87

                        
                        
जैमिनीय न्यायमाला विस्तरः - विषयसूचिका प्रथमभागः Part 1 ----- पुरोवाकः 3 भूमिका 4 विषयसूचिका 6 जैमिनीयन्यायमालाविस्तरः। 41 उपक्रमः 41 प्रथमाध्यायः (प्रमाणम्) 49 प्रथमाध्याये - प्रथमपादः 49 (विधिरूपं प्रमाणम्) 49  प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम्  49  द्वितीये धर्मलक्षणाधिकरणे सूत्रम्  52  तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम्  53  धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम्  54  धर्मे विधिप्रामाण्याधिकरणम्  54  शब्दनित्यताधिकरणम्  56  वेदप्रत्यायकत्वाधिकरणम्  57  वेदापौरुषेयत्वाधिकरणम्  58  प्रथमाध्याये द्वितीयः पादः  59 (अर्थवादो मन्त्रस्याप्युपलक्षकः) 59  अर्थवादाधिकरणम्  59  विधिवन्निगदाधिकरणम्  61  तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 – 30  62  चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31- 53  63  प्रथमाध्याये तृतीयः पादः  64 स्मृतिरूपम् - स्मृतिराचारमप्युपलक्षयति 64  प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2  64  द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्  65  तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम्  66  चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5- 7  66  पञ्चमे शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे (आर्यम्लेच्छाधिकरणे) सूत्रे 8- 9  68  षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्  69  सप्तमे कल्पसूत्रास्वतःप्रामाण्याधिकरणे सूत्राणि 11 – 14  70  अष्टमे होलाकाधिकरणे सूत्राणि 14 – 23  71  नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24- 29  72  दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30- 35  73 प्रथमाध्याये चतुर्थः पादः 75 उद्भिच्चित्रादिनामरूपम् 75  प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्  75  द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम्  75  तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्  77  चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (तत्प्रख्यन्याये) सूत्रम्  79  पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्  80  षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि  81 सप्तमे आग्नेयादीनामनामताधिकरणे सूत्रम्  82  अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्  83  नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्  83  दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्  84  एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13- 16  85  द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17- 22  86  त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्  87  चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्  88  पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्  88  षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्  88  सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्  89  अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्  90  एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्  91  विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्  92 अथ द्वितीयोऽध्यायः - कर्मभेदः 93 द्वितीयाध्याये प्रथमः पादः 93 आख्यातमेवापूर्वबोधकम् 93  प्रथमेऽपूर्वस्याख्यातप्रतिपाद्यत्वाधिकरणे सूत्राणि 1- 4  93  द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्  96  तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6- 8  97  चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9- 12  98  पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13- 29  100  षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30- 31  101  सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्  101  अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्  102  नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्  104 दशम ऋग्लक्षणाधिकरणे सूत्रम्  105 एकादशे सामलक्षणाधिकरणे सूत्रम्  105  द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्  105  त्रयोदशे निगदानां यजुष्ट्वाधिकरणे सूत्राणि 38- 45  106  चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्  106  पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्  107  षोडशे (सप्तदशे च ) अनुषङ्गाधिकरणे सूत्रम्  108  अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्  109 द्वितीयाध्यायस्य द्वितीयः पादः 110 धातुभेदपुनरुक्त्यादिभिः कर्मभेदः 110  प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम्  110  द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्  110  तृतीय आघाराद्याग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3 - 8  112  चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9- 12  114  पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13- 16  115  षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20  116  सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्  116  अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्  117  नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्  118  दशमे द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्  118  एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25- 26  119  द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्  119  त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28- 29  120 द्वितीयाध्यायस्य तृतीयः पादः 121 रथन्तरादीनां कर्मभेदप्रामाण्यापवादः। 121  प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2  121  द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्  122  तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्  123  चतुर्थे दाक्षायणादीनां गुणताधिकरणे सूत्राणि 5- 11  124  पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12- 15  125  षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17  126  सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्  126  अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्  126  नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्  127  दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23  128  एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्  129  द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्  130  त्रयोदशे, अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्  130  चतुर्दशे, आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29  131 द्वितीयाध्यायस्य चतुर्थः पादः 132 नित्यकाम्ययोः प्रयोगयोर्भेदः। 132  प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1- 7  132  द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8- 32  134 --------------- ॐ तत्सत्। ब्रह्मणे नमः श्रीमाधवप्रणीतो जैमिनीयन्यायमालाविस्तरः। उपक्रमः स्वतन्त्रेश्वरो वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्।। 1।। युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभागाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाघ्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्चरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः।। 2।। यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञ्यमुद्द्योतते।। 3।। इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथि र्धौम्यो घर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः।। 4।। स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः। अकरोज्जैमिनिमते न्यायमालां गरीयसीम्।। 5।। तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः। कुरु विस्तमयस्यास्त्वमिति माधवमादिशत्।। 6।। स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् । कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमोऽभवत्।। 7।। निर्माय माधवाचार्यो विद्वदानन्ददायिनीम्। जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये।। 8।। न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भं देवतानमस्कारप्रतिपादकं श्लोकं पठति- वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्तुस्तं नमामि गजाननम्।। 1।। इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति- युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभा गाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाघ्यातिदेशोन्नतिः। नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः।। 2।। अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वेऽप्यस्मिन्भूपतावुपलभ्यन्ते। नीतिपक्षे- युक्तिर्योगः सन्धिः। सा च युक्तिर्मानवती। मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः। वैरिणो बुद्धिभेदो द्वितीयः। एताभ्यां दानदण्डावप्युपलक्ष्येते। एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति। एतावता शत्रुक्षयः कथितः। अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते- आप्तेष्वमात्यप्रभृतिषु पुरुषेषु 'अयमीदृशस्य व्यापारस्य योग्यो नान्यस्य' इत्येवमूहापोहकुशलः। 'राजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागे' इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः। समुद्रपर्यन्तत्वेनातिबहुलस्य देशस्योन्नतिः समस्तवस्तुसम्पत्तिः। सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते। 'इदं कर्तव्यम्, इदं न' इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारोऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात्। गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः। देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः। जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेन अयमीश्वरः। यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान्। यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थध्यानरूपत्वेन श्रुतिमद्भवति सोऽयं श्रुतिमत्प्रसङ्गचरितः। एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति। यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वात् धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः। ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते।। 2।। राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति- यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्रीबुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्वज्ञ्यमुद्द्योतते।। 3।। सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारतिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटीकरोतीति प्रतिपाद्यते। तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते। तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतोऽनुग्राहिका मूर्तिरित्युच्यते। यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चागमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि सन्निधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाविद्वदङ्गनागोपालमविवादेन प्रतिभासते।। 3।। उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति- इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः। प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः।। 4।। चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति- श्रुतिस्मृतिसदाचारपालको माधवो बुधः। स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः।। 5।। सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वं व्याख्यातः। इदानीं द्विजानां विशेषानुग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः।। 5।। ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते-- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम्। जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्।। 6।। जौमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः। तेऽस्य ग्रन्थस्य विषयः(याः)। पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम्। न्यायमाला सङ्गृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा।। 6।। करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति- एको विषयसन्देहपूर्वपक्षावभासकः। श्लोकोऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते।। 7।। चत्वारोऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् । यत्र क्वापि बहुश्लोकैरुच्यन्तेऽतो न विस्तरः।। 8।। एकैकस्याधिकरणस्य विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावयवाः। तत्र सङ्गतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते। अवशिष्टानां चतुर्णामवयवानां सङ्ग्राहकाः क्वचिद्बहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति। अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या।। 7।।।। 8।। तमेव ग्रन्थगौरवाभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति-- सर्वथाऽपि सहस्त्रे द्वे नातिक्रामति संग्रहः। मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत्।। 9।। श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासम्भवं न्यायः संगृह्यताम्। सर्वथाऽपि सहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समाप्स्यते, न तु सहस्त्रद्वयमतिक्रामति। भाष्यटीकादीनां बहुत्वाद्दुरगवगाहत्वाच्च मीमांसा सागरसमा पूर्वमासीत्। क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति। यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोकोऽस्ति, तथाऽपि न सर्वत्र विद्यते। यत्रास्ति तत्रापि विषयसंशययोरसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते। अतो न क्वापि गतार्थत्वं शङ्कनीयम्।। 9।। सङ्गतिं व्युत्पादयति- शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा। शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम्।। 10।। शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्चेति त्रिधा सङ्गतिः। सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेवोहितुं शक्या।। 10।। शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति- धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः। प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः।। 11।। अधिकारोऽतिदेशश्च सामान्येन विशेषतः। ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात्।। 12।। लक्षणान्यध्यायाः। द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी। तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः। प्रथमेऽध्याये- विध्यर्थवादादिरूपं प्रमाणं निरूपितम्। द्वितीये- यागदानादिकर्मभेदः। तृतीये- प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्। चतुर्थे- 'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः। पञ्चमे- क्रमनियतिविधेयत्वादयः। षष्ठे- 'कर्तुरधिकारो नान्धादेः' इत्यादयः। सप्तमे –''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नाऽनुमितवचनेन च सामान्यतः अतिदेशः। अष्टमे – ''सौर्यं चरुं निर्वपेत्'' इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेन आग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः। नवमे- प्रकृतौ ''अग्नये जुष्टं निर्वपामि'' इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ''सूर्याय जुष्टं निर्वपामि'' इत्येवमाद्यूहः। दशमे- कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः। एकादशे- बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम्। द्वादशे- प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः।। 11।। 12।। पादानामसाधारणं विषयं दर्शयति- विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम्। प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्।। 13।। प्रथमे पादे- विधिरूपं मानमीरितम्। द्वितीये- अर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षकः। तृतीये- स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति। चतुर्थे- उद्भिच्चित्रादिनामरूपम्।। 13।। उपोद्घातः कर्मभेदमानं तस्यापवादगीः। प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः।। 14।। द्वितीयाध्यायस्य प्रथमे पादे- आख्यातमेवापूर्वबोधकम्, अपूर्वसद्भावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः। द्वितीये- धातुभेदपुनरुक्त्यादिभिः कर्मभेदः। तृतीये- रथन्तरादीनां कर्मभेदप्रामाण्यापवादः। चतुर्थे- नित्यकाम्ययोः प्रयोगयोर्भेदः।। 14।। श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः। अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः।। 15।। तृतीयाध्यायस्य प्रथमे पादे- शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता। द्वितीये- लिङ्गम्। तृतीये- वाक्यप्रकरणादि। चतुर्थे- निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः। पञ्चमे- प्रतिपत्तिकर्माणि। षष्ठे- अनारभ्याधीतानि। सप्तमे- बहुप्रधानोपकारकप्रयाजादीनि। अष्टमे- याजमानानि।। 15।। प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता। फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः।। 16।। चतुर्थाध्यायस्य प्रथमे पादे- प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्। द्वितीये तु- अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्। तृतीये-जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता। चतुर्थे- राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता।। 16।। श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने । श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः।। 17।। पञ्चमाध्यायस्य प्रथमे पादे- श्रुत्यर्थपाठादिभिः क्रमो निरूपितः। द्वितीये- वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः। तृतीये- पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः। चतुर्थे- क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।। ।17।। अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने। दीक्षा सत्रं देयवह्नि षष्ठे पादेष्वमी स्थिताः।। 18।। षष्ठाध्यायस्य प्रथमे पादे- कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः। द्वितीये- तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः। तृतीये- द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्। चतुर्थे- पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्। पञ्चमे- कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्। षष्ठे- तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्। सप्तमे- पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः। अष्टमे- लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः।। 18।। प्रत्यक्षोक्त्यातिदेशोऽस्य शेषः सामनिरूपणम् । नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः।। 19।। सप्तमाध्यायस्य प्रथमे पादे- ''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः। द्वितीये- रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः। तृतीये- अग्निहोत्रनाम्नाऽतिदेशः। चतुर्थे- निर्वापौषधद्रव्यादिलिङ्गातिदेशः।। 19।। स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः। अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः।। 20।। अष्टमाध्यायस्य प्रथमे पादे- स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि। द्वितीये तु- अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्। तृतीये- प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः। चतुर्थे- दर्विहोमेष्वतिदेशोऽपोद्यते।। 20।। ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः। नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः।। 21।। नवमाध्यायस्य प्रथमे पादे- उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः। द्वितीये- सपरिकरः सामोहः। तृतीये- मन्त्रोहः। चतुर्थे- मन्त्रोहप्रसङ्गापतितो विचारः।। 21।। द्वारलोपोऽस्य विस्तारः कार्यैकत्वं समुच्चयः। ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः।। 22।। दशमाध्यायस्य प्रथमे पादे- बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः। द्वितीये- संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। तृतीये- बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते। चतुर्थे- नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः। पञ्चमे- षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः। षष्ठे- ''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः। सप्तमे- पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः। अष्टमे- ''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो नञर्थविचारः।। 22।। उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः।। 23।। एकादशाध्यायस्य प्रथमे पादे- तन्त्रस्योपोद्घातो वर्णितः। द्वितीये- तन्त्रावापौ संक्षेपेणोक्तौ। तृतीये- तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्। चतुर्थे- तथैवावापः प्रपञ्चितः।। 23।। प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसंग्रहः।। 24।। द्वादशाध्यायस्य प्रथमे पादे- पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः। द्वितीये- सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः। तृतीये- त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्। चतुर्थे च- ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्। तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाद्या अर्थाः संगृहीताः।। 24।। ननु यथोक्तेभ्यः पादार्थेभ्योऽन्येप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याह- उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत्।। 25।। यथोक्तपादप्रतिपाद्यादन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः, कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः।। 25।। ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः। तदीयस्तु क्रमः कथमवगन्तव्य इत्यत आह- शास्त्रे पूर्वोत्तरीभावोऽध्यायानामभिधास्यते । पादानां तु तमत्रैव लेशाद्व्युत्पादयामहे।। 26।। एकस्मिन्नध्याये समाप्ते सति, अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वापरीभावो वक्ष्यते।। 26।। प्रथमाध्यागतानां पादानां पूर्वोत्तरीभाव उदाहृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्प्रेक्षितुं शक्यतया तमुदाहरति- विधिः साक्षान्मितिर्धर्मे तस्य शेषोऽर्थवादगीः । वेदमूला स्मृतिर्नाम वाक्यांशोऽमीष्वतः क्रमः।। 27।। जिज्ञास्यत्वेन प्रतिज्ञाते धर्मे विधिवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः। अर्थवादवाक्यस्य विधिद्वारा प्रामाण्याद्विध्यनन्तरभावित्वम्। स्मृतिवाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यात् अर्थवादोत्तरभावित्वम्। नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम्। अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः।। 27।। इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थं निरूप्य तन्निर्णयफलं दर्शयति- ऊहित्वा संगतीस्तिस्त्रस्तथाऽवान्तरसंगतिम् । ऊहेताक्षेपदृष्टान्तप्रत्युदाहरणादिकम्।। 27।। शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाऽधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति। तद्यथा- प्रथमाध्यायस्य प्रथमपादस्य द्वितीयाधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः। तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगतिः। प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः। विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः। यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया। सा चानेकरूपा- आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगतिः, उपोद्घातसंगतिः, अपवादसंगतिश्चेत्येवमादिरूपा।। 27।। तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति- पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राक्षेपादि योजयेत्।। 28।। तदेतत्सर्वं योजयित्वा प्रदर्श्यते- प्रथमेऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो 'धर्मविचारशास्त्रं वैधम्' इति सिद्धान्तः। 'अर्थज्ञानहेतावध्ययने नियमविधेः संभवात्' इति तद्युक्तिः । द्वितीयाधिकरणे- 'धर्मे लक्षणं प्रमाणं च नास्ति' इति पूर्वपक्षः। 'लौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्च' इति तद्युक्तिः। तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वमनुपपन्नमित्याक्षेपसंगतिः। यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हेतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः। यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे कांचिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः। एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते। पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम्। तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः। सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापेक्षत्वं साधितम्। तत्र प्रथमाधिकरणमुपोद्घातः। सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः। प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे अष्टकादिस्मृतेः प्रामाण्यमुक्तम्। द्वितीयाधिकरणे- सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते च सेयमपवादसंगतिः। अनया दिशा सर्वत्र संगतिरूहनीया।। 28।। प्रथमाध्यायः (प्रमाणम्) प्रथमाध्याये - प्रथमपादः (विधिरूपं प्रमाणम्)  प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम्   अथातो धर्मजिज्ञासा।। 1।। इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरोऽवयवान्संजिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनारचयति- स्वाध्यायोऽध्येय इत्यस्य विधानस्य प्रयुक्तितः। विचारशास्त्रं नारभ्यमारभ्यं वेति संशयः।। 29।। अर्थधीहेतुताऽधीतेर्लोकसिद्धावघातवत् । नियामकं न चैवातो वैधारम्भो न संभवी।। 30।। दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् । अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः।। 31।। 'चोदनालक्षणोऽर्थो धर्मः' इत्यारभ्य 'अन्वाहार्ये च दर्शनात्' इत्येतदन्तं जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम्। तदेतस्य प्रथमाधिकरणस्य विषयः ''स्वाध्यायोऽध्येतव्यः'' इत्यध्ययनविधिः अक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते। अपरे त्वेवमाहुः- 'अर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते। अर्थज्ञानं विचारमन्तरेण न संभवति। ततो विधिर्विचारशास्त्रस्य प्रयोजकः' इति। तत्रैवं संशयः- 'इदं विचारशास्त्रं विधिप्रयुक्त्या नारम्भणीयम्, उतारम्भणीयम्' इति। तत्र 'अर्थज्ञानायाध्ययनस्य विधिः' इति वदन्वादी प्रष्टव्यः- किमत्यन्तमप्राप्तमध्ययनं विधीयते, किं वा पक्षेऽप्राप्तमवघातवन्नियम्यते इति। नाद्यः- विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात्, भारताध्ययनवत्, इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात्। तर्ह्यस्तु द्वितीयः पक्षः- अवघातवन्नियमविधित्वसंभवात्। यथा नखैरवधातेन वा तण्डुलनिष्पत्तिसंभवात्पक्षेऽप्राप्तोऽवधातो विधिनाऽवश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वाऽर्थज्ञानसंभवात्पक्षेऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत्- न। वैषम्यात्। अवघातनिष्पन्नैरेव तण्डुलैरवान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा। ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः। अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति। अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति। तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गायाक्षरग्रहणमात्रं विधेयमिति वदामः। अश्रुतोऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः। स स्वर्गः स्यात्सर्वान्प्रत्यविशेषात्- [पू.मी.सू.4।3।15] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं सम्पादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थापितम्। तद्वदध्ययनेऽप्यस्तु। एतदेवाभिप्रेत्योक्तम्- विनाऽपि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ।। इति । एवं च सति ''वेदमधीत्य स्नायात्'' इति शास्त्रमनुगृह्यते। अस्मिञ्शास्त्रे वेदाध्ययनसमावर्तनयोर्नैरन्तर्यं प्रतीयते। त्वत्पक्षे तु- अधीतेऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः। तथा सति तन्नैरन्तर्यं बाध्यते। तस्माद्विचारशास्त्रस्य वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नारम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते- यदुक्तम् 'लोकसिद्धत्वान्नाप्राप्तविधिः' इति तत्तथैवास्तु। नियमविधित्वं तु न वारयितुं शक्यम्। यथा दर्शपूर्णमासजन्यं परमापूर्वमवाघातनियमजन्यस्यावान्तरापूर्वस्य कल्पकम्, एवमशेषक्रतुजन्यमपूर्वजातं साधनाध्ययनक्रतुज्ञाननियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति। नियमादृष्टाङ्गीकारे च श्रूयमाणो विधिरनर्थकः स्यात्। न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम्। दृष्टफलेऽर्थज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात्। अत एवोक्तम्- लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ।विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ।। इति। नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत्- न। ज्ञानमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात्। ''अक्ताः शर्करा उपदधाति'' इत्यत्र 'घृतेनैव, न तैलादिना' इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति। विचारशास्त्रं तु ''तेजो वै घृतम्'' इति वाक्यशेषादर्थं निर्णेष्यति। अतो विचारो वैधः। ''वेदमधीत्य स्नायात्'' इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम्। तस्माद्विधिवशादेव विचारशास्त्रमारम्भणीयमिति सिद्धान्तः।। 29।। 30।। 31।। अस्मिन्नेवाधिकरणे गुरुमतमाह- अथवाऽध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः । तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः।। 32।। विधेयाध्यापनं सिध्येद्बालस्यार्थधियं विना । तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम्।। 33।। स्वतः प्राप्तार्थबोधस्य विवक्षानपनोदनात् । विषयादि सुसंपादं शास्त्रमारभ्यते ततः।। 34।। ''अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत'' इत्यध्यापनं विहितम्। न चात्र नियोज्याभावः। आचार्यत्वकामिनो नियोज्यत्वात्। 'उपनयीत' इत्यनेनाचार्यकरणे 'संमाननोत्सञ्जनाचार्यकरणज्ञान भृतिविगणनव्ययेषु नियः'-[पा.सू.1।3।36] इति पाणिनिसूत्रेण विहितेनात्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते। उपनयने यो नियोज्यः, स एवाध्यापनेऽपि। तयोरेकप्रयोजनत्वात्। एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविधिप्रत्युक्त्यैवाध्ययनानुष्ठानसिद्धेर्न पृथगध्ययने विधिरभ्युपगन्तव्यः। श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते। ततोऽध्ययनविधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ। विषयसंशययोस्तु नास्ति विप्रतिपत्तिः। विचारशास्त्रं विषयः।अवैधं वैधं वेति संशयः। तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम्। नाद्यः। अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः । पाठमात्रे तु विचारस्य विषयो न भवति। आपाततः प्रतीतः संदिग्धोऽर्थो विषयः। तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा। निर्णयो विचारस्य फलम्। सोऽपि विषयवद्दूरापेतः। अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नारम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते- मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम्। तथाऽपि साङ्गवेदाध्यायिनो निगमनिरुक्त-व्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदेऽप्यर्थावबोधः स्वत एव प्राप्नोति। ननु यथा 'विषं भुङक्ष्व' इत्यत्र प्रतीयमामनोऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविवक्षायां विषयाद्यभावस्तदवस्थ इति चेत्- न। विवक्षाया अपनोदितुमशक्यत्वात्। विषभोजनवाक्यस्याप्तप्रणीतत्वेन बाधो मा भूदिति मुख्यार्थस्तत्र परित्यक्तः। वेदे तु- कुतो न विवक्षितार्थत्वम्। विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयः। तन्निर्णयः प्रयोजनम्। ततोऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्यत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम्।। 32।। 33।। 34।।  द्वितीये धर्मलक्षणाधिकरणे सूत्रम्   चोदनालक्षणोऽर्थो धर्मः।। 2।। द्वितीयाधिकरणं भट्टमतेनारचयति-- विचारविषयो धर्मो लक्षणेन विवर्जितः । मानेन वाऽथवोपेतस्ताभ्यामिति विचिन्त्यते।। 35।। लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् । मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात्।। 36।। चोदनागम्य आकारो ह्यर्थत्वे सति लक्षणम् । अत एव प्रमाणं च चोदनैवात्र नो कुतः। 37।। लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः। अत एवाहुः- मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात् इति । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम्। तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति। तद्यथा- 'सास्नादिमती गौः' इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य 'इयं गौः' इति चक्षुषाऽवगच्छति। एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम्। तत्र कुतः प्रमातुमुद्योगः। कथंचित्तदुपयोगेऽपि न तत्र प्रमाणसद्भावः शङ्कितुमपि शक्यः। न तावदत्र प्रत्यक्षं क्रमते। धर्मस्य रूपादिरहितत्वात्। अत एव व्याप्तिग्रहणाभावान्नानुमानम्। प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः। ततो व्युत्पत्त्यभावान्नागमोऽपि तत्र प्रवर्तते। तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते- ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः। तथाऽपि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारोऽस्ति। तेन 'अर्थत्वे सति चोदनागम्यो धर्मः' इति लक्षणं भवति। 'अर्थो धर्मः' इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः। तद्व्यवच्छेदाय 'चोदनागम्यः' इत्युक्तम्। तावत्येवोक्ते विधिगम्येऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः। तद्व्यवच्छेदाय 'अर्थः' इत्युक्तम्। यद्यपि श्येनस्य शत्रुवधः फलम्, न तु नरकः, तथाऽपि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनोऽनर्थः। न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम्। तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात्। यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम्। अत एव गम्ये धर्मे गमकं विधिवाक्यं प्रमाणम्। यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथाऽपि प्रसिद्धपदसमभिव्याहारेण व्युत्पत्तिः संभवति। तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः।। 35।। 36।। 37।। अस्मिन्नेवाधिकरणे गुरुतममाह- यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः । सिद्धार्थोऽप्यथ विध्येकगम्यः कार्यार्थ एव वा।। 38।। सिद्धेऽपि पुत्रजन्मादौ व्युत्पत्तेरुपपत्तितः । मन्त्रादिगम्यसिद्धस्य वेदार्थत्वेऽपि का क्षतिः।। 39।। हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि। दुर्लभा, सुलभा कार्ये वेदार्थोऽतः स एव हि।। 40।। अथातो धर्मजिज्ञासा [पू.मी.सू.1। 1। 1 ] इत्यत्राथशब्देन कृत्स्नवेदाध्ययनानन्तर्यमुच्यते। अतः शब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतूक्रियते। उक्तशब्दद्वयानुसारेण धर्मशब्दोऽपि कृत्स्नं वेदार्थमाचष्टे। ततः सूत्रे 'वेदार्थो जिज्ञास्यः' इति प्रतिज्ञा कृता। तत्र संशयः- किं मन्त्रार्थवादप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थ एव वेदार्थः, इति। तत्र- लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः । इति न्यायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः। व्युत्पत्तिश्च सिद्धार्थेऽप्यस्ति। 'पुत्रस्ते जातः' इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते। अतो मन्त्रार्थवादप्रतीतोऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः- पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्य पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः। 'गामानय' इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवृत्तिमवलोक्य संगतिग्रहणं सुलभम्। तस्मात्कार्यरूप एव वेदार्थ इति।। 38।। 39।। 40।।  तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम्   तस्य निमित्तपरीष्टिः।। 3।। तृतीयाधिकरणं भट्टमतेनारचयति- धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् । एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम्।। 41।। मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया । मैवं विचारशास्त्रेऽस्मिन्परीक्षोपेक्षते कुतः। 42।। स्पष्टोऽर्थः।। 41।। 42।। अस्मिन्नेवाधिकरणे गुरुमतमाह- आदौ परीक्ष्यो वेदार्थश्चोदनामानताऽथवा । वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम्।। 43।। चोदनामानतैवात्र प्रथमं साध्यतां गता । अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम्।। 44।। द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते। चोदनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते। तदेतदयुक्तम्। कुतः- वेदार्थस्य प्रधानत्वेनादौ परीक्षणीयत्वात्। प्रधानभूतो हि वेदः। पुरुषार्थत्वेनानुष्ठेयत्वात्। प्रमाणं तु तद्बोधनाय प्रवृत्तं सत्तच्छेषतया न प्रधानमिति प्राप्ते ब्रूमः- अस्त्वनुष्ठानोपाधौ वेदार्थप्रमाणयोः प्रधानोत्सर्जनभावः। प्रमाणप्रमेयभावोपाधौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात्। नहि स्वतः प्रामाण्यवादिनां मते सापेक्षता प्रमाणस्यास्ति। प्रमेयं तु सापेक्षम्। 'मानाधीना मेथसिद्धिः' इत्युक्तत्वात्। तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति युज्यते। अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः। न कृतः- अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याश्रयासिद्धेः।। ।43।।।। 44।। तदेवमधिकरणत्रये व्युत्पादनाय भट्टप्राभाकरमतभेद उपन्यस्तः। अथ प्रायेण भाट्टमतमेवोपन्यस्यते।  धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम्   सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्।। 4।। चतुर्थाधिकरणमारचयति- प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा । अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता।। 45।। वर्त्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ । अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता।। 46।। अक्षं प्रत्यक्षम्। प्रत्यक्षादीनां प्रमाणत्वात् प्रमेयावभासकत्वम् तावदविवादम्। धर्मश्च प्रमेयः, असन्दिग्धा- विपर्यस्तत्वे सति बुध्यमानत्वात्। घटादिवत्। तस्मात् प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते- ब्रूमः- धर्मस्य प्रमेयत्वेऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्त्तमानमात्रविषयत्वात्। यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा। क्वचित् प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः। तस्माद्विधिनैव धर्मो गम्यते।  धर्मे विधिप्रामाण्याधिकरणम्   औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः, तस्यज्ञानमुपदेशोव्यतिरेकश्चार्थेनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ।। 5।। पञ्चमाधिकरणमारचयति । अबोधको बोधको वा न तावद्बोधको विधिः। शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः।। 47।। समभिव्याहृते धर्मे शक्तिग्रहण सम्भवात्। बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम्।। 48।। यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति। तथा विधेरपि नास्ति प्रामाण्यम्। शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम्। शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते। धर्मस्त्वलौकिकः। अतस्तत्र शक्तिग्रहणं दुर्घटम्। तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते- ब्रूमः- 'यथा प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्समभिव्याहारात्। कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमाने भ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते। तथा ''कारीर्या वृष्टिकामो यजेत'' इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुद्ध्यते। तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति। न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतदृष्टफले वृष्ट्यादौ संवादस्यापि सम्भवात्। अनियतदृष्टफले चित्रायागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्- एवं तर्हि स्वतः प्रामाण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा। तस्मादबोधकत्वसापेक्षत्वयो रप्रामाण्यकारणयोरभावाद्विधेः स्वतः सिद्धं प्रामाण्यं नापह्नोतुं शक्यम्।  शब्दनित्यताधिकरणम्   कर्मैके तत्र दर्शनात्।। 6।।  अस्थानात्।। 7।।  करोतिशब्दात्।। 8।।  सत्त्वान्तरे च यौगपद्यात्।। 9।।  प्रकृतिविकृत्योश्च।। 10।।  वृद्धिश्च कर्तृभूम्नास्य।। 11।।  समं तु तत्र दर्शनम्।। 12।।  सतः परमदर्शनं विषयानागमात्।। 13।।  प्रयोगस्य परम्।। 14।।  आदित्यवद्यौगपद्यम्।। 15।।  वर्णान्तरमविकारः।। 16।।  नादवृद्धिपरा।। 17।।  नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्।। 18।।  सर्वत्र यौगपद्यात्।। 19।।  संख्याभावात्।। 20।।  अनपेक्षत्वात्।। 21।।  प्रख्याभावाच्च योगस्य।। 22।।  लिङ्गदर्शनाच्च।। 23।। षष्ठाधिकरणमारचयति- बिध्यादिरूपो यः शब्दः सोऽनित्योऽथाविनश्वरः । अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात्।। 49।। अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता । उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते।। 50।। शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते। वर्णसमूहश्रवणानन्तरम् 'इदमेकं पदम्' इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते। तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः। स च नित्यः। स एव शब्दः, न तु वर्ण इति। तदेतन्नैयायिकादयो न सहन्ते। वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका। तस्माद्वर्णानामेव शब्दत्वम्। वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते। तस्मादनित्यः शब्दः। तस्य च कारणदोषसम्भवाद्विधेरप्रामाण्यमिति पूर्वपक्षः। बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे 'त एवेमे गकारादयो वर्णा' इत्यबाधितप्रत्यभिज्ञा जायते। तद्बलान्नित्या वर्णाः। न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात्। एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति। तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम्।  वेदप्रत्यायकत्वाधिकरणम्   उत्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात्।। 24।।  तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वात्।। 25।।  लोके संनियमनात्प्रयोगसन्निकर्षः स्यात्।। 26।। सप्तमाधिकरणमारचयति- वेदवाक्यममानं स्यान्मानं वा नास्य मानता । पृथक् सङ्केतवीक्षायामनपेक्षत्ववर्जनात्।। 51।। वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः।। 52।। यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्यापि पदस्य वर्णरूपतया नित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति। तथापि ''अग्निहोत्रं जुहुयात् स्वर्गकामः'' इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम्। ततो नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते- ब्रूमः- लाके 'गामानय' इत्यादिपदप्रयोगेषु पदपदार्थयोरेव सङ्गतिर्गृह्यते। वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम्। तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम्।  वेदापौरुषेयत्वाधिकरणम्   वेदांश्चैके सन्निकर्षं पुरुषाख्याः।। 27।।  अनित्यदर्षनाच्च।। 28।।  उक्तं तु शब्दपूर्वत्वम्।। 29।।  आख्याः प्रवचनात्।। 30।।  परं तु श्रुतिसामान्यमात्रम्।। 31।।  कृते वा विनियोगः स्यात्कर्मणः सम्बन्धात्।। 32।। अष्टमाधिकरणमारचयति- पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता । काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत्।। 53।। समाख्याध्यापकत्वेन वाक्यत्वं तु पराहृतम् । तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता।। 54।। 'काठकं कौथुमं तैत्तिरीयकम्' इत्यादि समाख्यातम्। तद्वेदविषया लोके दृष्टाः। तद्धितप्रत्ययश्च 'तेन प्रोक्तम्' [पा.सू 4-3-101] इत्यस्मिन्नर्थे वर्त्तते। तथा सति 'व्यासेन प्रोक्तं वैयासिकं भारतम्' इत्यादाविव पौरुषेयत्वं प्रतीयते। किञ्च 'विमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्' इति प्राप्ते- ब्रूमः- अध्ययनसम्प्रदायप्रवर्त्तकत्वेन समाख्योपपद्यते। कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्त्तार उपलभ्यन्ते। तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत। न चोपलभ्यते। अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः। तस्मादपौरुषेयो वेदः। तथा सति पुरुषबुद्विदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम्। इति माधवौये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः। अत्र पादे - अधिकरणानि 8 , सूत्राणि 32। आदितः- अधिकरणानि 8 , सूत्राणि 32।  प्रथमाध्याये द्वितीयः पादः  (अर्थवादो मन्त्रस्याप्युपलक्षकः)  अर्थवादाधिकरणम्   आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्, तस्मादनित्यमुच्यते।। 1।  शास्त्रदृष्टविरोधाच्च।। 2।।  तथा फलाभावात्।। 3।।  अन्यानर्थक्यात्।। 4।।  अभागिप्रतिषेधाच्च।। 5।।  अनित्यसंयोगात्।। 6।।  विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः।। 7।।  तुल्यं च साम्प्रदायिकम्।। 8।।  अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत।। 9।।  गुणवादस्तु।। 10।।  रूपात्प्रायात्।। 11।।  दूरभूयस्त्वात्।। 12।।  अपराधात्कर्तुश्च पुत्रदर्षनम्।। 13।।  अकालिकेप्सा।। 14।।  विद्याप्रशंसा।। 15।।  सर्वत्वमाधिकारिकम्।। 16।।  फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात्।। 17।।  अन्त्ययोर्यथोक्तम्।। 18।। द्वितीयपादस्य प्रथमाधिकरणमारचयति । वायुर्वा इत्येवमादेरर्थवादस्य मानता । न विधेयेऽस्ति धर्मे किं किंवासौ तत्र विद्यते।। 1।। विध्यर्थवादशब्दानां मिथोपेक्षा परिक्षयात् । नास्त्येकवाक्यता धर्मे प्रामाण्यं सम्भवेत्कुतः।। 2।। विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः । तेनैकवाक्यता तस्माद्वादानां धर्ममानता।। 3।। काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते। ''वायव्यं श्वेतमालभेत भूतिकामः'' इति विधिः। ''वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति'' इत्यर्थवादः। तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति। अर्थवादशब्दाश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते। 'क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छति' इत्युक्ते रामायण भारतादाविव वृत्तान्तः कश्चित्प्रतीयते। न त्वनुष्ठेयं किञ्चित्। अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते- ब्रूमः- मा भूत्पदैकवाक्यता। वाक्यैकवाक्यता तु विद्यते। विधिवाक्यं तावत्परुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते। अर्थवादवाक्यञ्च फलवदर्थावबोधपर्य्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते। तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते। 'यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेत' इति वाक्ययोरन्वयः। तस्मादर्थवादा धर्मे प्रमाणम्। अस्मिन्नेवाधिकरणे मतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह । वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत्। सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ।। 4।। 'यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेत' इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते। ततः सापेक्षत्वादप्रामाण्यमिति पूर्वपक्षः। 'विमतं कर्मानुष्ठेयम् फलप्रददेवतोपेतत्वात्, राजसेवादिवत्' इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात्। नत्वेवं विवक्षितम्। किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते। तथा सति 'प्रशस्तं कर्मानुष्ठेयम्' इत्यस्मिन्नर्थे सार्थवादस्य विधेः पर्यवसानादेकवाक्यता लभ्यते। तत्र कुतः सापेक्षत्वम्। तस्मात् 'विधिः प्रमाणम्' इति राद्धान्तः।  विधिवन्निगदाधिकरणम्   विधिर्वास्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम्।। 19।।  लोकवदिति चेत्।। 20।।  न पूर्वत्वात्।। 21।।  उक्तं तु वाक्यशेषत्वम्।। 22।।  विधिश्चानर्थकः क्वचित्, तस्मास्तुतिः प्रतीयेत, तत्सामान्यादितरेषु तथात्वम्।। 23।।  प्रकरणे सम्भवन्नपकर्षो न कल्प्येत, विद्यानर्थक्यं हि तं प्रति।। 24।।  विधौ च वाक्यभेदः स्यात्।। 25।। द्वितीयाधिकरणमारचयति- ऊर्जोऽवरुक्या इत्येष विधिवन्निगदो न किम् । यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया।। 5।। चतुर्थ्या फलतालाभाद्यूपौदुम्बरताफलम् । ऊर्जोऽवरोधं कथयन्कथं स्तुतिपरो भवेत्।। 6।। अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् । अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः।। 7।। इदमाम्नायते- ''औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जोऽवरुद्ध्यै'' इति। अमृतशब्दाभिधेयोऽत्यन्तसारभूतः सूक्ष्मोऽन्नरस ऊर्गुच्यते। उदुम्बररूपयोर्जा यजमानार्थमध्वर्य्युः पशुरूपामूर्जमाप्नोति। ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः। अत्र 'अवरुद्ध्यै' इति तादर्थ्ये चतुर्थी। तया फलत्वं गम्यते। 'धनलाभाय राजसेवा' इत्यादौ तादर्थ्यदर्शनात्। न च फलपरस्य वचनस्य स्तावकत्वं युज्यते। अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते- ब्रूमः- अयमूर्जोऽवरोधः कस्य फलम्। किमविहितस्यौडुम्वरत्वस्य उत विहितस्य। नाद्यः। अनुष्ठानमन्तरेण द्रव्यमात्रात्फलानुत्पत्तेः। द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः। नाद्यः ''औदुम्बरो यूपो भवति'' इत्यत्र लिङ्प्रत्ययाश्रवणात्। द्वितीये स्तुत्या स उन्नेयः। न चात्र स्तुतिमङ्गीकरोषि। अथोच्येत 'विधिना यूपौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यते' इति तर्हि वाक्यं भिद्येत। ततः फलविधिवन्निगद्यमा- नमप्येतद्वाक्यं स्तावकमेव। अत्रैव गुरुमतेन पूर्वोत्तरपक्षावाह । आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् । न प्रमा चोदनेत्येतन्न वादो ह्येकवाक्यतः।। 8।। 'ऊर्जं पशूनाप्नोति' इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते। लिङ्ङाद्यभावादर्थवादत्वम्। अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः। एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते। अतः प्रमाणं चोदनेति राद्धान्तः।  तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 – 30   हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम्।। 26।।  स्तुतिस्तु शब्दपूर्वत्वात् , अचोदना तस्य।। 27।।  अर्थे स्तुतिरन्याय्येति चेत्।। 28।।  अर्थस्तु विधिशेषत्वाद्यथा लोके।। 29।।  यदि च हेतुरवतिष्ठेत निर्देशात्, सामान्यादिति चेदव्यवस्था विधीनां स्यात्।। 30।। तृतीयाधिकरणमारचयति- तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः। हिना श्रुता हेतुताऽतः शूर्पमन्यच्च साधनम्।। 9।। शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते । अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका।। 10।। इदमाम्नायेत- ''शूर्पेण जुहोति तेन ह्यन्नं क्रियते'' अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति। हिशब्दस्य हेतुवाचित्वात्। 'यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम्' इत्युक्ते 'यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम्' इति लभ्यते। ततः 'पिठरादयः शूर्पेण सह विकल्प्यन्ते' इति प्राप्ते- ब्रूमः- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात्। पिठरादीनां त्वानुमानिकम्। अतोऽसमानबलत्वान्न विकल्पो युक्तः। ततो हेतुर्व्यर्थः। स्तुतिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः।। 9।। 10।।  चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31- 53   तदर्थशास्त्रात्।। 31।।  वाक्यनियमात्।। 32।।  बुद्धशास्त्रात्।। 33।।  अविद्यमानवचनात्।। 34।।  अचेतनेऽर्थबन्धनात्।। 35।।  अर्थविप्रतिषेधात्।। 36।।  स्वाध्यायवद्वचनात्।। 37।।  अविज्ञेयात्।। 38।।  अनित्यसंयोगान्मन्त्रानर्थक्यम्।। 39।।  अविशिष्टस्तु वाक्यार्थः।। 40।।  गुणार्थेन पुनः श्रुतिः।। 41।।  परिसंख्या।। 42।।  अर्थवादो वा।। 43।।  अविरुद्धं परम्।। 44।।  संप्रैषे कर्मगर्हानुपलम्भः संस्कारत्वात्।। 45।।  अभिधानेऽर्थवादः।। 46।।  गुणादप्रतिषेधः स्यात्।। 47।।  विद्यावचनमसंयोगात्।। 48।।  सतः परमविज्ञानम्।। 49।।  उक्तश्चानित्यसंयोगः।। 50।।  लिङ्गोपदेशश्च तदर्थत्वात्।। 51।।  ऊहः।। 52।।  विधिशब्दाश्च।। 53।। चतुर्थाधिकरणमारचयति- मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः।। 11।। ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः । न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः।। 12।। ''उरु प्रथस्व'' इत्ययं कश्चिन्मन्त्रः। तस्यायमर्थः- 'भोः पुरोडाश, त्वमुरु विपुलता यथा भवति तथा प्रसर' इति। एवमादयो मन्त्रा यागप्रयोगेषूच्चार्यमाणा अदृष्टमेव जनयन्ति। नत्वर्थप्रकाशनाय तदुच्चारणम्। पुरोडाशप्रथन- लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् ''उरु प्रथस्वेति पुरोडाशं प्रथयति'' इति हि ब्राह्मणवाक्यम्, इति चेत् नैतद्युक्तम्। अर्थप्रत्यायनस्य दृष्टप्रयोजनस्य संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात्। तस्माद्दृष्टमर्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम्। ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे 'मन्त्रेणैवानुस्मपणीयम्' इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु। अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह- मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने । न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः।। 13।। अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थं स्यात्। वाक्येन विनियोगे मन्त्रलिङ्गं न विवक्ष्येत। इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वः पक्षः । नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति राद्धान्तः।। 13।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 4 , सूत्राणि 53। आदितः- अधिकरणानि 12, सूत्राणि 85।  प्रथमाध्याये तृतीयः पादः  स्मृतिरूपम् - स्मृतिराचारमप्युपलक्षयति  प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2   धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्।। 1।।  अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात्।। 2।। तृतीयपादस्य प्रथमाधिकरणमारचयति – अष्टकादिस्मृतेर्धर्मे न मात्वं मानताऽथवा । निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता।। 1।। वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता । विप्रकीर्णार्थसंक्षेपात्सार्थत्वादस्ति मानता।। 2।। ''अष्टकाः कर्तव्याः'' इत्यादिस्मृतिवाक्यं न धर्मे प्रमाणम्, पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात्, विप्रलम्भकवाक्यवत्। अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिभिरुच्यत इति मन्येथाः। तर्हि वेदेनैव तदर्थस्यावगतत्वादियं स्मृतिरनर्था स्यात्। तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते- ब्रूमः- 'विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात्, उपनयनाध्ययनादिस्मृतिवत्'। न च वैयर्थ्यं शङ्कनीयम्। अस्मदादीनां प्रत्यक्षेषु परोक्षेषु च नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात्। तस्मादियं स्मृतिर्धर्मे प्रमाणम्।। 1।। 2।। अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह- न मा स्मार्ताष्टकाङ्गत्वाद्यां जना इति मन्त्रगीः । तन्न स्मृतेर्मूलवेदेऽनुमिते मात्वसंभवात्।। 3।। ''यां जनाः प्रतिनन्दति'' इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम्। तच्च श्राद्धं स्मार्तम्। न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे। तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत्- न। तन्मूलस्य वेदस्यानुमेयत्वात्। अनुमानं च दर्शितम्। तस्मादसौ मन्त्रो धर्मे प्रमाणम्।। 3।।  द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्   विरोधे त्वनपेक्ष्यं स्यात् , असति ह्यनुमानम्।। 3।। द्वितीयाधिकरणमारचयति- औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः । अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत्।। 4।। औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः । विरोधान्मूलवेदस्याननुमानादमानता।। 5।। ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते। तस्याश्च वाससा वेष्टनं स्मर्यते- ''औदुम्बरी सर्वा वेष्टयितव्या'' इति। सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते- ब्रूमः- ''औदुम्बरीं स्पृष्ट्वोद्गायेत्'' इति प्रत्यक्षवेदवचनेन स्पर्शो विधीयते। न च सर्ववेष्टने स्पर्शः संभवति। अतो मूलवेदानुमानं कालात्ययापदिष्टम्। अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम्।। 4।। 5।। अस्मिन्नेवाधिकरणे मतान्तरमाह- प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् । अमात्वे शङ्किते बाधोऽनुमानस्यात्र वर्ण्यते।। 6।। परप्रत्यक्षवेदोऽत्र मूलं चेद्वेष्टनस्य तत् । अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः।। 7।। स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः । अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम्। यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम्। तथाऽपि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम्।। 6।। 7।।  तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम्   हेतुदर्शनाच्च।। 4।। तृतीयाधिकरणमारचयति- वैसर्जनाख्यहोमीयवाससो ग्रहणस्मृतिः । प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत्।। 8।। दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् । सर्ववेष्टनवद्बाधहीनाऽप्येषा न हि प्रमा।। 9।। ज्योतिष्टोमेऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः। तत्र यजमानं पत्नीं पुत्रांश्च भ्रातॄंश्चाहतेन वाससा प्रच्छाद्य वाससोऽन्ते स्रुग्दण्डमुपनिबध्य जुहोति। तस्मिन्वासस्येवं स्मर्यते- ''वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति'' इति। सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते। ततोऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते- ब्रूमः- कदाचित्कश्चिदध्वर्युर्लोभादेतद्वासो जग्राह। तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति। दृष्टानुसारिणी चैषां कल्पना। दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात्। तथा सत्यस्याः स्मृतेरन्यथाऽप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते। अतो बाधाभावेऽपि मूलवेदाभावान्नेयं स्मृतिः प्रमाणम्।।  चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5- 7   शिष्टाकोपे विरुद्धमिति चेत्।। 5।।  न, शास्त्रपरिमाणत्वात्।। 6।।  अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्।। 7।। चतुर्थाधिकरणं भाष्यमतेनारचयति- आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् । वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः।। 10।। आचान्तादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः। धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता।। 11।। ''क्षुत आचामेत्'' इति विहितं पुरुषार्थमाचमनम्। यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्राप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते।''आचान्तेन कर्तव्यम्'' इति। सेयं स्मृतिर्न प्रमाणम्। कुतः- विरुद्धत्वात्। ''वेदं कृत्वा वेदिं करोति'' इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते। वेदो नाम दर्भमयं संमार्जनसाधनम्। वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः। तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात्, तदा श्रुत्युक्तं नैरन्तर्यं विरुध्येत। तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्राप्ते- ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः। क्रमस्तु पदार्थनिष्ठो धर्मः। स च पदार्थानुपजीवति। तत उपजीव्यविरोधात्क्रम एव बाध्यते। नतु क्रमेणाचमनस्य बाधोऽस्ति। तस्मादियं स्मृतिः प्रमाणम्। अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार। तत्र प्रथमं विचारं दर्शयति- शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः । न धर्मो नहि पूतं स्याद्गोक्षीरं श्वदृतौ धृतम्।। 12।। ''ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्'' इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः। स एव धर्मः शाक्येनाप्युक्तः। तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत्- न। स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात्। तदीयग्रन्थेनाहिंसादि- र्नावगन्तव्यः। तस्मान्न सा स्मृतिर्धर्मे प्रमाणम्।। 12।। विचारान्तरं दर्शयति- सदाचारोऽप्रमा मा वा निर्मूलत्वादमानता । अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता।। 13।। होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत्- न। वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात्। अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेण अनुपदिष्टोऽपि सदाचारः सामान्याकारेणोपदिष्टः। ''श्रुतिः स्मृतिः सदाचारः'' इत्येवं धर्मे प्रमाणोपन्यासात्। तस्माच्छिष्टाचारः प्रमाणम्।  पञ्चमे शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे (आर्यम्लेच्छाधिकरणे) सूत्रे 8- 9   तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्।। 8।।  शास्त्रस्था वा तन्निमित्तत्वात्।। 9।। पञ्चमाधिकरणमारचयति- यवादिशब्दाः किं द्व्यर्था नो वार्यम्लेच्छसाम्यतः । दीर्घशूकप्रियंग्वाद्या द्वयेऽप्यर्था विकल्पिताः।। 14।। यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी। शास्त्रीयधर्मे तेनात्र प्रियंग्वादि न गृह्यते।। 15।। ''यवमयश्चरुर्भवति'' ''वाराही उपानहावुपमुञ्चते'' इति श्रूयते। तत्र यवशब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे। म्लेच्छास्तु यवशब्दं प्रियंगुषु, वराहशब्दं च कृष्णशकुनौ। तथा सति लोकव्यवहारेण निश्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अप्यर्था विकल्पेन स्वीकार्या इति प्राप्ते- ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी। प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च। शास्त्रे यवविध्यर्थवाद एवं श्रूयते ''यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्ति'' इति। इतरौषधिविनाशकालेऽभिवृद्धिर्दीर्घशूकेषु दृश्यते न तु प्रियंगुषु, तेषामितरौषधिपरिपाकात्पूर्वं पच्यमानत्वात्। वाराहोपानद्विध्यर्थवादश्चैवं भवति- ''वराहं गावोऽनुधावन्ति'' इति। गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ। तस्माद्दीर्घशूकादिर्यवादिशब्दार्थः । अत्र वार्तिककारः पीलुशब्दमुदाजहार। तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे। तत्राविप्लुतव्यवहारस्यार्येषु संभवाद्वृक्ष एव पीलुशब्दार्थः। अस्मिन्नेवाधिकरणे गुरुमतमाह- यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् । न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्याऽर्थनिर्णयात्।। 16।। स्पष्टोऽर्थः । अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति- यो मातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्वममात्वं स्मार्तबाधनात्।। 17।। स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततोऽत्र च । अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा।। 18।। केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति। सोऽयमाचारः प्रमाणं, शिष्टाचारत्वात्, होलाकाद्याचारवत्, इति चेत् । न। स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात्। तथा च स्मृतिः- मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्।। इति। न च स्मृत्याचारयोर्मूलवेदानुमापकत्वसाम्यात्समबलत्वमिति शङ्कनीयम्। होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात्। न हीदानींतनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तुं शक्नुवन्ति। येन शिष्टाचारो मूलवेदमनुमापयेत्। शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कंचनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम्। तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, न तु श्रुतिः। अनुमिता च स्मृतिर्विरुद्धया प्रत्यक्षया स्मृत्या बाध्यते। अत एवाहुः- आचारात्तु स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम् । तेन द्व्यन्तरितं तेषां प्रामाण्यं विप्रकृष्यते ।। इति । तस्मादीदृशस्याचारस्याप्रामाण्यमभ्युपेयम्।। 17।। 18।। तत्रैवापरं वर्णकमारचयति- लौकिको वाक्यगो वाऽर्थस्त्रिवृदादेः समत्वतः । उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः।। 19।। ''त्रिवृद्बहिष्पवमानम्'' इति श्रुतौ त्रिवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोऽर्थः। वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ''उपास्मै गायता नरः'' इत्यादीनामृचां नवकमर्थः। तत्र धर्मनिर्णये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेन ग्रहीतव्याविति चेत्- मैवम्। लौकिकार्थस्वीकारपक्षे विधिवाक्येऽर्थस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम्, इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात्। अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोऽर्थः।। 19।।  षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्   चोदितं तु प्रतीयेताविरोधात्प्रमाणेन।। 10।। षष्ठाधिकरणमारचयति- कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः । कल्प्य आर्येष्वसिद्धत्वादनार्याणामनादरात्।। 20।। ग्राह्या म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति । पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः।। 21।। आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्च न प्रमाणभूताः। तस्मान्निगमनिरुक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत्- मैवम्। आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विषये म्लेच्छप्रसिद्धेरप्यादरणीयत्वात्। कल्प्यमानादव्यवस्थि- तादर्थाद्वरं म्लेच्छरूढिः। यत्रेदृश्या अपि रूढेरभावस्तत्र निरुक्तादयश्चरितार्थाः। तस्मादनार्यप्रसिद्ध्या पिकः कोकिलः, नेमशब्दोऽर्धवाची, तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम्।। 20।। 21।। अस्मिन्नेवाधिकरणे गुरुमतमाह- अर्थाबोधादप्रमाणं पिकालम्भनचोदना। मैवं म्लेच्छप्रसिद्ध्याऽपि तब्दोधादविरुद्धया।। 22।। स्पष्टोऽर्थः।। 22।।  सप्तमे कल्पसूत्रास्वतःप्रामाण्याधिकरणे सूत्राणि 11 – 14   प्रयोगशास्त्रमिति चेत्।। 11।।  नासंनियमात्।। 12।।  अवाक्यशेषाच्च।। 13।।  सर्वत्र च प्रयोगात्संनिधानशास्त्राच्च।। 14।। सप्तमाधिकरणमारचयति- अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः। श्रुतिस्मृत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम्।। 23।। पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः । तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम्।। 24।। बौधायनापस्तम्बाश्वलायनकात्यायनादिनामाङ्किताः कल्पसूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत्। न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम्। उत्पन्नाया बुद्धेः स्वतःप्रामाण्याङ्गीकारेण निरपेक्षत्वात्। मैवम्। उक्तानुमानस्य कालात्ययापदिष्टत्वात्। बौधायनसूत्रम्, आपस्तम्बसूत्रम् इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते। न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम्।तद्ग्रन्थनिर्माणकाले तदानींतनैः कैश्चिदुपलब्धत्वात्। तच्चाविच्छिन्नपारम्पर्येणानुवर्तते। ततः कालिदासादिग्रन्थवत्पौरुषेयाः। तथाऽपि वेदमूलत्वात्प्रमाणम्।। 23।। 24।। अत्रैव गुरुमतमाह- कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा। न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः।। 25।। सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह- ''सर्वासु तिथिष्वमावास्या कर्तव्या'' इति। श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते। ततः कल्पसूत्ररूपेण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत्- मैवम्। कल्पस्य वेदत्वं नाद्यापि सिद्धम्। किंतु यत्नेन साध्यम्। न च तत्साधयितुं शक्यम्। पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च, साधितत्वात्। अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम्।। 25।।  अष्टमे होलाकाधिकरणे सूत्राणि 14 – 23   अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात्।। 15।।  अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्य।। 16।।  दर्शनाद्विनियोगः स्यात्।। 17।।  लिङ्गाभावाच्च नित्यस्य।। 18।।  आख्या हि देशसंयोगात्।। 19।।  न स्याद्देशान्तरेष्विति चेत्।। 20।।  स्याद्योगाख्या हि माथुरवत्।। 21।।  एकधर्मो वा प्रवणवत्।। 22।।  तुल्यं तु कर्तृधर्मेण।। 23।। अष्टमाधिकरणमारचयति होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः। देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः।। 26।। होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम्। कुतः, देशविशेषे तेषां दृष्टत्वात्। होलाकादयः प्राच्यैरेव क्रियन्ते। वसन्तोत्सवो होलाका। आह्नीनैबुकादयो दाक्षिणात्यैः स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते। उद्वृषभयज्ञादय उदीच्यैः, ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुद्वृषभयज्ञः। एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते। तस्माद्व्यवस्थितं प्रामाण्यमिति चेत्- मैवम्। तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात्। अत्रैव गुरुमतमाह- प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे। अर्थाबोधादमात्वं चेन्न सामान्यानुमानतः।। 27।। प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या। तत्र प्राच्यादिपदस्यार्थो न बुध्यते। ये पुरुषाः कंचित्कालं प्राच्यां निवसन्ति, त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते। तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत्- मैवम्। अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात्। अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम्।। 27।।  नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24- 29   प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात्।। 24।।  शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्।। 25।।  अन्यायश्चानेकशब्दत्वम्।। 26।।  तत्र तत्त्वमभियोगविशेषात्स्यात्।। 27।।  तदशक्तिश्चानुरूपत्वात्।। 28।।  एकदेशत्वाच्च विभक्तिव्यत्यये स्यात्।। 29।। नवमाधिकरणमारचयति- गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्चन। नियमोऽत्रास्ति वा नास्ति व्याकृतेर्मूलवर्जनात्।। 28।। साधूनेव प्रयुञ्जीत गवाद्या एव साधवः। इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः।। 29।। व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि 'गौः' इत्येष शब्दः प्रयुज्यते। तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका इत्येवमादयः शब्दाः प्रयुज्यन्ते। तत्र- 'ईदृश एव शब्दः साधुः, नेदृशः'- इत्यस्मिन्नर्थे नियामकं नास्ति। तथा प्रयोगेऽपि तन्नास्ति- 'ईदृश एव शब्दः प्रयोक्तव्यः, नेदृशः' इति न तावद्वृद्धव्यवहारो नियामकः। तस्य सर्वेषु शब्देषु समानत्वात्। नापि व्याकरणस्मृतिर्नियामिका, तस्या निर्मूलत्वेनाप्रमाणत्वात्। न ह्यभियुक्तप्रयोगस्तन्मूलम्, अन्योन्याश्रयत्वप्रसङ्गात्। व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणामभियुक्तत्वसिद्धिः, तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम्। तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः, इति प्राप्ते- ब्रूमः- 'साधूनेव प्रयुञ्जीत, न त्वपभ्रंशान्' इत्यस्ति नियमः। उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात्। 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति गुणवाक्यम्। 'तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः' इति दोषवाक्यम्। यथा प्रयोगे नियमस्तथा साधुत्वेऽपि नियमो द्रष्टव्यः- 'गवाद्या एव साधवः, न तु गाव्यादयः' इति। अस्मिन्नर्थे व्याकरणस्य नियामकत्वात्। न च निर्मूलत्वम्, पूर्वपूर्वव्याकरणस्य तन्मूलत्वात्। एतदेवाभिप्रेत्योक्तम्- 'तत्र यूपादिकरणवद्व्याकरणपरम्परा नादित्वादनुपालम्भः' इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम्। तथाचार्थवणिका आमनन्ति- ''द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च। तत्रापरा- ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम्'' इति। तैत्तिरीयकब्राह्मणेऽपि व्याकरणस्योपादेयता श्रूयते ''वाग्वै पराच्यव्याकृताऽवदत्। ते देवा इन्द्रमब्रुवन्- इमां नो वाचं व्याकुरु, इति। तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत्। तस्मादियं व्याकृता वागुद्यते'' इति। व्याकर्तारश्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः। तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम्।। 28।। 29।। अत्रैव गुरुमतमाह- अश्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात्। अमात्वेऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात्।। 30।। ''अश्वमालभेत'' इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे 'स्वं धनम्, तद्रहितं दरिद्रमालभेत' इत्यर्थो भवति। तालव्यत्वे तुरंगमवाचित्वम्। ततः संशयादप्रामाण्यमिति चेत्- न। व्याकरणानुसारेण 'अशू व्याप्तौ' इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात्। तस्मादश्वालम्भनशास्त्रं प्रमाणम्।। 30।।  दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30- 35   प्रयोगचोदनाभावादर्थैकत्वमविभागात्।। 30।।  अद्रव्यशब्दत्वात्।। 31।।  अन्यदर्शन्नाच्च।। 32।।  आकृतिस्तु क्रियार्थत्वात्।। 33।।  न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत्।। 34।।  तदर्थत्वात्प्रयोगस्याविभागः।। 35।। दशमाधिकरणे प्रथमं वर्णकमाचरयति- लोके पदापदार्थौ यौ न तौ वेदेऽथवाऽत्र तौ। रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा।। 31।। वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता। प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम्।। 32।। वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ। कुतः- रूपभेदात्। पदे तावद्रूपभेदो दृश्यते। आत्मशब्द आकारादित्वेन लोके नियतः। वेदे तु क्वचिदाकाररहितः पठ्यते- ''प्रयतं पुरूषं त्मना'' इति। 'ब्राह्मणाः' इति लोके। वेदे त्वन्यथा पठ्यते- ''ब्राह्मणासः पितरः सोम्यासः'' इति। अर्थभेदोऽपि स्फुटः। ''उत्ताना वै देवगवा वहन्ति'' इति श्रूयते। मनुष्यगवास्त्ववाञ्चो वहन्ति। वेदे वनस्पतिर्हिरण्यवर्णः तथा च श्रूयते ''देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्''- इति। तस्मात् 'लोकवेदयोः पदपदार्थावन्यौ' इति प्राप्ते- ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः। तथा हि- वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम्। यथा प्रयोक्तॄणां पुरुषाणां भेदेऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदेऽपि 'त एवामी वर्णाः' इति प्रत्यभिज्ञानाद्वर्णैक्यम्। तथा 'यानि लोके गवादिपदानि, तान्येव वेदेऽधीयमानानि' इत्यबाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम्।'त्मना, देवासः' इत्यादिपदभेदस्तु क्वाचित्कः। नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम्। अन्यथा 'सोऽयं देवदत्तः' इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत। पदैक्ये चार्थैकत्वमवश्यंभावि। अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत। एतदेवाभिप्रेत्योक्तम्- लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः । इति। स्वरुयूपाहवनीयादिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्व्युत्पत्तिः संभवति। उत्तानवहनादिकं त्वर्थवादः। अस्तु वा तथावहनम्, तथाऽप्युत्तानादिशाब्दास्तदर्थाश्च लोकप्रसिद्धा एव। तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः।। 31।। 32।। द्वितीयवर्णकमारचयति- व्यक्तिंर्व्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् । व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते।। 33।। शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता। क्रियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम्।। 34।। ''व्रीहीनवहन्ति'' ''पशुमालभेत'' ''गामानय'' ''ब्राह्मणो न हन्तव्यः'' इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः। कुतः- अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात्। नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या। नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति। अनन्ता हि व्यक्तयः। अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात्। किं च शुक्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत्। तत्र कथं व्युत्पत्तिरिति चेत्- एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते- ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम्। किं च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत्। तस्मादाकृतेरेवाभिधेयत्वम्। यद्याकृताववहननादिक्रिया न पर्यवस्येत् तर्हि व्यक्तिस्तत्रोपलक्षणीया। किंच- ''श्येनचितं चिन्वीत'' इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते। तस्मात् आकृतिः शब्दार्थः।। 33।। 34।। अत्रैव गुरुमतमाह- गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात्। आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः।। 35।। स्पष्टोऽर्थः।। 35।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 10, सूत्राणि 22। आदितः- अधिकरणानि 35, सूत्राणि 120। प्रथमाध्याये चतुर्थः पादः उद्भिच्चित्रादिनामरूपम्  प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्   उक्तं समाम्नायैदमर्थ्यं, तस्मात्सर्वं तदर्थं स्यात्।। 1।। चतुर्थपादस्य प्रथमाधिकरणं वार्तिककारोन्नीतमारचयति- उद्भिदादिपदं धर्मे किममानमुत प्रमा। विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा।। 1।। अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते। नामत्वेनान्वयो वाक्ये वक्ष्यतेऽतः प्रमैव तत्।। 2।। ''उद्भिदा यदेत'' ''बलभिदा यजेत'' ''विश्वजिता यजेत'' इत्येवं समाम्नायते। तत्रोद्भिदादिपदं न धर्मे प्रमाणम्। कुतः- प्रमाणत्वेनाभिमतेषु त्रिषु वेदविभागेष्वनन्तर्भावात्। तथा हि- विधिः साक्षात्प्रमाणम्। अर्थवादमन्त्रौ तु विध्यन्वयेन। तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति, विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात्। नाप्यर्थवादत्वम्, स्तुतिबुद्धेरभावात्। नापि मन्त्रत्वम्। उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात्। तथा चोक्तम्- उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः। मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते ।। इति। ''अग्नये जुष्टं निर्वपामि'' इत्युत्तमपुरुषः। ''अग्ने यशस्विन्यशसे समर्पय'' इत्यामन्त्रणम्। ''उर्वी चासि, वस्वी चासि'' इत्यस्यन्तरूपम्। ''इषे त्वा, ऊर्जे त्वा'' इति त्वान्तरूपम्, आदिशब्देव- आशीर्देवताप्रतिपादनादयः। एवमाद्यनन्तर्भावादमानमिति चेत्- न। विध्यंशे करणेऽन्तर्भावात्। यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् । तथाऽपि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति। तस्मात्प्रमाणम्।। 1।। 2।।  द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम्   अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात्।। 2।। द्वितीयाधिकारणमारचयति- गुणोऽयं नामधेयं वा खनित्रेऽस्य निरुक्तितः। ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना।। 3।। फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि । नामत्वमुचितं यागसामानाधिकरण्यतः।। 4।। ''उद्भिदा यजेत पशुकामः'' इत्यत्र तृतीयान्तेनोद्भित्पदेन योऽर्थो विवक्षितः सोऽयं यागे कश्चिद्गुणः स्यात्। ''दध्नाजुहोति'' इत्यनेन गुणविधिना समानत्वात्। अथोच्येत 'दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः' इति। तन्न। रूढ्यभावेऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः। 'उद्भिद्यते भूमिरनेन' इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः। न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम्। पशूनां गुणफलत्वात्। यथा ''गोदोहनेन पशुकामस्य'' इत्यत्र पशवो गोदोहनगुणस्य फलम्। तथेह खनित्रगुणस्य फलमस्तु। यदि ''चमसेनापः प्रणयेत्'' इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि ''ज्योतिष्टोमेन यजेत'' इति विहितं प्रकृतंज्योतिष्टोममाश्रित्य खनित्रं विधीयताम्। तस्माद्गुणविधिरिति प्राप्ते- ब्रूमः- ''पशुकामो यजेत'' इत्यस्य पदद्वयस्यायमर्थः 'पशुरुपं फलं यागेन कुर्यात्' इति। तत्र 'केन यागेन' इत्यपेक्षायाम् 'उद्भिदा' इति तृतीयान्तं पदं यागनामत्वेनान्वेति। 'उद्भिद्यते पशुफलमनेन यागेन' इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते। एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत्- मैवम्। सामानाधिकरण्यस्य निर्णायकत्वात्। 'उद्भिन्नामकेन यागेन फलं कुर्यात्' इत्युक्ते सामानाधिकरण्यं लभ्यते। गुणत्वे तु 'खनित्रेण साध्यो यो यागः, तेन' इत्येवं वैयधिकरण्यं स्यात्। यदि 'खनित्रवता यागेन' इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत। तस्मादुद्भिदादिपदं नामधेयम्। ''दध्ना जुहोति'' ''व्रीहिभिर्यजेत'' इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम्। ''सोमेन यजेत'' इत्यत्रापि 'अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम्' इत्यभिप्रेत्य 'सोमद्रव्यवता यागेन' इति मत्वर्थलक्षणा स्वीकृता। उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम्। प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव। न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु 'अनेनाहं यक्ष्ये' इत्याख्यानोपायो लघुः कश्चिदस्ति। तस्मात्- उद्भिदादिकं नामधेयम्।। 3।। 4।। अत्रैव गुरुमतमाह- लौकिके गणयागेऽस्य विधेः सापेक्षतेति चेत्- निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता।। 5।। ''उद्भिदा यजेत'' इत्ययं गुणविधिः। न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते। ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः। तस्मिन्योगे गुणोयं विधीयते। तथा सति साक्षेपत्वादप्रामाण्यमस्याः चोदनाया इति चेत्- मैवम्। पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात्।। 5।।  तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्   यस्मिन्गुणोपदेशः प्रधानतोऽभिसंबन्धः।। 3।। तृतीयाधिकरणमारचयति यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत्। चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ।। 6।। द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः। स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा।। 7।। ''चित्रया यजेत पशुकामः'' इत्याम्नायते। तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किंतु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते। ततो न पूर्वन्यायेन नामत्वम्। तथा सति ''अग्नीषोमीयं पशुमालभेत'' इति विहितं पशुयागमात्रं 'यजेत' इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते- ब्रूमः- चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ। तयोर्द्वयोर्विधाने वाक्यं भिद्येत। तथा चोक्तम्- प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ।। इति। अथ वाक्यभेदपिरहाराय गुणद्वयावीशिष्टं पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात्। तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते। ''दधि, मधु, घृतम्, आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्'' इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि। तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम्। यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात्। उत्पन्नस्य तस्य यागस्य ''चित्रया यजेत पशुकामः'' इत्येतत्फलवाक्यम्। एवं सति प्रकृतार्थो लभ्यते। अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत। तस्माच्चित्रापदं नामधेयम्। यथा चित्राशब्दे नामधेयत्वम्। तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम्। एवं हि श्रूयते ''त्रिवृद्बहिष्पवमानम्'' ''पञ्चदशान्याज्यानि'' ''सप्तदशानि पृष्ठानि'' इति। अस्य वाक्यत्रयस्यार्थो विव्रियते- सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि। तत्र ''उपास्मै गायता नरः'' इत्याद्यं सूक्तम्। ''दविद्युतत्या रुचा'' इति द्वितीयम्। ''पावमानस्य ते कवे'' इति तृतीयम्। ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्रं साम गातव्यम्। तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात्, बहिःसंबन्धाच्च। न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किंतु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते। तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति। तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्यमेवमाम्नायते- ''तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उद्यती त्रिवृतो विष्टुतिः'' इति। अयमर्थः- 'सूक्तत्रयपठितानां नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम्। तत्र प्रथमे पर्याये- त्रिषु सूक्तेष्वाद्यास्तिस्त्र ऋचः, द्वितीये पर्याये- मध्यमाः, तृतीये पर्याये चोत्तमाः। तिसृभ्य इति तृतीयार्थे पञ्चमी। हिं करोति गायति' इत्यर्थः। सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः। तस्या विष्टुतेरुद्यती नाम, इति। एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती। तयोः परिवर्तिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः''- इति। पराचीभिरनुक्रमेणाम्नाताभिरित्यर्थः। कुलायिन्येवमाम्नायते- ''तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः'' इति। अत्र प्रथमसूक्ते पाठक्रम एव। द्वितीये मध्यमोत्तमप्रथमाः। तृतीये तूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः। तदिदं विष्टुतित्रयं विकल्पितम्। त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम्।। उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि- ''अग्न आ याहि वीतये'' इत्याद्यं सूक्तम्। ''आ नो मित्रावरुणा'' इति द्वितीयम्। ''आ याहि सुषुमा हि ते'' इति तृतीयम्। ''इन्द्राग्नी आ गतं सुतम्'' इति चतुर्थम्। तान्येतानि प्रातःसवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते। तन्निर्वचनं च श्रूयते ''यदाजिमीयुः, तदाज्यानामाज्यत्वम्'' इति। तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः'' इति। एकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायाः। तृतीयावृत्तावृत्तमायाः। सोऽयं पञ्चदशस्तोमः। उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यंदिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं चत्वारि सूक्तान्याम्नातानि- तेषु ''अभि त्वा शूर नोनुम'' इत्याद्यम्, ''कया नश्चित्र आभुवत्'' इति द्वितीयम्। ''तं वो दस्ममृतीषहम्'' इति तृतीयम्। ''तरोभिर्वो विदद्वसुम्'' इति चतुर्थम्। एतानि क्रमेण रथंतरवामदेव्यनौधसकालेयसामभिर्माध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते। 'स्पर्शनात्पृष्ठानि' इत्येवं निरुक्तिर्द्रष्टव्या। तेषु स्तोत्रेषु सप्तदशस्तोमो भवति। तस्य स्तोमस्य विष्टुतिरेवमाम्नायते- ''पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिंकरोति स एकया स तिसृभिः, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः''- इति। अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः सोऽयं सप्तदशस्तोमः। अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः। यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युः, तदा प्रत्युदाहरणम्। गुणद्वयविधानाद्वाक्यभेदः स्यात्। तस्माद्बहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि। तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते।। 6।। 7।।  चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (तत्प्रख्यन्याये) सूत्रम्   तत्प्रख्यं चान्यशास्त्रम्।। 4।। चतुर्थाधिकरणमारचयति- अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू । विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी।। 8।। अग्नये होत्रमत्रेति बहुव्रीहिगतोऽनलः । गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते।। 9।। संस्क्रियाघारमाघारयतीत्युक्ता द्वितीयया। आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी।। 10।। अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् । चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः।। 11।। नासाधिते हि धात्वर्थे करणत्वं ततोऽस्य सा। साध्यतां वक्ति संस्कारो नैवाशङ्क्यः क्रियात्वतः।। 12।। ''अग्निहोत्रं जुहोति'' ''आघारमाघारयति'' इत्यत्राग्निहोत्रशब्दस्य कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरूपमेव न सिध्येत्। तस्मादग्निदेवतारूपो गुणोऽनेन दर्विहोमे विधीयते। आघारशब्दश्च 'घृ क्षरणदीप्त्योः' इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमाचष्टे। तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते। तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति। तस्मात् 'अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ' इति प्राप्ते- ब्रूमः- ''अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः'' इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया। ततोऽग्निसूर्यदेवताकस्य सायंप्रातःकालयोर्नियमेनानुष्ठेयस्य कर्मणः 'अग्निहोत्रम्' इति यौगिकं नामधेयम्। योगश्च बहुव्रीहिणा दर्शितः। 'चतुर्गृहीतं वा एतदभूत्तस्याघारमाघार्यः' इत्यनेनैवाज्यद्रव्यस्य प्राप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दोऽपि यौगिकं कर्मनामधेयम्। यस्मिन्कर्माणि नैर्ऋतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते, तस्य कर्मण एतन्नाम। ननु नामधेयत्वे सति ''उद्भिदा यजेत'' ''ज्योतिष्टोमेन यजेत'' इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्याय 'अग्निहोत्रेण जुहोति' 'आघारेणाघारयति' इति तृतीयया भवितव्यम्। नैष दोषः। अनुष्ठानादूर्ध्वं धात्वर्थस्य सिद्धत्वाकारेण करणत्वेऽपि ततः पूर्वं साध्यत्वाकारं वक्तुम् 'अग्निहोत्रम्' ' आघारम्' इति द्वितीयाया युक्तत्वात्। न चात्र द्वितीयानुसारेण 'व्रीहीन्प्रोक्षति' इत्यादाविव संस्कारः शङ्कनीयः। व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात्। तस्मात्- अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुण- संस्कारविधायिनौ न भवतः, किंतु कर्मान्तरयोर्नामनी।। 8।। 9।। 10।। 11।। 12।।  पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्   तद्व्यपदेशं च।। 5।। पञ्चमाधिकरणमारचयति- श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः। विधीयते पक्षिरूपो नाम वा तस्य कर्मणः।। 13।। श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया। न चित्रावद्वाक्यभेदो रूढेश्चैवमनुग्रहः।। 14।। यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता। नैकस्मिंस्तेन गौण्याऽस्य वृत्त्या स्यात्कर्मनामता।। 15।। ''श्येनेनाभिचरन्यजेत'' इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत्। ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते। तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते। न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः। चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते- ब्रूमः- ''यथा वै श्योनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन''- इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते। तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येनशब्दस्याभिचारकर्मनामत्वम्। ''संदंशेनाभिचन्यजेत'' ''गवाऽभिचर्यमाणो यजेत''- इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम्। ''यथा संदंशेन दुरादानमादत्ते'' ''यथा गावो गोपायन्ति''- इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात्।। 13।। 14।। 15।।  षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि   नामधेये गुणश्रुतेः स्याद्विधानमिति चेत्।। 6।।  तुल्यत्वात्क्रिययोर्न।। 7।।  ऐकशब्द्ये परार्थवत्।। 8।। षष्ठाधिकरणमारचयति- यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः। नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये।। 15।। साधारणयजेः कर्मकरणत्वेन तन्त्रता। त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति।। 16।। उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः। उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति।। 17।। त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः। वाजपेयेतिशब्दोऽपि कर्मनामाग्निहोत्रवत्।। 18।। ''वाजपेयेन स्वाराज्यकामो यजेत'' इत्यत्र वाजपेयशब्देन गुणो विधीयते। अन्नवाची वाजशब्दः। तच्चान्नं पेयं सुराद्रव्यम्। तच्चात्र गुणः। सुराग्रहाणामनुष्ठेयत्वात्। ननु गुणत्वे 'वाजपेयगुणवता यागेन स्वाराजं भावयेत्' इति मत्वर्थलक्षणा प्रसज्येत। मैवम्। सकृदुच्चरितस्य 'यजेत' इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात्। 'वाजपेयेन द्रव्येण स्वाराज्याय यजेत' इत्येवमुभयसंबन्धः। ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु 'यागेन स्वाराज्यं संपादयेत्' इति करणकारकत्वम्। तत्कथं तदुभयसंबन्ध इति चेत्- नायं दोषः। यजेः साधारणत्वेन द्विरूपत्वसंभवात्।'यजेत' इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते। तच्च कर्मत्वकरणत्वयोः साधारणम्। न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते। अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सति यथोचितसंबन्धविशेषः पर्यवस्यति। एवं तन्त्रेण संबन्धाङ्गीकारे 'वाजपेयद्रव्येण यागं कुर्यात्' इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा। यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते- ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात्। उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम्। उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम्। तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः, उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः। फलमुद्दिश्य यजिरुपादीयते। फलमनूद्य यजिर्विधीयते। फलं प्रधानम्। यजिरुपसर्जनम्। फलस्योद्देश्यत्वं नाम मानसापेक्षो विषयत्वाकारः। यजेरुपादेयत्वं नामानुष्ठीयमानताकारः। तावुभौ मनः शरीरोपाधिकौ धर्मौ। अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ। ज्ञातस्य कथनमनुवादः। अज्ञातस्यानुष्ठेयत्वकथनं विधिः। फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे। एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं, यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते। तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रव्यस्योपादेयत्वादित्रिकं च पर्यवस्यति। ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते। ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत्- वाक्यभेदप्रसङ्गात्। 'द्रव्येण यागं कुर्यात्' इत्येकं वाक्यम्। 'यागेन फलं कुर्यात्' इत्यपरम्। तस्माद्वाजपेयशब्दो न गुणविधायकः, किंतु यथोक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत् कर्मनामधेयम्।। 15।। 16।। 17।। 18।। सप्तमे आग्नेयादीनामनामताधिकरणे सूत्रम्   तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः।। 9।। सप्तमाधिकरणमारचयति- यदाग्नेयोऽष्टाकपाल इति नाम गुणोऽथवा। नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि।। 19।। मन्त्रोऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः। देवद्रव्यविशिष्टस्य विधानादेकवाक्यता।। 20।। दर्शपूर्णमासयोः श्रूयते ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति''- इति। तत्र यथाऽग्निहोत्रशब्दः 'अग्नये होमः' इत्यमुमर्थं निमित्तीकृत्य कर्मनामधेयम्। तथाग्नेयशब्दोऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत्- मैवम्। नामत्वे देवताराहित्यप्रसङ्गात्। अग्निहोत्रे तु- ''अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति''- इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते। इह तु न तादृशो मन्त्रोऽस्ति। आग्नेयशब्दस्तु देवतां विधातुं शक्नोति। 'अग्निर्देवताऽस्य' इत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात्। न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम्। कर्मणोऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात्। तस्मात्- आग्नेयशब्देन देवतागुणो विधीयते।। 19।। 20।। अत्र गुरुमतमाह- यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात्। इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः। 21।। उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्यभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः। गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः।। 21।।  अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्   वर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः।। 10।। अष्टमाधिकरणमारचयति- वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः। जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः।। 22।। जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः। विनाऽपि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः।। 23।। दर्शपूर्णमासयोः श्रूयते ''बर्हिर्लुनाति'' ''आज्यं विलापयति'' ''पुरोडाशं पर्यग्नि करोति'' इति। अत्र बर्हिरादिशब्दानां शास्त्रे सर्वत्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत्- मैवम्। अन्वयव्यतिरेकाभ्यां जातिवाचित्वात्। 'यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः' इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः। संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते। क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते- 'बर्हिरादाय गावो गताः' इति, 'क्रय्यमाज्यम्' इति, 'पुरोडाशेन मे माता प्रहेलकं ददाति' इति च। तस्माज्जातिवाचिनः। प्रयोजनं तु ''बर्हिषा यूपावटमवस्तृणाति'' इत्यत्र विना संस्कारेण स्तरणसिद्धिः।। 22।। 23।। अत्र गुरुमतमाह- बर्हिरादौ निमित्तस्य दुर्वचत्वान्न मेति चेत्। जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा।। 24।। स्पष्टोऽर्थः।। 24।।  नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्   प्रोक्षणीष्वर्थसंयोगात्।। 11।। नवमाधिकरणमारचयति-- प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु। तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः।। 25।। अन्योन्याश्रयतो नाद्यो न जातिः कल्प्यशक्तितः। योगः स्यात्क्लृप्तशक्तित्वात्क्लृप्तिर्व्याकरणाद्भवेत्।। 26।। दर्शपूर्णमासयोः श्रूयते ''प्रोक्षणीरासादय'' इति। तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादनादिसंस्कृतिः प्रवृत्तिनिमितम्। कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः। लोके जलक्रीडायां 'प्रोक्षणीभिरुद्वेजिताः स्मः' इत्यसंस्कृतास्वप्सु प्रयोगाद्बर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम्। न च 'प्रकर्षेणोक्ष्यत आभिः' इति योगोऽत्र शङ्कनीयः। रूढेः प्रबलत्वादिति पक्षान्तरम्। तत्र न तावत्संस्कारो युक्तः। अन्योन्याश्रयत्वात्। विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः। तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापोऽनूद्याभिमन्त्रणसिद्धिरिति। नापि जातिपक्षो युक्तः। उदकजातौ प्रोक्षणीशब्दस्य वृद्धव्यवहारे पूर्वमक्लृप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात्। ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति। योगस्तु व्याकरणेन क्लृप्तः, सोपसर्गाद्धातोः करणे ल्युट् प्रत्ययेन व्युत्पादनात्। तस्मात्- प्रोक्षणीशब्दो यौगिकः। घृतादेः प्रोक्षणत्वं प्रयोजनम्।। 25।। 26।।  दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्   तथा निर्मन्थ्ये।। 12।। दशमाधिकरणमारचयति- रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम्। आद्यौ पूर्ववदन्त्त्योऽचिरजातेर्नावनीतवत्।। 27।। अग्निचयने श्रूयते ''निर्मन्थ्येनेष्टकाः पचन्ति'' इति। तत्र 'निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः' इति संशये- बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्याद्वह्निजातौ रूढिरित्येकः पक्षः। प्रोक्षणीशब्दवद्गूढेरक्लृप्तत्वादरणिनिर्मन्थनजन्यत्वाच्च योग इति पक्षान्तरम्। लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया। आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः। चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः। सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्मथितः। तेनेष्टकाः पच्यन्ते। यथा पुराणनूतनयोर्घृतयोर्नवनीतजन्यत्वे समानेऽपि योगरूढ्या नूतनमेव 'नावनीतम्' इति व्यवह्रियते तद्वत्।। 27।।  एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13- 16   वैश्वदेवे विकल्प इति चेत्।। 13।।  न वा प्रकरणात्प्रत्यक्षविधानाच्च, नहि प्रकरणं द्रव्यस्य।। 14।।  मिथश्चानर्थसंबन्धः।। 15।।  परार्थत्वाद्गुणानाम्।। 16।। एकादशाधिकरणमारचयति- चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके। वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा।। 28।। नामत्वे रूपराहित्यादविधिर्गुणता सतः। अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु।। 29।। अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम्। अविधित्वेऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु।। 30।। इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी। निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः।। 31।। चातुर्मास्ययागस्य चत्वारि पर्वाणि- वैश्वदेवः, वरुणप्रघासः, साकमेधः, शुनासीरीयश्चेति। तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः- ''आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम्, मारुतं सप्तकपालम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्'' इति। तेषामष्टानां यागानां संनिधाविदमाम्नायते- ''वैश्वदेवेन यजेत'' इति। तत्राग्नेयादीन्यागान् 'यजेत' इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते। यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते। तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम्। नामधेयत्वे तु नाममात्रस्यावधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात्। तस्मात् 'गुणविधिः' इति प्राप्ते- ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् 'यजेत' इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते। न च विधित्वासंभवेऽपि नामोपदेशवैयर्थ्यम्, ''प्राचीनप्रवणे वैश्वदेवेन यजेत'' इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात्। नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा- आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम्। अथवा 'विश्वे देवा अष्टानां कर्तारः' इति वैश्वदेवत्वम्। तथा च ब्राह्मणम्- ''यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्'' इति। देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वेदेवा उत्पन्नशिष्टत्वाददुर्बलाः। तस्मात्- वैश्वदेवशब्दः कर्मनामधेयम्।। 28।। 29।। 30।। 31।। अत्र गुरुमतमाह- गुणनामत्वसंदेहादप्रमा चोदनेति चेत्। नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात्।। 32।। स्पष्टोऽर्थः।। 32।।  द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17- 22   पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्ये समाम्नाये।। 17।।  गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्ताऽस्ति।। 18।।  तच्छेषो नोपपद्यते।। 19।।  अविभागाद्विधानार्थे स्तुत्यर्थे नोपपद्येरन्।। 20।।  कारणं स्यादिति चेत्।। 21।।  आनर्थक्यादकारणं, कर्तुर्हि कारणानि, गुणार्थो विधीयते।। 22।। द्वादशाधिकरणमारचयति- यद्द्वादशकपालेष्टेर्वैश्वानर्या अनन्तरम्। श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः।। 33।। अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत्। द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ।। 34।। वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते। नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः।। 35।। काम्येष्टिकाण्डे श्रूयते ''वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते'' ''यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति'' इति। अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः। नात्र द्वादशकपालशब्दः संख्यापरः, किंतु पुरोडोशद्रव्यपरः। 'द्वादशसु कपालेषु संस्कृतः' इति व्युत्पत्तेः। एवमष्टाकपालादिशब्दा अपि। तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत्, एवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम्। न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालादेरनवकाश इति वाच्यम्। ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः। अयमप्युनुपपन्नः, बहूनां गुणानां विधौ वाक्यभेदापत्तेः। न च भिन्नान्येवैतानि वाक्यानीति वाच्यम्।''वैश्वानरं द्वादशकपालं निर्वपेत्'' इति विहितस्य ''यस्मिञ्जात एताम्'' इत्युपसंहारेण वाक्यैकत्वावगमात्। तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते।। 33।। 34।। 35।। अत्र गुरुमतमाह- अगुणत्वादनामत्वादमन्त्रत्वादनन्वये। अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयाऽन्वयात्।। 36।। उक्तरीत्या गुणत्वं नामत्वं च न संभवति। उत्तमपुरुषामन्त्रणाद्यभावान्न मन्त्रत्वम्। अतोऽष्टाकपालदीनाम् अनन्वयादप्रामाण्यं वाक्यस्येति चेत्- मैवम्। स्तावकत्वेनान्वयस्योक्तत्वात्।। 36।।  त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्   तत्सिद्धिः।। 23।। त्रयोदशाधिकरणमारचयति- यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः। सामानाधिकरण्येन स्यादेकस्यान्यनामता।। 37।। गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते। अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः।। 38।। अर्थभेदादनामत्वं गुणश्चेत्प्रह्रियेत सः। यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः।। 39।। इदमाम्नायते- ''यजमानः प्रस्तरः'' इति। तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम्। कुतः- ''उद्भिदा यागेन'' इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः। गुणविधिरित्यपरः पक्षः। तदाऽपि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति। प्रस्तरकार्ये स्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते। एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति। न चात्र पूर्वन्यायेन स्तुतिः संभवति। अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात्। ''वायुर्वै क्षेपिष्ठा देवता'' ''ऊर्जोऽवरुध्यै'' इत्यादिवत्स्तुतिरिति चेत्- न। क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः। तस्मात्- 'नामगुणयोरन्यतरत्वम् ' इति प्राप्ते- ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम्। गुणपक्षे तु- अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात्। तस्मात्- विधेयः प्रस्तरो यजमानशब्देन स्तूयते। यथा 'सिंहो देवदत्तः' इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते। एवं ''यजमान एककपालः'' इत्यादिषु द्रष्टव्यम्।। 37।। 38।। 39।।  चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्   जातिः।। 24।। चतुर्दशाधिकरणमारचयति- आग्नेयो ब्राह्यणोऽत्रापि पूर्ववत्सर्वनिर्णयः। द्वारं तु मुखजन्यत्वमाग्नेयत्वेन संस्तवे।। 40।। इदमाम्नायते ''आग्नेयो वै ब्राह्मणः'' इति। अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम्। नाप्यग्निदेवतारूपो गुणो विधीयते। 'आग्नेयं सूक्तम्' 'आग्नेयं हविः', इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात्। नहि ब्राह्मणः सूक्तम्, नापि हविः। अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते। यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाऽप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते। तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते ''प्रजापतिरकामयत, प्रजाः सृजेयेति, स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवताऽन्वसृज्यत, गायत्री छन्दः, रथंतरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त'' इति। तस्मात्- आग्नेयशब्दः स्तावकः। एवम्- ''ऐन्द्रो राजन्यः'' ''वैश्यो वैश्वदेवः'' इत्यादिषु द्रष्टव्यम्।। 40।।  पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्   सारूप्यात्।। 25।। पञ्चदशाधिकरणमारचयति- आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः। द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसेऽस्ति तत्।। 41।। आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपेऽप्यस्ति। घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात्। ततः- आदित्यशब्देन यूपः स्तूयते। एवं- ''यजमानो यूपः'' इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते।। 41।।  षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्   प्रशंसा।। 26।। षोडशाधिकरणमारचयति- पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम्। अजादिष्वपशुत्वं यद्गुणो वादोऽथवाऽस्तु तत्।। 42।। स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम्। अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना।। 43।। पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः। लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः।। 44।। इदमाम्नायते- ''अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः'' इति। तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति। पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात्। ततः पशुकार्यनिषेधरुपो गुणो विधीयत इति चेत्- मैवम्। अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात्। अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातम् अभिदधाति। तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति। सोऽयं प्राशस्त्याभावोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तोऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते। पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् सारूप्यं तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा। इह त्वपशुशब्दस्याजादिषु प्रवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च। द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः। स्तावकेन शब्देन संपादितो गुणोत्कर्षोऽपरः प्रकारः। गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम्। 'अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः। ईदृशो गवाश्वयोर्महिमा' इति स्तुतिफलम्। तस्मात्- ''अपशवो वै'' इत्ययमर्थवादः। अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः- ''अयज्ञो वा एष योऽसामा'' इत्येकमुदाहरणम्। ''असत्रं वा एतद्यच्छन्दोमम्'' इत्यपरमुदाहरणम्। 'अग्निहोत्रदर्शपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति। ईदृशः साम्नो महिमा'। छन्दोमशब्देन चतुर्विंशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते। अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगतीछन्दोभिर्गीयमानत्वात्। तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या। अतः 'सत्रमपि चतुर्दशरात्रादिकं छन्दोमरहितत्वादसत्रं भवति। ईदृशश्छन्दोमानां महिमा'। इत्येवं स्तावकत्वादर्थवादत्वम्।। 42।। 43।। 44।।  सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्   भूमा।। 27।। सप्तादशाधिकरणमारचयति- सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः। विधेयास्ते गुणत्वेन वादो वाऽत्र गुणे विधिः।। 45।। आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः। लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात्।। 46।। ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः। यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः।। 47।। एकयाऽस्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि। सृष्टिशब्दस्तथाऽप्युक्तिः सृष्टिशब्देन भूमतः।। 48।। अग्निचयने श्रूयते ''सृष्टीरुपदधाति'' इति। सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते। 'सृष्टिमानासामुपधानो मन्त्रः' इति विगृह्य ''तद्वानासामुपधानः''- [पा. सू. 4।4।125 ] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात्। सृष्टिशब्दोपेताश्चोपधानमन्त्राः- ''एकयाऽस्तुवत'' इत्यस्मिन्ननुवाके समाम्नाताः। ''ब्रह्मासृज्यत, भूतान्यसृज्यन्त'' इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात्। ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते। कुतः- 'उपदधाति' इत्यनेनाख्यातेनाभिसंबन्धात्। न चार्थवादत्वमस्य संभवति। विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते- ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवगम्यते। विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः। तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किंतु- तान्मन्त्राननूद्येष्टकोपधानं विधीयते। सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः। ''यथासृष्टमेवावरुन्धे'' इति हि वक्ष्यमाणोऽर्थवादः। यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोः वैयधिकरण्यभ्रमः स्यात्। तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः, किंत्वर्थवादः। ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः, किंतु दधातिधातुः प्रयुक्तः। ''एकयाऽस्तुवत'' ''प्रजाअधीयन्त'' इति तत्पाठात्। बाढम्। तथाऽपि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्भूमरूपं सादृश्यमस्ति। यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः।। 45।। 46।। 47।। 48।।  अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्   लिङ्गसमवायात्।। 28।। अष्टादशाधिकरणमारचयति- सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः। अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते।। 49।। ''प्राणभृत उपदधाति'' इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः। लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः। ''एतस्यैव प्राणान्दधाति'' इत्यस्य वक्ष्यमाणार्थवादस्योप पत्तये प्राणभृच्छब्देन मन्त्रानुवादः। पूर्वत्र- द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम्। इह तु- प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते- ''अयं पुरोभुवस्तस्य प्राणो भौवायनः''इति। एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपि 'छत्रिणो गच्छन्ति' इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते। तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः। तथा चोक्तम्- तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः। षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता।। इति।  एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्   संदिग्धेषु वाक्यशेषात्।। 29।। एकोनविंशाधिकरणमारचयति- शर्करा उपधत्तेऽक्तास्तेजो वै घृतमत्र किम्। तैलादिनाऽञ्जिता अक्ता घृतेनैवाथवाऽञ्जनम्।। 50।। तैलादिनाऽपि मुख्यत्वादसंजातविरोधनात् । अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः।। 51।। सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि। घृतेनैवाञ्जनं वाक्यशेषात्संदिग्धनिर्णयात्।। 52।। अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी। बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम्।। 53।। ''अक्ताः शर्करा उपदधाति'' ''तेजो वै घृतम्'' इति श्रूयते। मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः। ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः। कुतः- अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधका- दर्थवादात्प्रबलत्वात्। तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः। स्वार्थतया विधेर्मुख्यत्वम्, प्रथमश्रुतत्वात् चासंजातविरोधित्वम्, अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु- विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः। तस्मात्- 'येन केनाप्यञ्जनम्' इति प्राप्ते- ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा। नाद्यः। सामान्यस्याननुष्ठेयत्वात्। न द्वितीयः। घृततैलादिविशेषवाचकशब्दाभावात्। तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते। अर्थवादेऽपि घृतस्य विधिर्नास्तीति चेत्- न। विधेरुन्नेयत्वात्। ''तेजो वै घृतम्'' इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते। 'यः स्तूयते स विधीयते' इति न्यायात्। तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते- 'घृतेनाक्ता' इति। तस्मात्-घृतेनैवाञ्जनम्।। 50।। 51।। 52।। 53।।  विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्   अर्थाद्वा कल्पनैकदेशत्वात्।। 30।। विंशाधिकरणमारचयति-- स्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी। आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः।। 54।। व्यवस्थापकराहित्यात्स्त्रुवाद्या अव्यवस्थिताः। व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः।। 55।। ''स्रुवेणावद्यति'' ''स्वधितिनाऽवद्यति'' ''हस्तेनावद्यति'' इति श्रूयते। तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्रुवाद्या अवदानहेतवः संकीर्णाः। कुतः- व्यवस्थापकस्य शब्दस्याभावादिति चेत्- मैवम्। शक्तेर्व्यवस्थापकत्वात्। आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी । इति न्यायात्। 'कटे भुङ्क्ते' 'कांस्यपात्र्यां भुङ्क्ते' इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति- 'कट आसीनः,' कांस्यपात्र्यामोदनं निधाय' इति। वेदेऽपि- ''अञ्जलिना सक्तून्प्रदाय जुहुयात्'' इत्यत्र यद्यपि द्विहस्तसंयोगोऽञ्जलिः, तथाऽपि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति। तादृशेऽञ्जलौ सक्तूनामवकाशाभावात्। अतः सामर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतोऽञ्जलिर्गृहीतः। एवमत्रापि द्रवद्रव्यस्याज्यस्य स्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः। संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्रुवाद्या व्यवस्थिताः।। 54।। 55।। इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः।। 4।। अत्र पादे अधिकरणानि 20, सूत्राणि 42। आदितः अधिकरणानि 42, सूत्राणि 150। समाप्तश्च प्रथमोऽध्यायः।। 1।। ।। श्रीः।। अथ द्वितीयोऽध्यायः - कर्मभेदः द्वितीयाध्याये प्रथमः पादः आख्यातमेवापूर्वबोधकम् प्रमाणमुपजीव्यत्वात्प्रथमेऽध्याय ईरितम्। मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते।। 1।। अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः।। 1।।  प्रथमेऽपूर्वस्याख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि 1- 4   भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, एष ह्यर्थो विधीयते।। 1।।  सर्वेषां भावोऽर्थ इति चेत्।। 2।।  येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगे।। 3।।  येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि, तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य।। 4।। द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति- विधिवाक्ये पदैः सर्वैरपूर्वं प्रतिपाद्यते। प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम्।। 2।। फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः। लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम्।। 3।। विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम। विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि। कुतः- अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात। अपूर्वप्रतिपादनाभावेऽपि क्रियाकारकयोः परस्परान्वयोऽस्त्येवेति चेत्- सत्यम्। तथाऽपि प्रधानान्वयो लभ्येत। फलं हि प्रधानम्। पुरुषार्थतया साध्यमानत्वादिति प्राप्ते- ब्रूमः- अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात्। तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते। पदान्तरं तु तच्छेषतयाऽन्वेति। ननु यस्य पदस्यार्थोऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि। तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वा नामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत्- मेवम्। ''उद्भिदा यजेत पशुकामः'' ''श्येनेनाभिचरन्यजेत'' इत्यादावुद्भिदादिशब्दानां नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात्। तस्मादेकमेव पदमपूर्वप्रतिपादकम्। न च धर्मभेदचिन्तां प्रस्तुतां परित्यज्य किमित्यपूर्वं चिन्त्यत इति वाच्यम्। अपूर्वस्यैव धर्मत्वात्।। 2।। 3।। द्वितीयं वर्णकमारचयति- द्रव्यादिशब्दतोऽपूर्वधीर्भावार्थपदादुत। द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः।। 4।। क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते। भावनावाचिनोऽपूर्वमाख्यातादवगम्यते।। 5।। धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् । सर्वधात्वर्थसम्बद्धः करोत्यर्थो हि भावना।। 6।। धात्वर्थः करणं तस्यां समानपदवर्णितः। द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका।। 7।। इदमाम्नायते- ''सोमेन यजेत'' ''हिरण्यमात्रेयाय ददाति'' ''तस्मात्सुवर्णे हिरण्यं धार्यम्'' ''श्येनेनाभिचरन्यजेत'' ''चित्रया यजेत पशुकामः'' इत्यादि। तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ। तैरेतैर्द्रव्यादिशब्दैरपूर्वं प्रत्येति कुतः- द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात्। यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हति। ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते- ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते। पचिक्रियामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात्। अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वं प्रतीयते। ननु धात्वर्थ एव भावना, तदन्या वा। न तावद्धात्वर्थः। तस्य तां प्रति करणत्वोक्तेः। न द्वितीयः। धात्वर्थव्यतिरिक्तायाः क्रियाया दुर्लक्ष्यत्वादिति चेत्- मैवम्। सर्वधात्वर्थसम्बद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात्। तदुक्तमाचार्यैः- धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते। तथाऽपि सर्वसामान्यरूपेणैवावगम्यते। इति। अन्यैरप्युक्तम्- सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः। अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी। इति । 'पचति' इत्युक्ते 'पाकं करोति' इत्येतमर्थं सर्वे जनाः प्रतियन्ति। तत्र 'पाकः, पक्तिः, पचनम्' इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः। 'करोति' इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाख्यातप्रत्ययविधिः। स चाख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः। ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते- इति। अन्ये भावनापक्षा अयुक्ताः।प्रयत्नो भावनेति चेत्- न। 'रथो गच्छति' इत्यत्र तदभावप्रसङ्गात्। स्पन्द इति चेत्- न। मानसत्यागरूपे यजतावव्याप्तेः। उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत्- न। शब्दभावनायामव्याप्तिः। न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वाऽस्ति। लिङ्-लेट्-लोट्तव्यप्रत्ययमात्रगता शब्दभावना। सर्वाख्यातगताऽर्थभावना। तदुक्तम्- अभिधां भावनामाहुरन्यामेव लिङादयः। अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते। इति।। किञ्च स्पन्दादिवादिनोऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किन्त्वन्योत्पादानुकूलं स्वरूपम्। तस्मादस्मदुक्तैव भावना। यथा 'पचति', इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा 'यजति' इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला। तस्याञ्च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्ययसमानत्वात्प्रकृत्यर्थः करणम्, न तु द्रव्यादि। तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात्। साध्यरूपोऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सन् शक्नोति फलं साधयितुम्। द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः। द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना, सेयं यज्यादिधातूनामन्यतमेन केनापि नाभिधीयते। सर्वधात्वर्थानुयायित्वात्। अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम्। अस्तु तर्हि- धात्वर्थसामान्यमेव भावनेति चेत्- न। प्रतिधात्वर्थे विलक्षणरूपत्वात्। अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम्। अन्यच्च चलनस्य संयोगविभागौ प्रति। अन्यथा फलविभागानुपपत्तेः। भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम। नैतावता प्रकृत्यर्थसामान्यं तद्भवति। तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाख्यातप्रत्ययवाच्या भावना। तथा सति 'यजेत' इत्यत्राख्यातस्य 'भावयेत्' इत्यर्थो भवति। तत्र 'किं भावयेत्, केन भावयेत्, कथं भावयेत्'- इत्यकाङ्क्षायां 'स्वर्गं भावयेत् यागेन भावयेत्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत्', इत्येवं भाव्यव्यकरणेतिकर्तव्यतासमर्पणेनाकाङ्क्षापूरणात् प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः। भाव्याद्यंशत्रयवती सेयमार्थीभावनेत्युच्यते। सा सर्वाऽपि शब्दभावनाया भाव्या, विधायको लिङादिः करणम्। अर्थवादसम्पादिता स्तुतिरितिकर्तव्यता। सेयं शब्दभावना लिङादिभिरेव गम्यते। अर्थभावना सर्वैराख्यातप्रत्ययैर्गम्यत इत्युक्तम्। तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते। प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या। तथा च श्रूयते ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' ''चित्रया यजेत पशुकामः'' इति। तच्च करणत्वमपूर्वकल्पनामन्तरेण न सम्भवतीत्यभिधास्यते। तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वं गम्यते। चिन्ताप्रयोजनं तु- 'पूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः। सिद्धान्ते तु तत्सद्भावः' इति।। 4।। 5।। 6।। 7।।  द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्   चोदना पुनरारम्भः।। 5।। द्वितीयाधिकरणमारचयति- अपूर्वसदसद्भावसंशये सति नास्ति तत्। मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः।। 8।। क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम्। विरुद्धं मान्तरेणातः श्रेयोऽपूर्वस्य कल्पनम्।। 9।। अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते। अपूर्वमिति तद्भेदः प्रक्रियातोऽवगम्यताम्।। 10।। पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम्- 'अपूर्वस्यैकमेव पदं प्रत्यायकम्' तच्च 'यजेत' इत्याख्यातान्तभावार्थपदम्, इति। तदनुपपन्नम्। अपूर्वसद्भावे मानाभावात्।'यजेत' इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात्। अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत्- न। शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते- ब्रूमः- 'दर्शपूर्णमासाभ्याम्' इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम्। तद्यथोपपद्यते तथाऽवश्यं भवताऽपि कल्पनीयम्। तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम्। नाद्यः। यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात्। न द्वितीयः। मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात्। अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरुद्धमपूर्वकल्पनं ज्यायः। कल्पितेऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत्- न। 'यागावान्तरव्यापारोऽपूर्वम्' इत्यङ्गीकारात्। न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति। यदि व्यापारवतो यागस्य नाशे व्यापारो न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु। शक्तिव्यवधानेऽपि यागस्य साधनत्वमविरुद्धम्। औष्ण्यव्यवहितेऽप्यग्नौ दाहकत्वाङ्गीकारात्। यथाऽङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जलेऽनुवर्तते, तथा यागजन्यमपूर्वं नष्टेऽपि यागे कर्तर्यात्मन्यवनुवर्तताम्। तस्मादस्त्यर्पूवम्। तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययाऽवगन्तव्यः। तथा हि- प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता- प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते- 'यागेन स्वर्गे कुर्यात्' इति। 'कथं विनश्वरेण फलं कर्तव्यम्' इत्यपेक्षायाम् 'अपूर्वं कृत्वा' इत्युच्यते। 'कथमपूर्वं क्रियते' इत्यपेक्षायां 'यागानुष्ठानप्रकारेण' इति। तच्चापूर्वं दर्शपूर्णमासयोरनेकविधम्- फलापूर्वम्। समुदायापूर्वम् उत्पत्त्यपूर्वम्, अङ्गापूर्वं चेति। येन स्वर्ग आरभ्यते तत्फलापूर्वम्। अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम्। तयोरेकैकस्यारम्भायैकैकसमुदायवर्तिनां त्रयाणां यागानां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि। तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि। तत्र त्वयं विभागः- सन्निपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदुत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते तद्द्वारेण फलापूर्वे। आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते। एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि- इत्येकरूपेणेत्थंभावेन स्वीक्रियन्ते। अनयैव दिशा सर्वत्रापूर्वप्रक्रियाऽवगन्तव्या।। 8।। 9।। 10।। अत्र गुरुमतमाह- यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता। यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत्।। 11।। मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना। अभिधेयः पृथग्यागादपूर्वं कार्यमस्त्यतः।। 12।। गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति। कुतः, अन्तरेणैव तदपूर्वं फलनिष्पत्तेः। न च यागनाशात्कथं फलसिद्धिरिति वाच्यम्। न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूपत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्तर्यात्मनि वाऽवस्थाय फलमारभत इति पूर्वपक्षः। नैतद्युक्तम्, उक्तेऽर्थे प्रमाणाभावात्। न च नियोगेऽपि प्रमाणाभावः शङ्कनीयः। वैदिकलिङादीनां तदभिधायकत्वात्। ततो धात्वर्थातिरिक्तं कालान्तरभावि काम्यफलसाधनमपूर्वमस्ति।। 11।। 12।।  तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6- 8   तानि द्वैधं गुणप्रधानभूतानि।। 6।।  यैर्द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात्।। 7।।  यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्।। 8।। तृतीयाधिकरणमारचयति- अवघातादिनाऽपूर्वमुत्पाद्यं विद्यते न वा। यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा।। 13।। दृष्टे तुषविमोके तु नापूर्वं द्रव्यतन्त्रतः। स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः।। 14।। दर्शपूर्णमासयोः श्रूयते ''व्रीहीनवहन्ति'' ''तण्डुलान्पिनष्टि'' इति। तत्र अवघातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिधात्वर्थवत्'। विपक्षे- विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्कोऽवगन्तव्यः। तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्येऽवघातपेषणयोर्विधिर्व्यर्थः स्यात्। तस्मात्- अस्त्यपूर्वमिति प्राप्ते, ब्रूमः- दृष्टफले संभवत्यपूर्वं न कल्पनीयम्। यजत्यादिदृष्टान्तस्तु विषमः। तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम्। इह तु 'ब्रीहीन्' इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रोऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वं जनयति। न च विधिवैयर्थ्यम्। नखनिर्भेदनादिना तुषविमोकसंभवेऽपि 'अवघातेनैवासौ कर्तव्यः' इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात्। तस्मान्नास्त्यवघातादिजन्यमपूर्वम्।। 13।।।। 14।। अत्र गुरुमतमाह- द्वितीयां सक्तुवद्भङ्क्त्वा नियोगेऽन्वयितां क्रिया। साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः।। 15।। ''सक्तूञ्जुहोति'' इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय ''सक्तुभिर्जुहोति'' इति तृतीयात्वेन विपरिणामो वक्ष्यते, तथा ''व्रीहिभिरवहन्ति'' इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगेऽन्वेतव्येति चेत्- मैवम्। वैषम्यात्। तत्र 'होमेन सक्तुषु संस्कारो न भवति' भस्मीभूतानामन्यत्र विनियोगासंभवात्, इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम्। इह दृष्टस्तुषविमोकसंस्कार उपपद्यते, वितुषाणां तेषां पुरोडाशे विनियोगसंभवात्।। 15।।  चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9- 12   धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत्।। 1।।  तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात्।। 10।।  द्रव्योपदेश इति चेत्।। 11।।  न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात्।। 12।। चतुर्थाधिकरणमारचयति- संमार्ष्टि स्रुच इत्यत्र किं प्रधानाख्यकर्मता। गुणकर्मत्वमथवा दृष्टाभावेऽवघातवत्।। 16।। गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत्। अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया।। 17।। दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् ''स्रुचः संमार्ष्टि'' इति। तत्र संमार्जनं प्रधानकर्म। कुतः- गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च। सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास- 'तानि द्वैधं गुणप्रधानभूतानि' 'यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्' 'यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्' [पू.मी.सू. 2।1।6- 8 ] इति। यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तुं वेष्यते, तेषु कर्मसु गुणत्वम्। कुतः- तस्य कर्मणो द्रव्यप्रधानत्वात्। 'द्रव्यं प्रधानमस्य', इति बहुव्रीहिः। 'यूपं तक्षति' 'आहवनीयमादघाति' इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते। ''व्रीहीनवहन्ति'' ''तण्डुलान्पिनष्टि'' इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम्। प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम्। एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः। अतोऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते- ब्रूमः- 'स्रुच' इति द्वितीया कर्मकारके विहिता। कर्मत्वं चेप्सिततमत्वे सति भवति। 'कर्तुरीप्सिततमं कर्म' [ पा.सू. 1।4 ।49 ] इति कर्मसंज्ञाविधानात्। क्रतुसाधनत्वेन च स्रुचां युक्तमीप्सिततमत्वम्। अतः प्रधानभूताः स्रुचः। तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति। यदि स्रुक्षु दृष्टोऽतिशयो न स्यात्, तर्ह्यपूर्वं कल्पनीयम्।। 16।। 17।।  पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13- 29   स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात्।। 13।।  अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात्।। 14।।  वशावद्वा गुणार्थे स्यात्।। 15।।  न श्रुतिसमवायित्वात्।। 16।।  व्यपदेशभेदाच्च।। 17।।  गुणश्चानर्थकः स्यात्।। 18।।  तथा याज्यापुरोरुचोः।। 19।।  वशायामर्थसमवायात्।। 20।।  यत्रेति वाऽर्थवत्त्वात्स्यात्।। 21।।  न त्वाम्नातेषु।। 22।।  दृश्यते।। 23।।  अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्।। 24।।  शब्दपृथक्त्वाच्च।। 25।।  अनर्थकं च तद्वचनम्।। 26।।  अन्यश्चार्थः प्रतीयते।। 27।।  अभिधानं च कर्मवत्।। 28।।  फलनिर्वृत्तिश्च।। 29।। पञ्चमाधिकरणमारचयति- प्रउगं शंसतीत्यादौ गुणतोत प्रधानता। दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः।। 18।। स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम्। तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम्।। 19।। ज्योतिष्टोमे श्रूयते ''प्रउगं शंसति'' ''निष्केवल्यं शंसति'' ''आज्यैः स्तुवते'' ''पृष्ठैः स्तुवते'' प्रउगनिष्केवल्यशब्दौ शस्त्रविशेषनामनी। आज्यपृष्टशब्दौ तु व्याख्यातौ। अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम्। प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम्। तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम्। कुतः- तुषविमोकवद्दृष्टार्थलाभात्। पठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते- ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वाच्योऽर्थः। यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि, तदा धात्वोर्मुख्यार्थलाभाच्छ्रुतिरनुगृहीता भविष्यति। यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूपप्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योऽर्थो न स्यात्। लोके हि 'देवदत्तश्चतुर्वेदाभिज्ञः' इत्युक्ते स्तुतिः प्रतीयते। तस्य वाक्यस्य गुणसंबन्धपरत्वात्। यदा तु देवदत्तस्वरूपपरता 'यश्चतुर्वेदी तमानय' इत्यादौ, तत्र न स्तुतिप्रतीतिः। तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात्। ततश्च- 'आज्यैर्देवं प्रकाशयेत्,' 'पृष्ठैर्देवं प्रकाशयेत्' इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत। ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम्। तत्र दृष्टं प्रयोजनं नास्तीति चेत्- तर्ह्यपूर्वमस्तु।। 18।। 19।।  षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30- 31   विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात्।। 30।।  अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात्।। 31।। षष्ठाधिकरणमारचयति- देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम्। विधायकं न वाऽन्येन समत्वात्तद्विधायकम्।। 20।। यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः। आख्यातमभिधानं च प्रधानगुणकर्मणी।। 21।। अयं मन्त्र आम्नायते- ''देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह'' इति। अयमर्थः- 'गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोकेऽवतिष्ठते' इति। तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत्- मैवम्। यच्छब्दादिना विधिशक्तेः क्षीणत्वात्। सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम्। 'यच्छब्दादेः' इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः। ''बर्हिर्देवसदनं दामि'' इत्युत्तमपुरूषः। ''अग्नीदग्नीन्विहर'' इत्यामन्त्रणम्। एवं ब्रह्मणेऽपि- ''यस्योभयं हविरार्तिमार्च्छेत्'' इत्युदाहरणीयम्। तस्मात्- 'आख्यातस्य प्रधानकर्मविधायकत्वं, गुणविधायकत्वं वा' इत्येवं द्वावेव प्रकारौ न भवतः, किंतु- 'अभिधायकत्वम्' इत्यप्यस्ति तृतीयः प्रकारः। ततो न मन्त्रगताख्यातस्य विधायकत्वम्।। 20।। 21।।  सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्   तच्चोदकेषु मन्त्राख्या।। 32।। सप्तमाधिकरणमारचयति-- अहे बुध्निय मन्त्रं म इति मन्त्रस्य लक्षणम्। नास्त्यस्ति वाऽस्य नास्त्येतदव्याप्त्यादेरवारणात्।। 22।। याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम्। तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते।। 23।। आधान इदमाम्नायते ''अहे बुध्निय मन्त्रं मे गोपाय'' इति। तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात्। 'विहितार्थाभिधायको मन्त्रः' इत्युक्ते 'वसन्ताय कपिञ्जलानालभेत' इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः। 'मननहेतुर्मन्त्रः' इत्युक्ते- ब्राह्मणेऽतिव्याप्तिः। एवम्-'असिपदान्तो मन्त्रः' 'उत्तमपुरुषान्तो मन्त्रः' इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत्- मैवम्। याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात्। तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति। ''उरु प्रथस्व'' इत्यादयोऽनुष्ठानस्मारकाः। ''अग्निमीळे पुरोहितम्'' इत्यादयः स्तुतिरूपाः। ''इषे त्वा'' इत्यादयस्त्वान्ताः। ''अग्न आ याहि वीतये'' इत्यादय आमन्त्रणोपेताः। ''अग्नीदग्नीन्विहर'' इत्यादयः प्रैषरूपाः। ''अधः स्विदासीदुपरि स्विदासीत्'' इत्यादयो विचाररूपाः। ''अम्बे अके अम्बाल्यम्बिके न मानयति कश्चन'' इत्यादयः परिदेवनरूपाः। ''पृच्छामि त्वा परमन्तं पृथिव्याः'' इत्यादयः प्रश्नरूपाः। ''वेदिमाहुः परमन्तं पृथिव्याः'' इत्यादय उत्तररूपाः। एवमन्यदप्युदाहर्तव्यम्। ईदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति, यस्य लक्षणत्वमुच्येत। लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः- ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः।। इति। तस्मात्- अभियुक्तानाम् 'मन्त्रोऽयम्' इति समाख्यानं लक्षणम्।। 22।। 23।।  अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्   शेषे ब्राह्मणशब्दः।। 32।। अष्टमाधिकरणमारचयति- नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यतेऽथवा। नास्तीयन्तो वेदभागा इति क्लृप्तेरभावतः।। 24।। मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः। अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम्।। 25।। चातुर्मास्येष्विदमाम्नायते- ''एतद्ब्राह्मणान्येव पञ्च हवीँषि'' इति। तत्र ब्राह्मणस्य लक्षणं नास्ति। कुतः- वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात्। पूर्वोक्तो मन्त्रभाग एकः। भागान्तराणि च कानिचित्पूर्वैरुदाहर्तुं संगृहीतानि- हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः। परक्रिया पुराकल्पो व्यवधारणकल्फना।। इति। ''तेन ह्मन्नं क्रियते'' इति हेतुः। ''तद्दध्नो दधित्वम्'' इति निर्वचनम्। ''अमेध्या वै माषाः'' इति निन्दा। ''वायुर्वै क्षेपिष्ठा देवता'' इति प्रशंसा। ''तद्व्यचिकित्सज्जुहवानी, मा हौषाम्'' इति संशयः। ''यजमानेन संमितौदुम्बरी भवति'' इति विधिः। ''माषानेव मह्यं पचत'' इति परकृतिः। ''पुरा ब्राह्मणा अभैषुः'' इति पुराकल्पः। ''यावतोऽश्वान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति विशेषावधारणकल्पना। एवमन्यदप्युदाहार्यम्। न च 'हेत्वादीनामन्यतमं ब्राह्मणम्' इति लक्षणम्। मन्त्रेष्वपि हेत्वादिसद्भावात्। तथा हि- ''इन्दवो वामुशन्ति हि'' इति हेतुः। ''उदानिषुर्महीरीति तस्मादुदकमुच्यते'' इति निर्वचनम्। ''मोघमन्नं विन्दते अप्रचेताः'' इति निन्दा। ''अग्निर्मूर्धा दिवः ककुत्पतिः'' इति प्रशंसा। ''अधः स्विदासीदुपरि स्विदासीत्'' इति संशयः। ''कपिञ्जलानालभेत'' इति विधिः। ''सहस्त्रमयुतं ददत्'' इति परकृतिः। ''यज्ञेन यज्ञमयजन्त देवाः'' इति पुराकल्पः। 'इतिकरणबहुलं ब्राह्मणम्' इति चेत्- न।''इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्'' इत्यस्मिन्ब्राह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः। 'इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् इति चेत्- न। ''राजा चिद्यं भगं भक्षीत्याह'' ''यो वा रक्षाः शुचिरस्मीत्याह'' इत्यनयोर्मन्त्रयोरतिव्याप्तेः। 'आख्यायिकारूपं ब्राह्मणम्' इति चेत्- न।यमयमीसंवादसूक्तादावतिव्याप्तेः। तस्मात्- 'नास्ति ब्राह्मणस्य लक्षणम्' इति प्राप्ते- ब्रूमः- 'मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ' इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् 'अवशिष्टो वेदभागो ब्राह्मणम्' इत्येतल्लक्षणं भवति-इति।। 25।।  नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्   अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः।। 34।। नवमाधिकरणमारचयति- ऊहप्रवरनाम्नां किं मन्त्रताऽस्त्यथवा न हि। मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात्।। 26।। ''अग्नये जुष्टं निर्वपामि'' इत्यस्य सौर्ये चरौ 'सूर्याय जुष्टं निर्वपामि' इत्येवं पदान्तरप्रक्षेप ऊहः । ''अदीक्षिष्टायं ब्राह्मणः'' इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति 'असौ देवदत्तोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता' इति। 'आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः' इति च। एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति। कुतः- मन्त्रेण सहैकवाक्यत्वादिति चेत्- मैवम्। याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात्। न ह्यध्येतार ऊहादीन्मन्त्रकाण्डेऽधीयते। तस्मात्- नास्ति मन्त्रत्वम्।। 26।। दशम ऋग्लक्षणाधिकरणे सूत्रम्   तेषामृग्यत्रार्थवशेन पादव्यवस्था।। 35।। एकादशे सामलक्षणाधिकरणे सूत्रम्   गीतिषु सामाख्या।। 36।।  द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्   शेषे यजुः शब्दः।। 37।। दशमैकादशद्वादशाधिकरणमारचयति- नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते। पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः।। 27।। इदमाम्नायते- ''अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः। ऋचः सामानि, यजूंषि'' इति।–'त्रीन्वेदान्विदन्ति' इति त्रिविदः, त्रिविदां संबन्धिनोऽध्येतारस्त्रैविदाः। ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय इति योजना। तत्र त्रिविधानामृक्सामयजुषां व्यवस्थितं लक्षणं नास्ति। कुतः- सांकर्यस्य दुष्परिहरत्वात्। 'अध्यापकप्रसिद्धेह्यृर्ग्वेदादिषु पठितो मन्त्र ऋगादिः' इति हि लक्षणं वक्तव्यम्। तच्च संकीर्णम्। ''देवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः'' इत्ययं मन्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः। न च तस्य यजुष्ट्वमास्ति। तद्ब्राह्मणे ''सावित्र्यर्चा'' इत्यृक्त्वेन व्यवहृतत्वात्। ''एतत्साम गायन्नास्ते'' इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम्। ''अक्षितमसि'' ''अच्युतमसि'' ''प्राणसंशितमसि'' इति त्रीणि यजूंषि सामवेदे समाम्नातानि। तथा गीयमानस्य साम्न आश्रयभूता ऋचः सामवेदे समाम्नायन्ते। तस्मात्- नास्ति लक्षणम्- इति चेत्- न। पादादीनामसंकीर्णलक्षणत्वात्। 'पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः। गीतिरूपा मन्त्राः सामानि। वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि' इत्युक्ते न क्वापि संकरः।। 27।।  त्रयोदशे निगदानां यजुष्ट्वाधिकरणे सूत्राणि 38- 45   निगदो वा चतुर्थे स्याद्धर्मविशेषात्।। 38।।  व्यपदेशाच्च।। 39।।  यजूंषि वा तद्रूपत्वात्।। 40।।  वचनाद्धर्मविशेषः।। 41।।  अर्थाच्च।। 42।।  गुणार्थो व्यपदेशः।। 43।।  सर्वेषामिति चेत्।। 44।।  न ऋग्व्यपदेशात्।। 45।। त्रयोदशाधिकरणमारचयति- प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः। यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता।। 28।। परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः। तल्लक्षणेन युक्तत्वात्त्रैविध्यमिति सुस्थितम्।। 29।। ''प्रोक्षणीरासादय'' ''इध्मा बर्हिरुपसादय'' ''अग्नीदग्नीन्विहर'' ''बर्हिः स्तृणीहि'' ''इन्द्र आगच्छ'' ''हरिव आगच्छ'' इत्यादयो निगदा आम्नाताः। परप्रत्यायनार्था मन्त्रा निगदाः। एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः। कुतः- पादगीत्योर्ऋक्सामलक्षणयोरभावात्। प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वेऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः। ''उपांशुयजुषा'' ''उच्चैर्निगदेन'' इति हि धर्मभेदः- इति प्राप्ते- ब्रूमः- 'बहिर्ब्राह्मणा भोज्यन्ताम्' 'परव्राजकास्त्वन्तः' इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः। ततो मन्त्राणां त्रैविध्यं सुस्थितम्।। 28।। 29।।  चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्   अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्।। 46।। चतुर्दशाधिकरणमारचयति- देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता। ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता।। 30।। विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम्। तस्माद्वाक्यैक्यमेतेन यजुरन्तोऽवर्धायते।। 31।। दर्शपूर्णमासयोराम्नायते- ''देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम्, पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि'' इति। तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति। कुतः- एकत्वनियामकस्य दुर्वोधत्वात्। अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत्- न। एकस्मिन्पदेऽतिव्याप्तेः। पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात्- इति चेत्- मैवम्।'यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम्' इति प्रयोजकस्य बोद्धुं शक्यत्वात्। 'विभागे साकाङ्क्षम्' इत्युक्तेऽतिव्याप्तिः स्यात्। ''स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः'' इत्यत्र 'तस्मिन्' इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्क्षत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् 'एकार्थम्' इत्युच्यते। नहि तत्रैकार्थत्वमस्ति। पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम्। स्योनं समीचीनम्। सुसेवं सुष्ठु सेवितुं योग्यम्। मेध सारभूतपुरोडाशेत्यर्थः। अत्र द्वयोः समूहयोर्वाक्यद्वयमुभयवादिसिद्धम्, तत् 'एकार्थम्' इत्यनेन व्यावर्त्यते। 'एकार्थम्' इत्युक्तेऽतिव्याप्तिः स्यात्। ''भगो वां विभजतु, पूषा वां विभजतु'' इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूहयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात्, तद्व्यवच्छेत्तुं 'विभागे साकाङ्क्षम्' इत्युक्तम्। प्रकृते तु 'अग्नये जुष्टम्' इत्यादिसमूहे पृथक्कृते पूर्वो 'देवस्य त्वा' इति समूहः साकाङ्क्षो भवति। एकीकृते तु कृत्स्नस्यैक एव निर्वापोऽर्थः। एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषोऽवसानं निश्चेतुं शक्यम्।। 30।। 31।।  पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्   समेषु वाक्यभेदः स्यात्।। 47।। पञ्चदशाधिकरणमारचयति- इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे। असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात्।। 32।। छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे।अध्याहृते स्मारकत्वान्मन्त्रभेदोऽर्थभेदतः।। 33।। ''इषे त्वोर्जे त्वा'' इति श्रूयते। सोऽयं पदसमुदाय एको मन्त्रः। कुतः- अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात्। न च ''उरु प्रथस्व'' इत्यादिमन्त्रवदनुष्ठेयार्थस्मारकत्वं संभवति। क्रियापदाभावेन तदर्थप्रतीत्यभावात्- इति प्राप्ते- ब्रूमः- ''इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि'' इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ। ततस्तदनुसारेण 'छिनद्मि' इति क्रियापदेऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः। 'इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि' 'ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि' इत्यर्थभेदः। एवम्- ''आयुर्यज्ञेन कल्पताम्'' ''प्राणो यज्ञेन कल्पताम्'' इत्यादौ क्लृप्तिसामान्यरूपस्यार्थस्यैकत्वेऽप्यायुरादिभिर्भिन्न- त्वादर्थभेदवाक्यभेदयोः स्पष्टत्वात्, 'क्लृप्तीर्वाचयति' इति क्लृप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः।। 32।। 33।।  षोडशे (सप्तदशे च ) अनुषङ्गाधिकरणे सूत्रम्   अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्।। 48।। षोडशाधिकरणमारचयति- या ते अग्ने रजेत्यध्याहारो यद्वाऽनुषञ्जनम्। तनूरित्यन्यशेषत्वादध्याहारोऽत्र लौकिकः।। 34।। वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम्। अन्यशेषोऽपि बुद्धिस्थो लौकिकस्तु न तादृशः।। 35।। ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते ''या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा। उग्रं वचो अपावधीत्त्वेषं वचो अपावधीँस्वाहा। या ते अग्ने रजाशया, या ते अग्ने हराशया'' इति। अयमर्थः- 'अयसा रजतेन हिरण्येन च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनूः साऽतिशयेन वृद्धा, गह्वरे तीक्ष्णे द्रव्ये लोहेऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि' इति। तथा च ब्राह्मणम्,- ''यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीँस्वाहेति। अशनायापिपासे हवा उग्रं वचः। एनश्च वैरहत्यं च त्वेषं वचः''- इति। तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निराकाङ्क्षः।द्वितीयतृतीयमन्त्रयोराकाङ्क्षां पूरयितुमुचितो लौकिको वाक्यशेषोऽध्याहर्तव्यः। न हि 'तनूर्वर्षिष्ठा' इत्यादिभागस्तयोरन्वेतुं योग्यः तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते- ब्रूमः-वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया। ततः 'तनूर्वर्षिष्ठा' इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते। यद्यप्यसावन्यशेषः, तथाऽपि बुद्धिस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते। तस्मात्- अनुषङ्गः कर्तव्यः।। 34।। 35।। सप्तदशाधिकरणमारचयति- नानुषङ्गोऽनुषङ्गो वाऽच्छिद्रेणेत्यस्य शेषिणौ। चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते।। 36।। करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति। मन्त्रत्रयेऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते।। 37।। ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते- ''चित्पतिस्त्वा पुनातु'' ''वाक्पतिस्त्वा पुनातु'' ''देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः'' इति। तत्र तृतीयमन्त्रशेषः 'अच्छिद्रेण'- इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते। कुतः- निराकाङ्क्षत्वात्। न हि- ''चित्पतिस्त्वा पुनातु'' ''वाक्पतिस्त्वा पुनातु'' इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षाऽस्ति- इति प्राप्ते- ब्रूमः- 'मा भूच्छेषिणोराकाङ्क्षा, तथाऽपि शेषस्याकाङ्क्षाऽस्ति' इति। 'पवित्रेण रश्मिभिः' इत्युक्तं करणत्वं हि क्रियामपेक्षते। क्रिया च 'पुनातु' इत्येषा त्रिष्वपि मन्त्रेष्वेका। तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथाऽन्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति। तस्मात्- अस्त्यनुषङ्गः।। 36।। 37।।  अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्   व्यव(वा) यान्नानुषज्येत।। 49।। अष्टादशा(सप्तदशा)धिकरणमारचयति- गच्छतामितिशब्दस्यानुषङ्गोऽस्ति न वोपरि। सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्ववत्।। 38।। तदेकवचनं मध्यमन्त्रेऽङ्गानीत्यनेन हि। नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते।। 39।। अग्नीषोमीयपशौ श्रूयते ''सं ते प्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा'' इति। अयमर्थः- 'भोः पशो तव प्राणो वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम्' इति। तत्र 'यज्ञपतिः' इत्यस्मिंस्तृतीये मन्त्रे 'सम्' इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य 'गच्छताम्' इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते- इति प्राप्ते- ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन 'अङ्गानि' इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावा- न्नास्त्यनुषङ्गः। ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्याहर्तव्यः।। 38।। 39।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे अधिकरणानि 18, सूत्राणि 49। आदितः अधिकरणानि 60, सूत्राणि 199। ------------------ द्वितीयाध्यायस्य द्वितीयः पादः धातुभेदपुनरुक्त्यादिभिः कर्मभेदः  प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम्   शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्।। 1।। द्वितीयपादस्य प्रथमाधिकरणमाचरयति- ददाति यजतीत्यादौ भावनैक्यमुतान्यता। आख्यातैक्यात्तदेकत्वं धातुभेदोऽप्रयोजकः।। 1।। धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः। उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः।। 2।। इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम्। तानि चैवं श्रूयते ''सोमेन यजेत'' ''हिरण्यमात्रेयाय ददाति'' ''दाक्षिणानि जुहोति'' इति। तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम्। न च धातुभेदाद्भावनाभेदः। तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात्- इति प्राप्ते- ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम्। तच्चाख्यातं प्रतिधातु भिन्नम्। न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते। नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम्। तत आख्यातानां बहूनामेकैकधातुविशेषानुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते।। 1।। 2।। अत्र गुरुमतमाह- नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत्। धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात्।। 3।। 'कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता' इति गुरोर्मतम्। तत्र 'यजेत, दद्यात्, जुहुयात्' इत्येतेषु लिङ्प्रत्ययवाच्यस्य नियोगस्यैकत्वाद्धातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थं कृत्स्नं शास्त्रमेकम्- इति पूर्वपक्षः। प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगेऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम्- इति सिद्धान्तः।। 3।।  द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्   एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यात्।। 2।। द्वितीयाधिकरणमारचयति- समिधो यजतीत्यादावेकत्वमुत भिन्नता। धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः। 4।। अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे। विधित्वं श्रुतितो भाति संनिधेरनुवादता।। 5।। दर्शपूर्णमासयोः श्रूयते ''समिधो यजति'' ''तनूनपातं यजति'' ''इडो यजति'' ''बर्हिर्यजति'' ''स्वाहाकारं यजति'' इति। तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु 'यजति ददाति' इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत। तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत्- मैवम्। यजतिपदाभ्यासेन कर्मभेदावगमात्। कर्मैकत्वेऽभ्यासो निरर्थकः स्यात्। अथोच्येत ''समिघो यजति'' इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततोऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम्-इति। तन्न। तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात्। न तावदत्र देवताविधिः। चतुर्थीतद्धितयोरश्रवणात्। नापि द्रव्यविधिः, तृतीयान्तत्वाभावात्। ततः ''अग्निहोत्रं जुहोति'' इत्यादाविव द्वितीयान्तानां युक्तं नामत्वम्। यत्तु- चतुर्णामुपरितानां यजतिपदानामनुवादत्वम्। तदसत्। तेषां विधायकत्वात्। यथा ''समिधो यजति'' इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथाऽन्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम्। अनुवादत्वं तु पुरोवादरूपस्य ''समिधो यजति'' इत्यस्य संनिधिनाऽवगम्यते। संनिधिश्च श्रुतेर्दुर्बलः। विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते। नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात्। तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते। मैवम्। वैषम्यात्। ''अथैष ज्योतिः'' इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगमात्प्रागे संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम्। इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षिता इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते। तस्मात्- अभ्यास एवात्र भेदहेतुः।  तृतीय आघाराद्याग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3 - 8   प्रकरणं तु पौर्णमास्यां रूपावचनात्।। 3।।  विशेषदर्षनाच्च सर्वेषां समेषु ह्यप्रवृत्तिः स्यात्।। 4।।  गुणस्तु श्रुतिसंयोगात्।। 5।।  चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत।। 6।।  व्यपदेशश्च तद्वत्।। 7।।  लिङ्गदर्शनाच्च।। 8।। तृतीयाधिकरणमारचयति- एवं विद्वान्पौर्णमासीममावास्यामितीरितम्। कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम्।। 6।। कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता। वार्त्रघ्नीत्यादितो लभ्याऽनुवादस्तु न युज्यते।। 7।। वार्त्रघ्नीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता। पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा।। 8।। अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम्। सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके।। 9।। विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना। विहितस्य फलित्वेन प्राधान्यमितरे गुणाः।। 10।। इदमाम्नायते-''य एवं विद्वान्पौर्णमासीं यजते'' ''य एवं विद्वानमावास्यां यजते'' इति। अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते। आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते- ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति'' इति, ''तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्'' इति, ''ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्'' इति, ''ऐन्द्रं दध्यमावास्यायाम्'' इति, ''ऐन्द्रं पयोऽमावास्यायाम्'' इति। एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते। न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात्। अत एवोक्तम्- ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी। रूपवन्तौ ततो यागौ विधीयेते पृथक्तया। इति। ''सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्'' इति ध्रौवस्य साधारणत्वं श्रुतम्। देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम्- ''तस्माद्वार्त्रघ्नी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायाम्'' इति वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते। तत्र- ''अग्निर्वृत्राणि जङ्घनत्'' इत्येको वार्त्रघ्रो मन्त्रः। 'त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा' इत्यपरः। तयोरुक्तावग्नीषोमौ पौर्णमासदेवते। एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते। आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते। षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात्। न केवलं तदानर्थक्यम्, किंतु ''पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत'' इत्येतदपि व्यर्थं स्यात्। न चैतत्कालविधायकम्, ''यदाग्नेयः--'' इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात्। कर्मान्तरत्वे तु कालं विधास्यति। तस्मात्कर्मान्तरविधिः- इति प्राप्ते- ब्रूमः- आस्तां तावद्द्रव्यम्। देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते। वार्त्रघ्न्योर्वृधन्वत्योश्चाज्यभागदेवताप्रतिपादकत्वात्। हौत्रे मन्त्रकाण्डे सामिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाम्नाते। लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते। ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते। यत्तु ''वार्त्रघ्नी पौर्णमास्याम्'' इत्यादि वाक्यम्, तल्लिङ्गक्रमक्लृप्तयोराज्यभागाङ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे। न तु नूतनकर्माङ्गतामनयोर्विदधाति। अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति, किं तर्हि पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति। न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः। तत्कालविहितयोर्याग त्रिकयोरुपलक्षितत्वात्। न चानुवादो व्यर्थः। समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात्। तत्सिद्धौ च ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते। यदप्युक्तम्- अनुवादपक्षे 'पौर्णमास्याम्' इत्यादिवाक्यवैर्थ्यम्- इति। तदयुक्तम्। कालविधानासंभवेऽप्येकस्य त्रिकस्य सहप्रयोगविधानात्। आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः 'पोर्णमास्या' इत्यनेन तृतीयैकवचनान्तेन विधीयते। एवमितरत्रापि। ननु- विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वम्। तस्य यागाविधायकत्वाभ्युपगमात्। 'आग्नेयोऽष्टाकपालः' इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि- इति चेत्- न। तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात्। प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत। आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः। तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम्। किंचानुवादत्वमनभ्युपगम्य कर्मान्तरविधिं वदतः प्रयाजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत्। तथा हि ''समिधो यजति'' ''आघारमाघारयति'' इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः। ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां च'' इत्यादयः कालयुक्ता अपरे। तेषामुभयेषां प्रकृतत्वात् ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः। 'दर्शपूर्णमासाभ्याम्' इति द्विवचनं बहुवचनत्वेन परिणेतव्यम्। विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति। एतेषु द्वित्वासंभवात्। सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात्। तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात्। अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात्, समुदायद्वित्वेन द्विवचनार्हत्वाच्चाग्नेयादीनामेव फलसंबन्धेन प्राधान्यम्। प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः। तस्मात्- विद्वद्वाक्यमनुवादकम्।। 6।। 7।। 8।। 9।। 10।।  चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9- 12   पौर्णमासीवदुपांशुयाजः स्यात्।। 9।।  चोदना वाऽप्रकृतत्वात्।। 10।।  गुणोपबन्धात्।। 11।।  प्राये वचनाच्च।। 12।। चतुर्थाधिकरणमारचयति- उपांशुयाजमित्येषोऽनुवादोऽत्राथवा विधिः। विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता।। 11।। जामित्वोक्तेरन्तराल उपांशुगुणके विधौ। सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः।। 12।। इदमाम्नायते ''जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति। विष्णुरुपांशु यष्टव्योऽजामित्वाय। प्रजापतिरुपांशु यष्टव्योऽजामित्वाय। अग्नीषोमावुपांशु यष्टव्यावजामित्वाय''- इति। तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत्- मैवम्। आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम्। न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते। पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम्। न चात्र 'यजति' इति वर्तमानापदेशः शङ्कनीयः। पञ्चमलकारस्याश्रयणात्। अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनामकत्वम्। सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात्। न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः। समाधातव्येन जामित्वदोषेणोपक्रमात्, अजामित्वेन समाधानेनोपसंहाराच्च 'जामि वै' इत्यादेः 'अजामित्वाय' इत्यन्तस्य सर्वस्यमहावाक्यस्यैकत्व प्रतीतेः। न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति। न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः।ध्रौवस्य तद्द्रव्यत्वात्। नापि देवताया अभावः, नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात्। तस्मात्- यजतीत्येतद्विधायकम् ।। 11।। 12।।  पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13- 16   आघाराग्निहोत्रमरूपत्वात्।। 13।।  संज्ञोपबन्धत्वात्।। 14।।  अप्रकृतत्वाच्च।। 15।।  चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्संनिधेर्गुणार्थेन पुनः श्रुतिः।। 16।। पञ्चमाधिकरणमारचयति-- अग्निहोत्राघारवाक्यमनुवादोऽथवा विधिः। अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते।। 13।। गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता। रूपं दध्यादिमन्त्राभ्यामतोऽसौ गुणिनो विधिः।। 14।। इदमाम्नायते ''अग्निहोत्रं जुहोति'' ''दध्ना जुहोति'' ''पयसा जुहोति'' इति च। इदमपरमाम्नायते- ''आधारमाघारयति'' ''ऊर्ध्वमाघारयति'' ''ऋजुमाघारयति'' इति च। तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः, आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य। न त्वेतद्वाक्यद्वयं कर्मविधायकम्। कुतः- द्रव्यदेवतालक्षणस्य यागरूपस्याभावात्- इति चेत्- तत्र वक्तव्यम्- किं दध्यादिवाक्येन गुणमात्रं विधीयते, किंवा गुणविशिष्टकर्म। नाद्यः। अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात्। द्वितीये विधिगौरवं स्यात्। तच्च सत्यां गतावयुक्तम्। अतोऽग्निहोत्रादिवाक्यं कर्मविधायकम्। तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते। देवता तु मान्त्रवर्णिकी। आघारेऽप्येवं द्रव्यदेवते उन्नेतव्ये।। 13।। 14।।  षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20   द्रव्यचोदना पशुसोमयोः, प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन।। 17।।  अचोदकाश्च संस्काराः।। 18।।  तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदोद्रव्यगुणीभावात्।। 19।।  संस्कारस्तु न भिद्येत, परार्थत्वाद्द्रव्यस्य गुणभूतत्वात्।। 20।। षष्ठाधिकरणमारचयति- यजत्यालभतीत्येतावनुवादौ विधी उत। गृह्णात्यवद्यतीत्याभ्यां विहितेऽर्थेऽनुवादिनौ।। 15।। नानुवादोऽपुरोवादे यज्यालभ्योरतो विधिः। ग्रहणे सोमसंस्कारोऽवदाने पशुसंस्क्रिया।। 16।। ''सोमेन यजेत'' इति श्रूयते। तत्र ''ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति'' इत्यादीन्यपि श्रुतानि। एवम् ''अग्निषोमीयं पशुमालभेत'' इति श्रूयते। तत्र ''हृदयस्याग्रेऽवद्यति। अथ जिह्वायाः। अथ वक्षसः'' इत्यादीन्यपि श्रुतानि। तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते। इन्द्रवाय्वादिप्रातिपदिकैर्देवतानां, तद्धितेन सोमरसद्रव्यस्य च प्रतीयमानत्वात्। एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ''सोमेन यजेत'' इत्यनेनानूद्यते। तथाऽवदानवाक्येषु हृदयादिद्रव्यं श्रुतम्। ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते। तदनुवादेन पश्वालम्भवाक्येऽग्नीषोमरूपा देवता विधीयते। तस्मात्- अवदानवाक्यविहितानां यागानां समुदायः- ''पशुमालभेत'' इत्यनेनानूद्यते- इति प्राप्ते- ब्रूमः- सति हि पुरोवादेऽनुवादो भवति। न चात्र पुरोवादोऽस्ति। ''सोमेन यजेत'' इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः। नहि ग्रहणं यजनं भवति। नापि तद्धितप्रत्ययोक्तो रसः सोमलता। न च तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम्- इति शङ्कनीयम्।''धारया गृह्राति'' इति रसस्यैव प्रकृतत्वात्। तथा ''पशुमालभेत'' इत्यनेन प्रतीतोऽर्थो नावदानवाक्येषु प्रतीयते। ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते। ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते। अवदानवाक्यैश्च पशुसंस्कारः।। 14।। 16।।  सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्   पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यात्।। 21।। सप्तमाधिकरणमारचयति-- आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता। एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत्।। 17।। आख्यातमात्रं नो मानं संख्यया बहुकर्मता। आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः।। 18।। पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत्। विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः।। 19।। बहुत्वोपेतपशुभिर्देवयोगादभिन्नता। रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता।। 20।। देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः। बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा।। 21।। ''तिस्त्र आहुतीर्जुहोति'' इति श्रूयते। तत्र 'जुहोति' इत्येतदाख्यातं 'समिधो यजति' इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाम्नातम्। तत एकमिदं कर्म। त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या। यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत्- इति प्राप्ते- ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम्। नाद्यः। वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात्। द्वितीये त्रित्वसंख्यया विशेषितेनाख्यातेन कर्मबहुत्वं गम्यते। प्रयाजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम्। इह त्वेतद्विधितः पूर्वं कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम्। तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते, कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात्। इदं त्वत्रोदाहरणम्- ''सप्तदश प्राजापत्यान्पशूनालभते'' इति। अत्र 'प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः' इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम्। ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म। या तु 'सप्तदश' इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता। तस्मात्- 'न कर्मभेदमापादयति' इति प्राप्ते- ब्रूमः-अत्र 'प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः' इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने। तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः। एवं सति 'प्राजापत्यः' इत्यनेन तद्धितान्तप्रातिपदिकेनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते। तादृशानां रूपाणां बहुत्वाय बहुवचनम्। बहुत्वविशेषश्च 'सप्तदशः' इति निर्दिश्यते। तस्मात्- अत्र संख्यया कर्मभेदः। एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वम् उपपद्यते।। 17।। 18।। 19।। 20।। 21।।  अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्   संज्ञा चोत्पत्तिसंयोगात्।। 22।। अष्टमाधिकरणमारचयति- अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक्। गुणः सहस्रदानात्मा ज्योतिष्टोमे ह्यनूदिते।। 22।। अथेति प्रकृते छिन्न एतच्छब्दोऽग्रगं वदेत्। संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया।। 23।। ''अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत'' इति श्रूयते। अत्र प्रकृतं ज्योतिष्टोमम् 'एष ज्योतिः' इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते- इति चेत्- न। प्रकृतस्य ज्योतिष्टोमस्य 'अथ' इत्यनेन विच्छिन्नत्वात्। न चैवं सति 'अथैष ज्योतिः' इत्युक्त एतच्छब्दोऽनुपपन्न इति वाच्यम्। संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवागामिसंनिहितस्यापि परामर्शसंभवात्। आगामिसंनिहितश्च ज्योतिः शब्दार्थः। स च ज्योतिःशब्दोऽतीतमपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते। ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथाऽत्रापि संज्ञया कर्म भिद्यते। विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः।। 22।। 23।।  नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्   गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात्।। 23।। नवमाधिकरणमारचयति- गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति। गुणो देवाननूद्योक्तसमुच्चयविकल्पतः।। 24।। आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम्। गुणोऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम्।। 25।। ''तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्'' इति श्रूयते। घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम्। तत्र- आमिक्षाद्रव्यभाजो ये विश्वेदेवा उक्ताः, ते 'वाजिभ्यः' इत्यनेनानूद्यन्ते। 'वाजोऽन्नमामिक्षारूपमेषामस्ति' इति तन्निष्पत्तेः। ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते। तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वा, इति प्राप्ते- ब्रूमः- उत्पत्तिशिष्टेनामिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरत्वमापादयति। ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम्।। 24।। 25।।  दशमे द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्   अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत।। 24।। दशमाधिकरणमारचयति- दधिहोमेऽन्यकर्मत्वं गुणो वाऽन्यत्तु पूर्ववत्। निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः।। 26।। ''दध्ना जुहोति'' इति श्रूयते। तत्र ''अग्निहोत्रं जुहोति'' इत्येतस्मात्प्रकृतात्कर्मणोऽन्यद्दधिहोमरूपं कर्म- इति पूर्वन्यायेनावगम्यते। यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत्- न। वैषम्यात्। यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाऽग्निहोत्रं न गुणान्तरावरुद्धम्। प्रत्युत- निर्गुणत्वाद्गुणमाकाङ्क्षति। तस्मादयं गुणविधिः। एवं ''पयसा जुहोति'' इत्यादिषु द्रष्टव्यम्। पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतायां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहियववद्विकल्पः।। 26।।  एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25- 26   फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात्।। 25।।  अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत।। 26।। एकादशाधिकरणमारचयति-- यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक्। गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः।। 27।। मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु। गुणे विधेये धात्वर्थो विहितत्वादनूद्यते।। 28।। ''दध्नेन्द्रियकामस्य जुहुयात्'' इति श्रूयते। तदिदं प्रकृतादग्निहोत्रादन्यत्कर्म। नत्वत्र द्रव्यविधिः। कुतः- 'इन्द्रियकामस्य' इत्यक्तस्य फलस्य धात्वर्थमन्तरेण द्रव्यमात्रादनिष्पत्तेः-इति चेत्- नैवम्। कर्मान्तरविधौ 'दधिमता होमेनोन्द्रियं भावयेत्' इति मत्वर्थलक्षणाप्रसङ्गात्। गुणविशिष्टक्रियाविधौ, गौरवात्। प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गाच्च। गुणमात्रं तु फलाय विधीयते। यद्यपि 'दध्ना जुहोति' इति प्राप्तम्। तथाऽपि फलसंबन्धो न प्राप्तः। धात्वर्थाभावे फलासंभव इति चेत्- न। ''अग्निहोत्रं जुहोति'' इति विहितस्य धात्वर्थस्यानूद्यमानत्वात्।। 27।। 28।।  द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्   समेषु कर्मयुक्तं स्यात्।। 27।। द्वादशाधिकरणमारचयति-- उक्त्वाऽग्निष्टुतमेतस्य वारवन्तीयसाम हि। रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये।। 29।। रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः। रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः।। 30।। साम्नोऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता। तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले।। 31।। ''त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत'' इत्यस्य संनिधौ श्रूयते ''एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत'' इति। अस्यायमर्थः- अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहोऽग्निष्टुन्नामकः। स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया 'त्रिवृत्' इत्युच्यते। अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्येऽग्निष्टोमसंस्थारूपत्वात् 'अग्निष्टोमः' इत्यप्युच्यते। प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते। तेन च साम्नाऽग्निष्टोमयागस्य समाप्यमानत्वात् 'अग्निष्टोमसाम' इत्युच्यते। तच्च प्रकृतौ ''यज्ञायज्ञा वो अग्नयः'' इत्याद्याग्नेयीष्वृक्षु गीयते। अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम्। तञ्च प्रकृताविवैकविंशस्तोमयुक्तम्। पशुकामस्य तु ''रेवतीर्नः सधमादः''- इत्यादिषु रेवतीष्वृक्षु वारवन्तीयं साम गायेत्, इति। तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सोऽयं पशुफलायाग्निष्टुति विधीयते। 'एतस्यैव' इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात्। यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृतेऽग्निहोत्रे दधिगुणो विहितः,तद्वत्। इति प्राप्ते- ब्रूमः-विषमो दृष्टान्तः। दध्नो होमजनकत्वं न शास्त्रेण बोधनीयम्। तस्य लोकतोऽवगन्तुं शक्यत्वात्। फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः। इह तु- रेवत्यृगाधारकवारवन्तीयसाम्नोऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः। तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते। एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ।। 29।। 30।। 31।।  त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28- 29   सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः।। 28।।  सर्वस्य वोक्तकामत्वात्तस्मिन्कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः।। 29।। त्रयोदशाधिकरणमारचयति- वृष्ट्यन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम्। निधनान्यपि हीषूर्गू इति वृष्ट्यादिकामिनाम्।। 32।। फलान्तरं किं वृष्ट्यादि हीषादीनामुतोदिते। सौभरे फलसंभिन्ने निधनं विनियम्यते।। 33।। फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति। सौभरस्य फलं वृष्टिर्हीषियुक्त्या विवर्धते।। 34।। नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया। नियमेऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते।। 35।। ''यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे'' इति समाम्नाय पुनः समाम्नातम्- ''हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय'' इति। सौभरं नाम सामविशेषः। निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नोऽन्तिमो भागः। तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्योऽन्यानि वृष्ट्यादिफलानि जनयितुं विधीयन्ते। कुतः- हीषादिविधिवाक्ये 'वृष्टिकामाय' इत्यादिना चतुर्थीश्रवणात्। तादर्थ्यं ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति। तच्छेषत्वं च पुरुषाभिलषितफलसाधनत्वे सत्युपपद्यते। ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः। तदुभयमेलनान्महती वृष्टिः- इति प्राप्ते- ब्रूमः-सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते। ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम्। अथोच्येत- नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः- इति। तन्न। फलत्रयकामानां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात्। तादर्थ्यं तु फलान्तराभावेऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमान त्वादुपपद्यते। तस्मात्- अयं निधनविशेषनियमनविधिः।। 32।। 33।। 34।। 35।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे अधिकरणानि 13, सूत्राणि 29। आदितः अधिकरणानि 73, सूत्राणि228। द्वितीयाध्यायस्य तृतीयः पादः रथन्तरादीनां कर्मभेदप्रामाण्यापवादः।  प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2   गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूतत्वात्।। 1।।  एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात्।। 2।। तृतीयपादस्य प्रथमाधिकरणमारचयति- रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत्। ऐन्द्रवायवशुक्राग्राग्रयणाग्रा ग्रहाः श्रुताः।। 1।। रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः। गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः।। 2।। सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके। ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम्।। 3।। ज्योतिष्टोमप्रकरणे श्रूयते ''यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्। यदि बृहत्सामा शुक्राग्रान्। यदि जगत्सामाग्रयणाग्रान्'' इति। तत्र- सोमशब्देन सोमलतासाधनको यागोभिधीयते। तस्मिंश्च यागे माध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि। ''अभि त्वा शूर'' इत्येतस्यां योनावुत्पन्नं रथंतरम्। ''त्वामिद्धि इवामहे'' इत्येतस्यामुत्पन्नं बृहत्। जगतीछन्दस्कायामृच्युत्पन्नं जगत्। ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते। दारुपात्रेषु सोमरसस्य ग्रहणाद्ग्रहा भवन्ति। सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः। बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्षे आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः। तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते। तस्मात्- ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते- इति प्राप्ते- ब्रूमः- ''यदि रथंतरसामा सोमः स्यात्'' इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते। समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते। न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति। तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वेऽपि पृष्टस्तोत्रे रथंतरादियोगस्यापि सद्भावात्। किं तर्हि व्यावर्त्यत इति चेत्- रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः। रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः। तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते। एवमितरत्रापि। तस्मात्- गुणविधिः। ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोमयागानां प्रकृतिः। नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति। अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके ''यदि जगत्तामा'' इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्येऽहनि व्यवस्थापितम्। बाढम्, तथाऽपि नात्र कश्चिद्विरोधः। आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु 'अन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम्' इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात्।। 1।। 2।। 3।।  द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्   अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते।। 3।। द्वितीयाधिकरणमारचयति- राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुताऽत्र तु। विप्रक्षत्रियविड्भेदाद्धविषां व्यत्ययः क्रमे।। 4।। विप्रादेरनुवादः स्यात्प्रापणं वाऽनुवादगीः। व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि।। 5।। न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः। अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता।। 6।। राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते ''आग्नेयमष्टाकपालं निर्वपेत्, हिरण्यं दक्षिणा। ऐन्द्रमेकादशकपालम्, ऋषभो दक्षिणा। वैश्वदेवं चरुम्, पिशङ्गी प्रष्ठौही दक्षिणा। मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा। बार्हस्पत्यं चरुम्, शितिपृष्ठो दक्षिणा'' इति। तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते ''यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वा तमभिघारयेत्। यदि राजन्य ऐन्द्रम्। यदि वैश्यो वैश्वदेवम्'' इति। तत्र यथा पूर्वाधिकरणे- ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं 'यदि ब्राह्मणः'- इत्यादि निमित्तत्वेनानूद्यते। द्वितीयस्थाने श्रुतस्यैन्द्रस्य तृतीयस्थानेवस्थापयितुं 'यदि राजन्यः' इत्यनुवादः। वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्येनिधानविधिर्नित्यानुवादः। ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत्- न। तयोरपि राज्ययोग हेतुराजशब्दार्थत्वात्, इति प्राप्ते- ब्रूमः-राजशब्दः क्षत्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम्। प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम्। 'राज्ञः कर्म' इति विगृह्य राजप्रातिपदिकस्योपरि प्रत्ययविशेषविधानात्। ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः। तस्मात्- अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते। ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम्- इति चेत्- मैवम्। अन्तरवेष्टौ तदसंभवेऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात्। तस्मात्- अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम्। यदिशब्दस्तु निपातत्वादनर्थकोऽर्थान्तरवाची वेत्युन्नेयम्।। 4।। 5।। 6।।  तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्   आधाने सर्वशेषत्वात्।। 4।। तृतीयाधिकरणमारचयति- वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम्। अनुवादः प्रापणं वाऽनुवादः कालसिद्धये।। 7।। अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात्। क्लृप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः।। 8।। लौकिकाग्नेः पुस्तकाञ्च तत्सिद्धेर्नास्ति कल्पनम्। कालविप्रादिसंयुक्तमतोऽप्राप्तं विधीयते।। 9।। ''वसन्ते ब्राह्मणोऽग्नीनादधीत। ग्रीष्मे राजन्यः। शरदि वैश्यः'' इति श्रूयते। ''वसन्ते ब्राह्मणमुपनयीत। ग्रीष्मे राजन्यम्। शरदि वैश्यम्'' इति च। तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते। न च तेषां प्राप्त्यभावः। क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात्। न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति। अग्निश्च नाधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणासंभवन्ती ब्राह्मणाद्युपनयनं कल्पयति- इति तत्र प्राप्तिः- इति चेत्- मैवम्। लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः। तस्मात्- वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते।। 7।। 8।। 9।।  चतुर्थे दाक्षायणादीनां गुणताधिकरणे सूत्राणि 5- 11   अयनेषु चोदनान्तरं संज्ञोपबन्धात्।। 5।।  अगुणाच्च कर्मचोदना।। 6।।  समाप्तं च फले वाक्यम्।। 7।।  विकारो वा प्रकरणात्।। 8।।  लिङ्गदर्शनाच्च।। 9।।  गुणात्संज्ञोपबन्धः।। 10।।  समाप्तिरविशिष्टा।। 11।। चतुर्थाधिकरणमारचयति- यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत्। कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये।। 10।। गुणस्यास्याप्रसिद्धत्वात्कर्मभेदोऽत्र संज्ञया। गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत्।। 11।। दर्शपूर्णमासप्रकरणे श्रूयते ''दाक्षायणयज्ञेन स्वर्गकामो यजेत'' इति। तत्र- दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यजिसामानाधिकरण्येन कर्मनामत्वात्। ''अथैष ज्योतिः'' इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत्- न। दाक्षायणशब्दस्यावृत्तिवाचकत्वात्। तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वाऽवगम्यते। तथा हि- 'अयनम्' इत्यावृत्तिरुच्यते। 'दक्षस्येमे दाक्षाः, तेषामयनम्' इति तन्निर्वचनम्। दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः। तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः। तथा चावृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः। आवृत्तिप्रकारस्तु ''द्वे पौर्णमास्यौ यजेत। द्वे अमावास्ये'' इत्यादिवाक्यशेषादवगम्यते। ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्ध्यर्थमावृत्त्याख्यगुणविधिः। न तूद्भिदादिवत्कर्म नामधेयम्। एवं ''साकंप्रस्थायीयेन यजेत पशुकामः'' इत्यत्रापि द्रष्टव्यम्। अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकंप्रस्थाप्यः। तद्युक्तो यागः साकंप्रस्थायीयः। तथासति प्रकृते दर्शयागे पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते।। 10।। 11।।  पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12- 15   संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात्।। 12।।  यावदुक्तं वा कर्मणः श्रुतिमूलत्वात्।। 13।।  यजतिस्तु द्रव्यफलभोक्तृसंयोगादि तेषां कर्मसंबन्धात्।। 14।।  लिङ्गदर्शनाच्च।। 15।। पञ्चमाधिकरणमारचयति- वायव्यः श्वेत आलभ्यो भूत्यै सौर्यं चरुं तथा। निर्वपेद्ब्रह्मतेजोर्थमीषामुष्टिनिरुप्तयोः।। 12।। गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी। फलार्थे अथवा यागे विशिष्टौ विहिताविह।। 13।। श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे। चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः।। 14।। फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत्। द्रव्यादिरूपसंपत्तेरवार्या यागतार्थिकी।। 15।। अनारभ्येदमाम्नायते- ''वायव्यं श्वेतमालभेत भूतिकामः'' इति, ''सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इति च। तथा दर्शपूर्णमासयोरिदमाम्नायते ''ईषामालभेत'' इति, ''चतुरो मुष्टीन्निर्वपति'' इति च। ईषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः। तस्या आलम्भः स्पर्शः। तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते। तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति। तथा- चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते। चरुः स्थाली। सा च निर्वापस्याश्रयः। निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यत्वम्। भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते। तस्मीत्- गुणविधी- इत्येकः पूर्वपक्षः। नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम्। तस्मात्- गुणफलविशिष्टे कर्मान्तरे विधीयेते। तदाऽपि यागस्याश्रवणादालम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः। श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः। 'भूतिकामो वायव्येन श्वेतेन पशुना यजेत' 'ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत' इत्येवंविधोऽर्थसिद्धो विधिः। द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत्- 'अनुवादः' इति ब्रूमः- इति सिद्धान्तः।। 12।। 13।। 14।। 15।।  षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17   विशये प्रायदर्शनात्।। 16।।  अर्थवादोपपत्तेश्च।। 17।। षष्ठाधिकरणमारचयति- वत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः। स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः।। 16।। अग्निहोत्रदोहाधिकारे श्रूयते ''वत्समालभेत'' इति। तत्र 'विमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्' इति चेत्- न। देवताराहित्येन तद्वैषम्यात्। किंच- 'अयं वत्सालम्भोऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्'। तस्मात्- अयं स्पर्शमात्रविधिः।। 16।।  सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्   संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात्।। 18।। सप्तमाधिकरणमारचयति- चरुर्भवति नैवार उपधत्ते चरुं त्विति। यागः स्यादुपधानं वा यागः शेषोक्तदैवतः।। 17।। यागत्वानिश्चये शेषो नापेक्ष्योऽतो यजिः कुतः। किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम्।। 18।। अग्नौ श्रूयते ''नैवारश्चरुर्भवति'' इति, ''चरुमुपदधाति'' इति च। तत्र नीवारचरुद्रव्यको यागो विधीयते। न चात्र देवताया अभावः। ''बृहस्पतेर्वा एतदन्नं यन्नीवाराः'' इति वाक्यशेषेण देवतासिद्धेः। उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत्- इति प्राप्ते- ब्रूमः- यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताक्लृष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः। इत्यन्योन्याश्रयः। तस्मात्- इहोपधानमात्रं विधीयते ।। 17।। 18।।  अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्   पात्नीवते तु पूर्वत्वादवच्छेदः।। 19।। अष्टमाधिकरणमारचयति- पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ। यागो गुणो वा यागः स्यादन्वयाव्यवधानतः।। 19।। प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः। गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये।। 20।। न दुष्टा परिसंख्याऽत्र चोदकात्प्राग्विधौ सति। पर्यग्निकरणान्ताङ्गरीतिः क्लृप्तोपकारतः।। 21।। ''त्वाष्ट्रं पात्नीवतमालभेत'' इति प्रकृत्येदमाम्नातम्- ''पर्याग्निकृतं पात्नीवतमुत्सृजन्ति'' इति। तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादयं यागविधिः। एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते। सिद्धान्ते तु ''पर्यग्निकृतमुत्सृजन्ति'' इत्यन्वयं वाञ्छन्ति। तदा व्यवहितान्वयो दुर्वारः। तस्मात्- वायव्यपशुवद्यागविधिः- इति प्राप्ते- ब्रूमः-अनारभ्याधीतत्वान्नास्ति वायव्ये प्रकृतप्रत्यभिज्ञा। इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते। तमनूद्य पर्यग्निकृतशब्दान्वितेन 'उत्सृजन्ति' इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते। न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थकोऽयं विधिरितिवाच्यम्। उपरितनाङ्गाननुवृत्तेर्विधिप्रयोजनत्वात्। नन्वेवं सति परिसंख्या स्यात्। सा च दोषत्रयदुष्टा। स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तबाधश्चेति त्रयो दोषाः। पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वीक्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन्। मैवम्। 'पर्यग्निकरणोत्तरभावीन्यङ्गानि नानुष्ठेयानि' इत्येतस्याः परिसंख्याया अनङ्गीकारात्। कथं तर्हि तन्निवृत्तिः- 'आर्थिकी' इति ब्रूमः। चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात्। तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते। न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्यप्राप्तिरिति वाच्यम्। विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्क्लृप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात्। प्रकृतौ च प्राचीनाङ्गानन्तरभाविन एवोपकारः क्लृप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति। एवं च सति 'उत्सृजन्ति' इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनाऽनूद्यते। तदेवमत्र गुणविधिः।। 19।। 20।। 21।।  नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्   अद्रव्यत्वात्केवले कर्मशेषः स्यात्।। 20।। नवमाधिकरणमारचयति- यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम्। तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः।। 22।। ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः। गुणोऽतस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना।। 23।। अनारभ्य श्रूयते ''एष वै हविषा हविर्यजते, योऽदाभ्यं गृहीत्वा सोमाय यजते'' इति ''परा वा एतस्यायुः प्राण एति, योंऽशुं गृह्णाति'' इति च। तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो 'यजते' इत्याख्यातेन विधीयते। 'अंशुम्' इत्यत्र यजतेरश्रवणेऽपि नामविशेषबलादेवापूर्वयागविधिः। न चात्र द्रव्यदेवतयोरभावः। ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वावगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः-इति प्राप्ते- ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम्। ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः। 'गृहीत्वा' इतिशब्दस्यानन्तरमेव पाठात्। यजतिस्तु व्यवहितः। तादृशोऽपि यजिरंशुवाक्ये नास्ति। तस्माद्ग्रहयोरेवात्र विधिः। ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात्। यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथाऽपि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोमगामित्वम्। अत एव 'सोमायादाभ्यं गृहीत्वा' इति निर्दिश्यते। अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम्। तस्मात्-ज्योतिष्टोमे गुणविधिः।। 22।। 23।।  दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23   अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत।। 21।।  द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात्।। 22।।  तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि।। 23।। दशमाधिकरणमारचयति- अग्निं चिनुत इत्यत्र यागो वा संस्कृतिर्यजिः। लिङ्गेन यागनामत्वाद्यजिना चानुवादतः।। 24।। रूढ्या द्रव्यस्य नामैतद्वह्नेराधानवच्चितिः। संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते।। 25।। ''य एवं विद्वानग्निं चिनुते'' इत्येवं विधाय श्रूयते ''अथातोऽग्निमग्निष्टोमेनानुयजति, तमुक्थ्येन तं षोडशिना, तमतिरात्रेण'' इत्यादि। अत्र-अग्निशब्दो यागवाची। स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात्। तच्च लिङ्गमेवं श्रूयते 'अग्नेः स्तोत्रं, अग्नेः शस्त्रम्' इति, 'षडुपसदोऽग्नेश्चित्यस्य भवन्ति' इति च। यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापकेऽस्तु। ''अग्निमग्निष्टोमेनानुयजति'' इत्येतस्मिन्वाक्ये 'अग्निं यजति' इति यजिसामानाधिकरण्यात् 'उपांशु यजति' इतिवद्यागनामत्वम्। अथोच्येत- अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयोऽग्निष्टोमस्य, इति। तथाऽप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति। 'देवदत्तमनुगच्छति यज्ञदत्तः' इत्यत्र देवदत्ते पुरोगमनदर्शनात्। तस्मात् 'अग्निं चिनुते' इत्यत्राग्निनामको याग आख्यातेन विधीयते। चिनोतिस्तु 'इष्टकाभिरग्निं चिनुते' इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते- ब्रूमः-अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे। रूढिश्च क्लृप्ततया लिङ्गादिकल्प्याद्यागवाचित्वाद्बलीयसीति न यागनामत्वम्। न चात्र यागरूपमस्ति। द्रव्यदेवतयोरसिद्धेः। अतः 'अग्निमादधीत' इत्युक्ताधानत्वात् 'अग्निं चिनुते' इत्युक्तं चयनमग्निद्रव्यसंस्कारः। न च संस्कृतस्य विनियोगाभावः। ''अग्निमग्निष्टोमेन यजते'' इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात्। तस्मात्-संस्कारविधिः।। 24।। 25।।  एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्   प्रकरणान्तरे प्रयोजनान्यत्वम्।। 24।। एकादशाधिकरणमारचयति- मासं जुहोत्यग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः। अनूद्य प्राप्तकर्मात्र मासोऽप्राप्तो विधीयते।। 26।। उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात्।। 27।। कुण्डपायिनामयने श्रूयते ''उपसद्भिश्चरित्वा'' ''मासमग्निहोत्रं जुहोति'' ''मासं दर्शपूर्णमासाभ्यां यजेत'' इति। अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणोऽप्राप्तत्वाद्विधीयते-इति चेत्- मैवम्। किं मास एव विधीयते, 'उपसद्भिश्चरित्वा' इत्युक्तोपसदोऽपि। नाद्यः। उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात्। न द्वितीयः। प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः। ननु मा भूत्तर्हि गुणविधिः। कर्मान्तरत्वे किं प्रमाणम्-इति चेत्- 'प्रकरणान्तरम्'- इति ब्रूमः। न ह्येतन्नित्याग्निहोत्रस्य प्रकरणम्। असंनिहितत्वात्।अयनस्य ह्येतत्प्रकरणम्। अयनमारभ्याधीतत्वात्। का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का-इति चेत्- प्रकरणस्यासमर्पकत्वेऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति। सा च वाक्यभेदापत्त्या निराकृता। तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरुद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति। अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते। ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते। ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत्- न। वैषम्यात्। 'उपादेयतया विधेयो गुणो वाजिनम्। मासस्त्वनुपादेयः' इत्येकं वैषम्यम्। 'द्रव्यत्वेन रूपान्तर्गतं वाजिनम्, मासो न तथा' इत्यपरं वैषम्यम्। परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति। ततः प्रकरणान्तरमेवात्र भेदहेतुः।। 26।। 27।।  द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्   फलं चाकर्मसंनिधौ।। 25।। द्वादशाधिकरणमारचयति- अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम्। कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात्।। 28।। मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः । अनारभ्याधीतमेतद्रूपंत्वन्यूनमीक्षते।। 29।। अनारभ्य श्रूयते ''आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः'' इति। रुक्कामस्तेजस्कामः। अत्र- इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते। कुतः- वाक्येनाग्नेयफलसंबन्धस्य भासमानत्वात्। न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम्। वैषम्यात्। तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम्। इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतोऽत्र प्रकरणान्तरत्वम्। किं च मासोऽनुपादेयः। अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात्। फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात्। तस्मात्-फलविधिः- इति प्राप्ते- ब्रूमः- प्रकरणान्तरत्वाभावेऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव। स एवात्र कर्म भिनत्ति। न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात्। यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चोऽस्तु। फलं च मासवदनुपादेयम्। अन्यथा साधनवदफलत्वप्रसङ्गात्। कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते न तु विधिश्रवणात्संपद्यते। यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम्। सर्वथा तेजस्कामेष्टिः कर्मान्तरम्। काम्येष्टिकाण्डपठितेषु ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादिष्वयमेव न्यायो द्रष्टव्यः।। 28।। 29।।  त्रयोदशे, अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्   संनिधौ त्वविभागात्फलार्थेन पुनःश्रुतिः।। 26।। त्रयोदशाधिकरणमारचयति- यजेत्समे पौर्णमास्यां यावज्जीवं तथैतया। अन्नाद्यकाम इत्यादौ कर्मभेदोऽथवा गुणः।। 30।। विध्युपादानयोरैक्याद्देशादेरनुपत्तितः । आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः।। 21।। देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः । पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते।। 32।। दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- ''समे यजेत'' ''पौर्णमास्यां यजेत'' ''यावज्जीवं दर्शपूर्णमासाभ्यां यजेत'' इति। अवेष्टिप्रकरणे फलमाम्नातम्- ''एतयाऽन्नाद्यकामं याजयेत्'' इति। आदिशब्देन संस्कारो गृहीतः। स च दर्शपूर्णमासप्रकरणे समाम्नातः ''शेषं स्विष्टकृते समवद्यति'' इति। तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः। अत एव न विधेयाः। उपादानविधिशब्दयोः पर्यायत्वात्। ततः- कर्मविधिः- इत्यवश्यमभ्युपेयम्। तत्र- प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने ''समिधो यजति'' इत्यादिवदभ्यासादेव कर्मभेदः-इति प्राप्ते- ब्रूमः- देशादीनामविधेयत्वेऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम्। स च कर्मवत्पूर्वं न विहित इत्यप्राप्तत्वाद्विधिमर्हति। यदुक्तम्- उपादानविधिशब्दौ पर्यायौ- इति। तदसत्। 'अप्रवृत्तप्रवर्तनं विधानम्, तच्च पुरुषविषयः शब्दव्यापारः। अननुष्ठितस्यानुष्ठानमुपादानम्, तच्च कर्माविषयः पुरुषव्यापारः' इति महान्भेदः। योऽपि- दर्शादीनां पुनर्विधिः सोऽपि देशादिसंबन्धं विधातुं कर्मानुवादः- इति न कर्मभेदमावहति। ''समिधो यजति'' इत्यादौ विधेयगुणान्तराभावेनानुवादासंभवात्पुनर्विधानं भेदहेतुः- इति वैषम्यम्।। 30।। 31।। 32।।  चतुर्दशे, आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29   आग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेत।। 27।।  अविभागात्तु कर्मणा द्विरुक्तेर्न विधीयते।। 28।।  अन्यार्था वा पुनःश्रुतिः।। 29।। चतुर्दशाधिकरणमारचयति- दर्शपूर्णमासप्रोक्त आग्नेयः केवलोऽप्यसौ । दर्शे यदिति वाक्याभ्यां कर्मान्यद्वाऽनुवादगीः।। 33।। अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् । एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः।। 34।। ''यदाग्नेयोऽष्टाकपालोऽमावस्यायां पौर्णमास्यां चाच्युतो भवति'' इति कालद्वये विहितम्। ''यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति'' इत्येकस्मिन्काले पुनर्विहितम्। तत्र- अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः। तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत्- न। प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात्। न चानुवादो व्यर्थः। विधेयैन्द्राग्नस्तुत्यर्थत्वात्। यद्यप्याग्नेयोऽष्टाकपालोऽमावास्यायां भवति, तथाऽपि न केवलेनाग्निना साधुर्भवति। इन्द्रसहितोऽग्निः समीचीनतरः। तस्मात्- 'ऐन्द्राग्नः कर्तव्यः' इति विधेयस्तुतिः। प्रयाजवैषम्यं तूक्तमेवानुसंधेयम्।। 33।। 34।। इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे अधिकरणानि 14, सूत्राणि 29 । आदितः अधिकरणानि 87, सूत्राणि 257। द्वितीयाध्यायस्य चतुर्थः पादः नित्यकाम्ययोः प्रयोगयोर्भेदः।  प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1- 7   यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्।। 1।।  कर्तुर्वा श्रुतिसंयोगात्।। 2।।  लिङ्गदर्शनाच्च कर्म धर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकमन्यत्स्यात्।। 3।।  अपवर्गं च दर्शयति, कालश्चेत्कर्मभेदः स्यात्।। 4।।  अनित्यवात्तु नैवं स्यात्।। 5।।  विरोधश्चापि पूर्ववत्।। 6।।  कर्तुस्तु नियमात्कालशास्त्रं निमित्तं स्यात्।। 7।। चतुर्थपादस्य प्रथमाधिकरणमारचयति- यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा । कालत्वात्कर्मधर्मोऽतः काम्य एकः प्रयुज्यताम्।। 1।। न कालो जीवनं तेन निमित्तप्रविभागतः । काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः।। 2।। बह्वृचब्राह्मणे श्रूयते ''यावज्जीवमाग्निहोत्रं जुहोति'' इति। तत्र यावज्जीवशब्दो मरणावधिकालपरः। तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् 'जुहोति' इत्यनूदिते कर्मणि विधीयते। तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति। स च काम्यप्रयोगोऽभ्यसितव्यः। सकृदनुष्ठानस्य ''अग्निहोत्रं जुहुयात्स्वर्गकामः'' इत्यनेनैव सिद्धत्वात्। 'यावज्जीवम्' इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात्। तस्मात्- अयं काम्यकर्मणोऽभ्याससिद्धये कालरूपधर्मविधिः। इति प्राप्ते- ब्रूमः-यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः। वाच्यार्थस्तु कृत्स्नजीवनम्। न च जीवनं कर्मधर्मत्वेन विधातुं शक्यम्। तस्य पुरुषधर्मत्वात्। तं च पुरुषधर्मं निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते। न च- अत्र कर्मभेदः। तद्धेतूनां शब्दान्तरादीनामभावात्। न च- अभ्यासस्तद्धेतुः। निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात्। अतः प्रयोगभेदः पर्यवस्यति। जीवनस्यात्र निमित्तत्वात्। सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम्। न च- जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः, सायंप्रातःकालयोर्विहितत्वात्। तस्मात्- जीवनस्य पुरुषधर्मत्वान्नित्यकाम्यप्रयोगौ भिन्नौ।। 1।। 2।।  द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8- 32   नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात्।। 8।।  एकं वा संयोगरूपचोदनाख्याविशेषात्।। 9।।  न नाम्ना स्यादचोदनाभिधानत्वात्।। 10।।  सर्वेषां चैककर्म्यं स्यात्।। 11।।  कृतकं चाभिधानम्।। 12।।  एकत्वेऽपि परम्।। 13।।  विद्यायां धर्मशास्त्रम्।। 14।।  आग्नेयवत्पुनर्वचनम्।। 15।।  अद्विर्वचनं वा श्रुतिसंयोगाविशेषात्।। 16।।  अर्थासंनिधेश्च।। 17।।  न चैकं प्रति शिष्यते।। 18।।  समाप्तिवच्च संप्रेक्षा।। 19।।  एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि।। 20।।  प्रायश्चित्तं निमित्तेन।। 21।।  प्रक्रमाद्वानियोगेन।। 22।।  समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत।। 23।।  लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माद्द्वादशाहस्याहारव्यपदेशः स्यात्।। 24।।  द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यवतिष्ठेत तस्मान्नित्यानुवादः स्यात्।। 25।।  विहितप्रतिषेधात्पक्षेऽतिरेकः स्यात्।। 26।।  सारस्वते विप्रतिषेधाद्यदेति स्यात्।। 27।।  उपहव्येऽप्रतिप्रसवः।। 28।।  गुणार्था वा पुनःश्रुतिः।। 29।।  प्रत्ययं चापि दर्शयति।। 30।।  अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत।। 31।।  विरोधिना त्वसंयोगादैककर्म्येऽतत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्।। 32।। द्वितीयाधिकरणमारचयति- शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते । दृष्टं काठकनामादि बहु भेदस्य कारणम्।। 3।। ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः। रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते।। 4।। काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्मान्नातम्। तत्र शाखाभेदात्कर्म भिद्यते। कुतः- भेदकारणानां नामभेदादीनां बहूनामुपलम्भात्। काठक-काण्वादिको नामभेदः। कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तराध्यायिनो नाचरन्ति, इति धर्मभेदः। एकस्यां शाखायामधीताः ''इषे त्वा'' इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरेऽप्यधीयन्त इति पुनरुक्तिः। एवमशक्त्यादयो भेदहेतव उदाहार्याः। न ह्यल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुं शक्यम्। तस्मात्- शाखाभेदेन कर्मभेदः। इति प्राप्ते- ब्रूमः- रूपाद्यभेदादेकं कर्म। आग्नेयाष्टाकपालादियागरूपं यदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते। ''दर्शपूर्णमासाभ्यां यजेत'' इति यागरूपः पुरूषव्यापारश्चैकविधः। 'दर्शपूर्णमासौ' इति कर्मनामाप्येकम्। 'स्वर्गकामः' इति फलसंबधोऽप्येकः। तस्मात्- अभिन्नं कर्म। पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते। काठकादिकं ज्योतिरादिवन्न कर्मनाम, 'काठकेन यजेत' इत्यश्रवणात्। 'काठकमधीते' इति प्रयोगाद्ग्रन्थनामत्यवगन्तव्यम्। भूभोजनादिरध्ययनधर्मः। पुनरुक्तिरध्येतृभेदान्न दुष्यति। अल्पायुषाऽपि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते। तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदेऽपि कर्म न भिद्यते।। 3।। 4।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः।। 4।। द्वितीयोऽध्यायस्य समाप्तः।। 2।। अत्र पादे अधिकरणानि 2, सूत्राणि 32। आदितः अधिकरणानि 99, सूत्राणि 289 । ==00==