जैमिनीय न्यायमाला विस्तरः (द्वितीयो भागः - 3, 4 अध्यायौ)
विषयसूचिका
तृतीयाध्यायस्य प्रथमः पादः 136
शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता। 136
प्रथमे प्रतिज्ञाधिकरणे सूत्रम् 136
द्वितीये शेषलक्षणाधिकरणे सूत्रम् 136
तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6 137
चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7- 10 138
पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम् 139
षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् 139
सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15 141
अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16- 17 141
नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम् 142
दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19- 20 143
एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम् 143
द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम् 144
त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् 145
चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24- 25 146
पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27 146
तृतीयाध्यायस्य द्वितीयः पादः 147
लिङ्गम् 147
प्रथमे मुख्ये विनियोगाधिकरणे (बर्हिर्न्याये) सूत्रे 1-2 147
द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4 148
तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9 149
चतुर्थे- अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम् 150
पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणे (प्रस्तरप्रहरणन्याये) सूत्राणि 11-14 150
षष्ठे सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणे (सूक्तवाकन्याये) सूत्राणि 15-18 151
सप्तमे काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम् 152
अष्टमे, आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23 153
नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25 154
दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् 154
एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27-28 155
द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31 156
त्रयोदशे पात्नीवतभक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33 157
चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35 157
पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम् 158
षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम् 158
सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधिकरणे सूत्रम् 159
अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे- 39-40 159
एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43 160
तृतीयाध्यायस्य तृतीयः पादः 161
वाक्यप्रकरणादि। 161
प्रथमे- उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8 161
द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम् 162
तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् 162
चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् 163
पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् 163
षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् 164
श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम् 165
त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16 168
चतुर्दशे कुलायादौ प्रतिपदोरुत्कर्षाधिकरणे सूत्राणि 17-19 169
पञ्चदशे जाघन्या अनुत्कर्षाधिकरणे सूत्राणि 20-23 170
षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31 171
सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33 172
अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम् 172
एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे सूत्राणि 35-38 173
विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46 174
तृतीयाध्यायस्य चतुर्थः पादः 175
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः। 175
प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9 175
द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11 176
तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम् 176
चतुर्थे- उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14 177
पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम् 177
षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम् 178
सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम् 178
अष्टमे- अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे 179
नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22 180
दशमे- अवगोरणादीनां पुमर्थताधिकरणे सूत्रम् 180
एकादशे मलवद्वासःसंवादनिषेधाधिकरणे सूत्रे 24-25 181
द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30 181
त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33 182
चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35 182
पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37 183
षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39 184
सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42 184
अष्टादशे- आग्नेयाष्टाकपालचरोर्द्व्यवदानमात्रस्य होतव्यताधिकरणे सूत्राणि 43-47 185
एकोनविंशे सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणे सूत्राणि 48-51 185
विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53 186
एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57 186
तृतीयाध्यायस्य पञ्चमः पादः 187
प्रतिपत्तिकर्माणि। 187
प्रथमे ध्रुवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12 187
द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् 188
तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15 188
चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17 189
पञ्चमे- ऐन्द्रवायवग्रहे द्विःशेषभक्षणाधिकरणे सूत्रम् 189
षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21 189
सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम् 190
अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि- 23-26 190
नवमे ग्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30 191
दशमे वषट्करणस्य भक्षनिमित्तताधिकरणे सूत्रम् 192
एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम् 192
द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35 192
त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39 193
चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् 194
पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम् 194
षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम् 194
सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् 194
अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45 195
एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51 196
विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53 196
तृतीयाध्यायस्य षष्ठः पादः 197
अनारभ्याधीतानि। 197
प्रथमे स्रुवादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणे सूत्राणि 1-8 197
द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम् 198
तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम् 198
चतुर्थे- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13 199
पञ्चमे- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15 200
षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17 200
सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27 201
अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29 202
नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम् 202
दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम् 203
एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34 203
द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम् 204
त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम् 204
चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39 205
पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम् 205
षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47 206
तृतीयाध्यायस्य सप्तमः पादः 207
बहुप्रधानोपकारकप्रयाजादीनि। 207
प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5 207
द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम् 208
तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7-9 208
चतुर्थे- अभिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 8-10 209
पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे- 11-12 210
षष्ठे- अन्तर्वेदेर्यूपानङ्गताधिकरणे सूत्रे 13-14 210
सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17 211
अष्टमे- अङ्गानामन्यद्वाराऽनुष्ठानाधिकरणे सूत्राणि 18-20 211
नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24 212
दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम् 212
एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम् 213
द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम् 213
त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29 213
चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम् 214
पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम् 214
षोडशे 'ऋत्विक्' इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि 32-35 214
सप्तदशे दीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणे सूत्रे 36-37 215
अष्टादशे- ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम् 216
एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39- 42 216
विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः 216
एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45 217
द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकर्तृकताधिकरणे सूत्राणि 46-49 218
त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51 218
तृतीयाध्यायस्याष्टमः पादः 219
याजमानानि। 219
प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम् 219
द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम् 219
तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8 220
चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11 220
पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम् 221
षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे- 13-14 222
सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16 222
अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम् 223
नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम् 223
दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20 223
एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम् 224
द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम् 224
त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24 225
चतुर्दशे करणमन्त्रेषु स्वामिफलस्याशासितव्यताधिकरणे (वर्चोन्याये) सूत्राणि 25-27 225
पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् 226
षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम् 226
सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे- 30-31 227
अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम् 227
एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम् 227
विंशे काम्येष्टिषूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे 34-35 228
एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38 228
द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41 229
त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44 229
चतुर्थाध्यायस्य प्रथमः पादः 230
प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्। 230
प्रथमे प्रतिज्ञाधिकरणे सूत्रम् 230
द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम् 231
तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6 232
चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10 233
पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16 234
षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम् 234
सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20 235
अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम् 235
नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24 236
दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम् 236
एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् 237
द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम् 238
त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32 238
चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39 239
पञ्चदशे समानयनस्याज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41 240
षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45 241
सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48 241
चतुर्थाध्यायस्य द्वितीयः पादः 243
अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्। 243
प्रथमे स्वरोश्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6 243
द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् 243
तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9 244
चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13 245
पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15 245
षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18 246
सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम् 247
अष्टमे- अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22 247
नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24 248
दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम् 248
एकादशे- अवघातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम् 249
द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28 249
त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30 250
चतुर्थाध्यायस्य तृतीयः पादः । 251
जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता। 251
प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि- 1-3 251
द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम् 251
तृतीये- संयोगपृथक्त्वन्याये, दध्यादेर्नित्यनैमित्तिकोभयार्थताधिकरणे सूत्राणि 5-7 252
चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9 252
पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12 253
षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधिकरणे सूत्रे 13-14 253
सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16 254
अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्थवादिकफलकताधिकरणे सूत्राणि 17-19 254
नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24 255
दशमे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां सर्वकामार्थताधिकरणे - सूत्रे 25-26 255
एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28 256
द्वादशे काम्यानामैहिकामुष्मिकफलवत्त्वाधिकरणे वर्णकान्तरेण ते एव सूत्रे 27-28 257
त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31 257
चतुर्दशे वैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35 258
पञ्चदशे- अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम् 258
षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम् 259
सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39 260
अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम् 260
एकोनविंशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमोत्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम् 261
विंशे सौत्रामण्याद्यङ्गानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41 261
चतुर्थाध्यायस्य चतुर्थ पादः 262
राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता। 262
प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2 262
द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4 263
तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6 263
चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम् 264
पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11 264
षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13 265
सप्तमे षष्ठचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18 266
अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21 266
नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24 267
दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28 267
एकादशे- आघारादीनामङ्गताधिकरणे सूत्राणि 29-38 268
द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41 269
----
।। श्रीः।।
तृतीयाध्यायस्य प्रथमः पादः
शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता।
द्वितीये कर्मणां भेदे सिद्धे भिन्नक्रियास्वयम्। बुभुत्सितः शेषशेषिभावोऽतोऽत्राभिधीयते।। 1।।
अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्यं निरूपितम्।। 1।।
प्रथमे प्रतिज्ञाधिकरणे सूत्रम्
अथातः शेषलक्षणम्।। 1।।
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः। क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात्।। 2।।
गुणप्रधानभावेन संसर्गेऽन्तर्भवत्यसौ। व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत्।। 3।।
यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम्। कुतः- केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात्। व्युत्पन्नो हि शब्दः प्रत्यायकः। व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा। लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात्। अतः शेषताया अशाब्दत्वान्नायमध्याय आरम्भणीय इति चेत्-
मैवम्। अन्वये शेषशेषिभावस्यान्तर्भावात्। न हि गुणप्रधानभावमन्तरेणान्वयः संभवति। द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात्। एवं द्वयोः प्रधानयोरपि। अतो व्युत्पत्तिसंभवात्क्रिया कारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावोऽपि शाब्दः। तस्मादयमध्याय आरम्भणीयः।। 2।। 3।।
द्वितीये शेषलक्षणाधिकरणे सूत्रम्
शेषः परार्थत्वात्।। 2।।
द्वितीयाधिकरणमारचयति-
स्वरूपहेतू न स्तोऽत्र स्तो वा नैवानिरूपणात्। पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम्।। 4।।
न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते। तथा हि शेषत्वं नाम किम्- अविनाभूतत्वम्, प्रयोज्यत्वं
वा, विध्यन्तविहितत्वं वा। नाद्यः। षड्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात्। न द्वितीयः। ''पुरोडाशकपालेन तुषानुपवपति'' इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात्। न तृतीयः। बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात्। तस्मान्नास्ति शेषतायाः स्वरूपम्। नापि हेतुरस्ति। 'विमतः शेषः, एवंत्वात्' इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते-
ब्रूमः- 'विमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्' इति हेतुः सुनिरूपः। अविनाभूतत्वादीनां लक्षणानां दुष्टत्वेऽपि 'परार्थः शेषः' इति लक्षणस्यादुष्टत्वात्। तेन लक्षित आकारः स्वरूपम्। न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम्। आकारभेदेन तद्भेदात्। दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः। इतख्यावृत्त्या बोधक आकारो लक्षणम्। तस्माच्छेषताया हेतुस्वरूपे विद्येते।। 4।।
तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6
द्रव्यगुणसंस्कारेषु बादरिः।। 3।।
कर्माण्यपि जैमिनिः फलार्थत्वात्।। 4।।
फलं च पुरुषार्थत्वात्।। 5।।
पुरुषश्च कर्मार्थत्वात्।। 6।।
तृतीयाधिकरणमारचयति-
किं द्रव्यगुणसंस्कारमात्रं शेषोऽथवा फलम्। पुमान्कर्म च पक्षौ द्वावादेयौ मतभेदतः।। 5।।
शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः। पारार्थ्यं शेषता तच्च सर्वेष्वस्तीति जैमिनिः।। 6।।
स्फ्यकपालादिकं द्रव्यम्, अरुणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः। एतेषु त्रिष्वेव शेषत्वम्। स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म। न हि फलादीनां त्रयाणां शेषत्वमस्ति। उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात्- इति बादरेर्मतम्।
पारार्थ्यं लक्षणमभिप्रेत्य 'फलादयोऽपि शेषाः' इति जैमिनेर्मतम्। तथा च त्रीणि सूत्राणि पठ्यन्ते- 'कर्माण्यपि जैमिनिः फलार्थत्वात्' 'फलं च पुरुषार्थत्वात्' 'पुरुषश्च कर्मार्थत्वात्' इति। तत्रोपकारित्वमतिव्याप्तम्, प्रधानभूतेऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात्। तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः।। 5।। 6।।
चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7- 10
तेषामर्थेन संबन्धः।। 7।।
विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च।। 8।।
अर्थलोपादकर्म स्यात्।। 9।।
फलं तु सह चेष्टयाशब्दार्थोऽभावाद्विप्रयोगे स्यात्।। 10।।
चतुर्थाधिकरणमारचयति-
श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः । व्यवस्थिता वा सांकर्यं फलापूर्वेण संगतेः।। 7।।
अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ । श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा।। 8।।
व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः। ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते। अवान्तरापूर्वस्य कस्यचिदभावात्। एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात्। फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठिताः फलापूर्वं जनयन्त्येव- इति सांकर्ये प्राप्ते-
ब्रूमः-आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वं जनयितुं न शक्नुवन्ति। ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि। तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात्। फलापूर्वं तु तेन व्यवहितम्। एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः। तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते।
ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम्। तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम्। अथोच्येत- 'तुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववावघातः, न त्वाज्यसांनाय्ययोः। एवं विलापनमाज्य एव। दोहनादिकं सांनाय्य एव' इति। बाढम्। दृष्टार्थानां धर्माणां व्यवस्थितत्वेऽप्य दृष्टार्थाः प्रोक्षणादयः संकीर्येरन्-
इति चेत्-
मैवम्। ''व्रीहीन्प्रोक्षति'' ''आज्यमवेक्षते'' इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात्। श्रुतिश्च प्रकरणाद्बलीयसी। तस्माद्व्यवस्थिता धर्माः।। 7।। 8।।
पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्
द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत।। 11।।
पञ्चमाधिकरणमारचयति-
द्रव्यस्य स्फ्यकपालादेः सांकर्यं वा व्यवस्थितिः। यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः।। 9।।
वाक्यस्योद्धननादेः स्याद्वैयर्थ्यं संकरे सति । अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्।। 10।।
दर्शपूर्णमासयोः श्रूयते ''स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यज्ञायुधानि'' इति। स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते। तत्र- व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणामुद्धननपुरोडाशश्रपणाद्यङ्गक्रियासु सांकर्यं निराकर्तुमशक्यम्। येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात्। नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति- इति प्राप्ते-
ब्रूमः- ''स्फ्येनोद्धन्ति'' ''कपालेषु श्रपयति'' ''अग्निहोत्रहवण्या हवींषि निर्वपति'' ''शूर्पेण विविनक्ति'' ''कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति'' ''शम्ययादृषदमुपदधाति'' ''उलूखलमुसलाभ्यामवहन्ति'' ''दृषदुपलाभ्यां पिनष्टि'' इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्यं सांकर्यपक्षे प्रसज्येत। व्यवस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम्- इति चेत्- न। उद्धननादिवाक्यसिद्धार्थानुवादत्वात्। न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम्। बहुवैयर्थ्यस्य जघन्यत्वात्। न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम्। ''यज्ञायुधानि संभरन्ति'' इत्यासादनविधानायोपयुक्तत्वात्। तस्मात्- अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि।। 9।। 10।।
षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम्
अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्।। 12।।
षष्ठाधिकरणमारचयति-
क्रीणात्यरुणयेत्येतत्संकीर्णं वा क्रयैकभाक्। क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा।। 11।।
द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः । साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ।। 12।।
ज्योतिष्टोमे श्रूयते ''अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति'' इति। तत्र- अरुणाशब्दोऽरुणिमानं गुणमाचष्टे। गुणिविषयतया प्रयुज्यमानस्यापि 'नागृहीतविशेषणा विशिष्टे बुद्धिः' इति न्यायेन गुणबोधकत्वात्। अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च। तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम्, अमूर्तस्य गुणस्य वासोहिरण्यादिवत्क्रयसाधनत्वासंभवात्। ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम्। प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति।
न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम्। तयोः शब्दयोर्द्रव्यवाचित्वात्। पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी। एवमेकहायनी। यद्यप्येकगोवाचिनौ शब्दौ, तथाऽपि विशेषणभूतधर्मभेदाच्छब्दद्वयम्। तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति। न चेतरद्द्रव्यमितरद्नव्ये निवेशयितुं शक्यम्। अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते। तत्रैषाऽक्षरयोजना- 'अरुणया' इत्येतत्पृथग्वाक्यम्। तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते- 'यानि ज्योतिष्टोमे साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानि' इति। तस्मात्- गुणः संकीर्णः- इति प्राप्ते-
ब्रूमः-यद्यप्यमूर्तो गुणः, तथाऽपि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति। तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति। एवं सति वाक्यभेदो न भविष्यति।
ननु वाक्यभेदाभावेऽपि लक्षणा दुर्वारा। गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात्। मैवम्। गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते। तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते। तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम्- इति चेत्- न। तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः। तर्हि 'वाससा क्रीणाति' 'अजया क्रीणाति' इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदोऽस्तु- इति चेत्- न, तेषां क्रयान्तरसाधनत्वात्। न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते। अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात्। ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः। नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः। तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परावच्छेदकत्वेनान्वयः। तथा सति 'आरुण्यविशिष्टैकहायन्या क्रीणाति' इत्यर्थः पर्यवस्यति। तस्मात्- आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते।। 11।। 12।।
सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15
एकत्वयुक्तमेकस्य श्रुतिसंयोगात्।। 13।।
सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्।। 14।।
चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेत।। 15।।
सप्तमाधिकरणमारचयति-
संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः। एक उद्देश्यसंख्याया उपादेयवदादरात्।। 13।।
प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम्। तद्विधौ वाक्यभेदोऽतो द्रव्योक्त्या सर्वशोधनम्।। 14।।
सोमे श्रूयते ''दशापवित्रेण ग्रहं संमार्ष्टि'' इति। दशापत्रित्रं वासःखण्डः। तत्र- यथा ''पशुना यजेत'' इत्यत्रोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वदुद्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम्। किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कार्यत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति। तस्मात्- एक एव ग्रहः शोधनीयः- इति प्राप्ते-
ब्रूमः- 'ग्रहम्' इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते। ग्रहं प्रति गुणः संमार्गः। 'प्रतिप्रधानं च गुण आवर्तनीयः' इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः। एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अबुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम्।
अथोच्येत- नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्- इति। तन्न। वाक्यभेदापत्तेः। 'ग्रहं संसृज्यात्, तं चैकम्' इत्येवं विधेयार्थभेदाद्वाक्यभेदः।''पशुना यजेत'' इत्यत्र तु यागं प्रति गुणभूतः पशुः। न हि 'प्रतिगुणं प्रधानस्यावृत्तिः' इति कश्चिन्यायोऽस्ति। तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम्। न च जातिः संस्कार्या- तस्या अमूर्तत्वात्। ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः। तत्र चावृत्तिरुक्ता। तस्मात्- सर्वे ग्रहाः संमार्जनीयाः।। 13।। 14।।
अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16- 17
संस्काराद्वा गुणानामव्यवस्था स्यात्।। 16।।
व्यवस्था वाऽर्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात्।। 17।।
अष्टमाधिकरणमारचयति-
चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम्। एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात्।। 15।।
अबाधोऽत्रादरे हेतुर्वाक्यभेदस्तु नैव हि। चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात्।। 16।।
'ग्रहम्' इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिपदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते। ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्चमसादयोऽपि मार्जनीयाः- इति प्राप्ते,-
ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम्। अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत। ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः। न च विषयापेक्षया तत्कल्पनम्। ग्रहश्रुत्यैव तद्विषयसमर्पणात्। तस्मान्नास्ति संमार्गः।। 15।। 16।।
नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्
आनर्थक्यात्तदङ्गेषु।। 18।।
नवमाधिकरणमारचयति-
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः। उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत।। 17।।
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः। ऊर्ध्वपात्रे खादिरेऽग्ने संयुज्यान्वेति कर्मणा।। 18।।
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः। सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना।। 19।।
वाजपेयप्रकरणे श्रूयते ''सप्तदशारत्निर्वाजपेयस्य यूपो भवति'' इति। तत्र- यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम्, सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात्। प्रकरणं चैवमनुगृह्यते। यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणाऽन्वेति- इति प्राप्ते-
ब्रूमः- 'सप्तदशारत्निर्यूपः' इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते। तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति। तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम्। यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम्। 'वाजपेयस्य' इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते। 'देवदत्तस्य नप्ता' इति प्रयोगात्। यत्तु- सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, यञ्च प्रकरणम्। तदुभयमप्यविरुद्धम्, पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात्। किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम्। सिद्धान्ते तु नासौ दोषः।। 17।। 18।। 19।।
दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19- 20
कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात्।। 19।।
साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण।। 20।।
दशमाधिकरणमारचयति-
अभिक्रामं जुहोतीति युतं कर्त्राऽखिलस्य तत् । किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत्।। 20।।
प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि। मिथः संबन्धराहित्यान्मैवं तेऽपि समत्वतः।। 21।।
कर्तृयोगाददोषश्चेत्समानेयं समाहितिः । ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः।। 22।।
दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते ''अभिक्रामं जुहोति'' इति। तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा। कुतः- अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाजक्रियया संबन्धासंभवात्- इति चेत्-
मैवम्। क्रियारूपत्वादेव दर्शपूर्णमासक्रिययाऽपि संबन्धासंभवात्। अथोच्येत- अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति। तदेतत्समाधानं प्रयाजसंबन्धेऽपि समानम्। अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते।। 20।। 21।। 22।।
एतदेवाधिकरणं वार्तिककारमतेनाचरयति-
यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः। दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता।। 23।।
अवान्तरप्रकरणं समिधो यजतीत्यतः। तन्मध्यपाठात्तस्याङ्गं तद्द्वारा दर्शशेषता।। 24।।
अस्मिन्नपि मते तावेव विषयसंशयौ। पूर्वोत्तरपक्षहेतुमात्रमन्यत्। प्रयाजसंनिधितोऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते- इति पूर्वःपक्षः।
''समिधो यजति'' इत्यारभ्याम्नातमवान्तरप्रयाजप्रकरणम्। तन्मध्येऽभिक्रमणमाम्नातम्। तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संद्रष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते- इति राद्धान्तः। अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते। प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात्।। 23।। 24।।
एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्
संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात्।। 21।।
एकादशाधिकरणमारचयति-
उपव्ययत इत्यस्य सामिधेन्यङ्गताऽथवा । दर्शाङ्गता प्रक्रियैषाऽवान्तराऽतोऽस्त्विहाग्रिमः।। 25।।
लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः । विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः।। 26।।
दर्शपूर्णमासप्रकरणे ''विश्वरूपो वै त्वाष्ट्रः'' इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम्। नवमे- निवित्संज्ञकानाम्- ''अग्ने महाँ असि ब्राह्मणभारत''- इत्यादीनां मन्त्राणां ब्राह्मणम्।
दशमे- काम्याः सामिधेनीपक्षाः।
एकादशे तु- उपवीतमेवं विहितम्- ''निवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते-'' इति। तत्र- पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम्- इति चेत्-
न। निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात्। न च निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम्- इति वाच्यम्। लिङ्गेन निविदामग्न्यङ्गत्वावगमात्। आहुत्यधिकरणभूतमग्निं संबोध्य 'महानसि' इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते। अत एव निर्वचनमेवं श्रूयते ''निविद्भर्न्यवेदयन्, तन्निविदां निवित्त्वम्''- इति।
ननु- 'सम्यगिध्यतेऽग्निर्याभिर्ऋग्भिस्ताः सामिधेन्यः' इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव- इति चेत्- सन्तु नाम। नैतावता परस्परमङ्गाङ्गिभावः। ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निविदङ्गत्वं स्यात्- इति चेत्- न। पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात्। संनिधिना तदङ्गत्वम्- इति चेत्- न। काम्यसामिधेनीभिर्व्यवधानात्। न च काम्यसामिधेन्यङ्गता शङ्कनीया। संनिधितः प्रकरणस्य प्रबलत्वात्। तस्मात्- इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्।। 25।। 26।।
द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम्
गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्।। 22।।
द्वादशाधिकरणमारचयति-
वैकङ्कतादिकं पात्रं पवमानहविःष्वथ । यज्ञेऽखिले प्रकरणादाधानेऽन्वितमत्र तत्।। 27।।
अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते । नाधानहविषां साम्याद्वाक्याद्यज्ञेऽखिले भवेत्।। 28।।
आधानप्रकरणे दारुपात्रं होमार्थं यज्ञार्थं च श्रूयते ''तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन'' इति। यज्ञावचरो यज्ञप्रचारहेतुः। तत्र- वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति। एतेन पात्रेणाधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते। अस्ति हि पवमानहविषामाधानाङ्गत्वम्। तत्प्रकरणे पाठात्। ''कृत्तिकास्वग्निमादधीत'' इत्यस्मिन्प्रकरणे ''प्रजापतिर्वाचः सत्यमपश्यत्'' इत्यस्मिन्ननुवाके ''त्रीणि हवींषि निर्वपति'' इत्यादिना तानि विहितानि। ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि- इति प्राप्ते-
ब्रूमः- अग्निमुद्दिश्याधानं यथा विहितं, तथा पवमानहवींष्यपि। ''यदाहवनीये जुह्वति। तेन सोऽस्याभीष्टः प्रीतः'' इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात्। तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः। तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् ''वैकङ्कतो यज्ञावचरः'' इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते।। 27।। 28।।
त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम्
मिथश्चानर्थसंबन्धात्।। 23।।
त्रयोदशाधिकरणमारचयति-
वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे। इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः।। 29।।
क्रमेण प्रापिता मन्त्राश्चत्वारोऽप्याज्यभागयोः । क्रमाद्वाक्यं बलीयोऽत एषां दर्शादिशेषता।। 30।।
न मुख्ये सोम एकोऽस्ति नाधारत्वादिकालयोः ।दर्शादेरव्यवस्थित्याऽप्राप्तौ वाक्याद्व्यवस्थितिः।। 31।।
दर्शपूर्णमासप्रकरणे श्रूयते ''वार्त्रघ्नी पूर्णमासेऽनूच्येते, वृधन्वती अमावास्यायाम्'' इति। तत्र- इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ''अग्निर्वृत्राणि जङ्घनत्---'' इत्यनुवाकेनाम्नातम्। उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते। तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम्- इति प्राप्ते-
ब्रूमः- ''अग्निर्वृत्राणि जङ्गनत्'' इत्याग्नेयी प्रथमा वार्त्रघ्नी, ''त्वं सोमासि सत्पतिः'' इति सौम्या द्वितीया वार्त्रघ्नी। ''अग्निः प्रत्नेन जन्मना'' इत्याग्नेयी प्रथमा बृधन्वती, ''सोम गीर्भिष्ट्वा वयम्'' इति सौम्या द्वितीया वृधन्वती। तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु। सौम्ययोस्तु तन्न संभवति। सोमदेवताया अभावात्। नह्यग्नीषोमीयेऽपि केवलः सोमो विद्यते।
किंच 'पूर्णमासे, अमावास्यायाम्' इति सप्तमीभ्यामाधारत्वं गम्यते। तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति। कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम्।
किंच प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः। स चाज्यभागयोरङ्गयोः क्रमः। न तु मुख्ययोदर्शपूर्णमासयोः। तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम्, किं त्वाज्यभागाङ्गत्वम्।
ननु- एतत्क्रमेणैव लब्धम्। तत्रापि 'आग्नेये प्रथमाज्यभागे मन्त्रोऽप्याग्नेयः। सौम्ये द्वितीये सौम्यः' इत्येषा व्यवस्था लिङ्गेनैव लभ्यते। बाढम्। तथाऽपि 'वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्' इत्येषा व्यवस्था पूर्वमप्राप्ता ब्राह्मणवाक्येनाभिधीयते- इति न वैयर्थ्यम्।। 29।। 30।। 31।।
चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24- 25
आनन्तर्यमचोदना।। 24।।
वाक्यानां च समाप्तत्वात्।। 25।।
चतुर्दशाधिकरणमारचयति-
हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् । दर्भास्तरण एवाङ्गं हस्तशुद्धिरुताखिले।। 32।।
तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् । लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता।। 33।।
दर्शपूर्णमासप्रकरणे श्रूयते ''हस्ताववनेनिक्ते'' ''उलपराजिं स्तृणाति'' इति। वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः। तत्र- हस्तशुद्धिदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तशुद्धिरास्तरणमात्रस्याङ्गम्- इति चेत्-
मैवम्। अवनेजनं हस्तसंस्कारः। 'संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ' इत्येतादृशं सामर्थ्यं लिङ्गम्। प्रकरणं च दर्शपूर्णमासयोः स्फुटम्। अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तशुद्धिः।
अयं न्यायो वाग्यमेऽपि द्रष्टव्यः। स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- ''मुष्टी करोति'' ''वाचं यच्छति'' इति। तदनन्तरमेवेदं श्रुतम्- ''दीक्षितमावेदयति'' इति। आवेदनप्रकारश्चैवं श्रुतः- ''अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह'' इति। अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मसु योग्यत्वं लिङ्गम्। तेन क्रमो बाध्यते।। 32।। 33।।
पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27
शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात्।। 26।।
व्यवस्था वाऽर्थसंयोगाल्लिङ्गस्वार्थेन संबन्धाल्लक्षणार्था गुणश्रुतिः।। 27।।
पञ्चदशाधिकरणमारचयति-
चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम्। चतुर्धाकरणं सर्वशेषो वाग्नेयमात्रगम्।। 34।।
उपलक्षणताग्नेये युक्ताऽतः सर्वशेषता। अग्नीषोमीय ऐन्द्राग्ने यतोऽस्त्येग्नेयता ततः।। 35।।
नाग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात्। तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः।। 36।।
दर्शपूर्णमासयोः श्रूयते ''आग्नेयं चतुर्धा करोति'' इति। तत्र-आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि
पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रयमुपलक्ष्यते। ततस्त्रयाणां शेषः- इति चेत्-
मैवम्। नहि 'आग्नेयः' इत्ययं तद्धितः संबन्धमात्रे विहितः, किंतु देवतासंबन्धे। अग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता। ततो देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाग्नेये चतुर्धाकरणं व्यवतिष्ठते।। 34।। 35।। 36।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः।। 1।।
अत्र पादे अधिकरणानि 15, सूत्राणि 27।
आदितः अधिकरणानि 104, सूत्राणि 316।
---------
तृतीयाध्यायस्य द्वितीयः पादः
लिङ्गम्
प्रथमे मुख्ये विनियोगाधिकरणे (बर्हिर्न्याये) सूत्रे 1-2
अर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात्।। 1।।
संस्कारकत्वादचोदितेन स्यात्।। 2।।
द्वितीयपादे प्रथमाधिकरणमारचयति-
देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः ।तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा।। 1।।
शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् । प्रथमावगतत्वेन मुख्ये तद्विनियम्यते।। 2।।
''बर्हिर्देवसदनं दामि'' इति लवनप्रकाशको मन्त्र आम्नातः। तत्र- लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते।
लवितव्यं च बर्हिर्द्विविधम्- मुख्यं गौणं च। मुख्यं- कुशकाशादिदशविधदर्भरूपम्। गौणं तु-तत्सदृशं तृणान्तरम्।
तस्मिन्बर्हिःशब्दस्य माणवकेऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात्। तथा सति मुख्यवद्घौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति प्राप्ते-
ब्रूमः- मुख्यस्य शीघ्नप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थं लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति। तस्मात्- मुख्यस्यैव लवने मन्त्रो नियम्यते।। 1।। 2।।
द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4
वचनात्त्वयथार्थमैन्द्री स्यात्।। 3।।
गुणाद्वाऽप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वात्।। 4।।
द्वतीयाधिकरणमारचयति-
ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति। प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्येऽस्तु पूर्ववत्।। 3।।
एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः। गौणताऽतोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते।। 4।।
अग्निचयने- ''निवेशनः संगमनः'' इत्यादिका काचिदैन्द्री समाम्नाता, तस्या उत्तरार्धे ''इन्द्रो न तस्थौ'' इति पठ्यमानत्वात्। तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते- ''निवेशनः संगमनो वसूनामित्यैन्द्र्या गार्हपत्यमुपतिष्ठते'' इति। एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोऽर्थं प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति। मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः। तत्रेन्द्रशब्दस्य रूढत्वात्। गौणस्त्विन्द्रो गार्हपत्यः, तस्यैश्वर्यगुणयोगेन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात्। तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्रे मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते-
ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वेऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति। ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् 'ऐन्द्र्या' इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते।। 3।। 4।।
तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9
तथाह्वानमपीति चेत्।। 5।।
न कालविधिश्चोदितत्वात्।। 6।।
गुणाभावात्।। 7।।
लिङ्गाच्च।। 8।।
विधिकोपश्चोपदेशे स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् । विनियोगोऽवघाते स्यादाह्वाने वाऽवघातके।। 5।।
ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथाऽन्यथा । पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः।। 6।।
त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः । हन्तिना लक्ष्यते कालः प्राप्तोऽसौ ह्वयतिस्तथा।। 7।।
विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता । नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः।। 8।।
दर्शपूर्णमासयोः श्रूयते ''हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति'' इति। देवानामर्थे या हविः संपादयति सा हविष्कृत्, तामेनां संबोध्याध्वर्युः 'एहि' इति ब्रूते। तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते- ''हविष्कृदेहीत्याह य एव देवानां हविष्कृतस्तानाह्वयति'' इति। तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः। अनेन वाक्येन मन्त्रोऽवघाते विनियुज्यते।
ननु-आह्वाने समर्थः, न त्ववघाते- इति चेत्- न। तस्यावघातलक्षकत्वात्। यथा पूर्वोदाहृतायामैन्द्र्यामृचीन्द्रशब्दो गौणः, तद्वत् 'एहि' इति पदं मन्त्रगतत्वेनावघाते गौणं भविष्यति, अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् 'अवघ्नन्' इति पदमनर्थकं स्यात्। प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत्- न। त्रित्वस्य प्राप्तत्वेनानुवादकत्वात्। कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याम्नातः। आह्वयतिपदं तु 'एहि' इतिवदवघातपरतयोपचरणीयम्- इति प्राप्ते-
ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति, कस्यांचिच्छाखायां द्विःपाठात्। कस्यांचित्सकृत्पाठात्। अतोऽसौ नित्यवद्विधीयते। न च 'अवघ्नन्' इत्यस्य वैयर्थ्यम्। तस्य काललक्षकत्वात्।
कालस्यापि विधौ वाक्यभेदः- इति चेत्- न। प्राप्तत्वात्। न ह्यवघाते सहायाह्वानमन्यस्मिन्काले भवति। ततोऽर्थप्राप्तः कालः। आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम्। न हि 'एहि' इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते। मन्त्रव्याख्यानं चोदाहृतम्। तत्रायं वाक्यार्थः संपन्नः- 'अवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यः' इति। अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते। ''त्रिराह्वयति त्रिःसत्या हि देवाः'' इति। एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात्। लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते। न चैन्द्रीन्यायोऽत्र प्रसरति, तृतीयाश्रुत्यभावात्। ''बर्हिर्देवसदनं दामि'' इत्यत्रोक्तेन तु न्यायेन मुख्य एवाह्वाने लिङ्गेन मन्त्रविनियोगः, न त्ववघातरूपे गौणाह्वाने। तस्मात्- आह्वानशेषोऽयं मन्त्रः।। 5।। 6।। 7।। 8।।
चतुर्थे- अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्
तथोत्थानविसर्जने।। 10।।
चतुर्थाधिकरणमारचयति-
उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा । कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति।। 9।।
मन्त्रौ विधेयौ कालौ वा मन्त्रावुत्थानमोकयोः । विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ।। 10।।
मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते । अगत्या लक्षणाऽप्यस्तु तेन कालो विधीयते।। 11।।
ज्योतिष्टोमे समामनन्ति- ''उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहर'' इति। तथा- ''व्रतं कृणुतेति वाचं विसृजति'' इति। तत्र- आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रोऽनेन वाक्येनोत्थानशेषतया विनियुज्यते। तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके 'व्रतं कृणुत' इति मन्त्रो विनियुज्यते। न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ। तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात्- इति प्राप्ते-
ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च। अतोऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते।। 9।। 10।। 11।।
पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणे (प्रस्तरप्रहरणन्याये) सूत्राणि 11-14
सूक्तवाके च कालविधिः परार्थत्वात्।। 11।।
उपदेशो वा याज्याशब्दो हि नाकस्मात्।। 12।।
सदेवतार्थस्तत्संयोगात्।। 13।।
प्रतिपत्तिरिति चेत्स्विष्टकृद्वदुभयसंस्कारः स्यात्।। 14।।
पञ्चमाधिकरणमारचयति-
प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः। अङ्गाङ्गिता वा स्यात्कालोऽजुषतेत्याद्यनन्वयात्।। 12।।
प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः। संपाद्यो देवताद्वारा तृतीयाश्रुतितोऽङ्गता।। 13।।
दर्शपूर्णमासयोराम्नायते- ''सूक्तवाकेन प्रस्तरं प्रहरति'' इति। ''इदं द्यावापृथिवी भद्रमभूत्'' इत्यादिको मन्त्रः सूक्तवाकः। तस्मिन्मन्त्रेऽग्निं संबोध्य ''त्वं सूक्तवागसि'' इत्याम्नानात्। प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः। तत्र- 'सूक्तवाकेन' इत्येतत्पदं कालं लक्षयति। होत्रा मन्त्रेऽस्मिन्पठ्यमाने तत्पाठकालेऽध्वर्युः प्रस्तरं प्रहेरत्। न त्वत्र प्रहरणे मन्त्रोऽयं विनियोक्तुं शक्यः, पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात्। ''अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत'' इत्यादिकं मन्त्रे पठ्यते। 'पुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजमाने तेजोबाहुल्यं कृतवान्' इति तस्यार्थः। न चासौ प्रस्तरप्रहरणेऽन्वेतुं शक्यः- इति प्राप्ते-
ब्रूमः- 'सूक्तवाकेन' इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते। न चात्यन्तमन्वयाभावः। मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति। प्रस्तरप्रहरणं चेष्टदेवतासंस्कारः। अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते।
ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः, यजिधातोरश्रवणात्। तथा सति देवतानामत्राभावात्तद्वाराऽपि नान्वयः- इति चेत्-
मैवम्। देवतानां सद्भावात्। अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते। यदि प्रकरणेऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोऽर्थो मन्त्रस्य लभ्येत। ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति। तस्मात्- देवताद्वाराऽस्त्येवान्वयः।। 12।। 13।।
षष्ठे सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणे (सूक्तवाकन्याये) सूत्राणि 15-18
कृत्स्नोपदेशादुभयत्र सर्ववचनम्।। 15।।
यथार्थं वा शेषभूतसंस्कारात्।। 16।।
वचनादिति चेत्।। 17।।
प्रकरणाविभागादुभे प्रति कृत्स्नशब्दः।। 18।।
षष्ठाधिकरणमारचयति-
प्रहृतेरखिलः सूक्तवाकोऽङ्गं स्याद्विभज्य वा । समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि।। 14।।
दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् । आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते।। 15।।
पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया याज्ञिकैः कृत्स्ने तच्छब्दप्रयोगात्। ततः सर्वोऽपि प्रहरणाङ्गम्- इति चेत् ।
न। लिङ्गेन समाख्याया बाधितत्वात्। तस्मिन्मन्त्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- ''अग्नीषोमाविदं हविरजुषेताम्'' इति। भागान्तरे तु दर्शदेवताम्नानम्- ''इन्द्राग्नी इदं हविरजुषेताम्'' इति, ''इन्द्र इदं हविरजुवत'' इति, ''महेन्द्र इदं हविरजुषत'' इति च। इन्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः। तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते। सूक्तवाकशब्दश्च भागे यौगिकः। 'सूक्तं वक्ति' इति तद्व्युत्पत्तेः। यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः। अत एव ब्राह्मणेन व्याख्यातम्- ''अग्निरिदं हविरजुषतेत्याह, यो अयाक्ष्म देवतास्ता अरीरधामेति वावैतदाह'' इति। अरीरधामाराधितांस्तुष्टानकुर्मेत्यर्थः। तस्मादयं विभज्य विनियुज्यते।। 14।। 15।।
सप्तमे काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्
लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नातम्।। 19।।
सप्तमाधिकरणमारचयति-
ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात्। काण्डयोस्ता यथालिङ्गं संचार्या नियमोऽथवा।। 16।।
लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः। अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः।। 17।।
समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् । अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः।। 18।।
काम्येष्टयस्तत्काण्डे क्रमेणाम्नाताः- ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुः'' इत्यादिना। सजाता ज्ञातयः। वीयुर्विगता विप्रतिपन्ना इत्यर्थः। ''इन्द्राग्नी रोचना'' इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाम्नाताः। तत्र 'इदं काम्ययाज्यानुवाक्याकाण्डम्' इति याज्ञिकानां समाख्ययाऽवगम्यते। तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते। मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते। लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते-
ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते उपजीव्यत्वात्। इन्द्राग्निदेवतास्वरूपमात्रप्रकाशनं लिङ्गम्। न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः। ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धोऽवगम्यते। विशेषतस्तु ''अस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमः'' इति क्रमादवगम्यते।
ननु- 'ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रः' इत्येतादृशो विशेषो लिङ्गेनैवावगम्यते- इति चेत्- न। लिङ्गसाधारण्ये क्रमापेक्षणात्। ''ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्'' इति द्वितीयेष्टिरपि। तत्रेन्द्राग्नी पठितौ। मन्त्रकाण्डेऽपि ''इन्द्राग्नी नवतिम्'' इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम्। न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम्। न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम्। क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात्। ऐन्द्राबार्हस्पत्येष्टिरेकैवाम्नाता- ''यं कामयेत राजन्यमनपोद्धो जायेत वृत्रान्घ्नंश्चरेत्- इति तस्मा एतमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्'' इति। यं राजपुत्रं यजमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- 'अयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम्। जातश्च शत्रून्मारयन्संचरेत्' इति तद्राजपुत्रार्थेयमिष्टिः। मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते। ''इदं वामास्ये हविः'' इत्येकं युगलम्। ''अस्मे इन्द्राबृहस्पती''- इत्यादिकमपरम्। तयोः प्रथमयुगलस्य क्रमेण विनियोगेऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम्। तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्या नियम्यन्ते।। 16।। 17।। 18।।
अष्टमे, आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23
अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात्।। 20।।
तदाख्यो वा प्रकरणोपपत्तिभ्याम्।। 21।।
अनर्थकश्चोपदेशः स्यादसंबन्धात्फलवता।। 22।।
सर्वेषां चोपदिष्टत्वात्।। 23।।
अष्टमाधिकरणमारचयति-
आग्नेय्याग्नीध्रमित्यग्निदेवताका ऋचोऽखिलाः। उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत।। 19।।
साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः । विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम्।। 20।।
ज्योतिष्टोमे श्रूयते ''आग्नेय्याग्नीध्रमुपतिष्ठते'' इति। तत्र- आग्नीध्रनामकस्य मण्डपस्य यदुपस्थानं तत्, यया कयाचिदृचा दाशतयीगतयाऽग्निसंबन्धिन्या कर्तव्यम्। 'अग्निर्देवता यस्या ऋचः साग्नेयी' इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत्-
मैवम्। क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम्। 'कोऽसौ व्यापारः' इति विशेषबुभुत्सायाम् 'आग्नीध्रोपस्थानरूपोऽयम्', इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम्। अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषश्चेत्युभयमनेन बोध्यत इति गौरवम्। तस्मात्प्रकृताभिराग्नेयीभिस्तदुपस्थानम्।
एवम् ''ऐन्द्या सदो वैष्णव्या हविर्धानम्'' इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम्।। 19।। 20।।
नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25
लिङ्गसमाख्यानाभ्यां भक्षार्थताऽनुवाकस्य।। 24।।
तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात्।। 25।।
नवमाधिकरणमारचयति-
भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणगाम्युत । ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते।। 21।।
अविधेर्ग्रहणादीनां भक्षणे निखिलोऽस्तु सः । अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते।। 22।।
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम्। अत एवाम्नातम्- ''अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्ति'' इति। तस्मिन्भक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति। मन्त्रश्च ''भक्षेहि'' इत्याद्यनुवाके समाम्नातः। तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि। न चाविहितेषु मन्त्रो विनियोगमर्हति। समाख्या तु 'भक्षानुवाकः' इत्येवंरूपा भक्षणमात्रविषया। तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते-
ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि, तद्व्यतिरेकेण भक्षणासंभवात्। अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः। तत्र 'भक्षेहि' इत्यारभ्य ''अश्विनोस्त्वा बाहुभ्यां साघ्यासम्'' इत्यन्तो ग्रहणं प्रकाशयति। 'एहि' इत्याह्वानस्य 'बाहुभ्यां स्वीकरवाणि' इत्येतस्य च दर्शनात्। ''नृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्'' इत्ययं भागोऽवेक्षणं प्रकाशयति, ''शोभनचक्षुरहं मनुष्येषु प्रख्यातं त्वामवेक्षिषीय'' इत्यभिधानात्। ''हिन्व मे गात्रा''- इत्यादिः ''मा मेऽवाङ्नाभिमतिगाः'' इत्यन्तः सम्यग्जरणं प्रकाशयति, गात्रप्रीणनेनाधोभागे नाभ्यतिक्रमणनिषेधेन च तदवगमात्। जरणं नार्थाक्षिप्तम्, तेन विनाऽपि भक्षसिद्धेः- इति चेत्। न। जरणपर्यन्तस्यैव सार्थकभक्षणत्वात्। न च जरणे पुरुषव्यापाराभावः। सम्यगुपवेशनादेर्जरणार्थत्वात्। 'मन्द्राभिभूतिः'- इत्यादिः 'भक्षयामि' इत्यन्तो भक्षणं प्रकाशयति। तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः।। 21।। 22।।
दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम्
गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात्।। 26।।
दशमाधिकरणमारचयति-
मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः । विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे।। 23।।
लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतोऽन्यतः । लिङ्गस्यासंभवे वाक्यशेषात्सर्वोऽस्तु भक्षणे।। 24।।
''मन्द्राभिभूतिः'' इत्यादिः ''जुषाणा सोमस्य तृप्यतु'' इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति। 'वसुमद्गणस्य'- इत्यादिः 'भक्षयामि' इत्यन्तो भागो भक्षणप्रकाशकः। तत्र पूर्ववल्लिङ्गेन विभज्य विनियोगः- इति चेत्-
मैवम्। न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते। किं तर्हि- भक्षणानुनिष्पादिनी हि सा। तथा सति तस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत। ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति। उपयुक्तश्च तत्रायं भागः। तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात्। तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते।। 23।। 24।।
एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27-28
लिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम्।। 27।।
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति।। 28।।
एकादशाधिकरणमारचयति-
इन्द्रपीतस्येति भक्षमन्त्रांशः किमिहैन्द्रके। केवलेऽन्यत्र वोहाच्च सर्वत्रोत यथाश्रुतम्।। 25।।
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् । ऊहो वाऽन्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः।। 26।।
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात्। सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यताम्।। 27।।
भक्षमन्त्रे कश्चिदंशः ''इन्द्रपीतस्य'' इत्येवंविधः श्रूयते। तत्र- 'इन्द्रेण पीतस्य सोमस्य शेषं भक्षयामि' इत्यर्थो भवति। तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे। तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः।
'इन्द्रपीतस्य' इति पदस्यासमर्थत्वेऽपि 'मित्रावरुणपीतस्य' इत्येवमूहे सति सामर्थ्यं भविष्यति।
ननु- आग्नेययागस्य प्रकृतित्वात्तद्गतस्य 'अग्नये जुष्टम्' इति मन्त्रस्य विकृतौ सौर्ये चरौ 'सूर्याय जुष्टम्' इत्येवमूहः क्रियते। इह तु कर्मैक्यान्नोहः- इति चेत्- न, कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वात्। इति द्वितीयः पूर्वपक्षः।
'इन्द्रपीतस्य' इत्यत्र बहुव्रीहिर्द्रष्टव्यः। तत्पुरुषत्वे 'समासस्य' (पा.सू. 6।1।123) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात्। आद्युदात्तं ह्येतत्पदमाम्नातम्। इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम्। तथा सति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' [पा.सू,6।2।1] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते। 'इन्द्रेण पीतः सोमो यस्मिन्सवने' इति विग्रहात्सवनपरत्वे सति 'ऐन्द्रभक्षण एव' इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः।। 25।। 26।। 27।।
द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31
पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात्।। 29।।
अपनयाद्वा पूर्वस्यानुपलक्षणम्।। 30।।
ग्रहणाद्वाऽपनयः स्यात्।। 31।।
द्वादशाधिकरणमारचयति-
ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके। इन्द्रे हुतेऽथ तच्छेषे होत्रकैश्चमसस्थिते।। 28।।
सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा । इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः।। 29।।
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः। अत इन्द्रस्य सिद्ध्यर्थे लक्ष्योऽसावितरैः सह।। 30।।
पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते। मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः। तेषां च सन्ति चमसाः। पात्रविशेषस्थिताः सोमरसाश्चमसाः। तैर्वषट्कारानुवषट्कारयोर्होतव्यम्। चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः, अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति।तत्र-
मैत्रावरुणः ''मित्रं वयं हवामहे'' इति मन्त्रेण मित्रावरुणौ यजति।
ब्राह्मणाच्छंसी ''इन्द्र त्वा वृषभं वयम्'' इति मन्त्रेणेन्द्रं यजति।
पोता ''मरुतो यस्य हि क्षये''-इति मन्त्रेण मरुतो यजति।
एवं हुत्वा पश्चात्सोमो भक्ष्यते। तस्मिन्भक्षणे 'मित्रावरुणपीतस्य' इति मन्त्र ऊहनीयः। तदानीम् 'इन्द्रमित्रावरुणपीतस्य' इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः। कुतः- इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात्। पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत्- न। उन्नयनकाले 'मित्रावरुणाद्यर्थोऽयम्' इति संकल्पाभावात्। प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते। तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते-
ब्रूमः- मा भूत्संकल्पः, तथाऽप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव। न तु तस्य पूर्वानुष्ठितेन्द्रयागार्थत्वं संभवति। तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रोऽप्युपलक्षणीयः।। 28।। 29।। 30।।
त्रयोदशे पात्नीवतभक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33
पात्नीवते तु पूर्ववत्।। 32।।
ग्रहणाद्वाऽपनीतं स्यात्।। 33।।
त्रयोदशाधिकरणमारचयति-
द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम्। स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति।। 31।।
तद्भक्षणे द्विदेवाः किं सार्धं पात्नीवतेन ते। उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम्।। 32।।
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते । आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते।। 33।।
ऐन्द्रवायवादयो द्विदेवत्याः। तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति। तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते। तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः। पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत्- इति प्राप्ते-
ब्रूमः- ''यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति'' इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धेऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति। तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति। पुनरभ्युन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः। तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम्। तस्मात्पात्नीवतभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः।। 31।। 32।। 33।।
चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35
त्वष्टारं तूपलक्षयेत्।। 34।।
अतुल्यत्वात्तु नैवं स्यात्।। 35।।
चतुदर्शाधिकरणमारचयति-
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा। सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते।। 34।।
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात्। चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते।। 35।।
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः। कुतः- त्वष्टुरपि तद्देवत्वात्। तच्च होममन्त्रादवगतम्। ''अग्ना3इ पत्नीवन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा'' इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्य ''त्वष्ट्रा देवेन सह पिब'' इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम्। ततः- ''पत्नीवत्त्वष्टृपीतस्य'' इत्युपलक्षणम्- इति प्राप्ते-
ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः 'सजूः' इत्यनेन पदेन प्रतीयते। न तु पातृत्वम्, असंबोधितस्य त्वष्टुः 'पिब' इत्यनेन शब्देन सामानाधिकरण्याभावात्।
न च पातृसहभावमात्रेण पातृत्वम्-
सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री ।
इत्यत्र पुत्राणां वोढृत्वादर्शनात्।
आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वम्- इति चेत्- न। ''पात्नीवतमाग्रयणाद्गृह्णाति'' इत्यत्र त्वष्टुरप्रतीतेः। तस्मात्- अदेवत्वात्त्वष्टा नोपलक्षणीयः।। 34।। 35।।
पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्
त्रिंशच्च परार्थत्वात्।। 36।।
पञ्चदशाधिकरणमारचयति-
पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी । लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम्।। 36।।
एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना। अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम्।। 37।।
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य ''पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादय'' इत्यभिधीयते- ''पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व'' इति। अनुष्वधमनुप्रदानम्। अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम्। अत्तस्तेऽपि भक्षणे लक्षणीयाः- इति चेत्-
न। यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात्। त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम्। तस्मान्नोपलक्षणम्।। 36।। 37।।
षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्
वषट्कारश्च पूर्ववत्।। 37।।
षोडशाधिकरणमारचयति-
सोमस्याग्न इति प्रोक्ताऽनुवषट्कारदेवता। लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा।। 38।।
प्रकृतौ विद्यमानोऽग्निरनुद्देशादलक्षितः । उद्देश्येन्द्रो लक्षितोऽतो विकृतावपि तत्तथा।। 39।।
''सोमस्याग्ने वीहीत्यनुयजति'' इति श्रूयते। तत्र- अनुवषट्कारस्य मान्त्रवर्णिकोऽग्निर्देवता। न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम्। मन्त्रे वह्निं संबोध्य सोमपातृत्वाभिधानात्। तस्मात्-अग्निर्लक्षणीयः- इति चेत्-
न। प्रकृतावलक्षितत्वात्। ऐन्द्रश्चमसः प्रकृतिः, इतरे विकृतिरूपाः। तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च। तेनैन्द्रेष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव। अनैन्द्रा अधर्मकाः। धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम्। गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् ''इन्द्राय त्वा वसुमते'' इत्यादिग्रहणमन्त्रादवगम्यते। तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः। कुतः- ग्रहणे तदुद्देशाभावात्। इन्द्रस्तूद्देश्यत्वादुपलक्षितः। एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम्। तस्मात्- अग्निर्नोपलक्ष्यः।। 38।। 39।।
सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधिकरणे सूत्रम्
छन्दःप्रतिषेधस्तु सर्वगामित्वात्।। 38।।
सप्तदशाधिकरणमारचयति-
अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम्। ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात्।। 40।।
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः । अविकारेऽप्यनूहोऽतो नैन्द्रे निर्मन्त्रभक्षणम्।। 41।।
उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे योऽयम् 'अनैन्द्रेष्वमन्त्रकं भक्षणम्' इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते- अनैन्द्रेषूक्तरीत्या विकृतित्वेनोहसंभवादस्त्यूहः- इति चेत्-
न। अनैन्द्राणां विकृतित्वासंभवात्। ''सोमेन यजेत'' इत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गम्। न तु प्रदानविशेषस्य कस्यचिदङ्गम्। स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि। अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः। ''इन्द्राय त्वा वसुमते'' इत्यादिमन्त्रो लिङ्गादैन्द्रविषयोऽस्तु। नैतावता प्रकृतिविकृतिभावः सिध्यति। तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम्।। 40।। 41।।
अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे- 39-40
ऐन्द्राग्ने तु लिङ्गभावात्स्यात्।। 39।।
एकस्मिन्वा देवतान्तराद्विभागवत्।। 40।।
अष्टादशाधिकरणमारचयति-
समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम्। ऐन्द्राग्नेऽपीन्द्रपीतत्वसंभवात्तत्समन्त्रकम्।। 42।।
न पानमशरीरस्य युक्तं दानं तु मिश्रगम्। मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम्।। 43।।
यदेतत् ''ऐन्द्राग्नं गृह्णाति'' इति विहितं शेषभक्षणम्, तत्र- 'इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवति' इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम्- इति चेत्-
मैवम्। नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात्। अथ- पीतशब्देन दानं
विवक्ष्येत, तदानीम् 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति। न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दिश्य। तस्मात् 'दानं मिश्रविषयम्। मन्त्रस्तु न मिश्रविषयः' इत्यमन्त्रकं भक्षणम्।। 42।। 43।।
एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43
छन्दश्च देवतावत्।। 41।।
सर्वेषु वाऽभावादेकच्छन्दसः।। 42।।
सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपावनत्वात्सवनाधिकारो हि।। 43।।
एकोनविंशाधिकरणमारचयति-
ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः । छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः।। 44।।
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् । नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता।। 45।।
सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् । तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः।। 46।।
तस्मिन्नेव भक्षमन्त्रे ''गायत्रच्छन्दस इन्द्रपीतस्य'' इति श्रूयते। 'गायत्रमेव छन्दो यस्य' इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत्-
मैवम्। बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वात्। एवकारं परित्यज्य 'गायत्रं छन्दो यस्य' इति विग्रहसंभवात्। एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति। तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र। तदेवं कृत्वाचिन्तात्रयं समाप्तम्। द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता।। 44।। 45।। 46।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः।। 2।।
अत्र पादे अधिकरणानि 19, सूत्राणि 43।
आदितः अधिकरणानि 123 सूत्राणि 359।
तृतीयाध्यायस्य तृतीयः पादः
वाक्यप्रकरणादि।
प्रथमे- उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8
श्रुतेर्जाताधिकारः स्यात्।। 1।।
वेदो वा प्रायदर्शनात्।। 2।।
लिङ्गाच्च।। 3।।
धर्मोपदेशाच्च नहि द्रव्येण संबन्धः।। 4।।
त्रयीविद्याख्या च तद्विदि।। 5।।
व्यतिक्रमे यथाश्रुतीति चेत्।। 6।।
न सर्वस्मिन्निवेशात्।। 7।।
वेदसंयोगान्न प्रकरणेन बाध्येत।। 8।।
तृतीयपादे प्रथमाधिकरणमारचयति-
कर्तव्यमुच्चैः सामर्ग्भ्यामुपांशु यजुषेत्यमी । मन्त्राणां वाऽथ वेदानां धर्मा मन्त्रगता यतः।। 1।।
विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः । ऋग्वेदोऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः।। 2।।
असंजातविरोधाऽतस्तद्वशादुपसंहृतेः । नयने सति वाक्येन धर्माणां वेदगामिता।। 3।।
ज्योतिष्टोमे श्रूयते ''उच्चैर्ऋचा क्रियते। उपांशु यजुषा। उच्चैः साम्ना'' इति। तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः। तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् ।
मैवम्। असञ्जातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नेतव्यत्वात्। उपक्रमे हि वेदशब्दः श्रुतः- ''त्रयो वेदा असृज्यन्त। अग्नेर्ऋग्वेदः। वायोर्यजुर्वेदः। आदित्यात्सामवेदः'' इति। अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः।
ननु- उपक्रमोऽत्रार्थवादत्वाद्दुर्बलः। उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत्- बाढम्। लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम्। इह तु प्रथमतो बुद्ध्युत्पादक उपक्रमः। तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम्। पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवात्मानं लप्स्यते। तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगोऽयम्।। 1।। 2।। 3।।
द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्
गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः।। 9।।
द्वितीयाधिकरणमारचयति-
यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम्। उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः।। 4।।
उत्पत्तेर्विनियोगोऽत्र प्रबलोऽनुसृतिर्यतः । मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता।। 5।।
आधानस्यात्र मुख्यत्वं गानस्य गुणताऽथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणताऽस्त्विह।। 6।।
आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि। तत्र- यद्यप्येतानि यजुर्वेदगतस्याधानस्याङ्गानि, तथाऽपि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि- इति चेत्-
न। विनियोगस्य प्रबलत्वात्। स च यजुर्वेदे श्रुतः- ''य एवं विद्वान्वामदेव्यं गायति'' इति। गुणेन हि मुख्यस्यानुसरणं न्याय्यम्। को गुणः, किं मुख्यम्- इति चेत्- अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः। तथा साति 'घर्मः शिरः' इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि। अथवा विनियोगोऽनुष्ठापकविधित्वान्मुख्यः। उत्पत्तिविधिरतथाविधत्वाद्गुणः। तस्मात्- अत्र विनियोगवेदानुसारेणोपांशु गेयानि।। 4।। 5।। 6।।
तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम्
भूयस्त्वेनोभयश्रुति।। 10।।
तृतीयाधिकरणमारचयति-
ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम्। उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः।। 7।।
यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः । तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः।। 8।।
''ज्योतिष्टोमेन स्वर्गकामो यजेत'' इत्येतद्वाक्यं वेदद्वये समाम्नातम्। तत्र- 'को विधिः, कश्च गुणविधानायानुवादः' इति जिज्ञासायां नियामकहेतोरप्रतिमानात् 'एतस्य वेदस्य धर्मोऽनुष्ठेयः' इत्यनिर्णयः- इति चेत्-
न। सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदेऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति-
उपांशुप्रयोगः।। 7।। 8।।
चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम्
असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात्।। 11।।
चतुर्थाधिकरणमारचयति-
न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता। प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः।। 9।।
प्रयाजादेः फलेऽपेक्षा कथंभावेऽपि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः।। 10।।
सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्योऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः। नहि पदतत्सामर्थ्यान्वयैरसंसृष्टः कश्चिद्वेदभागः केनचिदाम्नायते। एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम्- इति चेत्- न। वाक्ययोः सतोः पश्चादेकवाक्यताया अभावात्। न हि ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' ''समिधो यजति'' इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षाऽस्ति, येन वाक्यैकवाक्यता कल्प्येत। तस्मान्न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते-
ब्रूमः- प्रयाजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत्। दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत्। तथा सति 'किं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्' इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम्। तेन च प्रयाजादीनामङ्गत्वं प्रतीयते।। 9।। 10।।
पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम्
क्रमश्च देशसामान्यात्।। 12।।
पञ्चमाधिकरणमारचयति-
दब्धिर्नामेति मन्त्रोऽङ्गमुपांशुयजतेर्न वा। साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता।। 11।।
मन्त्राणां कर्मणां चात्र क्रमेणाम्नानमीक्ष्यते। प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता।। 12।।
क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः। यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम्।। 13।।
शुन्धध्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम्।पशुधर्मोऽर्थसादेश्यादग्नीषोमीयगो भवेत्।। 14।।
दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-''दब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्'' इति। अस्यमन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते। ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवा म्नानात्। ''एतया वै दब्ध्या देवा असुरानदभ्नुवन्। तयैव भ्रातृव्यं दभ्नोति'' इति ब्राह्मणम्। दब्धिर्धातुकमायुधम्। आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम्। प्रकरणं च त्रयाणामेकमेव। ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम्- इति प्राप्ते-
ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाम्नातानि। याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाम्नाताः- ''अग्नेरहं देवयज्ययाऽन्नादो भूयासम्'', ''दब्धिरस्यदब्धो भूयासममुं दभेयम्'', ''अग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्'' इति। तत्र यथा वाक्यद्वयानुसंधानसंपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात्। न चास्य प्रकरणेऽन्तर्भावः। द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात्। तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रोऽङ्गम्। 'समानदेशत्वं क्रमः' इति क्रमस्य स्वरूपम्।
तच्च द्विविधम्- पाठकृतमर्थकृतं च।
तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति।
तयोराद्यस्य दब्धिमन्त्र उदाहरणम्। ''शुन्धध्वं दैव्याय कर्मणे'' इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते। तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु 'मातरिश्वनः' इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे 'शुन्धध्वम्' इति मन्त्रो विनियुज्यते। अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषोमीयाङ्गत्वम्। तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम्।। 11।। 12।। 13।। 14।।
षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम्
आख्या चैवं तदर्थत्वात्।। 13।।
षष्ठाधिकरणमारचयति-
वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः। अनियत्या नियत्या वा नियतिर्नानिरूपणात्।। 15।।
हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः । निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम्।। 16।।
याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः। दोहननिर्वापादयो यजुर्वेदे। आज्यस्तोत्रपृष्ठस्तोत्रादयः
सामवेदे। तत्र 'अस्यैवैते धर्माः' इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः कोऽपि धर्म इच्छया संगच्छते- इति चेत्-
मैवम्। 'हौत्रम्, आध्वर्यवम्, औद्गात्रम्' इति समाख्यानेन नियतिर्बोध्यते। न च समाख्यानस्य बाधकं किंचित्पश्यामः। तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयो- रभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते।। 15।। 16।।
श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्।। 14।।
सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति-
ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम्। समुच्चयो वोत शक्र एवाग्निः केवलोऽथवा।। 17।।
विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः । श्रुतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः।। 18।।
शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम्। नैराकाङ्क्ष्यात्मके बोधे श्रुत्याऽग्नौ केवले स्थितिः।। 19।।
''ऐन्द्र्या गार्हपत्यमुपतिष्ठते'' इति श्रूयते। ''कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे'' इत्यसावृगैन्द्री। तत्रेन्द्रस्य प्रकाशनात्। 'भो इन्द्र, कदाचिदपि घातको न भवसि। किंत्वाहुतिं दत्तवते यजमानाय प्रीयसे' इत्यर्थः। तत्र- इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रियासाधनत्वं गम्यते। यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थं स्यात्। तस्मात् 'एतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्' इत्येतादृशबुद्ध्युत्पादनं लिङ्गविनियोगः।
'काऽसौ क्रिया' इति विशेषजिज्ञासायाम् 'ऐन्द्योपतिष्ठते' इत्यनेनाविरुद्धपदद्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते। तथासति 'ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेत' इत्ययमर्थः पर्यवस्यति। तथा 'गार्हपत्यम्' इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते। तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति। ततः 'तादृशीं कांचित्क्रियां प्रति गार्हपत्यः प्रधानम्' इत्येतादृशबुद्ध्युत्पादनं श्रुतिविनियोगः। 'ऐन्द्या, उपतिष्ठते' इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति। तथा सति 'ऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठते' इत्यर्थो भवति। तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः।
इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य च गुणत्वात् 'प्रतिप्रधानं गुणः' इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः।
श्रुतिर्विनियुञ्जाना वस्तुसामर्थ्यमनुसृत्यैव विनियुङ्क्ते। अन्यथा 'वह्निना सिञ्चेत्' 'वारिणा दहेत्' इत्यपि विनियुज्येत। तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः ।
ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणवृत्त्या शक्तिरस्तीति 'निवेशनः' इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम्। तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते। लिङ्गं तु विलम्बते। मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति। तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्प्यते। सा च श्रुतिः 'मन्त्रेणेन्द्रमुपतिष्ठेत' इति विनियुङ्क्ते। तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपण-श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते।
न च प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम्। भविष्यत्प्राप्तिप्रतिबन्धस्यैवात्र बाधत्वात्। श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति। तस्मात्- गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते।। 18।। 19।।
अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति-
स्योनं त इति पूर्वार्धं तस्मिन्सीदेति चोत्तरम्। सदने सादने चायं सर्वो वाऽर्धे व्यवस्थिते।। 20।।
तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति। लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः।। 21।।
उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ। बाधादूर्ध्वं निरर्थत्वादप्रामाण्यप्रसङ्गतः।। 22।।
दर्शपूर्णमासयोः श्रूयते ''स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि। तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः'' इति। 'भोः पुरोडाश, तव समीचीनं स्थानं करोमि। तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि। भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश। तत्र स्थिरो भव' इत्यर्थः। तत्र- 'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वोऽप्ययं मन्त्रः स्थानकरणेऽङ्गं स्यात्। मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्' इति। तथा 'सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः' इत्यपि कल्पनीया। सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात्। तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते-
ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति। तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति। अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते। प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते। तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम्।
ननु- 'ऐन्द्या गार्हपत्यम्' इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्रियताम्- इति चेत्-
न। तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत। इह तु महावाक्ये बाधितेऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम्।। 20।। 21।। 22।।
नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
अग्नीषोमाविदं हव्यमजुषेतामितीरितात्। अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा।। 23।।
प्रक्रियातो भवेन्मैवं प्रक्रियाऽन्तरिता त्रिभिः। वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि।। 24।।
सूक्तवाके श्रूयते ''अग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महो ज्यायोऽक्राताम्। इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, महो ज्यायोऽक्राताम्'' इति। तत्र- देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम्। यत्तु 'इदं हविः' इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम्। एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम्। तथासत्येषां मन्त्रभागानां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोऽनुगृह्यते- इति प्राप्ते-
ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात्। प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम्। तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते। तच्च लिङ्गम् 'अनेन मन्त्रभागेनेन्द्राग्निविषयक्रियाऽनुष्ठेया' इति विनियोजिकां तृतीयाश्रुतिं कल्पयति। ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति। अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते। तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते।। 23।। 24।।
दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति-
राजसूयेऽभिषेच्याख्ययागे ये देवनादयः। तच्छेषास्तेऽखिलार्था वा तच्छेषास्तस्य संनिधेः।। 25।।
राजसूयकथंभावानुवृत्तेः सर्वशेषता। कल्प्याकाङ्क्षाऽभिषेच्यस्य प्रक्रिया प्रबला ततः।। 26।।
राजसूये पश्विष्टिसोमयागा बहवः प्रधानभूताः। तत्राभिषेचनीयाख्यः कश्चित्सोमयागः। तस्य संनिधौ देवनादयः श्रूयन्ते- ''अक्षैर्दीव्यति। राजन्यं जिनाति। शौनःशेपमाख्यापयति'' इति। जिनाति जयति। बह्वृचब्राह्मणे समाम्नातं शुनःशेपविषयमुपाख्यानं शौनःशेपम्। तत्र संनिधिबलाद्देवनादयोऽभिषेचनीयाङ्गम्- इति चेत्-
मैवम्। राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः। राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम्। न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति। ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः। संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत्- अत एवाकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते। राजसूयाकाङ्क्षारूपं तु महाप्रकरणं क्लृप्तत्वादेकया कक्षया संनिकृष्यते। तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः।। 25।। 26।।
एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति-
शुन्धध्वमिति मन्त्रोऽङ्गं पौरोडाशिकशोधने। सांनाय्यपात्रशुद्धौ वा प्रथमोऽस्तु समाख्यया।। 27।।
पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा। संनिध्यनुक्तितः कल्प्यः क्लृप्तत्वाच्चरमः क्रमात्।। 28।।
''शुधध्वं दैव्याय कर्मणे'' इत्ययं मन्त्रः 'पौरोडाशिकम्' इति याज्ञिकैः समाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधनेऽङ्गम्- इति चेत्-
मैवम्। 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते, तद्धितप्रत्ययश्च काण्डम्। न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति। किंत्वर्थापत्त्या कल्प्यते- यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात्। न ह्यग्न्यसंनिहितानाम् 'इषे त्वा' दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति। संनिहितानां तु ''युञ्जानः प्रथमं मनः'' इत्यादिमन्त्राणां भवत्येषा समाख्या। तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथाऽनुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः। सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः। इध्माबर्हिःसंपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः। मन्त्रश्चेध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोर्मध्यमेऽनुवाके पठ्यते। तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते। तस्मात्- क्रमेण समाख्यां बाधित्वा 'सांनाय्यपात्रशोधनशेषो मन्त्रः' इत्ययं चरमः पक्षोऽभ्युपेयः।। 27।। 28।।
द्वादशा(बाधयोग्यता)धिकरणमारचयति-
बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते। अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता।। 29।।
प्रमाणतः प्रसक्तस्य बाधो दाशमिकोऽत्र तु। विभ्रमेण प्रसक्तस्य तस्मादप्राप्तबाधनम्।। 30।।
प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम्। अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति। तस्मात्-न युक्तो बाधः- इति चेत्-
मैवम्। बुद्ध्या विषयीकृतस्य वारयितुं शक्यत्वात्। न चैतदत्यन्तं प्रवृत्तम्। अनुष्ठानरूपफलपर्यवसानाभावात्। नाप्यत्यन्तमप्रवृत्तम्। तद्बुद्धेरुत्पन्नत्वात्। अतो नोक्तदोषद्वयम्। दशमे चोदकप्रमाणेनावबुद्धोऽर्थो बाध्यत इति प्राप्तबाधः। इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः।। 29।। 30।।
त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16
अहीनो वा प्रकरणाद्गौणः।। 15।।
असंयोगात्तु मुख्यस्य तस्मादपकृष्येत।। 16।।
त्रयोदशाधिकरणमारचयति-
तिस्र एव हि साह्ने स्युरहीने द्वादशेत्यतः । ज्योतिष्टोमे द्वादशत्वमथवाऽहर्गणे भवेत्।। 31।।
अस्तु प्रकरणादाद्यो नाहीनत्वं विरुध्यते । प्रकृतित्वान्न केनापि हीनोऽतोऽत्र विकल्प्यताम्।। 32।।
साह्नाद्भिन्नाहीनसंज्ञा रूढैषाऽहर्गणे भवेत् । षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम्।। 33।।
ज्योतिष्टोमप्रकरणे श्रूयते ''तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य'' इति। एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात्पूर्वं कर्तव्या होमा उपसदः। तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते। अहीनशब्दश्च तस्मिन्नेव कल्पते। ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात्। अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते-
ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः। तस्मिन्नहीनशब्दो रूढः। यौगिकत्वे तु 'न हीनः' इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात्। मध्योदात्तस्त्वाम्नायते। रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबुद्धिहेतुः। अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते। तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते। तत्सिद्धये प्रकरणादिदमपनेतव्यम्।। 31।। 32।। 33।।
चतुर्दशे कुलायादौ प्रतिपदोरुत्कर्षाधिकरणे सूत्राणि 17-19
द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य।। 17।।
पक्षेणार्थकृतस्येति चेत्।। 18।।
न प्रकृतेरेकसंयोगात्।। 19।।
चतुर्दशाधिकरणमारचयति-
युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् । कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणेऽथवा।। 34।।
एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा। ज्योतिष्टोमस्य कार्यत्वात्प्रकृतेऽत्रैव सा भवेत्।। 35।।
यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् । उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम्।। 36।।
ज्योतिष्टोमे श्रूयते ''युवं हि स्थः स्वर्पती'' इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्। ''एते असृग्रमिन्दवः'' इति बहुभ्यो यजमानेभ्यः- इति। स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दोऽभिधत्ते। सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते। न च तत्र यजमानद्वित्वबहुत्वयोरसंभवः। एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते-
ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्- ''एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्'' इति। यजमानबहुत्वं सत्रेष्वाम्नातम्- ''चतुर्विंशतिपरमाः सत्त्रमासीरन्'' इति। ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः। न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः, अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात्। 'यजमानस्य प्रतिनिधिर्नास्ति' इति वक्ष्यते। यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत्। तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः।। 34।। 35।। 36।।
पञ्चदशे जाघन्या अनुत्कर्षाधिकरणे सूत्राणि 20-23
जाघनी चैकदेशत्वात्।। 20।।
चोदना वाऽपूर्वत्वात्।। 21।।
एकदेश इति चेत् ।।। 22।।
न प्रकृतेरशास्त्रनिष्पत्तेः।। 23।।
पञ्चदशाधिकरणमारचयति-
संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत। दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः।। 37।।
जाघनी नाम भागोऽसौ दर्शादौ समवैति हि। नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया।। 38।।
दर्शपूर्णमासप्रकरणे श्रूयते ''जाघन्या पत्नीः संयाजयन्ति'' इति। जाघनी पशोः पुच्छम्। पत्नीशब्दोऽत्राहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः। अत एव श्रूयते ''पञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाः'' इति। तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः। तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते। जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः। अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते-
ब्रूमः- जाघनीशब्देन पशोर्भागोऽभिधीयते। स च दर्शपूर्णमासयोः पशुयागत्वाभावेऽपि क्रयादिना संपा- दयितुं शक्यते। न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम्। तृतीयया साधनत्वावगमात्। तस्मात्- न प्रकरणादुत्कर्षः।। 37।। 38।।
षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31
संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात्।। 24।।
उत्कर्षो वा ग्रहणाद्विशेषस्य।। 25।।
कर्तृतो वा विशेषस्य तन्निमित्तत्वात्।। 26।।
क्रतुतो वाऽर्थवादानुपपत्तेः स्यात्।। 27।।
संस्थाश्च कर्तृवद्धारणार्थाविशेषात्।। 28।।
उक्थ्यादिषु वाऽर्थस्य विद्यमानत्वात्।। 29।।
अविशेषात्स्तुतिर्व्यर्थेति चेत्।। 30।।
स्यादनित्यत्वात्।। 31।।
षोडशाधिकरणमारचयति-
संतृद्ये द्दीर्घसोमे तत्प्रकृतौ विकृतावुत । दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम्।। 39।।
सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः । दैर्ध्ययुक्तोक्थ्यसंस्थादावुत्कर्षोऽन्यत्र बाधनात्।। 40।।
ज्योतिष्टोमे श्रूयते ''दीर्घसोमे संतृद्ये धृत्यै'' इति। सोमयागविशेषो दीर्घसोमः। तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम्। अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम्। तदेतत्प्रकरणबलात्प्रकृतौ निविशते। न च तत्र दीर्घसोमत्वानुपपत्तिः। 'दीर्घस्य सोमः' इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते-
ब्रूमः- 'षष्ठीसमासात्कर्मधारयो बलीयान्' इति (निषादस्थपत्यधिकरणे) वक्ष्यते। तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य।
नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव- इति चेत्- न। सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात्। न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत। तस्मात्प्रकृतिरूपं ह्रस्वं सोमं व्यावर्तयितुमयं दीर्घशब्दः। विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम्। द्विरात्रादिषु चावृत्त्या दीर्घत्वम्। तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः। प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः। संतर्दनबाधश्च साक्षाच्छ्रूयते- ''हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृण्णे हि हनू'' इति। तस्मात्- न प्रकृतौ निवेशः।। 39।। 40।।
सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33
संख्यायुक्तं क्रतोः प्रकरणात्स्यात्।। 32।।
नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात्।। 33।।
सप्तदशाधिकरणमारचयति-
न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याद्ययज्ञता।। 41।।
प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः। आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः।। 42।।
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते ''न प्रथमयज्ञे प्रवृञ्ज्यात्'' इति। सोऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यः न तु तदीयप्रथमप्रयोगे। कुतः- ''एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः'' इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत्-
मैवम्। 'पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति' इति वाक्येन क्रतौ प्रवर्ग्यस्य विहितत्वात्। न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः। निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात्। प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते। प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम्। एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः। तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः। तदावृत्तिविषयतया यज्ञे लाक्षणिकः। त्वत्पक्षेऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत्-
बाढम्। तथाऽप्यसंजातविरोधिनि लाक्षणिकत्वकल्पनाद्वरमुत्तरपदे तत्कल्पनम्। तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः।
ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति। विधिश्च तत्र श्रूयते ''अग्निष्टोमे प्रवृणक्ति'' इति। एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थाऽस्तु। तथा हि श्रूयते ''कामं तु योऽनूचानः स्यात्, तस्य प्रवृञ्ज्यात्'' इति। तस्मात्- अनूचानव्यतिरिक्तकर्तृकेऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः।। 41।। 42।।
अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ।। 34।।
अष्टादशाधिकरणमारचयति-
प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत । इष्टिप्रकरणादेव प्रकृताविति युज्यते।। 43।।
संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात्। सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया।। 44।।
दर्शपूर्णमासप्रकरणे श्रूयत्- ''तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि'' इति। तत्र दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम्। तथाऽप्युत्तराधिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते।। 43।। 44।।
एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे सूत्राणि 35-38
तत्सर्वार्थमविशेषात्।। 35।।
चरौ वाऽर्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ स्यात्।। 36।।
चरावपीति चेत्।। 37।।
न पक्तिनामत्वात्।। 38।।
एकोनविंशाधिकरणमारचयति-
चरौ पशौ पुरोडाशे चरावेवोत पेषणम् । विशेषादर्शनादेतत्सर्वेष्वपि विधीयते।। 45।।
प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् । न पशौ पारिशेष्येण चरावेव हि पेषणम्।। 46।।
''पौष्णं चरुमनुनिर्वपेत्'' इति चरुर्विहितः। ''पौष्णं श्याममालभेतान्नकामः'' इति पशुविधिः। ''पशुमालभ्य पुरोडाशं निर्वपति'' इत्येतच्चोदकेन पौष्णपशौ प्राप्तम्। तत्र- 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति न्यायेन पुरोडाशस्य पूषा देवता। तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः।। 45।। 46।।
विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46
एकस्मिन्नेकसंयोगात्।। 39।।
धर्मविप्रतिषेधाच्च।। 40।।
अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात्।। 41।।
लिङ्गदर्शनाच्च।। 42।।
वचनात्सर्वपेषणं तं प्रति शास्त्रवत्त्वादर्थाभावाद्द्विचरावपेषणं भवति।। 43।।
एकस्मिन्वाऽर्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात्।। 44।।
हेतुमात्रमदन्तत्वम्।। 45।।
वचनं परम्।। 46।।
विंशाधिकरणमारचयति-
द्विदेवकेऽपि किं पिंष्यादुत पूषैकदैवके । द्विदेवकेऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः।। 47।।
देवता विफलत्वेन पेषणं न प्रयोजयेत्। यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत्।। 48।।
राजसूये श्रूयते ''सौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्'' इति। तत्र द्विदेवकेऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत्-
तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः। नाद्यः। यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति। पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति।- 'पूषा प्रपिष्टभागः' इत्यत्र यागे न श्रुतः- इति चेत्-
मैवम्। भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात्। नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति। सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते। तस्मात्- एकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति।। 47।। 48।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः।। 3।।
अत्र पादे अधिकरणानि 20, सूत्राणि 46 । आदितः अधिकरणानि 143, सूत्राणि 405।
तृतीयाध्यायस्य चतुर्थः पादः
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः।
प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9
निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्।। 1।।
अपदेशो वाऽर्थस्य विद्यमानत्वात्।। 2।।
विधिस्त्वपूर्वत्वात्स्यात्।। 3।।
स प्रायात्कर्मधर्मः स्यात्।। 4।।
वाक्यशेषत्वात्।। 5।।
तत्प्रकरणे यत्तत्संयुक्तमविप्रतिषेधात्।। 6।।
तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात्।। 7।।
अर्थवादो वा प्ररकणात्।। 8।।
विधिना चैकवाक्यत्वात्।। 9।।
चतुर्थपादस्य प्रथमाधिकरणमारचयति-
निवीतं तु मनुष्याणां विधिर्वैषोऽर्थवादकः । अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते।। 1।।
प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात्। उपवीतविधावेकवाक्यत्वादर्थवादता।। 2।।
दर्शपूर्णमासप्रकरणे श्रूयते ''निवीतं मनुष्याणाम्। प्राचीनावीतं पितॄणाम्। उपवीतं देवानाम्। उपव्ययते देवलक्ष्ममेव तत्कुरुते'' इति। तत्र निवीतस्य पूर्वं मानान्तरेणाप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम्। तच्च निवीतं 'मनुष्याणाम्' इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः।
अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- 'सुवर्णधारणवत्सर्वपुरुषसबन्धः' इत्येकः प्रकारः।
'उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र
आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्' इत्यपरः प्रकारः।
प्रकरणबलात्प्रयाजादिवद्यागधर्मः- इति द्वितीयः पूर्वपक्षः।
अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः। 'षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मः' इति पक्षान्तरमुदेति। तच्च द्विविधम्- 'लोहितोष्णीषादिवदृत्विग्धर्मः' इत्येकः प्रकारः। 'क्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यते' इत्यपरः। सर्वथाऽपि निवीतं नार्थवादः- इति प्राप्ते-
ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्। न तु त्रिवृत्सूत्रविषयम्, ''अजिनं वासो वा दक्षिणत उपवीय'' इत्यनेन सदृशत्वात्। वस्त्रस्य च निवीतं सौकर्याय प्राप्तम्। प्राचीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत्। अतः प्राप्तेऽर्थे 'मनुष्याणाम्' इति षष्ठीश्रुतिर्न विधायिका। न च प्रकरणात्क्रत्वङ्गत्वेन विधिः, वाक्यभेदप्रसङ्गात्। उपवीतं तावद्विधीयते। अन्यथा ''देवलक्ष्ममेव तत्कुरुते'' इति प्रशंसावैयर्थ्यापत्तेः। तस्मिंश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम्। निवीतप्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेकमुखेन स्तावकं निवीतम्। तस्मात्- अर्थवादः।। 1।। 2।।
द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11
उपवीतं लिङ्गदर्शनात्सर्वधर्मः स्यात्।। 10।।
न वा प्रकरणात्तस्य दर्शनम्।। 11।।
द्वितीयाधिकरणमारचयति-
सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः । सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः।। 3।।
दर्शाद्यर्थं प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा । दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम्।। 4।।
''यज्ञोपवीती हि देवेभ्यो दोहयति'' इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत्-
न। लिङ्गस्यान्यथोपपत्तेः। मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते। तत्र ''प्राचीनावीती दोहयेत्'' इति विधाय तस्य स्तुतये ''यज्ञेपवीती''- इत्याद्यनूदितम्। अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतम्।। 3।। 4।।
तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्
विधिर्वा स्यादपूर्वत्वात्।। 12।।
तृतीयाधिकरणमारचयति-
उपव्यानेऽनुवादो वा विधिर्वाद्यो यतः स्मृतौ। प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते।। 5।।
''नित्योदकी नित्ययज्ञोपवीती'' इति स्मृत्या प्राप्तस्य 'उपव्ययते' इत्ययमनुवादः- इति चेत्।
मैवम्। पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते।। 5।।
चतुर्थे- उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14
उदक्त्वं चापूर्वत्वात्।। 13।।
सतो वा लिङ्गदर्शनम्।। 14।।
चतुर्थाधिकरणमारचयति-
उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः । वादो वाऽस्यान्यतोऽप्राप्तेरपूर्वार्थो विधीयते।। 6।।
हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् । संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः।। 7।।
प्रेताग्निहोत्रे श्रूयते ''प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति'' इति। ''ये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्'' इति। तत्र मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वं जीवतोऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं च विधातव्यम्। ''देवेभ्यो यज्ञोपवीती दोहयेत्'' ''मरणात्पुरा ये दर्भास्त उदञ्चः कार्याः'' इति वचनव्यक्तिः। नह्येतदुभयमन्यतः प्राप्तम्। तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत्-
मैवम्। हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः। अस्ति च तयोः प्राप्तिः। 'अग्रवन्त्युदगग्राणि'- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते। तथा दर्शपूर्णमासयोः 'उपव्ययते' इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते। तस्मादनुवादः।। 6।। 7।।
पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्
विधिस्तु धारणेऽपूर्वत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-
धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः । विधिर्वाद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः।। 8।।
ऊर्ध्वं विधारणं प्राप्तं समिधो नान्यमानतः। अतो हिशब्दसंत्यागादपूर्वार्थो विधीयते।। 9।।
प्रेताग्निहोत्र एवं श्रूयते ''अधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयति'' इति। अत्र- पित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते। हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत्-
मैवम्। दैविके हविषि स्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात्। अनुवादत्वगमको हिशब्दोऽसंभवादुपेक्षणीयः।। 8।। 9।।
षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्
दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वात्।। 16।।
षष्ठाधिकरणमारचयति-
दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः । वादो वाऽत्र पुराकल्पस्तुत्यर्थो विधिमर्हति।। 10।।
प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः । दिग्विभागोऽर्थवादोऽयमुपवीते निवीतवत्।। 11।।
ज्योतिष्टोमे श्रूयते ''प्राचीनवंशं करोति। देवमनुष्या दिशो व्यभजन्त--प्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते'' इति। तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का। 'मनुष्याः प्रतीचीं विभजेयुः' इत्येवं विधिः स्यात्। कुतः- पुराकल्परूपेणार्थवादेन स्तूयमानत्वात्। पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः। 'व्यभजन्त' इत्यनेन भूतार्थवाचिना तदभिधीयते। तस्मात्- विधिः- इति पूर्वपक्षः।
यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः। तद्विध्येकवाक्यत्वावगमादर्थवादः। सायंकालीनार्घ्यादौ प्रतीची प्राप्ता।। 10।। 11।।
सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्
परुषि दितपूर्णघृतविदग्घं च तद्वत्।। 17।।
सप्तमाधिकरणमारचयति-
परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम्। घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम्।। 12।।
यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् । स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत्।। 13।।
दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते ''यत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यै'' इति। परुः पर्व। दितं खण्डितम्।
तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते ''घृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवन्नीतम्, यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति'' इति। मस्तु दधिभवं मण्डम्। निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा।
दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते ''यो विदग्धः स नैर्ऋतः, योऽशृतः स रौद्रः, यः शृतः स देवः, तस्मादविदहता श्रृतंकृत्यः सदेवत्वाय'' इति। विदग्धोऽत्यन्तपक्वः। अशृतोऽपक्वः। तत्र- बर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य, पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम्। निवीतविचारस्यैवायं प्रपञ्चः। एवम् 'यत्पूर्णं तन्मनुष्याणाम्' इत्यत्रापि द्रष्टव्यम्। तच्च चातुर्मास्येषु महापितृयज्ञे ''पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्या गोर्दुग्धे मन्थम्'' इत्यत्र वत्सरहिताया अभिवानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते ''यत्पूर्णं तन्मनुष्याणामुपर्यर्धो देवानाम्, अर्धः पितॄणाम्, अर्ध उपमन्थति, अर्धो हि पितॄणाम्'' इति। तत्र पात्रस्याधोभागरूपेणार्धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोऽर्धो विधीयते। स च पूर्णादिवाक्येन स्तूयते।। 12।। 13।।
अष्टमे- अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे
अकर्म क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात्।। 18।।
विधिर्वा संयोगान्तरात्।। 19।।
अष्टमाधिकरणमारचयति-
अनृतं न वदेद्वैधः पुंधर्मो वाऽनुवैदगीः। सक्रतौ पुंसि शुद्धे वा क्रतौ यद्वा विधिः क्रतौ।। 14।।
अनृतोक्तेः पुमर्थत्वात्तन्निषेधस्तथाबिधः। स्मार्तानुवादः पुंस्क्रत्वोः श्रुतिप्रक्रिययोर्वशात्।। 15।।
नाख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत्। सत्योक्तिनियमादन्यः संयोगोऽतः क्रतौ विधिः।। 16।।
दर्शपूर्णमासप्रकरणे श्रूयते ''नानृतं वदेत्'' इति। तत्र- पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते। कुतः- प्रतियोगिनोऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात्। 'वदेत्' इत्याख्यातं तावत्कर्तृवाचकम्। तेनाख्यातेन कर्तुः प्रतीयमानत्वात्। पुरुषस्याख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम्। 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन' इति शाब्दिकैरुद्घोषणात्। वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम्। अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात्। तस्मात्पुरुषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थोऽयं प्रतिषेधो विधीयते। अस्त्येव स्मार्तः प्रतिषेधः- इति चेत्- तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु। तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः।
आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मोऽस्तु। नह्येतद्वाक्यं स्मृतेर्मूलम्। भिन्नविषयत्वात्। स्मृतिश्चोपनयनमारभ्यामरणं पुरुषस्यानृतं प्रतिषेधति। तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव। तत उभयार्थोऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः।
आख्यातेन भावनाऽभिधीयते। कर्ता तु तदविनाभूतोऽर्थात्प्रतीयते। अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते। न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः।
'सत्यमेव वदेत्, नत्वनृतम्' इति योऽयं स्मार्तनियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः। अतोऽप्राप्तत्वाद्विधीयते। एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः। अतोऽत्र क्रतुगामि प्रायश्चित्तम्। पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम्। तत्र स्मार्तं प्रायश्चितम्- इति विशेषः।। 14।। 15।। 16।।
नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22
अहीनवत्पुरुषस्तदर्थत्वात्।। 20।।
प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत्।। 21।।
व्यपदेशादपकृष्येत।। 22।।
नवमाधिकरणमारचयति-
जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत। वाक्यादाद्यः प्रक्रियया द्वितीयोऽस्त्वविरुद्धया।। 17।।
दर्शपूर्णमासप्रकरणे श्रूयते ''प्राणो वै दक्षः। अपानः क्रतुः। तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू- इति, प्राणापानावेवात्मन्धत्ते'' इति। गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः। तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते। वाक्यं च प्रकरणाद्बलीयः। तस्मात्- केवलं पुंधर्मः- इति चेत्-
मैवम्। क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात्।। 17।।
दशमे- अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्
शंयौ च सर्वपरिदानात्।। 23।।
दशमाधिकरणमारचयति-
विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता। फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत्।। 18।।
यातनापरिहारस्य निषेधफलतोचिता । निषेधोऽयं पुमर्थत्वात्प्रक्रियातोऽपकृष्यताम्।। 19।।
दर्शपूर्णमासप्रकरणे श्रूयते ''यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्। तस्माद्ब्राह्मणाय नावगुरेत'' इति। तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत्-
न। वैषम्यात्। पूर्वत्र हि- आत्मनि प्राणापानधारणं मन्त्रोच्चारणफलं न संभवति, तस्य प्रागेव सिद्धत्वात्। इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधाद्यातनापरिहारस्य निषेधफलत्वमुचितम्। तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणादुत्कर्षो युक्तः।। 18।। 19।।
एकादशे मलवद्वासःसंवादनिषेधाधिकरणे सूत्रे 24-25
प्रागपरोधान्मलवद्वाससः।। 24।।
अन्नप्रतिषेधाच्च।। 25।।
एकादशाधिकरणमारचयति-
न संवदेत मलवद्वाससेत्यपि पूर्ववत्। पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः।। 30।।
दर्शपूर्णमासप्रकरणे श्रूयते ''मलवद्वाससा न संवदेत'' इति। अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वम्- इति चेत्-
मैवम्। अप्रसक्तप्रतिषेधप्रसङ्गात्। 'यस्य व्रत्येऽहनि पत्न्यनालम्भुका भवति, तामपरुध्य यजेत' इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः। तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः।। 20।।
द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30
अप्रकरणे तु तद्धर्मस्ततो विशेषात्।। 26।।
अद्रव्यत्वात्तु शेषः स्यात्।। 27।।
वेदसंयोगात्।। 28।।
द्रव्यसंयोगाच्च।। 29।।
स्याद्वाऽस्य संयोगवत्फलेन संबन्धस्तस्मात्कर्मैतिशायनः।। 30।।
द्वादशाधिकरणमारचयति-
हिरण्यं वर्णवद्भार्यं क्रत्वङ्गं भरणं भवेत् । हिरण्यसंस्कृतिर्वाऽत्र वर्णो वोत पुमर्थता।। 21।।
वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके ।प्राधान्यात्संस्कृतिर्वर्णो गुणोऽस्तु विधिलाघवात्।। 22।।
अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः ।अतः पुमर्थता स्वर्गः कल्प्योऽन्यद्वाऽस्तु रात्रिवत्।। 23।।
अनारभ्य श्रूयते ''तस्मात्सुवर्णं हिरण्यं भार्यम्। सुवर्ण एव भवति। दुर्वर्णोऽस्य भ्रातृव्यो भवति'' इति। तत्र- यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः।
क्रत्वङ्गत्वेऽपि नारादुपकारकम्, किंतु क्रतुगतं हिरण्यं धारणेन संस्क्रियते। 'भार्यम्' इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात्- इति द्वितीयः पक्षः।
वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः।
त्रेधाऽपि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते-
यद्धि क्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम्। इदं त्वनारभ्याधीतम्। न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत।
ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात्। नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगोऽस्ति- इति चेत्- न। क्रतावप्युपयोगाभावात्। क्रतूपयोगोऽपि कल्प्यते- इति चेत्- न। 'क्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगः' इत्यन्योन्याश्रयत्वात्। अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम्।
न चात्र फलाभावः। विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात्। अथवा रात्रिसत्रे यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा फलत्वेन कल्पिता तथाऽत्रापि ''सुवर्ण एव भवति, दुर्वर्णोऽस्य भ्रातृव्यः'' इत्यर्थवादगतं फलमस्तु। तस्मात्- पुरुषार्थो धारणविधिः।। 21।। 22।। 23।।
त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33
शेषाः प्रकरणेऽविशेषात्सर्वकर्मणाम्।। 31।।
होमास्तु व्यवतिष्ठेरन्नाहवनीयसंयोगात्।। 32।।
शेषश्च समाख्यानात्।। 33।।
त्रयोदशाधिकरणमारचयति-
येनेर्त्सेत्कर्मणा तत्र जयाहोमेऽखिलार्थता। वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः।। 24।।
होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति हि। तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः।। 25।।
अनारभ्य श्रूयते ''येन कर्मणेर्त्सेत्, तत्र जयां जुहुयात्। राष्ट्रभृतो जुहोति। अभ्यातानाञ्जुहोति'' इति। ईर्त्सेदृद्धिमिच्छेत्। ''चित्तं च स्वाहा'' इत्यादयो जयाः ''ऋताषाड्'' इत्यादयो राष्ट्रभृतः। ''अग्निर्भूतानाम्'' इत्यादयोऽभ्यातानाः। तत्र वैदिककर्मणेव लौकिककृष्यादिकर्मणाऽप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणाभावाज्जयादिहोमः सर्वशेषः- इति चेत्-
मैवम्। ''यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतः'' इति वाक्येन होममुद्दिश्या हवनीयविधानात्। कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः।। 24।। 25।।
चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35
दोषात्त्विष्टिर्लौकिके स्यात्, शास्त्राद्धि वैदिके न दोषः स्यात्।। 34।।
अर्थवादो वाऽनुपपातातू, तस्माद्यज्ञे प्रतीयेत।। 35।।
चतुर्दशाधिकरणमारचयति-
अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते। दानद्वये लौकिके वा वैदिके वा भवेदियम्।। 26।।
अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत्।। 27।।
न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा।। 28।।
इदमाम्नायते- ''यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्'' इति। तत्र 'प्रतिग्रहशब्दो दानपरः' इत्यनन्तरमेव वक्ष्यते। तत्र- विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयोरप्यसाविष्टिः- इत्येकः पक्षः।
'न केसरिणो ददाति' इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लौकिकमश्वदानं निषिद्धम्। तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिः- इति द्वितीयः पक्षः।
''वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति'' इत्यश्वदाने जलोदरव्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते। न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम्। वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम्। अतो वैदिकदाने सेष्टिः प्रायश्चित्तम्। अस्ति हि वैदिकमश्वदानम् ''वडबा दक्षिणा'' इत्यादिश्रवणात्।। 26।। 27।। 28।।
पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37
अचोदितं कर्मभेदात्।। 36।।
सा लिङ्गादार्त्विजे स्यात्।। 37।।
पञ्चदशाधिकरणमारचयति-
यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि।। 29।।
असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधिं नयेत्।। 30।।
पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात्' इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत्-
न। उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः। उपक्रमश्चैवं श्रूयते ''प्रजापतिर्वरुणायाश्वमनयत्, स स्वां देवतामार्छत्। स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यत'' इति। अनयद्दत्तवान्। स च 'दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान्। तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत' इत्यत्र- दातुरिष्टिः- इत्यवगम्यते। असंजातविरोध्युपक्रमानुसारेण विधायकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम्।। 29।। 30।।
षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39
पानव्यापच्च तद्वत्।। 38।।
दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात्।। 39।।
षोडशाधिकरणमारचयति-
सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः । दृष्टदोषो लौकिकेऽतो वमने विहितश्चरुः।। 31।।
अदोषो वमनायैव लोके पानं श्रुतौ पुनः । जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः।। 32।।
इदमाम्नायते- ''सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनः'' इति। तत्र- लौकिके सोमवमने विहितोऽयं चरुः। कुतः- ''वि वा एष इन्द्रियेण वीर्येण व्यृघ्यते यः सोमं वमति'' इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात्- इति चेत्-
मैवम्। लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुत्वाभावात्। वेदे तु ''हिन्व मे गात्रा हरिवः'' इत्यनेन मन्त्रेण जरयितुं सोमः पीयते। तत्र वमनप्रायश्चित्तार्थोऽयं चरुः।। 31।। 32।।
सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42
तत्सर्वत्राविशेषात्।। 40।।
स्वामिनो वा तदर्थत्वात्।। 41।।
लिङ्गदर्शनाच्च।। 42।।
सप्तदशाधिकरणमारचयति-
ऋत्विजां वमनेऽप्येष कर्तुरेवोत वर्जनात् । विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः।। 33।।
'ईदृशस्य सोमस्य वमने चरुः' इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत्-
मैवम्। 'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम्। निर्वप्ता च यजमानः। ऋत्विजो निर्वप्तृत्वेऽधिकार्यन्तरत्वप्रसङ्गात्। तस्मात्- यजमानस्यैव वमने चरुविधिः।। 33।।
अष्टादशे- आग्नेयाष्टाकपालचरोर्द्व्यवदानमात्रस्य होतव्यताधिकरणे सूत्राणि 43-47
सर्वप्रदानं हविषस्तदर्थत्वात्।। 43।।
निरवदानात्तु शेषः स्यात्।। 44।।
उपायो वा तदर्थत्वात्।। 45।।
कृतत्वात्तु कर्मणः सकृत्स्याद्द्रव्यस्य गुणभूतत्वात्।। 46।।
शेषदर्शनाच्च।। 47।।
अष्टादशाधिकरणमारचयति-
यागे हविस्त्यजेत्कृत्स्नं कोऽप्यंशः शिष्यतेऽपि वा । देवार्थत्वाद्यजेत्सर्वं शिष्यते द्विरवत्ततः।। 34।।
''आग्नेयोऽष्टाकपालः'' इत्यत्र कृत्स्नोऽपि पुरोडाशोऽग्नये त्यक्तव्यः। तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः। त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् ।
मैवम्। ''द्विर्हविषोऽवद्यति'' इत्यवदानद्वयं श्रूयते। अवदेयं चाङ्गुष्ठपर्वमात्रम्। तथा च कल्पसूत्रकारः- इति। ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम्। इतरच्छेषणीयम्। देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते।। 34।।
एकोनविंशे सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणे सूत्राणि 48-51
अप्रयोजकत्वादेकस्मात्क्रियेरन्, शेषस्य गुणभूतत्वात्।। 48।।
संस्कृतत्वाच्च।। 49।।
सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात्।। 50।।
लिङ्गदर्शनाच्च।। 51।।
एकोनविंशाधिकरणमारचयति-
शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते । शास्त्रार्थसिद्धिः सर्वेभ्यः कार्यः संस्कारसाम्यतः।। 35।।
दर्शपूर्णमासयोः श्रूयते ''शेषात्स्विष्टकृते समवद्यति'' इति। तत्र- आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम्। तावतैव शास्त्रार्थानुष्ठानसिद्धेः- इति चेत्-
मैवम्। उपयुक्तं हविः संस्कर्तुमिदमवदीयते। संस्कारश्च सर्वेष्वपि हविःषु समानः। तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः।। 35।।
विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53
एकस्माच्चेद्याथाकाम्यमविशेषात्।। 52।।
मुख्याद्वा पूर्वकालत्वात्।। 53।।
विंशाधिकरणमारचयति-
यदैकस्मात्तदा मुख्यनियतिर्नोत विद्यते। नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः।। 36।।
'एकस्मादेव हविःशेषात्स्विष्टकृत्' इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्- यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते-
ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारसिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः।। 36।।
एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57
भक्षाश्रवणाद्दानशब्दः परिक्रये।। 54।।
तत्संस्तवाच्च।। 55।।
भक्षार्थो वा द्रव्ये समत्वात्।। 56।।
व्यादेशाद्दानसंस्तुतिः।। 57।।
एकविंशाधिकरणमारचयति-
इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा। भक्षाश्रुतेः क्रयार्थाऽतो यथेष्टं तैर्नियुज्यताम्।। 37।।
देवतायै समस्तस्य क्लृप्तत्वात्स्वामिता न हि । शेषस्य प्रतिपत्त्यर्थं भक्षणं तत्र युज्यते।। 38।।
चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- 'इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः' इति। सोऽयं निर्देश न भक्षणार्थः। भक्षणस्याश्रुतत्वात्। ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः। क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते। तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते-
ब्रूमः- ''अग्नये जुष्टं निर्वपामि'' इति कृत्स्नस्य हविषो देवतार्थं संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः। भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम्। अवशिष्टस्य यः कोऽप्युपयोगः प्रतिपत्तिः। पुरोडाशस्य भक्षणार्हत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थोऽयं निर्देशो युज्यते।। 37।। 38।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः।। 4।।
अत्र पादे अधिकरणानि 21, सूत्राणि 164।
आदितः अधिकरणानि 57, सूत्राणि 462।
तृतीयाध्यायस्य पञ्चमः पादः
प्रतिपत्तिकर्माणि।
प्रथमे ध्रुवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12
आज्याच्च सर्वसंयोगात्।। 1।।
कारणाच्च।। 2।।
एकस्मिन्समवत्तशब्दात्।। 3।।
आज्ये च दर्शनात्स्विष्टकृदर्थवादस्य।। 4।।
अशेषत्वात्तु नैवं स्यात्सर्वादानादशेषता।। 5।।
साधारण्यान्न ध्रुवायां स्यात्।। 6।।
अक्तत्वाच्च जुह्वां तस्य च होमसंयोगात्।। 7।।
चमसवदिति चेत्।। 8।।
न चोदनाविरोधाद्धविःप्रकल्पनाच्च।। 9।।
उत्पन्नाधिकारात्सति सर्ववचनम्।। 10।।
जातिविशेषात्परम्।। 11।
अन्त्यमनेकार्थे।। 12।।
पञ्चमपादस्य प्रथमाधिकरणमारचयति-
उपांशुयाजद्रव्येण शेषकार्यं भवेन्न वा । भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः।। 1।।
उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपत्त्यर्हः शेषकार्यं ततः कथम्।। 2।।
ध्रौवादाज्यादुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्यं कर्तव्यम्। कुतः- ''तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति'' इति वाक्येन प्रापितत्वात्- इति चेत्-
मैवम्। कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति। ध्रौंव त्वाज्यं न कृतार्थम्। तेन कर्तव्यानामुपस्तरणादीनां सद्भावात्। तस्मात्- न तेन शेषकार्यं भवति।। 1।। 2।।
द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम्
साकंप्रस्थाय्ये स्विष्टकृदिडं च तद्वत्।। 13।।
द्वितीयाधिकरणमारचयति-
आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा । जुह्वाऽवदानात्प्रकृताविव शेषक्रियोचिता।। 3।।
कुम्भीषु शेषासंसिद्धेः साकंप्रस्थाय्यकर्मणि। न स्विष्टकृदिडं कार्यमग्नीधः स्रुक्प्रदानतः।। 4।।
''साकंप्रस्थायीयेन यजेत पशुकामः'' इति विहिते कर्मणि श्रूयते ''सह कुम्भीभिरभिक्रामन्नाह'' इति। तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाहवनीयदेशेऽभिक्रमणमात्रं श्रुतम्। न तु तत्र कुम्भीभिर्होमः श्रुतः। तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्योऽवदाय होतव्यम्। हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणेव कर्तव्यम्- इति प्राप्ते-
नात्र कुम्भीषु हुतशेषः सिध्यति, सांनाय्यवज्जुह्वा तदवदानाभावात्। ''अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्'' इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रमवशिष्यते। न तु हविःशेषः। तत्र कुतः शेषकार्यम्।। 3।। 4।।
तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15
सौत्रामण्यां च ग्रहेषु।। 14।।
तद्वच्च शेषवचनम्।। 15।।
तृतीयाधिकरणमारचयति-
सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वाऽस्ति तत् । शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः।। 5।।
सौत्रामणिनामके यागे श्रूयते ''पयोग्रहाः सुराग्रहाश्च गृह्यन्ते'' इति। तत्र प्रकृतिगतसोमग्रहेष्विव शेषकार्यं स्विष्टकृदादिकमस्ति। न चात्र पूर्ववच्छेषाभावः। ''उच्छिनष्टि, न सर्वं जुहोति'' इत्यवशेषयितव्यत्वश्रवणात्- इति चेत्-
मैवम्। अवशिष्टस्यान्यत्रोपयोगश्रवणात्।
''ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्'' इति श्रूयते।
''यदि ब्राह्मणं न विन्देत्, वल्मीकवपायामवनयेत्'' इति च।
''शतातृण्णायामवनयेत्'' इति च।
शतच्छिद्रा कुम्भी शतातृण्णा। तस्मात्- नास्ति स्विष्टकृदादिकम्।। 5।।
चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17
द्रव्यैकत्वे कर्मभेदात्प्रतिकर्म क्रियेरन्।। 16।।
अविभागाच्च शेषस्य, सर्वान्प्रत्यविशिष्टत्वात्।। 17।।
चतुर्थाधिकरणमारचयति-
रथंतरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते । पुरोडाशस्तत्र शेषकार्यं किं भिद्यते न वा।। 6।।
भिद्यते कर्मणां भेदाच्चौदकैः पृथगुक्तितः । शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम्।। 7।।
''य इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्'' इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- ''इन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्वराय, इन्द्राय रैवताय'' इति। तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- ''द्वादशकपालः पुरोडाशो भवति। वैश्वदेवत्वाय'' इति। तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते ''समन्तं पर्यवद्यति'' इति। तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्यं षट्कृत्वः पृथक्कर्तव्यम्- इति चेत्-
मैवम्। शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात्। तस्मात्- सकृदेव कार्यम्।। 6।। 7।।
पञ्चमे- ऐन्द्रवायवग्रहे द्विःशेषभक्षणाधिकरणे सूत्रम्
ऐन्द्रवायवे तु वचनात्प्रतिकर्म भक्षः स्यात्।। 18।।
पञ्चमाधिकरणमारचयति-
ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् । पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत्।। 8।।
ज्योतिष्टोमे योऽयमैन्द्रवायवग्रहः। तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत्-
मैवम्। ''द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति'' इति वचनाद्द्विर्भक्षणम्।। 8।।
षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21
सोमेऽवचनाद्भक्षो न विद्यते।। 19।।
स्याद्वाऽन्यार्थदर्शनात्।। 20।।
वचनानि त्वपूर्वत्वात्तस्माद्यथोपदेशं स्युः।। 21।।
षष्ठाधिकरणमारचयति-
सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः । अल्पोक्तेरस्ति शेषोऽस्य भक्षोऽपूर्ववचोबलात्।। 9।।
सोमयागेषु शेषभक्षो नास्ति, ''यद्ग्रहाञ्जुहोति'' इति कृत्स्नग्रहेणाहुतिश्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत्-
मैवम्। ''अल्पं जुहोति'' इति विशेषवचनाच्छेषः सिध्यति। तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्योऽवगम्यते। ''आश्विनं भक्षयन्ति'' ''द्विरैन्द्रवायवस्य भक्षयन्ति'' ''सदसि भक्षयन्ति'' इत्यादीनि वचनान्यपूर्वार्थं प्रतिपादयन्ति। ततो भक्षविधानादस्ति सोमेषु भक्षः।। 9।।
सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्
चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्वात्।। 22।।
सप्तमाधिकरणमारचयति-
किं प्रैतु होतुश्चमस इत्यभक्षोऽथ भक्षणम् । अभक्षोऽनुक्तितो होतुश्चमसेत्याख्ययाऽस्तु तत्।। 10।।
ज्योतिष्टोमे श्रूयते ''प्रैतु होतुश्चमसः, प्रब्रह्मणः, प्रोद्गातॄणां, प्रयजमानस्य, प्रयन्तु सदस्यानाम्'' इति। तत्र वचनाभावादभक्षः- इति चेत्-
मैवम्। समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात्। 'चम्यते भक्ष्यते सोमोऽस्मिन्पात्रविशेषे' इति हि तद्व्युत्पत्तिः। तस्मात्- अस्ति तद्भक्षणम्।। 10।।
अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि- 23-26
उद्गातृचमसमेकः श्रुतिसंयोगात्।। 23।।
सर्वे वा सर्वसंयोगात्।। 24।।
स्तोत्रकारिणां वा तत्संयोगाद्बहुश्रुतेः।। 25।।
सर्वे तु वेदसंयोगात्कारणादेकदेशे स्यात्।। 26।।
अष्टमाधिकरणमारचयति-
प्रोद्गातॄणामिति ह्येक उद्गाता भक्षयेदुत । सर्वेऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः।। 11।।
सहितास्तेन ते वाद्य उद्गातृश्रुतितोऽखिलाः । बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते।। 12।।
योगे समाख्यया दण्डिन्यायादन्त्योऽत्र भाष्यगः । सदसि स्थित्यभावेन तृतीयो वार्तिकोदितः।। 13।।
पूर्वोदाहृतवाक्ये 'प्रोद्गातॄणाम्' इत्यत्रैकस्यैव भक्षः। उद्गीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात्- इत्येकः पूर्वपक्षः।
'उद्गातॄणाम्' इत्यस्य बहुत्वस्यैकस्मिन्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वेऽपि भक्षयेयुः- इति द्वितीयः।
उद्गीथप्रस्तावप्रतिहारान्सामभागानुद्गातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति। 'उदुत्कर्षेण गायन्ति' इति योगेनोद्गातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः ।
'रूढिर्योगमपहरति' इति न्यायादेक एवोद्गाता। तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते। प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति। सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात्। तस्मात्- 'सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः'- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः।
वार्तिककारस्तु- सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार।। 11।। 12।। 13।।
नवमे ग्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30
ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात्।। 27।।
हारियोजने वा सर्वसंयोगात्।। 28।।
चमसिनां वा संनिधानात्।। 29।।
सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः।। 30।।
नवमाधिकरणमारचयति-
किं स्याच्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाऽग्रिमस्तेषां पूर्ववाक्येन संनिधेः।। 14।।
लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । ग्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम्।। 15।।
''हरिरसि हारियोजनः'' इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः। होतृब्रह्मादयश्चमसिनः। यस्तु चतुर्णां होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामकोऽस्ति, नासौ चमसी। तत्र चमसिनामेव हारियोजनभक्षणम्। कुतः-''यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते'' इत्यत्र पूर्ववाक्ये चमसिनां संनिहितत्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात्। अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते-
ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः। तस्मात्- चमसित्वं न भक्षणे कारणम्।। 14।। 15।।
दशमे वषट्करणस्य भक्षनिमित्तताधिकरणे सूत्रम्
वषट्काराच्च भक्षयेत्।। 31।।
दशमाधिकरणमारचयति-
आद्यभक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् । किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके।। 16।।
अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् ।विशिष्टस्य विधिस्तस्माद्वषट्कारोऽपि कारणम्।। 17।।
''वषट्कर्तुः प्रथमभक्षः'' इत्येवं श्रूयते। वषट्कर्ता होता। तस्य भक्षणं समाख्यया प्राप्तम्। प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते- इति चेत्-
मैवम्। 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन 'यो भक्षः, स प्रथमः' इत्येयं विच्छिद्यान्वे- तुमयोग्यत्वात्प्राथम्यविशिष्टभक्षणमत्र विधीयते। तस्मिन्भक्षणे वषट्कारः कारणम्।। 16।। 17।।
एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्
होमाभिषवाभ्यां च।। 32।।
एकादशाधिकरणमारचयति-
आख्यावचोवषट्कारा एव किं भक्षहेतवः । किंवाऽभिषवहोमौ च तत्राद्योऽस्तूक्तया दिशा।। 18।।
हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत् । इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे।। 19।।
'प्रैतु होतुश्चमसः' इत्यत्र समाख्या भक्षहेतुः। हारियोजने वाक्यम्, 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारः, इत्येवमुक्तत्वात्त्रय एव भक्षहेतवः- इति चेत्-
मैवम्। ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति'' इति श्रूयते। उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डलेऽभिषवः। उत्तरवेद्यां होमः। सदसि भक्षणम्। तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते। तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति।। 18।। 19।।
द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35
प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे।। 33।।
स्याद्वा कारणमावादनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात्।। 34।।
चमसे चान्यदर्शनात्।। 35।।
द्वादशाधिकरणमारचयति-
होतृसंघे विकल्पः किं बाधो वाऽथ समुच्चयः। साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया।। 20।।
नैव वाचनिकं बाध्यं भक्षणेऽत्र विभागशः । सिद्धे विकल्पो नो युक्तः स्वीकार्योऽतः समुच्चयः।। 21।।
''प्रैतु होतुश्चमसः, प्रब्रह्मणः''- इत्यत्र चमसिषु समाख्या भक्षणे हेतुः। 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारो होतुर्भक्षहेतुः। ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा सदसि भक्षयन्ति'' इत्यत्राभिषवसहितो होमोऽध्वर्योर्भक्षहेतुः। तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः। चमसाभिषवसंघोऽध्वर्यौ प्राप्तः। तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतरनिमित्तकृतमेव भक्षणम्- इत्याद्यः पक्षः।
वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादिहेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः।
'वषट्कर्तुः' इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः। निरवकाशतया साऽपि प्रबला- इति चेत्- तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयोऽभ्युपेयः। न च व्रीहियववद्विकल्पः, तत्र पुरोडाशनिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात्। इह तु नियमादृष्टार्थं भक्षणम्। तच्चादृष्टं यथावचनं द्विविधम्। तस्मात्समुच्चयः।। 20।। 21।।
त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39
एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत्।। 36।।
होता वा मन्त्रवर्णात्।। 37।।
वचनाच्च।। 38।।
कारणानुपूर्व्याच्च।। 39।।
त्रयोदशाधिकरणमारचयति-
एकपात्रे किमध्वर्युरद्यात्पूर्वमुतेतरः । तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम्।। 22।।
पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता। वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि।। 23।।
एकस्मिन्पात्रे बहूनां क्वचिद्विहितं भक्षणम्। तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात्- इति चेत्-
मैवम्। लिङ्गवाक्याभ्यां होतुः प्रथमभक्षावगमात्। ''होतेव नः प्रथमः पाहि'' इति ऋत्विजोऽध्वर्युं संबोध्यैवं प्रार्थयन्ते- 'यथा होताऽस्मत्तः पूर्वं भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि पाहि' इति। तदेतद्धोतुः प्रथमभक्षे लिङ्गम्। वाक्यं चैवमाम्नातम्- 'वषट्कर्तुः प्रथमभक्षः' इति। तत्र विशिष्टविधानात्प्राथम्यमपि सिध्यति। न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम्। तस्मात्- होता प्रथमं भक्षयेत्।। 22।। 23।।
चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम्
वचनादनुज्ञातभक्षणम्।। 40।।
चतुर्दशाधिकरणमारचयति-
नानुज्ञापूर्वको भक्षस्तत्पूर्वो वाऽत्र लाघवात् । आद्यो नानुपहूतेन पेय इत्युक्तितोऽन्तिमः।। 24।।
अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम्- इति चेत् ।
मैवम्। ''तस्मात्सोमो नानुपहूतेन पेयः'' इति वचनेनानुज्ञाया आवश्यकत्वात्।। 24।।
पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्
तदुपहूत उपह्वयस्वेत्यनेनानुज्ञापयेल्लिङ्गात्।। 41।।
पञ्चदशाधिकरणमारचयति-
किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा। अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी।। 25।।
''उपहूत उपह्वयस्व''- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते। तस्मात्- वैदिकोक्त्या तदनुज्ञानम्।। 25।।
षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्
तत्रार्थात्प्रतिवचनम्।। 42।।
षोडशाधिकरणमारचयति-
उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत्। अनुज्ञानुज्ञापनयोरथवाऽसौ विभज्यते।। 26।।
विभागकरणाभावादशेषश्चेन्न लिङ्गतः । उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः।। 27।।
''उपहूत उपह्वयस्व'' इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितोऽपि प्रश्नसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः। प्रथमैकवचनान्तस्तु प्रथमपठितोऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः। तस्मात्- लिङ्गेन विभज्य विनियुज्यते।। 26।। 27।।
सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम्
तदेकपात्राणां समवायात्।। 43।।
सप्तदशाधिकरणमारचयति-
उपह्वानमशेषाणामुत स्यादेकपात्रिणाम्। अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितोऽन्तिमः।। 28।।
अनुज्ञापनस्यादृष्टं प्रयोजनम्। तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत्-
न। दृष्टप्रयोजनस्य सद्भावात्। साधारणे वस्तुनि कथंचिद्भागाधिक्येऽपराधो भवति। अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव।। 28।।
अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45
याज्यापनयेनापनीतो भक्षः प्रवरवत्।। 44।।
यष्टुर्वा कारणागमात्।। 45।।
प्रवृत्तत्वात्प्रवरस्यानपायः।। 46।।
अष्टादशाधिकरणमारचयति-
होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः। अपनीतिरुतापायो नापनीतिर्विभेदतः।। 29।।
यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् । वषट्कारो याज्ययाऽतः सहापैत्यदनं तथा।। 30।।
ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते- ''यजमानस्य याज्या सोऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य यजति'' इति। हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः। तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते। ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति। तत्र स्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते। तयोर्याज्यायामनन्तर्भावात्। अतो होता वषट्करोति भक्षयति च इति प्राप्ते-
ब्रूमः- 'स्वयं वा निषद्य यजति' इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः। स च यागो वषट्कारमन्तरेण न संभवति। ''याज्याया अधि वषट्करोति'' इति तद्विधानात्।
ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत्-
मैवम्। ''अनवानं यजति'' इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात्। अतो याज्यया सह वषट्कारो होतुरपैति। तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते।। 29।। 30।।
एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात्।। 47।।
इज्याविकारो वा संस्कारस्य तदर्थत्वात्।। 48।।
होमात्।। 49।।
चमसैश्चतुल्यकालत्वात्।। 50।।
लिङ्गदर्शनाच्च।। 51।।
एकोनविंशाधिकरणमारचयति-
न्यग्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः । भक्षमात्रे विकुर्यात्तत्सोमयागेऽपि वा तथा।। 31।।
बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम्। भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः।। 32।।
फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः । इज्यायां च विकारोऽस्ति यागार्था भक्षसंस्कृतिः।। 33।।
ज्योतिष्टोमे श्रूयते ''यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिषेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत्, न सोमम्'' इति। स्तिभिन्यो मुकुलानि। तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते- इति चेत्-
मैवम्। ''यदाऽन्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोति'' इति श्रुतम्। तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते। किंच- इष्टद्रव्यसंस्कारो हि भक्षः। स च यागमन्तरेणानुपपन्नः। तस्मात्- यागेऽपि विकारः।। 31।। 32।। 33।।
विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53
अनुप्रसर्पिषु सामान्यात्।। 52।।
ब्राह्मणा वा तुल्यशब्दत्वात्।। 53।।
विंशाधिकरणमारचयति-
राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः। भक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत।। 34।।
आद्यो भानात्संख्ययैकजातेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम्।। 35।।
राजसूये दशपेयनामके यागे श्रूयते ''दश दशैकैकं चमसमनुप्रसर्पन्ति'' इति। तत्र यजमानस्य राजन्यस्य यश्चमसः, सोऽयं राजन्यैरेव दशभिर्भक्षणीयः। कुतः- 'दश' इति संख्याया जात्येकत्वप्रतिभानात्। तथा हि- दशपेयस्य ज्योतिष्टोमविकृतित्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम्। प्रकृतौ च- यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्राप्तम्। यदि- अत्र 'दश' इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम्। तस्मात्- राजन्यो यजमानोऽन्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते-
ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायानुप्रसर्पतां पुरुषाणां 'दश, दश' इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते ''शतं ब्राह्मणाः पिबन्ति'' इति। तथा सति यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतोऽन्ये राजन्या भक्षयेयुः। तस्मात्- ब्राह्मणा एव भक्षकाः।। 34।। 35।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः।। 5।।
अत्र पादे अधिकरणानि 20, सूत्राणि 53।
आदितः अधिकरणानि 184, सूत्राणि 515।
तृतीयाध्यायस्य षष्ठः पादः
अनारभ्याधीतानि।
प्रथमे स्रुवादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणे सूत्राणि 1-8
सर्वार्थमप्रकरणात्।। 1।।
प्रकृतौ वाऽद्विरुक्तत्वात्।। 2।।
तद्वर्जं तु वचनप्राप्ते।। 3।।
दर्शनादिति चेत्।। 4।।
न चोदनैकार्य्यात्।। 5।।
उत्पत्तिरिति चेत्।। 6।।
न तुल्यत्वात्।। 7।।
चोदनार्थकार्त्स्न्यात्तु न मुख्यविप्रतिषेधात्प्रकृत्यर्थः।। 8।।
षष्ठपादस्य प्रथमाधिकरणमारचयति-
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः । प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ।। 1।।
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनाऽत्र किम्।। 2।।
अनारभ्य श्रूयते ''यस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोति'' इति। तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- 'या जुहूः सा पर्णमयी' इति। वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते, उभयत्राश्रयभूताया जुह्वाः सत्त्वात्। तस्मात्- प्रकृतिविकृत्योरुभयोरप्ययं विधिः- इति प्राप्ते-
ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वं निविशते, पश्चाद्वा। नाद्यः, आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात्। द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते। तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः।
एवं ''यस्य स्वादिरः स्रुवो भवति'' इत्युदाहरणीयम्।। 1।। 2।।
द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्
प्रकरणविशेषात्तु विकृतौ विरोधि स्यात्।। 9।।
द्वितीयाधिकरणमारचयति-
सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते।। 3।।
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् । पाञ्चदश्यावरुद्धत्वादाकाङ्क्षायाः निवृत्तितः।। 4।।
अनारभ्य श्रूयते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। ''प्रवो वाजा अभिद्यव''- इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः। तासां साप्तदश्यं पूर्वन्यायेन प्रकृतिगतम्। यदि प्रकृतौ 'पञ्चदश सामिधेनीरन्वाह' इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयाताम्- इति प्राप्ते-
ब्रूमः- विकृतावेव साप्तदश्यं निविशते, प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात्। न च- प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधाभावः- इति शङ्कनीयम्। पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात्। तस्मात्- मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते। न चात्र पूर्वन्यायोऽस्ति, साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात्।। 3।। 4।।
तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्
नैमित्तिकं तु प्रकृतौ, तद्विकारः संयोगविशेषात्।। 10।।
तृतीयाधिकरणमारचयति-
साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत। पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः।। 5।।
गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् । भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः।। 6।।
''सप्तदशानुब्रूयाद्वैश्यस्य'' इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत्-
मैवम्। नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात्। नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम्। नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम्। तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते।
अत्र भाष्यकारोऽन्यदुदाजहार- ''चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य'' इति। तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः।
कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः।। 5।। 6।।
चतुर्थे- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13
इष्ट्यर्थमग्न्याधेयं प्रकरणात्।। 11।।
न वा तासां तदर्थत्वात्।। 12।।
लिङ्गदर्शनाच्च।। 13।।
चतुर्थाधिकरणमारचयति-
आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद्द्वाराऽस्य तदङ्गता।। 7।।
अनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः।। 8।।
इदमाम्नायते- ''अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचये'' इति। ''वसन्ते ब्राह्मणोऽग्नीनादधीत'' इति च। तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत्।कुतः- दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याधानस्यापि तदङ्गताया अनिवार्यत्वात्- इति चेत्-
मैवम्। न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम्। किंतु- अनारभ्याधीतम्। अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का।
ननु- पवमानेष्ठ्यङ्गत्वाभावेऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत्- न। संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात्। तस्मात्- नाधानमङ्गम्।। 7।। 8।।
पञ्चमे- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15
तत्प्रकृत्यर्थं यथाऽन्येऽनारभ्यवादाः।। 14।।
सर्वार्थं वाधानस्य स्वकालत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-
आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम्। संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम्।। 1।।
लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता।। 10।।
अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रणाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रणाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत्- मैवम्। वैषम्यात्। द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च। अरत्निमात्रदैर्घ्यहंसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः। अपूर्वीयत्वाकारस्तु शास्त्रीयः। तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति। तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत्। काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात्। अतोऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः। आहवनीयादीनां त्वेक एव शास्त्रीयाकारः। स च विधिबलादाधानेनैव जन्यते, नान्यथा। तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकारसंपादनसमर्थत्वादग्निहोत्रेण तत्संयुज्यते। तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनु त्पाद्य क्रतुवत्स्वातन्त्र्येणावतिष्ठते। ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा- मेवाहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु।। 9।। 10।।
षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17
तासामग्निः प्रकृतितः प्रयाजवत्स्यात्।। 16।।
न वा तासां तदर्थत्वात्।। 17।।
षष्ठाधिकरणमारचयति-
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः। वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः।। 11।।
चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः । अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्तदसंस्कृते।। 12।।
पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते। संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते। तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत्। चोदकोऽप्येवं सत्यनुगृहीतो भवति। एताभिरिष्टिभिः संस्कृते वह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते-
ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथाऽपि चोदको न तस्यां पवमानेष्टौ पवमानेष्टिमतिदेष्टुं प्रभवति। प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात्।
किंच- 'एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा' इत्यनवस्थायामिष्टिरेव न सिध्येत्। तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः।। 11।। 12।।
सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात्।। 18।।
स्थानाच्च पूर्वस्य।। 19।।
श्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था।। 20।।
तेनोत्कृष्टस्य कालविधिरिति चेत्।। 21।।
नैकदेशत्वात्।। 22।।
अर्थेनेति चेत्।। 23।।
न श्रुतिविप्रतिषेधात्।। 24।।
स्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात्।। 25।।
लिङ्गदर्शनाच्च।। 26।।
अचोदना वा गुणार्थेन।। 27।।
सप्तमाधिकरणमारचयति-
अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी । उपाकरणमुख्यास्तु धर्माः साधारणा न वा।। 13।।
ज्योतिष्टोमप्रकरणे पाठात्साधारणा अमी । पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः।। 14।।
अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति ।द्वयोरितरयोः पश्वोः प्राप्यन्ते चोदकेन ते।। 15।।
अग्नीषोमीयः, सवनीयः, अनूबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः। पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राम्नाताः।''प्रजापतेर्जायमानाः'' ''इमं पशुम्''- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम्। दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम्। त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते। त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात्।ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत्- न। तस्य सोमयागत्वात्। सोमो ह्यभिषवादीन्धर्मानाकाङ्क्षति, न तु यूपनियोजनविशसनादीन्। तस्मात्- अङ्गिन्यनर्थकाः सन्तोऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते-
ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः। सौत्यनामकादह्नः प्राचीन औपवसथ्यनामकेऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः। अग्नीषोमीयस्यापि तदेव स्थानम्। सवनीयस्तु सौत्येऽहनि श्रूयते ''आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति। अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः। ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानूबन्ध्ययोस्तु चोदकादतिदिश्यन्ते।। 13।। 14।। 15।।
अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29
दोहयोः कालभेदादसंयुक्तं शृतं स्यात्।। 28।।
प्रकरणाविभागाद्वा तत्संयुक्तस्य कालशास्त्रम्।। 29।।
अष्टमाधिकरणमारचयति-
शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः । प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः।। 16।।
आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते । बलिनोऽतः प्रकरणात्प्रातर्दोहेऽपि सन्ति ते।। 17।।
दर्शपूर्णमासप्रकरणे- पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः। दोहौ च द्वौ विद्येते- अमावास्यायां रात्रावेको दोहः। प्रतिपदि प्रातरपरो दोहः। तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत्-
मैवम्। वैषम्यात्। पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रतिहतम्। इह तु नास्त्यानर्थक्यप्रतिहतिः। ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः।। 16।। 17।।
नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्
तद्बत्सवनान्तरे ग्रहाम्नानम्।। 30।।
नवमाधिकरणमारचयति-
ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते। त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः।। 18।।
ज्योतिष्टोमे- प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः। तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते- ''उपोप्तेऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवः'' इति। ''दशापवित्रेण ग्रहं संमार्ष्टि'' इति च। ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा। पूर्वाधिकरणे शाखाहरणादयः प्रधानयोर्दधिपयसोर्धर्माः समाम्नाताः, तच्च दधि पूर्वेद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थं केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारणत्वेन धर्मैः सहैकस्मिन्देशे पाठोऽस्तीति स्थानं न निश्चितम्। इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत्-
मैवम्। सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते। तस्मान्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सवनेषु सादनादयोऽवतिष्ठन्ते।। 18।।
दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्
रशना च लिङ्गदर्शनात्।। 31।।
दशमाधिकरणमारचयति-
एकत्रैवोत सर्वत्र रशनावेष्टनादयः। अग्नीषोमीय एवैते क्रमाल्लिङ्गादितोऽन्तिमः।। 18।।
अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- ''परिव्ययति, ऊर्ग्वै रशना'' इति, ''त्रिवृद्भवति'' इति, ''दर्भमयी भवति'' इति च। तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणाद्वाऽग्नीषोमीय एव स्युः- इति चेत्-
मैवम्। सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते। ''त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादो लिङ्गम्। किं च तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते। तस्मात्- सर्वेषु पशुष्वेते धर्माः स्युः।। 18।।
एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34
आराच्छिष्टमसंयुक्तमितरैः संनिधानात्।। 32।।
संयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात्।। 33।।
निर्देशाद्व्यवतिष्ठेत।। 34।।
एकादशाधिकरणमारचयति-
ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वये न हि । विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः।। 19।।
अनारभ्य द्वौ ग्रहौ श्रुतौ- ''अंशुं गृह्णाति'' इति, ''अदाभ्यं गृह्णाति'' इति च। तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते। कुतः- आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात्- इति चेत्-
मैवम्। 'ग्रहाः साद्यन्ते' इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्यत्वात्। न चैन्द्रवायवादयः प्रकरणिनः ज्योतिष्ठोमो हि प्रकरणी। तस्मात्सन्ति तयोर्धर्माः।। 19।।
द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्
अग्न्यङ्गमप्रकरणे तद्वत्।। 35।।
द्वादशाधिकरणमारचयति-
अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः । सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते।। 20।।
प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः। अखण्डत्वादयोऽग्न्यर्थचित्रिण्यादिषु सन्ति ते।। 21।।
अनारभ्य श्रूयते ''चित्रिणीरुपदधाति'' इति। अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- ''अखण्डामकृष्णां कुर्यात्'' इति। पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वेऽपि विनियोजकवाक्यं प्रकरणाधीतम्। चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम्। तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते। अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः। तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते-
ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथाऽपि ''य एवं विद्वानग्निं चिनुते'' इति प्रकृतं यदेतदग्न्यपूर्वं तत्संबन्धित्वेनैव चित्रिण्यादयोऽप्यप्रकरणपठितेनापि वाक्येन विनियुज्यन्ते। अखण्डत्वादयश्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचितिधर्माः। तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति।। 20।। 21।।
त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्
नैमित्तिकमतुल्यत्वादसमानविधानं स्यात्।। 36।।
त्रयोदशाधिकरणमारचयति-
विधयोऽभिषवाद्याः स्युः फलाख्ये चमसे न वा । नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः।। 22।।
नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे । न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः।। 23।।
न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः। स च नैमित्तिकः। राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात्। सोमस्तु नित्यः, उपाधिक्रममप्यनुपजीव्यैव 'सोमेन यजेत' इति विहितत्वात्। तस्य च नित्यस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति। तस्मात् ''सोममभिषुणोति'' ''सोमं क्रीणाति'' इत्यादयो यागद्रव्यसंस्कारविधयः सोम इव फलचमसेऽपि प्रवर्तन्ते- इति प्राप्ते-
ब्रूमः- नित्या अभिषवादिसंस्कारा नित्यं सोमं संस्कार्यं लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते फलचमसस्तु सोमविकारत्वात्पश्चाद्भावी। ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते। न चैतावता संस्काराभावः, चोदकेन तत्सिद्धेः। तस्मात्- सोममात्रसंबन्धिनो विधयः।। 22।। 23।।
चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39
प्रतिनिधिश्च तद्वत्।। 37।।
तद्वत्प्रयोजनैकत्वात्।। 38।।
अशास्त्रलक्षणत्वाच्च।। 39।।
चतुर्दशाधिकरणमारचयति-
नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः । पुरेवातुल्यता साम्यमाकाराद्व्रीहिता यतः।। 24।।
''व्रीहिभिर्यजेत'' इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते। तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत्-
मैवम्। व्रीहिशब्दो हि जातिविशेषेणाकारविशेषेण वोपेतं द्रव्यमाचष्टे। नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावेऽप्याकारतो व्रीहिशब्दार्थत्वेन ''व्रीहीनवहन्ति'' इति विधिः प्रवर्तते। यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु।। 24।।
पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्
नियमार्था गुणश्रुतिः।। 40।।
पञ्चदशाधिकरणमारचयति-
पूतीकाभिषवोऽतुल्यस्तुल्यो वा सोमतुल्यता । नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः।। 25।।
''यदि सोमं न विन्देत, पूतिकानभिषुणुयात्'' इति श्रूयते। तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति
चेत्-
मैवम्। नीवारवत्प्रतिनिधित्वात्। ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः। अत एव नीवारेषु विधिर्न श्रुतः- इति चेत्- न। विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात्। तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः।। 25।।
षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47
संस्थास्तु समानविधानाः प्रकरणाविशेषात्।। 41।।
व्यपदेशश्च तुल्यवत्।। 42।।
विकारास्तु कामसंयोगे नित्यस्य समत्वात्।। 43।।
अपि वा द्विरुक्तत्वात्प्रकृतेर्भविष्यन्तीति।। 44।।
वचनात्तु समुच्चयः।। 45।।
प्रतिषेधाच्च पूर्वलिङ्गानाम्।। 46।।
गुणविशेषादेकस्य व्यपदेशः।। 47।।
षोडशाधिकरणमारचयति-
उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा। एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता।। 26।।
उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः । अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः।। 27।।
ज्योतिष्टोमः- स्वयमेकोऽपि समाप्तिभेदाद्भिद्यते। यज्ञायज्ञियस्तोत्रेण समाप्तौ 'अग्निष्टोमः' इत्युच्यते। तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ 'उक्थ्यः' इत्युच्यते। एवं षोडश्यादयोऽपि। तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः। स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषेऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते। कुतः- प्रकरणसंबन्धस्य समानत्वात्।
किंच- यथाऽग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते। एवमुक्थ्यादयोऽपि। तेषां च फलमेवमाम्नायते-''पशुकाम उक्थ्यं गृह्णीयात्'' ''षोडशिना वीर्यकामः स्तुवीत'' ''अतिरात्रेण प्रजाकामं याजयेत्'' इति।
तस्मात्- सप्तस्वपि संस्थासु समानोऽङ्गविधिः- इति प्राप्ते-
ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति। 'काम्यो गुणः श्रूयमाणो नित्यमर्थं विकृत्य निविशते' इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते, एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति। ततोऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु- अग्निष्टोमस्यैवासाधारणम्।
ननु- ''ज्योतिष्टोमेन यजेत'' इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत्- बाढम्। असौ ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति, उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात्। उक्थ्यादींस्तु व्यभिचरति,विनाऽपि तैरग्निष्टोमदशायां ज्योतिष्टोमत्वसंभवात्। अतोऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति। उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते।। 26।। 27।।
इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठः पादः।। 6।।
अत्र पादे अधिकरणानि 16, सूत्राणि 47
आदितः अधिकरणानि 200, सूत्राणि 562।
तृतीयाध्यायस्य सप्तमः पादः
बहुप्रधानोपकारकप्रयाजादीनि।
प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5
प्रकरणविशेषादसंयुक्तं प्रधानस्य।। 1।।
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात्।। 2।।
आरादपीति चेत्।। 3।।
न तद्वाक्यं हि तदर्थत्वात्।। 4।।
लिङ्गदर्शनाच्च।। 5।।
सप्तमपादस्य प्रथमाधिकरणमारचयति-
मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गताऽपि वा । तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम्।। 1।।
मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता । मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः।। 2।।
दर्शपूर्णमासयोः श्रूयते ''वेद्यां हवींष्यासादयति'' ''बर्हिषि हवींष्यासादयति'' इति। तथा तद्धर्माः श्रूयन्ते- ''वेदिं खनति'' ''बर्हिर्लुनाति'' इत्यादयः। मुख्यहवींष्याग्नेयपुरोडाशादीनि। अमुख्यहवींषि तु प्रयाजाद्यर्थानि। तत्र- स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषामेवाङ्गानि- ''वेद्यां हवींष्यासादयति'' इति वाक्यात्सर्वहविरङ्गता- इति चेत्- न। प्रकरणेन वाक्यस्य संकोचनीयत्वात्। यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्यं स्यात्। सौमिकहविषामप्येतद्वेद्यासादनं प्रसज्येत। तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते-
ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम्। प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम्। एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति।। 1।। 2।।
द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्
फलसंयोगात्तु स्वामियुक्तं प्रधानस्य।। 6।।
द्वितीयाधिकरणमारचयति-
वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत । मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः।। 3।।
युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः । विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः।। 4।।
ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः। ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः। अग्नीषोमीयपश्वादिकमङ्गम्। तत्र- द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति। कुतः- कर्तृधर्मत्वात्। यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते। कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाऽङ्गं प्रत्यप्यस्ति। तस्मात्- उभयोरुपकारः- इति चेत्-
मैवम्। द्वौ हि यजमानस्याकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति। तयोरदृष्टः फलभोगः। क्रियानिष्पत्तिश्च दृष्टा। तथा सति- वपनादिकृतोपकारस्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति। वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते। ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति। तस्मात्- अदृष्टफलभोजिनोऽस्य यजमानस्य योऽयमदृष्टरूपः शास्त्रीयः संस्कारः सोऽयं मुख्ये कर्मणि युक्तो, नाङ्गेषु। नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्क्येत। प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम्। तस्मात्- न तेषूपकारः।। 3।। 4।।
तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7-9
चिकीर्षया च संयोगात्।। 7।।
तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा। चिकीर्षितत्वान्मुख्यस्य वेद्यां तत्कृतिसंभवात्।। 5।।
मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम्। मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी।। 6।।
दार्शिकीं वेदिं मध्येऽन्तर्भाव्य प्राचीनवंशो मण्डपोऽवस्थितः। ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः। तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते। सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम्। कुतः- मुख्यस्य चिकीर्षितत्वात्।
न च- अङ्गान्यपि चिकीर्षितानि- इति वाच्यम्, चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात्। एवं श्रूयते ''षट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहे'' इति। अस्यायमर्थः- 'श्रूयमाणेनानेन दैर्घ्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तुं शक्ष्यामहे- इति निश्चित्य तथैव कुर्यात्' इति। सेयं चिकीर्षा मुख्यविषया। 'इयति शक्ष्यामहे' इति परिमाणस्य शक्तेश्चोपन्यासात्। अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादिमण्डपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः। सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र। तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते,-
ब्रूमः- 'इयति शक्ष्यामहे' इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता, तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात्। अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था। न च- अत्र वपनादिसाम्यं शङ्कनीयम्। दृष्टोपयोगाभावस्य तत्रोक्तत्वात्। इह तु- हविरासादनादिर्दृष्ट उपयोगः। स च मुख्याङ्गयोः सम इत्युभयार्थत्वम्।। 6।।
चतुर्थे- अभिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 8-10
तथाऽभिधानेन।। 8।।
गुणाभिधानात्सर्वार्थमभिधानम्।। 10।।
चतुर्थाधिकरणमारचयति-
चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने। मन्त्रो मुख्य उताङ्गेऽपि मुख्ये तद्वाचिशब्दतः।। 7।।
शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात्। विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः।। 8।।
दर्शपूर्णमासयोः श्रूयते ''चतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राऽमावास्याम्'' इति। ''पृथिवी होता'' इत्यादिको मन्त्रश्चतुर्होता, तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णां श्रुतत्वात्। अथवा- तस्य मन्त्रस्याभिमानित्वेनात्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्वारमामन्त्रितः प्रत्युत्तरमुवाचेति स पुरुषश्चतुर्हूतः। तदीयनाम्ना मन्त्रोऽपि ''चतुर्हूतः'' इत्युच्यते। 'पूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्' इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते। अयमर्थः सर्वोऽपि तैत्तिरीयब्राह्मणे श्रूयते ''आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै चतुर्थं हूतः प्रत्यशृणोत्। स चतुर्हूतोऽभवत्। चतुर्हूतो ह वै नामैषः। तं वा एतं चतुर्हूतं सन्तं चतुर्होतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः'' इति। ''अग्निर्होता'' इत्यादिको मन्त्रः पञ्चहोता। तत्राप्युक्तप्रकारो द्रष्टव्यः। अत्र- योऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते। पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषयत्वात्- इति प्राप्ते-
ब्रूमः- पौर्णमास्यमावास्याशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ। न च कर्मणोरुपस्पर्शनसंभवः। अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्गयोरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते।। 7।। 8।।
पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे- 11-12
दीक्षादक्षिणं तु वचनात्प्रधानस्य।। 11।।
निवृत्तिदर्शनाच्च।। 12।।
पञ्चमाधिकरणमारचयति-
दण्डदीक्षा दक्षिणा तु शतं द्वादशभिर्युतम्। द्वयार्थमुत मुख्यार्थं सोमस्येत्युक्तिसंभवात्।। 9।।
मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना । वचनस्य न युक्ताऽतः प्रधानार्थमिदं स्थितम्।। 10।।
ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते ''दण्डेन दीक्षयति'' इति। ''तस्य द्वादशशतं दक्षिणा'' इति च। तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणाऽपि। न च 'दीक्षा सोमस्य, दक्षिणा सोमस्य' इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम्। दीक्षादक्षिणे सोमेनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्ध इति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धोऽस्ति। तस्मात्- उभयार्थं दीक्षादिकम्- इति प्राप्ते-
ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोऽर्थः। तदसंभवे तु- परम्परासंबन्धः कथंचिद्गृह्यते। इह तु तत्संभवात्पारम्पर्यं न युक्तम्। तस्मात्- प्रधानार्थं दीक्षादिकम्।। 9।। 10।।
षष्ठे- अन्तर्वेदेर्यूपानङ्गताधिकरणे सूत्रे 13-14
तथा यूपस्य वेदिः।। 13।।
देशमात्रं वा शिष्येणैकवाक्यत्वात्।। 14।।
षष्ठाधिकरणमारचयति-
अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत् । देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते।। 11।।
बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ । मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते।। 12।।
अग्नीषोमीयपशौ ''यूपं मिनोति'' इति प्रकृत्य श्रूयते ''अर्धमन्तर्वेदि मिनोति, अर्धं बहिर्वेदि'' इति। 'यूपं स्थापयितुं कियद्विस्तारवानवटोऽपेक्षितः' इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम्। तस्य च मीयमानस्य यूपस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयते- इति चेत्-
मैवम्। यथा संस्कृतो वेद्यभ्यन्तरभागः 'अर्धमन्तर्वेदि' इत्यनेन वाक्येन विधीयते, तद्वदसंस्कृतो बहिर्भागो 'बहिर्वेदि' इत्यनेन वाक्येन विधातव्यः। ततो वाक्यं भिद्येत। यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो 'लौकिको' देशो मीयमानयूपोचितो विधीयते। तदा नास्ति वाक्यभेदः। तस्मात्- लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः।। 11।। 12।।
सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17
सामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात्सामिधेनीनाम्।। 15।।
देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य।। 16।।
समाख्यानं च तद्वत्।। 17।।
सप्तमाधिकरणमारचयति-
हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता । हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते।। 13।।
वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमेऽग्नितः । देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः।। 14।।
ज्योतिष्टोमे श्रूयते ''उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः'' इति। हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते। तस्य समीपे सोमस्याभिषवः। 'उत' इत्ययं शब्दोऽथब्दार्थे वर्तते। 'अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुः'। इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते। न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः, एकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते-
ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः। प्रकृतौ चाहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम्। इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात्। स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम्। किंतु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमेन प्राप्तौ दक्षिणस्यैव हविर्धानस्य समीपदेशः इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते। तथा सति नियममात्रविधानाल्लाघवं भवति। त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्यात्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम्। तस्माद्देशलक्षणा।। 13।। 14।।
अष्टमे- अङ्गानामन्यद्वाराऽनुष्ठानाधिकरणे सूत्राणि 18-20
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्, तस्मात्स्वयंप्रयोगेस्यात्।। 18।।
उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य, तस्मादन्यः स्वयं वा स्यात्।। 19।।
अन्यो वा स्यात्परिक्रयाम्नानादिप्रतिषेधात्प्रत्यगात्मनि।। 20।।
अष्टमाधिकरणमारचयति-
यजमानेन कर्तव्यं निखिलं त्याग एव वा । कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता।। 15।।
प्रयोजकेऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा। कार्यं तेन त्यागमात्रमृत्विजोऽन्यत्र कर्तृता।। 16।।
'स्वर्गकामो यजेत' इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते। पाणिनिश्च 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' [पा.सू.1।3।72] इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति। अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते-
ब्रूमः- निखिलानुष्ठानाभावेऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति। 'षड्भिर्हलैः कर्षति' इत्यत्र तथादर्शनात्। यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विजां परिक्रयो वृथा स्यात्। तस्मात्- यजमानेन त्यागमात्रं कार्यम्। अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजोऽनुष्ठानम्। तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते।। 15।। 16।।
नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24
तत्रार्थात्कर्तृपरिमाणं स्यादनियमोऽविशेषात्।। 21।।
अपि वा श्रुतिभेदात्प्रतिनामधेयं स्युः।। 22।।
एकस्य कर्मभेदादिति चेत्।। 23।।
नोत्पत्तौ हि।। 24।।
नवमाधिकरणमारचयति-
न क्रीतकर्तृसंख्याया नियमोऽस्त्यस्ति वा, न हि । अविशेषादस्ति यावत्कार्यं तावन्त एव हि।। 17।।
ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः। तथाऽपि कार्यानुसारेण सोऽवगन्तव्यः। ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- ''पुरोऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरुणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाह'' इति। एवं ब्रह्मब्राह्मणाच्छंस्याग्नीध्रपोतॄणां चतुर्णां कर्माण्युदाहार्याणि। तस्मात्- यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः।। 17।।
दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्
चमसाध्वर्यवश्च तैर्व्यपदेशात्।। 25।।
दशमाधिकरणमारचयति-
चमसाध्वर्यवो नान्य ऋत्विभ्योऽन्येऽथवाऽग्रिमः। यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात्।। 18।।
ज्योतिष्टोमे श्रूयते ''चमसाध्वर्यून्वृणीते'' इति। ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः। कुतः- यौगिकसंज्ञया तदभेदप्रतीतेः। यथा देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाऽध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत्-
मैवम्। मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति षष्ठ्या भेदावभासात्। मध्यतःकारिणोऽध्वर्युहोत्रादयः। होत्रकाः प्रतिप्रस्थातृमैत्रावरुणादयः। तस्मादृत्विग्भ्योऽन्ये।। 18।।
एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्
उत्पत्तौ तु बहुश्रुतेः।। 26।।
एकादशाधिकरणमारचयति
तान्वृणीतेति बहुता नास्ति वाऽस्ति ग्रहैक्यवत्। नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः।। 19।।
''चमसाध्वर्यून्वृणीत'' इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम्। ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत्-
मैवम्। ग्रहवैषम्यात्। ''ग्रहं संमार्ष्टि'' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम्। चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम्। ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम्।। 19।।
द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्
दशत्वं लिङ्गदर्शनात्।। 27।।
द्वादशाधिकरणमारचयति-
नेयत्ताऽस्त्यस्ति वा तेषां न नियामकवर्जनात्। चमसानां दशत्वेन चमसाध्वर्यवो दश।। 20।।
स्पष्टोऽर्थः।। 20।।
त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29
शमिता च शब्दभेदात्।। 28।।
प्रकरणाद्वोत्पत्त्यसंयोगात्।। 29।।
त्रयोदशाधिकरणमारचयति-
तेभ्योऽन्यः शमिताऽनन्यो वाऽन्यः संज्ञापृथक्त्वतः । वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः।। 21।।
''शमितार उपेतन यज्ञम्'' इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्त्वादुक्तेभ्योऽन्यः शमिता- इति चेत्-
मैवम्। पृथग्वरणाभावात्। संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते। यद्यप्ययं मन्त्रोऽध्वर्युकाण्डे पठितः, तथाऽप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः। अत एव श्रूयते ''परावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्'' इति।। 21।।
चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्
उपगाश्च लिङ्गदर्शनात्।। 30।।
चतुर्दशाधिकरणमारचयति-
अन्ये स्युरुपगातार उदितेभ्यो न वा यथा। लोकेऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः।। 22।।
यथा लोके मुख्येभ्यो गायकनायकादिभ्योऽन्ये पार्श्वस्था उपगातारः, तथाऽत्रापि- इति चेत्-
मैवम्। यद्युक्तेभ्यः पुरुषेभ्य उपगातारोऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् ''नाध्वर्युरुपगायेत्'' इति प्रतिषेधोऽनर्थकः स्यात्। तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः।। 22।।
पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्
विक्रयी त्वन्यः कर्मणोऽचोदितत्वात्।। 31।।
पञ्चदशाधिकरणमारचयति-
सोमविक्रय्येक एषु न वा वरणवर्जनात् । एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते।। 23।।
क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः। न चाविहितमृत्विजः कुर्वन्ति। तस्मादन्यो विक्रेता।। 23।।
षोडशे 'ऋत्विक्' इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि 32-35
कर्मकार्यात्सर्वेषामृत्विक्त्वमविशेषात्।। 32।।
न वा परिसंख्यानात्।। 33।।
पक्षेणेति चेत्।। 34।।
न सर्वेषामधिकारः।। 35।।
षोडशाधिकरणमारचयति-
किमृत्विग्नाम सर्वेषु समानमुत केषुचित्। क्रतौ यजनमेतेषां तुल्यमित्यस्ति नाम तत्।। 24।।
सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया। न सर्वेषां समं नाम केषांचिद्योगरूढितः।। 25।।
ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम्। तच्च ब्रह्मादिष्विव चमसाध्वर्युष्वप्यस्ति। तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत्-
मैवम्। संख्याश्रुतिविरोधात्। ''सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः'' इति श्रूयते। तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतन्नामेत्यवगन्तव्यम्।। 24।। 25।।
सप्तदशे दीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणे सूत्रे 36-37
नियमस्तु दक्षिणाभिः श्रुतिसंयोगात्।। 36।।
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात्।। 37।।
सप्तदशाधिकरणमारचयति-
संख्याता अपि ये केचिन्नियता वाऽविशेषतः। आद्यो न दक्षिणादाने दीक्षायां च विशेषतः।। 26।।
ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः। विशेषस्याश्रवणात्- इति चेत्-
मैवम्। दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात्। ''ऋत्विग्भ्यो दक्षिणां ददाति'' इत्युक्त्वा तद्विशेषः श्रूयते ''अग्नीधे ददाति'' ''ब्रह्मणे ददाति'' इत्यादिना। दीक्षावाक्यं च तत्र प्रकरणे ''ये यजमानास्ते ऋत्विजः'' इत्युक्त्वाऽनन्तरमेवमाम्नायते- ''अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्। ततस्तं प्रतिप्रस्थाता दीक्षयित्वाऽर्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः। ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः। ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः। ततस्तमन्यो ब्राह्मणो दीक्षयति'' इति अस्यायमर्थः- 'अध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति। उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः- प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति। होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति। चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णां प्राप्नुवन्ति। ये द्वितीयास्ते तदर्धं प्राप्नुवन्ति- इत्यर्धिनः। ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः। ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः। तानेतानुक्तक्रमेण स स पुरुषः संस्करोति' इति। अत्र- दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः।। 26।।
अष्टादशे- ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्
स्वामिसप्तदशाः कर्मसामान्यात्।। 38।।
अष्टादशाधिकरणमारचयति-
सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः । सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः।। 27।।
अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगपेक्षितः। सोऽत्र सदस्यो भविष्यति। सदस्यवस्थितः सदस्यः। न च तस्य वरणाभावः। केषांचिच्छाखायां तद्वरणस्याम्नातत्वात्। ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत्-
मैवम्। असौ सदस्यः किंचिदपि न करोति। 'सदस्य इदं कुर्यात्' इति विध्यभावात्।
न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते। यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते। तस्मात्साप्तदश्यं यजमाने युक्तम्।
एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39- 42
ते सर्वार्थाः प्रयुक्तत्वात्, अग्नयश्च स्वकालत्वात्।। 39।।
तत्संयोगात्कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात्।। 40।।
तस्योपदेशसमाख्यानेन निर्देशः।। 41।।
तद्वच्च लिङ्गदर्शनम्।। 42।।
एकोनविंशाधिकरणमारचयति-
न कार्यं नियतं तेषां नियतं वाऽग्रिमो यतः। शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया।। 28।।
तेषामध्वर्युप्रभृतीनां कार्यं न नियतम्। यतः सर्वे सर्वत्र शक्ताः। प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्-
मैवम्। समाख्याया नियामकत्वात्। यस्मिन्कर्मणि 'आध्वर्यवम्' इति समाख्या तत्कर्माध्वर्योः। एवमितरत्रापि।। 28।।
विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः
अग्नयश्च (सर्वार्थाः) स्वकालत्वात्।। 39।।
विंशाधिकरणमारचयति-
प्रकृत्यर्थोऽथ सर्वार्थो वह्निराद्योऽस्तु पर्णवत् । पर्णन्यायोऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः।। 29।।
यथा ''यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति'' इत्यसौ पर्णविधिः प्रकृत्यर्थः। एवमाधानस्याप्यनारभ्याधीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्-
मैवम्। वैषम्यात्। पर्णवाक्यात्पर्णतायास्तावत्क्रतुप्रवेशे जुहूर्द्वारम्। सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते। आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः। स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते।
तद्यथा- प्रयाजनारिष्ठादिहोमाः। तादृशे विषये ''यदाहवनीये जुह्वति'' इति वाक्येनाग्निः प्रकृतावेव विधीयते। विकृतौ तु होमेन सहातिदिश्यते। तस्मादत्र पर्णन्यायः। यस्तु होमो विकृतावुपदिश्यते। तद्यथा- सांग्रहण्यामिष्टावामनहोमः। तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणोऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः। तस्मात्- सर्वार्थो वह्निः।। 29।।
एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45
प्रैषानुवचनं मैत्रावरुणस्योपदेशात्।। 43।।
पुरोनुवाक्याधिकारो वा प्रैषसंनिधानात्।। 44।।
प्रातरनुवाके च होतृदर्शनात्।। 45।।
एकविंशाधिकरणमारचयति-
यन्मैत्रावरुणः प्रेष्यत्यनु चाहेति बाधनम् । हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित्।। 30।।
आद्योऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् । प्रैषानुवचने यत्र सहिते तत्र बाधनम्।। 31।।
अग्नीषोमीयपशौ श्रूयते ''मैत्रावरुणः प्रेष्यति चानु चाह'' इति। तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति। तेन च वाक्येन समाख्या बाध्यते। ''अग्नये समिध्यमानायानुब्रूहि'' ''यूपायाज्यमानायानुब्रूहि'' इत्यादिप्रैषाणामध्वर्युकर्तृकत्वदर्शनात्- 'आध्वर्यवाः प्रैषाः' इत्यस्ति याज्ञिकानां समाख्या। तथा। ''प्रवो वाजा अभिद्यवः'' ''अञ्जन्ति त्वामध्वरे देवयन्तः'' इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात्। 'अनुवचनानि हौत्राणि'- इति याज्ञिकसमाख्या। प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च। पूर्वोदाहृते व्यस्ते। ''होताऽयक्षदग्निं समिधम्'' इत्याद्यनुवचनमन्त्रस्यान्ते 'होतर्यज' इति प्रैष आम्नातः। एते प्रैषानुवचने समस्ते। तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते-
अभिधीयते- ''प्रेष्यति चानु चाह'' इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्येऽस्मिन्नुपलभ्यते। ततः समुच्चितयोरेव समाख्याबाधनम्। व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम्।। 30।। 31।।
द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकर्तृकताधिकरणे सूत्राणि 46-49
चमसांश्चमसाध्वर्यवः समाख्यानात्।। 46।।
अध्वर्युर्वा तन्न्यायत्वात्।। 47।।
चमसे चान्यदर्शनात्।। 48।।
अशक्तौ ते प्रतीयेरन्।। 49।।
द्वाविंशाधिकरणमारचयति-
चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा । संज्ञाविशेषादाद्योऽस्तु मैवमध्वर्युसंज्ञया।। 32।।
विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् । अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परोऽपि वा।। 33।।
'चमसाध्वर्युः' इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः- इति चेत्-
मैवम्। अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात्। केवलाध्वर्यौ चमसाध्वर्युषु चानुगतोऽध्वर्युशब्दः सामान्यरूपः। चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः। तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति। चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति। तथा सति 'आध्वर्यवो होमः' इत्यनया निरपेक्षया प्रबलया समाख्ययाऽध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात्। ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः।। 32।। 33।।
त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51
वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः।। 50।।
तद्गुणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यात्सहाङ्गैरव्यक्तः शेषे।। 51।।
त्रयोविंशाधिकरणमारचयति-
श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्ययम् । उद्गात्राऽध्वर्युणा कार्यौ यथाप्रकृति वाऽग्रिमः।। 34।।
आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः । प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः।। 35।।
श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्राऽनुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गातृत्व समाख्यायाः श्येनेऽपि समत्वात्। तथा- यजुर्वेदे समाम्नातो वाजपेयः सर्वोऽप्यध्वर्युणैवानुष्ठेयः। समाख्यावशात्- इति प्राप्ते-
ब्रूमः- श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ। तत्र चोदकस्तत्तत्पदार्थांस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति। अङ्गेष्वतिदिष्टेषु पश्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनस्य प्रवृत्तिः। प्रयोगवचनाधीना तु समाख्याऽत्यन्तजघन्या। ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते।। 34।। 35।।
इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः।। 7।।
अत्र पादे- अधिकरणानि 23, सूत्राणि 51।
आदितः- अधिकरणानि 223, सूत्राणि 613।
तृतीयाध्यायस्याष्टमः पादः
याजमानानि।
प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्
स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात्।। 1।।
अष्टमपादे प्रथमाधिकरणमारचयति-
दक्षिणादिपरिक्रीतिर्ऋत्विजः स्वामिनोऽथवा । परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत्।। 1।।
परिक्रयात्पुराऽध्वर्युहोत्रादीनामभावतः ।परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः।। 2।।
दक्षिणादानेन कर्मकराः परिक्रेतव्याः। तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विज्यम्- इति निर्णीतम्। दक्षिणा च द्वादशशतरूपाऽध्वर्युवेद उद्गातृवेदे च समाम्नातै। अन्वाहार्यदक्षिणाऽध्वर्युवेदे। ततः समाख्यया परिक्रेतृत्वमृत्विजः- इति चेत्-
मैवम्। ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात्।। 1।। 2।।
द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्
वचनादितरेषां स्यात्।। 2।।
द्वितीयाधिकरणमारचयति-
इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः । स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम्।। 3।।
''य एतामिष्टकामुपदध्यात्, स त्रीन्वरान्दद्यात्'' इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम्। नह्यस्ति वचनस्यातिभारः।। 3।।
तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8
संस्कारास्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन्।। 3।।
याजमानास्तु तत्प्रधानत्वात्कर्मवत्।। 4।।
व्यपदेशाच्च।। 5।।
गुणत्वेन तस्य निर्देशः।। 6।।
चोदनां प्रति भावाच्च।। 7।।
अतुल्यत्वादसमानविधानाः स्युः।। 8।।
तृतीयाधिकरणमारचयति-
संस्कारा वपनाद्याः किमध्वर्योः स्वामिनोऽथवा ।अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते।। 4।।
संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः । क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा।। 5।।
''आप उन्दन्तु जीवसे'' इत्याद्याः संस्कारमन्त्राः। तद्विधयश्चाध्वर्युवेदे समाम्नाताः- ''केशश्मश्रु वपते', ''नखानि निकृन्तते'' इति। शक्तश्चाध्वर्युर्वपनादौ। तस्मात्तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत्-
मैवम्। वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते। तथा च ब्राह्मणम्- ''केशश्मश्रु वपते। मृता वा एषा त्वगमेध्या यत्केशश्मश्रु। मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति'' इति। नह्यध्वर्युवपनेन यजमानगता मृता त्वगपैति। योग्यस्य हि कर्माधिकारे सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति। लोकेऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते। न तु तदौषधं भृत्यः सेवते। तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य। क्वचित्तु वचनादृत्विजामपि संस्कारोऽस्तु।। 4।। 5।।
चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11
तपश्च फलसिद्धित्वाल्लोकवत्।। 9।।
वाक्यशेषश्च तद्वत्।। 10।।
वचनादितरेषां स्यात्।। 11।।
चतुर्थाधिकरणमारचयति-
नाश्नाति द्व्यहमित्येतत्तपः कस्य तयोर्द्वयोः । दुःखत्वाभोक्तृसंस्कारादध्वर्योर्युज्यते तपः।। 5।।
फलान्तरायपापस्य नाशकत्वेन संस्कृतिः । लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः।। 6।।
ज्योतिष्ठोमे- ''द्व्यहं नाश्नाति'' ''त्र्यहं नाश्नाति'' इत्यादिनोक्तं तपोऽघ्वर्योर्युक्तम्। तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात्। दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत्-
मैवम्। भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात्। अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- ''यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति। यदाऽस्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति। यदाऽस्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति। यदाऽस्य त्वचाऽस्थि संधीयते, अथ मेध्यो भवति। पीवा दीक्षते, कृशो यजते। यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते'' इति। न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति। यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत्। तस्मात्- वपनादिसंस्कारवत्तपोऽपि यजमानस्यैव।। 5।। 6।।
पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्
गुणत्वाच्च वेदेन न व्यवस्था स्यात्।। 12।।
पञ्चमाधिकरणमारचयति-
हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः । ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत।। 7।।
आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः । प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि।। 8।।
वाजपेये श्रूयते ''हिरण्यमालिन ऋत्विजः प्रचरन्ति'' इति। श्येने श्रूयते ''लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति'' इति। यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथाऽपि वचनादयमृत्विक्संस्कारः। तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत्-
मैवम्। ''हिरण्यमालिन ऋत्विजः प्रचरन्ति'' इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते।
किंच- संस्कार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारोऽभ्युपतेव्यः।। 7।। 8।।
षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे- 13-14
तथा कामोऽर्थसंयोगात्।। 13।।
व्यपदेशादितरेषां स्यात्।। 14।।
षष्ठाधिकरणमारचयति-
वृष्टिकामी सदो नीचैर्मिनुयादिति कामना। अध्वर्योः स्वामिनो वाद्यो वाक्यान्मातुस्तदुच्यते।। 9।।
परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता। प्रतीताऽतो वाक्यबाधे तपोवत्स्वामिनोऽस्तु तत्।। 10।।
ज्योतिष्ठोमे श्रूयते ''यदि कामयेत, वर्षुकः पर्जन्यः स्यात्- इति, नीचैः सदो मिनुयात्'' इति। 'यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्' इत्यर्थः। अत्र वृष्टिकामनाऽध्वर्योर्युक्ता, 'यः कामयेत्, स मिनुयात्' इति वाक्येन कामयितृमात्रोरेकत्वावगमात्। मातृत्वं चाध्वर्योरित्यविवादम्। तस्मात्- स एव कामयिता- इति चेत्-
मैवम्। 'मिनुयात्' इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते। ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम्। 'यजमानकामितां वृष्टिं पर्जन्यः संपादयतु' इत्येव योऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम्। 'एवंविदुद्रातात्मने वा यजमानाय वा यं कामं कामयते, तमागायति' इति ऋत्विजोऽपि कामः- इति चेत्- तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजोऽपि फलमस्तु।। 9।। 10।।
सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16
मन्त्राश्चाकर्मकरणास्तद्वत्।। 15।।
विप्रयोगे च दर्शनात्।। 16।।
सप्तमाधिकरणमारचयति-
आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया । तद्बाधे लिङ्गतः स्वामिगामिता कामवन्मता।। 11।।
इदमाम्नायते- ''आयुर्दा अग्नेऽस्यायुर्मे देहि'' इति। तस्यैतस्य मन्त्रस्य पाठोऽध्वर्योर्यजमानस्य वा-इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः ।
अस्मिन्मन्त्रे 'आयुर्मे देहि' इति फलस्य स्वात्मसंबन्धः प्रतीयते। स च यजमानस्य युक्तः, नाध्वर्योः। तस्मात्- कामवन्मन्त्रोऽपि याजमानः।। 11।।
अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात्।। 17।।
अष्ठमाधिकरणमारचयति-
वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः । एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ।। 12।।
दर्शपूर्णमासयोः- ''वाजस्य मा प्रसवेन'' इत्ययं मन्त्रोऽध्वर्युकाण्डे यजमानकाण्डे चाम्नातः। तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् ।
मैवम्। काण्डान्तरपाठवैयर्य्थप्रसङ्गात्। तस्मादुभाभ्यां पठनीयः। तयोः पठतोराशयभेदोऽस्ति। 'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते। 'अत्र न प्रमदिष्यामि' इति यजमानः।। 12।।
नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्
ज्ञाते च वाचनं नह्यविद्वान्विहितोऽस्ति।। 18।।
नवमाधिकरणमारचयति-
वाचयेत्स्वामिनं ज्ञाज्ञौ वाचनीयौ ज्ञ एव वा। अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम्।। 13।।
वाजपेये श्रूयते ''क्लृप्तीर्यजमानं वाचयति'' इति। ''आर्युयज्ञेन कल्पताम्'' इत्यादयो मन्त्राः क्लृप्तयः। तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत्। 'विद्वासं वाचयेत्' इत्येवं विशेषस्याश्रवणात्। अनभिज्ञं तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वात्- इति चेत्-
मैवम्। अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात्। तस्मात्- अभिज्ञमेव वाचयेत्।। 13।।
दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20
याजमाने समाख्यानात्कर्माणि याजमानं स्युः।। 19।।
अध्वर्युर्वा तदर्थो हि न्यायपूर्वं समाख्यानम्।। 20।।
दशमाधिकरणमारचयति-
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयेदिति । द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा।। 14।।
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात्। महाकाण्डोक्तितोऽन्त्योऽस्तु द्वंद्वतैवात्र कीर्त्यते।। 15।।
दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते ''द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयति। अव च हन्ति, दृषदौ च समाहन्ति'' इत्यादि।
तत्र पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभयमेकं द्वंद्वम्। तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम्। एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि। तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते-
ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः। किंच- यजुर्वेदे याजमानमिदमवान्तरकाण्डम्, महाकाण्डं त्वाध्वर्यवमेव। तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः। तस्मादर्ध्वयुरेव ताननुतिष्ठेत्। याजमाने तु काण्डे न तेषामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम्। तेन यजमानस्तामानुपूर्वीं मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति। तस्मादध्वर्योरेवानुष्ठानम्।। 14।। 15।।
एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्
विप्रतिषेधे करणः समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात्।। 21।।
एकादशाधिकरणमारचयति-
यो होताऽध्वर्युरेष स्यादित्याध्वर्यवमाचरन् ।हौत्रं कुर्यान्न वा त्यागहेत्वभावात्करोति तत्।। 16।।
होतैको युगपत्कर्मद्वयं कर्तुं नहि प्रभुः । त्यजेच्चोदकतः प्राप्तं हौत्रं वाचनिकार्थकृत्।। 17।।
अग्नीषोमीयवशौ ''परिवीरसि'' इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिव्याणं करोति। तदानीं क्रियमाणं तत्परिव्याणं होता ''युवा सुवासाः'' इत्यनेन मन्त्रेणानुवदति। तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम्। तत्राध्वर्योर्होतुश्च समास आम्नातः- 'यो होता सोऽध्वर्युः' इति। होतारमनूद्याध्वर्युत्वविधानादध्वर्युकार्यं होत्राऽनुष्ठेयम्। ततः ''परिवीरसि'' इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत। तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत्। नहि त्यागहेतुं कंचिन्निषेधं पश्यामः। तस्मात्क्रियमाणं तत्परिव्याणं ''युवा सुवासाः'' इत्यनेन मन्त्रेण होताऽनुवदेत्- इति प्राप्ते-
ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तुं न शक्नोति। ततोऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत्। आध्वर्यवं तु 'यो होता सोऽध्वर्युः' इत्यनेन प्रापितत्वादनुष्ठेयम्।। 16।। 17।।
द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्
प्रैषेषु च पराधिकारात्।। 22।।
द्वादशाधिकरणमारचयति-
प्रोक्षण्यासादनं कुर्यादध्वर्युरितरोऽथवा। आख्ययाद्यः सादयेति प्रेषितोऽन्योऽस्तु लिङ्गतः।। 18।।
दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामासादनं श्रुतम्। तदेतद्यजुर्वेदोक्तत्वादाध्वर्यवम्- इति चेत्-
मैवम्। प्रैषमन्त्रविरोधप्रसङ्गात्। ''प्रोक्षणीरासादय। इध्माबर्हिरुपसादय। अग्नीदग्नीन्विहर। वर्हिः स्तृणीहि'' इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नीध्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते। तस्मात्- नाध्वर्यवम्।। 18।।
त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24
अध्वर्युस्तु दर्शनात्।। 23।।
गौणो वा कर्मसामान्यात्।। 24।।
त्रयोदशाधिकरणमारचयति-
अग्नीत्प्रेष्येदुताध्वर्युरग्नीदस्त्वविरोधतः । आख्याविरोधादध्वर्युः प्रैषद्वाराऽर्थकृद्यतः।। 19।।
यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु विरोधाभावात्- इति चेत्-
मैवम्। आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात्। न च- प्रोक्षण्यासादनादीनामध्वर्युकर्तृकत्वाभावेऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम्। प्रैषद्वारा प्रयोजककर्तृत्वेऽपि तदविरोधात्। तस्मात्- अध्वर्योरेव प्रैषमन्त्रः।। 19।।
चतुर्दशे करणमन्त्रेषु स्वामिफलस्याशासितव्यताधिकरणे (वर्चोन्याये) सूत्राणि 25-27
ऋत्विक्फलं करणेष्वर्थवत्त्वात्।। 25।।
स्वामिनो वा तदर्थत्वात्।। 26।।
लिङ्गदर्शनाच्च।। 27।।
चतुर्दशाधिकरणमारचयति-
ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम्। श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम्।। 20।।
''ममाग्ने वर्चो विहवेष्वस्तु'' इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्वर्युणा पठ्यते। 'विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तु' इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् ।
मैवम्। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते। न च परिक्रीतस्याध्वर्योर्दक्षिणातिरिक्तफलसंबन्धो न्याय्यः। तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम्। 'मदीययजमानस्य तद्वर्चोऽस्तु' इति ह्युपचारः। तस्मात्- यजमानेन पाठ्येषु ''आयुर्दा अग्नेऽस्यायुर्मे देहि'' इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव।। 20।।
पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम्
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात्।। 28।।
पञ्चदशाधिकरणमारचयति-
मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत्। अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः।। 21।।
दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्रुक्स्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयति। तत्रायं करणमन्त्रोऽध्वर्युणा पठ्यते- ''अग्नाविष्णू मा वामवक्रमिषं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतम्'' इति। 'भो स्रुक्स्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि। युवां च मत्तो वियुक्तौ मा भवतम्। ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम्। स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्' इत्यर्थः। तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावोऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत्-
मैवम्। अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते। तस्मात्- अध्वयुगतोऽपि संतापाभावो यजमानस्यैव फलम्- इति नात्र मच्छब्दस्योपचारः।। 21।।
षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्
व्यपदेशाच्च।। 29।।
षोडशाधिकरणमारचयति-
भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते । द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः।। 22।।
ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते। तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति। तदा यजमानः 'किमत्र' इत्यनेन मन्त्रेण फलं पृच्छति। अध्वर्युश्च 'भद्रम्' इत्यनेन मन्त्रेणोत्तरं ब्रूते। ततो यजमानः 'तन्नौ सह' इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वीकरोति। तस्मात्- यजमानस्यैव तत्- इति चेत्-
मैवम्। 'नौ' इत्यनेन द्विवचनेन, 'सह' इत्यनेन चोभयगामितयैव स्वीकारात्।। 22।।
सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे- 30-31
द्रव्यसंस्कारः प्रकरणाविशेषात्सर्वकर्मणाम्।। 30।।
निर्देशात्तु विकृतावपूर्वस्यानधिकारः।। 31।।
सप्तदशाधिकरणमारचयति-
धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः। प्राप्तिर्विशेषतो वाद्यो विशेषस्यानिरूपणात्।। 23।।
प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे। यूपावटास्तृतिः कार्यं न हि प्राकृतबर्हिषः।। 24।।
दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्धर्माश्च हविरासादनादयोऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम्। ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वेऽप्यतिदिश्यन्ताम्- इति प्राप्ते-
ब्रूमः- कार्यमत्र नियामकम्। प्रकृतौ हि हविरासादनं वेदिकार्यम्। तच्च विकृतावपि प्राप्यमाणं स्वसिद्धये खननादीन्वेदिधर्मान्प्रापयति। यूपावटास्तरणरूपं तु कार्यं न प्रकृतावस्ति। दर्शपूर्णमासयोर्यूपावटाभावात्। तच्चस्तरणकार्यं विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लँवनादीन्बर्हिःसंस्कारान्न प्रापयति। तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते।। 23।। 24।।
अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्
विरोधे च श्रुतिविशेषादव्यक्तः शेषे।। 32।।
अष्टादशाधिकरणमारचयति-
यद्वर्हिस्तत्पवित्रार्थं न वाद्यस्तस्य संभवात्। संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत्।। 25।।
दर्शपूर्णमासयोरामनन्ति- ''समावप्रच्छिन्नाग्नौ दर्भौ प्रादेशमात्रौ पवित्रे करोति'' इति। तत्र- यदेतद्वेदिस्तरणार्थं लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिषः कार्यम्- इति चेत्-
मैवम्। आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात्। न हि 'वेदिं स्तृणाति' इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः। तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया।। 25।।
एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्
अपनयस्त्वेकदेशस्य विद्यमानसंयोगात्।। 33।।
एकोनविंशाधिकरणमारचयति-
पुरोडाशस्य शकलमैन्द्रवायवपात्रके । अवदध्यात्पुरोडाशो नवोऽथ सवनीयकः।। 26।।
सिद्धस्य यजनार्थत्वान्नवं संपाद्य तत्क्रिया । सवनीयेन तत्कार्यं संस्कार्यत्वाद्द्वितीयया।। 27।।
ज्योतिष्टोमे श्रूयते ''पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति'' इति। तत्र- सवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथाऽपि तस्य यजनार्थत्वेन संस्कृतबर्हिर्वदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशकलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या- इति चेत्-
मैवम्। सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम्। कुतः- संस्कार्यत्वात्। 'शकलं निदधाति' इति द्वितीयया संस्कार्यत्वं गम्यते। इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः। न चात्र कृत्स्नं यजनार्थम्, अवदानस्येयत्तया पुरोडाशभागस्यावशेषितत्वात्। यथाऽत्र पूर्वसिद्धपुरोडाशशकलम्, तथा 'धाना आश्विनपात्रे' 'पयस्यां मैत्रावरुणपात्रे' इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः।। 26।। 27।।
विंशे काम्येष्टिषूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे 34-35
विकृतौ सर्वार्थः शेषः प्रकृतित्वात्।। 34।।
मुख्यार्थो वाऽङ्गस्याचोदितत्वात्।। 35।।
विंशाधिकरणमारचयति-
काम्या उपांशु यष्टव्याः किं तदङ्गप्रधानयोः । प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः।। 28।।
मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना । अङ्गानामतथाभावादुपांशुत्वं प्रधानगम्।। 29।।
इदमाम्नायते- ''यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु यष्टव्याः'' इति। अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोप्याः। तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः। यथा वेदिधर्माणां बर्हिर्धर्माणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि। नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत्-
मैवम्। काम्यत्वस्यैवात्र विशेषनियामकत्वात्। न त्वङ्गानां काम्यत्वमस्ति, करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात्। ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम्। अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः।। 28।। 29।।
एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38
संनिधानविशेषादसंभवे तदङ्गानाम्।। 36।।
आधानेऽपि तथेति चेत्।। 37।।
नाप्रकरणत्वादङ्गस्य तन्निमित्तत्वात्।। 38।।
एकविंशाधिकरणमारचयति-
नवनीतं श्येन आज्यं मुख्येऽङ्गे वाऽस्तु मुख्यगम् । विधेयमाज्यमप्राप्तं दृतिस्थनवनीतकम्।। 30।।
मुख्यः सोमविकारोऽङ्गे चोदकप्राप्तमाज्यकम् । अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः।। 31।।
श्येने श्रूयते ''दृतिनवनीतमाज्यं भवति'' इति। दृतौ चिरं संगृहीतं नवनीतं यस्याज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत्-
मैवम्। प्रधानश्येनस्य सोमयागविकारत्वेनाज्यापेक्षाया अभावात्। अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते।। 30।। 31।।
द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41
तत्काले वा लिङ्गदर्शनात्।। 39।।
सर्वेषां वाऽविशेपात्।। 40।।
न्यायोक्ते लिङ्गदर्शनम्।। 41।।
द्वाविंशाधिकरणमारचयति-
सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः। आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः।। 32।।
योऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः, सोऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु।
विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत्। यथा ''सह पशूनालभते'' इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा नवनीतमपि- इति प्राप्ते-
ब्रूमः- 'यदाज्यं तद्दृतिनवनीतम्' इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम्। तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम्।। 32।।
त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44
मांसं तु सवनीयानां चोदनाविशेषात्।। 42।।
भक्तिरसंनिधावन्याय्येति चेत्।। 43।।
स्यात्प्रकृतिलिङ्गाद्वैराजवत्।। 44।।
त्रयोविंशाधिकरणमारचयति-
शाक्यायने पुरोडाशास्तरसा इति मांसता । सर्वत्र सवनीये वा सर्वत्र नवनीतवत्।। 33।।
तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः। पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते।। 34।।
षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम्। तत्र श्रूयते ''संस्थितोऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवनीयाः पुरोडाशा भवन्ति'' इति। तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते- इति चेत्-
मैवम्। तदा हि 'ये पुरोडाशास्ते तरसाः' इति वचनव्यक्तौ व्यवहितान्वयः स्यात्। तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात्। इह तु 'तरसाः सवनीयाः' इत्यनयोः संनिधिः श्रूयते। तथा सति 'ये सवनीयास्ते तरसाः' इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते।। 33।। 34।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याष्टमः पादः।। 8।।
समाप्तश्चायं तृतीयोऽध्यायः।।
अत्र पादे- अधिकरणानि 23, सूत्राणि 44।
आदितः- अधिकरणानि 246, सूत्राणि 657।
चतुर्थाध्यायस्य प्रथमः पादः
प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्।
शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् ।इत्यपेक्षोदयाद्वक्ति चतुर्थं तप्रत्युक्तये।। 1।।
अनेन तृतीय- चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः।। 1।।
प्रथमे प्रतिज्ञाधिकरणे सूत्रम्
अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा।। 1।।
चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः । अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम्।। 2।।
क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् ।क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते।। 3।।
'क्रत्वर्थोऽयम्, पुरुषार्थोऽयम्' इति विवेकस्य प्रयोजनं किमपि न पश्यामः। तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत्-
मैवम्। तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात्। साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम्।। 2।। 3।।
द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्
यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात्।। 2।।
द्वितीयाधिकरणे प्रथमवर्णकमारचयति-
क्रत्वर्थादेर्नास्ति वाऽस्ति लक्ष्म नास्त्यनिरूपणात् । क्रतवे यस्तदर्थोऽसाविति तस्य निरूपणम्।। 4।।
'क्रतावनुष्ठेयः क्रत्वर्थः' इत्युक्ते गोदोहनादावतिव्याप्तिः। 'पुरुषेणार्थ्यमानः पुरुषार्थः' इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः। तस्मात्- तयोरदुष्टं लक्षणं दुर्निरूपम्- इति चेत् ।
मैवम्। क्रतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः। प्रयाजादयस्तादृशाः। नहि प्रयाजादिभिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः। दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति। तस्मात्- ते क्रत्वर्थाः।
पुरुषप्रीतये विधीयमानः पुरुषार्थः। दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः। न हि दर्शपूर्णमासाभ्यां कस्यचित्क्रतोः पौष्कल्यं भवति तयोरेव क्रतुत्वात्। नापि गोदोहनं क्रत्वर्थम्। तदभावेऽपि चमसेन क्रतुपौष्कल्यसिद्धेः। तस्मात्- सुनिरूपणं तदुभयलक्षणम्।। 4।।
द्वितीयवर्णकमारचयति-
फलं विधेयं नो वाद्यो भावनांशत्वतोऽन्यवत् । न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात्।। 5।।
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति स्वर्गः फलत्वेन श्रूयते। तत्र- विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च- इति चेत्-
मैवम्। अप्रवृत्तप्रवर्तनं हि विधानम्। फले तु पुरुषः सौन्दर्यं जानन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः।। 5।।
तृतीयवर्णकमारचयति-
गोदोहनं द्वयार्थं स्यान्न वा भानाद्द्वयार्थता । अन्यथाऽपि क्रतोः सिद्धेः केवलं पुरुषाय तत्।। 6।।
दर्शपूर्णमासयोः श्रूयते ''चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य'' इति। तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजननेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत्-
मैवम्। गोदोहनमन्तरेण फलासिद्धेर्भवतु पुरुषार्थत्वम्। क्रतुस्तु तदभावेऽपि चमसेन सिध्यतीति न क्रत्वर्थता।। 6।।
चतुर्थवर्णकमारचयति-
द्रव्यार्जनं स्यात्क्रत्वर्थं पुमर्थं वा क्रताविदम्। नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थतार्थिकी।। 7।।
ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम्। तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम्। कुतः- अर्जनोपायानां नियतत्वात्। पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः। क्रतौ तु नियमापूर्वं परमापूर्वोपयोगीति सार्थको नियमः- इति प्राप्ते-
ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते। फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव। अत एव स्मर्यते-
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः।। इति।
क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत्। पुरुषार्थतायां त्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थेष्वन्तर्भावात्क्रत्वर्थताऽप्यार्थिकी सिध्यति। उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते। तस्मात्- द्रव्यार्जनं पुरुषार्थम्।। 7।।
तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6
तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान्न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसंबन्धात्क्रियायां पुरुषश्रुतिः।। 3।।
अविशेषात्तु शास्त्रस्य यथाश्रुतिफलानि स्युः।। 4।।
अपि वा कारणाग्रहणे तदर्थमर्थस्यानभिसंबन्धात्।। 5।।
तथा च लोकभूतेषु।। 6।।
तृतीयाधिकरणमारचयति-
नेक्षेतोद्यन्तमादित्यं क्रत्वर्थं तन्न वाऽग्रिमः । फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते।। 8।।
व्रतोक्त्या पर्युदासत्वे संकल्पोऽनीक्षणेऽत्र सः । न क्रत्वङ्गममानत्वात्पुमर्थः पापहानये।। 9।।
अनारभ्य श्रूयते ''नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन'' इति। अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम्। प्रतिषेधश्च प्राप्तिपूर्वकः। प्राप्तिश्च वैदिकस्य निषेधस्य वैदिकी प्रत्यासन्ना। तथा सति क्रतौ यत्रादित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते। एवं च सति फलं न कल्पनीयम्। पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारेऽधिकारसिद्धये फलं कल्पनीयं स्यात्। तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते-
ब्रूमः- ''तस्य व्रतम्'' इत्युपक्तम्य 'नेक्षेतोद्यन्तमादित्यम्' इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम्। तच्च पर्युदासत्वे सत्यवकल्पते। ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः। पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते। स च संकल्पोऽत्रानुष्ठेयव्रतत्वेन विधीयते। यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथाऽपि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते। संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः। तथा सति 'उद्यन्तम्, अस्तं यन्तं चादित्यं नेक्षिष्ये' इत्येवंरूपः संकल्पोऽत्रानुष्ठेयत्वेन विधीयते। न च तस्य संकल्पस्य क्रत्वङ्गत्वम्। तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात्। न च पुरुषार्थत्वेऽपि प्रमाणाभावः। 'एतावता हैनसा मुक्तो भवति' इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात्। क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत। तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि।। 8।। 9।।
चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10
द्रव्याणि त्वविशेषेणानर्थक्यात्प्रदीयेरन्।। 7।।
स्वेन त्वर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद्यथाश्रुति स्युः।। 8।।
चोद्यन्ते चार्थकथासु।। 9।।
लिङ्गदर्शनाच्च।। 10।।
चतुर्थाधिकरणमारचयति-
दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा । आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते।। 10।।
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते । स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः।। 11।।
दर्शपूर्णमासयोः- ''स्फ्यश्च कपालानि च'' इत्याद्युपक्रम्य ''एतानि वै दशयज्ञायुधानि'' इत्याम्नातम्। तानि चात्र हविष्ट्वेन विधीयन्ते। कुतः- मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात्। यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वाऽस्तु- इति प्राप्ते-
ब्रूमः- ''आग्नेयोऽष्टाकपालः'' इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति। आयुधत्वं यज्ञसाधनत्वम्। तच्च ''स्फ्येनोद्धन्ति, कपालेषु श्रपयति'' इत्यादिशास्त्रसिद्धमेवात्रानूद्य ''यज्ञायुधानि संभरति'' इत्येष संभरणविधिः स्तूयते। तस्मात्- नास्ति हविष्ट्वम्।। 10।। 11।।
पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16
तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्।। 11।।
एकश्रुतित्वाच्च।। 12।।
प्रतीयत इति चेत्।। 13।।
नाशब्दं तत्प्रमाणत्वात्पूर्ववत्।। 14।।
शब्दवत्तूपलभ्यते, तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथाऽम्येषाम्।। 15।।
तद्वच्च लिङ्गदर्शनम्।। 16।।
पञ्चमाधिकरणमारचयति-
पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता । नास्त्यस्ति वाद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः।। 12।।
आदौ स्वप्रत्ययोपात्त आसन्नतरकारके । योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता।। 13।।
''अग्नीषोमीयं पशुमालभेत'' इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति। तस्य श्रुत्या पशुसंबन्धावगमात्। 'पशुम्' इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धोऽवगम्यते। यागस्तु 'आलभेत' इत्यनेन पदान्तरेणोपात्तः। तत्र वाक्येन संबन्धावगतिः। वाक्याच्च श्रुतिर्बलीयसी। तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागोऽनुष्ठातुं शक्यते- इति प्राप्ते,
ब्रूमः- 'पशुम्' इति पदं यद्यप्येकम्, तथाऽपि प्रकृत्या पशुर्निर्दिष्टः। प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम्। तत एकत्वस्यासन्नतरे कारके प्रथमं संबन्धो भवति। कारकत्वं नाम क्रियाहेतुत्वम्। तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः। क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति। तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थं सत्तत्र समर्थं पशुद्रव्यं पश्चादवच्छिनत्ति। तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः।
एवम्- 'अनड्वाहौ युनक्ति' 'वसन्ताय कपिञ्जलानालभते' इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम्।। 12।। 13।।
षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्
तथा च लिङ्गम्।। 17।।
षष्ठाधिकरणमारचयति-
न पुंलिङ्गे विवक्षा वा विवक्षाऽनुपयोगतः । आद्योऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम्।। 14।।
''पशुमालभेत'' इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम्। कुतः- शब्दार्थविचारेऽनुष्ठानविचारे च तदुपयोगादर्शनात्। अलिङ्गेऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते। तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः। ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षाऽस्ति। अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम्। एकत्वावच्छिन्नपशुत्वे वैषम्याभावात्। तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते-
ब्रूमः- यथा पशुत्वजातिः, यथा वा- तदेकत्वम्, वृद्धव्यवहारेऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात्। वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम्। न चानुष्ठाने साम्यम्, पुंस्पशौ विशेषसद्भावात्। ''वाक्त आप्यायताम्'' इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायनकाले ''मेढ्रं त आप्यायताम्'' इति मन्त्रेण तदवयवस्याप्यायनश्रवणात्। तस्मात्- एकत्ववत्पुंलिङ्गमपि विवक्षितम्।। 14।।
सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20
आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत।। 18।।
चोदनायां त्वनारम्भो विभक्तत्वान्न ह्यनेन विधीयते।। 19।।
स्याद्वा द्रव्यचिकिर्षायां भावोऽर्थे च गुणभूतत्वाश्रयाद्विगुणीभावः।। 20।।
सप्तमाधिकरणमारचयति-
स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि । प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः।। 15।।
मन्त्रेण देवसंस्कारः प्रक्षेपाद्द्रव्यसंस्कृतिः । त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत्।। 16।।
योऽयं स्विष्टकृद्यागः सोऽयमुपयुक्तहविःसंस्कारः- इत्यविवादम्। तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति। न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते-
ब्रूमः- कर्मण एकत्वेऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते। मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रयोंऽशाः। तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते। तस्मात्- स्विष्टकृदुभयार्थः। एवम्-अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै।। 15।। 16।।
अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्
अर्थे समवैषम्यतो द्रव्यकर्मणाम्।। 21।।
अष्टमाधिकरणमारचयति-
शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् । शेषो भानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात्।। 17।।
वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः। यथा- अतीतेष्वधिकरणेषु क्रतुशेषोऽयम्, पुरुषशेषोऽयम्, इति चिन्तितम्, तद्वत्। कुतः- उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत्-
मैवम्। शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते। शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः।। 17।।
नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24
एकनिष्पत्तेः सर्वं समं स्यात्।। 22।।
संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्।। 23।।
मुख्यशब्दाभिसंस्तवाच्च।। 24।।
नवमाधिकरणमारचयति-
आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम्। उतामिक्षैव सामर्थ्यं द्वयोस्तुल्यं ततोऽग्रिमः।। 18।।
आमिक्षा पय एवात्र तच्छब्दान्मन्त्रतो रसात् । प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम्।। 19।।
इदमाम्नायते- ''तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्'' इति। तत्र- पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपि-इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव। तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,-
ब्रूमः- 'न द्रव्यान्तरमामिक्षा, किं तु पय एव' इति तच्छब्दादिभिरवगम्यते। 'यस्मिन्पयसि दधिप्रक्षेपः, सामिक्षा' इति तच्छब्देन पयः परामृश्यते। आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- ''जुषन्तां युज्यं पयः'' इति। पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने। ततः- प्राधान्येन पयसो घनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका। अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम्।। 19।।
दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्
पदकर्माप्रयोजकं नयनस्य परार्थत्वात्।। 25।।
दशमाधिकरणमारचयति-
सोमक्रयण्यानयने पदकर्म प्रयोजकम्। न वाद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः।। 20।।
तृतीयया क्रयार्था गौस्तद्द्वारानयनस्य च । तादर्थ्यात्तत्प्रयुक्तं तन्न प्रयोजकता पदे।। 21।।
ज्योतिष्टोमे सोमक्रय आम्नायते- ''एकहायन्या क्रीणाति'' इति। सेयमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाऽध्वर्युस्तस्याः पृष्ठतोऽनुगच्छति। तदप्याम्नातम्- ''षट्पदान्यनुनिष्क्रामति'' इति। ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात्। एतदपि श्रूयते ''सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति'' इति। तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसा संयुक्तमञ्जनं प्रक्षिपेत्। एतदपि श्रुतम्-''यज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्'' इति प्रस्तुत्य ''यर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्'' इति। तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम्।
अथोच्येत- दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाऽक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति। तन्न। क्रयेऽपि तदसंयोगस्य तुल्यत्वात्।
अथ- असंयुक्तोऽपि क्रयो गवानयनेन निष्पद्यते। 'तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते' इति समानत्वात्। क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते-
ब्रूमः- ''एकहायन्या क्रीणाति'' इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते। गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवानयने प्रयोजकः। न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम्। तस्मात्- तदप्रयोजकम्।। 20।। 21।।
एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम्
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते।। 26।।
एकादशाधिकरणमारचयति-
श्रपणं तुषवापश्च कपालस्य प्रयोजकौ । उत श्रपणमेवाद्यो वापार्थत्वात्तृतीयया।। 22।।
पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता । प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम्।। 23।।
''कपालेषु श्रपयति'' इति श्रपणं पुरोडाशस्य श्रुतम्। तथा- ''पुरोडाशकपालेन तुषानुपवपति'' इति कपाले तुषधारणं श्रुतम्। ते च तुषाः सकपालाः ''रक्षसां भागोऽसि'' इति मन्त्रेण नैर्ऋत्यां दिश्यवस्थापनीयाः। तत्र श्रपणं यथा कपालसंपादनस्य प्रयोजकम्, तथा तुषवापोऽपि प्रयोजकः। 'एकहायन्या' इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा 'कपालेन' इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्- इति चेत्-
मैवम्। नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम्। किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम्। एतच्च 'पुरोडाशकपालेन' इति सविशेषणनाम्ना तद्विधानादवगम्यते। तथा सति प्रथमं श्रपणेन कपालं प्रयुज्यने। न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति। तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापेऽपि प्रसङ्गात्सिध्यति। ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते।। 22।। 23।।
द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्
पशावनालम्भाल्लोहितशकृतोरकर्मत्वम्।। 27।।
द्वादशाधिकरणमारचयति-
हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः । हृदादिरेव वाद्योऽस्तु प्रकृतत्वेन साम्यतः।। 24।।
हविषो यागशेषत्वाद्धृदादेर्हविरात्मनः । प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः।। 25।।
अग्नीषोमीयपशौ श्रुतम् ''हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसः'' इति। तथाऽन्यदपि श्रुतम्- ''शकृत्संप्रविध्यति'' ''लोहितं निरस्यति'' इति। तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याच्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत्-
मैवम्। पशुयागो हि हविःसाध्यः। हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः। तस्मात्- हृदयादिरेव प्रयोजकः। शकृत्संप्रवेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम्।
त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32
एकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्।। 28।।
निर्देशात्तस्यान्यदर्थादिति चेत्।। 29।।
न शेषसंनिधानात्।। 30।।
कर्मकार्यात्।। 31।।
लिङ्गदर्शनाच्च।। 32।।
त्रयोदशाधिकरणमारचयति-
प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः ।यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये।। 26।।
उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति । अग्न्याद्यर्थं पुरोडाशमुपजीव्यैष वर्तताम्।। 27।।
दर्शपूर्णमासयोः श्रूयते ''उत्तरार्धात्स्विष्टकृते समवद्यति'' इति। सोऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः, तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत्-
मैवम्। उत्तरशब्दोऽर्धशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भागिनमाकाङ्क्षतः। अग्न्यादिदेवतार्थः पुरोडाशः प्रकृतो भागवांश्च। तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते। न त्वन्यस्य प्रयोजकः।। 26।। 27।।
चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39
अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात्।। 33।।
न वाऽपात्रत्वादपात्रत्वं त्वेकदेशत्वात्।। 34।।
हेतुत्वाच्च सहप्रयोगस्य।। 35।।
अभावदर्शनाच्च।। 36।।
सति सव्यवचनम्।। 37।।
न तस्येति चेत्।। 38।।
स्वात्तस्य मुख्यात्।। 39।।
चतुर्दशाधिकरणमारचयति-
अभिघार्यं प्रयाजानां शेषेण हविरत्र किम्। शेषधारणतत्पात्रे कार्ये नो वाऽभिघारणम्।। 28।।
नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न कोऽप्यर्थोऽभिधारणात्।। 29।।
प्रकृतौ श्रुतम्- ''प्रयाजशेषेण हवींष्यभिधारयति'' इति। तदेतद्विकृतावतिदिष्टम्। विकृतयश्च वाजपेयगताः पशवः। ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति। ''आग्नेयं पशुमालभते'' इत्यादिना विहिताः क्रतुपशवः। इतरे तु ''सप्तदश प्राजापत्यान्पशूनालभते'' इति विहिताः। एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते। ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते। तत्र क्रतुपशूनां प्रातःसवन एवालब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति। प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम्। आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य ''ब्रह्मसाम्न्यालभते'' इति विधानात्। तेषां च प्राजापत्यादीनां हविषामभिधारणार्थं प्रातःकालीनः प्रयाजशेषो धारयितव्यः। न चात्र जुह्वां तद्धारणं संभवति। क्रतुपश्वनुष्ठाने जुह्वा व्यापृतत्वात्। अतः पात्रान्तरं संपाद्य तस्मिन्नयं शेषो धारयितव्यः। अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिघारणासिद्धिः। तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते-
ब्रूमः- ते उभे न कर्तव्ये। कुतः- अभिघारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्। न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः। दृष्टं च जुह्वा रिक्तीकरणम्। अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत। ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम्। अस्तु वा तत्र हविःसंस्कारोऽपि। तथाऽपि प्राजापत्यवपायामभिधारणं व्यर्थम् रूक्षत्वनिवारणाय ह्यभिघार्यते। न च प्राजापत्यवपाया रूक्षताऽस्ति। ब्रह्मसाम्नैव तद्रूक्षताया निवारितत्वात्। अत एव श्रूयते ''शम्या वा एतर्हि वपा यर्ह्यनभिघृता। ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते। तेनाशम्यास्तेनाभिघृताः'' इति। शम्या रूक्षा इत्यर्थः। तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये।। 28।। 29।।
पञ्चदशे समानयनस्याज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41
समानयनं तु मुख्यं स्यात्, लिङ्गदर्शनात्।। 40।।
वचने हि हेत्वसामर्थ्ये।। 41।।
पञ्चदशाधिकरणमारचयति-
चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् । जुह्वामानयतीत्यौपभृतं नैषा प्रयोजयेत्।। 30।।
प्रयोजयेदुतानीतिः प्रयाजाद्यखिलार्थता । श्रुतौपभृत आज्येऽतो जौहवेन विकल्पनात्।। 31।।
न प्रयोजकता मैवं नियतार्थं तु जौहवम्। अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत्।। 32।।
दर्शपूर्णमासयोः श्रूयते ''अतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्'' इति। अस्यायमर्थः- 'पञ्चानां प्रयाजानां मध्ये तृतीयः प्रयाज इट् शब्देन बहुवचनान्तेनाभिधीयते। तं तृतीयं प्रयाजमतिक्रम्य बर्हिर्नामकं चतुर्थं प्रयाजं होतुमुपभृत्संज्ञकायां स्रुचि स्थितं घृतं जुह्वामानेतव्यम्' इति। तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम्। तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते ''चतुर्जुह्वां गृह्णाति, अष्टावुपभृति,'' ''चतुघ्रुवायां,'' ''यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्'' ''यदुपभृति प्रयाजानुयाजेभ्यस्तत्'' ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति। तत्र- जौहवं केवलप्रयाजार्थम्। औपभृतं तु प्रयाजानुयाजार्थमिति प्रयाजेषु जौहवमौपभृतं च विकल्पते। तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्यानयनमेव नास्ति, कुत आनयनस्य प्रयोजकत्वम्। यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यार्धं पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम्। तयोः प्रयाजसाधनमर्धं प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते। यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम्। तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्यानयनं प्रयोजकम्- इति प्राप्ते-
ब्रूमः- 'यज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थं च'- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाश्रयितुं शक्यः। यदा जौहवस्वीकारः तदानीम् औपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वीक्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः। जौहववाक्येऽप्येवं चत्वारः, इत्यष्टौ दोषाः। यथोक्तव्यवस्था च 'अतिहायेड' इतिवाक्यादध्यवसीयते। तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव।। 30।। 31।। 32।।
षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45
तत्रोत्पत्तिरविभक्ता स्यात्।। 42।।
तत्रजौहवमनुयाजप्रतिषेधार्थम्।। 43।।
औपभृतं तथेति चेत्।। 44।।
स्याज्जुहूप्रतिषेधान्नित्यानुवादः।। 45।।
षोडशाधिकरणमारचयति-
जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थं वा व्यवस्थितिः। सर्वार्थमविशेषात्स्यात्प्रयाजार्थं हि जौहवम्।। 33।।
प्रयाजानुयाजहेतुः स्यादौपभृतमाज्यकम्। ध्रौवमन्यार्थमित्येषा व्यवस्था वचनैर्मता।। 34।।
''चतुर्जुह्वां गृह्णाति'' इत्यादिषु ग्रहणवाक्येषु 'एतदर्थम्' इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् ।
मैवम्। ''यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्''- इत्यादिभिर्वाक्यैर्व्यवस्थावगमात्।। 33।। 34।।
सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48
तदष्टसंख्यं श्रवणात्।। 46।।
अनुग्रहाच्च जौहवस्य।। 47।।
द्वयोस्तु हेतुसामर्थ्यं श्रवणं च समानयने।। 48।।
सप्तदशाधिकरणमारचयति-
अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः। चतुर्द्वयग्रहे वाद्यः स्यादष्टश्रुतिमुख्यतः।। 35।।
चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते । चतुर्द्वित्वं लक्ष्यतेऽतः सहानीत्यर्थमष्टता।। 36।।
ग्रहणवाक्ये ''चतुर्जुह्वां गृह्णाति'' इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव ''अष्टावुपभृति'' इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्। न तु चतुर्गृहीतद्वयम्। तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात्। अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते-
ब्रूमः- प्रसज्यतां नाम लक्षणा। मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः। ''चतुर्गृहीतं जुह्रोति'' इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति। यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्। तथाऽपि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्। न तूपसर्जनानुसारेणाष्टगृहीतम्। तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते। तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम्। अपरं त्वनुयाजार्थम्।
नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् 'चतुरुपभृति' इत्येव विधातव्यम्, न तु 'अष्टावुपभृति' इति विधिर्युक्तः- इति चेत्- मैवम्। तथा सत्यनुयाजार्थं द्वितीयं चतुर्गृहीतं न सिध्येत्। अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत। यदि 'उपभृति' इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनानयनं न सिध्येत्। अत उभयस्य समीपभूम्यानयनार्थम् 'अष्टावुपभृति' इत्युच्यते। तस्मात्साहित्यार्थमष्टशब्दप्रयोगेऽपि हविष्ट्वसिद्धये द्वे चतुर्गृहीते अत्र विधीयेते।। 35।। 36।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः।। 1।।
अत्र पादे- अधिकरणानि17, सूत्राणि48।
आदितः- अधिकरणानि 263, सूत्राणि705।
चतुर्थाध्यायस्य द्वितीयः पादः
अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्।
प्रथमे स्वरोश्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6
स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात्।। 1।।
जात्यन्तराच्च शङ्कते।। 2।।
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात्।। 3।।
शकलश्रुतेश्च।। 4।।
प्रतियूपं च दर्शनात्।। 5।।
आदाने करोतिशब्दः।। 6।।
द्वितीये पादे प्रथमाधिकरणमारचयति-
स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम्। प्रयोजयेन्न वाद्योऽस्तु विशिष्टस्य विधानतः।। 1।।
आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे । विहिते लाघवं तस्मादनुनिष्पन्न एव सः।। 2।।
अग्नीषोमीयपशौ श्रूयते ''यूपस्य स्वरुं करोति'' इति। तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति। कुतः- 'करोति' इत्यनेन विशिष्टविधिप्रतीतेः। करोतिधातोर्हि भावना मुख्योऽर्थः। तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम्। छेदनादिरितिकर्तव्यता, 'छिन्नेन वृक्षेण स्वरुरुत्पादनीयः' इति विशिष्टविधिः। उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- ''स्वरुणा पशुमनक्ति'' इति। तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते-
ब्रूमः- 'छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः' इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्न च्छेदनस्य प्रयोजकः। किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते।। 1।। 2।।
द्वितीये शाखाया आहार्यताधिकरणे सूत्रम्
शाखायां तत्प्रधानत्वात्।। 7।।
द्वितीयाधिकरणमारचयति-
प्राचीमाहरतीत्यत्र दिक्शाखा वाऽस्तु दिक्श्रुतैः । आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते।। 3।।
दर्शपूर्णमासयोः ''यत्पलाशशाखया वत्सानपाकरोति'' इति पलाशशाखां प्रकृत्य श्रूयते ''यत्प्राचीमाहरेत्, देवलोकमभिजयेत्'' इति। तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत्-
मैवम्। अशक्यत्वात्। अतो वृक्षस्य प्राची शाखाऽत्रोपलक्ष्यते। तथा सति प्रकृतानुग्रहो भवति।। 3।।
तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9
शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत्।। 8।।
श्रुत्यपायाच्च।। 9।।
तृतीयाधिकरणमारचयति-
शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया । नुदेद्वत्सान्कपालानि स्थापयेदुपवेषतः।। 4।।
द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा । आद्योऽग्रमूलयोरत्र विभज्य विनियोगतः।। 5।।
उपवेषं करोतीति साकाङ्क्षोऽन्यार्थमूलतः । पूर्यतेऽतोऽनुनिष्पादी स तस्माद्युज्यतेऽन्तिमः।। 6।।
दर्शपूर्णमासयोः श्रूयते ''मूलतः शाखां परिवास्योपवेषं करोति'' इति। येयं पलाशशाखा छित्त्वा वृक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः। तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- ''शाखया वत्सानपाकरोति। उपवेषेण कपालान्युपदधाति'' इति। तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते। तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् ।
मैवम्। ''उपवेषं करोति'' इत्युक्ते 'केन द्रव्येण' इत्याकाङ्क्षायां 'मूलतः' इति वक्तव्यम्। पुनरपि 'कस्य मूलम्' इत्याकाङ्क्षायां 'वत्सापाकरणार्थं छिन्नायाः पलाशशाखाया मूलम्' इत्याकाङ्क्षा पूरणीया। तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम्। उपवेषस्त्वनुनिष्पादी।
ननु- आद्यच्छेदने तथाऽस्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः। परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात्। अन्यथा ''परिवास्योपवेषं करोति'' इति समानकर्तृत्वपूर्वकालत्ववाचिनो ल्यप्प्रत्ययस्यानुपपत्तेः, इति चेत्-
मैवम्। परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते। शाखासंबन्धस्तु 'शाखाम्' इति द्वितीयाश्रुत्या। पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकश्छेदोऽपेक्षितः। अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात्। अत एव 'मूलतः' इत्यपादाने पञ्चमी श्रुता। तथा सति प्रथमच्छेदनापादानभूतो वृक्षोऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम्। अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र 'उपवेषं करोति' इत्यनूद्यते। शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थं काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः। एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः।। 4।। 5।। 6।।
चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13
हरणे तु जुहोतिर्योगसामान्यात्, द्रव्याणां चार्थशेषत्वात्।। 10।।
प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात्।। 11।।
अर्थेऽपीति चेत्।। 12।।
न तस्यानधिकारादर्थस्य च कुतत्वात्।। 13।।
चतुर्थाधिकरणमारचयति-
प्रस्तरं शाखया सार्धं प्रहरेत्प्रहृतिस्त्वियम्। शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता।। 7।।
विहितः प्रस्तरे यागः शाखायाः साहचर्यतः। तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत्।। 8।।
हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् । पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत्।। 9।।
दर्शपूर्णमासयोः श्रूयते ''सह शाखया प्रस्तरं प्रहरति'' इति। तत्र शाखाप्रहरणमर्थकर्म। कुतः-प्रहृतिशब्देन यागस्याभिधानात्। एतच्च ''सूक्तवाकेन प्रस्तरं प्रहरति'' इत्येतद्वाक्यमुदाहृत्य विचारितम्। प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात्। अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म। ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते-
ब्रूमः- ''सूक्तवाकेन प्रस्तरं प्रहरति'' इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम्। किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः। शाखाप्रहरणे तु नास्ति देवता। ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाचष्टे। तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशेऽवकाशलाभाय यत्र क्वाप्यवश्यं परित्यागे प्राप्ते शास्त्रेणाहवनीय एव त्यागो नियम्यते। अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति। प्रतिपत्तिर्नाम संस्काररूपो दृष्टोऽर्थः। यथा राज्ञा चर्वितस्य ताम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत्। ततः प्रहरणं प्रतिपत्तिकर्म। तेन च तदभावेऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति।। 7।। 8।। 9।।
पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15
उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात्।। 14।।
संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात्।। 15।।
पञ्चमाधिकरणमारचयति-
प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम्। अपां द्वे प्रापके किंवा हविःसंयवनं तथा।। 10।।
अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता ।श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता।। 11।।
दर्शपूर्णमासयोः श्रूयते ''अपः प्रणयति'' इति। चमसेन पात्रेण प्रणीतानां तासामपां प्रयोजनमेवं श्रूयते ''प्रणीताभिर्हवींषि संयौति'' इति, ''अन्तर्वेदि प्रणीता निनयति'' इति च। हवींषि पुरोडाशार्थानि पिष्टानि। तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम्। कुतः- ''अपः प्रणयति'' इत्यस्य प्रणयनोत्पत्तिवाक्यस्योभयत्र समानत्वात्। न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत्-
मैवम्। विनियोगवाक्ये 'प्रणीताभिः' इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम्। निनयनवाक्ये तु 'प्रणीताः' इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम्।
षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18
प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात्।। 16।।
अर्थकर्म वा कर्तृसंयोगात्, स्रग्वत्।। 17।।
कर्मयुक्ते च दर्शनात्।। 18।।
षष्ठाधिकरणमारचयति-
मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता। उतार्थकर्मताद्योऽस्तु धारणे कृतकृत्यतः।। 12।।
युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया । स्थित्वा प्रैषानुवचने दण्डोऽपेक्ष्योऽर्थकर्म तत्।। 13।।
ज्योतिष्टोमे श्रूयते ''क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति'' इति। तदेतद्दण्डदानं प्रतिपत्तिकर्म। कुतः- दण्डस्य यजमानधारणेन कृतकृत्यत्वात्। यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थं दत्तं दण्डमासोमक्रयाद्धारयति। अत एवाम्नातम्- ''दण्डेन दीक्षयति'' इति, ''यद्दीक्षिताय दण्डं प्रयच्छति'' इति च। तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत्-
मैवम्। दण्डे भविष्यदुपयोगस्यापि सद्भावात्। यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डोऽपेक्षितः। अत एवाम्नातम्- ''दण्डीप्रैषानन्वाह'' इति। तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः। उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः। उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम्। तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म। तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम्।। 12।। 13।।
सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्
उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात्, तस्यार्थान्तरगमने शेषत्वात्प्रतिपत्तिः स्यात्।। 19।।
सप्तमाधिकरणमारचयति-
चात्वाले कृष्णशृङ्गस्य प्रासो यः सोऽर्थकर्म वा । प्रतिपत्तिः सार्थकत्वादाद्योऽन्त्योऽस्तूपयोगतः।। 14।।
ज्योतिष्टोमे श्रूयते ''प्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति'' इति। यजमानेन दत्ता दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत्। सोऽयं परित्यागोऽर्थकर्म। कुतः- सप्रयोजनत्वात्। प्रतिपत्तितयाऽपूर्वाभावेन निरर्थकः स्यात्। अतोऽपूर्वलाभायार्थकर्मत्वम्- इति चेत्-
मैवम्। ''कृष्णविषाणया कण्डूयते'' इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपत्यपेक्षत्वात्। न च प्रतिपत्तावत्यन्तमपूर्वाभावः, 'चात्वाल एव प्रासनम्' इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि नियमापूर्वसद्भावात्। तस्मात्- प्रासनं प्रतिपत्तिकर्म।। 14।।
अष्टमे- अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22
सौमिके च कृतार्तत्वात्।। 20।।
अर्थकर्म वाऽभिधानसंयोगात्।। 21।।
प्रतिपत्तिर्वा तन्न्यायत्वाद्देशार्थाऽवभृथश्रुतिः।। 22।।
अष्टमाधिकरणमारचयति-
पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् । साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः।। 15।।
प्राप्ता साधनता मैवं पुरोडाशहविष्ट्वतः । पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये।। 16।।
ज्योतिष्टोमे श्रूयते ''चतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रव्यम्, तेनावभृथं यन्ति'' इति। निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम्। तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते। तस्य लिप्तस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम्। कुतः- 'तेनावमृथं यन्ति' इति तृतीयाश्रुत्याऽवभृथसाधनत्वावगमात्। तस्मात्सोमलिप्तं द्रव्यमवभृथे हविष्ट्वेन नीयते- इति चेत्-
मैवम्। ''वारुणेन कपालेनावभृथमवयन्ति'' इत्यनेनोत्पत्तिवाक्यशिष्टपुरोडाशहविषाऽवरुद्धेऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात्। तथा सत्यवभृथशब्देन तदर्थं देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते। तच्च नयनं प्रतिपत्तये भवति, पात्रस्य पूर्वमुपयुक्तत्वात्। तस्मात्- एतत्प्रतिपत्तिकर्म।। 15।। 16।।
नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24
कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात्।। 23।।
नियमार्था वा श्रुतिः।। 24।।
नवमाधिकरणमारचयति-
समे यजेत देशादेरनुवादोऽथवा विधिः । प्रयोगानुपपत्त्यैव प्राप्तत्वादनुवादता।। 17।।
समे वा विषमे वेति पाक्षिकत्वनिवृत्तये । अप्राप्तांशानुपातेन नियमोऽत्र विधीयते।। 18।।
इदमाम्नायते-
''समे दर्शपूर्णमासाभ्यां यजेत'' ''प्राचीनप्रवणे वैश्वदेवेन यजेत'' ''पौर्णमास्यां पौर्णमास्या यजेत'' ''अमावास्यायाममावास्यया यजेत'' ''पशुबन्धस्य यज्ञक्रतोः षडृत्विजः'' ''दर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजः'' ''चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः'' ''अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्'' ''सौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदशर्त्विजः'' ''सोमेन यजेत'' इति। क्रतुशब्दो मानस उपासनेऽपि वर्तते। ''स क्रतुं कुर्वीत मनोमयः प्राणशरीरः'' इत्यत्र क्रतुशब्देन ध्यानविधानात्। तद्व्यावृत्तये 'यज्ञक्रतोः' इति विशेष्यते। तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते। कुतः- प्राप्तत्वात्। न हि देशादिभिर्विना प्रयोगः संभवति। अतोऽर्थापत्त्या तत्प्राप्तिः- इति चेत्-
मैवम्। अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः। विषमदेशादीनामपि संभवात्। ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते।। 17।। 18।।
दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्
तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात्।। 25।।
दशमाधिकरणमारचयति-
श्वेतालम्भोऽनुवादो वा श्वैत्यस्य विधिरग्रिमः। द्रव्यद्वारेण तत्प्राप्तेः पूर्ववत्तन्नियम्यते।। 19।।
इदमाम्नायते- ''वायव्यं श्वेतमालभेत भूतिकामः'' इति। तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवावर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत्-
मैवम्। पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात्।। 19।।
एकादशे- अवघातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्
संस्कारे च तत्प्रधानत्वात्।। 26।।
एकादशाधिकरणमारचयति-
अवघातेऽपि नियमो देशादाविव तेन सः। प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः।। 20।।
यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातोऽपि तण्डुलनिष्पत्त्यर्थं लोकतः प्राप्तोऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते। सति चावघातस्य विधौ प्रधानेनाग्नेयादियागेनासौ प्रयुज्यते।
न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम्। प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धेः। तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च।। 20।।
द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28
यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात्।। 27।।
तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्यात्।। 28।।
द्वादशाधिकरणमारचयति-
अनिरूप्या निरूप्या वा यागहोमददातयः । त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते।। 21।।
आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते । यागस्योपरि होमस्य विधेः क्षेपावसानता।। 22।।
स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत्। तथा संपादनं दानं त्यागेऽप्येषामियं भिदा।। 23।।
इदमाम्नायते-
''सोमेन यजेत'' ''अग्निहोत्रं जुहोति'' ''हिरण्यमात्रेयाय ददाति'' इति। तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते। त्रिष्वपि द्रव्यत्यागस्य सद्भावात्। ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत्-
मैवम्। देवतामुद्दिश्य द्रव्यत्यागो यागः। त्यक्तस्य वह्नौ प्रक्षेपो होमः। स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम्। इति सुनिरूपा एते पदार्थाः। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति विहितस्य यागस्योपरि ''चतुरवत्तं जुहोति'' इति होमस्य विधानात् 'त्यागमात्रात्मको यागः, प्रक्षेपाधिको होमः' इत्यवगम्यते। यत्र तु यजत्यादिपदं न श्रुतम्, किंतु 'आग्नेयोऽष्टाकपालः' इत्येतावदेव श्रुतम्, तत्राप्युद्देश्याया देवतायास्थानीयद्रव्यस्य च श्रुतत्वादुद्देशत्यागरूपो यागोऽर्थसिद्धः। तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः।। 21।। 22।। 23।।
त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30
विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात्।। 29।।
अपि वोत्पत्तिसंयोगादर्थसंबन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात्।। 30।।
त्रयोदशाधिकरणमारचयति-
यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम्। साधारण्यविधिर्वाद्यस्तदीयस्योपसंहृतेः।। 24।।
बर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा । आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते।। 25।।
ज्योतिष्टोमे श्रूयते ''यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य च'' इति। क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्वं त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसथ्ये दिनेऽनुष्ठेयोऽग्नीषोमीयः। तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात्। यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मात्- आतिथ्याबर्हिषो ये धर्मा आश्ववालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते-
ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति। अतः साधारण्यमत्र विधेयम्। आतिथ्यार्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विधिवाक्यस्यार्थः। तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः।। 24।। 25।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य द्वितीयः पादः।। 2।।
अत्र पादे- अधिकरणानि 13, सूत्राणि 30।
आदितः- अधिकरणानि 276, सूत्राणि 735।
चतुर्थाध्यायस्य तृतीयः पादः ।
जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता।
प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि- 1-3
द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्।। 1।।
उत्पत्तेश्चातत्प्रधानत्वात्।। 2।।
फलं तु तत्प्रधानायाम्।। 3।।
तृतीयपादे प्रथमाधिकरणमारचयति-
जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् । वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम्।। 1।।
क्रतवे वाऽग्रिमो मानात्फलस्य न हि साध्यता । विभाति क्रतवे तस्मादर्थवादः फलं भवेत्।। 2।।
इदमाम्नायते- ''यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति'' ''यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते'' ''यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै'' इति। तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म, तत्त्रियं पुरुषार्थत्वेन विधीयते। कुतः- पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत्-
मैवम्। फलं हि साध्यं भवति। न चात्र साध्यता प्रतिभासते। 'न शृणोति, वृङ्क्ते, वर्म क्रियते' इति वर्तमानत्वनिर्देशात्। अतः क्रत्वर्था एते विधयः। तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः। संस्कारवर्मणोस्तु प्रकरणेन। क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वाऽपि फलं कल्पयितुं न शक्यम्। तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः।। 1।। 2।।
द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्
नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यात्।। 4।।
द्वितीयाधिकरणमारचयति-
मृन्मये प्रणयेत्कामी नित्येऽप्येतदुतेतरत्। आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्येऽपि मृन्मयम्।। 3।।
कामार्थत्वादयोग्यत्वं सामान्यविहितेन च । आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत्।। 4।।
''अपः प्रणयति'' इति प्रकृत्य श्रूयते ''मृन्मयेन प्रतिष्ठाकामस्य प्रणयेत्'' इति। तत्र- अपां प्रणयनस्य नित्यप्रयोगेऽपि मृन्मयपात्रमेव साधनम्। कृतः- नित्येऽपि पात्रस्याकाङ्क्षितत्वात्। न च लोकसिद्धं किंचित्पात्रमुपादीयते-इति वाच्यम्। श्रौते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते-
ब्रूमः- कामार्थं मृन्मयमाम्नातम्। तच्च सति कामे योग्यम्। न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति। पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते। 'अपः प्रणयति' इति हि पात्रविशेषमनुपन्यस्य विहितम्। तच्चान्यथाऽनुपपन्नं तत्पात्रं किंचित्सामान्येन कल्पयति। तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मयं नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम्। ''चमसेनापः प्रणयेत्'' इति नित्ये पात्रं विधीयते इति चेत्- तर्हि कृत्वाचिन्ताऽस्तु।। 3।। 4।।
तृतीये- संयोगपृथक्त्वन्याये, दध्यादेर्नित्यनैमित्तिकोभयार्थताधिकरणे सूत्राणि 5-7
एकस्य तूभयत्वे संयोगपृथक्त्वम्।। 5।।
शेष इति चेत्।। 6।।
नार्थपृथक्त्वात्।। 7।।
तृतीयाधिकरणमाचरयति-
दघ्ना त्विन्द्रियकामस्य नित्येऽन्यदुत तद्दधि। अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः।। 5।।
अग्निहोत्रे श्रूयते ''दध्नेन्द्रियकामस्य जुहुयात्'' इति। तत्र दध्नः काम्यत्वान्नित्येऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम्। किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत्-
मैवम्। ''दध्ना जुहोति'' इत्यस्मिन्वाक्यान्तरे कामसंयोगमनुपन्यस्य नित्यहोमसंयोगेन दधिविधानात्। तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम्। एवमग्नीषोमीयपशौ- ''खादिरे बध्नाति'' ''खादिरं वीर्यकामस्य यूपं कुर्वीत'' इत्युदाहरणीयम्।। 5।।
चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9
द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात्।। 8।।
पृथक्त्वाद्व्यवतिष्ठेत।। 9।।
चतुर्थाधिकरणमारचयति-
पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवेऽथवा । पुंयोगादग्रिमो मैवं नैष्फल्यात्क्रतुशेषता।। 6।।
ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- ''पयो व्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्य'' इति। तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्-
मैवम्। इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात्। क्रतुशेषत्वं तु प्रकरणादवगम्यते। ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते।। 6।।
पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत, न ह्यशब्दं प्रतीयते।। 10।।
अपि वाम्नानसामर्थ्याच्चोदनार्थेन गम्यते, अर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्धः, तस्माच्छ्रुत्येकदेशः।। 11।।
वाक्यार्थश्च गुणार्थवत्।। 12।।
पञ्चमाधिकरणमारचयति-
नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः । भाव्यापेक्षाद्विधेः कल्प्यं फलं पुंसः प्रवृत्तये।। 7।।
इदमाम्नायते- ''विश्वजिता यजेत'' इति। तत्र फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत्-
मैवम्। फलस्य कल्पनीयत्वात्। 'विश्वजिन्नाम्ना यागेन कुर्यात्' इत्युक्ता भावना भाव्यमपेक्षते। 'किं कुर्यात्' इत्याङ्काक्षाया अनिवृत्तेः। अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम्। अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागानुष्ठानं सिध्यति। अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात्। तस्मात्- फलं कल्पनीयम्।। 7।।
षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधिकरणे सूत्रे 13-14
तत्सर्वार्थमनादेशात्।। 13।।
एकं वा चोदनैकत्वात्।। 14।।
षष्ठाधिकरणमारचयति-
सर्वं फलमुतैकं स्यात्सर्वमस्त्वविशेषतः । एकेन तन्निराङ्क्षमतोऽनेकं न कल्प्यते।। 8।।
तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्वं फलत्वेन कल्पनीयम्। कुतः- 'एतदेवास्य फलम्' इत्यत्र विशेषहेतोरभावात्- इति चेत्-
मैवम्। लाघवस्यैव विशेषहेतुत्वात्।। 8।।
सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16
स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्।। 15।।
प्रत्ययाच्च।। 16।।
सप्तमाधिकरणमारचयति-
एकं यत्किंचिदथवा नियतं न नियामकम्। तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत्।। 9।।
विश्वजिति कल्प्यमानं यदेकं फलं तत् 'इदमेव' इति नियामकं नास्ति। तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेऽर्थात्सर्वफलत्वे गौरवमेव स्यात्- इति चेत्-
मैवम्। स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम्।। 9।।
अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्थवादिकफलकताधिकरणे सूत्राणि 17-19
क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः।। 17।।
फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्।। 18।।
अङ्गेषु स्तुतिः परार्थत्वात्।। 19।।
अष्टमाधिकरणमारचयति-
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहादिमः । पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम्।। 10।।
सत्रकाण्डे प्रत्येकं श्रूयते ''प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति'' इति, ''ब्रह्मवर्चस्विनोऽन्नादा भवन्ति, य एता उपयन्ति'' इति च। द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः। 'त्रयोदशसंख्याका रात्रयो यस्मिन्सत्रविशेषे सोऽयं त्रयोदशरात्रः' इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति। क्वचित्तु समुदायिनां रात्रिविशेषाणां प्रत्येकं प्राधान्यमभ्युपेत्यैक एव रात्रिविशेषो बहुवचनान्तेन रात्रिशब्देनाम्नायते। तद्यथा- ''त एता विशतिं रात्रीरपश्यन्'' इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते-
ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेऽर्थवादे प्रतिष्ठा श्रुता। सा चास्मिन्वाक्येऽत्यन्तमश्रुतात्स्वर्गात्प्रत्यासन्ना। तस्मात्- 'प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्' इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया।। 10।।
नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24
काम्ये कर्मणि नित्यःस्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः।। 20।।
वीते च कारणे नियमात्।। 21।।
कामो वा तत्संयोगेन चोद्यते।। 22।।
अङ्गे गुणत्वात्।। 23।।
वीते च नियमस्तदर्थम्।। 24।।
नवमाधिकरणमारचयति-
श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये । आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात्।। 11।।
''सौर्यं चरुं र्निवपेद्ब्रह्मवर्चसकामः'' इत्यत्र ब्रह्मवर्चसं फलं श्रुतम्। स्वर्गोऽश्रुतं फलम्। तदुभयमप्यभ्युपेयम्। तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत्-
मैवम्। श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात्। तस्मात्- श्रुतमेव फलम्।। 11।।
दशमे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां सर्वकामार्थताधिकरणे - सूत्रे 25-26
सार्वकाम्यमङ्गकामैः प्रकरणात्।। 25।।
फलोपदेशो वा प्रधानशब्दसंयोगात्।। 26।।
दशमाधिकरणमारचयति-
दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः । अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते।। 12।।
उत्पत्तिचोदनासिद्धे आश्रित्य विधिभावने । फलसंयोगबोधेन भवेदेष फले विधिः।। 13।।
इदमाम्नायते-
''एकस्मै वा अन्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ'' इति। ''एकस्मै वा अन्ये यज्ञक्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमः'' इति।
तत्र- 'सर्वेभ्यः' इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः, विधायकस्य लिङादेर्भावनावाचिन आख्यातस्य चाभावात्। अनुवादस्तु भविष्यति, सर्वकामानां प्राप्तत्वात्। न च 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम्। अङ्गोपाङ्गकामानामपि प्राप्तत्वात्। सामिधेन्यो दर्शपूर्णमासयोरङ्गम्। तत्र कामाः श्रृयन्ते- ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्य'' इति। तथा सांनाय्ययागस्य दोहनमङ्गम्। तत्साधनं वत्सापाकरणमुपाङ्गम्। तत्र पलाशशाखाहरणे काम आम्नातः- ''यः कामयेत- पशुमान्स्यात्'' इति, ''बहुपर्णां तस्मै बहुशाखामाहरेत्''। ''पशुमन्तमेवैनं करोति'' इति। त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते-
ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने। तथाऽप्युत्पत्तिवाक्यसिद्धे ते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते। तस्मात्- एष फले विधिः।। 12।। 13।।
एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28
तत्र सर्वेऽविशेषात्।। 27।।
योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वात्।। 28।।
एकादशाधिकरणमारचयति-
ज्योतिष्टोमश्च सर्वार्थः सर्वं सकृदनुष्ठितेः। दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः।। 14।।
एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् । चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी।। 15।।
यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम्। तत्रोभयत्र कामा नैमित्तिकाः। ज्योतिष्टोमादिस्वरूपं निचित्तम्। तच्च सर्वेषु कामेष्वविशिष्टम्। न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति। वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात्। तस्मज्ज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते-
ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते, कामानामननुष्ठेयत्वात्। किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते। यद्यपि 'सर्वेभ्यः कामेभ्यः' इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथाऽपि न तदस्ति, उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात्। न च शब्दतः साहित्यनियमाभावेऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम्। स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात्। तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते। अत एव 'सर्वेभ्यः' इति निर्देशोपपत्तिः। अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते। तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्धये ज्योतिष्टोमः प्रयोक्तव्यः। एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यते। किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति। तस्मात्प्रतिफलं पृथक्प्रयोगः।। 14।। 15।।
द्वादशे काम्यानामैहिकामुष्मिकफलवत्त्वाधिकरणे वर्णकान्तरेण ते एव सूत्रे 27-28
तत्र सर्वेऽविशेषात्।। 27।।
योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वात्।। 28।।
द्वादशाधिकरणमारचयति-
चित्रया पशवोऽमुष्मिन्नेव स्युर्नियता न वा । आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः।। 16।।
चित्रोत्पत्तौ तु नियमो न श्रुतो नापि कल्पनम् । पुंस्प्रवृत्त्यादिनाऽपेते प्रतिबन्धे भवेत्फलम्।। 17।।
काम्यकर्माण्येवं श्रूयन्ते-
''चित्रया यजेत पशुकामः'' ''ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामः'' इति। तत्र यथा स्वर्गफलस्यामुष्मिकत्वं नियतम्। एवं पश्वादिफलस्यापि। यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथाऽस्तु- इति चेत्-
मैवम्। वैषम्यात्। अस्मिन्देहे स्वर्गस्य भोक्तुमशक्यत्वादश्रुताऽप्यन्यदेहोत्पत्तिरर्थापत्त्या कल्प्यते। 'चित्रया त्वन्यदेहोऽवश्यमुत्पाद्यते' इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति। अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात्। अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत्- न। प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात्। तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम्।। 16।। 17।।
त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31
समवाये चोदनासंयोगस्यार्थवत्त्वात्।। 29।।
कालश्रुतौ काल इति चेत्।। 30।।
नासमवायात्प्रयोजनेन स्यात्।। 31।।
त्रयोदशाधिकरणमारचयति-
इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् । कालं वा बोधयेद्वाक्यमुताङ्गत्वस्य बोधकम्।। 18।।
क्त्वाश्रुत्या भाति कालोऽत्र मैवमङ्गत्वबोधनम्। श्रुतेर्मुख्यं प्रक्रिया च तथासत्यनुगृह्यते।। 19।।
इदमाम्नायते-
''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इति। ''अग्निं चित्वासौत्रामण्या यजेत'' इति। तत्र- 'इष्ट्वा' इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते। तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते-
ब्रूमः- बृहस्पतिसवस्य वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योऽर्थः, 'समानकर्तृकयोः पूर्वकाले' (3।4।21) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात्। यद्यपि सूत्रे 'पूर्वकाले' इत्युक्तम्, तथाऽपि तन्न नियतम्। 'मुखं व्यादाय स्वपिति' इत्यत्र कालैक्येऽपि प्रयोगात्। वाजपेयप्रकरणमप्यङ्गत्वेऽनुगृह्यते। अन्यथा त्वप्रकृते बृहस्पतिसवे कालविधानात्प्रकरणं बाध्येत। अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसवत्वाभावात्तच्छब्दोऽनुपपन्नः- इति चेत्- न। मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात्। तस्मात्- वाक्यमिदमङ्गत्वबोधकम्। 'अग्निंचित्वा'- इत्यत्राप्येवं योजनीयम्।। 18।। 19।।
चतुर्दशे वैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35
उभयार्थमिति चेत्।। 32।।
न शब्दैकत्वात्।। 33।।
प्रकरणादिति चेत्।। 34।।
नोत्पत्तिसंयोगात्।। 35।।
चतुर्दशाधिकरणमारचयति-
संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः । द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात्।। 20।।
उत्पत्तिवाक्यतः पूर्णमासे संयोगभासनात्। तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता।। 21।।
दर्शपूर्णमासप्रकरणे श्रूयते ''संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति'' इति। तत्र-इयं वैमृधेष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत्-
न। वाक्यस्य प्रबलत्वात्। न च 'संस्थाप्य' इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम्, दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः। तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम्।। 20।। 21।।
पञ्चदशे- अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्
अनुत्पत्तौ तु कालः स्यात्प्रयोजनेन संबन्धात्।। 36।।
पञ्चदशाधिकरणमारचयति-
किमाग्निमारुतादूर्ध्वमनुयाजैश्चरेदिति । अङ्गं कालोऽथवाऽङ्गं स्यादतिपारार्थ्यमन्यथा।। 22।।
पुराऽग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा । अनुयाजाश्च पश्वर्थाः संयोगः कालसिद्धये।। 23।।
ज्योतिष्टोमे श्रूयते ''आग्निमारुतादूर्ध्वमनुयाजैश्चरति'' इति। आग्निमारुतं नाम किंचिच्छस्त्रम्। अनुयाजाः ''देवं बर्हिः'' इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः। तत्र-'आग्निमारुतशस्त्रस्यानुयाजा अङ्गम्' इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः। यदि-अनुयाजानामयं कालोपदेशः स्यात्, तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्यं स्यात्। तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते-
ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम्। अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम्। ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थोऽयं संयोगः।। 22।। 23।।
षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्
उत्पत्तिकालविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात्।। 37।।
षोडशाधिकरणमारचयति-
किं दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यागकः । अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता।। 24।।
दर्शादिलक्षिते काले सोमयागो विधीयते । स्वतन्त्रफलवत्वेन न युक्ताऽङ्गाङ्गिता तयोः।। 25।।
इदमाम्नायते- ''दर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेत'' इति। तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्थ्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधकोऽयं संयोगः- इति चेत्-
मैवम्। स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात्। 'फलवत्संनिधावफलं तदङ्गं भवति' इति न्यायात्। न च- अत्र बृहस्पतिसवन्यायेन सोमधर्मकमफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम्। सोमशब्दस्य बृहस्पतिसवशब्दवन्नामत्वाभावेन धर्मातिदेशकत्वाभावात्। क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते। तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम्। एतदेवाभिप्रेत्य रथत्वरूपमस्याम्नायते- ''एष वै देवरथो यद्दर्शपूर्णमासौ। यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यति'' इति। अवसने निश्चिते। वरे मार्गे।'यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवति' इत्यर्थः। तस्मात्कालार्थः संयोगः।। 24।। 25।।
सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39
फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात्।। 38।।
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 39।।
सप्तदशाधिकरणमारचयति-
वैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाऽग्रिमः। कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि।। 26।।
जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतता। तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते।। 27।।
काम्येष्टिकाण्डे ''वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते'' इति प्रकृत्य श्रूयते ''यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुनान्भवति'' इति। तत्र पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य। ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत्-
मैवम्। 'यस्मिञ्जाते निर्वपति स पूतः' इति वाक्येन फलस्य पुत्रसंबन्धावगमात्।
न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम्। पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात्। तस्मात्- पुत्रस्य पूतत्वादिकम्।। 26।। 27।।
अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 31।।
अष्टादशाधिकरणमारचयति-
जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते । निमित्तानन्तरं कार्यं नैमित्तिकमतोऽग्रिमः।। 28।।
जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् । प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा।। 29।।
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवेष्टिः- इति चेत् ।
मैवम्। स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम्। यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत। तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात्। तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्वं सेष्ठिः।। 28।। 29।।
एकोनविंशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमोत्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्
अङ्गानां तूपघातसंयोगो निमित्तार्थः।। 39।।
एकोनविंशाधिकरणमारचयति-
जातकर्मानन्तरं स्यादाशौचेऽपगतेऽथवा । निमित्तसंनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः।। 30।।
यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत्। जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेणैव दर्शिता। ततो मुख्यसंनिधेरवश्यं बाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्।। 30।।
विंशे सौत्रामण्याद्यङ्गानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41
प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम्।। 40।।
अप्रवृत्ते तु चोदना तत्सामान्यात्स्वकाले स्यात्।। 41।।
विंशाधिकरणमारचयति-
अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी । अङ्गिकाले स्वकाले वा स्यादाद्योऽन्याङ्गवन्मतः।। 31।।
निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः। स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम्।। 32।।
''अग्निं चित्वा सौत्रामण्या यजेत'' ''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इत्यत्र सौत्रामणीबृहस्पतिसवयोरङ्गत्वं पूर्वमुक्तम्। तच्चाङ्गमङ्गिकालेऽङ्गिना सह प्रयोक्तव्यम्। इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत्-
मैवम्। क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात्। यदि- अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत। न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम्। ततः पृथग्प्रयोगेऽवश्यंभाविनि सति स्वस्वचोदकप्रापिते तदनुष्ठानं युक्तम्। सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चोदकप्राप्तः। चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दने सौत्रामणी प्रसज्येत। तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः। वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवोऽपि शरदि प्रसज्येत। तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम्।
ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्वं जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनमङ्गं निरर्थकम्- इति चेत्-
न। तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात्। तस्मात्- नाङ्गिनः कालेऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम्।। 31।। 32।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः।। 3।।
अत्र पादे- अधिकरणानि20, सूत्राणि41।
आदितः- अधिकरणानि 296, सूत्राणि 775।
चतुर्थाध्यायस्य चतुर्थ पादः
राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता।
प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2
प्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम्।। 1।।
अपि वाऽङ्गमनिज्याः स्युस्ततो विशिष्टत्वात्।। 2।।
चतुर्थपादे प्रथमाधिकरणमारचयति-
राजसूयेऽनुमत्यादि देवनादि च ते उभे । मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः।। 1।।
यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः । देवनाद्यफलं यत्तदङ्गं फलवतो यजेः।। 2।।
राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- ''अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति'' ''नैर्ऋतमेककपालम्'' ''आदित्यं चरु निर्वपति'' ''आग्नावैष्णवमेकादशकपालम्'' इत्यादयः। यथैता इष्टयः, तथा पशवोऽपि श्रुताः- ''आदित्यां मल्हां गर्भिणीमालभते'' ''मारुतीं पृश्निम्'' ''प्रष्ठौहीमश्विभ्याम्'' इत्यादि। मल्हा मणिला गलस्तनयुक्तेत्यर्थः। तस्या अदितिर्देवता। पृश्निरल्पतनुः। तस्या मरुतो देवता। यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही। तस्या आश्विनौ देवता। एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः। तथा 'वल्मीकवपायां होमः' इत्यादयो दर्विहोमाः। यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः-
''प्रष्ठौहीं दीव्यति'' ''अक्षैर्दीव्यति'' ''राजन्यं जिनाति'' ''शौनःशेपमा ख्यापयति'' इत्यादयः। तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम्। प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते-
ब्रूमः- ''राजा स्वाराज्यकामो राजसूयेन यजेत'' इत्यत्राख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम्। राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति। तथा सति 'राजसूयेन यागेन स्वाराज्यं भावयेत्' इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम्।। 1।। 2।।
द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4
मध्यस्थं यस्य तन्मध्ये।। 3।।
सर्वासां वा समत्वाच्चोदनातः स्यान्नहि तस्य प्रकरणं देशार्थमुच्यते मध्ये।। 4।।
द्वितीयाधिकरणमारचयति-
एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा । राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः।। 3।।
यदेतत्- देवनादिकमङ्गम्- इत्युक्तम्, तदेतदभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम्। कुतः- अपकर्षात्। यद्यपि- अभिषेचनीयविधेरूर्ध्वं तत्संनिधौ देवनादयः समाम्नाताः, तथाऽपि- अभिषेचनीयमध्ये तेऽपकृष्यन्ते। 'माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते' इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकालेऽपकृष्यते। तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धोऽपकर्षः। ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तःपातित्वाद्देवनादिकमभिषेचनीयस्यैवाङ्गम्- इति प्राप्ते-
ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तरप्रकरणम्। उभयथाऽपि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम्। राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते। तस्मात्सर्वेषामेतदङ्गम्। अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते।। 3।।
तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6
प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम्।। 5।।
अपि वा कालमात्रं स्याददर्शनाद्विशेषस्य।। 6।।
तृतीयाधिकरणमारचयति-
किं पुरस्तादुपसदां सौम्येन प्रचरेदिति। अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते।। 4।।
पुरस्तादिति कालोऽत्र भाति कालविधिस्ततः । नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत्।। 5।।
राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि दश हवींष्याम्नातानि। तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि। तद्विषयमिदं वाक्यमाम्नायते- ''पुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेन'' इति। योऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते। ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते-
ब्रूमः- 'उपसदाम्' इति षष्ठ्याः कालवाचिना 'पुरस्तात्' इति शब्देनान्वयात्। सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम्। ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम्।। 4।। 5।।
चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्
फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात्।। 7।।
चतुर्थाधिकरणमारचयति-
मुख्यतामनहोमस्य सांग्रहण्यङ्गताऽथवा । मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता।। 6।।
काम्येष्टिकाण्डे श्रूयते ''वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः'' इति। तत्र- आमनहोमाः श्रुताः- ''आमनस्यामनस्य देवाः इति तिस्र आहुतीर्जुहोति'' इति। त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः। न हि तेषां मुख्यत्वे कश्चिद्विरोधोऽस्ति। दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् ।
मैवम्। 'दर्शपूर्णमासाभ्यां स्वर्गकामः' इति वाक्येन 'स्वाराज्यकामो राजसूयेन' इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, न तथामनहोमानाम्, फलसंबन्धाभावे सति प्राधान्यायोगात्। ''सांग्रहणीं निर्वपेद्ग्रामकामः'' इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम्।। 6।।
पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात्।। 8।।
नित्यश्च ज्येष्ठशब्दात्।। 9।।
सार्वरूप्याच्च।। 10।।
नित्वो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धाद्भङ्गित्वाच्चान्तरायस्य।। 11।।
पञ्चमाधिकरणमारचयति-
नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे । देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता।। 7।।
निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो न हि । अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता।। 8।।
ज्योतिष्टोमे श्रूयते ''यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितः, तस्या आवृश्च्येते। यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्'' इति सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः। कुतः- आकारद्वयसाधकसद्भावात्। देवतान्तरायेण तद्देवताक्षोभमुपन्यस्य ग्रहेण शमनाभिधानात्, अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति। तथा ज्येष्ठत्वमाम्नातम्- ''ज्येष्ठो वा एष ग्रहाणाम्'' इति। ज्येष्ठत्वं नाम प्रशस्तत्वम्। तच्च नित्यत्वे सत्युपपद्यते। नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम्। तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत्-
मैवम्। देवतान्तरायस्य निमित्तत्वाभावात्। निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत। यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत। ''यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्'' ''भिन्ने जुहोति'' ''यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते'' इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात्। तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम्। देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः।। 7।। 8।।
षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13
वैश्वानरश्च नित्यः स्यान्नित्यैः समानसंख्यत्वात्।। 12।।
पक्षे वोत्पन्नसंयोगात्।। 13।।
षष्ठाधिकरणमारचयति-
नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ । नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः।। 9।।
अग्निचयने श्रूयते ''यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते। यथा सामि गर्भोवपद्यते, तादृगेव तदार्तिमार्छेत्। वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्'' इति। उखा पिठरः। तामुखाम् ''युञ्जानः प्रथमं मनः'' इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, 'तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा, पश्चादिष्टकाभिरग्निश्चेतव्यः। अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात्। ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्' इत्यर्थः। अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत्-
मैवम्। ''यः पुमानभृत्वाऽग्निं चिनुते, स निवपेत्'' इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्ट्योर्निमित्तनैमित्तिकभावावभासात्। किंच दधिग्रहस्य नित्वयस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम्। इह तु नित्यत्वे प्रमाणाभावादेकमेव नैमित्तिकत्वमित्वविरोधः।। 9।।
सप्तमे षष्ठचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18
षट्चितिः पूर्ववत्त्वात्।। 14।।
ताभिश्च तुल्यसंख्यानात्।। 15।।
अर्थवादोपपत्तेश्च।। 16।।
एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन।। 17।।
विप्रतिषेधात्ताभिः समानसंख्यम्।। 18।।
सप्तमाधिकरणमारचयति-
नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतोऽग्रिमः । अपवृक्तावप्रतिष्ठानिमित्तीकृतितोऽन्तिमः।। 10।।
अग्नौ श्रूयते ''संवत्सरो वा एनं प्रतिष्ठायै नुदते, योग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुते'' इति। लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः। तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते। ततः षष्ठी चितिः। तत्र 'षण्णां पूरणी षष्ठी' इति व्युत्पत्तौ पूर्वाः पञ्च चितीरपेक्षते। अन्यथा षट्संख्यापूरकत्वासंभवात्। तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत्-
मैवम्। 'अग्निं चित्वा' इति पूर्वाभिरेव पञ्चभिश्चितिभिर्नित्यस्याग्निचयनस्य समाप्तौ सत्यां पश्चात्- 'योऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुते' इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी। ततः- पञ्चचितिको नित्योऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम्। पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते। 'पूर्वाः पञ्च चितयोऽभिहिताः। अथाभिधास्यमानां षष्ठीं चितिं चिनुते' इति वचनव्यक्तिः।। 10।।
अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21
पितृयज्ञः स्वकालत्वादनङ्गं स्यात्।। 19।।
तुल्यवत्प्रसंख्यानात्।। 20।।
प्रतिषिद्धे च दर्शनात्।। 21।।
अष्टमाधिकरणमारचयति-
क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता।। 11।।
इदमाम्नायते- ''अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ति'' इति। तत्र- अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् ।
मैवम्। अमावास्याशब्दस्य कालवाचित्वात्। कर्मणि त्वयं शब्दो लाक्षणिकः। न च- वाक्येन क्रत्वङ्गत्वाभावेऽपि प्रकरणेन तद्भवेत्- इति वाच्यम्, तस्यानारभ्याधीतत्वात्। तस्मात्- अयं पुरुषार्थः।। 11।।
नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24
पश्वङ्गे रशना स्यात्तदागमे विधानात्।। 22।।
यूपाङ्गं वा तत्संस्कारात्।। 23।।
अर्थवादश्च तदर्थवत्।। 24।।
नवमाधिकरणमारचयति-
रज्जुर्द्वितीया पश्वर्था यूपार्था वाऽन्वयात्पशौ । पश्वर्था त्रिवृता यूपं परिवीयेति यूपगा।। 12।।
ज्योतिष्टोमे श्रूयते ''आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति'' इति। तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते। ततोऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततोऽपक्रमणनिवारणरूपदृष्टार्थलाभाच्च पश्वर्था रशना- इति चेत्-
मैवम्। 'त्रिवृता' इति तृतीयया 'यूपम्' इति द्वितीयया च शेषशेषिभावावगमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था। कालस्तु ''आश्विनं ग्रहं गृहीत्वा'' इत्यनेनैवोपलक्षितः। पश्वनपक्रमणवद्यूपदार्ढ्यमपि दृष्टमेव प्रयोजनम्।
न च- परिव्याणेन दोर्ढ्यं चोदकादेव सिद्धम्- इति वाच्यम्, तस्मिन्सिद्धे सति पुनर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात्। तस्मात्- इयं द्वितीया रशना यूपार्था।। 12।।
दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28
स्वरुश्चाप्येकदेशत्वात्।। 25।।
निष्क्रयश्च तद्ङ्गवत्।। 26।।
पश्वङ्गं वा तदर्थः स्यात्।। 27।।
भक्त्या निष्क्रयवादः स्यात्।। 28।।
दशमाधिकरणमारचयति-
स्वरुर्यूपे पशौ वाऽङ्गं यूपस्येत्युक्तितोऽग्रिमः । स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा।। 13।।
अग्नीषोमीयपशौ श्रूयते ''यूपस्य स्वरुं करोति'' ''स्वरुणा पशुमनक्ति'' इति। तत्र- स्वरोर्यूपसंबन्धाभिधानाद्यूपाङ्गत्वम्- इति चेत्-
मैवम्। 'स्वरुणा पशुम्' इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संबंन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात्। तस्मात्- स्वरुः पश्वङ्गम्।। 13।।
एकादशे- आघारादीनामङ्गताधिकरणे सूत्राणि 29-38
दर्शपूर्णमासयोरिज्याः प्रधानान्यविशेषात्।। 29।।
अपि वाऽङ्गानि कानिचित्, येष्वङ्गत्वेन संस्तुतिः सामान्यो ह्यभिसंबन्धः।। 30।।
तथा चान्यार्थदर्शनम्।। 31।।
अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात्।। 32।।
नानुक्तेऽन्यार्थदर्शनं परार्थत्वात्।। 33।।
पृथक्त्वे त्वभिधानयोर्निवेशः, श्रुतितो व्यपदेशाच्च, तत्पुनर्मुख्यलक्षणं यत्फलवत्त्वम्, तत्संनिधावसंयुक्तं तदङ्गं स्यात्, भागित्वात्कारणस्याश्रुतश्चान्यसंबन्धः।। 34।।
गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते।। 35।।
तुल्या च कारणश्रुतिरन्यैरङ्गाङ्गिसंबन्धः।। 36।।
उत्पत्तावभिसंबन्धस्तस्मादङ्गोपदेशःस्यात्।। 37।।
तथा चान्यार्थदर्शनम्।। 38।।
एकादशाधिकरणमारचयति-
आघारादेश्च मुख्यत्वं न वाग्नेयादिवत्तु तत् ।षण्मुख्या नामतः सिद्धाः शेषा अन्येऽङ्गसंस्तुतेः।। 14।।
दर्शपूर्णमासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाम्नाताः। आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः। तत्र- आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाघारादीनामप्यङ्गीकर्तव्यम्। यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत्। एकप्रकरणपाठश्चोभयत्रापि समानः। तस्मात्- आघारादीनामाग्नेयादीनां च समप्राधान्यम्- इति प्राप्ते-
ब्रूमः- ''राजा स्वाराज्यकामो राजसूयेन यजेत'' इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरणपठितानां सर्वेषां यागानां नामधेयं भवति। दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते। ततः ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः। अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः। एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते। ''चक्षुषी वा एते यज्ञस्य, यदाज्यभागौ'' इत्याज्यभागौ यज्ञशरीरस्याङ्गिनोऽङ्गत्वेन स्तूयेते। ''यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञाय क्रियते'' इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते। एवमाघारादिषूदाहार्यम्। एतच्च सति सादृश्ये संभवति। तस्मात्- आधारादीनां नास्ति मुख्यत्वम्।। 14।।
द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41
ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम्।। 39।।
गुणानां तूत्पत्तिवाक्येन संबन्धात्कारणश्रुतिः, तस्मात्सोमः प्रधानं स्यात्।। 40।।
तथा चान्यार्थदर्शनम्।। 41।।
द्वादशाधिकरणमारचयति-
मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः । ज्योतींषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता।। 15।।
''ज्योतिष्टोमेन स्वर्गकामो यजेत'' इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोमीयादिपशवः, आम्नाताः। तत्र- आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत्-
मैवम्। सोमयागपक्षपाते हेतुसद्भावात्। 'ज्योतींषि स्तोमा यस्य यज्ञस्य सोऽयं ज्योतिष्टोमः' इति हि तद्व्युत्पत्तिः। अत एव ब्राह्मणम्- ''त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः'' इति। स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम्। न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते। तस्मात्- ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम्।। 15।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः।। 4।।
चतुर्थोऽध्यायश्च समाप्तः।।
अत्र पादे- अधिकरणानि 12, सूत्राणि 41।
आदितः- अधिकरणानि 308, सूत्राणि 816।
==00==
|