आथर्वण सन्ध्याप्रयोगः (पैप्पलादीयः)
ततः ऐशान्याभिमुख आसने उपविश्य प्रादेशमात्रं साग्रं अनन्तगर्भीणं कुशद्वयं सनाभिं दक्षिणहस्तानामिकाङ्गुष्ठे धृत्वा सव्यहस्तमध्यमानामिकाभ्यां कुशमुष्टिं धृत्वाचम्य प्रणवं त्रिवारमुच्चार्य नारायणं स्मरेत्।
ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिविवो चक्षुराततम्।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
यस्स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरश्शुचिः।।
इति पुण्डरीकाक्षं स्मृत्वा आपो मार्जनं कुर्यात्।
ॐ आसनमन्त्रस्य मेरुपृष्ठऋषिः, सुतलं छन्दः, श्रीकूर्मो देवता आसने विनियोगः। इति स्मृत्वा शिरो वदनहृदयेषु स्पृशेत्।
ॐ पृथ्वि त्वया धृत्वा लोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रो मासनं कुरु। इत्यासनमभिमन्त्र्य कुशत्रयोपरि उपविशेत्।
अथप्राणायामम्-
ओङ्कारस्य ब्रह्मा ऋषिः, दैवि गायत्री छन्द अग्निर्देवता प्राणायामे विनियोगः।
ॐ सप्तव्याहृतीनां प्रजापति ऋषिः, गायत्र्युष्णिगनुष्टुव् वृहतिपङ्क्तित्रिष्टुव्जगत्यः छन्दांसि, अग्नि-वायु-सूर्य-बृहस्पति-वरुणेन्द्र-विश्वेदेवादेवता प्राणायामे विनियोगः।
ॐ गायत्र्याः, विश्वामित्रऋषिः, गायत्रीछन्दः, सविता देवता प्राणायामे विनियोगः।
ॐ गायत्रीशिरसः, प्रजापतिऋषि अनुष्टुप् छन्दः ब्रह्माग्निर्वायुसूर्यो देवता। प्राणायामे विनियोगः।
ऋषिछन्द चतुष्कमुच्चार्य वक्षमाणमन्त्रैः प्राणायामं कुर्यात्।
ॐ भूः,ॐ भुवः,ॐ स्वः,ॐ महः,ॐ जनः,ॐ तपः,ॐ सत्यम्,ॐ तत्सवितुर्वरेण्यम् भर्गोदेवस्य धीमहि धीयो यो नः प्रचोदयात्,ॐ आपो ज्योतिरसोमृतं ब्रह्म भूर्भुवः स्वरोँ। अनेन मन्त्रेण प्राणायामत्रयं कुर्यात्।
ॐ अव्यसश्च व्यचसश्च बिलं विश्यामि मायया। ताभ्यामृद्धृत्य वेदमथ कर्माणि कृण्महे।
इत्यृचं पठेत्।
ॐ हिरण्यवर्णासूक्तस्य काश्यपऋषिः, त्रिष्टुप् छन्द, आपो देवता, मन्त्रस्नाने विनियोगः।
मन्त्रस्तु-
ॐ हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः।
या अग्निं गर्भं दधिरे सुवर्णाः स्तान आपः शं स्योना भवन्तु।। 1।
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्।
या अग्निं गर्भं दधिरे सुवर्णाः स्ता न आपः शं स्योना भवन्तु।।2।
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति।
या अग्निं गर्भं दधिरे सुवर्णाः स्ता न आपः शं स्योना भवन्तु।।3।
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वो पस्पृशत त्वचं मे।
घृतश्चुतः शुचयो याः पावकाः स्ता न आपः शं स्योना भवन्तु।। 4।
(इत्यनेन मन्त्रस्नानं कुर्यात् )।
ॐ स्वयम्भूः ब्रह्माऋषिः, दैवी गायत्री छन्दः, अग्निर्देवता, प्रातः सन्ध्योपासना कर्मारम्भे
विनियोगः।
ॐ स्वयम्भूः ब्रह्माऋषिः, दैवी गायत्री छन्दः, अग्निर्देवता, मध्याह्न सन्ध्योपासना कर्मारम्भे
विनियोगः।
ॐ स्वयम्भूः ब्रह्माऋषिः, दैवी गायत्री छन्दः, अग्निर्देवता, सायं सन्ध्योपासना कर्मारम्भे
विनियोगः। (इति ऋषिछन्दमुक्त्वा वक्षमाण मन्त्रेण आत्मानं जलेन वेष्टयेत् -
ॐ अरिप्रा आपो अपरिप्रमस्मत्। प्रास्मदेनो दुरितं सुप्रतीकाः, प्रदुःस्वप्न्यं प्रमलं बहन्तु।
ॐ अवरेणुमवरजो नेनिजे हस्त्यं मलं। धाता नो भद्रया नेषत् स नो गोपायतु प्रजाम्।।
कृण्वेऽहं रोदसी वर्म स्यामि सवितुः सवे। माता नो भद्रया भूमिर्द्योश्चास्मान् पात्वं हसः।।
यदसुराणामहं न्यस्मान् पापा उपेथन। देवानां पयसा दैव्यमापः शुन्धन्तु मा मिमाः।। 3।
इति मन्त्रेण हस्तप्रक्षालनं कुर्यात्।
ॐ पयस्वती रोषधयः पयस्वन्मामकं पयः।
अपां पयस्वयत् पयस्तेनमामिन्द्रः संसृज।। 1।
पयः पिवामि रसमोषधीनां या मातरो जनयति गर्भम्।
ताः पीयमाना अमृतेन सार्द्धं कृण्वन्तु मामधरेषु प्रपीतम्।। 2। इति मन्त्रेण आचमनम्।
ॐ प्रियमिति यज्ञोपवीत मन्त्रस्य, गौतमाद्याः सप्तऋषयः, त्रिष्टुप् छन्दः, ब्रह्मा-विष्णु-शिव-प्रजापतिर्देवता यज्ञोपवीताभिमन्त्रणे विनियोगः।
ॐ प्रियं मा कृणु देवेषु प्रियं राजषु मा कृणु।
प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये।।1।
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।
तत्तेहं तन्तु बध्नाम्यायुषे वर्चसे ओजसे तेजसे ब्रह्मवर्चसाय च।
इति मन्त्रेण यज्ञोपवीताभिमन्त्रणं पुर्यात्।
ॐ आपोहिष्ठेति मन्त्रस्य, सिन्धुद्वीप ऋषिः, गायत्री छन्दः,आपो देवता मार्जने विनियोगः।
(प्रति पाद ॐकार पूर्वकमात्मानमभिषिञ्चेत् )
ॐ आपो हिष्ठा मयोभूवः (इति उर्द्ध्वे)।
ॐ स्तान ऊर्जे दधात नः (इति भूमौ)।
ॐ महेरणाय चक्षसे (इति मस्तके)।
ॐ यो वः शिवतमे रसः (इति मस्तके)।
ॐ स्तस्य भाजयते ह नः (इति पुनः भूमौ)।
ॐ उशतीरिव मातरः (इति आकाशे)।
ॐ तस्मा अरं गमामवो (इति मस्तके)।
ॐ यस्य क्षयाय जिन्वथ (इति आकाशे)।
ॐ आपो जनयथा च नः (इति भूमौ)।
ॐ इह वर्च इह पय इह चक्षुरुपह्वये इहेन्द्रियं दधातनः। इत्यनेन मन्त्रेण चक्षुसि अभिसेचनं कुर्यात्।
ॐ यदप्सुते सरस्वती गोश्वष्वेशु यन्मधु। तेने नो वाजिनीवती मुखमङ्धी सरस्वती वर्चसा।
इत्यनेन मन्त्रेण मुखमात्माभिमार्जयेत्। ततः प्राणायामं कुर्यात्।
ॐ दृपदादिवेति मन्त्रस्य, दृपदऋषिः, अनुष्टुप् छन्दः, वऋणो देवता, सौत्रामन्यावभृथे विनियोगः।
ॐ दृपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव। पूतं पवित्रेणेवाज्यं विश्वे शुन्धन्तु नैनसः। इत्यनेन मन्त्रेण उदकं त्रिराघ्राय त्यजेत्।
ॐ जीवास्थ जीव्यासं सर्वमायुर्जीव्यासं। उपजीवास्थोपजीव्यासं , सर्वमायुर्जीव्यासम्। संजीवास्थ सं जीव्यासं, सर्वमायुर्जीव्यासम्। जीवलास्थ जीव्यासं, सर्वमायुर्जीव्यासम्।
इत्यनेन आचम्य।
ॐ इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहं सर्वमायुर्जीव्यासम्। इति मन्त्रेण हृदयाभिमन्त्रणं कुर्यात्।
ॐ वसुभ्यो नमः।ॐ ब्रह्मणे नमः।ॐ विष्णवे नमः।ॐ प्रजापतये नमः।ॐ वैश्रवणाय नमः।ॐ सर्वेभ्यो देवेभ्यो नमः। इत्युक्त्वा प्रत्येकं एकैकाञ्जलिं दद्यात्।
ॐ अर्घ्यप्रदानमन्त्रस्य प्रजापतिऋषिः, अनुष्टुप् छन्दः,सूर्यो देवता अर्घ्यप्रदाने विनियोगः।
ॐ हरिः सुपर्णो दिवमारुहोर्चिषा येत्वा दिप्सन्ति दिवमुत्पतन्तम्।
अव तां जहि हरसा जातवेदो विभ्यदुग्रोर्चिषा दिवमारोह सूर्यः।। 1।
अयो जाला असुरामायिनो यस्मै पाशैरङ्किनो ये चरन्ति।
तांस्ते रन्धयामि हरसा जातवेदः सहस्र तृष्टि सपत्नान् प्रमृणन् पाहि वज्रः।।2। इत्यनेन मन्त्रेण कराञ्जलिस्थ जलमभिमन्त्र्य सूर्याभिमुखं दद्यात्।(प्रातः सन्ध्यायाम्)
मध्याह्न सन्ध्यायाम्
ॐ उदुत्यमिति मन्त्रस्य, प्रस्कन्दऋषिः, दैवीगायत्री छन्दः, सूर्यो देवता अर्घ्यप्रदाने विनियोगः।
ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्।
प्राणापानौ जनयन्नाव्यानौ चक्षुः श्रोत्रं जनयन् ब्रह्ममेधाम्। वाचं श्रेष्ठां यशो अस्मासु धेहि।।
अन्नं रेतो लोहितमुदरं तानि कल्पम्। ब्रह्मचारी सलिलस्य पृष्ठे तपोतिष्ठत्तप्यमानः समुद्रे।।
इति मन्त्रेणार्घ्यं दद्यात्।
अथ गायत्र्यावाहनम्
कृताञ्जलिः पठेत्-ॐ आयातु वरदा देवि चतुर्विंशत्यक्षरा। त्रिपदा गायत्रीछन्दसां मातः प्रतिगृह्णन्तु मे जपम्। ऊर्ध्ववाहूरादित्यमुपतिष्ठते इत्यावाहनम्। ततः प्राणायामं कुर्यात्।
ध्यानम्-
प्रातस्तु- गायत्रीबाला रक्ता रक्तवर्णा रक्तवसना अक्षसूत्रकमण्डलुधरा हंसवाहिनी ब्रह्माणि ब्रह्मदै वत्या ब्रह्मलोकनिवीसिनी, देवी अग्निमुखी ब्रह्मशिरा रुद्रशिखा विष्णुहृदया त्रैलोक्य चरणा अनलप्रवरा सांख्यायनगोत्रा वियोगोपनयना वदरिकाश्रमवासिनी पृथिवीकुक्षि गायत्री सूर्यमण्ड
लादागच्छतु।
मध्याह्ने- सावित्री युवती वररूपा कृष्णा कृषणवर्णा कृष्णवसना शङ्ख चक्र गदा पद्म धारिणी
गरुडासना वैष्णवी विषणुदैवत्या विष्णुलोक निवासिनी, देवी अग्निमुखी ब्रह्मशिरा रुद्रशिखा विष्णुहृदया त्रैलोक्य चरणा अनलप्रवरा सांख्यायनगोत्रा वियोगोपनयना वदरिकाश्रमवासिनी पृथिवीकुक्षि सावित्री सूर्यमण्डलादागच्छतु।
सायाह्ने- सस्वती वृद्धा शुक्ला शुक्लवर्णा शुक्लवसना वृषभारुढा त्रिलोचना डमरुत्रिशूलहस्ता
कैलासनिलया रुद्राणी रुद्रदैवत्या रुद्रलोकनिवासिनी, देवी अग्निमुखी ब्रह्मशिरा रुद्रशिखा विष्णुहृदया त्रैलोक्य चरणा अनलप्रवरा सांख्यायनगोत्रा वियोगोपनयना वदरिकाश्रमवासिनी पृथिवीकुक्षि सरस्वती सूर्यमण्डलादागच्छतु।
ॐकारस्य, ब्रह्माऋषिः, दैवीगायत्री छन्दः, अग्निर्देवता सन्ध्याजपे विनियोगः।
ॐ तिस्रव्याहृतीनां, प्रजापतिऋषिः, गायत्र्युष्णिगनुष्टुप् छन्दांसि, अग्निर्वायुः सूर्यो देवता
सन्ध्या जपे विनयोगः।
ॐ गायत्र्याः विश्वामित्रऋषिः, गायत्री छन्दः सविता देवता, णीं बीजं, यं शक्तिः, नः प्राणः, ततः कीलकं, ऋतुपादं, अग्निमुखं, सन्ध्याजपे विनियोगः।
ततः कराङ्गन्यासः
ॐ भूः अङ्गुष्ठाभ्यां नमः,ॐ भुवः तर्जनीभ्यां स्वाहा,ॐ स्वः मध्यमाभ्यां बौषट्,ॐ तत्सवितुर्वरेण्यं अनामिकाभ्यां हुम्, भर्गो देवस्य धीमहि कनिष्ठाभ्यां वौषट्, धियो यो नः प्रचोदयात् करतल करपृष्ठाभ्यां अस्त्राय फट्।
ॐ भूः हृदयाय नमः,ॐ भुवः शिरसे स्वाहा,ॐ स्वः शिखायै वषट्,ॐ तत्सवितुर्वरेण्यं कवचाय हूम्,ॐ भर्गो देवस्य धीमहि नेत्राभ्यां वौषट्, ॐधियो योनः प्रचोदयात् करतल करपृष्टाभ्यां अस्त्राय फट्।
अथाक्षरन्यासः
ॐ अं नमः नाभौ।ॐ उं नमः हृदये।ॐ मं नमः मूर्ध्नि।ॐ भूः नमः पादयोः।ॐ भुवः नमः हृदये।ॐ स्वः नमः ललाटे।ॐ तत् नमः पादाङ्गुष्ठे।ॐ सं नमः गुल्फयोः।ॐ विं
नमः जंघयोः।ॐ तुं नमः जानुनोः।ॐ वं नमः ऊऋयुग्मे।ॐ रेः नमः गुह्ये।ॐ णीं नमः लिङ्गे।ॐ यं नमः कट्यां।ॐ भं नमः नाभौ।ॐ र्गों नमः उदरे।ॐ दें नमः स्तनौ।
ॼ वं नमः हृदि। ॐ स्यं नमः कण्ठे।ॐ धीं नमः मुखे।ॐ मं नमः तालुकायम्। ॐ
हिं नमः नासिकाग्रे।ॐ धिं नमः नेत्रयोः।ॐ योः नमः भ्रूमध्ये।ॐ योः नमःललाटे।ॐ नः नमः मुखपूर्वे।ॐ प्रः नमः दक्षिणे।ॐ चोः नमः पश्चिमे।ॐ दः नमः उत्तरे।ॐ यात् नमः मूर्ध्नि।
अथ पदन्यासः
ॐ तत् नमः शिरसि।ॐ सवितुर्भूमध्ये।ॐ वरेण्यं चक्षुषोः।ॐ भर्गो वक्त्रे।ॐ देवस्य कण्ठे।ॐ धीमहि हृदये।ॐ धियो नाभौ।ॐ यो गुह्ये।ॐ नः जानुनोः।ॐ प्रचोदयात्
पादयोः। शिरस आरभ्य पादतलान्तं व्यापकन्यासं कुर्यात्। ततो ध्यानम् –
ध्येयः सदा सवितुर्मण्डल मध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरिटीहारी हिरण्मयवपुर्धृतशभ्ख चक्रः।।
गायत्रीचतुर्विंशतिमुद्रां दर्शयेत् –
सुमुखं संपुटं चैव विततं विस्तृतं तथा।
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा।
शकटं यमपाशं च ग्रन्थितं चोल्मुखोल्मुखम्।
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्म वराहकम्।
सिहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा।
एतामुद्राः चतुर्विंशति गायत्र्याः सुप्रतिष्ठिताः।
गायत्रीमन्त्रो यथा-
“ॐ भूर्भुवः स्वः,ॐ तत्सवितुर्वरेण्यं, भर्गोदेवस्य धीमहि, धियो यो नः प्रचोदयात्”।
इति यथाशक्तिं जपेत्। ततः प्राणायामं कुर्यात्।
जपसमर्पण मन्त्रो यथा- गुह्याति गृह्यगोप्त्रि त्वं गृहाणास्मद् कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत् प्रसादात् सुरेश्वरि। इति जपसमर्पणम्।
ॐ उत्तमे शिखरे जाते भूम्या पर्वत वासिनि।
ब्रह्मणा समनुज्ञाते गच्छ देवि थेच्छया।।
ॐ स्तुता मया वरदा वेदमाता प्रचोदयन्तां पावमानी द्विजानाम्।
आयुः प्राणं प्रजां पशुं कीर्त्तिं द्रविणं ब्रह्मवर्चसम्। मह्यं दत्वा व्रजत ब्रह्मलोकम्।
मध्याह्ने विष्णुलोकम्। सायाह्ने रुद्रलोकम्।
प्रातः सूर्योपस्थानम्।
ॐ चित्रं देवानामिति मन्त्रस्य कौत्स्यऋषिः त्रिष्टुप् छन्दः,सूर्यो देवता सूर्योपस्थाने विनियोगः
ॐ चित्रं देवाना केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्।
दिवाकरोति द्युम्नैस्तमांसि विश्वातारीद् दुरितानि शुक्रः।।
ॐ चित्रं देवानामुद्गादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः।
आ प्राद्द्यावा पृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च।।
मध्याह्ने सूर्योपस्थानम्।
ॐ उद्वयमिति मन्त्रस्य वसुकल्पऋषिः,त्रिष्टुप छन्दः, सूर्यो देवता सूर्योपस्थाने विनियोगः।
ॐ उद्वयं तमसस्परि रोहन्तनाकमुत्तमम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्।
आरोक भ्राजः पटरः पतङ्गः स्वर्नरो ज्योतिषिमान् विभासः।
तेऽस्मै सर्वे घृतमातपन्तु यदुहाना अनपस्फुरन्तः।।
सायाह्ने
ॐ उद्घेदिति मन्त्रस्य प्रस्कनद ऋषिः, अनुष्टुप् छन्दः, सूर्यो देवता उपस्थाने विनियोगः।
ॐ उद्घेदभिश्रुतामघं वृषभं नर्यापसम्। आस्तारमेषि सूर्यः।।
नव यो नवतिं पुरो विभेद बाह्वोजसा। अहिं च वृत्रहा वधीत्।।
स न इन्द्रः शिवः सखा श्वावद् गोमद् यव मवत्। उरुधारेव दोहते।।
यदद्य कइ वृत्रहन्नुदगा चाभिसूर्यः। सर्वं तदिन्द्रते वसे।।
यद्वा प्रवृद्ध धनपते न मरा इति मन्यसे। उतो तत् सत्यमित् तव।।
इत्युपस्थानमन्त्राः।।
ॐ पश्येम शरदः शतम्, जीवेम शरदः शतम्, वुद्धेम शरदः शतम्, रोहेम शरदः शतम्, पूषेम शरदः शतम्, भवेम शरदः शतम्, भूयेम शरदः शतम्, भूयसीः शरदः शतात्। इत्यष्टौ जपेत्।।
ॐ उदीरणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः। पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम्।। इत्युक्त्वा आसनादुत्तिष्ठेत्।
ॐ सूर्यस्यावृतमिति मन्त्रस्य, प्रजापतिऋषिः, मुक्तं छन्दः, पृथिवी देवता, परिभ्रमणे विनियोगः।
ॐसूर्यस्यावृत मन्वावर्त्ते दक्षिणामन्वावृतम्।
सा मे द्रविणं यच्छतु सा मे ब्राह्मण वर्चसम्।
दिशो ज्योतिष्मतीरभ्यावर्त्ते ता मे द्रविणं यच्छन्तु ता मे ब्राह्मण वर्चसम्।
सप्तऋषीनभ्यावर्त्ते ते मे द्रविणं यच्छन्तु ते मे ब्राह्मण वर्चसम्।
ब्रह्माभ्यावर्त्ते तन्मे द्रविणं यच्छन्तु ते मे ब्राह्मण वर्चसम्।
ब्राह्मणा अभ्यावर्त्ते ते मे द्रविणं यच्छन्तु ते मे ब्राह्मण वर्चसम्। इत्यनेन मन्त्रेण दक्षिणाङ्गुष्ठं दक्षिणस्कन्धे निधाय भ्रामयेत्।
ॐ असपत्नं पुरस्तात् पश्चान्नोभयं कृतम्। सविता मा दक्षिणत उत्तरान्मा शचीपतिः।।
दिवो मा दित्यारक्षन्तु भूम्यारक्षन्त्वग्नयः। इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म- यच्छताम्। तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म। इति मन्त्रेण दिग्वन्धनं कुर्यात्।
ॐ भूमिमातर्निधेहि मा भद्रया सुप्रतिष्ठितम्। सम्विदाना दिवा न त्वं श्रियां मा धेहि भुत्याम्। इति मन्त्रेण भूमिमभिमन्त्र्य ललाटे तिलकं कुर्यात्।
ॐ ब्रह्माऋषिः, अनुष्टुप् छन्दः, परमात्मादेवता हृदायाभिमन्त्रणे विनियोगः।
ॐ यस्मात् कोषादुदभराम वेदं तस्मिनन्तरमवदध्म एनम्। कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह। इति मन्त्रेण हृदयाभिमन्त्रणं कुर्यात्।
अथ सूर्यार्घ्यविधिः
पुरतो अष्टदलपद्मं लिखित्वा रक्तचन्दन, रक्तपुष्प तण्डुल जल कुशसहितं औदुम्वरपात्रं गृहि-
त्वा जानुभ्यामवनिं स्पृष्ट्वा सूर्याभिमुखं दृष्ट्वा अर्घ्यं दद्यात्।
ॐ सुभूरसि रश्मिरस्यायुर्द्धास्यायुर्मयि देहि।
ॐ सुभूरसि रश्मिरसि वर्चोधाऽसि वर्चो मयि देहि।
ॐ सुभूरसि रश्मिरसि तेजोधाऽसि तेजो मयि देहि।
सूर्यो मे वर्चोधा वर्चो दधात्विन्द्र्यमसिन्द्रियं मयि देहि।
वर्चोऽसि वर्चो मयि देहि। सक्वरी स्थ पशवो मोपस्थेषु
मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु। एतैः सूर्यार्घ्यं दद्यात्।
मतान्तरे
ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णु तेजसे। जगत् सवित्रे शुचये सवित्रे कर्मदायिके।
ॐ एहि सूर्यो सहस्रांशो तेजराशे जगत्पते। अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर।।
एषोऽर्घ्यः श्री सूर्याय नमः।
नमस्कारमन्त्रः -
ॐ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूति स्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने नमः।
ॐ जवाकुशुम संकासं काश्यपेयं महाद्युतिम्। तमोरिं सर्वपापघ्नं प्रणतोस्मि दिवाकरम्।।
।। इत्याथर्वणिकानां सन्ध्या प्रयोगविधिः समाप्तः।।
==00==
|