सोमविवृद्धौ प्राकृतानामभ्यासेन संख्यापूरणमविकारात्संख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात्।। 15।।  आगमेन वाऽभ्यासस्याश्रुतित्वात्।। 16।।  संख्यायाश्च पृथक्त्वनिवेशात्।। 17।।  पराक्शब्दत्वात्।। 18।।  उक्ताविकाराच्च।। 19।।  अश्रुतित्वान्नेति चेत्।। 20।।  स्यादर्थचोदितानां परिमाणशास्त्रम्।। 21।।  आवापवचनं चाभ्यासे नोपपद्यते।। 22।।  साम्नां चोत्पत्तिसामर्थ्यात्।। 23।।  धुर्येष्वपीति चेत्।। 24।।  नावृत्तिधर्मत्वात्।। 25।। षष्ठाधिकरणमारचयति- स्तोमवृद्धिः किमभ्यासादागमाद्वाऽग्रिमो यतः। तत्कल्प्यमश्रुतं मैवं संख्यावापादिलिङ्गतः।। 8।। विवृद्धस्तोमकः क्रतुरेवमाम्नायते ''एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिणवेनोजस्कामम्। त्रयस्त्रिंशेन प्रतिष्ठाकामम्'' इति। प्रकृतिगतेभ्यस्त्रिवृत्पच्चदशादिस्तोमेभ्यो विवृद्धा एकविंशतित्रिणवत्रय-स्त्रिंशस्तोमाः। तेषु किं प्राकृतानां साम्नामभ्यासाद्वृद्धिर्भवति, किंवा सामान्तरागमात्, इति संशयः। अश्रुतस्य सामगानस्य कल्पयितुमशक्यत्वादभ्यासाद्वृद्धिः। इति प्राप्ते- ब्रूमः- अभ्यासोऽपि न साक्षाच्छ्रुतः। किंत्वेकविंशादिसंख्यापूरणाय कल्प्यते। संख्या च द्रव्यगता भिन्नद्रव्यैरेव पूर्यते, न त्वेकद्रव्यावृत्त्या। न हि- अष्टकृत्व एकं घटमानीय 'मद्गृहे सन्त्यष्टौ घटाः' इति व्यवहरन्ति। ततः स्तोमावयवगता संख्या तदवयवभूतानां साम्नां पदार्थानां भेदं गमयति। स च भेदः सामान्तरागमे लिङ्गम्। ''अत्र ह्येवावपन्ति'' इत्यावापोद्देशेन देशविशेषविधिरपरं लिङ्गम्। सामान्तरोत्पत्त्यर्थत्वमन्यल्लिङ्गम्। तस्मात्- आगमेन वृद्धिः।। 8।।  सप्तमे- बहिष्पवमान ऋगागमाधिकरणे सूत्रम्   वहिष्पवमाने तु ऋगागमः सामैकत्वात्।। 26।। सप्तमाधिकरणमारचयति- किं बहिष्पवमानर्धौ साम्नर्चा वाऽभिपूरणम्। साम्ना पूर्वोक्तितो मैवं सामैकत्वपराक्श्रुतेः।। 9।। प्रकृतौ प्रातःसवने बहिष्पवमानस्याविवृद्धस्तोमः। तस्य विकृतिषु वृद्धौ सत्यां पूर्वोक्तरीत्या सामान्तरागमे प्राप्ते- ब्रूमः 'एकं हि तत्र साम' इति बहिष्पवमानं प्रकृत्य सामैकत्वमाम्नायते। अतो न सामान्तरागमः संभवति। एवं तर्ह्यभ्यासेन संख्यापूरणमस्तु- इति न वाच्यम्। 'पराग्बहिष्पवमानेन स्तुवन्ति' इति पराक्शब्देनाभ्यासप्रतिषेधात्। तस्मात्- ऋगागमः।। 9।।  अष्टमे- सामिधेनीष्ववशिष्टानामागमेन संख्यापूरणाधिकरणे सूत्राणि 27-33   अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात्।। 27।।  अविशेषान्नेति चेत्।। 28।।  स्यात्तद्धर्मत्वात्प्रकृतिवदभ्यस्येतासंख्यापूरणात्।। 29।।  यावदुक्तं वा कृतपरिमाणत्वात्।। 30।।  अधिकानां च दर्शनात्।। 31।।  न कर्मस्वपीति चेत्।। 32।।  न चोदितत्वात्।। 33।। अष्टमाधिकरणमारचयति- सामिधेनीविवृद्धौ किमागमोऽभ्यस्यतामुत। आगमः पूर्ववन्मैवमभ्यासः प्रकृतित्वतः।। 10।। तत्राप्याद्यन्तयोर्यावत्पूर्त्यभ्यासो यथोक्ति वा। अभ्यस्यागमतः पूर्तिः पूरणार्थत्वतोऽग्रिमः।। 11।। त्रित्वं न पूरणायोक्तमन्यथाऽप्यत्र पूरणात्। विवक्षितमबाधित्वा भवेत्पूरणमागमात्।। 12।। दर्शपूर्णमासयोः पञ्चदश साधिधेनीर्विधाय काम्यासु तदावृत्तिर्विधीयते ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य'' इत्यादिना । यथा बहिष्पवमान ऋगागमः, तथाऽत्रापि। इति प्राप्ते- ब्रूमः- एकादशभिः पठिताभिः पञ्चदशसंख्याया अपूर्तावृगन्तरागमेन तत्पूरणं न कृतम्। किंतु तत्पूरणायाभ्यासो विहितः ''त्रिः प्रथमामन्वाह, त्रिरुत्तमाम्'' इति। अतः काम्यानामप्यभ्यासेन पूरणं युक्तम्। अभ्यासपक्षेऽपि यावत्कृत्वोऽभ्यासे सत्येकविंशतिसंख्या पूर्यते, तावत्कृत्वः प्रथमोत्तमे अभ्यसनीये। कुतः- विहितस्य त्रिरभ्यासस्य पूरणार्थत्वदर्शनात्। मैवम्। न हि त्रित्वं पूरणार्थं विहितम्। प्रथमाया द्विरभ्यासेनापि पञ्चदशसंख्यायाः पूरणात्। अतो विवक्षितं त्रित्वम्। तथा सति तदबाधाय प्रथमोत्तमे त्रिरभ्यस्य षष्णामृचामागमेनैकविंशतिसंख्या पूरणीया।। 10।। 11।। 12।।  नवमे- षोडशिनां प्राकृतत्वाधिकरणे सूत्राणि 34-41   षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात्।। 34।।  प्रकृतौ चाभावदर्शनात्।। 35।।  अयज्ञवचनाञ्च।। 36।।  प्रकृतौ वा शिष्टत्वात्।। 37।।  प्रकृतिदर्शनाच्च।। 38।।  आम्नातं परिसंख्यार्थम्।। 39।।  उक्तमभावदर्शनम्।। 40।।  गुणादयज्ञत्वम्।। 41।। नवमाधिकरणमारचयति- विकृतौ प्रकृतौ वा स्यात्षोडश्युत्कर्षतोऽग्रिमः। अविरुद्धेन वाक्येनानुत्कर्षात्प्रकृतावसौ।। 13।। ज्योतिष्टोमप्रकरणे श्रूयते ''य एवं विद्वान्षोडशिनं गृह्णाति'' इति। सोऽयं षोडशिग्रहो विकृतौ निविशते। कुतः- प्रबलेन वाक्येन तस्य ग्रहस्य प्रकरणादुत्कृष्यमाणत्वात्। ''उत्तरेऽहन्द्विरात्रस्य गृह्यते, मध्यमेऽहंस्त्रिरात्रस्य'' इति हि वाक्यम्। द्विरात्रादीनां च विकृतित्वं प्रसिद्धम्। अतः प्रकरणं बाधित्वा विकृतौ निवेशः। इति प्राप्ते- ब्रूमः- ''अग्निष्टोमे राजन्यस्य गृह्णीयात्'' इत्यन्यद्वाक्यमस्ति। तेन प्रकृतिभूतेऽग्निष्टोमे निविशते। न चात्र प्रकरणबाधः। अग्निष्टोमस्य ज्योतिष्टोमावान्तरसंस्थारूपत्वेन ततोऽनन्यत्वात्। न च- एवं सति चोदकेनैव द्विरात्रादिषु प्राप्तत्वात्पुनर्विधिवाक्यं व्यर्थम्- इति शङ्क्यम्। अहर्विशेषसंबन्धाय राजन्यादिनिमित्तनैरपेक्ष्याय वाक्योपपत्तेः। तस्मात्- प्रकृतौ निवेशः।। 13।।  दशमे- आग्रयणादेव षोडशिग्रहणाधिकरणे- सूत्रे 42-43   तस्याग्रयणाद्ग्रहणम्।। 42।।  उक्थ्याच्च वचनात्।। 43।। दशमाधिकरणमारचयति- उक्थ्याग्रयणतः स स्यात्केवलाग्रयणादुत। आद्य उक्तिद्वयादन्त्य उक्थ्योर्ध्वत्वविधित्वतः।। 14।। स पूर्वोक्तः षोडशी वचनद्वयबलेनोक्थ्यपात्रादाग्रयणपात्राच्च ग्रहीतव्यः। 'उक्थ्यान्निर्गृह्णाति षोडशिनम्' इत्येकं वाक्यम्। 'आग्रयणाद्गृह्णाति षोडशिनम्' इति द्वितीयं वाक्यम्। अत्रोच्यते- आग्रयणपात्रादेव ग्रहीतव्यः। कुतः- उक्थ्यवाक्यस्योत्तरकालविधिपरत्वात्। 'तं पराञ्चमुक्थ्यान्निर्गृह्णाति' इत्यूर्ध्वकालवाचिनः पराक्शब्दस्य प्रयोगात्। अतो नोभयस्माद्ग्रहणम्।। 14।।  एकादशे- तृतीयसवन एव षोडशिग्रहणाधिकरणे सूत्राणि 44-48   तृतीयसवने वचनात्स्यात्।। 44।।  अनभ्यासे पराक्शब्दस्य तादर्थ्यात्।। 45।।  उक्थ्याविच्छेदवचनत्वात्।। 46।।  आग्रयणाद्वा पराक्शब्दस्य देशवाचित्वात्पुनराधेग्यवत्।। 47।।  विच्छेदः स्तोमसामान्यात्।। 48।। एकादशाधिकरणमारचयति- सवनेषु तृतीये वा स त्रयोक्त्या भवेत्रिषु। द्वे निन्दित्वा तृतीयस्य विधेस्तत्रैव गृह्यताम्।। 15।। स पूर्वोक्तः षोडशिग्रहस्त्रिषु सवनेषु भवेत्। कुतः- सवनत्रयस्योक्तत्वात्। षोडशिनं प्रकृत्याम्नायते- ''प्रातःसवने ग्राह्यः, माध्यंदिनसवने ग्राह्यः, तृतीयसवने ग्राह्यः'' इति। नैतत्। सवनद्वयस्यार्थवादत्वेन तृतीयसवनस्योक्तत्वात्। अत एव वाक्यशेषे सवनद्वयं निन्दित्वा तृतीयसवनं विधीयते ''यत्प्रातःसवने (गृह्णीयात्, वज्र उत्तरे सवने व्यतिरिच्येत, यन्माध्यंदिने मध्यतो वज्रं निहन्यात्'') इत्यादिना सवनद्वये वज्रपातदोषोऽभिहितः। 'तृतीयसवने ग्राह्यः, न सर्वेषु सवनेषु गृह्णाति' इति प्रशंसापूर्वकं विहितम्। तस्मात्- तृतीयसवन एव षोडशिग्रहः।। 15।।  द्वादशे- षोडशिग्रहस्य सस्तोत्रशस्त्रताधिकरणे सूत्राणि 49-52   उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात्सति हि संस्थान्यत्वम्।। 49।।  सस्तुतशस्त्रो वा तदङ्गत्वात्।। 50।।  लिङ्गदर्शनाच्च।। 51।।  वचनात्संस्थान्यत्वम्।। 52।। द्वादशाधिकरणमारचयति- अग्निष्टोमोक्थ्यसंबन्धी षोडश्यस्तुतशस्त्रकः। तद्युक्तो वाऽग्रिमः प्राप्तस्तत्तत्संस्थामबाधितुम्।। 16।। स्तोत्रं भवत्येकविंशं हरिवच्छस्यते ततः । इष्यते ह्यन्तसंस्थात्वं स्तुतशस्त्रयुतस्ततः।। 17।। षोडशिनं प्रकृत्याम्नायते ''अग्निष्टोमे राजन्यस्य गृह्णीयात्, अप्युक्थ्ये ग्राह्यः'' इति। सोऽयमग्निष्टोमोक्थ्यसंस्थयोर्विहितः षोडशिग्रहः स्तुतशस्त्रवर्जितो भवितुमर्हति। अन्यथा तदीयाभ्यां स्तुतशस्त्राभ्यां क्रतुसमाप्तौ षोडशिसंस्थात्वं प्रसज्येत, अग्निष्टोमसंस्थात्वं च बाध्येत। तत्संबन्धिसमाप्त्यभावात्। इति प्राप्ते- ब्रूमः- ''एकविंशं स्तोत्रं भवति प्रतिष्ठायै हरिवच्छस्यते'' इति षोडशिनि प्रत्यक्षविधिना स्तुतशस्त्रे विहिते। किंच 'ग्रहं वा गृहीत्वा, चमसं वोन्नीय स्तोत्रमुपाकरोति' इति ग्रहणचमसोन्नयनयोस्तत्र निमित्तत्वं श्रुतम्। न हि सति निमित्ते नैमित्तिकं त्यक्तुं शक्यम्। तस्मात्पूर्वसंस्थात्वहानिमन्यसंस्थात्वं चाभ्युपेत्य स्तुतशस्त्रयुतत्वं द्रष्टव्यम्।। 16।। 17।।  त्रयोदशे- अङ्गिरसां द्विरात्रे षोडशिनः परिसंख्याधिकरणे सूत्रे 53-54   अभावादतिरात्रेषु गृह्यते।। 53।।  अन्वयो वाऽनारभ्यविधानात्।। 54।। त्रयोदशाधिकरणमारचयति- द्विरात्रेऽङ्गिरसां षोडश्यप्राप्तः किं विधीयते। परिसंख्यायते वाद्यश्चोदकाच्छीघ्रबुद्धितः।। 18।। अनारभ्य विधेः प्राप्ते परिसंख्याऽतिदेशतः। विकल्पोऽन्यद्विरात्रेषु प्रोक्तं वृत्तिकृतो मतम्।। 19।। सन्ति बहवो द्विरात्राः। तेष्वङ्गिरसां द्विरात्रे श्रूयते ''वैखानसं पूर्वेऽहन्सामभवति, षोडश्युत्तरे'' इति। सोऽयं षोडश्यप्राप्तः सन्विधीयते। न च चोदकात्प्राप्तिः शङ्क्या, प्रत्यक्षवचनस्य शीघ्रप्रवृत्तेः। चोदको ह्यानुमानिकत्वेन विलम्बते। इति प्राप्ते- ब्रूमः- मा भूच्चोदकः। अस्ति ह्यनारभ्याधीतं प्रत्यक्षं विध्यन्तरम्- ''उत्तरेऽहनि द्विरात्रस्य गृह्यते'' इति। तेन सर्वेषु प्राप्तः सन् 'अङ्गिरसां द्विरात्र एव, नान्येषु द्विरात्रेषु' इति परिसंख्यायते। ततः- अङ्गिरसां द्विरात्रेषु नियमेन षोडशी गृह्यते, तदितरेष्वतिरात्रविकृतित्वेनातिदेशाद्विकल्प्यते। तदेतद्वृत्तिकारमतम्। एतदेवाधिकरणं भाष्यकारमतेनाचरयति- परिसंख्या पूर्वपक्षो न सा युक्ता त्रिदोषतः। अप्राप्तस्यार्थवादेन विधेयः स न गम्यते।। 20।। वृत्तिकारस्य सिद्धान्तरूपा परिसंख्या, सैव भाष्यकृन्मते पूर्वपक्षः। सिद्धान्तस्तु- 'षोडश्युत्तरे' इत्ययं विधिरेव न भवति। विदित्सितवैखानससामवाक्यशेषत्वेनार्थवादत्वात्। अतः परिसंख्यात्वं दोषत्रयोपेतं नात्र कल्प्यम्। प्राप्तस्य विध्यर्थस्य परित्यागः। अप्राप्तस्य निषेधार्थस्य स्वीकारः। अन्यत्र प्राप्तबाधः। इति दोषत्रयम्।। 20।।  चतुर्दशे- नानाहीने षोडशिग्रहग्रहणाधिकरणे सूत्राणि 55-57   चतुर्थे चतुर्थेऽहन्यहीनस्य गृह्यत इत्यभ्यासेन प्रतीयेत भोजनवत्।। 55।।  अपि वा संख्यावत्त्वान्नानाहीनेषु गृह्यते पक्षवदेकस्मिन्संख्यार्थभावात्।। 56।।  भोजने तत्संख्यं स्यात्।। 57।। चतुर्दशाधिकरणमारचयति- किं चतुर्थेष्वहीनस्य ग्रहो नानागतेषु वा। वीप्सैकवचनाभ्यां स्यादेकस्मिन्नेव स ग्रहः।। 21।। चतुर्थाष्टमतापत्तेर्नानाहीनेषु स ग्रहः। जात्यैकवचनं वीप्सा न्यायप्राप्तानुवादिनी।। 22।। षोडशिनं प्रकृत्यामनन्ति ''चतुर्थे चतुर्थेऽहन्यहीनस्य गृह्यते'' इति। सोऽयमेकस्मिन्नेवाहीने प्रथममारभ्य गणिते चतुर्थेऽहनि ग्राह्यः। पुनरपि पञ्चममारभ्य गणिते चतुर्थेऽहनि ग्राह्यः। एवं सति वीप्सा चरितार्था भविष्यति। नानाहीनगतचतुर्थदिवसविवक्षायां 'चतुर्थेऽहनि' इत्येतावतैव तत्सिद्धेर्वीप्साऽनर्थिका। 'अहीनस्य' इत्येकवचनं तु बहुषु नोपपन्नम्। इति प्राप्ते- ब्रूमः- एकाहीनपक्षे 'चतुर्थे वाऽष्टमे वा' इत्येवमुच्येत। एकवचनं तु नानाहीनपक्षे जात्यभिप्रायम्। वीप्सा बहुप्रदेशगतचतुर्थदिनस्य न्यायप्राप्तं बहुत्वमनुवदति। तस्मात्- नानाहीनेषु चतुर्थे स ग्रहः।। 21।। 22।।  पञ्चदशे- वर्णकद्वयविशिष्टेऽधिकरणे सूत्रम्   जगत्साम्नि सामाभावादृक्तः साम तदाख्यं स्यात्।। 58।। पञ्चदशाधिकरण (स्य विकृतौ ग्रहाणामाग्रयणाग्रतासाधकं प्रथमं वर्णक)मारचयति- प्रकृतौ विकृतौ वा स्याद्ग्रहेष्वाग्रयणाग्रता। आद्यः प्रकरणादन्त्यो जगत्सामत्वसंभवात्।। 23।। ज्योतिष्टोमप्रकरणे श्रूयते ''यदि रथंतरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्। यदि बृहत्सामा शुक्राग्रान्। यदि जगत्सामा, आग्रयणाग्रान्'' इति। अयमर्थः- 'माध्यंदिनसवने पृष्ठस्तोत्रे रयंतरनामकं साम यस्य सोमयागस्य स सोमो रथंतरसामा। एवमितरत्रापि' इति। तत्र जगत्सामसोमे ग्रहाणामाग्रयणादित्वं प्रकरणपाठात्प्रकृतौ निविशते- इति प्राप्ते- ब्रूमः- जगन्नाम्नः साम्नः क्वाप्यभावाज्जगत्यामृच्युत्पन्नस्य तु साम्नो विकृतिषु विषुवन्नामकेषु मुख्येऽहनि संभवाद्विकृतौ निविशते।। 23।। (जगत्साम्नो जगत्यृगुत्पन्नसामतासाधकं) द्वितीयवर्णकमारचयति- बृहद्रथंतरैकं किं द्वयं वोत रथंतरम्। यद्वा जगत्यामुत्पन्नं जगत्सामाग्रिमो भवेत्।। 24।। ज्योतिष्टोमस्य तादृक्त्वादविकल्पाय तु द्वयम्। जगत्त्वं सर्वताऽत्रास्ति तदुक्तिव्यर्थता तदा।। 25।। रथंतरं जगच्छब्दाद्विप्रकृष्टाऽत्र लक्षणा। जगत्यृचि स्थितं सामेत्येतत्स्यात्संनिकर्षतः।। 26।। पूर्वोक्तोदाहृतवाक्ये 'जगन्नामकं साम यस्य सोमस्यासौ जगत्सामा' इत्यत्र जगद्विशेषणेन विशेष्यमाणे साम्नि चतुर्धा संशयः। तत्र बृहद्रथंतरयोरन्यतरत्स्यात्। कुतः- 'बृहता रथंतरसाम्ना वा' इति ज्योतिष्टोमस्यान्यतरसाध्यत्वावगमात्। जगच्छब्दश्च 'गच्छति प्रवर्तते ज्योतिष्टोमोऽनेन' इति व्युत्पत्त्या तत्र संभवति। इति प्रथमः पक्षः। नैतद्युक्तम्। विकल्पप्रसङ्गात्। स चाष्टदोषग्रस्तः। तस्मात्- सामद्वयसमुच्चयोऽभ्युपेयः। उदाहृतो वाशब्दोऽपि चकारार्थे ज्ञेयः। जगच्छब्दश्च कृत्स्नवाची। कृत्स्नत्वं चात्रास्ति। एकस्यापि साम्नोऽपरित्यक्तत्वात्। इति द्वितीयः पक्षः। एतदप्ययुक्तम्। 'यदि जगत्सामा' इत्यस्य वैयर्थ्यप्रसङ्गात्। अन्यतरपक्षस्यैन्द्रवायवाग्रत्वशुक्राग्रत्वा-भ्यामवरुद्धत्वेन परिशेषेण समुच्चयपक्षस्यैवाश्रयणीयत्वात्पुनस्तदुक्तिव्यर्था। वाशब्दश्च विकल्पे मुख्योऽत्र बाध्येत। तस्मात्- रथंतरमेव स्यात्। तद्योनौ 'ईशानमस्य जगतः' इति जगच्छब्दश्रवणेन जगत्सामत्वसंभवात्। इति तृतीयः पक्षः। तदप्ययुक्तम्। तत्र ह्यर्थपरं जगत्पदं शब्दपरत्वेनोपलक्ष्यते। तेन शब्देन च शब्दोपेतामृचमुपलक्ष्य तया च तन्निष्ठं सामोपलक्षणीयम्। इति विप्रकर्षः। तस्मात्- जगत्यामुत्पन्नं साम इति चतुर्थः पक्षोऽभ्युपेयः। यद्यपि च्छन्दोवाचिना जगतीशब्देन तद्युक्तामृचमुपलक्ष्य सामोपलक्षणीयम्, तथाऽपि तत्संनिकृष्पते। यतो वैदिको जगच्छब्दो जगतीपर्यायः। तस्माच्चतुर्थः पक्षो राद्धान्तः।। 24।। 25।। 26।।  षोडशे- गोसवे-उपवत्यग्रवत्योरभावाधिकरणे सूत्राणि 59-61   उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात्।। 59।।  मुख्येन वा नियन्येत।। 60।।  निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात्।। 61।। षोडशाधिकरणमारचयति- उपवत्यग्रवत्यौ स्तो गोसवे यदि वा नहि। आद्ये विकल्प आहोस्विदुपवत्येव केवला।। 27।। विकल्पो द्विनिमित्तत्वाद्व्याघातः स्यात्समुच्चये। रथंतरस्य मुख्यत्वादुपवत्येव युज्यते।। 28।। एकैकस्य निमित्तत्वं प्रकृतावत्र तु द्वये । मिलिते पृष्ठता तस्मान्निर्निमित्ते उभे न हि।। 29।। गोसवादिषु क्रतुषु रथंतरपृष्ठबृहत्पृष्ठयोः समुच्चयो विहितः 'गोसव उभे कुर्यात्' इत्यादिना। प्रकृतौ त्विदमाम्नातम् ''उपवतीं रथंतरपृष्ठस्य प्रतिपदं कुर्यात्, अग्रवतीं बृहत्पृष्ठस्य'' इति। ते इमे उपवत्यग्रवत्यावृचौ पृष्ठद्वयस्याङ्गभूते गोसवादिष्वतिदेशतः प्राप्ते विकल्प्ये। कुतः-तन्निमित्तयोः पृष्ठयोर्द्विविधत्वात्। न च- अत्र समुच्चयः शङ्कयः। ऋचोर्द्वयोः प्राथम्यस्य व्याहतत्वात्। तस्मात्- विकल्पः। इत्येकः पूर्वपक्षः। प्रथमश्रुतत्वेन रथंतरस्य मुख्यत्वादुपवतीमेव प्रतिपदं कुर्यात्। इति द्वितीयः पूर्वपक्षः। प्रकृतावेकैकं पृष्ठमितरनिरपेक्षमेव निमित्तम्। अत्र तु मिलितस्यैव पृष्ठत्वम्। तथा सति प्राकृतस्य निमित्तस्यात्राभावेन नैमित्तिके प्रतिपदावपि न स्तः।। 27।। 28।। 29।।  सप्तदशे- ऐन्द्रवायवस्य सर्वादावप्रतिकर्षाधिकरणे सूत्राणि 62-64   ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात्।। 62।।  अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रकरणादग्रत्वमुच्यते।। 63।।  धारासंयोगाच्च।। 64।। सप्तदशाधिकरणमारचयति- पुरोपांशोरुत स्वस्य स्थाने स्यादैन्द्रवायवः। आद्योऽग्रत्वविधेर्मैवं धारायुक्ताग्रतोक्तितः।। 30।। ज्योतिष्टोमे श्रूयते ''ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते'' इति। मन्त्रकाण्डविधिकाण्डयोर्ग्रहाणामयं पाठक्रमः ''उपांशुग्रहः प्रथमः, अन्तर्यामग्रहो द्वितीयः, ऐन्द्रवायवग्रहस्तृतीयः, मैत्रावरुणग्रहश्चतुर्थः'' इत्यादि। तत्र- ऐन्द्रवायवस्याग्रत्वविधानादुपांशुपूर्वमेव ग्रहणम्। इति पूर्वः पक्षः। नैतद्युक्तम्। अग्रत्वस्य धाराग्रहापेक्षत्वात्। ऐन्द्रवायवादयो धाराग्रहाः। तद्वाक्ये 'धारया गृह्णाति' इति श्रुतत्वात्। एवं सति पाठक्रमो न बाध्यते। तस्मात्- ऐन्द्रवायवः स्वस्यैव स्थाने ग्रहीतव्यः।। 30।।  अष्टादशे- कामसंयोगेऽप्यैन्द्रवायवस्यादावप्रतिकर्षाधिकरणे सूत्रे 65-66   कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात्।। 65।।  तद्देशानां वाऽग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात्।। 66।। अष्टादशाधिकरणमारचयति- सर्वादौ स्वस्य वा स्थाने काम्यः स्यादैन्द्रवायवः। पुनर्विधेरादिमोऽन्त्यः कामायैतद्विधानतः।। 31।। ज्योतिष्टोम एव श्रूयते ''ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्, यः कामयेत यथापूर्वं प्रजाः कल्पेरन्'' इति। सोऽयं काम्य ऐन्द्रवायवः सर्वेषामुपांशुप्रभृतीनां ग्रहाणामादौ स्यात्। कुतः- धाराग्रहादित्वस्य पूर्वमेव सिद्धौ सत्यां पुनरप्यग्रताविधानात्। इति पूर्वः पक्षः। नात्र सर्वाग्रत्वं विधातुं शक्यम्, धाराग्रहाणां प्रकृतत्वात्। अतो यथाप्राप्ताग्रत्वोपेतानां धाराग्रहाणां कामसंयोगोऽत्र विधीयत इति स्वस्थान एवायं ग्रहः।। 31।।  एकोनविंशे- आश्विनाग्रादीनां ग्रहाणां प्रतिकर्षाधिकरणे सूत्राणि 67-69   परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु।। 67।।  प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात्।। 68।।  प्रतिकर्षं च दर्शयति।। 69।। एकोनविंशाधिकरणमारचयति- स्वस्थाने प्रतिकर्षो वा शुक्रादेः पूर्ववद्भवेत्। स्थाने मैवं तदग्रत्वाप्राप्तेः स प्रतिकृष्यते।। 32।। तत्रैव श्रूयते ''शुक्राग्रान्ग्रहान्गृह्णीयादभिचरतो मथ्यग्रान्गृह्णीयादभिचर्यमाणस्य'' इत्यादि। पूर्वन्यायेन च शुक्रादीनां स्वस्थाने ग्रहणम्। इति प्राप्ते- ब्रूमः- ऐन्द्रवायवस्य धाराग्रहाग्रत्वं स्वस्थाने पाठादेव प्राप्तम्। शुक्रादीनां तु तन्न। इति वैषम्यम्। तथा सति विधीयमानाग्रत्वं पाठक्रमबाधमन्तरेणानुपपन्नत्वात्प्रतिकृष्यते।। 32।।  विंशे- आश्विनादीनां ग्रहाणामैन्द्रवायवस्य पुरस्तात्प्रतिकर्षाधिकरणे सूत्राणि 70-72   पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात्।। 70।।  तुल्यधर्मत्वाच्च।। 71।।  तथा च लिङ्गदर्शनम्।। 72।। विंशाधिकरणमारचयति- स सर्वादावैन्द्रवायवादौ वाऽत्राविशेषतः। सर्वादावाश्रयादैन्द्रवायवादौ धृतेरपि।। 33।। स पूर्वोक्तः प्रतिकर्षः सर्वेषामुपांश्वादीनां ग्रहाणामादौ युक्तः। कुतः- विशेषाश्रवणात्। सामान्यतः श्रुतमग्रत्वमनपेक्षितत्वात्सर्वमुख्यम्। नैतदेवम्। प्राकृतान्धाराग्रहानाश्रित्य फलाय शुक्राग्रत्वविधानात्। किंच ''धारयेयुस्तं, यं कामाय गृह्णीयुः। ऐन्द्रवायवं गृहीत्वा सादयेत्'' इति श्रूयते। तत्र काम्यस्य शुक्रादेर्धारणानन्तरमैन्द्रवायवस्य ग्रहणं विवक्षितार्थे लिङ्गम्। तस्मात्- ऐन्द्रवायवादौ प्रतिकर्षः।। 33।।  एकविंशे- सादनस्यापि प्रतिकर्षाधिकरणे सूत्रे 73-74   सादनं चापि शेषत्वात्।। 73।।  लिङ्गदर्शनाच्च।। 74।। एकविंशाधिकरणमारचयति- नापकर्षोऽपकर्षो वा सादनस्याश्रुतत्वतः। न मैवं ग्रहशेषत्वात्तच्चाशक्तेर्ग्रहान्तरम्।। 34।। सर्वत्र ग्रहान्गृहीत्वा साद्यन्ते। तथा सति यत्र काम्यस्य ग्रहस्यापकर्षः, तत्र सादनस्यापकर्षो न शङ्क्यः। कुतः- अश्रुतत्वात्। 'शुक्राग्रान्' इत्यग्रशब्देन यथा ग्रहणस्यापकर्षः श्रूयते, न तथा सादनापकर्षप्रतिपादकः कश्चिच्छब्दोऽस्ति। तस्मात्- नापकर्षः। नैतद्युक्तम्। सादनस्य ग्रहशेषत्वमशक्तेरवगम्यते। न तु पूर्वग्रहमसादयित्वा ग्रहान्तरं शक्यं ग्रहीतुम्। अतो ग्रहापकर्षे तच्छेषभूतसादनमप्यपकृष्यते।। 34।।  द्वाविंशे- प्रदानस्याप्रतिकर्षाधिकरणे सूत्रे 75-76   प्रदानं चापि सादनवत्।। 75।।  न वा प्रधानत्वाच्छेषत्वात्सादनं तथा।। 76।। द्वाविंशाधिकरणमारचयति- प्रदानस्यापकर्षोऽस्ति न वा सादनवद्भवेत्। प्रदानस्य तु मुख्यत्वान्नापकर्षोऽत्र युज्यते।। 35।। पूर्वोक्तकाम्यानां ग्रहाणां ग्रहणापकर्षानुसारेण सादनस्य यथाऽपकर्षः, तद्वत्प्रदानस्यापि। इति चेत्- मैवम्। वैषम्यात्। सादनं दि ग्रहणशेषः प्रदानं तु न तथा। प्रत्युत- ग्रहणमेव प्रदानस्य शेषः। अत एव शेषानुसारेण न शेषिणोऽपकर्षो युक्तः।। 35।।  त्रयोविंशे- त्र्यनीकायामैन्द्रवायवाग्रतोक्तेः समानविध्यर्थताधिकरणे सूत्रे 77-78   त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात्।। 77।।  अपि वाऽहर्गणेष्वग्निवत्समानविधानं स्यात्।। 78।। त्रयोविंशाधिकरणमारचयति- त्र्यनीकायामैन्द्रवायवशुक्राग्रानुवादता। परिसंख्या वाऽर्थवादो वा विधिर्वा नहि तत्त्रयम्।। 36।। वैयर्थ्येन त्रिदोषत्वाल्लक्षणापत्तितस्तथा। विधिराग्रयणाग्रत्व इवानैमित्तिको हि सः।। 37।। अस्ति द्वादशाहे त्र्यनीका। ''ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः, अथेतरेषां नवानामह्नामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथाग्रयणाग्रम्, अथैन्द्रवायवाग्रम्, अथ शुक्राग्रम्, अथाग्रयणाग्रम्, अथैन्द्रवायवाग्रम्, अथ शुक्राग्रम्, अथाग्रयणाग्रम्'' इति। तत्र द्वादशाहगतेषु द्वितीयतृतीयचतुर्थेषु त्रिष्वहःसु क्रमेणेन्द्रवायवाग्रत्वशुक्राग्रत्वाग्रयणाग्रत्वानि विहितानि। तेष्वाद्यं रथंतरनिमित्तम्। द्वितीयं बृहन्निमितम्। एतच्च प्रकृतौ व्यवस्थितम्। उभयमत्र चोदकेन प्राप्तम्। तत्र चतुर्धा संशयः- अनुवादो वा, परिसंख्या वा, अर्थवादो वा, विधिर्वा, इति। तत्र 'प्राप्तत्पादनुवादः' इति चेत्- न। वैयर्थ्यापत्तेः। तर्हि गुणान्तरपरिसंख्याऽस्तु- इति चेत्- न। दोषत्रयापत्तेः। चतुर्थेऽहन्यप्राप्तस्याग्रयणाग्रत्वस्य प्रशंसार्थोऽयमर्थवादः- इति चेत्- न। लक्षणावृत्तिप्रसङ्गात्। तस्मात्- आग्रयणाग्रत्वे यथा विधिः, तथेतरयोरपि द्रष्टव्यः। न च प्राप्तत्वादविधिः- इति वाच्यम्, अस्य विधेरनैमित्तिकत्वाभ्युपगमात्। रथंतरादिनिमित्तकयोरेव हि चोदकेन प्राप्तिः। प्रयोजनं द्वादशाहविकृतिषु यत्र क्वापि रथंतरनिमित्ताभावेऽप्यैन्द्रवायवाग्रत्वसिद्धिः।। 36।। 37।।  चतुर्विंशे- व्यूढद्वादशाहस्य समूढविकारत्वाधिकरणे सूत्राणि 79-82   द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात्।। 79।।  व्यूढो वा लिङ्गदर्शनात्समूढविकारः।। 80।।  कामसंयोगात्।। 81।।  तस्योभयथा प्रवृत्तिरैककर्म्यात्।। 82।। चतुर्विंशाधिकरणमारचयति- व्यूढोऽपि प्रकृतिः किंवा विकृतिः स्याद्धि पृष्ठवत्। विधिसाम्यादादिमोऽन्त्यो लिङ्गात्कामे विधेरपि।। 38।। द्विविधो हि द्वादशाहः समूढो व्यूढश्च। तत्र समूढः पूर्वमुदाहृतः। अथ व्यूढ उदाह्रियते। ''ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ, अथेतरेषां दशानामह्नामैन्द्रवायवाग्रं प्रथममहः, अथ शुक्राग्रम्, अथ द्वे आग्रयणाग्रे। अथैन्द्रवायवाग्रम्, अथ द्वे शुक्राग्रे। अथाग्रयणाग्रम्, अथ द्वे ऐन्द्रवायवाग्रे'' इति।तत्र समूढस्य तावत्प्रकृतित्वमविवादम्। तद्वद्व्यूढोऽपि किं प्रकृतिः किंवा समूढस्य विकृतिः, इति संशयः। 'प्रकृतिः' इति तावत्प्राप्तम्। कुतः- विधिसामान्यात्। यथा समूढप्रकारः क्रत्वर्थो विहितः, तथा व्यूढप्रकारोऽपि। न चात्र कश्चिद्विशेषोऽस्ति, येन तयोः प्रकृतिविकृतिभावो निश्चीयेत। न च- प्रकारद्वयस्य प्रकृतित्वमदृष्टचरम्, रथंतरबृहत्पृष्ठयोर्ज्योतिष्टोमप्रकारयोस्तद्दर्शनात्। इति पूर्वः पक्षः। व्यूढः समूढस्य विकृतिः। कुतः- लिङ्गदर्शनात्। ''ऐन्द्रावायवस्य वा एतदायतनं यच्चतुर्थमहः'' इति व्यूढे श्रूयते। एतच्च विकृतित्वे सति भवति, नान्यथा। तथा हि व्यूढे प्रायणीयोदयनीयव्यतिरिक्तेषु दशस्वहःसु यच्चतुर्थं तदाग्रयणाग्रत्वान्नैन्द्रवायवायतनम्। समूढे तु तदहर्नवानामह्नां मध्ये त्रिकादित्वादैन्द्रवायवाग्रम्। तच्च व्यूढस्य विकृतितायां चोदकेन प्राप्यमाणं विधिसिद्धाग्रयणाग्रस्तुतयेऽनूद्यते, इति युक्तम्। किंच ''यः कामयेत बहु स्यां प्रजायेय'' इति कामाय व्यूढो विधीयते। तथा सति समूढवत्क्रत्त्वर्थे विध्यभावाद्रथंतरबृहत्पृष्ठवैषम्येण विकल्पितं प्रकृतित्त्वं नास्ति। ततः- समूढस्य द्वादशाहस्य विकृतिः। अहर्गणेषु तयोरन्यतरस्यातिदेशः पूर्वपक्षिणः, समूढस्यैवातिदेशः सिद्धान्तः।। 38।।  पञ्चविंशे- संवत्सरसत्रेऽनीकानां विवृद्ध्यधिकरणे सूत्राणि 83-87   एकादशिनवत्त्र्यनीका परिवृत्तिः स्यात्।। 83।।  स्वस्थानविवृद्धिर्वाऽह्नामप्रत्यक्षसंख्यत्वात्।। 84।।  पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात्त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात्।। 85।।  वचनात्परिवृत्तिरैकादशिनेषु।। 86।।  लिङ्गदर्शनाच्च।। 87।। पञ्चविंशाधिकरणमारचयति- दण्डाकलितवत्सत्रे त्र्यनीकावृत्तिरिष्यते। स्वस्थानवृद्धिरथवा स्यादाद्योऽहर्विवक्षया।। 39।। न विवक्षा वाक्यभेदान्नवानीकैस्तु पूरणम्। एकैकवृद्ध्या न विना तेनैकैकं विवर्धते।। 40।। अस्ति समूढस्य द्वादशाहस्य विकृतिर्गवामयनं संवत्सरसत्रम्। तत्र त्र्यनीकाचोदकेन प्राप्ता। त्रीण्यनीकान्यग्राण्यैन्द्रवायवशुक्राग्रयणरूपाणि यस्यां क्रियायां सा त्र्यनीका। तया च त्रिः परिवृत्तया द्वादशाहाद्यन्तयोः प्रायणीयोदयनीययोरह्नोर्मध्ये वर्तमानेषु दशस्वहःसु दशमव्यतिरिक्तानि नवसंख्याकान्यहानि पूरितानि। अतः संवत्सरसत्रेऽपि प्रायणीयोदयनीयमध्यवर्तीनि पूरयितव्यानि। तत्पूरणं च यथोक्तायास्त्रिः परिवृत्ताया नवदिवसयुक्तायास्त्र्यनीकायाः समूहावृत्तिमन्तरेण न सिध्यतीति सावृत्तिः प्राप्ता। तस्यां च द्वैविध्यं विद्यते। यथा- दण्डस्यावृत्त्या भूमावाकलितव्यायामादिमध्यावसानभागैः सहितं कृत्स्नदण्डं पुनः पुनरावर्तयन्ति, न त्वेकैकं भागम्। तथा नवदिवसानामावृत्तिरित्येकः प्रकारः। यथा- अध्येतारः प्रपाठकमावर्तयितुकामा एकैकभागमसकृत्पठन्ति, तथा नवदिवससमूहव-र्त्येककैस्याह्नोऽसकृदनुष्ठानमित्यपरः प्रकारः। तत्राद्यस्तावत्प्राप्नोति। कुतः- अहःशब्दस्य विवक्षितत्वात्। 'ऐन्द्रवायवाग्रं प्रथममह' इत्युक्तोऽहःशब्दः 'अथ शुक्राग्रम्। अथाग्रयणाग्रम्' इत्याद्यष्टसु वाक्येष्वनुषज्यते। यथोक्ताग्रत्वविशिष्टानामह्नां क्रमविशेषश्चाथशब्दैर्नियम्यते। तथा सति यद्यैन्द्रवायवाग्रमेवाहर्नैरन्तर्येणासकृदावर्त्यते, तदानीम् 'अथ शुक्राग्रमहः' इत्यादिकं बाध्येत। तस्मात्- क्रमयुक्तानामग्रत्वविशेषोपेतानामह्नां नवानां चोदकप्राप्तानां तथैवानुष्ठाने सति पुनः पुनश्चोदकेन तथैव प्राप्तेर्दण्डाकलितवदावृत्तिः। इति पूर्वः पक्षः। अहःशब्दो न विवक्षितः, वाक्यभेदप्रसङ्गात्। 'ऐन्द्रवायवाग्रं प्रथमं भवति, तच्चाहः' इत्यहः संघातनिवृत्तये वाक्यं भेत्तव्यं प्रसज्येत। अहःशब्दे त्वविवक्षिते सत्यष्टभिरथशब्दैर्यथोक्ताग्रत्वानामेवानन्तर्यं नियम्यते। तथा सति द्वितीयपर्याये विहितस्याग्रयणाग्रत्वस्योपर्यैन्द्रवायवाग्रत्वं नानुष्ठातुं शक्यम्। तदनुष्ठानाभावे च स्वस्थानविवृद्ध्यैव प्रायणीयोदयनीयान्तरालपूर्तिर्भवति। पूरयितव्यमन्तरालं नवधा विभज्य प्रथमभागगतेष्वहःस्वैन्द्रवायवाग्रत्वम्, द्वितीयभागेषु शुक्राग्रत्वम्, इत्यनेन क्रमेणानुष्ठातव्यम्। सेयं स्वस्थानविवृद्धिः। स्वस्यैन्द्रवायवाग्रत्वस्य स्थानं शुक्राग्रात्पूर्वभावित्वम्। तत्प्रकृतावेकस्मिन्नह्नि भवति। इह तु बहुष्वहःसु। इति तद्वृद्धिः। न त्र्यनीका चोदकाप्ता प्रत्यक्षविहिता तु सा। तस्यामुक्तो विचारः स्यादिति वार्तिक ईरितम्।। 39।। 40।।  षड्विंशे- व्यूढे मन्त्राणां छन्दोव्यतिक्रमाधिकरणे सूत्रम्   छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकपालस्य मन्त्राणां यथोत्पत्तिवचनमूहवत्स्यात्।। 88।। षड्विंशाधिकरणमारचयति- व्यूढे भक्षादिमन्त्राणामर्थानां च व्यतिक्रमः। मन्त्राणामेव वाद्यः स्यादविशेषेण कीर्तनात्।। 41।। छन्दसां व्यत्ययः प्रोक्तो नार्थानां तेन मन्त्रगाः । गायत्र्याद्या विपर्यास्ता अर्थेषूक्तिः प्रशस्तये।। 42।। व्यूढे द्वादशाहे भक्षपवमानतदुभयपरिधिकपालानि चोदकप्राप्तानि। तत्र भक्षमन्त्रेषु सवनत्रयगतेषु ''गायत्रच्छन्दसः, त्रिष्टुप्छन्दसः, जगतीछन्दसः'' इति श्रुतम्। तथा पवमानत्रयविषयेष्वन्वारोहमन्त्रेषु ''गायत्रछन्दाः, त्रिष्टुप्छन्दाः, जगतीछन्दाः'' इति श्रुतम्। तथा परिधिस्तावकेऽर्थवादे पठ्यते ''गायत्रो मध्यमः परिधिः, त्रैष्टुभो दक्षिणः, जागत उत्तरः'' इति। तथा कपालविषयं वाक्यं पठ्यते- ''अष्टाकपालः प्रातःसवनीयः, एकादशकपालो माध्यंदिनीयः, द्वादशकपालस्तार्तीयसवनिकः'' इति। अत्राष्टत्वादिभिस्त्रिभिः संख्याभिर्गायत्र्यादिच्छदांसि तत्तदक्षरस्मृति-द्वारेणोपस्थाप्यन्ते। एवं स्थिते सति व्यूढप्रकरणे छन्दोव्यतिक्रमः पठ्यते- ''छन्दांसि वा, अन्योन्यस्य लोकमभिध्यायन्- गायत्री त्रिष्टुभः, त्रिष्टुब्जगत्याः, जगती गायत्र्याः'' इति। तत्र संशयः- योऽयं छन्दोव्यतिक्रमः, सः, भक्षपवमानपारिधिकपालरूपिणामर्थानामुभयविधमन्त्रगत-च्छन्दोवाचिशब्दानां च कार्यः, किंवा तेषां शब्दानामेव, इति। तत्र 'मन्त्रगतानामेव' इति विशेषाश्रवणात् 'सर्वत्र व्यतिक्रमः' इत्याद्यः पक्षः। तेन गायत्रशब्दनिर्दिष्टः प्रातःसवनीयो भक्षस्त्रैष्टुभशब्दस्य माध्यंदिनीयभक्षस्य स्थाने, माध्यंदिनीयो जागतस्य स्थाने, जागतो गायत्रस्य प्रातस्सवनिकस्य स्थाने। तथा बहिष्पवमाने माध्यंदिनसवने माध्यंदिनपवमानस्तृतीयसवने, आर्भवपवमानः प्रातःसवने। तथा मध्यमः स्थविष्ठः परिधिर्दक्षिणतः, अणीयान्द्राघीयानुत्तरतः, अणिष्ठो ह्रसिष्ठो मध्यतः। तथा- अष्टाकपालो माध्यंदिनसवने, एकादशकपालस्तृतीयसवने, द्वादशकपालः प्रातः सवने। सोऽयमर्थव्यतिक्रमो मन्त्रद्वयशब्देष्वप्येवं योज्यः। इति प्राप्ते- ब्रूमः- 'छन्दांसि वा' इति वाक्येऽर्थानां व्यतिक्रमो नोक्तः। अतो मन्त्रगतानां गायत्र्यादिशब्दानामेव व्यतिक्रमः। यस्त्वर्थेषु गायत्रादिशब्दप्रयोगः, स प्रशंसार्थः। भक्षार्थानां मुख्यच्छन्दस्त्वाभावात्। इति राद्धान्तः।। 41।। 42।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य पञ्चमः पादः।। 5।। अत्र पादे- अधिकरणानि 26, सूत्राणि 88। आदितः- अधिकरणानि 714, सूत्राणि 2007। दशमाध्यायस्य षष्ठः पादः ''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः।  प्रथमे- रथंतरादीनां साम्नां तृचे गानाधिकरणे सूत्रे 1-2   एकर्चस्थानि यज्ञे स्युः स्वाध्यायवत्।। 1।।  तृचे वा लिङ्गदर्शनात्।। 2।। षष्ठपादस्य प्रथमाधिकरणमारचयति- सामैकस्यां तृचे वा स्यादाद्यः स्वाध्यायवद्भवेत्। वचनाल्लिङ्गसंयुक्तात्स्तोत्रे साम तृचे भवेत्।। 1।। पवमानाज्यपृष्ठादिस्तोत्रेषु यद्विहितं रथंतरबृहद्वैरूपादिसामाध्येतार एकस्यामृच्यधीयते, तत्किं स्तोत्रप्रयोगकालेऽप्येकस्यामृचि गेयं किंवा तृचे गेयम्, इति संशयः। अध्ययनस्यानुष्ठानार्थत्वाद्यथाऽध्ययनमेकस्यां गेयम्। इति पूर्वः पक्षः। 'अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौति द्व्यक्षरेणोत्तरयोः' इति तिसृष्वृक्षु प्रस्तोत्रा गातव्यो भागो निरूप्यते। तदिदं तृचस्य लिङ्गम्। ''ऋक्सामोवाच मिथुनीसंभवाव'' इत्यादावृग्देवतासामदेवतयोः संवादरूपेऽर्थवादे सामदेवतैकामृचं, द्वे ऋचौ, च प्रत्याख्याय तिस्र ऋचोऽङ्गी चकार। तदिदमपरं लिङ्गम्। ताभ्यां लिङ्गाभ्यामुपबृंहितात् 'एकं साम तृचे क्रियते स्तोत्रीयम्' इति वचनात्तृचे गातव्यम्।। 1।।  द्वितीये- स्वर्दृक्शब्देन वीक्षणस्य कालार्थताधिकरणे सूत्रम्   स्वर्दृशं प्रति वीक्षणं कालमात्रं परार्थत्वात्।। 3।। द्वितीयाधिकरणमारचयति- स्वार्दृक्शब्दे वीक्षणे च किं स्यादङ्गाङ्गिताऽथवा। मीलनावधिताद्योऽस्तु भिन्नवाक्येन तद्विधेः।। 2।। प्रतिशब्देनावधिर्हि द्योत्यो वाक्यं न भिद्यते। सत्येवं मीलनस्यापि विधिर्नोत्तरयोर्भवेत्।। 3।। अस्ति रथंतरसाम्नो योनौ ''अभि त्वा शूर'' इत्येतस्यामृचि स्वर्दृक्शब्दः ''ईशानमस्य जगतः स्वर्दृशम्'' इत्याम्नातः। अस्ति चोद्गातुः कर्तृता तृचे, ''रथंतरे प्रस्तूयमाने संमीलयेत्, स्वर्दृशं प्रति वीक्षेत'' इति श्रुतेः। तत्र संशयः किं स्वर्दृक्शब्दोच्चारणवीक्षणयोरङ्गाङ्गिभावोऽत्र विधीयते, किंवा विधीयमानसंमीलनावधित्वेन स्वर्दृक्शब्दोच्चारणं निर्दिश्यते, इति। तत्र संमीलनवाक्याद्वीक्षणवाक्यं भिन्नम्। ततो न मीलनावधित्वेनान्वयः संभवतीति। किंच 'वीक्षेत' इति लिङ्प्रत्ययोऽत्र विधायकः श्रूयते। ततः स्वर्दृक्शब्दोच्चारणं वीक्षणाङ्गम्, वीक्षणं वा तदङ्गम्, इत्यङ्गाङ्गिभावोऽभ्युपेयः। तथा सति स्वर्दृक्शब्दरहितयोरुत्तरयोर्ऋचोर्गीयमाने रथंतरे विहितसंमीलनानुवृत्तिः फलिष्यति। इति पूर्वः पक्षः। 'स्वर्दृशं प्रति' इत्यनेन कर्मप्रवचनीयेन प्रतिशब्देन स्वर्दृक्शब्दोच्चारणस्यमीलनकालावधित्वं द्योत्यते। न च- अत्र भिन्नं वाक्यम्। एकवाक्यत्वसंभवात्। तथा हि- निरोधपरिहाराय स्वत एव प्राप्तत्वादीक्षणं न विधेयम्। तथा सति 'आ स्वर्दृक्शब्दोच्चारणात्संमीलयेत्' इत्येकं वाक्यं संपद्यते। एवं सत्युत्तरयोर्ऋचोर्मीलन-विध्यभावः फलिष्यति। इति राद्धान्तः।। 2।। 3।।  तृतीये- गवामयनिके पृष्ठ्यषडहे बृहद्रथंतरयोर्विभागाधिकरणे सूत्रे 4-5   पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम्।। 4।।  विभक्ते वा समस्तविधानात्तद्विभागे विप्रतिषिद्धम्।। 5।। तृतीयाधिकरणमारचयति- गवामयनिके पृष्ठ्यषडहे प्रत्यहं द्वयम्। बृहद्रथंतरं चोत भवेत्किंचित्क्वचिद्दिने।। 4।। द्वंद्वगर्भबहुव्रीहेराद्योऽन्त्येऽपि समो ह्यसौ। अन्योन्यनिरपेक्षस्य चोदकादन्तिमो भवेत्।। 5।। द्वादशाहे पृष्ठ्यः षडह उत्पन्नः। तत्र षण्णामप्यह्नां क्रमेण रथंतरबृहद्वैरूपवैराजशाक्वररैवतानि सामानि विहितानि। गवामयने तु विकृतिरूपो यः पृष्ठ्यः षडहः, तत्र श्रूयते ''पृष्ठ्यः षडहो बृहद्रथंतरसामा'' इति। चोदकप्राप्तयोर्बृहद्रथंतरयोः पुनर्विधानाद्वैरूपादिनिवृत्तिः। ततः शिष्यमाणं बृहद्रथंतरसामद्वयं किं प्रत्यहं कर्तव्यम्, किंवा केषुचिदहःसु बृहत्, केषुचिद्रथंतरम्, इति संशयः। बृहच्च रथंतरं च बृहद्रथंतरे, ते च सामनी यस्य, इति द्वंद्वगर्भिते बहुव्रीहावितरेतरयोगद्वंद्वेन साम्नोः साहित्यं प्रतीयते। ततः प्रत्यहं सामद्वयम्। इति पूर्वः पक्षः। ते सामनी यस्याह्न इत्यह्नो यद्यन्यपदार्थत्वम्, तदा भवदुक्तमेव स्यात्। इह तु षडहोऽन्यपदार्थः। तथा सति षडहे द्वयोः साम्नोः साहित्यं सिद्धान्तेऽपि समानम्। प्रकृतौ साम्नोरन्योन्यनिरपेक्षत्वादिहापि निरपेक्षमेव साम चोदकेनातिदिश्यते। तस्मात्- केषुचिदहःसु किंचित्साम। इति राद्धान्तः।। 4।। 5।।  चतुर्थे- प्रायणीयोदयनीययोरैकादशिनानां विभागाधिकरणे सूत्राणि 6-12   समासस्त्वैकादशिनेषु तत्प्रकृतित्वात्।। 6।।  विहारप्रतिषेधाच्च।। 7।।  श्रुतितो वा लोकवद्विभागः स्यात्।। 8।।  विहारप्रकृतित्वाच्च।। 9।।  विशये च तदासत्तेः।। 10।।  त्रयस्तथेति चेत्।। 11।।  न समत्वात्प्रयाजवत्।। 12।। चतुर्थाधिकरणमारचयति- स्युरेकादशिनाः किं प्रायणीयोदयनीययोः। प्रत्येकमखिलाः किंवा विभज्याः स्युस्तयोरपि।। 6।। उद्देश्ययोः प्रधानत्वात्प्रत्येकं पशवोऽखिलाः। नोद्देश्यौ शतवद्भागः शिष्टस्त्वासत्तितोऽन्तिमे।। 7।। द्वादशाहे श्रूयते ''एकादशिनान्प्रायणीयोदयनीययोरतिरात्रयोरालभेरन्'' इति। त एते पशव एकादशापि प्रायणीयेऽहनि कर्तव्याः, तथोदयनीयेऽपि सर्वे कर्तव्याः। कुतः प्रायणीयादेयनीययोरुद्देश्यत्वेन प्राधान्यात्। प्रतिप्रधानं चाङ्गावृत्तेर्युक्तत्वात्। इति पूर्वः पक्षः। वचनान्तरेण विहितानामेकादशानां प्रकरणेन द्वादशाहाङ्गत्वे सिद्धे देशाकाङ्क्षायां तान्पशूनुद्दिश्य प्रायणीयोदयनीयौ देशत्वेन विधीयेते। तत्र कुत उद्देश्यत्वम्, कुतस्तरां प्राधान्यम्, कुतस्तमां पश्वावृत्तिः। एवं सति यथा 'शतं देवदत्तयज्ञदत्तयोर्विधीयताम्' इत्यत्र 'देवदत्ते पञ्चाशद्विधीयते यज्ञदत्ते पञ्चाशत्' इति विभागः, तथा 'प्रायणीये पञ्च पशवः, उदयनीये पञ्च' इति विभागो युक्तः। यस्त्ववशिष्ट एकः पशुरन्तिमः, स प्रत्यासन्नत्वादन्तिमेऽहन्युदयनीये कर्तव्यः।। 7।।  पञ्चमे- सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणे सूत्रे 13-14   सर्वपृष्ठे पृष्ठशब्दात्तेषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात्।। 13।।  विधेस्तु विप्रकर्षः स्यात्।। 14।। पञ्चमाधिकरणमारचयति- किं सर्वपृष्ठे सर्वाणि पृष्ठदेशे यथोक्ति वा। पृष्ठशब्दात्पृष्ठदेशे वचनात्तु व्यवस्थितिः।। 8।। इदमाम्नायते ''विश्वजित्सर्वपृष्ठः'' इति। षडहे षट्स्वहःसु क्रमेण ''रथंतरं बहुद्वैरूपम्'' इत्यादिभिः षड्भिः पृष्ठस्तोत्रं निष्पादितम्। तानि सर्वाणि पृष्ठसामानि यस्मिन्विश्वजिति सोऽयं सर्वपृष्ठः। तत्र माध्यंदिनपवमानमैत्रावरुणसाम्नोरन्तरालरूपे पृष्ठस्तोत्रदेशे किं सर्वाणि पृष्ठसामानि कार्याणि, किंवा यथावचनं देशव्यवस्था, इति संशयः। पृष्ठकार्यगमकेन पृष्ठशब्देन पृष्ठदेशे (इति) प्राप्ते- वचनेन देशविशेषो व्यवस्थाप्यते। वचनं चैवमाम्नायते- ''पवमाने रथंतरं करोति, आर्भवे बृहत्, मध्य इतराणि- वैरूपं होतुः, पृष्ठं वैराजं ब्रर्ह्मसाम, शाक्वरं मैत्रावरुणसाम, रैवतमच्छावाकसाम'' इति। वचनं हि न्यायाद्बलीयः। तस्मात् देशविशेषो व्यवस्थितः।। 8।।  षष्ठे- वैरूपवैराजसाम्नोः पृष्ठकार्ये निवेशाधिकरणे सूत्राणि 15-21   वैरूपसामा क्रतुसंयोगात्रिवृद्वदेकसामा स्यात्।। 15।।  पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात्।। 16।।  त्रिवृद्वदिति चेत्।। 17।।  न प्रकृतावकृत्स्नसंयोगात्।। 18।।  विधित्वान्नेति चेत्।। 19।।  स्याद्विशये तन्न्यायत्वात्कर्माविभागात्।। 20।।  प्रकृतेश्चाविकारात्।। 21।। षष्ठाधिकरणमारचयति- कार्त्स्न्याद्वैरूपवैराजे उक्थ्यषोडशिनोरुत। पृष्ठे स्यात्क्रतुसंयोगादाद्योऽन्त्यः पृष्ठलिङ्गतः।। 9।। इदमाम्नायते- ''उक्थ्यो वैरूपसामा- एकविंशः, षोडशी वैराजसामा'' इति। तत्र कृत्स्न उक्थ्ये वैरूपं साम, कृस्ने षोडशिनि वैराजं साम, 'वैरूपं साम यस्मिन्नुक्थ्ये क्रतौ, वैराजं साम यस्मिन्षोडशिनि क्रतौ' इत्येवं क्रतुसंबन्धप्रतीतेः। मैवम्। प्रकृतौ 'रथंतरसामा, बृहत्सामा' इत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्रविषयत्वदर्शनादत्रापि तर्न्निर्देशेन पृष्ठलिङ्गेन पृष्ठकार्ये वैरूपं वैराजं च भवितुमर्हति। क्रतुसंबन्धस्तयोः पृष्ठद्वारेणोपपद्यते।। 9।।  सप्तमे- त्रिवृति स्तोमगतसंख्याविकाराधिकरणे सूत्रे 22-23   त्रिवृति संख्यात्वेन सर्वसंख्याविकारः स्यात्।। 22।।  स्तोमस्य वा तल्लिङ्गत्वात्।। 23।। सप्तमाधिकरणमारचयति- त्रिवृदग्निष्टुदित्येतत्सर्वत्र स्तोम एव वा। आद्यस्त्रैगुण्यवाचित्वादन्त्यः स्तोमेऽस्य रूढितः।। 10।। एवं श्रूयते ''त्रिवृदग्निष्टुदग्निष्टोमः'' इति। किं त्रिवृत्त्वमग्निष्टुति क्रतौ सर्वेषु साधनेषु संबध्यते, किंवा स्तोममात्रसंबन्धि तत्। 'त्रिवृद्रज्जुः' इत्यादौ त्रिवृच्छब्दस्य त्रैगुण्यवाचित्वदर्शनादत्रापि क्रतुसाधनेषु या या संख्या श्रूयते, सा सर्वा त्रिवृत्त्वेन विक्रियते। इति प्राप्ते- ब्रूमः- यद्यपि त्रिवृच्छब्दोऽवयवप्रसिद्ध्या लोके त्रैगुण्यं ब्रूते तथाऽपि वेदे रूढ्या स्तोमवाची। 'त्रिवृद्बहिष्पवमानः' इत्युक्त्वा स्तोत्रियाणां नवानामृचामनुक्रमणेन स्तोमविषयमेव त्रिवृत्त्वम्।। 10।।  अष्टमे- उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणे सूत्राणि 24-26   उभयसाम्नि विश्वजिद्वद्विभागः स्यात्।। 24।।  पृष्ठार्थे वाऽतदर्थत्वात्।। 25।।  लिङ्गदर्शनाच्च।। 26।। अष्टमाधिकरणमारयति- संसवादौ द्वयोरेकं पृष्ठं यद्वा समुच्चितम्। एकं प्रकृतिवद्विश्वजिद्वदन्यत्र चेतरत्।। 11।। वचनाद्विश्वजित्येते सामनी स्तोत्रयोर्द्वयोः। नेहास्ति तत्पृष्ठ एव साहित्यं स्यात्पुनर्विधेः।। 12।। इदमाम्नायते- ''संसव उभे कुर्यात्'' इति। ''अभिजितावेकाह उभे बृहद्रथंतरे कुर्यात्'' इति। किमत्र बृहद्रथंतरयोरेकं पृष्ठस्तुतौ, इतरदन्यस्तुतौ स्यात्, किंवा समुच्चितमुभयं पृष्ठस्तुतौ, इति संशयः। प्रकृतौ द्वयोर्विकल्पितत्वादेकस्मिन्प्रयोग एकस्य पृष्ठत्वादन्यत्रापि तथात्वं युक्तम्। तथा सत्यवशिष्टं साम सर्वपृष्ठविश्वजिन्न्यायेन स्तोत्रान्तरे प्रयोक्तव्यम्। इति पूर्वः पक्षः। तादृग्वचनाभावेनात्र विश्वजिद्वैषम्यात्। प्रकृतिवद्विकल्पे सति पुनर्विधानवैयर्थ्यात्समुच्चीयते। इति राद्धान्तः।। 11।। 12।।  नवमे- मध्वशनघृताशनयोः षडहान्तेऽनुष्ठानाधिकरणे सूत्रे 27-28   पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत्।। 27।।  अन्ते वा कृतकालत्वात्।। 28।। नवमाधिकरणमारचयति- त्रयस्त्रिंशारम्भणे किं तदन्ते मधुभोजनम्। षडहान्तेऽथवाद्यः स्यात्सांनिध्याद्वाक्यतोऽन्तिमः।। 13।। पृष्ठ्यः षडहो द्विविधः- त्रयस्त्रिंशान्तः, त्रयस्त्रिंशादिश्चेति। द्वादशाहे- त्रिवृत् पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः, इत्येतैः स्तोमैर्युक्तान्यहानि षड्विहितानि। सोऽयं त्रयस्त्रिंशान्तः। क्वचिद्विकृतौ व्यत्यासेन त्रयस्त्रिंशादिस्त्रिवृदन्तः- ''पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणस्त्रिवृदुत्तमः कार्यः'' इति। तत्र मधु भोजनं चोदकप्राप्तम्। तच्च प्रकृतौ (विहितम्)। त्रयस्त्रिंशेऽहन्यनुष्ठितेऽन्तरं कृतम्, इत्यत्रापि सांनिध्यात्रयस्त्रिंशान्ते कर्तव्यम्। इति प्राप्ते- ब्रूमः- ''संस्थिते पृष्ठ्ये षडहे मध्वाशयेद्घृतं वा'' इति वाक्येन प्रकृतौ षडहप्रगोगस्यान्ते मधुभोजनं विहितम्। त्रयस्त्रिंशसंनिधिस्तु नान्तरीयकः। अतोऽत्रापि षडहावसाने कर्तव्यत्वान्त्रिवृत्संनिधौ तदनुष्ठानम्।। 13।।  दशमे- षडहावृत्तावपि मध्वशनघृताशनयोः सकृदनुष्ठानाधिकरणे सूत्रे 29-30   अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात्।। 29।।  अन्ते वा कृतकालत्वात्।। 30।। दशमाधिकरणमारचयति- अभ्यासे षडहे भुक्तिमभ्यस्येत्किं न वाऽग्रिमः। स्तोत्रशस्त्रादिवन्मैवं संस्थिते तद्विधानतः।। 14।। ''आवृत्तं पृष्ठमुपयन्ति'' इति श्रूयते। तत्र षडहावृत्तौ यथा स्तोत्रादीन्यावर्तन्ते, तथा मधुभोजनमपि। इति प्राप्ते- ब्रूमः- संस्थिते षडहे भोजनं विधीयते। संस्था नाम पुनः षडहविशेषव्यापाराभावः। अतः षडहावृत्तेरन्ते मधुभोजनं सकृदेव कार्यम्।। 14।।  एकादशे- गवामयने मध्वशनघृताशनयोः प्रतिमासमावृत्त्यधिकरणे सूत्रम्   आवृत्तिस्तु व्यवाये कालभेदात्स्यात्।। 31।। एकादशाधिकरणमारचयति- सर्वान्ते प्रतिमासं वा पृष्ठ्यान्ते मधुभोजनम्। सर्वान्ते पूर्ववन्मैवं संस्थितानां पृथक्त्वतः।। 15।। गवामयने श्रूयते ''चत्वारोऽभिप्लवाः षडहाः। पृष्ठ्यः षडहः समासः सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः'' इति। तत्र षडहपञ्चकरूपे मासेऽभ्यस्यमाने पृष्ठ्योऽप्यावर्तते। तथा सति पूर्वन्यायेनावृत्तेषु पृष्ठ्येषु सर्वेषु समाप्तेष्वन्ते मधुभोजनम्। इति प्राप्ते- ब्रूमः- प्रतिमासं संस्थितानां पृष्ठ्यानां पृथक्त्वाद्भोजनमपि प्रतिमासमावर्तनीयम्।। 15।।  द्वादशे- द्वादशाहे सत्रिभिरपि मध्वशनाधिकरणे सूत्रे 32-33   मधु न दीक्षिता ब्रह्मचारित्वात्।। 32।।  प्राश्येत वा यज्ञार्थत्वात्।। 33।। द्वादशाधिकरणमारचयति- मध्वभक्ष्यं भक्ष्यते वा सत्रिभिर्ब्रह्मचारिणः । निषिद्धत्वादादिमोऽन्त्यः पुंस्क्रत्वर्थविभेदतः।। 16।। सत्रात्मकद्वादशाहे पृष्ठ्यषडहे संस्थिते मध्वभक्ष्यम्। कुतः- सत्रिणां दीक्षितत्वेन ब्रह्मचारित्वात्। ब्रह्मचारिणां च मधुमांसप्रतिषेधात्। इति चेत्- मैवम्। तन्निषेधस्य पुमर्थत्वेन, भक्षणविधेः क्रत्वर्थत्वेन च विषयभेदात्। तस्मात्- सत्रिभिर्भक्ष्यम्।। 16।।  त्रयोदशे- मानसस्य द्वादशाहाङ्गताधिकरणे सूत्राणि- 34-44   मानसमहरन्तरं स्याद्भेदव्यपदेशात्।। 34।।  तेन च संस्तवात्।। 35।।  अहरन्ताच्च परेण चोदना।। 36।।  पक्षे संख्या सहस्त्रवत्।। 37।।  अहरङ्गं वांऽशुवच्चोदनाभावात्।। 38।।  दशमविसर्गवचनाच्च।। 39।।  दशमेऽहन्निति च तद्गुणशास्त्रात्।। 40।।  संख्यासामञ्जस्यात्।। 41।।  पश्वतिरेके चैकस्य भावात्।। 42।।  स्तुतिव्यपदेशमङ्गेन विप्रतिषिद्धं व्रतवत्।। 43।।  वचनादतदन्तत्वम्।। 44।। त्रयोदशाधिकरणमारचयति- मानसं किमहर्भिन्नमङ्गं वा दशमेऽहनि। भिन्नं स्तुत्यादिनाऽङ्गं तद्विसर्गोक्त्यादिभिर्भवेत्।। 17।। द्वादशाहे मानसग्रहणं श्रूयते ''अनया त्वा पृथिव्या पात्रेण समुद्ररसया प्रजापतये त्वा जुष्टं गृह्णामीति मानसं प्राजापत्यं गृह्णाति'' इति। अयमर्थः- 'पृथिवी पात्रम्, समुद्रः सोमः, प्रजापतिर्देवता, एवंविशिष्टस्य ग्रहस्य ग्रहणे मनः साधनम्, तदिदं मानसम्' इति। एतच्च द्वादशभ्यो भिन्नमहस्त्रयोदशेऽहनि कर्तव्यो यागविशेषः। कुतः- स्तुत्यादिभ्यः। मानसेन द्वादशाहस्य स्तुतिरेवमाम्नायते ''द्वादशाहस्य हृतरसानि च्छन्दांसि तानि मानसेनाप्यायन्ति'' इति। स्तुतिसाधनं च मानसं स्तोतव्याद्भिन्नं भवितुं युक्तम्। तथा व्यपदेशभेदोऽपि श्रूयते ''वाग्वै द्वादशाहः, मनो मानसम्'' इति। एवमाद्युपपत्तिभिर्भिन्नमहः। इति प्राप्ते- ब्रूमः- दशमस्याह्नोऽङ्गं तत्स्यात्। विसर्गोक्त्यादिभ्यः। ''एष वै दशमस्याह्नो विसर्गो यन्मानसम्'' इति विसर्गोक्तिः। इयं च दशमाहाङ्गत्वं गमयति। अहरन्तरत्वे द्वादशाहसमाख्या च विरुध्यते। अङ्गभूतेनापि मानसस्तुतिव्यपदेशभेदादिकमुपपद्यते। तस्मात्- अभेदः।। 17।।  चतुर्दशे- सत्रस्य बहुकर्तृकत्वाधिकरणे सूत्राणि 45-50   सत्रमेकः प्रकृतिवत्।। 45।।  वचनात्तु बहूनां स्यात्।। 46।।  अपदेशः स्यादिति चेत्।। 47।।  नैकव्यपदेशात्।। 48।।  संनिवापं च दर्शयति।। 49।।  बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम्।। 50।। चतुर्दशाधिकरणमारचयति- सत्रमेकः करोत्याहो बहवः प्रकृताविव । एकः कुर्यादिहासीरन्नित्युक्त्या बहवो मताः।। 18।। द्वादशाहादिसत्रस्य ज्योतिष्टोमः प्रकृतिः। तत्र कर्त्रैक्याच्चोदकेन सत्रेऽपि कर्त्रैक्ये प्राप्ते- प्रत्यक्षवचनाद्बहवोऽभ्युपेयाः।। 18।।  पञ्चदशे- सत्रे यजमानानामेवर्त्विक्त्वाधिकरणे सूत्राणि 51-58   अन्ये स्युर्ऋत्विजः प्रकृतिवत्।। 51।।  अपि वा यजमानाः स्युर्ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम्।। 52।।  कर्तृसंस्कारो वचनादाधातृवदिति चेत्।। 53।।  स्याद्विशये तन्न्यायत्वात्प्रकृतिवत्।। 54।।  स्वाम्याख्याः स्युर्गृहपतिवदिति चेत्।। 55।।  न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण।। 56।।  दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात्।। 57।।  अदक्षिणत्वाच्च।। 58।। पञ्चदशाधिकरणमारचयति- ऋत्विजोऽन्येऽत्र यष्टृभ्यः स्युस्त एवोत चोदकात् । अन्ये यष्टार एव स्युः प्रस्यक्षवचनादिभिः।। 19।। अत्र सत्रे किं यजमानेभ्यो व्यतिरिक्ता ऋत्विजः कर्तव्याः किंवा यजमाना एवर्त्विजः। ज्योतिष्टोमे यजमानादन्य ऋत्विजः। तद्विकृतित्वादिहापि चोदकादन्ये स्युः। इति प्राप्ते- ब्रूमः- 'ये यजमानास्त एव ऋत्विजः' इति प्रत्यक्षवचनात्, ''अदक्षिणानि सत्राणीत्याहुः'' इति दक्षिणाराहित्यश्रवणात् ''अध्वर्युर्गृहपतिंदीक्षयित्वा ब्रह्मणं दीक्षयति, तत उद्वातारम्'' इत्यादिना ब्रह्मोद्गात्रादिसमाख्यासंयोगदीक्षासंयोगयोरार्त्विज्ययाजमानद्योतकयोः प्रतिभानाच्च यजमाना एवर्त्विजः।। 19।।  षोडशे- सत्राहीनयोर्विवेकाधिकरणे सूत्रे 59-60   द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात्।। 59।।  यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात्।। 60।। षोडशाधिकरणमारचयति- अहीनसत्रयोर्लक्ष्मभेदो नास्त्यस्ति वा नहि। आवृत्तिसाम्यादाद्यः स्यादिज्यासिभ्यां तयोर्भिदा।। 20।। अस्ति द्वादशाहस्याहीनत्वं सत्रत्वं च। तत्रैवं चिन्त्यते- किमहीनसत्रयोर्लक्षणभेदो नास्ति, उत- अस्ति, इति। तत्र 'नास्ति' इति तावत्प्राप्तम्। कुतः- ज्योतिष्टोमावृत्तिरूपस्य समानत्वात्। यथा द्विरात्रादीनामेकादश-रात्रान्तानामहीनानामावृत्तौ ज्योतिष्टोमस्वरूपत्वम्, तथा त्रयोदशरात्रादीनां सत्राणाम्। इति प्राप्ते। ब्रूमः- 'आसीरन् उपेयुः' इति चोदनाद्वयं यजमानबहुत्वं च सत्रलक्षणम्। यजतिचोदना यजमानबहुत्वनियमाभावश्चाहीनलक्षणम्। वैदिकप्रयोगेषु तयोरव्यभिचारात्। इति राद्धान्तः।। 20।।  सप्तदशे- पौण्डरीके सकृदेव दक्षिणादानाधिकरणे सूत्राणि 61-67   अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यहं कर्मभेदः स्यात्।। 61।।  सर्वस्य वैककर्म्यात्।। 62।।  पृषदाज्यवद्वाऽह्नां गुणशास्त्रं स्यात्।। 63।।  ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात्।। 64।।  द्वादशाहे वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात्।। 65।।  परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात्।। 66।।  भेदस्तु गुणसंयोगात्।। 67।। सप्तदशाधिकरणमारचयति- अयुतादि प्रत्यहं स्यात्सकृद्वाऽङ्ग्यनुसारतः। आद्यो भवेत्प्रयोगोऽङ्गी तदैक्येन सकृद्भवेत्।। 21।। अस्ति पौण्डरीकः। ''पौण्डरीकेणैकादशरात्रेण स्वाराज्यकामो यजेत'' इति तद्विधानात्। तत्र श्रूयते ''अयुतं पुण्डरीके दद्यादश्वसहस्त्रमेकादशम्'' इति। तत्र गवायुताश्वसहस्रे प्रत्यहं दातव्ये। कुतः- दक्षिणाया अङ्गत्वेन प्रतिप्रधानमावर्तनीयत्वात्। इति प्राप्ते- ब्रूमः- अहर्गणरूपस्य पौण्डरीकस्य प्रयोगो दक्षिणाङ्गं प्रत्यङ्गी। स चैकः। अतः- सकृदेव दानम्।। 21।।  अष्टादशे- पौण्डरीके सर्वासां दक्षिणानां विभज्य नयनाधिकरणे सूत्राणि 68-71   प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात्।। 68।।  एकार्थत्वान्नेति चेत्।। 69।।  स्यादुत्पत्तौ कालभेदात्।। 70।।  विभज्य तु संस्कारवचनाद्द्वादशाहवत्।। 71।। अष्टादशाधिकरणमारचयति- सकृत्किं प्रत्यहं वाऽस्य नयनं तत्र चोत्तमे। सर्वस्य वा विभक्तस्य सकृत्संस्कारसिद्धितः।। 22।। प्रतिमाध्यंदिनं चोदकप्राप्तेः प्रत्यहं तदा। सर्वं नेयं तदेकत्वाद्विभज्य द्वादशाहवत्।। 23।। पौण्डरीके सकृदेव दातव्यं गवायुताश्वसहस्ररूपं दक्षिणाद्रव्यं यदस्ति, तस्य नयनादिसंस्कारश्चोदकप्राप्तः। प्रकृतौ ''माध्यंदिने सवने दक्षिणा नीयन्ते'' इति। तद्विकृतित्वेन नयनमिह सकृत्कार्यम्, किंवा प्रत्यहम्, इत्येकः संशयः। तयोरुत्तमे पक्षे प्रत्यहं किं दक्षिणाद्रव्यस्य सर्वस्य नयनम्, किंवा दशस्वहःसु गवामेकैकसहस्रम्, एकादशेऽह्नि- अश्वसहस्रम्, इति द्वितीयः संशयः। तत्र 'सकृन्नयनम्' इति तावत्प्राप्तम्। कुतः- तावतैव चिकीर्षितसंस्कारस्य सिद्धत्वात्। अथवा प्रतिमाध्यंदिनसवनं चोदकप्राप्तेः समानत्वात्प्रत्यहं नयनं कार्यम्, तदाऽपि गवायुताश्वसहस्ररूपस्य द्रव्यस्यैकदक्षिणारूपत्वात्सर्वं नेयम्। इति पूर्वः पक्षः। विभज्य नेयम्। कुतः- द्वादशाहविकृतित्वात्। द्वादशहे चान्वहं विभज्य नीतत्वात्। इति राद्धान्तः।। 22।। 23।।  एकोनविंशे- मानवीषु पञ्चदशानामेव सामिधेनीत्वाधिकरणे सूत्राणि 72-75   लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत्।। 72।।  यावदर्थं वाऽर्थशेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम्।। 73।।  आग्नेये कृत्स्नविधिः।। 74।।  ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात्।। 75।। एकोनविंशाधिकरणमारचयति- मनोर्ऋचः सामिधेन्यः सर्वाः पञ्चदशैव वा। अविशेषेण सर्वाः स्युः कार्याः पञ्चदशैव ताः।। 24।। क्वचिद्विकृतिविशेषे श्रूयते- ''मनोर्ऋचः सामिधेन्यो भवन्ति'' इति। तत्र विशेषाश्रवणादृचो यावत्यो मनुसंबन्धिन्य ऋक्संहितायामाम्नाताः, ताः सर्वाः सामिधेन्यः। इति प्राप्ते- ब्रूमः- अग्निसमिन्धनमासामृचां कार्यम्। तच्च प्रकृतौ पञ्चदशभिः सिद्धमित्यत्रापि चोदकवशात्पञ्चदशैवोपादेयाः।। 24।।  विंशे- वाससि मानोपावहरणयोरनुष्ठानाधिकरणे सूत्रम्   वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात्।। 76।। विंशाधिकरणमारचयति- उपावहरणं मानमपि क्वाप्युत वाससि। क्वापि स्यात्प्रांशुताभावाद्वचनाद्वाससोभयम्।। 25।। ज्योतिष्टोमे सोमस्योपावहरणं मानं च श्रुतम्। तदुभयं संपादनप्रयत्नेन विना स्वत एव लब्धेन केनापि साधनेन कार्यम्। मैवम्। ''वाससि मिनोति, वाससा चोपावहरति'' इति वचनेन वाससो विहित्वात्।। 25।।  एकविंशे- अहर्गणे वासोन्तरोत्पादनाधिकरणे सूत्रम्   तत्राहर्गणेऽर्थाद्वासः प्रकृतिः स्यात्।। 77।। एकविंशाधिकरणमारचयति- नान्यद्वासोऽहर्गणे स्यात्स्याद्वा न स्यादनुक्तितः। चोदकात्प्रत्यहं प्राप्तं कार्याद्वासोन्तरं भवेत्।। 26।। द्वादशाहादावहर्गणे चोदकप्राप्तादेकस्मान्मानोपावहरणहेतोर्वाससोऽन्यद्वासोऽनुक्तत्वान्न संपाद्यम्। इति प्राप्ते- ब्रूमः- प्रत्यहं सोमस्योपावहरणं चोदकेन प्राप्तम्। तच्चोपावहरणरूपं कार्यं वासोभेदं विना न सिध्यति। हविर्धानशकटेऽवस्थिताद्वासोपनीतसोमात्कियन्तमपि सोमभागमेकैकस्याह्नः पर्याप्तं पृथक्कृत्योपावहर्तुं वासोन्तरं संपाद्यम्।। 26।।  द्वाविंशे- उपावहरणार्थमेव वासोन्तरोत्पादनाधिकरणे सूत्रे 78-79   मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य।। 78।।  हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन।। 79।। द्वाविंशाधिकरणमारचयति- तत्किं माने हृतौ वाद्यः प्रकृतावेकतेक्षणात्। अर्थात्तदैक्यं तत्रोक्त्या हृतौ स्यात्सार्थकत्वतः।। 27।। यदेतद्वासोन्तरमहर्गणे संपाद्यम्। तत्किं मानकाले, उत- उपावहरणकाले, इति संशयः। प्रकृतौ मानोपावहरणयोर्वस्त्रैकत्वदर्शनादिहापि तदैक्यसिद्धये मानकाले वासोन्तरं संपाद्यम्। इति पूर्वः पक्षः। प्रकृतौ- येन सोमो मितः, तेनैवोपावहरणमर्थसिद्धम्। 'कियानेव सोमः शकटेऽवस्थापनीयः, कियानेवोपावहर्तव्यः' इति सोमद्वयाभावादर्थसिद्धस्य चैकस्य वाचनिकत्वाभावान्न चोदकेनातिदेशोऽस्ति। अतोऽहर्गणे मानहेतोर्वाससः शकटेऽवस्थितत्वादुपावहरणे वासोन्तरस्य सार्थकत्वात्तत्समये तत्संपाद्यम्।। 27।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य षष्ठः पादः।। 6।। अत्र पादे- अधिकरणानि 22, सूत्राणि 79। आदितः- अधिकरणानि 736, सूत्राणि 2086। दशमाध्यायस्य सप्तमः पादः पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः।  प्रथमे- ज्योतिष्टोमे प्रत्यङ्गं हविर्भेदाधिकरणे सूत्रे 1-2   पशोरेकहविष्ट्वं समस्तचोदितत्वात्।। 1।।  प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्प्रकल्पनत्वात्।। 2।। सप्तमपादस्य प्रथमाधिकरणमारचयति- पशुः कृत्स्नो हविः किंवा प्रत्यङ्गं हविरन्यता। आद्यश्चोदनया मैवमवदानपृथक्त्वतः।। 1।। ''अग्नीषोमीयं पशुमालभेत'' इत्यत्र कृत्स्नस्य पशोरेकहविष्ट्वं युक्तम्। कुतः- अग्नीषोमदेवतां प्रति द्रव्यत्वेन पशोश्चोदितत्वात्। न हि हृदयाद्यङ्गं साक्षात्पशुर्भवति। इति प्राप्ते- ब्रूमः- ''हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसोऽवद्यति, दोष्णोरवद्यति, पार्श्वयोरवद्यति'' इत्यादिना हृदयाद्यङ्गानामवदानानि पृथगाम्नायन्ते। अवदानं च हविष्ट्वप्रयोजकः संस्कारः। पुरोडाशादौ होतुमवदीयमानत्वदर्शनात्। हविःशब्दश्च कर्मव्युत्पत्त्या होमयोग्यं द्रव्यं ब्रूते। पश्वाकृतिचोदना तु हृदयाद्यङ्गद्वारेण देवतासंबन्धादुपपद्यते। तस्मात्- प्रत्यङ्गं हविर्भेदः।। 1।।  द्वितीये- पशोर्हृदयादिभिरेवाङ्गविशेषैर्यागानुष्ठानाधिकरणे सूत्राणि 3-9   हविर्भेदात्कर्मणोऽभ्यासः, तस्मात्तेभ्योऽवदानं स्यात्।। 3।।  आज्यभागवद्वा निर्देशात्परिसंख्या स्यात्।। 4।।  तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेत्पशोः पञ्चावदानत्वात्।। 5।।  अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसंख्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात्।। 6।।  अपि वा परिसंख्या स्यादवदानीयशब्दत्वात्।। 7।।  अब्राह्मणे च दर्शनात्।। 8।।  शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वम्।। 9।। द्वितीयाधिकरणमारचयति- एकेनाङ्गेन सर्वैर्वा यद्वैकादशभिर्यजिः। एकेन यागसंसिद्धेर्हविषां भेदतोऽखिलैः।। 2।। एकादशभिरन्येषां परिसंख्या भवेद्यतः। न त्रिदोषी गत्यभावादशृतोक्तेश्च सोचिता।। 3।। प्रत्यङ्गं हविर्भेदे स्थिते सति त्रेधा यागे संशयः। तत्र- अनिर्दिष्टविशेषेण येन केनाप्यङ्गेन यागः कार्यः। तावतैव सिद्धत्वात्। इत्येकः पक्षः। चोदितपश्वङ्गत्वं परिगणितेषु हृदयादिष्वन्येषु चांसशिरःप्रभृतिषु समानम्। ततो हृदयादिवदंसादीनां हविर्भेदत्वाद्यागमन्तरेण हूयमानत्वलक्षणहविष्ट्वापर्यवसानात्सर्वैरङ्गैर्यागः। इति द्वितीयः पक्षः। हृदयादिभिरेकादशभिरेवाङ्गैर्यागः कर्तव्यः। कुतः- अन्येषामंसादीनां परिसंख्यातत्वात्। चोदकेन सर्वेषामङ्गानामवदाने प्राप्ते हृदयादिवाक्येनांसादयः परिसंख्यायन्ते। ननु- परिसंख्यायां 'विधिः स्वार्थं जह्यात्, परार्थं कल्पेत, प्राप्तं बाधेत' इति दोषत्रयं प्रसज्येत। प्रसज्यतां नाम। सति हि गत्यन्तर एषां दोषत्वम्। परिसंख्यायास्तु ते त्रयः स्वरूपमिति कृत्वा न दोषतां भजन्ते। किंच 'द्वयानि मांसांन्यभिमृशन्ति शृतान्यशृतानि' इति केषांचिन्मांसानामपक्वत्वमुच्यते। पाकस्तु हविषो मांसस्य प्रतिनियतः। तस्मात्- अशृतत्वोक्तिरंसादिपरिसंख्यां गमयति। एतदेवाभिप्रेत्यांसादिप्रतिषेधः श्रुत्या वर्णितः- ''नांसयोरवद्यति, न शिरसः'' इत्यादिना। तस्मात्- एकादशभिरेव यागः।। 2।। 3।।  तृतीये- ज्योतिष्टोमेऽनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमाधिकरणे सूत्रे 10-11   इज्याशेषात्स्विष्टकृदिज्येत प्रकृतिवत्।। 10।।  त्र्यङ्गैर्वा शरवद्विकारः स्यात्।। 11।। तृतीयाधिकरणमारचयति- इज्याशेषैरशेषैर्वा त्र्यङ्गैः स्विष्टकृतो हुतिः। आद्यः प्रकृतिवन्मैवं पूर्वार्धेत्युक्तिशेषतः।। 4।। पशौ श्रूयते ''त्र्यङ्गैः स्विष्टकृतं यजति'' इति। तत्र- इज्यार्थानां हृदयाद्येकादशाङ्गानां यैः कैश्चित्त्र्यङ्गैरिज्याशेषभूतैः स्विष्टकृद्धोतव्यः। कुतः- प्रकृताविज्याशेषण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि चोदकेन तथात्वात्। इति प्राप्ते- ब्रूमः- ''दोष्णः पूर्वार्धादग्नये समवद्यति, गुदस्य मध्यतः, श्रोण्या जघनतः'' इति वाक्यशेषेण हृदयादिभ्य एकादशभ्योऽन्यानि त्रीण्यङ्गानि स्विष्टकृते समाम्नायन्ते। न च हृदयादिष्वपि गुदादीन्याम्नातानि, इति शङ्क्यम्। तद्विशेषस्य कल्पसूत्रकारेण दर्शितत्वात्। 'हृदयं जिह्वा वक्षो यकृद्वृक्कौ सव्यं दोः, उभे पार्श्वे दक्षिणा श्रोणिः, गुदं तृतीयम्- इति दैवतावदानानि। दक्षिणोंऽसः, सव्या श्रोणिः, गुदं तृतीयम्- इति सौविष्टकृतानि' इति। तस्मात्- अनिज्याशेषैरङ्गैः स्विष्टकृद्धोमः।। 4।।  चतुर्थे- अध्यूध्न्या इडाविकारताधिकरणे सूत्राणि 12-16   अध्यूध्नी तु होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात्।। 12।।  शेषे वा समवैति तस्माद्रथवन्नियमः स्यात्।। 13।।  अशास्त्रत्वात्तु नैवं स्यात्।। 14।।  अपि वा दानमात्रं स्याद्भक्षशब्दानभिसंबन्धात्।। 15।।  दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्यात्, शेषं प्रत्यविशिष्टत्वात्।। 16।। चतुर्थाधिकरणमारचयति- होतुर्नियम्यतेऽध्यूध्नी किंवेडां विकरोति सा। अनस्थिभिरिति प्राप्ता होतुः पक्षे नियम्यते।। 5।। अनुवादोऽनस्थिवाक्यं प्रापिका परिशिष्टगीः। नाध्यूध्नी तत्र तेनेडा होतुर्विक्रियते तया।। 6।। पशावेव श्रूयते ''अध्यूध्नीं होत्रे हरन्ति'' इति। अध्यूध्नी हृदयादिभ्योऽन्यदङ्गम्। तत्र- इयं होतुरेव नान्यस्य- इति नियम्यते। कुतः- पक्षे प्राप्तत्वात्। तथा हि- हृदयादीनिज्याशेषान्भक्षणार्थं पात्रे निक्षिप्यानिज्याशेषानपि तत्र क्षिपेत्। ''अनस्थिभिरिडां वर्धयन्ति'' इति श्रवणात्। अस्मिंश्च भक्षणे प्रत्येकमृत्विजां विभज्यमाने सेयमध्यूध्नी होतुः कदाचित्प्राप्नोति, कदाचिदन्यस्य, ततो नियन्तव्या। इति प्राप्ते- ब्रूमः- 'वर्धयन्ति' इति वर्तमानापदेशेनानस्थिवाक्यमनुवादः। प्रापकं तु परिशिष्टवाक्यम्। तच्चैवमाम्नायते- ''अथ यद्यत्परिशिष्यते, तत्तत्समवत्तधान्यामानयति हृदयं जिह्वा वक्षः'' इत्यारभ्य ''वनिष्ठुम्'' इत्येतदन्तम्। न च तस्मिन्वाक्येऽध्यूध्नी पठिता। ततोऽप्राप्तत्वाद्विधीयमानया तया होतुरिडाभागोऽन्यो बाध्यते। तत्रेयं वचनव्यक्तिः- ''यद्धोत्रे हरन्ति, तदध्यूध्नीम्'' इति। तस्मात्- विकारः।। 5।। पञ्चमे- वनिष्ठोर्भक्षविकारताधिकरणे सूत्रम्   अग्नीधश्च वनिष्ठुरध्यूध्नीवत्।। 17।। पञ्चमाधिकरणमारचयति- वनिष्ठुरपि तद्वत्स्यात्प्राप्तिः प्रासनतो यदि। इडासंस्कार एवायं भक्षो विक्रियते ततः।। 7।। पशावेव श्रूयते ''वनिष्ठुमग्नीधे'' इति। अध्यूध्नीवद्वनिष्ठुरपि हृदयादिव्यतिरिक्तमङ्गम्। ततः- संशयपूर्वोत्तरपक्षास्तद्वद्योज्याः। अधिका शङ्का त्वेषा- 'इडापात्रे हृदयादिप्रासनवाक्ये वनिष्टुरपि पठितः। ततः पक्षे प्राप्त एव नियम्यते' इति। उपस्तरणादिवत्प्रासनमिडायाः संस्कार एव। न त्वेतावता वनिष्ठोर्भक्षत्वप्राप्तिरित्यप्राप्तविधेः पूर्ववद्विकारः- इत्युक्तशङ्कायामुत्तरम्।। 7।।  षष्ठे- मैत्रावरुणस्यापि शेषभक्षास्तित्वाधिकरणे सूत्रे- 18- 19   अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम्।। 18।।  स्याद्वा होत्रध्वर्युविकारत्वात्तयोः कर्मामिसंबन्धात्।। 19।। षष्ठाधिकरणमारचयति- मैत्रावरुणनाम्नोऽत्र भक्षो नास्त्यस्ति वा नहि। अप्राकृतत्वादध्वर्युहोत्रन्तर्भावतोऽस्ति सः।। 8।। अत्र पशौ मैत्रावरुणनाम्न इडाभक्षो नास्ति। कुतः- प्रकृतौ मैत्रावरुणस्यानाम्नानेन चोदकप्राप्त्यभावात्। मैवम्। 'मैत्रावरुणः प्रेष्यति चान्वाह' इति प्रैषानुवचने तस्य विधीयेते। तत्र प्रैषकार्येणाध्वर्यावन्तर्भावः। अनुवचनकार्येण च होतरि। तस्मात्- अस्ति भक्षः।। 8।।  सप्तमे- मैत्रावरुणस्यैकभागताधिकरणे सूत्रे 20-21   द्विभागः स्याद्द्विकर्मत्वात्।। 20।।  एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात्।। 21।। सप्तमाधिकरणमारचयति- द्विभाग एकभागो वा द्विभागः स्याद्द्विकर्मतः। एकः पुमैक्यतो नो चेद्वैषम्यं प्रकृतावपि।। 9।। स मैत्रावरुणः कर्मोपाधिना द्विभागः। इति चेत्- न। पुरुषैक्योपाधिना भागस्याप्येकत्वं स्यात्। अन्यथा प्रकृतावपि कर्मतारतम्यानुसारेण भागतारतम्यं प्रसज्येत।। 9।।  अष्टमे- प्रतिप्रस्थातुर्भक्षाभावाधिकरणेः सूत्रे 22-23   प्रतिप्रस्थातुश्च वपाश्रपणात्।। 22।।  अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात्।। 23।। अष्टमाधिकरणमारचयति- प्रतिप्रस्थातुरत्रास्ति भक्षो नो वा वपामसौ। पचत्यतोऽस्ति नो पक्वा वपा सर्वा हुता यतः।। 10।। अत्र पशौ प्रतिप्रस्थातुरिडाभक्षोऽस्ति। कुतः- अध्वर्युकर्मणो वपापाकस्य तेन कृतत्वात्। मैवम्। भक्षयितुं वपाशेषस्याभावात्।। 10।।  नवमे- गृहमेधीयकेऽपूर्वाज्यभागविधानादिकरणे सूत्राणि 24-33   विकृतौ प्राकृतस्य विधेग्रर्हणात्पुनः श्रुतिरनर्थिका स्यात्।। 24।।  अपि वाग्नेयवद्विशब्दत्वं स्यात्।। 25।।  न वा शब्दपृथक्त्वात्।। 26।।  अधिकं वाऽर्यवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्ये स्यादपूर्वत्वात्।। 27।।  प्रतिषेधः स्यादिति चेत्।। 28।।  नाश्रुतत्वात्।। 29।।  अग्रहणादिति चेत्।। 30।।  न तुल्यत्वात्।। 31।।  तथा तद्ग्रहणे स्यात्।। 32।।  अपूर्वतां तु दर्शयेद्ग्रहणस्यार्थवत्त्वात्।। 33।। नवमाधिकरणमारचयति- गृहमेधीयके त्वाज्यभागावित्यनुवादगीः। स चोदकविधिर्वाऽर्थवादो वाऽधिककर्म वा।। 11।। परिसंख्योत संकोचश्चोदकान्यत्र वाऽत्र वा। अपूर्वो गृहमेधीयः स्याद्वाऽतो लुप्तचोदकम्।। 12।। अनुवादः पुनः श्रुत्या द्वितीयः सार्थतावशात्। निर्वापवच्चोदकस्य लिङ्गत्वेन सहायकृत्।। 13।। ओदनेनैव तत्सिद्धेरैष्टिकस्य प्रशंसनम्। विध्येकवाक्यता नास्ति तेनात्राङ्गान्तरे विधिः।। 14।। प्रत्यभिज्ञानतोऽङ्गस्य परिसंख्येतरस्य हि। चोदकस्य च संकोच इतराङ्गनिषेधतः।। 15।। व्यापारैक्याच्चोदकस्य स्वार्थसंहरणं भवेत् । वैरूप्याच्च निरर्थत्वादपूर्वं कर्म युज्यते।। 16।। आज्यभागेतिनाम्नोपकारक्लृप्तिस्मृतेरिह। नामतादि समं तस्माल्लुप्यते तेन चोदकः।। 17।। ''मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदने'' इति विहिते गृहमेधीये श्रूयते ''आज्यभागौ यजति'' इति। तत्राष्टधा संशयः- चोदकप्राप्तयोरेवाज्यभागयोरिह पुनः श्रवणादनुवादोऽयम्। इत्याद्यः पक्षः। तथा सति वैयर्थ्यप्रसङ्गात्। ततः सार्थकत्वाय चोदकैतद्वाक्ययोर्मिलितयोरत्राज्यभागविधायकत्व-मभ्युपेतव्यम्। ओषधिद्रव्यनिर्वापादयो यथा प्रकृतिगताः सन्तो विकृतावपि श्रूयमाणाश्चोदकस्य लिङ्गम्, तथाज्यभागावपि लिङ्गत्वेन सहायकृतौ ततो मिलितयोर्विधायकत्वम्। इति द्वितीयः पक्षः। गृहमेधीयविधिवाक्ये श्रुतस्यौदनस्यैवौषविद्रव्यतया लिङ्गत्वसिद्धेर्नास्ति लिङ्गान्तरापेक्षा। तस्मात्- प्रकृताविष्टौ श्रुतत्वादाज्यभागकर्मण इह पुनः श्रवणमर्थवादत्वेन तत्प्रशंसार्थम्। इति तृतीयः पक्षः। भिन्नप्रकरणे श्रुतस्य विध्येकवाक्यत्वायोगादर्थवादत्वमयुक्तम्। ततः- चोदकप्राप्तादाज्यभागादिकर्मणोऽ-धिकमाज्यभागरूपमङ्गान्तरं विधीयते। इति चतुर्थः पक्षः। ऐष्टिकयोराज्यभागयोरिह प्रत्यभिज्ञानान्नाङ्गान्तरं युक्तम्। तस्मात्- आज्यभागव्यतिरिक्तस्य प्रयाजाद्यङ्गस्य परिसंख्यानार्थमिदमाज्यभागवचनम्। इति पञ्चमः पक्षः। आज्यभागवाक्येन तद्विधिरूपः स्वार्थस्त्यजेत, प्रयाजादिरूपनिषेधोऽन्यार्थः परिगृह्येत, चोदकप्राप्तं च प्रयाजाद्यनुष्ठानं बाध्येत, इति दोषत्रयप्रसङ्गान्न परिसंख्या युक्ता। तेन प्रत्यक्षरूपादस्मादाज्यभागवाक्यादानुमानिकं चोदकवाक्यमाज्यभागव्यतिरिक्तप्रयाजाद्यङ्गेषु संकोचनीयम्। इति षष्ठः पक्षः। यदि चोदकस्य प्रत्यङ्गं पृथग्व्यापाराः स्युः, तदा प्रयाजाद्यङ्गगोचरैर्व्यापारैस्तैषामतिदेशः सिध्यति। आज्यभागगोचरस्यानेन प्रत्यक्षविधिना बाधितत्वान्न चोदकेनाज्यभागातिदेशः, इत्येवं संकोचो वर्णयितुं शक्यते। इह तु 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात्' इति न्यायेनैक एव चोदकस्य व्यापारः। तथा सति युगपदतिदेशोऽनतिदेशश्च विरुद्धधर्मः प्रसज्येत। तस्मात्- प्रयाजाद्यङ्गेषु संकोचो न युक्तः। तेन चोदकोऽत्राज्यभागकर्मणि संकोचनीयः। न च- उक्तदोषापत्तिः। अस्य संकोचस्योपसंहाररूपत्वात्। आज्यभागयोरेव शक्तश्चोदकः। तज्ज्ञानं शक्तिज्ञानमुपसंहारः। तथा सत्याज्यभागातिदेशे व्यापृतस्यचोदकस्य को नामातिदेशनिवृत्तिरूपविरुद्धधर्मप्रसङ्गः। तत्राज्यभागकर्मणि चोदकावस्थापनम्। इति सप्तमः पक्षः। ''पुरोडाशं चतुर्धा करोति'' ''आग्नेयं चतुर्धा करोति'' इत्यनयोरुभयोरपि प्रत्यक्षवचनत्वेन सरूपत्वादत्रोपसंहारः। इह तु प्रत्यक्षपरोक्षयोर्वचनचोदकयोर्विरूपत्वान्नासौ युक्तः। किंच प्रत्यक्षवचनेनैवाज्यभागविधिसिद्धेश्चोदककल्पना निरर्थिका। तस्मात्- उपसंहारो न युक्तः। तस्मात्- अपूर्वो गृहमेधीयो न चोदकेनान्याङ्गानि गृह्णाति। इति कर्तव्यताकाङ्क्षा तु प्रत्यक्षवचनेनैव पूर्यते। एवं सत्युक्तदोषत्रयाभावादष्टमः पक्षोऽभ्युपेयः। ननु सांग्रहिण्यामिष्टौ प्रत्यक्षवचनविहितैरामनहोमैः सह चोदकातिदिष्टानामनुयाजानां समुच्चयोऽङ्गीकृतः, तद्वदत्रापि विधीयमानयोराज्यभागयोश्चोदकप्राप्तप्रयाजाद्यङ्गैः सर्वैः सह समुच्चयोऽस्तु। न। वैषम्यात्। प्रकृतावाज्यभागयोरुपकारः क्लृप्तः, सोऽत्र नामसाम्येन स्मार्यते। तत्र क्लृप्तोपकारैरनुयाजाद्यङ्गैश्चोदकेन सह साऽतिदिष्टैः संपूर्यते। ततो विधिवैयर्थ्यपरिहारायामनहोमेषूपकारे क्लृप्ते सति पश्चात्प्रवर्तमानः प्रयोगवचनः समुच्चित्यानुष्ठापयति। ततो वैषम्यात्क्लृप्तोपकाराज्यभागविधायकेनानेन प्रत्यक्षवचनेन गृहमेधीये चोदको लुप्यते। तस्मात्- अविकृतिरूपं साङ्गमपूर्वं कर्मात्र विधीयते। इति राद्धान्तः।। 11।। 12।। 13।। 14।। 15।। 16।। 17।।  दशमे- गृहमेधीये स्विष्टकृदाद्यनुष्ठानाधिकरणे सूत्रम्   ततोऽपि यावदुक्तं स्यात्।। 34।। दशमाधिकरणमारचयति- तत्रान्यदङ्गं नो कार्यं कार्यं वाऽन्यानपेक्षणात्। न कार्यं विहितत्वेन कार्यं स्विष्टकृदादिकम्।। 18।। तत्र गृहमेधीय आज्यभागाभ्यामेव निराकाङ्क्षत्वादन्यत्स्विष्टकृदादिकं न कार्यम्। इति चेत्- न। आज्यभागवद्विहितत्वात्। ''अग्नये स्विष्टकृते समवद्यति'' इति, ''इडामुपह्वयते'' इति विहितम्। तस्मात् यावदुक्तं कार्यम्।। 18।।  एकादशे- गृहमेधीये प्राशित्रादिभक्षणाभावाधिकरणे सूत्राणि 35-37   स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात्।। 35।।  अप्रतिषेधो वा दर्शनादिडायां स्यात्।। 36।।  प्रतिषेधो वा विधिपूर्वस्य दर्शनात्।। 37।। एकादशाधिकरणमारचयति- तत्रैव परिसंख्यात्वे प्राशित्राद्यस्ति वा न वा। अस्तीडादर्शनान्मैवं तदुक्त्याऽत्रास्ति नेतरत्।। 19।। गृहमेधीये स्विष्टकृदाज्यभागेष्वष्टधा संशयं हृदि निधाय परिसंख्यार्थं पञ्चमं पक्षमभ्युपेत्येयं कृत्वाचिन्ता। तत्र प्राशित्रादिभक्षणं न परिसंख्यातं तदस्ति। कुतः- भक्षणार्थस्येडोपह्वानस्य तत्र दर्शनात्। इति प्राप्ते- ब्रूमः- अत्र गृहमेधीये तदिडाभक्षणं वचनबलेनास्तु। स्विष्टकृद्वाक्यप्रापितस्य परिसंख्यातस्य वचनेन निवारितत्वादितरत्प्राशित्रादिभक्षणं परिसंख्यातत्वान्नास्ति।। 19।।  द्वादशे- प्रायणीयातिथ्ययोः शंय्विडान्ततानियमाधिकरणे सूत्रे 38- 39   शंथ्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात्।। 38।।  नित्यानुवादो वा कर्मणः स्यादशब्दत्वात्।। 39।। द्वादशाधिकरणमारचयति- प्रायणीयातिथ्ययोः किं विकल्पः शंथ्विडान्तयोः। नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया।। 20।। शंथ्विडान्तत्ववाक्याच्च नियमो विधिमात्रतः। नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा।। 21।। ज्योतिष्टोमे श्रूयते ''शंय्वन्ता प्रायणीया संतिष्ठते, न पत्नीः संवाजयन्ति। इडान्ता आतिथ्याः संतिष्ठन्ते, नानुयाजान्यजति'' इति। प्रकृतौ यदा ''तच्छंयोः'' इति मन्त्रं जपति, तदानीमध्वर्युः परिधीनग्नौ प्रक्षिपति। तदाह कल्पसूत्रकारः- 'अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति' इति। ततो हविःशेषेषु भक्षितेषु पत्नीः संयाजयन्ति, इति क्रमः। तथा प्रधानयागनारिष्ठहोमप्राशित्रादिभक्षणेडाभक्षणानुयाजसूक्तवाकशंयुवाकाः, इत्यधस्तनः प्रयोगक्रमः। पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्तहोमकपालोद्वासनैरिष्टिः समाप्यते। एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः शंयुवाकान्तत्वम्, आतिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं स्यात्। कुतः- निषेधविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः। तथा हि शंय्वन्तत्वेडान्तत्वविधिनैवोपरितनपत्नीसंयाजानुयाजनिषेधे पुनर्निषेधवचनं परिसंख्यार्थम्। पत्नीसंयाजानुयाजव्यतिरिक्ते नास्ति निषेध इति परिसंख्या। तेन प्रकृतिवद्यथाप्राप्तं कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते। विधिवाक्येन च शंय्विडान्तत्वम्। तेन व्रीहियववद्विकल्पः। इति प्राप्ते- ब्रूमः- विधिमात्रस्यात्र प्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम्। पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः। ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादः सन्नर्थवादः। पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति। अन्यथा बहवो दोषाः प्रसज्येरन्। विकल्पे तावदष्टौ दोषाः प्रसिद्धाः। परिसंख्यायां च त्रयो दोषाः। विधिपरिसंख्याभ्यां वाक्यभेदोऽपरो दोषः। ततः- शंय्विडान्तत्वं नियतम्।। 20।। 21।।  त्रयोदशे- प्रायणीयातिथ्ययोः पूर्वाभ्यामेव शंय्विडाभ्यां संस्थाधिकरणे सूत्राणि 40-42   प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात्।। 40।।  प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात्।। 41।।  प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम्।। 42।। त्रयोदशाधिकरणमारचयति- तत्रैव शंय्विडे पूर्वे परे वा स्वेच्छयाऽथवा। परे एवाथवा पूर्वे एवाद्यो द्विविधश्रुतेः।। 22।। निषेधस्यार्थवत्त्वाय परे एवानुवादगीः। पर्वोक्तवाक्यतां याति पूर्वे एवाविरोधतः।। 23।। प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीते शंय्विडे पुनः संदिह्येते। प्रकृतौ द्विविधे शंय्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते। ते चात्र चोदकप्राप्ते, द्विविधश्रुतेः। अर्थे चोदकादतिदिष्टे सति विशेषनियामकाभावादिच्छया स्वीकार्ये। इत्येकः पक्षः। यदि प्रायणीया पूर्वशंय्वन्ता, आतिथ्या च पूर्वेडान्ता, तदानीमन्तत्वविधिनैव ताभ्यां शंय्विडाभ्यामूर्ध्वमप्राप्तानां पत्नीसंयाजानामनुयाजानां च वारितत्वान्निषेधो व्यर्थः स्यात्। परयोरन्तत्वे ताभ्यां शंय्विडाभ्यां प्राप्तानां तेषामनिवारणात्तन्निवारणाय सार्थको निषेधः। तस्मात्- परे एव शंय्विडे ग्राह्ये। इति द्वितीयः पक्षः। निषेधोऽयं नित्यानुवादः- इत्युक्तम्। स च पूर्वयोः शंय्विडयोरन्तत्वेऽप्येकवाक्यतामापाद्या-र्थवादत्वेनोपपद्यते। संजातविरोधिन्यौ हि पूर्वे शंय्विडे। तस्मात्- ते एव ग्राह्ये। इति राद्धान्तः।। 22।। 23।।  चतुर्दशे- उपसदामपूर्वार्थत्वाधिकरणे सूत्राणि 43-46   उपसत्सु यावदुक्तमकर्म स्यात्।। 43।।  स्रौवेण वा गुणत्वाच्छेषप्रतिषेधः स्यात्।। 44।।  अप्रतिषिद्धं वा प्रतिषिध्य प्रतिप्रसवात्।। 45।।  अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात्।। 46।। चतुर्दशाधिकरणमारचयति- उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं किमाचरेत्। यावदुक्तमुताद्योऽस्तु चोदकस्यानिवारणात्।। 24।। स्रौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया । अपूर्वार्थत्वतो वाऽन्त्योऽनुवादोऽत्र निषेधगीः।। 25।। ज्योतिष्टोमे (''षडुपसद उपसद्यन्ते'' इति) विहितासूपसत्सु पठ्यते ''अप्रयाजास्ता अननुयाजाः'' इति। तत्र निषेधात्प्रयाजानुयाजान्वर्जयित्वाऽवशिष्टं चोदकप्राप्तमङ्गजातं सर्वमाचरणीयम्। इति प्राप्ते- ब्रूमः- प्रकृतौ विहित एवाघारः पुनरिह विधीयते। स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे। अन्यथा पुनर्विधानवैयर्थ्यात्। ननु पुनर्विधानं प्रतिप्रसवार्थम्। अत एव श्रुतिस्तत्र स्रौवाघारमभावशङ्कानिराकरणपूर्वकं विदधाति ''नान्यामाहुतिं पुरस्ताज्जुहुयात्, यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्, स्रुवेणाघारमाघारयति'' इति। अयमर्थः- 'स्रौवाघारः सर्वत्र यज्ञमुखम्। तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ स्रौवाघारमहुत्वा तस्य स्थाने कांचिदन्यामाहुतिं जुहुयात्, तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात्। स्रौव एवाघर आदौ कर्तव्यः' इति। नैतद्युक्तम्। चोदकप्राप्तस्याघारस्य कारणमन्तरेणाकस्मादभावशङ्काया अयुक्तत्वात्। तस्मात्- परिसंख्यार्थ एव पुनर्विधिः। आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः। यदि 'परिसंख्या त्रिदोषा' इत्युच्येत, तर्हि गृहमेधीयवदपूर्वं कर्मास्तु। प्रयाजादिनिषेधो नित्यानुवादः। सर्वथा यावदुक्तमत्रानुष्ठेयम्।। 24।। 25।।  पञ्चदशे- अवभृथेऽपूर्वकर्मताधिकरणे सूत्राणि 47-50   अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात्।। 47।।  आज्यभागयोर्वागुणत्वाच्छेषप्रतिषेधः स्यात्।। 48।।  प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वम्, तस्मान्नित्यानुवादः स्यात्।। 49।।  आज्यभागयोर्ग्रहणं नित्यानुवादो गृहमेधीयवत्स्यात्।। 50।। पञ्चदशाधिकरणमारचयति- किं स्यादवभृथे बर्हिर्वर्जं सर्वमुताचरेत्। यावदुक्तं प्रयाजानुयाजबर्हिर्निषेधतः।। 26।। आद्योऽप्सुमन्तावित्याज्यभागोक्त्या परिसंख्यया। अन्येनात्र गुणाप्राप्तेरपूर्वत्वेन वाऽन्तिमः।। 27।। ज्योतिष्टोमगतेऽवभृथे चतुर्थप्रयाजप्रथमानुयाजरूपौ बर्हिर्यागौ वर्जयित्वा शिष्टं चोदकप्राप्तं सर्वमनुष्ठेयम्। कुतः- ''अपबर्हिषः प्रयाजान्यजति, अपबर्हिषावनुयाजौ यजति'' इति बर्हिर्यागद्वयमात्रवर्जनावगमात्। इति प्राप्ते- ब्रूमः- ''अप्सुमन्तावाज्यभागौ यजति'' इति परिसंख्यानादुक्तमेवानुष्ठेयम्। अथोच्येत-चोदकप्राप्तावाज्यभागावनूद्याप्सु शब्दोपेतमन्त्रद्वयरूपस्य गुणस्यात्र विधानान्न परिसंख्या- इति। मैवम्। लिङ्गक्रमाभ्यामेव मन्त्रयोः प्राप्तत्वात्। अतः परिसंख्यया गृहमेधीयवदुपसद्वदपूर्वकर्मत्वेन वा यावदुक्तमेवानुष्ठेयम्।। 26।। 27।।  षोडशे- वाजपेयादौ यूपादीनां खादिरत्वादिनियमाधिकरणे सूत्राणि 51-57   विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात्।। 51।।  उभयप्रदेशान्नेति चेत्।। 52।।  शरेष्वपीति चेत्।। 53।।  विरोध्यग्रहणात्तथा शरेष्विति चेत्।। 54।।  तथेतरस्मिन्।। 55।।  श्रुत्यानर्थक्यमिति चेत्।। 56।।  ग्रहणस्यार्थवत्त्वादुभयोरप्रतिपत्तिः स्यात्।। 57।। षोडशाधिकरणमारचयति- बृहद्यवः खादिरश्च विकल्प्या नियता उत। विकल्प्याश्चोदकप्राप्तेर्नियताः स्युः पुनर्विधेः।। 28।। क्वचिद्विकृतौ श्रूयते ''बृहत्पृष्ठं भवति'' इति। त्रैधातवीये श्रूयते ''यवमयोमध्यमः'' इति। वाजपेये श्रूयते ''खादिरो यूपो भवति'' इति। तत्र बृहद्रथंतरयोः, व्रीहिवयवयोः, खादिरबैल्वादीनां च प्रकृतौ विकल्पितत्वादत्रापि चोदकेन विकल्पिताः। इति चेत्- न। पुनर्विधानवैयर्थ्यात्। परिसंख्या तु दुष्टत्वान्न शङ्क्या। तस्मात्- नियताः। कोट्यन्तरं त्वर्थान्निवर्तते।। 28।।  सप्तदशे- काम्येष्टिषु प्राकृतद्रव्यदैवतस्य निवृत्त्यधिकरणे सूत्राणि 58-60   सर्वासां च गुणानामर्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात्।। 58।।  अधिकं स्यादिति चेत्।। 59।।  नार्थाभावात्।। 60।। सप्तदशाधिकरणमारचयति- काम्येष्टिषु द्रव्यदेवं प्राकृतं न निवर्तते। निवर्तते वा न प्राप्तेर्विकल्पो वा समुच्चयः।। 29।। उत्पत्तिशिष्टेनैवात्र निराकाङ्क्षत्वतः कुतः। चोदकः शिष्ट एवास्य विषयोऽर्थोन्निवर्तते।। 30।। ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादिषु प्राकृतयोरग्निदेवताष्टाकपालद्रव्ययोर्नास्ति निवृत्तिः। कुतः- चोदकेन प्राप्तत्वात्। श्रुतयोरतिदिष्टयोश्च द्रव्यदेवतायोर्विकल्पः समुच्चयो वा स्वेच्छया कार्यः। इति प्राप्ते- ब्रूमः- उत्पन्नस्य यागस्येतिकर्तव्यताकाङ्क्षायां पश्चाच्चोदकस्यावसरः। इह तूत्पत्तिशिष्टाभ्यां द्रव्यदेवताभ्यां यागस्य तद्विषयाकाङ्क्षानिवृत्तेर्न तत्र चोदकस्यावकाशोऽस्ति। ननु सकृद्व्यापृतश्चोदकः क्वचित्प्रवर्तते, क्वचिन्निवर्तते, इत्येतन्न संभवति- इति चेत्- मा भूत्तत्संभवः। न वयं तन्निवृत्तिं ब्रूमः, किंतु श्रुताभ्यां द्रव्यदेवताभ्यामन्य एवाङ्गकलापश्चोदकस्य विषयः। ततः प्राकृतयोर्द्रव्यदेवतयोरप्राप्तत्वादेव फलतो निवृत्तिं ब्रूमः। तस्मात्- दूरापेतौ विकल्पसमुच्चयौ।। 29।। 30।।  अष्टादशे- सौमापौष्णपशौ खादिरयूपस्य नियमाधिकरणे सूत्राणि 61-63   तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः, प्रवृत्तौ हि विकल्पः स्यात्।। 61।।  यावच्छ्रुतीति चेत्।। 62।।  न प्रकृतावशब्दत्वात्।। 63।। अष्टादशाधिकरणमारचयति- औदुम्बरः खादिरेण समुच्चेयोऽथ बाधकः। द्वयोर्नियोजनादाद्यो निरपेक्षत्वतोऽन्तिमः।। 31।। पशुकामेनानुष्ठेये सौमापौष्णे पशौ श्रूयते ''औदुम्बरो यूपो भवति'' इति। तत्र चोदकप्राप्तेन खादिरेण सह श्रूयमाणस्यौदुम्बरस्य समुच्चयः कार्यः। कुतः- द्वयोर्यूपयोः पशुनियोजनसंभवेन चोदकपरित्यागायोगात्। इति प्राप्ते- ब्रूमः- खादिरौदुम्बरौ परस्परनिरपेक्षतया पशुनियोजनक्षमौ प्रमाणद्वयबलेन प्राप्तौ। तयोः समुच्चयाङ्गीकारे नैरपेक्ष्यं परित्यज्येत। तस्मात्- उपदिष्ट औदुम्बरोऽतिदिष्टस्य बाधकः।। 31।।  एकोनविंशे- ब्रह्मवर्चसकामैर्व्रीहिभिरेव यागाधिकरणे सूत्राणि 64-71   विकृतौ त्वनियमः स्यात्पृषदाज्यवद्ग्रहणस्य गुणार्थत्वात्, उभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात्।। 64।।  ऐकार्थ्याद्वा नियम्येत श्रुतितो विशिष्टत्वात्।। 65।।  विरोधित्वाच्च लोकवत्।। 66।।  क्रतोश्च तद्गुणत्वात्।। 67।।  विरोधिनां च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात्।। 68।।  पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम्।। 69।।  यद्यपि चतुरवत्तीति तु नियमे नोपपद्यते।। 70।।  ऋत्वन्तरे वा तन्न्यायत्वात्कर्मभेदात्।। 71।। एकोनविंशाधिकरणमारचयति- किं शुक्ला व्रीहयः पक्षे चोदकप्रापितान्यवान्। न बाधन्तेऽथ बाधन्ते गुणार्थोक्तिरतोऽग्रिमः।। 32।। वाक्यभेदो यागशुक्लगुणयोर्विधितो भवेत्। विशिष्टस्य विधौ कार्यमेकं वा बाधकास्ततः।। 33।। ''सौमारौद्रं चरुं निर्वपेच्छ्रुक्लानां व्रीहीणां ब्रह्मवर्चसकामः'' इत्यत्र चोदकप्राप्तो व्रीहियवविकल्पो न बाध्यः। कुतः- प्रत्यक्षस्य व्रीहिवाक्यस्यातिदिष्टपाक्षिकव्रीह्यनुवादेन शुक्लगुणविधानार्थत्वे सति बाधमन्तरेणोपपन्नत्वात्। इति प्राप्ते- ब्रूमः- यागस्तावदप्राप्तत्वाद्विधेयः। तत्र गुणोऽपि यदि पृथग्विधीयते तदा वाक्यं भिद्येत। ततः शुक्लव्रीहिद्रव्यविशिष्टो यागोऽत्र विधीयते। तथा सत्यतिदिष्टव्रीहियवयोर्यत्कार्यं तदेवोपदिश्यमानशुक्लव्रीहीणां कार्यम्। ततस्ते व्रीहयः पाक्षिकान्यवान्बाधन्ते।। 32।। 33।।  विंशे- पञ्चावदानतायाः सर्वाङ्गसाधारणताधिकरणे सूत्रे 72-73   यथाश्रुतीति चेत्।। 72।।  न चोदनैकत्वात्।। 73।। विंशाधिकरणमारचयति- वपायामेव किंवाऽन्येष्वपि पञ्चावदानता। वपोद्देशादाद्यपक्षोऽवदानोद्देशतोऽन्तिमः।। 34।। पशौ श्रूयते ''यद्यपि चतुरवत्ती यजमानः, पञ्चावत्तैव वपा कार्या'' इति। यजमानविशेषस्य चतुरवत्तित्वं गोत्रभेदेन स्मृतिकारैः पठ्यते- जामदग्न्या वत्सबिदा वार्ष्टिषेणाश्च ते त्रयः। पञ्चावत्तिन एवान्ये सर्वे चतुरवत्तिनः।। इति। सर्वेषां यजमानानां गोत्रविशेषमपोद्य श्रूयमाणमिदं पञ्चावत्तित्वं वपामुद्दिश्य विधानाद्वपायामेव। इति प्राप्ते- ब्रूमः- अवदानस्य चोदकप्राप्तत्वेन विधेयत्वाभावादवदानमुद्दिश्य विधीयमाना संख्याऽवदानयुक्तेष्वन्येष्वपि पश्ववयवेषु भवति। इति राद्धान्तः।। 34।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे दशमाध्यायस्य सप्तमः पादः ।। 7।। अत्र पादे- अधिकरणानि 20, सूत्राणि 73। आदितः- अधिकरणानि 756, सूत्राणि 2159। दशमाध्यायस्याष्टमः पादः ''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो नञर्थविचारः। एकादशोध्याये प्रथमः पादः तन्त्रस्योपोद्घातो वर्णितः।  प्रथमे- प्रदेशानारभ्यविधानयोर्निषेधस्य पर्युदासताधिकरणे सूत्राणि 1-4   प्रतिषेधः प्रदेशेऽनारभ्यविधाने च, प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यात्।। 1।।  अर्थप्राप्तवदिति चेत्।। 2।।  न तुल्यहेतुत्वादुभयं शब्दलक्षणम्।। 3।।  अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्।। 4।। अष्टमपादस्य प्रथमाधिकरणमारचयति- नार्षेयं न च होतारं नानुयाजेष्वितीदृशे। विकल्पः पर्युदासो वा स्यादाद्यो वचनद्वयात्।। 1।। अन्याय्यत्वाद्विकल्पस्य विध्यंशः सा निषेधगीः। तेनानुयाजवाक्यस्थस्तदर्थं पर्युदस्यति।। 2।। महापितृयज्ञे चोदकप्राप्तं वरणं प्रति श्रूयते ''नार्षेयं वृणीते, न होतारम्'' इति। तथाऽनारभ्यवादः श्रूयते ''आश्रावयेति चतुरक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, द्व्यक्षरो वषट्कारः, एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः'' इति। तत्रोक्तम्- ''नानुयाजेषु ये यजामहं करोति'' इति। तत्र वरणस्य विधिप्रतिषेधौ चोदकप्रत्यक्षवचनाभ्यां प्रतीयेते। 'ये यजामहे' इति मन्त्रस्य तु द्वाभ्यां प्रत्यक्षवचनाभ्यां विधिप्रतिषेधप्रतीतिः। तत्र विधायकप्रतिषेधकयोर्द्वयोः प्रमाणयोरवैयर्थ्यार्थं विकल्पः। इति प्राप्ते- ब्रूमः- अष्टदोषग्रस्तत्वाद्विकल्पो न न्याय्यः। ननु परस्परविरुद्धयोर्विधिप्रतिषेधयोः समुच्चयस्याप्यभावात्का गतिरत्र- इति चेत्- उच्यते। निषेधत्वेन प्रतीयमानमिदं 'न' इत्यनेन शब्देनोपेतं वाक्यं विधिवाक्यस्यांशो भविष्यति। तथा हि- यदि 'न' इत्ययं शब्दः करोतिना संबध्यते, तदा 'ये यजामहं न करोति' इत्येवं प्रतिषेधः स्यात्। यदि च 'वृणीते' इत्याख्यातप्रत्ययेन संबध्यते, तदा 'वरणं न कर्तव्यम्' इति निषिध्येत। न त्वेवं संबध्यते, किंत्वनुयाजपदेन वृञ्धातुना च संबध्यते। तथा सति- 'अनुयाजव्यतिरिक्तेषु यागेषु ये यजामहः कर्तव्यः' 'वरणव्यतिरिक्तमङ्गजातमनुष्ठेयम्' इति ये यजामहवरणपर्युदासेन विधेरेव विशेषितत्वे सति प्रतिषेधवाक्यस्य कस्यचिदभावान्न विकल्पः शङ्कितुमपि शक्यः।। 1।। 2।।  द्वितीये- निषेधस्यार्थवादताधिकरणे सूत्रम्   अपूर्वे चार्थवादः स्यात्।। 5।। द्वितीयाधिकरणमारचयति- न सोमेऽध्वर इत्युक्तौ निषेधः पर्युदस्यते। उतार्थवादो वाद्यः स्यादसमस्तपदोक्तितः।। 3।। सोमे प्रसक्तिरङ्गेष्टावविकल्पाय मध्यमः। नैवास्त्यत्र समासस्य नियमः पाणिनेर्मते।। 4।। पुरैतस्मात्सोमयाग आज्यभागाप्रसक्तितः। न पर्युदासः किंत्वर्थवादो दृष्टान्तवर्णनात्।। 5।। दर्शपूर्णमासयोराज्यभागौ प्रकृत्य तौ ''न तौ पशौ करोति'' इति निषिध्य पश्चात् ''न सोमेऽध्वरे'' इत्येवमाम्नायते। तत्र- अयं प्रतिषेधः स्यात्। कुतः- नशब्दस्य सोमशब्देन सह समस्तत्वाभावात्। 'अब्राह्मणमाकारयति, अधर्मं करोति' इत्यादिषु पर्युदासप्रदेशेषु समस्तत्वदर्शनात्। व्यस्तोऽयं नकारः क्रियापदेनान्वित आज्यभागानुष्ठानं प्रतिषेधति। ननु- पशोरिष्टिविकृतित्वेन चोदक आज्यभागौ प्रसञ्जयति। सोमस्य त्वविकृतित्वान्नास्ति तत्प्रसक्तिरिति चेत्- बाढम्। तथाऽपि सोमाङ्गभूतास्तु दीक्षाणीयादिष्विष्ठिषु या प्रसक्तिः सैवाङ्गिनि सोमे प्रसक्तिर्भविष्यति। तस्मात्- प्रतिषेधः। इत्याद्यः पक्षः। चोदकप्रतिषेधाभ्यां 'दीक्षणीयादावाज्यभागौ वा कुर्यात्' इत्येवं विकल्पः स्यात्। स चाष्टदोषग्रस्तः। अतः पूर्वाधिकरण इव पर्युदासोऽस्तु। तत्र कात्यायनमतेन समासनियमेऽपि पाणिनेर्मतेऽनियमः। तस्मात्- सोमव्यतिरिक्ते कर्मण्याज्यभागौ कर्तव्यौ। इति मध्यमः पक्षः। यथा वरणेषु तद्व्यतिरिक्ताङ्गेषु च चोदकेन प्रसक्तिसाधारण्ये सति वरणपर्युदासेनाङ्गान्तरविषये चोदको व्यवस्थाप्यते, तथाऽत्रापि पर्युदासवादिना पर्युदासात्पुरा पर्युदसनीये सोमे, इतरत्र च साधारण्येनाज्यभागप्रसक्तिर्वाच्या। सा किम्- उपदेशात्स्यात्, अतिदेशाद्वा। न प्रथमः। प्रकरणेन दर्शपूर्णमासयोरवरुद्धस्याज्यभागोपदेशस्य सोमे प्रसञ्जकत्वाभावात्। न द्वितीयः। अन्योन्याश्रयत्वप्रसङ्गात्। उपदेशवाक्यार्थे पर्युदासादिना निर्णीते सति पश्चाच्चोदकेन प्रसक्तिः। सत्यां च प्रसक्तौ पश्चात्पर्युदासनिर्णयः। तस्मात् न पर्युदासः। का तर्हि 'न सोमेऽध्वरे' इति वाक्यस्य गतिः। उच्यते- 'न पशौ करोति' इत्यस्य निषेधस्य शेषः सन्दृष्टान्तो वर्ण्यते- 'यथा न तौ सोमेऽध्वरे करोति, तथा तौ न पशौ कुर्यात्' इति। ततः- अर्थवादः। इति राद्धान्तः।। 3।। 4।। 5।।  तृतीये- अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणे सूत्रम्   शिष्ट्वा तु प्रतिषेधः स्यात्।। 6।। तृतीयाधिकरणमारचयति- नातिरात्रे पर्युदासो वादो वाऽथ निषेधनम्। आद्योऽनुयाजवन्मैवं विध्येकविषयत्वतः।। 6।। अत एवार्थवादोऽपि न युक्तः पशुसोमवत्। निषेधः स्याद्विकल्पोऽत्र व्रीह्यादाविव युज्यते।। 7।। ज्योतिष्टोमस्य संस्थाविशेषे श्रूयते ''अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति'' इति। तत्र यथा- अनुयाजेषु 'ये यजामहे' इति विधिनिषेधयोः समावेशः पर्युदासः, एवमत्रापि। इति चेत्- मैवम्। एकविषयत्वेन व्याहतिप्रसङ्गात्। 'अतिरात्रव्यतिरिक्तेऽतिरात्रे' इत्युक्ते कथं न व्याहन्येत। दृष्टान्ते विधिः सर्वविषयः, निषेधोऽनुयाजमात्रविषयः, इत्यनुयाजपर्युदासेऽपि न विधेर्निर्विषयत्वम्। तर्हि 'न पशौ करोति' इत्यत्र 'न सोमे' इतिवदर्थवादोऽस्तु। इति चेत्- न। स्तुत्यस्तावकयोर्विधिनिषेधयोरेकविषयत्वेन व्याहतितादवस्थ्यात्। ''अपशवोऽन्ये गोअश्वेभ्यः'' इत्यत्र पश्वन्तरनिषेधेन गोअश्वविधेः स्तुतिर्दृष्टा। इह तु षोडशिनिषेधेन षोडशिन एव स्तुतौ स्पष्टो व्याघातः। तस्मात्- प्रतिषेधः- इति तृतीयः पक्षोऽस्तु। न च- अत्रापि व्याघातः शङ्क्यः। अनुष्ठानविकल्पाङ्गीकारेण भिन्नप्रयोगविषयत्वात्। सत्स्वप्यष्टसु दोषेषु गत्यन्तराभावाद्व्रीहियववद्विकल्पोऽभ्युपेयः। तस्मात्- प्रतिषेधः। इति राद्धान्तः।। 6।। 7।।  चतुर्थे- जर्तिलोक्तौ निषेधस्यार्थवादताधिकरणे सूत्रम्   न चेदन्यं प्रकल्पयेत्प्रक्लृप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च।। 7।। चतुर्थाधिकरणमारचयति- जर्तिलोक्तौ चतुर्धा किं विकल्पोऽथ पयःस्तुतिः। विकल्पः पूर्ववन्मैवं वाक्यैक्यात्पयसा सह।। 8।। अग्निहोत्रे श्रूयते ''जर्तिलयवाग्वा जुहुयात्, गवीधुकयवाग्वा जुहुयात्, न ग्राम्यान्पशून्हिनस्ति, नारण्यान्। अथो खल्वाहुः- अनाहुतिर्वै जर्तिला गवीधुकाश्च। पयसाऽग्निहोत्रं जुहुयात्'' इति। जर्तिला आरण्यास्तिलाः। गवीधुका आरण्या गोधूमाः। तयोरुभयोर्विकल्पः श्रौत एव। 'अनाहुतिः' इति पूर्वयोः पक्षयोर्दूषितत्वात्- होमाभावस्तृतीयः पक्षः। न च- अत्र 'जर्तिलगवीधुकयोरनाहुतिः' इत्येतेन पर्युदासः संभवति। आहुतिपदान्वितस्य नञ्पदस्य जर्तिलगवीधुकपदान्वयायोगात्। पयोविधिश्चतुर्थः पक्षः। एतेषां परस्परविरुद्धानां चतुर्णां गत्यन्तराभावात्षोडशिग्रहणाग्रहणवद्विकल्पः। इति प्राप्ते- ब्रूमः- पयोविधिना सह जर्तिलादेरेकवाक्यत्वेनार्थवादत्वं युक्तम्। ग्राम्याररण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयोरग्निहोत्रं प्रत्याहुतित्वं नास्ति। पयसस्तु तदस्ति। ''इत्थं महाभागं पयः'' इति स्तूयते। तस्मात्- अर्थवादः।। 8।।  पञ्चमे- त्रैयम्बकादावभिघारणानभिघारणादीनामर्थवादताधिकरणे सूत्रम्   पूर्वैश्च तुल्यकालत्वात्।। 8।। पञ्चमाधिकरणमारचयति-- अभिघारनिषेधौ च होमाहोमौ विकल्पितौ। विधास्यमानशेषौ वा विकल्पः श्रुतिसाम्यतः।। 9।। निषेधस्य विधेश्चात्र मीमांस्यत्वेन वर्णनात्। समीमांसावुभावर्थवादोऽस्त्वर्थे विधित्सिते।। 10।। चातुर्मास्येषु त्र्यम्बकमन्त्रसंयोगेन त्र्यम्बकनामका एककपालाः पुरोडाशा बहवो विहिताः। तान्प्रकृत्य श्रूयते ''अभिघार्या अनभिघार्या इति मीमांसान्ते ब्रह्मवादिनः'' इत्यादि। आधाने श्रूयते ''हेतव्यमग्निहोत्रं, न वा, इति मीमांसन्ते ब्रह्मवादिनः'' इत्यादि। अस्मिन्नुदाहरणद्वये नञ्श्रुतिर्विचारार्था। अनयोरुदाहरणयोर्विधिनिषेधौ वाचकशब्दाभ्यां श्रूयमाणत्वात्समानबलौ। ततः षोडशिग्रहणाग्रहणवद्विकल्पः। न च- जर्तिलवद्विधास्यमानस्तुत्यर्थत्वं शङ्क्यम्। दृष्टान्तस्य विषमत्वात्। दृष्टान्ते तावज्जर्तिलादेरन्यदेव विधास्यमानं पयः। तस्य स्तुतिर्युक्ता। इह तूपक्रमे विहितवेवाभिघारणहोमौ मीमांस्यन्तौ (संमीमांस्यान्ते) पुनर्विधीयेते। ''अभिधार्या एव'' ''तूष्णीमेव होतव्यम्'' इति वाक्यशेषयोः पठ्यमानत्वात्। न च तेनैव तस्य स्तुतिः संभवति। पुनर्विधानं त्वनुवादत्वेन गुणार्थत्वेन चोपपद्यते। निषेधस्य स्तावकत्वं दूरापेतम्। नहि तस्यैव निषेधेन तदेव स्तोतुं शक्यते। तस्मात्- विधिनिषेधौ विकल्पार्थौ। इति प्राप्ते- ब्रूमः- इतिशब्देन मीमांसाप्रकारवाचिना विधिनिषेधयोर्मीमांस्यत्वं प्रतीयते। ततो विधिनिषेधविशिष्टा मीमांसा विधित्सितार्थस्तुत्यै। 'इत्थं महाभागो विधित्सितोऽर्थो यन्मीमांसया निर्णेतव्यः' इति स्तूयते। तस्मात्- एकवाक्यत्वादर्थवादः।। 9।। 10।।  षष्ठे- आधान उपवादस्य विकल्पताधिकरणे सूत्राणि 9-11   उपवादश्च तद्वत्।। 9।।  प्रतिषेधादकर्मेति चेत्।। 10।।  न शब्दपूर्वत्वात्।। 11।। षष्ठाधिकरणमारचयति- उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः। विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः।। 11।। विध्यनन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति। विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः।। 12।। आधाने वामदेव्यादिसाम्नां गानानि विहितानि। आधान एवेदमपरमाम्नायते ''उपवीता वा एतस्याग्नयो भवन्ति, यस्याग्न्याधेये ब्रह्मा सामानि गायति'' इति। उपशब्दः सामीप्यं ब्रूते। वीता विगताः कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः। अनया निन्दया ब्रह्मणः सामगाननिषेध उन्नीयते। स निषेध उद्गातुर्विहितं वामदेव्यादिसामगानं स्तौति। ननु ब्रह्मणः सामगानमप्रसक्तम्। ततस्तन्निषेधोऽत्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः। न हि वन्ध्यापुत्रो वा तद्वधो वा संभावयितुं शक्यते। तथा सति तादृशेन निषेधेन कथं स्तुतिः- इति चेत्- 'वपोत्खेदवत्' इति ब्रूमः। ''स आत्मनो वपामुदखिदत्'' इत्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः स्तूयते, तद्वत्। इति प्राप्ते- ब्रूमः- नेदं वामदेव्यादिसामविधीनां स्तोत्रं भवितुमर्हति। विधीनामनेकत्वेन स्वस्वसंनिधिपठितैरर्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात्। का तर्ह्यस्य वाक्यस्य गतिः- इति चेत्- उच्यते। ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते। यस्य च गानं प्रसक्तं, तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातुर्गानं विकल्प्यते।। 11।। 12।।  सप्तमे- दीक्षितदाननिषेधस्य पर्युदासताधिकरणे सूत्राणि 12-15   दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात्।। 12।।  अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात्।। 13।।  तस्य वाऽप्यानुमानिकमविशेषात्।। 14।।  अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्, प्रतिषेधे विकल्पः स्यात्।। 15।। सप्तमाधिकरणमारचयति- दीक्षितो न ददातीति प्राप्तं सर्वं निषिध्यते। अतिदिष्टपुमर्थे वा पुमर्थं वोक्तितोऽग्रिमः।। 13।। उपदेशार्थवत्त्वाय मध्यमोऽन्त्यस्तु संनिधेः। एकवाक्यत्वलोभश्चेत्पुमर्थं पर्युदस्यताम्।। 14।। ज्योतिष्टोमे श्रूयते ''दीक्षितो न ददाति, न जुहोति, न पचति'' इति। तत्र यद्दानादिकं पुरुषार्थं, यच्च क्रत्वर्थम्, तत्राप्युपदिष्टमतिदिष्टं च, तत्सर्वं प्रतिषिध्यते। कुतः- 'न ददाति' इत्यादिवचनस्य सामान्यरूपत्वात्। इत्याद्यः पक्षः। उपदिष्टस्यापि प्रतिषेधे सत्युपदेशो व्यर्थः स्यादिति ततोऽतिदिष्टं, पुरुषार्थं च, इत्युभयमेव प्रतिषिध्यते। क्रत्वर्थत्वेनोपदिष्टं दानादिकमनुष्ठेयम्। इति मध्यमः पक्षः। नित्याग्निहोत्रदानादिकं पुरुषार्थत्वेन यत्प्रत्यक्षश्रुतावुपदिष्टं ज्योतिष्टोमकालेऽपि प्राप्तम्, यच्चातिदिष्टं दानादिकं, तयोरुभयोर्मध्ये प्रत्यक्षोपदिष्टनिषेधस्योपदिष्टमेव संनिहितमिति पुमर्थस्यैवात्र निषेधः। न च नित्याग्निहोत्रदानादौ विधिनिषेधयोः प्रवृत्त्या विकल्पः शङ्क्यः। भिन्नविषयत्वात्। क्रत्वर्थो निषेधः क्रतुकाले तदनुष्ठानं निवारयति। पुरुषार्थस्तु विधिः कालान्तरे तदनुष्ठापयति। तस्मात्- पुमर्थस्य निषेधः। यदि प्रतिषेधपक्षे वाक्यभेदः शङ्क्येत, तर्हि पुमर्थदानादिव्यतिरिक्तं क्रतुकालेऽनुष्ठेयमिति पर्युदासोऽस्तु।। 13।। 14।।  अष्टमे- वर्त्महोमादिभिराहवनीयस्य बाधाधिकरणे सूत्रम्   अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्संदिग्धमाराद्विशेषशिष्टं स्यात्।। 16।। अष्टमाधिकरणमारचयति- विकल्पितो बाध्यते वाहवनीयः पदादिभिः। सामान्यस्य विशेषेण प्रत्यक्षोक्तित्वसाम्यतः।। 15।। लिङ्गचोदकवद्बाधो नास्ति तेन विकल्पितः। विशेषार्थे लक्षणा स्यादतो मुख्येन बाध्यते।। 16।। अनारभ्य श्रूयते ''यदाहवनीये जुह्वति, तेन सोऽस्याभीष्टः प्रीतः'' इति। ज्योतिष्टोमे श्रूयते ''पदे जुहोति, वर्त्मनि जुहोति'' इति। राजसूये श्रूयते ''वल्मीकवपायामुत्सृज्य जुहोति'' इति। तथाऽन्यत्र श्रूयते ''गार्हपत्ये पत्नीसंयाजाञ्जुहोति'' इति। तत्र- अनारभ्यवादे होमसामान्यमनूद्याहवनीयो विहितः। प्रकरणनियमितैः पदादिवाक्यैस्तदनुबद्धा विशिष्टहोमा विहिताः। गार्हपत्यवाक्येन होमविशेषमनूद्य गार्हपत्यो विहितः। तत्र पदादिहोमेषु सामान्यशास्त्रेण प्राप्त आहवनीया विशेषशास्त्रप्राप्तैः पदादिभिः सह विकल्प्यते। कुतः- उभयोः प्रत्यक्षवचनयोः क्रत्वर्थत्वेन समानबलत्वात्। ननु ''ऐन्द्या गार्हपत्यमुपतिष्ठते'' इत्यत्र यथा श्रुत्या लिङ्गं बाध्यते। यथा वा चोदकातिदिष्टानां कुशानामुपदिष्टैः शरैर्बाधः। तथा सामान्यस्य विशेषेण बाधोऽस्तु इति- चेत्- न। वैषम्यात्। लिङ्गं बिलम्बितत्वाद्दुर्बलम्। चोदकश्चानुमेयतया दुर्बलः। न त्वेवं सामान्यशास्त्रं विलम्ब्यते, नाप्यनुमीयते। अतो दौर्बल्याभावाद्विकल्पः। इति प्राप्ते- ब्रूमः- होमसामान्यस्यानुवादकं यच्छास्त्रं तत्समान्ये मुख्यत्वाद्धोमविशेषानुपादे लाक्षणिकतया दुर्बलम्। विशेषशास्त्रं तु व्यावृत्त्या विधायकत्वात्प्रबलम्। न च पदादिशास्त्रमपि होमसामान्यमेवानूद्य पदादिविधायकत्वेन समानबलं स्यात्- इति शङ्क्यम्। प्रकरणनियमितत्वेन विशिष्टविधायकस्य सामान्यानुवादकत्वायोगात्। तस्मात्- प्रबलेन विशेषेण सामान्यं बाध्यते।। 15।। 16।।  नवमे- वैमृधादिषु साप्तदश्यविधेर्वाक्यशेषाधिकरणे सूत्राणि 17-19   अप्रकरणे तु यच्छास्त्रं विशेषे श्रूयमाणमविकृतमाज्यभागवत्प्राकृतप्रतिषेधार्थम्।। 17।।  विकारे तु तदर्थं स्यात्।। 18।।  वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य।। 19।। नवमाधिकरणमारचयति- सामिधेनीसाप्तदश्यं वैमृधादावपूर्वगीः। संहृतिर्वोपकारस्य क्लृप्त्याद्योऽस्त्वाज्यभागवत्।। 17।। सामिधेन्यश्चोदकाप्ताः साप्तदश्यं तु वैमृधे। पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदितम्।। 18।। अनारभ्याम्नायते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। तथा वैमृधेऽध्वरकल्पायां पशौ चातुर्मास्येषु मित्रविन्दायामाग्रयणेष्ट्यादौ च पुनः साप्तदश्यं विहितम्। यद्यपि- अनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यम्, तथाऽपि श्रुतेन पाञ्चदश्येनावरुद्धत्वाद्विकृतिष्वेतन्निविशते। तथा सति वैमृधादिषु विकृतिष्वनारभ्यवादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुनर्विधीयमाना गृहमेधीयाज्यभागवत्क्लृप्तोपकारत्वेनोतिकर्तव्यताकाङ्क्षां पूरयन्त्यश्चोदकं लोपयन्त्यो वैमृधादेरपूर्वतां गमयन्ति। साप्तदश्यं त्वनारभ्यवादप्राप्तमनूद्यते। इति प्राप्ते- ब्रूमः- वैमृधादिषु सामिधेन्य आज्यभागवन्न विधीयन्ते, किंतु चोदकप्राप्तास्ता अनूद्य साप्तदश्यं विधीयते। तच्च साप्तदश्यं वैमृधादिप्रकरणेष्वाम्नातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तम्। अनारभ्यवादेन तु सर्वासु विकृतिषु। तत्रानारभ्यवादो विलम्बते। प्रथमं विधेयस्य साप्तदश्यस्य सामिधेनीसंबन्धमवबोध्य, अन्यथानुपपत्त्या क्रतुप्रवेशं परिकल्प्य, प्रकृतौ पाञ्चदश्यपराहतत्वेन विकृतिषु सर्वासु निवेशः क्रियते- इति विलम्बः। प्राकरणिकैर्विधिभिः सामिधेनीसंबन्ध एव बोध्यः। क्रतौ तद्विशेषे च प्रवेशो न कल्प्यः। प्रत्यक्षप्रकरणपाठेनैव तत्सिद्धेः। ततः साप्तदश्यस्य वैमृधादिविकृतिविशेषसंबन्धे सहसा प्रतिपन्ने सति तद्विरोधात्संबन्धो न कल्पयितुं शक्यः। अनारभ्यवादस्तु वैमृधादिषु प्राप्तस्य नित्यानुवादोऽस्तु। यद्वा प्राकरणिकविधिर्वैमृधादिषु सप्तदश्यप्रापकः। अनारभ्यवादस्तु प्राप्तस्य पाञ्चदश्यस्य बाधकः। सर्वथाऽपि चतुर्धाकरणवदुपसंहार वचनत्वान्नाज्यभागवदपूर्वं कर्म।। 17।। 18।।  दशमे- अविहितस्वाहाकारेषु प्रदानेषु स्वाहाकारविधानाधिकरणे सूत्राणि 20-22   मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात्।। 20।।  अनाम्नाते च दर्शनात्।। 21।।  प्रतिषेधाच्च।। 22।। दशमाधिकरणमारचयति- स्वाहेत्युक्तिर्दर्विहोमे संहारः स्यान्न वाऽग्रिमः। पूर्वन्यायान्न तन्मन्त्रे स्वाहाकाराविधित्वतः।। 19।। विधित्वेऽपि नियम्यः स्यान्न व्यत्यासवषट्कृती। होमान्तरे वषट्कारस्वाहाकारविकल्पनम्।। 20।। अनारभ्य श्रूयते ''वषट्कारेण स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते'' इति। दर्विहोमविशेषे श्रूयते ''पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा'' इत्यादि। तत्र पूर्वाधिकरणे यथाऽनारभ्यविहितस्य साप्तदश्यस्य प्राकरणिकविधिनोपसंहारः, तथोपसंहारे सति होमान्तरेषु नास्ति स्वाहाकारः। इति प्राप्ते- ब्रूमः- ''पृथिव्यै स्वाहा'' इति मन्त्रपाठोऽयम्। न त्वत्र स्वाहाकारोऽनारभ्याधीतब्राह्मणवाक्येनैव विधीयते। न खलु ''यमादित्या अंशुमाप्याययन्ति'' इत्यादियाज्यामन्त्रगता आदित्यादिशब्दाः कस्यचिदर्थस्य विधायका दृष्टाः। यथा सिद्धार्थवाच्यादित्यशब्दो न विधीयते, यथा वा क्रियावाचित्वेऽपि वर्तमानार्थः 'आप्याययन्ति' इति शब्दो न विधायकः, तथा दैविकहविर्विषयः 'दत्तम्' इत्यस्मिन्नर्थे वर्तमानः स्वाहाशब्दो नोच्चारणं विदधाति। तथा सत्युपसंहार्योपसंहारकयोरेकविषयत्वशङ्काया अप्यभावान्नास्त्येवात्र पूर्वन्यायः। ननु प्रकरणादिना मन्त्रस्य होमे विनियुक्तत्वात्स्वाहाकारविधिरर्थाल्लभ्यते- इति चेत्- एवमपि ब्राह्मणवाक्येन पक्षे प्राप्तः स्वाहाकारो नियम्यते। अस्मिन्दर्विहोमे स्वाहाकारेणैवान्नं प्रदीयते। ततः पाक्षिको वषट्कारोऽर्थान्निवर्तते। किंच- ''पुरस्तात्स्वाहाकारा वा अन्ये देवाः, उपरिष्टात्स्वाहाकारा अन्ये'' इति ब्राह्मणोक्तवाक्येन 'स्वाहा पृथिव्यै' इत्यपि पाठः पक्षे प्राप्नोति। तत्र 'पृथिव्यै स्वाहा' इत्येव नियम्यते। अर्थात्- व्यत्यासो वषट्कृतिश्च निवर्तते। तस्मात्- अविधित्वविधित्वयोरुपसंहाराभावेन होमान्तरेष्वनारभ्य-विहितयोर्वषट्कारस्वाहाकारयोर्विकल्पः सुस्थितो भवति।। 19।। 20।।  एकादशे- अग्न्यतिग्राह्यस्य विकृतावुपदेशाधिकरणे सूत्राणि 23-28   अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात्।। 23।।  मासि ग्रहणं च तद्वत्।। 24।।  ग्रहणं वा तुल्यत्वात्।। 25।।  लिङ्गदर्शनाच्च।। 26।।  ग्रहणं समानविधानं स्यात्।। 27।।  मासि ग्रहणमभ्यासप्रतिषेधार्थम्।। 28।। एकादशाधिकरणमारचयति- नातिदेशोऽतिदेशो वा वह्न्यतिग्राह्ययोर्न सः। विकृतौ पुनरुक्तत्वादेषोऽङ्गान्तरवद्भवेत्।। 21।। प्रकृतेर्विकृतीनां च साम्याय स्यात्पुनर्वचः। साम्ये च गुणकामानां प्रवृत्तिः प्रकृताविव।। 22।। इदं श्रूयते ''य एवं विद्वानग्निं चिनुते'' इति। ''उपष्टम्भनं वा एतद्यज्ञस्य यदतिग्राह्याः'' इति। अतिग्राह्यसंज्ञका ग्रहा यज्ञस्योपष्टम्भकत्वादनुष्ठेया इत्यर्थः। अत्र चीयमानस्याग्नेरतिग्राह्याणां च विकृतिष्वतिदेशो नास्ति। कुतः- पुनरुक्तिवैयर्थ्यप्रसङ्गात्। विकृतौ ह्येवं पुनरुच्यते- ''अथातोऽग्निमग्निष्टोमेनानुयजन्ति, तमुक्थ्येन तमतिरात्रेण, तं द्विरात्रेण'' इत्यादि। अयमर्थः- 'इष्टकाचितमग्निमनु तस्मिंश्चितेऽग्नावग्निष्टोमाद्यनुष्ठानम्' इति। तत्र- अग्निष्टोमः प्रकृतिः, उक्थ्यादयो विकृतयः। यदि विकृतिषु चोदकश्चितमग्निमतिदिशेत्, तदानीमुक्थ्यादिषु चोदकादेव तत्प्राप्तेः पुनर्विधानमनर्थकं स्यात्। अतिग्राह्याश्च विकृतिषु पुनर्विधीयन्ते- 'पृष्ठ्ये गृह्णीयात्' 'उक्थ्ये गृह्णीयात्'। तस्मात्- विधानार्थवत्त्वाय विकृतावग्न्यतिग्राह्यातिदेशो नास्ति। इति प्राप्ते- ब्रूमः- ऐन्द्रवायवग्रहादीनामङ्गान्तराणामुक्थ्यादिविकृतिषु यथाऽतिदेशोऽभ्युपगतः, तथाऽग्निचयनस्या-तिग्राह्याणां चातिदेशः स्यात्। न हि- अखण्डः सकृत्प्रवृत्तश्चोदकः कानिचिदङ्गान्यतिदिश्येतराण्युपेक्षते- इति युक्तम्। अतिदेशप्राप्तानामपि पुनवर्चनं प्रकृतिसाम्यार्थम्। यथा प्रकृतावग्न्यतिग्राहयोः प्रत्यक्षविधिः, तथा विकृतिष्वपि, इति तत्साम्यम्। न च साम्ये प्रयोजनाभावः। गुणकामप्रवृत्तेस्तत्प्रयोजनत्वात्। ''श्येनचितिं चिन्वीत स्वर्गकामः' इत्यादिना श्येनाकारादिगुणफलभूतस्वर्गादिकामाः श्रुताः। ते चोपदिष्टमाश्रयमपेक्षन्ते। तस्मात्- 'अथातोऽग्निम्' इति वाक्येन प्रकृतावग्निष्टोमे कासुचिदुक्थ्यादिविकृतिषु चाग्निचयनलक्षण आश्रय उपदिश्यते। अन्यासु वाजपेयादिविकृतिषूपदिष्टस्याश्रयस्याभावात्। अतिदिष्टस्य चानाश्रयत्वाद्गुणकामानां नास्ति प्रवृत्तिः। तस्मात्- पुनर्विधानवैयर्थ्याभावादस्त्यतिदेशः।। 21।। 22।।  द्वादशे- उपस्तरणाभिधारणाभ्यां सहैव चतुरवदानाधिकरणे सूत्राणि 29-32   उत्पत्तितादर्थ्याच्चतुरवत्तं प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुण-भूतत्वात्।। 29।।  तत्संस्कारश्रुतेश्च।। 30।।  ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विरवघारणेन तदाप्तिवचनात्।। 31।।  तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात्।। 32।। द्वादशाधिकरणमारचयति- चतुर्द्विर्वा पुरोडाशेऽवदानं होमतोक्तितः। चतुर्मैवं सहाज्येन सिद्धस्यात्रानुवादतः।। 23।। दर्शपूर्णमासयोराम्नायते ''चतुरवत्तं जुहोति' इति। तत्र किं पुरोडाशद्रव्यगतस्यावदानस्य चतुःसंख्या, किंवा तत्र द्विसंख्या। चतुष्ट्वं तूपस्तरणाभिघारणार्थाभ्यामाज्यावदानाभ्यां सह संपद्यते, इति संशयः। तत्र चतुरवत्तस्य द्वितीयया विभक्त्या होमकर्मत्वमुच्यते। न च- उपस्तरणाद्यर्थस्याज्यस्य होमकर्मत्वमस्ति। तस्मात्- पुरोडाशावदानस्यैव चतुर्वारत्वम्। इति प्राप्ते- ब्रूमः- न तावदत्र होमानुवादेन चतुरवत्तत्वं विधीयते। होमस्याप्राप्तत्वात्। नापि विशिष्टविधिः। गौरवप्रसङ्गात्। होममात्रविधाने चतुरवत्तत्वमनुवाद्यम्। तच्चाज्यसहितस्यैव युक्तम्। 'द्विर्हविषोऽवद्यति' इति विधिना पुरोडाशावदाने द्वित्वस्यैव प्राप्तत्वात्। तस्मात्- पुरोडाशे द्विरवदानम्।। 23।।  त्रयोदशे- उपांशुयाजेऽपि चतुरवत्तस्यावश्यकताधिकरणे सूत्रे 33-34   साप्तदश्यवन्नियम्येत।। 33।।  हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात्।। 34।। त्रयोदशाधिकरणमारचयति- उपांशुयाजे किं न स्यादवदानचतुष्टयम्। स्याद्वा नास्त्युपसंहारान्नानूक्तिर्वाक्यतोऽस्ति तत्।। 24।। दर्शपूर्णमासयोः श्रुतं चतुरवत्तं नोपांशुयाजे। कुतः- साप्तदश्यवदुपसंहारात्। यथा साप्तदश्यमनारभ्याधीतं परिगणितासु मित्रविन्दादिविकृतिषु पुनः श्रूयमाणं तास्वेवोपसंहृतम्, एवमुपस्तरणाभिघारणोपेये हविषि श्रूयमाणं तत्रैवोपसंहर्तव्यम्। तथा च पुरोडाशसांनाय्ययोस्तत्पर्यवस्यति। उपांशुयाजस्य तूपस्तरणादिराहित्यान्नास्ति चतुरवत्तम्। इति प्राप्ते- ब्रूमः- योऽयमुपसंहारत्वेनोदाहृतोऽवत्तविधिः सोऽनुवादः- इति पूर्वत्रोक्तम्। अत उपसंहारो न शङ्कितुं शक्यः। मा भूदुपसंहारः, तथाऽप्युपांशुयाजे चतुरवत्तं कथं सिध्यति- इति चेत्- 'चतुरवत्तं जुहोति' इति वाक्यम्- इति ब्रूमः। तस्मात्- अस्त्युपांशुयाजे चतुरवत्तम्।। 24।।  चतुर्दशे- दर्शपूर्णमासयोराग्नेयैन्द्राग्नयोरनुवादताधिकरणे सूत्राणि 35-46   पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत्।। 35।।  न त्वनित्याधिकारोऽस्ति विधौ नित्येन संबन्धस्तस्मादवाक्यशेषत्वम्।। 36।।  सति च नैकदेशेन कर्तुः प्रधानभूतत्वात्।। 37।।  कृत्स्नत्वात्तु तथा स्तोमे।। 38।।  कर्तुः स्यादिति चेत्।। 39।।  न गुणार्थत्वात्प्राप्ते च नोपदेशार्थः।। 40।।  कर्मणोऽस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात्।। 41।।  यदि तु सांनाय्यं सोमयाजिनो न ताभ्यां समवायोऽस्ति विभक्तकालत्वात्।। 42।।  अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ संदेहे श्रुतिर्द्विदेवतार्था स्याद्यथाऽनभिप्रेतस्तथाग्नेयो दर्शनादेकदेवते।। 43।।  विधिं तु बादरायणः।। 44।।  प्रतिषिद्धविज्ञानाद्वा।। 45।।  तथा चान्यार्थदर्शनम्।। 46।। चतुर्दशाधिकरणमारचयति- सप्त पक्षाः पुरोडाशाभ्यामेवेत्यधिकारिणः। शेषः स्यात्तच्छ्रुतेर्मैवं कार्त्स्न्यनित्यत्वबाधनात्।। 25।। कर्मान्तरविधिर्मैवं प्रत्यभिज्ञैवकारतः। णिजर्थस्य विधिर्मैवमाफल्यात्स्वार्थवर्जनात्।। 26।। कालस्यास्तु विधिर्मैवं लक्षणायाः प्रसङ्गतः। ऐन्द्राग्नैकविधिर्मैवं वैषम्याच्चैवकारतः।। 27।। कालो लाक्षणिकोऽप्यस्तु सार्थत्वायेति चेन्न तत्। स्तुत्या विध्येकवाक्यत्वात्सार्थत्वाच्चानुवादता।। 28।। दर्शपूर्णमासयोरिदमाम्नायते- ''पुरोडाशाभ्यामेवासोमयाजिनं याजयेत्- यावेतावाग्नेयश्चैन्द्राग्नश्च'' इति। तत्र षट् पक्षान्क्रमेणोपन्यासपूर्वकं निरस्य सप्तममुपस्थापयति। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यत्र योऽधिकारी श्रुतः, तस्यायं शेषः स्यात्। कुतः- तच्छ्रुतेः। पुरोडाशसाधनकस्य यागस्य यः कर्ताऽधिकारवाक्ये श्रूयते, स एवात्रासोमयाजिशब्देन विशेषितः श्रूयते। इत्याद्यः पक्षः। नैष युक्तः। कार्त्स्न्यनित्यत्वयोर्बाधप्रसङ्गात्। तथा हि 'पुरोडाशाभ्यामेव' इत्येवकारेण सांनाय्योपांशुयाजयोर्व्यवच्छेदः। तथा पुरोडाशब्दस्य 'आग्नेयश्चैन्द्राग्नश्च' इति विशेषितत्वादग्नीषोमीयस्यापि व्यवच्छेदः। ततः कार्त्स्न्यं बाध्येत। अथ 'असोमयाजिनमेव' इत्यन्वयः, तदानीं सोमयागादूर्ध्वं दर्शपूर्णमासव्यवच्छेदाद्यावज्जीवादिवाक्यात्प्रापितं नित्यत्वं बाध्येत। तस्मात्- दर्शपूर्णमासाभ्यामन्ये आग्नेयैन्द्राग्नकर्मणी विधीयेते। इति द्वितीयः पक्षः। 'यावेतौ' इति प्रसिद्धानुवादेन दर्शपूर्णमासावेव प्रत्यभिज्ञायेते। 'पुरोडाशाभ्यामेव' इत्येवकारश्च कर्मान्तरपक्षे व्यर्थः स्यात्। तस्मात्- प्रसिद्धकर्मानुवादेन 'याजयेत्' इति णिजर्थ ऋत्विजं प्रति विधीयते। एवकारस्य प्रयोजनं सांनाय्यादिनिवृत्तिः। इति तृतीयः पक्षः। सोऽप्यनुपपन्नः। ऋत्विग्गामिफलस्य कस्यचिदश्रवणात्। न च विश्वजिन्न्यायेन कल्पयितुं शक्यम्। परार्थकर्मणि प्रवृत्तस्यार्थवृत्तेरेवासंभवात्। तस्मात्- कालविधिरस्तु। सोमयागात्प्राचीने काले पुरोडाशाभ्यामेव याजयेत्, न तु सांनाय्येन। सोऽयं चतुर्थः पक्षः। एषोऽप्ययुक्तः। असोमयाजिशब्दस्य काले लक्षणावृत्तिप्रसङ्गात्। तस्मादैन्द्राग्नस्यैकस्य पौर्णमास्यामप्राप्तत्वेन विधिरस्तु। आग्नेयस्तु पौर्णमास्याममावास्यायां च नित्यप्राप्तत्वादनूद्यते। इति पञ्चमः पक्षः। सोऽप्ययुक्तः। सकृत्प्रयुक्तस्यैकस्य लिङ्प्रत्ययस्य विधित्वमनुवादत्वं चेति वैषम्यप्रसङ्गात्। एवकारश्चात्र व्यर्थः। तस्मात्- अगत्या तल्लाक्षणिकमभ्युपेत्यापि कालस्य विधिरस्तु। तथा हि- असोमयाजिनः सांनाप्ये तावत्प्रतिप्रसवः श्रूयते ''तदु ह संनयेत्'' इति। 'यदा सोमयागो नास्ति तदाऽपि संनयेदेव' इत्यर्थः। तथा सति सोमासोमयाजिनोरुभयोरप्यमावास्यायां सांनाय्यमैन्द्राग्नपुरोडाशेन भिन्नविषयाभावाद्विकल्पितम्। सोऽयं विकल्पितः पुरोडाशः सोमयागात्प्रागेव, पश्चात्तु सांनाय्यमेव, इत्यभिप्रेत्य कालो विधीयते। तथा सत्येतच्छास्त्रं सार्थकम्, नान्यथा। इति षष्ठः पक्षः। सोऽप्ययुक्तः। 'सांनाय्येन तु सोमयाजिनम्' इत्यस्य विधेः स्तावकत्वे सत्येकवाक्यत्वलाभात्। सार्थकत्वं चैवं सति भविष्यति। तस्मात्- अनुवादोऽयम्। इति सप्तमः पक्षो राद्धान्तः।। 25।। 26।। 27।। 28।।  पञ्चदशे- उपांशुयाजस्य ध्रौवाज्यद्रव्यताधिकरणे सूत्रे 47-48   उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत।। 47।।  ध्रौवाद्वा सर्वसंयोगात्।। 48।। पञ्चदशाधिकरणमारचयति- उपांशुयाजे यत्किंचिद्द्रव्यमाज्यमुताग्रिमः। विशेषानुक्तितो मैवं ध्रौवाज्यस्य विधानतः।। 29।। ''उपांशुयाजमन्तरा यजति'' इत्यत्र द्रव्यविशेषस्यानुक्तत्वादैच्छिकं द्रव्यम्। इति चेत्- मैवम्। आज्यस्य श्रुतत्वात्। ''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति हि श्रुतम्। न च- एवमप्यनियतं यत्किंचिदाज्यम्- इति शङ्क्यम्। ध्रौवस्य विहितत्वात्। ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति विहितम्। विध्यश्रवणेऽपि ध्रौवाज्यस्य सप्रयोजनत्वाय विपरिणामः कर्तव्यः।। 29।।  षोडशे- उपांशुयागस्य प्राकृतदेवतानियमाधिकरणे सूत्रे 49-50   तद्वच्च देवतायां स्यात्।। 49।।  तान्त्रीणां वा प्रकरणात्।। 50।। षोडशाधिकरणमारचयति- तत्र यः कोऽपि देवः स्यात्तान्त्रिको वाऽग्रिमो भवेत्। अविशेषात्प्रकरणात्तान्त्रिकोऽत्र नियम्यते।। 30।। तत्रोपांशुयाजे या काचिद्देवता स्यात्। ''विष्णुरुपांशु यष्टव्यः'' इत्यादेरर्थवादत्वेनाविधायकत्वात्। अन्यस्य च देवताविधेरदर्शनात्। यागेन देवतामात्रस्यैव कल्पनाच्च । मैवम्- उपांशुयाजस्य दर्शपूर्णमासप्रकरणपठितत्वाद्दर्शपूर्णमासतन्त्रमध्यपठित एव कश्चिद्देवः प्रत्यासत्त्योपांशुयाजे नियम्यते।। 30।।  सप्तदशाष्टादशयोः- उपांशुयाजस्य विष्णवादिदेवताकत्वपौर्णमासीकर्तव्यत्वयोरधिकरणयोः सूत्राणि 51-61   धर्माद्वा स्यात्प्रजापतिः।। 51।।  देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण।। 52।।  विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात्।। 53।।  अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधानं स्यात्।। 54।।  आनन्तर्यं च सांनाय्यस्य पुरोडाशेन दर्शयति, अमावास्याविकारे।। 55।।  अग्नीषोमविधानात्तु पौर्णमास्यामुभयत्र विधीयते।। 56।।  प्रतिषिध्यविधानाद्वा विष्णुः समानदेशः स्यात्।। 57।।  तथा चान्यार्थदर्शनम्।। 58।।  न चानङ्गं सकृच्छ्रुतावुभयत्र विधीयेतासंबन्धात्।। 59।।  गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति।। 60।।  विकारे चाश्रुतित्वात्।। 61।। सप्तदशाधिकरणमारचयति- कोऽपि देवस्तान्त्रिकेषु नियतो वा तदाऽपि किम्। प्रजापतिरुताग्निः स्यादग्नीषोमावुताथवा।। 31।। विष्णुर्यद्वाऽग्निमुत्सृज्य विकल्प्यं देवतात्रयम्। कोऽप्यत्रानियमान्मैवमुपांशुत्वादियन्त्रणात्।। 32।। प्रजापतिरुपांशुत्वान्न तूष्णींभावयोगतः । अग्निर्मुख्यत्वतो मैवं तद्याज्यादेरपाठतः।। 33।। अग्नीषोमौ तदुक्तेर्नो तत्र कालविधानतः। विष्णुर्याज्यादितस्तन्न प्राजापत्योक्तिबाधनात्।। 34।। याज्यात्रैविध्यतः प्राप्ता विकल्प्यन्तेऽत्र देवताः। विधिशैषार्थवादेऽपि प्राप्तं त्रयमनूद्यते।। 35।। तान्त्रिकदेवेषु नियामकाभावात्- यः कोऽपि। इति चेत्- न। वक्ष्यमाणानामुपांशुत्वादीनां नियामकत्वात्। ''यत्किंचित्प्राजापत्यं यज्ञे क्रियते, उपांश्वेव तत्क्रियते'' इति वचनादुपांशुत्वधर्मसाम्येन प्रजापतिर्देवता- इति चेत्- न। 'प्रजापतिं मनसा ध्यायेत्' इति विधेस्तूष्णींभावस्यैव प्रजापतिधर्मत्वात्। प्रथमयागदेवत्वेन मुख्यत्वादग्निर्देवता। इति चेत्- न। उपांशुयाजक्रमेऽग्निविषययाज्याद्यपाठात्। 'तावब्रूताम्' इत्यादिपूर्वोदाहृतवाक्यादग्नीषोमौ देवता। इति चेत्- न। तस्य वाक्यस्य पौर्णमासीकालविधायकत्वात्। कस्यांचिच्छाखायामुपांशुयाजक्रमे वैष्णवयाज्यापुरोनुवाक्ययोः पठात्- विष्णुर्देवता। इति चेत्- न। तथा सति शाखान्तरप्रोक्तयोः प्राजापत्ययोर्याज्यापुरोनुवाक्ययोर्बाधः प्रसज्येत। तस्मात्- नानाशाखासु पठिताभ्यां विष्णुप्रजापत्यग्नीषोमविषययाज्यपुरोनुवाक्याभ्यां प्राप्तास्तिस्त्रो देवता विकल्पन्ते। अत एवोपांशुयाजविधिशेषेऽर्थवादेऽप्येतदेव प्राप्तं देवतात्रयमनूद्यते ''विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामित्वाय'' इति। तस्मात्- देवताविकल्पो राद्धान्तः।। 31।।32।।33।।34।।35।। अष्टादशाधिकरणमारचयति- दर्शादिर्वा तस्य कालो दर्श एवान्य एव वा। द्विपुरोडाशसांनिध्यादाद्यो दर्शेऽग्नितोऽग्रतः।। 36।। विष्णुयाज्योक्तितो युक्तो मध्यमः पूर्णिमाविधेः। स एव कालो याज्याया उत्कर्षः पूर्णिमादिने।। 37।। ''जामि वा एतद्यज्ञस्य क्रियते, यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजति ह्यजामित्वाय'' इति पुरोडाशयोर्मध्ये स यागो विहितः। पुरोडाशौ च पौर्णमास्यामाग्नेयाग्नीषोमौ, अमावास्यायामाग्नेयैन्द्राग्नौ। ततो द्विपुरोडाशसंनिधेः समानत्वाद्दर्शः पूर्णिमा च, इत्युभयमुपांशुयाजस्य कालः। इत्याद्यः पक्षः। दर्शं प्रकृत्य याज्याकाण्ड आग्नेययाज्याया अधस्ताद्वैष्णवयाज्यायाः पाठात्प्रकरणस्य संनिधितः प्रबलत्वाद्दर्श एव कालः। इति मध्यमः पक्षः। ''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति पौर्णमास्यास्तत्कालत्वेन विधानाद्वाचनिकस्य विधेः प्रबलत्वात्पौर्णमास्येव कालः। तथा सति वैष्णवयाज्याप्रकरणादुत्कृष्यताम्।। 36।। 37।।  एकोनविंशे- एकपुरोडाशायामप्युपांशुयाजाधिकरणे सूत्राणि 62-70   द्विपुरोडाशायां स्यादन्तरार्थत्वात्।। 62।।  अजामिकरणार्थत्वाच्च।। 63।।  तदर्थमिति चेन्न तत्प्रधानत्वात्।। 64।।  अशिष्टेन च संबन्धात्।। 65।।  उत्पत्तेस्तु निवेशः स्याद्गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात्।। 66।।  उभयोस्तु विधानात्।। 67।।  गुणानां च परार्थत्वादुपवेषवद्यदेति स्यात्।। 68।।  अनपायश्च कालस्य लक्षणं हि पुरोडाशौ।। 69।।  प्रशंसार्थमजामित्वम्।। 70।। एकोनविंशाधिकरणमारचयति- पुरोडाशैक्ययुक्तायां पौर्णमास्यामयं नहि। स्याद्वा नास्त्यन्तरेत्युक्तलक्ष्ये कालेऽस्ति शङ्खवत्।। 38।। सोमात्प्रागग्नीषोमीयपुरोडाशरहिता केवलाग्नियपुरोडाशयुक्ता पौर्णमासी भवति। ''स सोमेनेष्ट्वाऽग्नीषोमीयो भवति'' इति वाक्येनाग्नीषोमीययोः सोमोत्तरकालत्वावगमात्। तस्मात्- उपांशुयाजो नास्ति। कुतः- ''उपांशुयाजमन्तरा यजति'' इति पुरोडाशद्वयान्तरालवत्त्वस्य गुणत्वेन विधानात्। इति प्राप्ते- ब्रूमः- किं पुरोडाशावन्तरालकालस्य विशेषणभूतौ, उत लक्षणभूतौ। नाद्यः। अन्तरालकालवत्तद्विशेषणयोः पुरोडाशयोरुपांशुयाजे गुणत्वप्रसङ्गात्। न चैतद्युक्तम्। उपांशुयाजवत्तयोरपि स्वातन्त्र्येणैव फलान्वयात्। द्वितीये तु- शङ्खन्यायेनोपलक्षकस्याग्नीषोमीयपुरोडाशस्यैवाभावेऽप्युपलक्ष्ये काले यागोऽस्ति। यथा- 'शङ्खध्वनिवेलायां राजसेवार्थं प्रतिदिनमागन्तव्यम्' इत्युक्ते कस्मिंश्चिद्दिने तं शङ्खं धमतः पुरुषस्याभावेनोपलक्षकस्य ध्वनेरभावेऽप्युपलक्षिते तस्मिन्काले सेवकः समागच्छति, तथाऽत्रापि द्रष्टव्यम्। यदि तत्र कालोपलक्षकमन्यदेव व्यापारः सूर्यगत्यादिकं संभाव्यते, तर्ह्यत्रापि संभवत्येवाग्नेयपुरोडाश उपलक्षकः। तस्मात्- एकपुरोडाशायामपि पौर्णमास्यामस्त्युपांशयाजः।। 38।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तेरे दशमाध्यायस्याष्टमः पादः।। 8।। अत्र पादे- अधिकरणानि 19, सूत्राणि 70। आदितः- अधिकरणानि 775, सूत्राणि 2229। ।। समाप्तश्चायं दशमोऽध्यायः।। ==00==