सद्गुरु स्तवः (श्रीगणपति सच्चिदानन्द स्वामिनां स्तवः)
सिद्धि बुद्धि महायोग वरणीयो गणाधिपः।
यस्स्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।।1
यस्य दत्तात्रेयभावो भक्तानामात्मदानतः।
सूच्यते सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 2
योगाज्ज्योति स्समुद्दीप्तं जयलक्ष्मी नृसिंहयोः।
अद्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 3
योगविद्या चित्रभानुं चित्रभानु शरद्भवम्।
ज्ञानदं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 4
गणेशहोमेर्कदिने नित्यं श्रीचक्रपूजने।
दीक्षितं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 5
अगस्त्यमुनि संक्रान्त नानावैद्य धुरन्धरम्।
भवघ्नं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 6
वाद्योदंच द्दिव्यनाम संकीर्तन कळानिधिम्।
नादाब्धिं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 7
दत्तपीठाधिपं धर्मरक्षणोपाय बन्धुरम्।
सत्कविं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 8
विधूतभक्त सम्मोह मवधूतं जगद्गुरुम्।
स्वाश्रयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 9
साधुत्वं भक्तिमैश्वर्यं दानं योग मरोगताम्।
सन्मतिं ज्ञान मानन्दं सद्गुरु स्तवतो लभेत्।।10
==00==
गुरु (वज्र) सिद्धि स्तोत्रम्
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा
ईशित्वञ्च वशित्वञ्च यच्च कामावसायिता।।
य एष गरिमस्वरा - डवततार पृथ्वी जनीन्
अनल्पसुख मेदुरे महति वेविषाणो जनान्।
महाशुच मधीरय - न्नविदुरोपलां भेदयन्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दसात्।। 1।। (साः)
(सच्चिदानन्दस्य अधीनः सच्चिदानन्दसात्, सात् प्रत्ययः।
यद्वा - सच्चिदानन्देन जीवनं आन्तं करोतीति, सच्चिदानन्दसाः।
षो - अन्तकर्मणि दैवादिकः, आदेच ... इत्यात्वम्, ततः क्विप्)
---
य एष महिमस्वरा - डखिल नायकोन्नायको
जगन्ति नयति स्वयं - परमनन्तवेदार्थसात्।
मखाधिकरणो भवन् - सुकृतिनो भलोकं दिशन्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दरीः।। 2।।
(सच्चिदानन्दं रिणाति, गच्छतीति। री - गतिरेषणयोः क्रैयादिकः, क्विप्।)
----
य एतदणिमानमैत् - वृजिनमूलनिर्मूलने
पुराण दुरितज्वर - क्लमविशीर्ण चित्तव्रजान्।
चिकित्सति च संस्करो - त्यगद दायि दैव्यो भिषक्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दगाः।। 3।।
(सच्चिदानन्दं गायति कीर्तयति शब्दयति उक्थैः स्तोत्रैरिति, सच्चिदानन्दगाः।
गै शब्दे। भौवादिकः, क्विप्। आदेच उपदेशे शिति इति आकारान्तता कृति परतः)
---
य एष लघिमाध्वना - गुरुतरैक कार्यावली-
सिसाधयिषु मण्डली - प्रसुवनोपकारक्रमी।
अनूनभवसंसृते - रुपरतिं प्रयच्छन् महान्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दमाः।। 4।।
(सच्चिदानन्दं माति, पूजयतीति सच्चिदानन्द माः। मा - माने आदादिकः, क्विप्)
----
य एष घनयोगरा - डतुलवस्तु संप्राप्तिमान्
निजाश्रित दरिद्रता - परि बिभाव.यिषयोद्यतः।
कुशाग्र धिषणा श्रितो - रचित कार्य सम्प्रत्ययः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दपाः।। 5।।
(सच्चिदानन्दं पाति, रक्षतीति। पा - रक्षणे आदादिकः, क्विप्।)
----
य एष जगदीशिता - निगममूलनिश्वासवान्
नियच्छति सुरासुरान् सकलभूतजातं प्रभुः।
फलानुभवदायक श्चरितपुण्यपापात्मनाम्
स वज्रपटिमेडितो - भवतु सच्चिदानन्दधाः।। 6।।
(सच्चिदानन्दं ददाति। डु धाञ् धारणपोषणयोः- जौहोत्यादिकः, क्विप्।)
----
य एष वशिताग्रणीर् - वियम सत्त्व रूपी सना
शमादिशुभलक्षणो वशिनिकाय सन्नायकः।
गरिष्ठपदवीमलं - कुरुत आदरेण स्वके
स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 7।।
(सच्चिदानन्दं प्रति नयति, प्रापयतीति। णीञ् - प्रापणे भौवादिकः, क्विप्।)
----
य एष भुवनत्रयी - कुशलता प्रकामान्वयी
समृद्धिमुपकल्पते - प्रतिशरीरि सन्दोहके।
अनन्त हितसंविदं दिशति मोक्षसन्धायकः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दधीः।। 8।।
(सच्चिदानन्दः एव धीः यस्य सः।)
---
य एष जनिसम्भव - प्रचुरसर्व कामावसाः
अजस्र भवचक्रके - निपतता.मिहोद्धारकः।
वशीकृति विरागिता घन समन्तसम्पत्तिदाः
स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 9।।
(सच्चित् सन् आनन्दयति अन्यान् स्वीयोपदेशेनेति।
आनन्दयति अनेन उपदेशेनेति, आनन्दनः उपदेशः। करणे ल्युट्।
सैष उपदेशोस्यास्तीति आनन्दनी। इनिः तद्धितः मत्वर्थीयः)
---
फलस्तुतिः
य एष महतीं मुदं निज तमोश्म सम्भेदिकां
गुरोरमितशान्तिदां मनसिजारिनिर्मूलनीम्।
अवेप्सति जितेन्द्रियार्जित समाधिसौख्यं स्तुतिं
स वज्रनिभसिद्धिदां पठति सिद्धवज्रायुधाम्।। 10
---
विधेय वरिवस्यया गुरुमुखात्त तत्त्वार्थवाङ्-
निकाय मनु दध्नुव - न्नवगतं निदिध्यासयन्।
नितान्त करुणालयं गणपतिं गुरुं भावयन् (निजगुरुं सदा भावयन्)
सुधाम्बुधि निमज्जना-दधिकमोद माप्नोति सन्।। 1
==00==
|