27

                        
                        
पुण्याहवाचन प्रयोगः (पुराणोक्त विधानम्) आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य ... श्री परमेश्वर प्रीत्यर्थं, मम गृह- भू- भाण्ड- द्रव्य - शुद्ध्यर्थं, वृद्ध्यर्थं, शान्त्यर्थ मभ्युदयार्थं च, महाजनैस्सह स्वस्तिपुण्याहवाचनं करिष्ये।। धान्यराशौ स्वलंकृतं जलसहितं कलशत्रयं प्रतिष्ठाप्य।। प्राक्कलशे वरुणम् पाशहस्तं च वरुण - मम्भसां पतिमीश्वरम्‌। आवाहयामि देवेशं पूर्वत्र कलशे शुभे।। अस्मिन् कलशे सर्वतीर्थाधिपतिं वरुणमावाहयामि।। दक्षिण कलशे वास्तुपुरुषम्।। मन्दिरादि गृहस्थाय वास्तवे पुरुषाय वै। सांगाय शक्तियुक्ताय नमः कल्याणहेतवे।। अस्मिन् कलशे वास्तुपुरुषमावाहयामि। उत्तर कलशे ब्रह्माणम्।। ब्रह्माणं रक्तगौरांगं चतुर्वक्त्रं जगत्प्रभुम्‌। अक्षस्रक् कुंडिकाभीति वरपाणिं विचिन्तये।। अस्मिन् कलशे ब्रह्माणमावाहयामि। ब्रह्मणे नमः। वरुण वास्तोष्पतिभ्यां नमः। गन्धादि सकलाराधनैस्स्वर्चितमस्तु।। पुण्याहं दीर्घमायुरस्तु (शिरस्यभिमन्त्र्य) शिवा आपस्सन्तु। (कलशेष्वभिमृश्य।) सौमनस्यमस्तु (हृदयेभिमृश्य।) अक्षतं चारिष्टं चास्तु ।। (एवं त्रिः) गंधाः - श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसँयुतम्‌। विलेपं भूसुरश्रेष्ठाः प्रीत्यै तत् प्रतिगृह्यताम्‌।। गन्धाः पान्तु। (प्रतिवचनम्) सौश्रियमस्तु।। अक्षताः - अक्षता धवळा दिव्या - श्शालीयास्तण्डुलाश्शुभाः। कुर्वन्तु सततं भद्रं सर्वारिष्ट निवारकाः।। अक्षताः पान्तु। (प्रतिवचनम्) आयष्यमस्तु। पुष्पाणि पान्तु। (प्रतिवचनम्) सौमंगल्यमस्तु। ताम्बूलानि पान्तु। (प्रतिवचनम्) ऐश्वर्यमस्तु। दक्षिणाः पान्तु। (प्रतिवचनम्) बहुदेयमस्तु। श्वश्रेयसमस्तु। प्रजापतिः प्रीयताम्‌।। यं कृत्वा सर्वक्रिया कर्मारम्भाश्शुभाश्शोभनाः प्रवर्तन्ते, तमहं स्वस्तिवाचनमादिं कृत्वा, भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये। (प्रतिवचनम्) वाच्यताम्‌।। • मा विघ्नं मा च मे पापं मा सन्तु परिपन्थिनः। सौम्या भवन्तु सुखिन - स्सर्वे लोका स्सुखावहाः।। • सर्वे च सुखिन स्सन्तु सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख.भाग्भवेत्‌।। स्वस्ति भवन्तो ब्रुवन्तु। (प्रतिवचनम्) स्वस्ति। विप्राः- • करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठा - स्तेभ्यस्ते स्वस्ति सर्वदा।। • ययातिर्नहुषश्चैव जनकश्च भगीरथः। तुभ्यं राजर्षयस्सर्वे स्वस्ति कुर्वन्तु नित्यशः।। • द्विपाद्भ्यश्चास्तु ते स्वस्ति - चतुष्पाद्भ्य स्सदा भुवि। स्वस्ति चापादकेभ्यश्च सर्वेभ्यस्स्वस्ति सर्वदा।। • स्वाहा स्वधा शुचिश्चैव स्वस्ति कुर्वन्तु ते सदा। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेनघ।। • असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः। स्वस्ति तेद्य प्रयच्छन्तु वसिष्ठादि महर्षयः।। • विवस्वान् भगवान् स्वस्ति कार्तिकेयः करोतु ते। दिग्गजा श्चाष्टदिक्पालाः- क्षितिश्च ग्रहसंग्रहाः।। • अधस्ता.द्धरणीं योसौ नागो धारयते सदा। शेषश्च पन्नगश्रेष्ठ - स्स्वस्ति तुभ्यं प्रयच्छतु।। दक्षिणकलशमादाय। प्राक्कलशे किंचित्किंचिदुदकं निनयति। दीर्घमायुरस्तु। (कर्ता) मनस्समाधीयताम्‌। (प्रतिवचनम्) समाहितमनसस्स्मः।। (कर्ता) प्रसीदन्तु भवन्तः। (प्रतिवचनम्) प्रसन्नास्स्मः।। • शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। वृद्धिरस्तु। • अविघ्नमस्तु। आयुष्यमस्तु। आरोग्यमस्तु। • स्वस्त्यस्तु। शिवं कर्मास्तु। • कर्म समृद्धिरस्तु। पुत्रसमृद्धिरस्तु। वेद समृद्धिरस्तु। शास्त्रसमृद्धिरस्तु। धनधान्य समृद्धिरस्तु। इष्टसम्पदस्तु। • (ऐशान्यां बहिर्देशे) अरिष्ट निरसनमस्तु। (कलशयोरीशान्यदेशे उदकं सिंचेत्‌।।) यत्पापं तत्प्रतिहतमस्तु। • (प्रथमकलशे) यच्छ्रेय.स्तदस्तु। • शुक्रांगारक बुध बृहस्पति शनैश्चर राहु केतु सोमसहितादित्य पुरोगा स्सर्वे ग्रहाः प्रीयन्ताम्‌। • तिथिकरण मुहूर्त जन्मनक्षत्र दिग्देवताः प्रीयन्ताम्‌। • (नैरृत्यां दिशि) शाम्यन्तु घोराणि। शाम्यन्तु पापानि। शाम्यन्तु ईतयः। • (प्रथम कलशे) शुभानि वर्धन्ताम्‌। शिवा ऋतवस्सन्तु। शिवा आपस्सन्तु। शिवा ओषधयस्सन्तु। शिवा वनस्पतयस्सन्तु। अहोरात्रे शिवे स्याताम्‌।। • उत्तरे शुभकर्मण्यविघ्न मस्तु। उत्तरोत्तर महरह रभिवृद्धिरस्तु। उत्तरोत्तरा श्शुभाः क्रिया स्सम्पद्यन्ताम्‌।। • अग्निपुरोगा विश्वे देवाः प्रीयन्ताम्‌। माहेश्वरीपुरोगा मातरः प्रीयन्ताम्‌। इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम्‌। वसिष्ठ पुरोगा ऋषिगणाः प्रीयन्ताम्‌। श्री विष्णु पुरोगा स्सर्वे देवाः प्रीयन्ताम्‌। आदित्यपुरोगा स्सर्वे ग्रहाः प्रीयन्ताम्।। • ऋषयश्छन्दास्याचार्या वेदा यज्ञा दक्षिणाश्च प्रीयन्ताम्‌। ब्रह्मच ब्राह्मणाश्च प्रीयन्ताम्‌। ब्रह्मविष्णु महेश्वराश्च प्रीयन्ताम्‌। श्रद्धामेधे प्रीयेताम्‌। • प्रीयतां भगवान् नारायणः। प्रीयतां भगवान् पर्जन्यः। प्रीयतां भगवान्स्वामी महासेनः। प्रीयतां भगवान् पितामहः। • कर्ता - सत्या एता आशिषस्सन्तु। पुण्याहकाला वाच्यन्ताम्‌। • ब्राह्म्यं पुण्यमहर्यच्च स्वस्त्युत्पादन कारकम्‌। वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः।। • दीयन्ते यत्र दानानि पूजयन्ति पितॄन् गुरून्‌। दृश्यते यत्र मांगल्यं तत्पुण्याहं सदास्तु मे।। पुण्याहं भवन्तो ब्रुवन्तु। (प्रतिवचनम्) अस्तु पुण्याहम्।(3) स्वस्ति वाचनम् - कर्ता • स्वस्तिवाक् पापनाशाख्या पुण्यकल्याण वृद्धिदा। प्रजापतिप्रिया नित्यं तां वाचं भो ब्रुवन्तु नः।। मह्यं सहकुटुम्बाय शुद्धिकर्मणे महाजनान्नमस्कुर्वाणाय, आशीर्वचन मपेक्षमाणाय, आयुष्मते स्वस्ति भवन्तो ब्रुवन्तु। (प्रतिवचनम्) आयुष्मते स्वस्ति।। (कर्ता) मह्यं सहकुटुम्बाय वृद्धिकर्मणे महाजनान्नमस्कुर्वाणाय, आशीर्वचन मपेक्षमाणाय, आयुष्मते स्वस्ति भवन्तो ब्रुवन्तु। (प्रतिवचनम्) आयुष्मते स्वस्ति।। (कर्ता) मह्यं सहकुटुम्बाय अभ्युदयकर्मणे महाजनान्नमस्कुर्वाणाय, आशीर्वचन मपेक्षमाणाय, आयुष्मते स्वस्ति भवन्तो ब्रुवन्तु। (प्रतिवचनम्) आयुष्मते स्वस्ति।। ऋद्धिवाचनम् - (कर्ता) सागरस्य तु या वृद्धिर् महालक्ष्म्यादिभिः कृता। संपूर्णा पूर्णचन्द्रे या तामृद्धिं भो ब्रुवन्तु नः।। (कर्ता) ऋद्धिं भवन्तो ब्रुवन्तु। (प्रतिवचनम्) ऋध्यतामृद्धि स्समृद्धिः।। (3) (कर्ता) कर्मण ऋद्धिं भवन्तो ब्रुवन्तु। (प्रतिवचनम्) कर्म ऋध्यताम्‌। (3) कर्ता- वामदक्षिण हस्ताभ्यां दक्षिणोत्तरकलशौ युगपद्गृहीत्वा। ताभ्यां धाराभ्यां सन्तत मासिंचति।) • स्वस्ति पुण्याह समृद्धिरस्तु। वर्‌षशत सम्पूर्णमस्तु। गोत्राभिवृद्धिरस्तु। शान्तिः पुष्टिस्तुष्टिश्चास्तु। शुभ शुभमस्तु। पुनरपि गो ब्राह्मणेभ्य श्शुभं भवतु। सर्वसम्पदस्तु। भगवान् वास्तोष्पतिः प्रीयताम्‌। (इत्युदकं निक्षिप्य)। अभिमन्त्रणम् • सुरास्त्वामभिषिंचन्तु ब्रह्म विष्णु महेश्वराः। वासुदेवो जगन्नाथ - स्तथा संकर्षणो विभुः।। • प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते। आखण्डलोग्निर्भगवान् यमो वै निरृतिस्तथा।। • वरुणः पवनश्चैव धनाध्यक्ष स्तथा शिवः। ब्रह्मणा सहितास्सर्वे दिक्पालाः कीर्तिदा स्तथा।। • पुष्टिश्श्रद्धा क्रिया चैव रतिर्मेधा धृतिस्तथा। बुद्धिर्लज्जा तथा शान्तिः कान्तिस्तुष्टिश्च मातरः।। एतास्त्वामभिषिंचन्तु देवपत्न्य स्समागताः। • आदित्यश्चन्द्रमा भौमो बुध जीव सितार्कजाः।। ग्रहास्त्वामभिषिंचन्तु राहुः केतुश्च तर्पिताः। • देव दानव गन्धर्व यक्ष राक्षस पन्नगाः। ऋषयो मुनयो गावो देवमातर एव च। • देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः। अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च। औषधानि च रत्नानि कालश्चापां गणास्तथा।। • सरित स्सागराश्शैला - स्तीर्थानि जलदा नदाः। एते त्वामभिषिंचन्तु सर्वकामार्थ सिद्धये।। अथ मार्जनम्‌। • श्री काशी च गया प्रयाग मधुरा केदार रामेश्वराः श्रीशैलो हिमवान् सुरर्षि सदनो गंगादि नद्योम्बुधिः। माया द्वारवती तथोज्जयिनिका कांची ह्ययोध्या पुरी तीर्थक्षेत्रगणास्सदा प्रददतां स्वक्षेत्रयोग्यं फलम्‌।। दिङ्मार्जनम्। • देवाः प्राग्दिशि मार्जन्तु। दक्षिणस्यां च पूर्वजाः। गृहाद्याः पशवः पश्चात्‌। उत्तरेपां गणास्तथा।। यज्ञेशाद्याश्च सकला देवा ऊर्ध्वदिशि स्मृताः। दक्षिणा दानम् एतेभ्यो ब्राह्मणेभ्यो नानागोत्रेभ्यो नानानामभ्यः, श्री लक्ष्मीनारायणोमा महेश्वरादित्यादि नवग्रह स्वरूपेभ्यः, श्रीलक्ष्मीनारायणोमामहेश्वरादित्यादि नवग्रह प्रीत्यर्थं, स्वस्तिपुण्याहवाचन मन्त्रजप दक्षिणां मानसोत्साह परिमित हिरण्यं, तुभ्यमहं संप्रददे न मम।। • स्तुतेः पुण्याहकाले हि लक्ष्म्याः पुण्यञ्च वर्धते। परितस्स्वस्तिवाचोत - स्संपद्यन्ते शुभाः क्रियाः।। शुभ शुभम्‌। शुभग्‌शुभम्‌। शुभ शुभम्‌।। इति पुण्याहवाचन प्रयोगस्समाप्तः।। ==00==