Already Registered? Login
एकदेव - उपासनम् (आश्रम नित्य प्रार्थनम्) शिवेति शौरीति गजाननेति स्कन्देति देवीति रवीति वा यम्। अर्चंति भक्त्या भुवि भारतेस्मिन् तमेकदेवं शरणं व्रजामः।। 1 यदाज्ञया व्योम्नि रविः प्रभाति यदाज्ञयाग्निर् दहति प्रकामम्। यदाज्ञया वाति सदागतिश्च तमेकदेवं शरणं व्रजामः।।2 जलस्वरूपं दहन स्वरूपं पृथ्वी स्वरूपं ननु वायुरूपम्। वदन्ति यं वा गगन स्वरूपं तमेकदेवं शरणं व्रजामः।।3 अरण्यमध्ये गिरितुंगशृंगे नदीतटे वाथ तटाकमध्ये। गेहान्तरे योर्चित एक एव तमेकदेवं शरणं व्रजामः।।4 य एव कर्ता भुवनस्य हर्ता संरक्षको वा कथितः पुराणः। त्रिमूर्तिरूपेण विरजते यः तमेकदेवं शरणं व्रजामः।।5 अल्लेति नाम्ना जिनदेव नाम्ना बुद्धेति नाम्ना च यमाह्वयंति। अर्चन्ति यं गाडिति व्रात्यलोकाः तमेकदेवं शरणं व्रजामः।।6 बैबल्लुमध्येथ खुरान मध्ये शास्त्रेषु वेदेषु पुराणवर्गे। यत्कीर्ति रेका निरतं सुघुष्टा तमेकदेवं शरणं व्रजामः।।7 इगिर्जु मस्जीद सुमंदिरेषु प्रेयर् नमाजर्चन पंक्तिभिर्यम्। अर्चन्ति गायन्ति च यद्गुणौघान् तमेकदेवं शरणं व्रजामः।। 8 अनन्तनाम्ना परिशोभितो यः, अनन्तरूपेण विराजितश्च। अनन्तवीर्यादि गुणैः प्रपूर्णः तं सच्चिदानन्द विभुं व्रजामः।। 9 ==00==