Already Registered? Login
श्री दत्तक्षेत्र षोडशी सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त। षोडशावतार रूप दत्तं भजरे भक्त। महिषपुरवास श्रीकालाग्नि शमनदत्तम्। प्रोद्दुटूरु ग्रामवास योगिराजवल्लभम्। बेंगळूरु नगरस्थित दत्तयोगिराजम्। अनंतपुरे स्थितं ज्ञानसागरं भज दत्तम्।।1 विजयवाड विलसितं श्यामकमललोचनम्। मचिलीपट्टण संस्थितं अत्रिवरदराजम्। जयलक्ष्मीपुरे संस्कारहीन शिवरूपम्। मद्रासुनगर संवासं आदि गुरुनामकम्।।2 हृषीकेश तीर्थराजं श्री दिगंबर दत्तम्। आकिवीडुस्थं विश्वांबरावधूत दत्तम्। नूजिवीडु पट्टणे देवदेव अवतारम्। भाग्यनगर स्थितं दत्तावधूतं भज।। 3 गंडिगुंट जनपदे दत्तदिगंबर देवम्। कोच्चिन्नगरे स्थितं सिद्धराज नामकम्। मायामुक्तावधूत मच्चरपाके। लीलाविश्वंभरं सूरन्नगरे भज।।4 सच्चिदानन्द जन्मस्थले दत्तकाशीश्वरम्। पूर्वसमुद्रतीरे दत्तरामेश्वरम्। सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त। षोडशावतार रूप दत्तं भजरे भक्त।। 5 ==00== नवनाथ दत्त स्तोत्रम् श्रीदत्तं सच्चिदानन्दं नवनाथ स्वरूपिणम्। स्मराम्यामुष्मिकं भाग्य-मैहिकं भृश माप्नुयाम् "गं " बीजं दत्त नाथं तं ढिल्लीस्थं यमुना तटे। 1 पिनाकिनी तटे नेल्लूर् पुरे "णं " बीज संयुतम्। 2 "पं " दत्तनाथं तं भीमवरे पुरवरे स्थितम्।3 शैलोद्देशे तु कडप पुर्यां "गं " दत्तनामकम्।4 कोल्लेर् सरस्तटे कैक- लूरौ "सं "दत्त मानुवे।5 नागावळी तटे श्रीका – कुळे "चिं " दत्त सद्गुरुम्।6 "दां "दत्तं दण्डकारण्ये कामारेड्डि पुरे स्थितम्।7 सुरम्य मन्दिरे हेलापुर्यां "नं " दत्त देशिकम्। 8 गुंटूरु नगरावासं सेवे "दं " दत्त देशिकम्।9 श्रीमातृ शिव विष्णूनां दिव्यक्षेत्र निवासिनम्। पीठापुरस्थितं वन्दे दत्तं श्रीपादवल्लभम्।।10 भीमामरजयो स्संगे - क्षेत्रे श्रीगाणगापुरे। नरसिंह सरस्वत्याः पादुका क्षेत्रराजितम्।। 11 वन्दे गणपति सच्चि - दानन्द मनु भासकम्। श्रीदत्तं सच्चिदानन्दं नवनाथ स्वरूपिणम्। स्मराम्यामुष्मिकं भाग्यं - ऐहिकं भृशमाप्नुयाम्।। 12 ==00==