26

                        
                        
Srimad Bhagavad Geeta श्रीमद्-भगवद्-गीता  ध्यान श्लोकाः ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम्। अद्वैतामृतवर्षिणीं भगवती.मष्टादशाध्यायिनीम् अम्ब त्वा.मनुसन्दधामि भगवद्गीते भव.द्वेषिणीम्॥1॥  नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायत.पत्र.नेत्र। येन त्वया भारततैल.पूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥2॥  प्रपन्न.पारिजाताय तोत्र.वेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृत.दुहे नमः॥3॥  सर्वोपनिषदो गावो दोग्धा गोपाल.नन्दनः। पार्थो वत्स.स्सुधी.र्भोक्ता दुग्धं गीतामृतं महत्।।  वसुदेवसुत.न्देव - ङ्कंस.चाणूर.मर्दनम्। देवकीपरमानन्द - ङ्कष्णँ वन्दे जगद्गुरुम्।।  भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थाम.विकर्ण.घोर.मकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तक केशवः॥  पाराशर्यवचस्सरोजममल ङ्गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम्। लोके सज्जनष्षट्पदै.रहरह पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसिन.श्श्रेयसे।।  मूक.ङ्करोति वाचालं पङ्गुँ लङ्घयते गिरिम्। यत्कृपा तमहँ वन्दे परमानन्दमाधवम्।।  यं ब्रह्मा वरुणेन्द्र.रुद्रमरुत स्स्तुन्वन्ति दिव्यै स्स्तवैः वेदै स्साङ्गपद.क्रमोपनिपदै.र्गायन्ति यं सामगाः। ध्यानावस्थित.तद्गतेन मनसा पश्यन्ति यँ योगिनः यस्यान्त.न्न विदु स्सुरासुर.गणा देवाय तस्मै नमः॥ ----- ॥ श्रीमद्भगवद्गीता॥ ॐ श्री परमात्मने नमः॥  अथ प्रथमोऽध्यायः। अर्जुनविषादयोगः धृतराष्ट्र उवाच। धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामका पाण्डवाश्चैव किमकुर्वत सञ्जय॥ 1 - 1॥  सञ्जय उवाच -  दृष्ट्वा तु पाण्डवानीकँ व्यूढ.न्दुर्योधन.स्तदा। आचार्य.मुपसङ्गम्य राजा वचन.मब्रवीत्॥ 1 - 2॥  पश्यैतां पाण्डुपुत्राणा - माचार्य महती.ञ्चमूम्। व्यूढा.न्द्रुपदपुत्रेण तव शिष्येण धीमता॥ 1 - 3॥  अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥ 1 - 4॥  धृष्टकेतु.श्चेकितान काशिराजश्च वीर्यवान्। पुरुजि.त्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥ 1 - 5॥  युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥ 1 - 6॥  अस्माकन्तु विशिष्टा ये ता.न्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थ.न्तान्ब्रवीमि ते॥ 1 - 7॥  भवा.न्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्ति.स्तथैव च॥ 1 - 8॥  अन्ये च बहव श्शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्र.प्रहरणा - स्सर्वे युद्ध.विशारदाः॥ 1 - 9॥  अपर्याप्त.न्तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्त.न्त्विद.मेतेषां बलं भीमाभिरक्षितम्॥ 1 - 10॥  अयनेषु च सर्वेषु यथाभाग.मवस्थिताः। भीष्म.मेवाभि.रक्षन्तु भवन्त स्सर्व एव हि॥ 1 - 11॥  तस्य सञ्जनय.न्हर्ष - ङ्कुरुवृद्ध पितामहः। सिंहनादँ विनद्योच्चै श्शङ्ख.न्दध्मौ प्रतापवान्॥ 1 - 12॥  तत.श्शङ्खाश्च भेर्यश्च पणवानक.गोमुखाः। सहसैवाभ्यहन्यन्त स शब्द.स्तुमुलोऽभवत्॥ 1 - 13॥  तत.श्श्वेतै.र्हयै.र्युक्ते महति स्यन्दने स्थितौ। माधव पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥ 1 - 14॥  पाञ्चजन्यं हृषीकेशो देवदत्त.न्धनञ्जयः। पौण्ड्र.न्दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥ 1 - 15॥  अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुल स्सहदेवश्च सुघोष.मणिपुष्पकौ॥ 1 - 16॥  काश्यश्च परमेष्वास - श्शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकि.श्चापराजितः॥ 1 - 17॥  द्रुपदो द्रौपदेयाश्च सर्वश पृथिवीपते। सौभद्रश्च महाबाहु - श्शङ्खा.न्दध्मु पृथक्पृथक्॥ 1 - 18॥  स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवी.ञ्चैव तुमुलो व्यनु.नादयन्॥ 1 - 19॥ अथ व्यवस्थिता.न्दृष्ट्वा धार्तराष्ट्रा.न्कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनु.रुद्यम्य पाण्डवः॥ 1 - 20॥  हृषीकेश.न्तदा वाक्य - मिद.माह महीपते। अर्जुन उवाच -  सेनयो.रुभयो.र्मध्ये रथं स्थापय मेऽच्युत॥ 1 - 21॥  याव.देता.न्निरीक्षेऽहँ योद्धुकामा.नवस्थितान्। कै.र्मया सह योद्धव्य - मस्मिन् रण.समुद्यमे॥ 1 - 22॥  योत्स्यमाना नवेक्षेऽहँ य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धे - र्युद्धे प्रिय.चिकीर्षवः॥ 1 - 23॥  सञ्जय उवाच -  एव.मुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयो.रुभयो.र्मध्ये स्थापयित्वा रथोत्तमम्॥ 1 - 24॥  भीष्म.द्रोण.प्रमुखत - स्सर्वेषाञ्च महीक्षिताम्। उवाच पार्थ पश्यैता - न्समवेता.न्कुरू.निति॥ 1 - 25॥  तत्रापश्य.त्स्थिता.न्पार्थ पितॄ.नथ पितामहान्। आचार्या.न्मातुला.न्भ्रातॄ - न्पुत्रा.न्पौत्रा.न्सखीं.स्तथा॥1 - 26॥  श्वशुरा.न्सुहृद.श्चैव सेनयो.रुभयो.रपि। तान्समीक्ष्य स कौन्तेय - स्सर्वा.न्बन्धू नवस्थितान्॥ 1 - 27॥  कृपया परयाविष्टो विषीद.न्निद मब्रवीत्।  अर्जुन उवाच -  दृष्ट्वेमं स्वजन.ङ्कृष्ण युयुत्सुं समुपस्थितम्॥ 1 - 28॥  सीदन्ति मम गात्राणि मुखञ्च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥ 1 - 29॥  गाण्डीवं स्रंसते हस्ता - त्त्वक्चैव परिदह्यते। न च शक्नो.म्यवस्थातुं भ्रमतीव च मे मनः॥ 1 - 30॥  निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनु.पश्यामि हत्वा स्वजन माहवे॥ 1 - 31॥  न काङ्क्षे विजय.ङ्कृष्ण न च राज्यं सुखानि च। किन्नो राज्येन गोविन्द किं भोगै.र्जीवितेन वा॥ 1 - 32॥  येषा.मर्थे काङ्क्षित.न्नो राज्यं भोगा.स्सुखानि च। त इमेऽवस्थिता युद्धे प्राणां.स्त्यक्त्वा धनानि च॥ 1 - 33॥  आचार्या पितर पुत्रा - स्तथैव च पितामहाः। मातुला.श्श्वशुरा पौत्रा - श्श्याला स्सम्बन्धिन.स्तथा॥1 - 34॥  एता.न्न हन्तु.मिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्य.राज्यस्य हेतो किन्नु महीकृते॥ 1 - 35॥  निहत्य धार्तराष्ट्रा.न्न का प्रीति.स्स्या.ज्जनार्दन। पाप.मेवाश्रये.दस्मा - न्हत्वैता.नाततायिनः॥ 1 - 36॥  तस्मा.न्नार्हा वयं हन्तु - न्धार्तराष्ट्रा.न्स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिन.स्स्याम माधव॥ 1 - 37॥  यद्यप्येते न पश्यन्ति लोभोपहत.चेतसः। कुल.क्षयकृत.न्दोषं मित्रद्रोहे च पातकम्॥ 1 - 38॥  कथ.न्न ज्ञेय.मस्माभि पापा.दस्मा.न्निवर्तितुम्। कुलक्षय.कृत.न्दोषं प्रपश्यद्भि.र्जनार्दन॥ 1 - 39॥  कुलक्षये प्रणश्यन्ति कुलधर्मा.स्सनातनाः। धर्मे नष्टे कुल.ङ्कृत्स्न - मधर्मोऽभिभव.त्युत॥ 1 - 40॥  अधर्माभिभवा.त्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥ 1 - 41॥  सङ्करो नरकायैव कुलघ्नाना.ङ्कुलस्य च। पतन्ति पितरो ह्येषाँ लुप्त.पिण्डोदक.क्रियाः॥ 1 - 42॥  दोषै.रेतै कुलघ्नानाँ वर्णसङ्कर.कारकैः। उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वताः॥ 1 - 43॥  उत्सन्न.कुलधर्माणां मनुष्याणा.ञ्जनार्दन। नरके नियतँ वासो भवती.त्यनुशुश्रुम॥ 1 - 44॥  अहो बत मह.त्पाप.ङ्कर्तुँ व्यवसिता वयम्। यद्राज्य.सुखलोभेन हन्तुं स्वजन.मुद्यताः॥ 1 - 45॥  यदि मा.मप्रतीकार - मशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्यु - स्तन्मे क्षेमतरं भवेत्॥ 1 - 46॥  सञ्जय उवाच -  एव.मुक्त्वार्जुन.स्सङ्ख्ये रथोपस्थ उपाविशत्। विसृज्य सशर.ञ्चापं शोक.सँविग्न.मानसः॥ 1 - 47॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ 1॥ ------  अथ द्वितीयोऽध्यायः। साङ्ख्ययोगः  सञ्जय उवाच -  तन्तथा कृपयाविष्ट - मश्रु.पूर्णाकुलेक्षणम्। विषीदन्त.मिदँ वाक्य - मुवाच मधुसूदनः॥ 2 - 1॥  श्रीभगवा.नुवाच -  कुत.स्त्वा कश्मल.मिदँ विषमे समुपस्थितम्। अनार्य.जुष्ट.मस्वर्ग्य - मकीर्तिकर.मर्जुन॥ 2 - 2॥  क्लैब्यं मा स्म गम पार्थ नैत.त्त्वय्युप.पद्यते। क्षुद्रं हृदय.दौर्बल्य - न्त्यक्त्वोत्तिष्ठ परन्तप॥ 2 - 3॥  अर्जुन उवाच -  कथं भीष्म.महं सङ्ख्ये द्रोणञ्च मधुसूदन। इषुभि प्रति.योत्स्यामि पूजार्हा.वरिसूदन॥ 2 - 4॥  गुरू.नहत्वा हि महानुभावा - न्छ्रेयो भोक्तुं भैक्ष्य.मपीह लोके। हत्वार्थकामांस्तु गुरू.निहैव भुञ्जीय भोगा.न्रुधिर.प्रदिग्धान्॥ 2 - 5॥  न चैत.द्विद्म कतर.न्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम - स्तेऽवस्थिता प्रमुखे धार्तराष्ट्राः॥ 2 - 6॥  कार्पण्य.दोषोपहत.स्वभाव पृच्छामि त्वा.न्धर्म.सम्मूढचेताः। यच्छ्रेय.स्स्या.न्निश्चितं ब्रूहि तन्मे शिष्य.स्तेऽहं शाधि मान्त्वां प्रपन्नम्॥ 2 - 7॥  न हि प्रपश्यामि ममापनुद्या - द्यच्छोक.मुच्छोषण. मिन्द्रियाणाम्। अवाप्य भूमा.वसपत्नमृद्धं राज्यं सुराणा.मपि चाधिपत्यम्॥ 2 - 8॥  सञ्जय उवाच -  एव.मुक्त्वा हृषीकेश - ङ्गुडाकेश परन्तप। न योत्स्य इति गोविन्द - मुक्त्वा तूष्णीं बभूव ह॥ 2 - 9॥  त.मुवाच हृषीकेश प्रहस.न्निव भारत। सेनयो.रुभयो.र्मध्ये विषीदन्त.मिदँ वचः॥ 2 - 10॥  श्रीभगवा.नुवाच -  अशोच्या.नन्वशोच.स्त्वं प्रज्ञावादांश्च भाषसे। गतासू.नगतासूंश्च नानुशोचन्ति पण्डिताः॥ 2 - 11॥  न त्वेवाह.ञ्जातु नास - न्न त्व.न्नेमे जनाधिपाः। न चैव न भविष्याम - स्सर्वे वय.मत परम्॥ 2 - 12॥  देहिनोऽस्मि.न्यथा देहे कौमारँ यौवन.ञ्जरा। तथा देहान्तर.प्राप्ति - र्धीर.स्तत्र न मुह्यति॥ 2 - 13॥  मात्रा.स्पर्शास्तु कौन्तेय शीतोष्ण.सुख.दुखदाः। आगमापायिनोऽनित्या - स्तां.स्तितिक्षस्व भारत॥ 2 - 14॥  यं हि न व्यथय.न्त्येते पुरुषं पुरुषर्षभ। सम.दुख.सुख.न्धीरं सोऽमृतत्वाय कल्पते॥ 2 - 15॥  नासतो विद्यते भावो नाभावो विद्यते सतः। उभयो.रपि दृष्टोऽन्त - स्त्वनयो.स्तत्त्व.दर्शिभिः॥ 2 - 16॥  अविनाशि तु तद्विद्धि येन सर्व.मिद.न्ततम्। विनाश.मव्ययस्यास्य न कश्चि.त्कर्तु.मर्हति॥ 2 - 17॥  अन्तवन्त इमे देहा नित्यस्योक्ता.श्शरीरिणः। अनाशिनोऽप्रमेयस्य तस्मा.द्युध्यस्व भारत॥ 2 - 18॥  य एनँ वेत्ति हन्तारँ यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ 2 - 19॥  न जायते म्रियते वा कदाचि - न्नायं भूत्वा भविता वा न भूयः। अजो नित्य.श्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ 2 - 20॥  वेदाविनाशिन.न्नित्यँ य एन.मज.मव्ययम्। कथं स पुरुष पार्थ क.ङ्घातयति हन्ति कम्॥ 2 - 21॥  वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णा - न्यन्यानि सँयाति नवानि देही॥ 2 - 22॥  नैन.ञ्छिन्दन्ति शस्त्राणि नैन.न्दहति पावकः। न चैन.ङ्क्लेदय.न्त्यापो न शोषयति मारुतः॥ 2 - 23॥  अच्छेद्योऽय.मदाह्योऽय - मक्लेद्योऽशोष्य एव च। नित्य.स्सर्वगत.स्स्थाणु - रचलोऽयं सनातनः॥ 2 - 24॥  अव्यक्तोऽय.मचिन्त्योऽय - मविकार्योऽय.मुच्यते। तस्मा.देवँ विदित्वैन - न्नानु.शोचितु.मर्हसि॥ 2 - 25॥ अथ चैन.न्नित्यजात - न्नित्यँ वा मन्यसे मृतम्। तथापि त्वं महाबाहो नैवं शोचितु.मर्हसि॥ 2 - 26॥  जातस्य हि ध्रुवो मृत्यु - र्ध्रुव.ञ्जन्म मृतस्य च। तस्मा.दपरिहार्येऽर्थे न त्वं शोचितु.मर्हसि॥ 2 - 27॥  अव्यक्तादीनि भूतानि व्यक्त.मध्यानि भारत। अव्यक्त.निधना.न्येव तत्र का परिदेवना॥ 2 - 28॥  आश्चर्यव.त्पश्यति कश्चि.देन - माश्चर्यव.द्वदति तथैव चान्यः। आश्चर्यव.च्चैन.मन्य.श्शृणोति श्रुत्वाप्येनँ वेद न चैव कश्चित्॥ 2 - 29॥  देही नित्य.मवध्योऽय - न्देहे सर्वस्य भारत। तस्मा.त्सर्वाणि भूतानि न त्वं शोचितु.मर्हसि॥ 2 - 30॥  स्वधर्म.मपि चावेक्ष्य न विकम्पितु.मर्हसि। धर्म्याद्धि युद्धा.च्छ्रेयोऽन्य.त्क्षत्रियस्य न विद्यते॥ 2 - 31॥  यदृच्छया चोपपन्नं स्वर्ग.द्वार.मपावृतम्। सुखिनः - क्षत्रिया पार्थ लभन्ते युद्ध.मीदृशम्॥ 2 - 32॥ अथ चेत्त्व.मिम.न्धर्म्यं सङ्ग्राम.न्न करिष्यसि। तत.स्स्वधर्म.ङ्कीर्तिञ्च हित्वा पाप.मवाप्स्यसि॥ 2 - 33॥  अकीर्ति.ञ्चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्ति - र्मरणा.दतिरिच्यते॥ 2 - 34॥  भया.द्रणा.दुपरतं मंस्यन्ते त्वां महारथाः। येषाञ्च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥ 2 - 35॥  अवाच्य.वादांश्च बहू - न्वदिष्यन्ति तवाहिताः। निन्दन्त.स्तव सामर्थ्य - न्ततो दुखतर.न्नु किम्॥ 2 - 36॥  हतो वा प्राप्स्यसि स्वर्ग - ञ्जित्वा वा भोक्ष्यसे महीम्। तस्मा.दुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥ 2 - 37॥  सुखदुखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पाप.मवाप्स्यसि॥ 2 - 38॥  एषा तेऽभिहिता साङ्ख्ये बुद्धि.र्योगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ 2 - 39॥  नेहाभिक्रम.नाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्प.मप्यस्य धर्मस्य त्रायते महतो भयात्॥ 2 - 40॥  व्यवसायात्मिका बुद्धि - रेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥ 2 - 41॥  या.मिमां पुष्पिताँ वाचं प्रवद.न्त्यविपश्चितः। वेद.वाद.रता पार्थ नान्य.दस्तीति वादिनः॥ 2 - 42॥  कामात्मान.स्स्वर्गपरा जन्म.कर्म.फलप्रदाम्। क्रिया.विशेष.बहुलां भोगैश्वर्य.गतिं प्रति॥ 2 - 43॥  भोगैश्वर्य.प्रसक्ताना - न्तयापहृत.चेतसाम्। व्यवसायात्मिका बुद्धि - स्समाधौ न विधीयते॥ 2 - 44॥  त्रैगुण्य.विषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्य.सत्त्वस्थो निर्योग.क्षेम आत्मवान्॥ 2 - 45॥  यावा.नर्थ उदपाने सर्वत.स्सम्प्लुतोदके। तावा.न्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥ 2 - 46॥  कर्मण्येवाधिकार.स्ते मा फलेषु कदाचन। मा कर्मफल.हेतु.र्भू - र्मा ते सङ्गोऽस्त्वकर्मणि॥ 2 - 47॥  योगस्थ कुरु कर्माणि सङ्ग.न्त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्यो.स्समो भूत्वा समत्वँ योग उच्यते॥ 2 - 48॥  दूरेण ह्यवर.ङ्कर्म बुद्धियोगा.द्धनञ्जय। बुद्धौ शरण.मन्विच्छ कृपणा फल.हेतवः॥ 2 - 49॥  बुद्धियुक्तो जहातीह उभे सुकृत.दुष्कृते। तस्मा.द्योगाय युज्यस्व योग कर्मसु कौशलम्॥ 2 - 50॥  कर्मजं बुद्धियुक्ता हि फल.न्त्यक्त्वा मनीषिणः। जन्मबन्ध.विनिर्मुक्ता पद.ङ्गच्छ.न्त्यनामयम्॥ 2 - 51॥  यदा ते मोह.कलिलं बुद्धि.र्व्यति.तरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥ 2 - 52॥  श्रुति.विप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधा.वचला बुद्धि - स्तदा योग.मवाप्स्यसि॥ 2 - 53॥  अर्जुन उवाच -  स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधी किं प्रभाषेत कि.मासीत व्रजेत किम्॥ 2 - 54॥  श्रीभगवा.नुवाच -  प्रजहाति यदा कामा - न्सर्वा.न्पार्थ मनोगतान्। आत्म.न्येवात्मना तुष्ट - स्स्थितप्रज्ञ.स्तदोच्यते॥ 2 - 55॥  दुखेष्वनुद्विग्न.मना - स्सुखेषु विगतस्पृहः। वीतराग.भयक्रोध - स्स्थितधी.र्मुनि.रुच्यते॥ 2 - 56॥  य.स्सर्वत्रानभिस्नेह - स्तत्त.त्प्राप्य शुभाशुभम्। नाभि.नन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥ 2 - 57॥  यदा संहरते चाय - ङ्कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्य - स्तस्य प्रज्ञा प्रतिष्ठिता॥ 2 - 58॥  विषया विनिवर्तन्ते निराहारस्य देहिनः। रस.वर्जं रसोऽप्यस्य पर.न्दृष्ट्वा निवर्तते॥ 2 - 59॥  यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥ 2 - 60॥  तानि सर्वाणि सँयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ 2 - 61॥  ध्यायतो विषया.न्पुंस - स्सङ्ग.स्तेषूप.जायते। सङ्गा.त्सञ्जायते काम कामा.त्क्रोधोऽभि.जायते॥ 2 - 62॥  क्रोधा.द्भवति सम्मोह - स्सम्मोहा.त्स्मृति.विभ्रमः। स्मृति.भ्रंशा.द्बुद्धिनाशो बुद्धिनाशा.त्प्रणश्यति॥ 2 - 63॥  रागद्वेष.विमुक्तैस्तु विषया.निन्द्रियै.श्चरन्। आत्म.वश्यै.र्विधेयात्मा प्रसाद.मधिगच्छति॥ 2 - 64॥  प्रसादे सर्वदुखानां हानि.रस्योप.जायते। प्रसन्न.चेतसो ह्याशु बुद्धि पर्यव.तिष्ठते॥ 2 - 65॥  नास्ति बुद्धि.रयुक्तस्य न चायुक्तस्य भावना। न चाभावयत.श्शान्ति - रशान्तस्य कुत.स्सुखम्॥ 2 - 66॥  इन्द्रियाणां हि चरताँ यन्मनोऽनु.विधीयते। तदस्य हरति प्रज्ञाँ वायु.र्नाव.मिवाम्भसि॥ 2 - 67॥  तस्मा.द्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्य - स्तस्य प्रज्ञा प्रतिष्ठिता॥ 2 - 68॥  या निशा सर्वभूताना - न्तस्या.ञ्जागर्ति सँयमी। यस्या.ञ्जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ 2 - 69॥  आपूर्यमाण.मचलप्रतिष्ठं समुद्र.माप प्रविशन्ति यद्वत्। तद्व.त्कामा यं प्रविशन्ति सर्वे स शान्ति.माप्नोति न कामकामी॥ 2 - 70॥  विहाय कामा.न्य.स्सर्वा - न्पुमां.श्चरति निस्स्पृहः। निर्ममो निरहङ्कार - स्स शान्ति.मधिगच्छति॥ 2 - 71॥  एषा ब्राह्मी स्थिति पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्या.मन्त.कालेऽपि ब्रह्म.निर्वाण.मृच्छति॥ 2 - 72॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः॥ 2॥ ---  अथ तृतीयोऽध्यायः। कर्मयोगः अर्जुन उवाच -  ज्यायसी चे.त्कर्मण.स्ते मता बुद्धि.र्जनार्दन। तत्कि.ङ्कर्मणि घोरे मा - न्नियोजयसि केशव॥ 3 - 1॥  व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकँ वद निश्चित्य येन श्रेयोऽह.माप्नुयाम्॥ 3 - 2॥  श्रीभगवा.नुवाच -  लोकेऽस्मि.न्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञान.योगेन साङ्ख्याना - ङ्कर्म.योगेन योगिनाम्॥ 3 - 3॥  न कर्मणा.मनारम्भा - न्नैष्कर्म्यं पुरुषोऽश्नुते। न च सन्न्यसना.देव सिद्धिं समधि.गच्छति॥ 3 - 4॥  न हि कश्चि.त्क्षण.मपि जातु तिष्ठ.त्यकर्मकृत्। कार्यते ह्यवश कर्म सर्व प्रकृतिजै.र्गुणैः॥ 3 - 5॥  कर्मेन्द्रियाणि सँयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्था.न्विमूढात्मा मिथ्याचार.स्स उच्यते॥ 3 - 6॥  यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियै कर्मयोग - मसक्त.स्स विशिष्यते॥ 3 - 7॥  नियत.ङ्कुरु कर्म त्व - ङ्कर्म ज्यायो ह्यकर्मणः। शरीर.यात्रापि च ते न प्रसिद्ध्ये.दकर्मणः॥ 3 - 8॥  यज्ञार्था.त्कर्मणोऽन्यत्र लोकोऽय.ङ्कर्मबन्धनः। तदर्थ.ङ्कर्म कौन्तेय मुक्तसङ्ग.स्समाचर॥ 3 - 9॥  सहयज्ञा प्रजा.स्सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्व.मेष वोऽस्त्विष्ट.कामधुक्॥ 3 - 10॥  देवा.न्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्त - श्श्रेय पर.मवाप्स्यथ॥ 3 - 11॥  इष्टा.न्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तै.र्दत्ता.नप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥ 3 - 12॥  यज्ञशिष्टाशिन.स्सन्तो मुच्यन्ते सर्व.किल्बिषैः। भुञ्जते ते त्वघं पापा ये पच.न्त्यात्म.कारणात्॥ 3 - 13॥  अन्ना.द्भवन्ति भूतानि पर्जन्या.दन्न.सम्भवः। यज्ञा.द्भवति पर्जन्यो यज्ञ कर्म.समुद्भवः॥ 3 - 14॥  कर्म ब्रह्मोद्भवँ विद्धि ब्रह्माक्षर.समुद्भवम्। तस्मा.त्सर्वगतं ब्रह्म नित्यँ यज्ञे प्रतिष्ठितम्॥ 3 - 15॥  एवं प्रवर्तित.ञ्चक्र - न्नानु.वर्तयतीह यः। अघायु.रिन्द्रियारामो मोघं पार्थ स जीवति॥ 3 - 16॥  यस्त्वात्मरति.रेव स्या - दात्म.तृप्तश्च मानवः। आत्म.न्येव च सन्तुष्ट - स्तस्य कार्य.न्न विद्यते॥ 3 - 17॥  नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चि.दर्थ.व्यपाश्रयः॥ 3 - 18॥  तस्मा.दसक्त.स्सतत - ङ्कार्य.ङ्कर्म समाचर। असक्तो ह्याचर.न्कर्म पर.माप्नोति पूरुषः॥ 3 - 19॥  कर्मणैव हि संसिद्धि - मास्थिता जनकादयः। लोकसङ्ग्रह.मेवापि सम्पश्य.न्कर्तु.मर्हसि॥ 3 - 20॥  यद्य.दाचरति श्रेष्ठ - स्तत्त.देवेतरो जनः। स यत्प्रमाण.ङ्कुरुते लोक.स्तदनु.वर्तते॥ 3 - 21॥  न मे पार्थास्ति कर्तव्य - न्त्रिषु लोकेषु किञ्चन। नानवाप्त.मवाप्तव्यँ वर्त एव च कर्मणि॥ 3 - 22॥  यदि ह्यह.न्न वर्तेय - ञ्जातु कर्म.ण्यतन्द्रितः। मम वर्त्मानु.वर्तन्ते मनुष्या पार्थ सर्वशः॥ 3 - 23॥  उत्सीदेयु.रिमे लोका न कुर्या.ङ्कर्म चे.दहम्। सङ्करस्य च कर्ता स्या - मुपहन्या.मिमा प्रजाः॥ 3 - 24॥  सक्ता कर्म.ण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्या.द्विद्वां.स्तथासक्त - श्चिकीर्षु.र्लोकसङ्ग्रहम्॥ 3 - 25॥  न बुद्धिभेद.ञ्जनये - दज्ञाना.ङ्कर्म.सङ्गिनाम्। जोषये.त्सर्वकर्माणि विद्वा.न्युक्त.स्समाचरन्॥ 3 - 26॥  प्रकृते क्रियमाणानि गुणै कर्माणि सर्वशः। अहङ्कार.विमूढात्मा कर्ताह.मिति मन्यते॥ 3 - 27॥  तत्त्ववि.त्तु महाबाहो गुणकर्म.विभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥ 3 - 28॥  प्रकृते.र्गुणसम्मूढा - स्सज्जन्ते गुण.कर्मसु। ता.नकृत्स्नविदो मन्दा - न्कृत्स्नवि.न्न विचालयेत्॥ 3 - 29॥  मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म.चेतसा। निराशी.र्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥ 3 - 30॥  ये मे मत.मिद.न्नित्य - मनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ 3 - 31॥  ये त्वेत.दभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञान.विमूढां.स्ता - न्विद्धि नष्टा.नचेतसः॥ 3 - 32॥  सदृश.ञ्चेष्टते स्वस्या प्रकृते.र्ज्ञानवा.नपि। प्रकृतिँ यान्ति भूतानि निग्रह कि.ङ्करिष्यति॥ 3 - 33॥  इन्द्रियस्येन्द्रियस्यार्थे राग.द्वेषौ व्यवस्थितौ। तयो.र्न वश.मागच्छे - त्तौ ह्यस्य परिपन्थिनौ॥ 3 - 34॥  श्रेया.न्स्वधर्मो विगुण परधर्मा.त्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेय परधर्मो भयावहः॥ 3 - 35॥  अर्जुन उवाच -  अथ केन प्रयुक्तोऽयं पाप.ञ्चरति पूरुषः। अनिच्छ.न्नपि वार्ष्णेय बला.दिव नियोजितः॥ 3 - 36॥  श्रीभगवा.नुवाच -  काम एष क्रोध एष रजोगुण.समुद्भवः। महाशनो महापाप्मा विद्ध्येन.मिह वैरिणम्॥ 3 - 37॥  धूमेनाव्रियते वह्नि - र्यथादर्शो मलेन च। यथोल्बेनावृतो गर्भ - स्तथा तेनेद.मावृतम्॥ 3 - 38॥  आवृत.ञ्ज्ञान.मेतेन ज्ञानिनो नित्य.वैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥ 3 - 39॥  इन्द्रियाणि मनो बुद्धि - रस्याधिष्ठान.मुच्यते। एतै.र्विमोहय.त्येष ज्ञान.मावृत्य देहिनम्॥ 3 - 40॥  तस्मा.त्त्व.मिन्द्रिया.ण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येन - ञ्ज्ञान.विज्ञान.नाशनम्॥ 3 - 41॥  इन्द्रियाणि पराण्याहु - रिन्द्रियेभ्य परं मनः। मनस.स्तु परा बुद्धि - र्यो बुद्धे परत.स्तु सः॥ 3 - 42॥  एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मान.मात्मना। जहि शत्रुं महाबाहो कामरूप.न्दुरासदम्॥ 3 - 43॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे कर्मयोगो नाम तृतीयोऽध्यायः॥ 3॥ ----  अथ चतुर्थोऽध्यायः। ज्ञानयोगः श्रीभगवा.नुवाच -  इमँ विवस्वते योगं प्रोक्तवा.नह.मव्ययम्। विवस्वा.न्मनवे प्राह मनु.रिक्ष्वाकवेऽब्रवीत्॥ 4 - 1॥  एवं परम्परा.प्राप्त - मिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्ट परन्तप॥ 4 - 2॥  स एवायं मया तेऽद्य योग प्रोक्त पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येत.दुत्तमम्॥ 4 - 3॥  अर्जुन उवाच -  अपरं भवतो जन्म पर.ञ्जन्म विवस्वतः। कथ.मेत.द्विजानीया - न्त्व.मादौ प्रोक्तवा.निति॥ 4 - 4॥  श्रीभगवा.नुवाच -  बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहँ वेद सर्वाणि न त्वँ वेत्थ परन्तप॥ 4 - 5॥  अजोऽपि स.न्नव्ययात्मा भूताना.मीश्वरोऽपि सन्। प्रकृतिं स्वा.मधिष्ठाय सम्भवा.म्यात्म.मायया॥ 4 - 6॥  यदा यदा हि धर्मस्य ग्लानि.र्भवति भारत। अभ्युत्थान.मधर्मस्य तदात्मानं सृजा.म्यहम्॥ 4 - 7॥  परित्राणाय साधूनाँ विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ 4 - 8॥  जन्म कर्म च मे दिव्य - मेवँ यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुन.र्जन्म नैति मा.मेति सोऽर्जुन॥ 4 - 9॥  वीतराग.भयक्रोधा मन्मया मा.मुपाश्रिताः। बहवो ज्ञान.तपसा पूता मद्भाव.मागताः॥ 4 - 10॥  ये यथा मां प्रपद्यन्ते तां.स्तथैव भजा.म्यहम्। मम वर्त्मानु.वर्तन्ते मनुष्या पार्थ सर्वशः॥ 4 - 11॥  काङ्क्षन्त कर्मणां सिद्धिँ यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धि.र्भवति कर्मजा॥ 4 - 12॥  चातुर्वर्ण्यं मया सृष्ट - ङ्गुण.कर्म.विभागशः। तस्य कर्तार.मपि माँ विद्ध्यकर्तार.मव्ययम्॥ 4 - 13॥  न मा.ङ्कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति माँ योऽभिजानाति कर्मभि.र्न स बध्यते॥ 4 - 14॥  एव.ञ्ज्ञात्वा कृत.ङ्कर्म पूर्वै.रपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वै पूर्वतर.ङ्कृतम्॥ 4 - 15॥  कि.ङ्कर्म कि.मकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ 4 - 16॥  कर्मणो ह्यपि बोद्धव्यं बोद्धव्यञ्च विकर्मणः। अकर्मणश्च बोद्धव्य - ङ्गहना कर्मणो गतिः॥ 4 - 17॥  कर्म.ण्यकर्म य पश्ये - दकर्मणि च कर्म यः। स बुद्धिमा.न्मनुष्येषु स युक्त कृत्स्न.कर्मकृत्॥ 4 - 18॥  यस्य सर्वे समारम्भा काम.सङ्कल्प.वर्जिताः। ज्ञानाग्नि.दग्ध.कर्माण.न्तमाहु पण्डितं बुधाः॥ 4 - 19॥  त्यक्त्वा कर्मफलासङ्ग - न्नित्यतृप्तो निराश्रयः। कर्मण्यभि.प्रवृत्तोऽपि नैव किञ्चि.त्करोति सः॥ 4 - 20॥  निराशी.र्यतचित्तात्मा त्यक्त.सर्वपरिग्रहः। शारीर.ङ्केवल.ङ्कर्म कुर्व.न्नाप्नोति किल्बिषम्॥ 4 - 21॥  यदृच्छा.लाभ.सन्तुष्टो द्वन्द्वातीतो विमत्सरः। सम.स्सिद्धा.वसिद्धौ च कृत्वापि न निबध्यते॥ 4 - 22॥  गतसङ्गस्य मुक्तस्य ज्ञानावस्थित.चेतसः। यज्ञायाचरत कर्म समग्रं प्रविलीयते॥ 4 - 23॥  ब्रह्मार्पणं ब्रह्महवि - र्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म.समाधिना॥ 4 - 24॥  दैव.मेवापरे यज्ञँ योगिन पर्युपासते। ब्रह्माग्ना.वपरे यज्ञँ यज्ञेनैवोप.जुह्वति॥ 4 - 25॥  श्रोत्रादीनीन्द्रिया.ण्यन्ये सँयमाग्निषु जुह्वति। शब्दादी.न्विषया.नन्य इन्द्रियाग्निषु जुह्वति॥ 4 - 26॥  सर्वाणीन्द्रिय.कर्माणि प्राण.कर्माणि चापरे। आत्मसँयम.योगाग्नौ जुह्वति ज्ञान.दीपिते॥ 4 - 27॥  द्रव्ययज्ञा.स्तपोयज्ञा योगयज्ञा.स्तथापरे। स्वाध्याय.ज्ञानयज्ञाश्च यतय.स्संशित.व्रताः॥ 4 - 28॥  अपाने जुह्वति प्राणं प्राणेऽपान.न्तथापरे। प्राणापान.गती रुद्ध्वा प्राणायाम.परायणाः॥ 4 - 29॥  अपरे नियताहारा प्राणा.न्प्राणेषु जुह्वति। सर्वेऽप्येते यज्ञविदो यज्ञ.क्षपित.कल्मषाः॥ 4 - 30॥  यज्ञशिष्टामृत.भुजो यान्ति ब्रह्म सनातनम्। नायँ लोकोऽस्त्ययज्ञस्य कुतोऽन्य कुरुसत्तम॥ 4 - 31॥  एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजा.न्विद्धि ता.न्सर्वा - नेव.ञ्ज्ञात्वा विमोक्ष्यसे॥ 4 - 32॥  श्रेया.न्द्रव्यमया.द्यज्ञा - ज्ज्ञानयज्ञ परन्तप। सर्व.ङ्कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥ 4 - 33॥  तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञान - ञ्ज्ञानिन.स्तत्त्वदर्शिनः॥ 4 - 34॥  यज्ज्ञात्वा न पुन.र्मोह - मेवँ यास्यसि पाण्डव। येन भूता.न्यशेषेण द्रक्ष्य.स्यात्म.न्यथो मयि॥ 4 - 35॥  अपि चेदसि पापेभ्य - स्सर्वेभ्य पापकृत्तमः। सर्व.ञ्ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥ 4 - 36॥  यथैधांसि समिद्धोऽग्नि - र्भस्मसा.त्कुरुतेऽर्जुन। ज्ञानाग्नि.स्सर्व.कर्माणि भस्मसा.त्कुरुते तथा॥ 4 - 37॥  न हि ज्ञानेन सदृशं पवित्र.मिह विद्यते। तत्स्वयँ योगसंसिद्ध कालेनात्मनि विन्दति॥ 4 - 38॥  श्रद्धावा.न्लभते ज्ञान - न्तत्पर.स्सँयतेन्द्रियः। ज्ञानँ लब्ध्वा परां शान्ति - मचिरेणाधि.गच्छति॥ 4 - 39॥  अज्ञ.श्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायँ लोकोऽस्ति न परो न सुखं संशयात्मनः॥ 4 - 40॥  योग.सन्न्यस्त.कर्माण - ञ्ज्ञान.सञ्छिन्न.संशयम्। आत्मवन्त.न्न कर्माणि निबध्नन्ति धनञ्जय॥ 4 - 41॥  तस्मा.दज्ञान.सम्भूतं हृत्स्थ.ञ्ज्ञानासिनात्मनः। छित्त्वैनं संशयँ योग - मातिष्ठोत्तिष्ठ भारत॥ 4 - 42॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे ज्ञानयोगो नाम चतुर्थोऽध्यायः॥ 4॥ ----  अथ पञ्चमोऽध्यायः। कर्मसन्न्यासयोगः अर्जुन उवाच -  सन्न्यास.ङ्कर्मणा.ङ्कृष्ण पुन.र्योगञ्च शंससि। यच्छ्रेय एतयो.रेक - न्तन्मे ब्रूहि सुनिश्चितम्॥ 5 - 1॥  श्रीभगवा.नुवाच -  सन्न्यास कर्मयोगश्च निश्श्रेयस.करा.वुभौ। तयोस्तु कर्मसन्न्यासा - त्कर्मयोगो विशिष्यते॥ 5 - 2॥  ज्ञेय.स्स नित्य.सन्न्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धा.त्प्रमुच्यते॥ 5 - 3॥  साङ्ख्य.योगौ पृथ.ग्बाला प्रवदन्ति न पण्डिताः। एक.मप्यास्थित.स्सम्य - गुभयो.र्विन्दते फलम्॥ 5 - 4॥  यत्साङ्ख्यै प्राप्यते स्थान - न्तद्योगै.रपि गम्यते। एकं साङ्ख्यञ्च योगञ्च य पश्यति स पश्यति॥ 5 - 5॥  सन्न्यास.स्तु महाबाहो दुख.माप्तु.मयोगतः। योगयुक्तो मुनि.र्ब्रह्म न चिरेणाधि.गच्छति॥ 5 - 6॥  योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्व.न्नपि न लिप्यते॥ 5 - 7॥  नैव किञ्चि.त्करोमीति युक्तो मन्येत तत्त्ववित्। पश्य.ञ्छृण्व.न्स्पृश.ञ्जिघ्र - न्नश्न.न्गच्छ.न्स्वप.ञ्छ्वसन्॥ 5 - 8॥  प्रलप.न्विसृज.न्गृह्ण - न्नुन्मिष.न्निमिष.न्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥ 5 - 9॥  ब्रह्मण्याधाय कर्माणि सङ्ग.न्त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्र.मिवाम्भसा॥ 5 - 10॥  कायेन मनसा बुद्ध्या केवलै.रिन्द्रियै.रपि। योगिन कर्म कुर्वन्ति सङ्ग.न्त्यक्त्वात्म.शुद्धये॥ 5 - 11॥  युक्त कर्मफल.न्त्यक्त्वा शान्ति.माप्नोति नैष्ठिकीम्। अयुक्त कामकारेण फले सक्तो निबध्यते॥ 5 - 12॥  सर्व.कर्माणि मनसा सन्न्यस्यास्ते सुखँ वशी। नवद्वारे पुरे देही नैव कुर्व.न्न कारयन्॥ 5 - 13॥  न कर्तृत्व.न्न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफल.सँयोगं स्वभाव.स्तु प्रवर्तते॥ 5 - 14॥  नादत्ते कस्यचि.त्पाप - न्न चैव सुकृतँ विभुः। अज्ञानेनावृत.ञ्ज्ञान - न्तेन मुह्यन्ति जन्तवः॥ 5 - 15॥  ज्ञानेन तु त.दज्ञानँ येषा.न्नाशित.मात्मनः। तेषा.मादित्यव.ज्ज्ञानं प्रकाशयति तत्परम्॥ 5 - 16॥  तद्बुद्धय.स्तदात्मान - स्तन्निष्ठा.स्तत्परायणाः। गच्छ.न्त्यपुन.रावृत्ति - ञ्ज्ञान.निर्धूत.कल्मषाः॥ 5 - 17॥  विद्या.विनय.सम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिता.स्समदर्शिनः॥ 5 - 18॥  इहैव तै.र्जित.स्सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्मा.द्ब्रह्मणि ते स्थिताः॥ 5 - 19॥  न प्रहृष्ये.त्प्रियं प्राप्य नोद्विजे.त्प्राप्य चाप्रियम्। स्थिरबुद्धि.रसम्मूढो ब्रह्मवि.द्ब्रह्मणि स्थितः॥ 5 - 20॥  बाह्यस्पर्शे.ष्वसक्तात्मा विन्द.त्यात्मनि यत्सुखम्। स ब्रह्म योग.युक्तात्मा सुख.मक्षय.मश्नुते॥ 5 - 21॥  ये हि संस्पर्शजा भोगा दुख.योनय एव ते। आद्यन्तवन्त कौन्तेय न तेषु रमते बुधः॥ 5 - 22॥  शक्नोतीहैव य.स्सोढुं प्राक्छरीर.विमोक्षणात्। कामक्रोधोद्भवँ वेगं स युक्त.स्स सुखी नरः॥ 5 - 23॥  योऽन्त.स्सुखोऽन्त.राराम - स्तथान्त.र्ज्योति.रेव यः। स योगी ब्रह्म.निर्वाणं ब्रह्मभूतोऽधि.गच्छति॥ 5 - 24॥  लभन्ते ब्रह्मनिर्वाण - मृषयः - क्षीणकल्मषाः। छिन्नद्वैधायतात्मान - स्सर्वभूत.हिते रताः॥ 5 - 25॥  कामक्रोध.वियुक्तानाँ यतीनाँ यत.चेतसाम्। अभितो ब्रह्म.निर्वाणँ वर्तते विदितात्मनाम्॥ 5 - 26॥  स्पर्शा.न्कृत्वा बहि.र्बाह्यां - श्चक्षु.श्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तर.चारिणौ॥ 5 - 27॥  यतेन्द्रिय.मनो.बुद्धि - र्मुनि.र्मोक्ष.परायणः। विगतेच्छा.भयक्रोधो य.स्सदा मुक्त एव सः॥ 5 - 28॥  भोक्तारँ यज्ञ.तपसां सर्व.लोक.महेश्वरम्। सुहृदं सर्वभूताना - ञ्ज्ञात्वा मां शान्ति.मृच्छति॥ 5 - 29॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे कर्मसन्न्यास.योगो नाम पञ्चमोऽध्यायः॥ 5॥ ----  अथ षष्ठोऽध्यायः। आत्मसँयमयोगः श्रीभगवा.नुवाच -  अनाश्रित कर्मफल - ङ्कार्य.ङ्कर्म करोति यः। स सन्न्यासी च योगी च न निरग्नि.र्न चाक्रियः॥ 6 - 1॥  यं सन्न्यास.मिति प्राहु - र्योग.न्तँ विद्धि पाण्डव। न ह्यसन्न्यस्त.सङ्कल्पो योगी भवति कश्चन॥ 6 - 2॥  आरुरुक्षो.र्मुने.र्योग - ङ्कर्म कारण.मुच्यते। योगारूढस्य तस्यैव शम कारण.मुच्यते॥ 6 - 3॥  यदा हि नेन्द्रियार्थेषु न कर्म.स्वनुषज्जते। सर्वसङ्कल्प.सन्न्यासी योगारूढ.स्तदोच्यते॥ 6 - 4॥  उद्धरे.दात्मनात्मान - न्नात्मान.मवसादयेत्। आत्मैव ह्यात्मनो बन्धु - रात्मैव रिपु.रात्मनः॥ 6 - 5॥  बन्धु.रात्मात्मन.स्तस्य येनात्मैवात्मना जितः। अनात्मन.स्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥ 6 - 6॥  जितात्मन प्रशान्तस्य परमात्मा समाहितः। शीतोष्ण.सुख.दुखेषु तथा मानापमानयोः॥ 6 - 7॥  ज्ञान.विज्ञान.तृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी सम.लोष्टाश्म.काञ्चनः॥ 6 - 8॥  सुहृ.न्मित्रा.र्युदासीन - मध्यस्थ.द्वेष्य.बन्धुषु। साधुष्वपि च पापेषु समबुद्धि.र्विशिष्यते॥ 6 - 9॥  योगी युञ्जीत सतत - मात्मानं रहसि स्थितः। एकाकी यत.चित्तात्मा निराशी.रपरिग्रहः॥ 6 - 10॥  शुचौ देशे प्रतिष्ठाप्य स्थिर.मासन.मात्मनः। नात्युच्छ्रित.न्नातिनीच - ञ्चैलाजिन.कुशोत्तरम्॥ 6 - 11॥  तत्रैकाग्रं मन कृत्वा यत.चित्तेन्द्रिय.क्रियः। उपविश्यासने युञ्ज्या - द्योग.मात्म.विशुद्धये॥ 6 - 12॥  सम.ङ्काय.शिरो.ग्रीव - न्धारय.न्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्व - न्दिश.श्चानवलोकयन्॥ 6 - 13॥  प्रशान्तात्मा विगतभी - र्ब्रह्मचारि.व्रते स्थितः। मन.स्सँयम्य मच्चित्तो युक्त आसीत मत्परः॥ 6 - 14॥  युञ्ज.न्नेवं सदात्मानँ योगी नियत.मानसः। शान्ति.न्निर्वाण.परमां मत्संस्था.मधिगच्छति॥ 6 - 15॥  नात्यश्नत.स्तु योगोऽस्ति न चैकान्त.मनश्नतः। न चातिस्वप्न.शीलस्य जाग्रतो नैव चार्जुन॥ 6 - 16॥  युक्ताहार.विहारस्य युक्तचेष्टस्य कर्मसु। युक्त.स्वप्नावबोधस्य योगो भवति दुखहा॥ 6 - 17॥  यदा विनियत.ञ्चित्त - मात्मन्येवाव.तिष्ठते। निस्स्पृह.स्सर्वकामेभ्यो युक्त इत्युच्यते तदा॥ 6 - 18॥  यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योग.मात्मनः॥ 6 - 19॥  यत्रोपरमते चित्त - न्निरुद्धँ योगसेवया। यत्र चैवात्मनात्मानं पश्य.न्नात्मनि तुष्यति॥ 6 - 20॥  सुख.मात्यन्तिकँ यत्त - द्बुद्धिग्राह्य.मतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थित.श्चलति तत्त्वतः॥ 6 - 21॥  यँ लब्ध्वा चापरँ लाभं मन्यते नाधिक.न्ततः। यस्मि.न्स्थितो न दुखेन गुरुणापि विचाल्यते॥ 6 - 22॥  तँ विद्या.द्दुख.सँयोग - वियोगँ योग.सञ्ज्ञितम्। स निश्चयेन योक्तव्यो योगो निर्विण्ण.चेतसा॥ 6 - 23॥  सङ्कल्प.प्रभवा.न्कामां - स्त्यक्त्वा सर्वा.नशेषतः। मनसैवेन्द्रिय.ग्रामँ विनियम्य समन्ततः॥ 6 - 24॥  शनै.श्शनै.रुपरमे - द्बुद्ध्या धृति.गृहीतया। आत्मसंस्थं मन कृत्वा न किञ्चि.दपि चिन्तयेत्॥ 6 - 25॥  यतो यतो निश्चरति मन.श्चञ्चल.मस्थिरम्। तत.स्ततो नियम्यैत - दात्म.न्येव वश.न्नयेत्॥ 6 - 26॥  प्रशान्त.मनसं ह्येनँ योगिनं सुख.मुत्तमम्। उपैति शान्त.रजसं ब्रह्मभूत.मकल्मषम्॥ 6 - 27॥  युञ्ज.न्नेवं सदात्मानँ योगी विगत.कल्मषः। सुखेन ब्रह्म.संस्पर्श - मत्यन्तं सुख.मश्नुते॥ 6 - 28॥  सर्वभूतस्थ.मात्मानं सर्वभूतानि चात्मनि। ईक्षते योग.युक्तात्मा सर्वत्र समदर्शनः॥ 6 - 29॥  यो मां पश्यति सर्वत्र सर्वञ्च मयि पश्यति। तस्याह.न्न प्रणश्यामि स च मे न प्रणश्यति॥ 6 - 30॥  सर्वभूत.स्थितँ यो मां भज.त्येकत्व.मास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥ 6 - 31॥  आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखँ वा यदि वा दुखं स योगी परमो मतः॥ 6 - 32॥  अर्जुन उवाच -  योऽयँ योग.स्त्वया प्रोक्त - स्साम्येन मधुसूदन। एतस्याह.न्न पश्यामि चञ्चलत्वा.त्स्थितिं स्थिराम्॥ 6 - 33॥  चञ्चलं हि मन कृष्ण प्रमाथि बलव.द्दृढम्। तस्याह.न्निग्रहं मन्ये वायो.रिव सुदुष्करम्॥ 6 - 34॥  श्रीभगवा.नुवाच -  असंशयं महाबाहो मनो दुर्निग्रह.ञ्चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ 6 - 35॥  असँयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तु.मुपायतः॥ 6 - 36॥  अर्जुन उवाच -  अयति.श्श्रद्धयोपेतो योगा.च्चलित.मानसः। अप्राप्य योगसंसिद्धि - ङ्का.ङ्गति.ङ्कृष्ण गच्छति॥ 6 - 37॥  कच्चि.न्नोभय.विभ्रष्ट - श्छिन्नाभ्र.मिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण पथि॥ 6 - 38॥  एतन्मे संशय.ङ्कृष्ण छेत्तु.मर्ह.स्यशेषतः। त्वदन्य.स्संशय.स्यास्य छेत्ता न ह्युप.पद्यते॥ 6 - 39॥  श्रीभगवा.नुवाच -  पार्थ नैवेह नामुत्र विनाश.स्तस्य विद्यते। न हि कल्याणकृ.त्कश्चि - द्दुर्गति.न्तात गच्छति॥ 6 - 40॥  प्राप्य पुण्यकृताँ लोका - नुषित्वा शाश्वती.स्समाः। शुचीनां श्रीमता.ङ्गेहे योगभ्रष्टोऽभि.जायते॥ 6 - 41॥ अथवा योगिना.मेव कुले भवति धीमताम्। एतद्धि दुर्लभ.तरँ लोके जन्म य.दीदृशम्॥ 6 - 42॥  तत्र तं बुद्धि.सँयोगँ लभते पौर्वदेहिकम्। यतते च ततो भूय - स्संसिद्धौ कुरुनन्दन॥ 6 - 43॥  पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासु.रपि योगस्य शब्द.ब्रह्माति.वर्तते॥ 6 - 44॥  प्रयत्ना.द्यतमानस्तु योगी संशुद्ध.किल्बिषः। अनेकजन्म.संसिद्ध - स्ततो याति परा.ङ्गतिम्॥ 6 - 45॥  तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्य.श्चाधिको योगी तस्मा.द्योगी भवार्जुन॥ 6 - 46॥  योगिना.मपि सर्वेषां मद्गतेनान्त.रात्मना। श्रद्धावा.न्भजते यो मां स मे युक्ततमो मतः॥ 6 - 47॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे आत्मसँयमयोगो नाम षष्ठोऽध्यायः॥ 6॥ ----  अथ सप्तमोऽध्यायः। ज्ञानविज्ञानयोगः श्रीभगवा.नुवाच -  मय्यासक्त.मना पार्थ योगँ युञ्ज.न्मदाश्रयः। असंशयं समग्रं माँ यथा ज्ञास्यसि तच्छृणु॥ 7 - 1॥  ज्ञान.न्तेऽहं सविज्ञान - मिदँ वक्ष्या.म्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्य - ज्ज्ञातव्य.मवशिष्यते॥ 7 - 2॥  मनुष्याणां सहस्रेषु कश्चि.द्यतति सिद्धये। यतता.मपि सिद्धाना - ङ्कश्चि.न्माँ वेत्ति तत्त्वतः॥ 7 - 3॥  भूमि.रापोऽनलो वायु - खं मनो बुद्धि.रेव च। अहङ्कार इतीयं मे भिन्ना प्रकृति.रष्टधा॥ 7 - 4॥  अपरेय.मित.स्त्वन्यां प्रकृतिँ विद्धि मे पराम्। जीवभूतां महाबाहो ययेद.न्धार्यते जगत्॥ 7 - 5॥  एत.द्योनीनि भूतानि सर्वाणी.त्युपधारय। अह.ङ्कृत्स्नस्य जगत प्रभव प्रलय.स्तथा॥ 7 - 6॥  मत्त परतर.न्नान्य - त्किञ्चि.दस्ति धनञ्जय। मयि सर्व.मिदं प्रोतं सूत्रे मणिगणा इव॥ 7 - 7॥  रसोऽह.मप्सु कौन्तेय प्रभास्मि शशि.सूर्ययोः। प्रणव.स्सर्ववेदेषु शब्द खे पौरुष.न्नृषु॥ 7 - 8॥  पुण्यो गन्ध पृथिव्याञ्च तेज.श्चास्मि विभावसौ। जीवनं सर्वभूतेषु तप.श्चास्मि तपस्विषु॥ 7 - 9॥  बीजं मां सर्वभूतानाँ विद्धि पार्थ सनातनम्। बुद्धि.र्बुद्धिमता.मस्मि तेज.स्तेजस्विना.महम्॥ 7 - 10॥  बलं बलवता.ञ्चाह - ङ्काम.राग.विवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥ 7 - 11॥  ये चैव सात्त्विका भावा राजसा.स्तामसाश्च ये। मत्त एवेति ता.न्विद्धि न त्वह.न्तेषु ते मयि॥ 7 - 12॥  त्रिभि.र्गुणमयै.र्भावै - रेभि.स्सर्व.मिद.ञ्जगत्। मोहित.न्नाभिजानाति मा.मेभ्य पर.मव्ययम्॥ 7 - 13॥  दैवी ह्येषा गुणमयी मम माया दुरत्यया। मा.मेव ये प्रपद्यन्ते माया.मेता.न्तरन्ति ते॥ 7 - 14॥  न मा.न्दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः। माययापहृत.ज्ञाना आसुरं भाव.माश्रिताः॥ 7 - 15॥  चतुर्विधा भजन्ते मा.ञ्जना.स्सुकृतिनोऽर्जुन। आर्तो जिज्ञासु.रर्थार्थी ज्ञानी च भरतर्षभ॥ 7 - 16॥  तेषा.ञ्ज्ञानी नित्ययुक्त - एकभक्ति.र्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थ - महं स च मम प्रियः॥ 7 - 17॥  उदारा.स्सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थित.स्स हि युक्तात्मा मा.मेवानुत्तमा.ङ्गतिम्॥ 7 - 18॥  बहूना.ञ्जन्मना.मन्ते ज्ञानवा.न्मां प्रपद्यते। वासुदेव.स्सर्व.मिति स महात्मा सुदुर्लभः॥ 7 - 19॥  कामै.स्तैस्तै.र्हृतज्ञाना प्रपद्यन्तेऽन्य.देवताः। तन्त.न्नियम.मास्थाय प्रकृत्या नियता.स्स्वया॥ 7 - 20॥  यो यो याँ या.न्तनुं भक्त - श्श्रद्धयार्चितु.मिच्छति। तस्य तस्याचलां श्रद्धा - न्ता.मेव विदधा.म्यहम्॥ 7 - 21॥  स तया श्रद्धया युक्त - स्तस्याराधन.मीहते। लभते च तत कामा - न्मयैव विहितान्हि तान्॥ 7 - 22॥  अन्तवत्तु फल.न्तेषा - न्तद्भव.त्यल्प.मेधसाम्। देवा.न्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥ 7 - 23॥  अव्यक्तँ व्यक्ति.मापन्नं मन्यन्ते मा.मबुद्धयः। परं भाव.मजानन्तो ममाव्यय.मनुत्तमम्॥ 7 - 24॥  नाहं प्रकाश.स्सर्वस्य योगमाया.समावृतः। मूढोऽय.न्नाभिजानाति लोको मा.मज.मव्ययम्॥ 7 - 25॥  वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मा.न्तु वेद न कश्चन॥ 7 - 26॥  इच्छा.द्वेष.समुत्थेन द्वन्द्व.मोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥ 7 - 27॥  येषा.न्त्वन्तगतं पाप - ञ्जनानां पुण्य.कर्मणाम्। ते द्वन्द्व.मोह.निर्मुक्ता भजन्ते मा.न्दृढव्रताः॥ 7 - 28॥  जरा.मरण.मोक्षाय मा.माश्रित्य यतन्ति ये। ते ब्रह्म तद्विदु कृत्स्न - मध्यात्म.ङ्कर्म चाखिलम्॥ 7 - 29॥  साधिभूताधिदैवं मां साधियज्ञञ्च ये विदुः। प्रयाणकालेऽपि च मा - न्ते विदु.र्युक्तचेतसः॥ 7 - 30॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः॥ 7॥ ---  अथ अष्टमोऽध्यायः। अक्षरपरब्रह्मयोगः अर्जुन उवाच -  किन्तद्ब्रह्म? किमध्यात्म? - ङ्कि.ङ्कर्म पुरुषोत्तम। अधिभूतञ्च किं प्रोक्त - मधिदैव.ङ्कि.मुच्यते॥ 8 - 1॥  अधियज्ञ कथ.ङ्कोऽत्र? देहेऽस्मि.न्मधुसूदन। प्रयाणकाले च कथ? - ञ्ज्ञेयोऽसि नियतात्मभिः॥ 8 - 2॥  श्रीभगवा.नुवाच -  अक्षरं ब्रह्म परमं स्वभावोऽध्यात्म.मुच्यते। भूतभावोद्भव.करो विसर्ग कर्मसञ्ज्ञितः॥ 8 - 3॥  अधिभूत.ङ्क्षरो भाव पुरुष.श्चाधिदैवतम्। अधियज्ञोऽह.मेवात्र देहे देहभृताँ वर॥ 8 - 4॥  अन्तकाले च मा.मेव स्मर.न्मुक्त्वा कलेवरम्। य प्रयाति स मद्भावँ याति नास्त्यत्र संशयः॥ 8 - 5॥  यँ यँ वापि स्मर.न्भाव - न्त्यज.त्यन्ते कलेवरम्। तन्त.मेवैति कौन्तेय सदा तद्भाव.भावितः॥ 8 - 6॥  तस्मा.त्सर्वेषु कालेषु मा.मनु.स्मर युध्य च। मय्यर्पित.मनो.बुद्धि - र्मा.मेवैष्य.स्यसंशयः॥ 8 - 7॥  अभ्यास.योग.युक्तेन चेतसा नान्य.गामिना। परमं पुरुष.न्दिव्यँ याति पार्थानु.चिन्तयन्॥ 8 - 8॥  कविं पुराण.मनुशासितार - मणो.रणीयांस.मनुस्मरे.द्यः। सर्वस्य धातार.मचिन्त्यरूप - मादित्यवर्ण.न्तमस परस्तात्॥ 8 - 9॥  प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवो.र्मध्ये प्राण.मावेश्य सम्य - क्स तं परं पुरुष.मुपैति दिव्यम्॥ 8 - 10॥  यदक्षरँ वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्य.ञ्चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये॥ 8 - 11॥  सर्व.द्वाराणि सँयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मन प्राण - मास्थितो योग.धारणाम्॥ 8 - 12॥  ओ.मित्येकाक्षरं ब्रह्म व्याहर.न्मा.मनुस्मरन्। य प्रयाति त्यज.न्देहं स याति परमा.ङ्गतिम्॥ 8 - 13॥  अनन्यचेता.स्सततँ यो मां स्मरति नित्यशः। तस्याहं सुलभ पार्थ नित्य.युक्तस्य योगिनः॥ 8 - 14॥  मा.मुपेत्य पुनर्जन्म दुखालय.मशाश्वतम्। नाप्नुवन्ति महात्मान - स्संसिद्धिं परमा.ङ्गताः॥ 8 - 15॥  आब्रह्म.भुवना.ल्लोका पुन.रावर्तिनोऽर्जुन। मा.मुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥ 8 - 16॥  सहस्रयुग.पर्यन्त - मह.र्यद्ब्राह्मणा विदुः। रात्रिँ युग.सहस्रान्ता - न्तेऽहोरात्र.विदो जनाः॥ 8 - 17॥  अव्यक्ता.द्व्यक्तय.स्सर्वा प्रभव.न्त्यह.रागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त.सञ्ज्ञके॥ 8 - 18॥  भूत.ग्राम.स्स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवश पार्थ प्रभव.त्यह.रागमे॥ 8 - 19॥  पर.स्तस्मात्तु भावोऽन्यो - ऽव्यक्तोऽव्यक्ता.त्सनातनः। यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ 8 - 20॥  अव्यक्तोऽक्षर इत्युक्त - स्तमाहु परमा.ङ्गतिम्। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥ 8 - 21॥  पुरुष.स्स पर पार्थ भक्त्या लभ्य.स्त्वनन्यया। यस्यान्तस्स्थानि भूतानि येन सर्व.मिद.न्ततम्॥ 8 - 22॥  यत्र काले त्वनावृत्ति - मावृत्ति.ञ्चैव योगिनः। प्रयाता यान्ति त.ङ्कालँ वक्ष्यामि भरतर्षभ॥ 8 - 23॥  अग्नि.र्ज्योति.रह.श्शुक्ल - ष्षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ 8 - 24॥  धूमो रात्रि.स्तथा कृष्ण - ष्षण्मासा दक्षिणायनम्। तत्र चान्द्रमस.ञ्ज्योति - र्योगी प्राप्य निवर्तते॥ 8 - 25॥  शुक्ल.कृष्णे गती ह्येते जगत.श्शाश्वते मते। एकया या.त्यनावृत्ति - मन्ययावर्तते पुनः॥ 8 - 26॥  नैते सृती पार्थ जान - न्योगी मुह्यति कश्चन। तस्मा.त्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥ 8 - 27॥  वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्व.मिदँ विदित्वा योगी परं स्थान.मुपैति चाद्यम्॥ 8 - 28॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे अक्षरपरब्रह्मयोगो नाम अष्टमोऽध्यायः॥ 8॥ ----  अथ नवमोऽध्यायः। राजविद्या राजगुह्ययोगः श्रीभगवा.नुवाच -  इदन्तु ते गुह्यतमं प्रवक्ष्या.म्यनसूयवे। ज्ञानँ विज्ञान.सहितँ यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ 9 - 1॥  राजविद्या राजगुह्यं पवित्र.मिद.मुत्तमम्। प्रत्यक्षावगम.न्धर्म्यं सुसुख.ङ्कर्तु.मव्ययम्॥ 9 - 2॥  अश्रद्दधाना पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मा.न्निवर्तन्ते मृत्यु.संसार.वर्त्मनि॥ 9 - 3॥  मया तत.मिदं सर्व - ञ्जग.दव्यक्त.मूर्तिना। मत्स्थानि सर्वभूतानि न चाह.न्तेष्ववस्थितः॥ 9 - 4॥  न च मत्स्थानि भूतानि पश्य मे योग.मैश्वरम्। भूतभृ.न्न च भूतस्थो ममात्मा भूतभावनः॥ 9 - 5॥  यथाकाश.स्थितो नित्यँ वायु.स्सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानी.त्युपधारय॥ 9 - 6॥  सर्वभूतानि कौन्तेय प्रकृतिँ यान्ति मामिकाम्। कल्प.क्षये पुन.स्तानि कल्पादौ विसृजा.म्यहम्॥ 9 - 7॥  प्रकृतिं स्वा.मवष्टभ्य विसृजामि पुन पुनः। भूत.ग्राम.मिम.ङ्कृत्स्न - मवशं प्रकृते.र्वशात्॥ 9 - 8॥  न च मा.न्तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनव.दासीन - मसक्त.न्तेषु कर्मसु॥ 9 - 9॥  मयाध्यक्षेण प्रकृति - स्सूयते सचराचरम्। हेतुनानेन कौन्तेय जग.द्विपरिवर्तते॥ 9 - 10॥  अवजानन्ति मां मूढा मानुषी.न्तनु.माश्रितम्। परं भाव.मजानन्तो मम भूत.महेश्वरम्॥ 9 - 11॥  मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसी.मासुरी.ञ्चैव प्रकृतिं मोहिनीं श्रिताः॥ 9 - 12॥  महात्मान.स्तु मां पार्थ दैवीं प्रकृति.माश्रिताः। भज.न्त्यनन्य.मनसो ज्ञात्वा भूतादि.मव्ययम्॥ 9 - 13॥  सतत.ङ्कीर्तयन्तो माँ यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्य.युक्ता उपासते॥ 9 - 14॥  ज्ञान.यज्ञेन चाप्यन्ये यजन्तो मा.मुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतो.मुखम्॥ 9 - 15॥  अह.ङ्क्रतु.रहँ यज्ञ - स्स्वधाह.मह.मौषधम्। मन्त्रोऽह.मह.मेवाज्य - मह.मग्नि.रहं हुतम्॥ 9 - 16॥  पिताह.मस्य जगतो माता धाता पितामहः। वेद्यं पवित्र.मोङ्कार ऋक्साम यजु.रेव च॥ 9 - 17॥  गति.र्भर्ता प्रभु.स्साक्षी निवास.श्शरणं सुहृत्। प्रभव प्रलय.स्स्थान - न्निधानं बीज.मव्ययम्॥ 9 - 18॥  तपा.म्यह.महँ वर्ष - न्निगृह्णा.म्युत्सृजामि च। अमृत.ञ्चैव मृत्युश्च सदस.च्चाह.मर्जुन॥ 9 - 19॥  त्रैविद्या मां सोमपा पूतपापा यज्ञै.रिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्य.मासाद्य सुरेन्द्रलोक - मश्नन्ति दिव्या.न्दिवि देवभोगान्॥ 9 - 20॥  ते तं भुक्त्वा स्वर्गलोकँ विशालं क्षीणे पुण्ये मर्त्यलोकँ विशन्ति। एव.न्त्रयी.धर्म.मनुप्रपन्ना गतागत.ङ्कामकामा लभन्ते॥ 9 - 21॥  अनन्या.श्चिन्तयन्तो माँ ये जना पर्युपासते। तेषा.न्नित्याभियुक्तानाँ योगक्षेमँ वहा.म्यहम्॥ 9 - 22॥  येऽप्यन्य.देवता.भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मा.मेव कौन्तेय यज.न्त्यविधि.पूर्वकम्॥ 9 - 23॥  अहं हि सर्वयज्ञानां भोक्ता च प्रभु.रेव च। न तु मा.मभि.जानन्ति तत्त्वेनात.श्च्यवन्ति ते॥ 9 - 24॥  यान्ति देवव्रता देवा - न्पितॄ.न्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति म.द्याजिनोऽपि माम्॥ 9 - 25॥  पत्रं पुष्पं फल.न्तोयँ यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृत - मश्नामि प्रयतात्मनः॥ 9 - 26॥  यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥ 9 - 27॥  शुभाशुभ.फलै.रेवं मोक्ष्यसे कर्म.बन्धनैः। सन्न्यास.योग.युक्तात्मा विमुक्तो मा.मुपैष्यसि॥ 9 - 28॥  समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥ 9 - 29॥  अपि चे.त्सुदुराचारो भजते मा.मनन्यभाक्। साधु.रेव स मन्तव्य - स्सम्य.ग्व्यवसितो हि सः॥ 9 - 30॥  क्षिप्रं भवति धर्मात्मा शश्व.च्छान्ति.न्निगच्छति। कौन्तेय प्रति.जानीहि न मे भक्त प्रणश्यति॥ 9 - 31॥  मां हि पार्थ व्यपाश्रित्य येऽपि स्यु पाप.योनयः। स्त्रियो वैश्या.स्तथा शूद्रा - स्तेऽपि यान्ति परा.ङ्गतिम्॥ 9 - 32॥  किं पुन.र्ब्राह्मणा पुण्या भक्ता राजर्षय.स्तथा। अनित्य.मसुखँ लोक - मिमं प्राप्य भजस्व माम्॥ 9 - 33॥  मन्मना भव मद्भक्तो मद्याजी मा.न्नम.स्कुरु। मा.मेवैष्यसि युक्त्वैव - मात्मानं मत्परायणः॥ 9 - 34॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे राजविद्या.राजगुह्ययोगो नाम नवमोऽध्यायः॥ 9॥ ---  अथ दशमोऽध्यायः। विभूतियोगः श्रीभगवा.नुवाच -  भूय एव महाबाहो शृणु मे परमँ वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हित.काम्यया॥ 10 - 1॥  न मे विदु.स्सुर.गणा प्रभव.न्न महर्षयः। अह.मादि.र्हि देवानां महर्षीणाञ्च सर्वशः॥ 10 - 2॥  यो मा.मज.मनादिञ्च वेत्ति लोक.महेश्वरम्। असम्मूढ.स्स मर्त्येषु सर्व.पापै प्रमुच्यते॥ 10 - 3॥  बुद्धि.र्ज्ञान.मसम्मोहः - क्षमा सत्य.न्दम.श्शमः। सुख.न्दुखं भवोऽभावो भय.ञ्चाभय.मेव च॥ 10 - 4॥  अहिंसा समता तुष्टि - स्तपो दानँ यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथ.ग्विधाः॥ 10 - 5॥  महर्षय.स्सप्त पूर्वे चत्वारो मनव.स्तथा। मद्भावा मानसा जाता येषाँ लोक इमा प्रजाः॥ 10 - 6॥  एताँ विभूतिँ योगञ्च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥ 10 - 7॥  अहं सर्वस्य प्रभवो मत्त.स्सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भाव.समन्विताः॥ 10 - 8॥  मच्चित्ता मद्गत.प्राणा बोधयन्त पर.स्परम्। कथयन्तश्च मा.न्नित्य - न्तुष्यन्ति च रमन्ति च॥ 10 - 9॥  तेषां सतत.युक्तानां भजतां प्रीति.पूर्वकम्। ददामि बुद्धि.योग.न्तँ येन मा.मुप.यान्ति ते॥ 10 - 10॥  तेषा.मेवानुकम्पार्थ - मह.मज्ञानज.न्तमः। नाशया.म्यात्म.भावस्थो ज्ञान.दीपेन भास्वता॥ 10 - 11॥  अर्जुन उवाच -  परं ब्रह्म पर.न्धाम पवित्रं परमं भवान्। पुरुषं शाश्वत.न्दिव्य - मादिदेव.मजँ विभुम्॥ 10 - 12॥  आहु.स्त्वा.मृषय.स्सर्वे देवर्षि.र्नारद.स्तथा। असितो देवलो व्यास - स्स्वय.ञ्चैव ब्रवीषि मे॥ 10 - 13॥  सर्व.मेत.दृतं मन्ये यन्माँ वदसि केशव। न हि ते भगव.न्व्यक्तिँ विदु.र्देवा न दानवाः॥ 10 - 14॥  स्वय.मेवात्मनात्मानँ वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते॥ 10 - 15॥  वक्तु.मर्हस्यशेषेण दिव्या ह्यात्म.विभूतयः। याभि.र्विभूतिभि.र्लोका - निमां.स्त्वँ व्याप्य तिष्ठसि॥ 10 - 16॥  कथँ विद्या.महँ योगिं - स्त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगव.न्मया॥ 10 - 17॥  विस्तरेणात्मनो योगँ विभूतिञ्च जनार्दन। भूय कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥ 10 - 18॥  श्रीभगवा.नुवाच -  हन्त ते कथयिष्यामि दिव्या ह्यात्म.विभूतयः। प्राधान्यत कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥ 10 - 19॥  अह.मात्मा गुडाकेश सर्वभूताशय.स्थितः। अह.मादिश्च मध्यञ्च भूताना.मन्त एव च॥ 10 - 20॥  आदित्याना.महँ विष्णु - र्ज्योतिषां रवि.रंशुमान्। मरीचि.र्मरुता.मस्मि नक्षत्राणा.महं शशी॥ 10 - 21॥  वेदानां सामवेदोऽस्मि देवाना.मस्मि वासवः। इन्द्रियाणां मन.श्चास्मि भूताना.मस्मि चेतना॥ 10 - 22॥  रुद्राणां शङ्कर.श्चास्मि वित्तेशो यक्ष.रक्षसाम्। वसूनां पावक.श्चास्मि मेरु.श्शिखरिणा.महम्॥ 10 - 23॥  पुरोधसाञ्च मुख्यं माँ विद्धि पार्थ बृहस्पतिम्। सेनानीना.महं स्कन्द - स्सरसा.मस्मि सागरः॥ 10 - 24॥  महर्षीणां भृगु.रह - ङ्गिरा.मस्म्येक.मक्षरम्। यज्ञाना.ञ्जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ 10 - 25॥  अश्वत्थ.स्सर्व.वृक्षाणा - न्देवर्षीणाञ्च नारदः। गन्धर्वाणा.ञ्चित्ररथ - स्सिद्धाना.ङ्कपिलो मुनिः॥ 10 - 26॥  उच्चैश्श्रवस.मश्वानाँ विद्धि मा.ममृतोद्भवम्। ऐरावत.ङ्गजेन्द्राणा - न्नराणाञ्च नराधिपम्॥ 10 - 27॥  आयुधाना.महँ वज्र - न्धेनूना.मस्मि कामधुक्। प्रजन.श्चास्मि कन्दर्प - स्सर्पाणा.मस्मि वासुकिः॥ 10 - 28॥  अनन्त.श्चास्मि नागानाँ वरुणो यादसा.महम्। पितॄणा.मर्यमा चास्मि यम.स्सँयमता.महम्॥ 10 - 29॥  प्रह्लाद.श्चास्मि दैत्याना - ङ्काल कलयता.महम्। मृगाणाञ्च मृगेन्द्रोऽहँ वैनतेयश्च पक्षिणाम्॥ 10 - 30॥  पवन पवता.मस्मि राम.श्शस्त्रभृता.महम्। झषाणां मकर.श्चास्मि स्रोतसा.मस्मि जाह्नवी॥ 10 - 31॥  सर्गाणा.मादि.रन्तश्च मध्य.ञ्चैवाह.मर्जुन। अध्यात्म.विद्या विद्यानाँ वाद प्रवदता.महम्॥ 10 - 32॥  अक्षराणा.मकारोऽस्मि द्वन्द्व.स्सामासिकस्य च। अह.मेवाक्षय कालो धाताहँ विश्वतो.मुखः॥ 10 - 33॥  मृत्यु.स्सर्वहर.श्चाह - मुद्भवश्च भविष्यताम्। कीर्ति.श्श्री.र्वाक्च नारीणां स्मृति.र्मेधा धृति क्षमा॥ 10 - 34॥  बृहत्साम तथा साम्ना - ङ्गायत्री छन्दसा.महम्। मासानां मार्गशीर्षोऽह - मृतूना.ङ्कुसुमाकरः॥ 10 - 35॥  द्यूत.ञ्छलयता.मस्मि तेज.स्तेजस्विना.महम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववता.महम्॥ 10 - 36॥  वृष्णीनाँ वासुदेवोऽस्मि पाण्डवाना.न्धनञ्जयः। मुनीना.मप्यहँ व्यास कवीना.मुशना कविः॥ 10 - 37॥  दण्डो दमयता.मस्मि नीति.रस्मि जिगीषताम्। मौन.ञ्चैवास्मि गुह्याना - ञ्ज्ञान.ञ्ज्ञानवता.महम्॥ 10 - 38॥  यच्चापि सर्वभूतानां बीज.न्तदह.मर्जुन। न तदस्ति विना यत्स्या - न्मया भूत.ञ्चराचरम्॥ 10 - 39॥  नान्तोऽस्ति मम दिव्यानाँ विभूतीनां परन्तप। एष तूद्देशत प्रोक्तो विभूते.र्विस्तरो मया॥ 10 - 40॥  यद्य.द्विभूतिम.त्सत्त्वं श्रीम.दूर्जित.मेव वा। तत्त.देवावगच्छ त्वं मम तेजोंऽश.सम्भवम्॥ 10 - 41॥ अथवा बहुनैतेन किञ्ज्ञातेन तवार्जुन। विष्टभ्याह.मिद.ङ्कृत्स्न - मेकांशेन स्थितो जगत्॥ 10 - 42॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे विभूतियोगो नाम दशमोऽध्यायः॥ 10॥ ----  अथ एकादशोऽध्यायः। विश्वरूप सन्दर्शनयोगः अर्जुन उवाच -  म.दनुग्रहाय परम - ङ्गुह्य.मध्यात्म.संज्ञितम्। यत्त्वयोक्तँ वच.स्तेन मोहोऽयँ विगतो मम॥ 11 - 1॥  भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्त कमल.पत्राक्ष माहात्म्य.मपि चाव्ययम्॥ 11 - 2॥  एव.मेत.द्यथात्थ त्व - मात्मानं परमेश्वर। द्रष्टु.मिच्छामि ते रूप - मैश्वरं पुरुषोत्तम॥ 11 - 3॥  मन्यसे यदि तच्छक्यं मया द्रष्टु.मिति प्रभो। योगेश्वर ततो मे त्व - न्दर्शयात्मान.मव्ययम्॥ 11 - 4॥  श्रीभगवा.नुवाच -  पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नाना.विधानि दिव्यानि नानावर्णाकृतीनि च॥ 11 - 5॥  पश्यादित्या.न्वसू.न्रुद्रा - नश्विनौ मरुत.स्तथा। बहू.न्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥ 11 - 6॥  इहैकस्थ.ञ्जग.त्कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश यच्चान्य.द्द्रष्टु.मिच्छसि॥ 11 - 7॥  न तु मां शक्यसे द्रष्टु - मनेनैव स्वचक्षुषा। दिव्य.न्ददामि ते चक्षु पश्य मे योग.मैश्वरम्॥ 11 - 8॥  सञ्जय उवाच -  एव.मुक्त्वा ततो राज - न्महा.योगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूप.मैश्वरम्॥ 11 - 9॥  अनेक.वक्त्र.नयन - मनेकाद्भुत.दर्शनम्। अनेक.दिव्याभरण - न्दिव्यानेकोद्यतायुधम्॥ 11 - 10॥  दिव्य.माल्याम्बर.धर - न्दिव्य.गन्धानु.लेपनम्। सर्वाश्चर्यमय.न्देव - मनन्तँ विश्वतो.मुखम्॥ 11 - 11॥  दिवि सूर्य.सहस्रस्य भवे.द्युगप.दुत्थिता। यदि भा.स्सदृशी सा स्या - द्भास.स्तस्य महात्मनः॥ 11 - 12॥  तत्रैकस्थ.ञ्जग.त्कृत्स्नं प्रविभक्त.मनेकधा। अपश्य.द्देवदेवस्य शरीरे पाण्डव.स्तदा॥ 11 - 13॥  तत.स्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देव - ङ्कृताञ्जलि.रभाषत॥ 11 - 14॥  अर्जुन उवाच -  पश्यामि देवां.स्तव देव देहे सर्वां.स्तथा भूत.विशेष.सङ्घान्। ब्रह्माण.मीश.ङ्कमलासनस्थ - मृषींश्च सर्वा.नुरगांश्च दिव्यान्॥ 11 - 15॥  अनेक.बाहूदर.वक्त्र.नेत्रं पश्यामि त्वां सर्वतोऽनन्त.रूपम्। नान्त.न्न मध्य.न्न पुन.स्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥ 11 - 16॥  किरीटिन.ङ्गदिन.ञ्चक्रिणञ्च तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वा.न्दुर्निरीक्ष्यं समन्ता - द्दीप्तानलार्क.द्युति.मप्रमेयम्॥ 11 - 17॥  त्वमक्षरं परमँ वेदितव्यं त्वमस्य विश्वस्य पर.न्निधानम्। त्वमव्यय.श्शाश्वत.धर्मगोप्ता सनातन.स्त्वं पुरुषो मतो मे॥ 11 - 18॥  अनादि.मध्यान्त.मनन्त.वीर्य - मनन्त.बाहुं शशिसूर्य.नेत्रम्। पश्यामि त्वा.न्दीप्त.हुताश.वक्त्रं स्वतेजसा विश्व.मिद.न्तपन्तम्॥ 11 - 19॥  द्यावापृथिव्यो.रिद.मन्तरं हि व्याप्त.न्त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूप.मुग्र.न्तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ 11 - 20॥  अमी हि त्वां सुरसङ्घा विशन्ति केचि.द्भीता प्राञ्जलयो गृणन्ति। स्वस्ती.त्युक्त्वा महर्षि.सिद्ध.सङ्घा - स्स्तुवन्ति त्वां स्तुतिभि पुष्कलाभिः॥ 11 - 21॥  रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुत.श्चोष्मपाश्च। गन्धर्व.यक्षासुर.सिद्ध.सङ्घा वीक्षन्ते त्वाँ विस्मिता.श्चैव सर्वे॥ 11 - 22॥  रूपं मह.त्ते बहुवक्त्र.नेत्रं महाबाहो बहु.बाहूरु.पादम्। बहूदरं बहुदंष्ट्रा.कराल - न्दृष्ट्वा लोका प्रव्यथिता.स्तथाहम्॥ 11 - 23॥  नभस्स्पृश.न्दीप्त.मनेकवर्णं व्यात्तानन.न्दीप्त.विशाल.नेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिन्न विन्दामि शमञ्च विष्णो॥ 11 - 24॥  दंष्ट्रा.करालानि च ते मुखानि दृष्ट्वैव कालानल.सन्निभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जग.न्निवास॥ 11 - 25॥  अमी च त्वा.न्धृतराष्ट्रस्य पुत्रा - स्सर्वे सहैवावनि.पाल.सङ्घैः। भीष्मो द्रोण.स्सूतपुत्र.स्तथासौ सहास्मदीयै.रपि योधमुख्यैः॥ 11 - 26॥  वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा.करालानि भयानकानि। केचि.द्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितै.रुत्तमाङ्गैः॥ 11 - 27॥  यथा नदीनां बहवोऽम्बु.वेगा - स्समुद्र.मेवाभिमुखा द्रवन्ति। तथा तवामी नरलोक.वीरा विशन्ति वक्त्राण्यभि.विज्वलन्ति॥ 11 - 28॥  यथा प्रदीप्त.ञ्ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध.वेगाः। तथैव नाशाय विशन्ति लोका - स्तवापि वक्त्राणि समृद्ध.वेगाः॥ 11 - 29॥  लेलिह्यसे ग्रसमान.स्समन्ता - ल्लोका.न्समग्रा.न्वदनै.र्ज्वलद्भिः। तेजोभि.रापूर्य जग.त्समग्रं भास.स्तवोग्रा प्रतपन्ति विष्णो॥ 11 - 30॥  आख्याहि मे को भवा.नुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातु.मिच्छामि भवन्त.माद्य - न्न हि प्रजानामि तव प्रवृत्तिम्॥ 11 - 31॥  श्रीभगवा.नुवाच -  कालोऽस्मि लोक.क्षयकृ.त्प्रवृद्धो लोका.न्समाहर्तु.मिह प्रवृत्तः। ऋतेऽपि त्वा.न्न भविष्यन्ति सर्वे येऽवस्थिता प्रत्यनीकेषु योधाः॥ 11 - 32॥  तस्मा.त्त्व.मुत्तिष्ठ यशो लभस्व जित्वा शत्रू.न्भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहता पूर्व.मेव निमित्तमात्रं भव सव्यसाचिन्॥ 11 - 33॥  द्रोणञ्च भीष्मञ्च जयद्रथञ्च कर्ण.न्तथान्या.नपि योध.वीरान्। मया हतां.स्त्वञ्जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥ 11 - 34॥  सञ्जय उवाच -  एत.च्छ्रुत्वा वचन.ङ्केशवस्य कृताञ्जलि.र्वेपमान किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत प्रणम्य॥ 11 - 35॥  अर्जुन उवाच -  स्थाने हृषीकेश तव प्रकीर्त्या जग.त्प्रहृष्य.त्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ 11 - 36॥  कस्माच्च ते न नमेर.न्महात्म - न्गरीयसे ब्रह्मणोऽप्यादि.कर्त्रे। अनन्त देवेश जग.न्निवास त्वमक्षरं सदस.त्तत्परँ यत्॥ 11 - 37॥  त्व.मादिदेव पुरुष पुराण - स्त्वमस्य विश्वस्य पर.न्निधानम्। वेत्तासि वेद्यञ्च परञ्च धाम त्वया ततँ विश्व.मनन्तरूप॥ 11 - 38॥  वायु.र्यमोऽग्नि.र्वरुण.श्शशाङ्क - प्रजापति.स्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्र.कृत्व पुनश्च भूयोऽपि नमो नमस्ते॥ 11 - 39॥  नम पुरस्ता.दथ पृष्ठत.स्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्त.वीर्यामित.विक्रम.स्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥ 11 - 40॥  सखेति मत्वा प्रसभँ यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमान.न्तवेदं मया प्रमादा.त्प्रणयेन वापि॥ 11 - 41॥  यच्चावहासार्थ.मसत्कृतोऽसि विहार.शय्यासन.भोजनेषु। एकोऽथवाप्यच्युत तत्समक्ष - न्तत्क्षामये त्वा.मह.मप्रमेयम्॥ 11 - 42॥  पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरु.र्गरीयान्। न त्व.त्समोऽस्त्यभ्यधिक कुतोऽन्यो लोकत्रयेऽप्यप्रतिम.प्रभाव॥ 11 - 43॥  तस्मा.त्प्रणम्य प्रणिधाय कायं प्रसादये त्वा.मह.मीश.मीड्यम्। पितेव पुत्रस्य सखेव सख्यु प्रिय प्रियायार्हसि देव सोढुम्॥ 11 - 44॥  अदृष्ट.पूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जग.न्निवास॥ 11 - 45॥  किरीटिन.ङ्गदिन.ञ्चक्रहस्त - मिच्छामि त्वा.न्द्रष्टु.मह.न्तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥ 11 - 46॥  श्रीभगवा.नुवाच -  मया प्रसन्नेन तवार्जुनेदं रूपं पर.न्दर्शित.मात्म.योगात्। तेजोमयँ विश्व.मनन्त.माद्यँ यन्मे त्व.दन्येन न दृष्टपूर्वम्॥ 11 - 47॥  न वेद.यज्ञाध्ययनै.र्न दानै - र्न च क्रियाभि.र्न तपोभि.रुग्रैः। एवंरूप.श्शक्य अह.न्नृलोके द्रष्टु.न्त्वदन्येन कुरुप्रवीर॥ 11 - 48॥  मा ते व्यथा मा च विमूढ.भावो दृष्ट्वा रूप.ङ्घोर.मीदृ.ङ्ममेदम्। व्यपेतभी प्रीतमना पुन.स्त्व - न्त.देव मे रूप.मिदं प्रपश्य॥ 11 - 49॥  सञ्जय उवाच -  इत्यर्जुनँ वासुदेव.स्तथोक्त्वा स्वकं रूप.न्दर्शयामास भूयः। आश्वासयामास च भीत.मेनं भूत्वा पुन.स्सौम्य.वपु.र्महात्मा॥ 11 - 50॥  अर्जुन उवाच -  दृष्ट्वेदं मानुषं रूप - न्तव सौम्य.ञ्जनार्दन। इदानी.मस्मि सँवृत्त - स्सचेता प्रकृति.ङ्गतः॥ 11 - 51॥  श्रीभगवा.नुवाच -  सुदुर्दर्श.मिदं रूप - न्दृष्टवा.नसि यन्मम। देवा अप्यस्य रूपस्य नित्य.न्दर्शन.काङ्क्षिणः॥ 11 - 52॥  नाहँ वेदै.र्न तपसा न दानेन न चेज्यया। शक्य एवँविधो द्रष्टु - न्दृष्टवा.नसि माँ यथा॥ 11 - 53॥  भक्त्या त्वनन्यया शक्य अह.मेवँविधोऽर्जुन। ज्ञातु.न्द्रष्टुञ्च तत्त्वेन प्रवेष्टुञ्च परन्तप॥ 11 - 54॥  मत्कर्मकृ.न्मत्परमो मद्भक्त.स्सङ्ग.वर्जितः। निर्वैर.स्सर्वभूतेषु य.स्स मा.मेति पाण्डव॥ 11 - 55॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे विश्वरूप सन्दर्शनयोगो नाम एकादशोऽध्यायः॥ 11॥ ---  अथ द्वादशोऽध्यायः। भक्तियोगः अर्जुन उवाच -  एवं सतत.युक्ता ये भक्ता.स्त्वां पर्युपासते। ये चाप्यक्षर.मव्यक्त - न्तेषा.ङ्के योग.वित्तमाः॥ 12 - 1॥  श्रीभगवा.नुवाच -  मय्यावेश्य मनो ये मा - न्नित्य.युक्ता उपासते। श्रद्धया परयोपेता - स्ते मे युक्ततमा मताः॥ 12 - 2॥  ये त्वक्षर.मनिर्देश्य - मव्यक्तं पर्युपासते। सर्वत्र.गम.चिन्त्यञ्च कूटस्थ.मचल.न्ध्रुवम्॥ 12 - 3॥  सन्नियम्येन्द्रिय.ग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मा.मेव सर्वभूत.हिते रताः॥ 12 - 4॥  क्लेशोऽधिकतर.स्तेषा - मव्यक्तासक्त.चेतसाम्। अव्यक्ता हि गति.र्दुख - न्देहवद्भि.रवाप्यते॥ 12 - 5॥  ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः। अनन्येनैव योगेन मा.न्ध्यायन्त उपासते॥ 12 - 6॥  तेषा.महं समुद्धर्ता मृत्यु.संसार.सागरात्। भवामि न चिरा.त्पार्थ मय्यावेशित.चेतसाम्॥ 12 - 7॥  मय्येव मन आधत्स्व मयि बुद्धि.न्निवेशय। निवसिष्यसि मय्येव अत ऊर्ध्व.न्न संशयः॥ 12 - 8॥ अथ चित्तं समाधातु - न्न शक्नोषि मयि स्थिरम्। अभ्यास.योगेन ततो मा.मिच्छाप्तु.न्धनञ्जय॥ 12 - 9॥  अभ्यासेऽप्यसमर्थोऽसि मत्कर्म.परमो भव। मदर्थ.मपि कर्माणि कुर्व - न्सिद्धि.मवाप्स्यसि॥ 12 - 10॥  अथैत.दप्यशक्तोऽसि कर्तुं मद्योग.माश्रितः। सर्व.कर्म.फल.त्याग - न्तत कुरु यतात्मवान्॥ 12 - 11॥  श्रेयो हि ज्ञान.मभ्यासा - ज्ज्ञाना.द्ध्यानँ विशिष्यते। ध्याना.त्कर्म.फल.त्याग - स्त्यागा.च्छान्ति.रनन्तरम्॥ 12 - 12॥  अद्वेष्टा सर्वभूतानां मैत्र करुण एव च। निर्ममो निरहङ्कार - स्सम.दुख.सुखः क्षमी॥ 12 - 13॥  सन्तुष्ट.स्सततँ योगी यतात्मा दृढ.निश्चयः। मय्यर्पित.मनोबुद्धि - र्यो मद्भक्त.स्स मे प्रियः॥ 12 - 14॥  यस्मा.न्नोद्विजते लोको लोका.न्नोद्विजते च यः। हर्षामर्ष.भयोद्वेगै - र्मुक्तो य.स्स च मे प्रियः॥ 12 - 15॥  अनपेक्ष.श्शुचि.र्दक्ष उदासीनो गत.व्यथः। सर्वारम्भ.परित्यागी यो मद्भक्त.स्स मे प्रियः॥ 12 - 16॥  यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभ.परित्यागी भक्तिमा.न्य.स्स मे प्रियः॥ 12 - 17॥  सम.श्शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्ण.सुखदुखेषु सम.स्सङ्ग.विवर्जितः॥ 12 - 18॥  तुल्य.निन्दा.स्तुति.र्मौनी सन्तुष्टो येन केनचित्। अनिकेत.स्स्थिरमति - र्भक्तिमा.न्मे प्रियो नरः॥ 12 - 19॥  ये तु धर्म्यामृत.मिदँ यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्ता.स्तेऽतीव मे प्रियाः॥ 12 - 20॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे भक्तियोगो नाम द्वादशोऽध्यायः॥ 12॥ ---  अथ त्रयोदशोऽध्यायः। क्षेत्रक्षेत्रज्ञ.विभाग.योगः अर्जुन उवाच -  प्रकृतिं पुरुष.ञ्चैव क्षेत्र.ङ्क्षेत्रज्ञ.मेव च। एत.द्वेदितु.मिच्छामि ज्ञान.ञ्ज्ञेयञ्च केशव॥ 13 - 1॥  श्रीभगवा.नुवाच -  इदं शरीर.ङ्कौन्तेय क्षेत्र.मित्यभि.धीयते। एतद्यो वेत्ति तं प्राहुः - क्षेत्रज्ञ इति तद्विदः॥ 13 - 2॥  क्षेत्रज्ञ.ञ्चापि माँ विद्धि सर्वक्षेत्रेषु भारत। क्षेत्र.क्षेत्रज्ञयो.र्ज्ञानँ यत्त.ज्ज्ञानं मतं मम॥ 13 - 3॥  तत्क्षेत्रँ यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥ 13 - 4॥  ऋषिभि.र्बहुधा गीत - ञ्छन्दोभि.र्विविधै पृथक्। ब्रह्मसूत्र.पदैश्चैव हेतुमद्भि.र्विनिश्चितैः॥ 13 - 5॥  महाभूता.न्यहङ्कारो बुद्धि.रव्यक्त.मेव च। इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रिय.गोचराः॥ 13 - 6॥  इच्छा द्वेष.स्सुख.न्दुखं सङ्घात.श्चेतना धृतिः। एत.त्क्षेत्रं समासेन सविकार.मुदाहृतम्॥ 13 - 7॥  अमानित्व.मदम्भित्व - महिंसा क्षान्ति.रार्जवम्। आचार्योपासनं शौचं स्थैर्य.मात्म.विनिग्रहः॥ 13 - 8॥  इन्द्रियार्थेषु वैराग्य - मनहङ्कार एव च। जन्म.मृत्यु.जरा.व्याधि - दुख.दोषानु.दर्शनम्॥ 13 - 9॥  असक्ति.रनभिष्वङ्ग पुत्रदार.गृहादिषु। नित्यञ्च सम.चित्तत्व - मिष्टानिष्टोप.पत्तिषु॥ 13 - 10॥  मयि चानन्ययोगेन भक्ति.रव्यभि.चारिणी। विविक्त.देश.सेवित्व - मरति.र्जन.संसदि॥ 13 - 11॥  अध्यात्म.ज्ञान.नित्यत्व - न्तत्त्व.ज्ञानार्थ.दर्शनम्। एतज्ज्ञान.मिति प्रोक्त - मज्ञानँ यदतोऽन्यथा॥ 13 - 12॥  ज्ञेयँ यत्त.त्प्रवक्ष्यामि यज्ज्ञात्वामृत.मश्नुते। अनादिम.त्परं ब्रह्म न स.त्त.न्नास.दुच्यते॥ 13 - 13॥  सर्वत पाणिपाद.न्त - त्सर्वतोऽक्षि.शिरो.मुखम्। सर्वत.श्श्रुतिम.ल्लोके सर्व.मावृत्य तिष्ठति॥ 13 - 14॥  सर्वेन्द्रिय.गुणाभासं सर्वेन्द्रिय.विवर्जितम्। असक्तं सर्वभृ.च्चैव निर्गुण.ङ्गुण.भोक्तृ च॥ 13 - 15॥  बहि.रन्तश्च भूताना - मचर.ञ्चर.मेव च। सूक्ष्मत्वा.त्तदविज्ञेय - न्दूरस्थ.ञ्चान्तिके च तत्॥ 13 - 16॥  अविभक्तञ्च भूतेषु विभक्त.मिव च स्थितम्। भूत.भर्तृ च तज्ज्ञेय - ङ्ग्रसिष्णु प्रभविष्णु च॥ 13 - 17॥  ज्योतिषा.मपि तज्ज्योति - स्तमस पर.मुच्यते। ज्ञान.ञ्ज्ञेय.ञ्ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥ 13 - 18॥  इति क्षेत्र.न्तथा ज्ञान - ञ्ज्ञेय.ञ्चोक्तं समासतः। मद्भक्त एत.द्विज्ञाय मद्भावायोप.पद्यते॥ 13 - 19॥  प्रकृतिं पुरुष.ञ्चैव विद्ध्यनादी उभा.वपि। विकारांश्च गुणां.श्चैव विद्धि प्रकृति.सम्भवान्॥ 13 - 20॥  कार्य.कारण.कर्तृत्वे हेतु प्रकृति.रुच्यते। पुरुष.स्सुख.दुखानां भोक्तृत्वे हेतु.रुच्यते॥ 13 - 21॥  पुरुष प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजा.न्गुणान्। कारण.ङ्गुण.सङ्गोऽस्य सदस.द्योनि.जन्मसु॥ 13 - 22॥  उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मि.न्पुरुष परः॥ 13 - 23॥  य एवँ वेत्ति पुरुषं प्रकृतिञ्च गुणै.स्सह। सर्वथा वर्तमानोऽपि न स भूयोऽभि.जायते॥ 13 - 24॥  ध्यानेनात्मनि पश्यन्ति केचि.दात्मान.मात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥ 13 - 25॥  अन्ये त्वेव.मजानन्त - श्श्रुत्वान्येभ्य उपासते। तेऽपि चातितर.न्त्येव मृत्युं श्रुति.परायणाः॥ 13 - 26॥  याव.त्सञ्जायते किञ्चि.त्सत्त्वं स्थावर.जङ्गमम्। क्षेत्र.क्षेत्रज्ञ.सँयोगा - त्तद्विद्धि भरतर्षभ॥ 13 - 27॥  समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्य.त्स्वविनश्यन्तँ य पश्यति स पश्यति॥ 13 - 28॥  समं पश्यन्हि सर्वत्र समवस्थित.मीश्वरम्। न हिन.स्त्यात्मनात्मान - न्ततो याति परा.ङ्गतिम्॥ 13 - 29॥  प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। य पश्यति तथात्मान - मकर्तारं स पश्यति॥ 13 - 30॥  यदा भूत.पृथग्भाव - मेकस्थ.मनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥ 13 - 31॥  अनादित्वा.न्निर्गुणत्वा - त्परमात्माय.मव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥ 13 - 32॥  यथा सर्वगतं सौक्ष्म्या - दाकाश.न्नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते॥ 13 - 33॥  यथा प्रकाशय.त्येक कृत्स्नँ लोक.मिमं रविः। क्षेत्र.ङ्क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥ 13 - 34॥  क्षेत्र.क्षेत्रज्ञयो.रेव - मन्तर.ञ्ज्ञान.चक्षुषा। भूत.प्रकृति.मोक्षञ्च ये विदु.र्यान्ति ते परम्॥ 13 - 35॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः॥ 13॥ ---  अथ चतुर्दशोऽध्यायः। गुणत्रयविभागयोगः श्रीभगवा.नुवाच -  परं भूय प्रवक्ष्यामि ज्ञानाना.ञ्ज्ञान.मुत्तमम्। यज्ज्ञात्वा मुनय.स्सर्वे परां सिद्धि.मितो गताः॥ 14 - 1॥  इद.ञ्ज्ञान.मुपाश्रित्य मम साधर्म्य.मागताः। सर्गेऽपि नोप.जायन्ते प्रलये न व्यथन्ति च॥ 14 - 2॥  मम योनि.र्मह.द्ब्रह्म तस्मि.न्गर्भ.न्दधा.म्यहम्। सम्भव.स्सर्वभूताना - न्ततो भवति भारत॥ 14 - 3॥  सर्वयोनिषु कौन्तेय मूर्तय.स्सम्भवन्ति याः। तासां ब्रह्म मह.द्योनि - रहं बीजप्रद पिता॥ 14 - 4॥  सत्त्वं रज.स्तम इति गुणा प्रकृति.सम्भवाः। निबध्नन्ति महाबाहो देहे देहिन.मव्ययम्॥ 14 - 5॥  तत्र सत्त्व.न्निर्मलत्वा - त्प्रकाशक.मनामयम्। सुख.सङ्गेन बध्नाति ज्ञान.सङ्गेन चानघ॥ 14 - 6॥  रजो रागात्मकँ विद्धि तृष्णासङ्ग.समुद्भवम्। त.न्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ 14 - 7॥  तम.स्त्वज्ञानजँ विद्धि मोहनं सर्व.देहिनाम्। प्रमादालस्य.निद्राभि - स्त.न्निबध्नाति भारत॥ 14 - 8॥  सत्त्वं सुखे सञ्जयति रज कर्मणि भारत। ज्ञान.मावृत्य तु तम प्रमादे सञ्जय.त्युत॥ 14 - 9॥  रज.स्तम.श्चाभिभूय सत्त्वं भवति भारत। रज.स्सत्त्व न्तम.श्चैव तम.स्सत्त्वं रज.स्तथा॥ 14 - 10॥  सर्व.द्वारेषु देहेऽस्मि - न्प्रकाश उपजायते। ज्ञानँ यदा तदा विद्या - द्विवृद्धं सत्त्व.मित्युत॥ 14 - 11॥  लोभ प्रवृत्ति.रारम्भ कर्मणा.मशम.स्स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥ 14 - 12॥  अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥ 14 - 13॥  यदा सत्त्वे प्रवृद्धे तु प्रलयँ याति देहभृत्। तदोत्तम.विदाँ लोका - नमला.न्प्रतिपद्यते॥ 14 - 14॥  रजसि प्रलय.ङ्गत्वा कर्मसङ्गिषु जायते। तथा प्रलीन.स्तमसि मूढ.योनिषु जायते॥ 14 - 15॥  कर्मण.स्सुकृतस्याहु - स्सात्त्विक.न्निर्मलं फलम्। रजसस्तु फल.न्दुख - मज्ञान.न्तमस फलम्॥ 14 - 16॥  सत्त्वा.त्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमाद.मोहौ तमसो भवतोऽज्ञान.मेव च॥ 14 - 17॥  ऊर्ध्व.ङ्गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्य.गुण.वृत्तिस्था अधो गच्छन्ति तामसाः॥ 14 - 18॥  नान्य.ङ्गुणेभ्य कर्तारँ यदा द्रष्टानुपश्यति। गुणेभ्यश्च परँ वेत्ति मद्भावं सोऽधिगच्छति॥ 14 - 19॥  गुणा.नेता.नतीत्य त्री - न्देही देह.समुद्भवान्। जन्म.मृत्यु.जरा.दुखै - र्विमुक्तोऽमृत.मश्नुते॥ 14 - 20॥  अर्जुन उवाच -  कै.र्लिङ्गै.स्त्री.न्गुणा.नेता - नतीतो भवति प्रभो। किमाचार कथ.ञ्चैतां - स्त्री.न्गुणा.नतिवर्तते॥ 14 - 21॥  श्रीभगवा.नुवाच -  प्रकाशञ्च प्रवृत्तिञ्च मोह.मेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥ 14 - 22॥  उदासीनव.दासीनो गुणै.र्यो न विचाल्यते। गुणा वर्तन्त इत्येवँ योऽवतिष्ठति नेङ्गते॥ 14 - 23॥  समदुख.सुख.स्स्वस्थ - स्सम.लोष्टाश्म.काञ्चनः। तुल्यप्रियाप्रियो धीर - स्तुल्य.निन्दात्म.संस्तुतिः॥ 14 - 24॥  मानापमानयो.स्तुल्य - स्तुल्यो मित्रारि.पक्षयोः। सर्वारम्भ.परित्यागी गुणातीत.स्स उच्यते॥ 14 - 25॥  माञ्च योऽव्यभिचारेण भक्ति.योगेन सेवते। स गुणा.न्समतीत्यैता - न्ब्रह्मभूयाय कल्पते॥ 14 - 26॥  ब्रह्मणो हि प्रतिष्ठाह - ममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुख.स्यैकान्तिकस्य च॥ 14 - 27॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः॥ 14॥ ----  अथ पञ्चदशोऽध्यायः। पुरुषोत्तमप्राप्ति.योगः श्रीभगवा.नुवाच -  ऊर्ध्वमूल.मधश्शाख.मश्वत्थं प्राहु.रव्ययम्। छन्दांसि यस्य पर्णानि यस्तँ वेद स वेदवित्॥ 15 - 1॥  अध.श्चोर्ध्वं प्रसृता.स्तस्य शाखा गुण.प्रवृद्धा विषय.प्रवालाः। अधश्च मूला.न्यनु.सन्ततानि कर्मानु.बन्धीनि मनुष्य.लोके॥ 15 - 2॥  न रूप.मस्येह तथोप.लभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थ.मेनं सुविरूढ.मूल - मसङ्ग.शस्त्रेण दृढेन छित्त्वा॥ 15 - 3॥  तत पद.न्तत्परि.मार्गितव्यं यस्मि.न्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यत प्रवृत्ति प्रसृता पुराणी॥ 15 - 4॥  निर्मान.मोहा जितसङ्ग.दोषा अध्यात्म.नित्या विनिवृत्त.कामाः। द्वन्द्वै.र्विमुक्ता.स्सुख.दुख.संज्ञै - र्गच्छ.न्त्यमूढा पद मव्यय.न्तत्॥ 15 - 5॥  न त.द्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥ 15 - 6॥  ममैवांशो जीवलोके जीवभूत.स्सनातनः। मन.ष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥ 15 - 7॥  शरीरँ य.दवाप्नोति यच्चाप्यु.त्क्रामतीश्वरः। गृहीत्वैतानि सँयाति वायु.र्गन्धा.निवाशयात्॥ 15 - 8॥  श्रोत्र.ञ्चक्षु.स्स्पर्शनञ्च रसन.ङ्घ्राण.मेव च। अधिष्ठाय मन.श्चायँ विषया.नुप.सेवते॥ 15 - 9॥  उत्क्रामन्तं स्थितँ वापि भुञ्जानँ वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान.चक्षुषः॥ 15 - 10॥  यतन्तो योगिन.श्चैनं पश्य - न्त्यात्म.न्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्य.न्त्यचेतसः॥ 15 - 11॥  यदादित्य.गत.न्तेजो जग.द्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥ 15 - 12॥  गा.माविश्य च भूतानि धारया.म्यह.मोजसा। पुष्णामि चौषधी.स्सर्वा - स्सोमो भूत्वा रसात्मकः॥ 15 - 13॥  अहँ वैश्वानरो भूत्वा प्राणिना.न्देह.माश्रितः। प्राणापान.समायुक्त पचा.म्यन्न.ञ्चतुर्विधम्॥ 15 - 14॥  सर्वस्य चाहं हृदि सन्निविष्टो मत्त.स्स्मृति.र्ज्ञान.मपोहनञ्च। वेदैश्च सर्वै.रह.मेव वेद्यो वेदान्तकृ.द्वेदवि.देव चाहम्॥ 15 - 15॥  द्वाविमौ पुरुषौ लोके क्षर.श्चाक्षर एव च। क्षर.स्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ 15 - 16॥  उत्तम पुरुष.स्त्वन्य परमात्मे.त्युदाहृतः। यो लोकत्रय.माविश्य बिभ.र्त्यव्यय ईश्वरः॥ 15 - 17॥  यस्मा.त्क्षर.मतीतोऽह - मक्षरा.दपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथित पुरुषोत्तमः॥ 15 - 18॥  यो मा.मेव.मसम्मूढो जानाति पुरुषोत्तमम्। स सर्ववि.द्भजति मां सर्वभावेन भारत॥ 15 - 19॥  इति गुह्यतमं शास्त्र - मिद.मुक्तं मयानघ। एतद्बुद्ध्वा बुद्धिमा.न्स्या - त्कृतकृत्यश्च भारत॥ 15 - 20॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुन सँवादे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः॥ 15॥ ----  अथ षोडशोऽध्यायः। दैवासुरसम्पद्विभागयोगः श्रीभगवा.नुवाच -  अभयं सत्त्व.संशुद्धि - र्ज्ञान.योग.व्यवस्थितिः। दान.न्दमश्च यज्ञश्च स्वाध्याय.स्तप आर्जवम्॥ 16 - 1॥  अहिंसा सत्य.मक्रोध - स्त्याग.श्शान्ति.रपैशुनम्। दया भूते.ष्वलोलुप्त्वं मार्दवं ह्री.रचापलम्॥ 16 - 2॥  तेज - क्षमा धृति.श्शौच - मद्रोहो नातिमानिता। भवन्ति सम्पद.न्दैवी - मभिजातस्य भारत॥ 16 - 3॥  दम्भो दर्पोऽभिमानश्च क्रोध पारुष्य.मेव च। अज्ञान.ञ्चाभिजातस्य पार्थ सम्पद.मासुरीम्॥ 16 - 4॥  दैवी सम्प.द्विमोक्षाय निबन्धायासुरी मता। मा शुच.स्सम्पद.न्दैवी - मभिजातोऽसि पाण्डव॥ 16 - 5॥  द्वौ भूत.सर्गौ लोकेऽस्मि - न्दैव आसुर एव च। दैवो विस्तरश प्रोक्त आसुरं पार्थ मे शृणु॥ 16 - 6॥  प्रवृत्तिञ्च निवृत्तिञ्च जना न विदु.रासुराः। न शौच.न्नापि चाचारो न सत्य.न्तेषु विद्यते॥ 16 - 7॥  असत्य.मप्रतिष्ठन्ते जग.दाहु.रनीश्वरम्। अपरस्पर.सम्भूत - ङ्किमन्य.त्काम.हैतुकम्॥ 16 - 8॥  एता.न्दृष्टि.मवष्टभ्य नष्टात्मानोऽल्प.बुद्धयः। प्रभव.न्त्युग्र.कर्माणः - क्षयाय जगतोऽहिताः॥ 16 - 9॥  काम.माश्रित्य दुष्पूर - न्दम्भ.मान.मदान्विताः। मोहा.द्गृहीत्वासद्ग्राहा - न्प्रवर्तन्तेऽशुचि.व्रताः॥ 16 - 10॥  चिन्ता.मपरिमेयाञ्च प्रलयान्ता.मुपाश्रिताः। कामोपभोग.परमा एताव.दिति निश्चिताः॥ 16 - 11॥  आशा.पाश.शतै.र्बद्धा काम.क्रोध.परायणाः। ईहन्ते काम.भोगार्थ - मन्यायेनार्थसञ्चयान्॥ 16 - 12॥  इद.मद्य मया लब्ध - मिमं प्राप्स्ये मनोरथम्। इद.मस्तीद.मपि मे भविष्यति पुन.र्धनम्॥ 16 - 13॥  असौ मया हत.श्शत्रु - र्हनिष्ये चापरा.नपि। ईश्वरोऽह.महं भोगी सिद्धोऽहं बलवा.न्सुखी॥ 16 - 14॥  आढ्योऽभिजनवा.नस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञान.विमोहिताः॥ 16 - 15॥  अनेक.चित्त.विभ्रान्ता मोह.जाल.समावृताः। प्रसक्ता काम.भोगेषु पतन्ति नरकेऽशुचौ॥ 16 - 16॥  आत्म.सम्भाविता.स्स्तब्धा धन.मान.मदान्विताः। यजन्ते नाम.यज्ञै.स्ते दम्भेनाविधि.पूर्वकम्॥ 16 - 17॥  अहङ्कारं बल.न्दर्प - ङ्काम.ङ्क्रोधञ्च संश्रिताः। मा.मात्म.पर.देहेषु प्रद्विषन्तोऽभ्यसूयकाः॥ 16 - 18॥  ता.नह.न्द्विषत क्रूरा - न्संसारेषु नराधमान्। क्षिपा.म्यजस्र.मशुभा - नासुरी.ष्वेव योनिषु॥ 16 - 19॥  आसुरीँ योनि.मापन्ना मूढा जन्मनि जन्मनि। मा.मप्राप्यैव कौन्तेय ततो या.न्त्यधमा.ङ्गतिम्॥ 16 - 20॥  त्रिविध.न्नरकस्येद - न्द्वार.न्नाशन.मात्मनः। काम क्रोध.स्तथा लोभ - स्तस्मा.देत.त्त्रय.न्त्यजेत्॥ 16 - 21॥  एतै.र्विमुक्त कौन्तेय तमो.द्वारै.स्त्रिभि.र्नरः। आचर.त्यात्मन.श्श्रेय - स्ततो याति परा.ङ्गतिम्॥ 16 - 22॥  य.श्शास्त्र.विधि.मुत्सृज्य वर्तते काम.कारतः। न स सिद्धि.मवाप्नोति न सुख.न्न परा.ङ्गतिम्॥ 16 - 23॥  तस्मा.च्छास्त्रं प्रमाण.न्ते कार्याकार्य.व्यवस्थितौ। ज्ञात्वा शास्त्र.विधानोक्त - ङ्कर्म कर्तु.मिहार्हसि॥ 16 - 24॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे दैवासुरसम्प.द्विभागयोगो नाम षोडशोऽध्यायः॥ 16॥ ----  अथ सप्तदशोऽध्यायः। श्रद्धात्रयविभागयोगः अर्जुन उवाच -  ये शास्त्रविधि.मुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषा.न्निष्ठा तु का कृष्ण सत्त्व.माहो रज.स्तमः॥ 17 - 1॥  श्रीभगवा.नुवाच -  त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥ 17 - 2॥  सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धा.मयोऽयं पुरुषो यो यच्छ्रद्ध.स्स एव सः॥ 17 - 3॥  यजन्ते सात्त्विका देवा - न्यक्ष.रक्षांसि राजसाः। प्रेता.न्भूत.गणां.श्चान्ये यजन्ते तामसा जनाः॥ 17 - 4॥  अशास्त्र.विहित.ङ्घोर - न्तप्यन्ते ये तपो जनाः। दम्भाहङ्कार.सँयुक्ता काम.राग.बलान्विताः॥ 17 - 5॥  कर्षयन्त.श्शरीरस्थं भूत.ग्राम.मचेतसः। मा.ञ्चैवान्त.श्शरीरस्थ - न्ता.न्विद्ध्यासुर.निश्चयान्॥ 17 - 6॥  आहार.स्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञ.स्तप.स्तथा दान - न्तेषां भेद.मिमं शृणु॥ 17 - 7॥  आयु.स्सत्त्व.बलारोग्य - सुख.प्रीति.विवर्धनाः। रस्या.स्स्निग्धा.स्स्थिरा हृद्या आहारा.स्सात्त्विक.प्रियाः॥ 17 - 8॥  कट्वम्ल.लवणात्युष्ण - तीक्ष्ण.रूक्ष.विदाहिनः। आहारा राजसस्येष्टा दुख.शोकामयप्रदाः॥ 17 - 9॥  यातयाम.ङ्गतरसं - पूति पर्युषितञ्च यत्। उच्छिष्ट.मपि चामेध्यं भोजन.न्तामस.प्रियम्॥ 17 - 10॥  अफलाकाङ्क्षिभि.र्यज्ञो विधि.दृष्टो य इज्यते। यष्टव्य.मेवेति मन - स्समाधाय स सात्त्विकः॥ 17 - 11॥  अभिसन्धाय तु फल - न्दम्भार्थ.मपि चैव यत्। इज्यते भरतश्रेष्ठ तँ यज्ञँ विद्धि राजसम्॥ 17 - 12॥  विधिहीन.मसृष्टान्नं मन्त्रहीन.मदक्षिणम्। श्रद्धा.विरहितँ यज्ञ - न्तामसं परिचक्षते॥ 17 - 13॥  देव.द्विज.गुरु.प्राज्ञ - पूजनं शौच.मार्जवम्। ब्रह्मचर्य.महिंसा च शारीर.न्तप उच्यते॥ 17 - 14॥  अनुद्वेगकरँ वाक्यं सत्यं प्रियहितञ्च यत्। स्वाध्यायाभ्यसन.ञ्चैव वाङ्मय.न्तप उच्यते॥ 17 - 15॥  मन प्रसाद.स्सौम्यत्वं मौन.मात्म.विनिग्रहः। भाव.संशुद्धि.रित्येत - त्तपो मानस.मुच्यते॥ 17 - 16॥  श्रद्धया परया तप्त - न्तप.स्तत्त्रिविध.न्नरैः। अफलाकाङ्क्षिभि.र्युक्तै - स्सात्त्विकं परिचक्षते॥ 17 - 17॥  सत्कार.मान.पूजार्थ - न्तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजस.ञ्चल.मध्रुवम्॥ 17 - 18॥  मूढग्राहेणात्मनो य - त्पीडया क्रियते तपः। परस्योत्सादनार्थँ वा त.त्तामस.मुदाहृतम्॥ 17 - 19॥  दातव्य.मिति यद्दान - न्दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥ 17 - 20॥  यत्तु प्रत्युपकारार्थं फल.मुद्दिश्य वा पुनः। दीयते च परिक्लिष्ट - न्तद्दानं राजसं स्मृतम्॥ 17 - 21॥  अदेशकाले यद्दान - मपात्रेभ्यश्च दीयते। असत्कृत.मवज्ञात - न्त.त्तामस.मुदाहृतम्॥ 17 - 22॥  ॐतत्स.दिति निर्देशो ब्रह्मण.स्त्रिविध.स्स्मृतः। ब्राह्मणा.स्तेन वेदाश्च यज्ञाश्च विहिता पुरा॥ 17 - 23॥  तस्मा.दो.मित्युदाहृत्य यज्ञ.दान.तपक्रियाः। प्रवर्तन्ते विधानोक्ता - स्सततं ब्रह्मवादिनाम्॥ 17 - 24॥  तदि.त्यनभिसन्धाय फलँ यज्ञ.तपक्रियाः। दान.क्रियाश्च विविधा क्रियन्ते मोक्ष.काङ्क्षिभिः॥ 17 - 25॥  सद्भावे साधुभावे च स.दित्येत.त्प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्द पार्थ युज्यते॥ 17 - 26॥  यज्ञे तपसि दाने च स्थिति.स्सदिति चोच्यते। कर्म चैव तदर्थीयं स.दित्येवाभि.धीयते॥ 17 - 27॥  अश्रद्धया हुत.न्दत्त - न्तप.स्तप्त.ङ्कृतञ्च यत्। अस.दित्युच्यते पार्थ न च त.त्प्रेत्य नो इह॥ 17 - 28॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥ 17॥ ---  अथ अष्टादशोऽध्यायः। मोक्षसन्न्यासयोगः अर्जुन उवाच -  सन्न्यासस्य महाबाहो तत्त्व.मिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथ.क्केशि.निषूदन॥ 18 - 1॥  श्रीभगवा.नुवाच -  काम्याना.ङ्कर्मणा.न्न्यासं सन्न्यास.ङ्कवयो विदुः। सर्व.कर्म.फलत्यागं प्राहु.स्त्यागँ विचक्षणाः॥ 18 - 2॥  त्याज्य.न्दोषव.दित्येके कर्म प्राहु.र्मनीषिणः। यज्ञ.दान.तपकर्म न त्याज्य.मिति चापरे॥ 18 - 3॥  निश्चयं शृणु मे तत्र त्यागे भरत.सत्तम। त्यागो हि पुरुष.व्याघ्र त्रिविध.स्सम्प्रकीर्तितः॥ 18 - 4॥  यज्ञ.दान.तपकर्म न त्याज्य.ङ्कार्य.मेव तत्। यज्ञो दान.न्तप.श्चैव पावनानि मनीषिणाम्॥ 18 - 5॥  एता.न्यपि तु कर्माणि सङ्ग.न्त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मत.मुत्तमम्॥ 18 - 6॥  नियतस्य तु सन्न्यास कर्मणो नोप.पद्यते। मोहा.त्तस्य परित्याग - स्तामस परिकीर्तितः॥ 18 - 7॥  दुख.मित्येव यत्कर्म काय.क्लेश.भया.त्त्यजेत्। स कृत्वा राजस.न्त्याग - न्नैव त्याग.फलँ लभेत्॥ 18 - 8॥  कार्य.मित्येव यत्कर्म नियत.ङ्क्रियतेऽर्जुन। सङ्ग.न्त्यक्त्वा फल.ञ्चैव स त्याग.स्सात्त्विको मतः॥ 18 - 9॥  न द्वेष्ट्यकुशल.ङ्कर्म कुशले नानुषज्जते। त्यागी सत्त्व.समाविष्टो मेधावी छिन्न.संशयः॥ 18 - 10॥  न हि देहभृता शक्य - न्त्यक्तु.ङ्कर्मा.ण्यशेषतः। यस्तु कर्म.फलत्यागी स त्यागी.त्यभिधीयते॥ 18 - 11॥  अनिष्ट.मिष्टं मिश्रञ्च त्रिविध.ङ्कर्मण फलम्। भव.त्यत्यागिनां प्रेत्य न तु सन्न्यासिना.ङ्क्वचित्॥ 18 - 12॥  पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व.कर्मणाम्॥ 18 - 13॥  अधिष्ठान.न्तथा कर्ता करणञ्च पृथ.ग्विधम्। विविधाश्च पृथक्चेष्टा दैव.ञ्चैवात्र पञ्चमम्॥ 18 - 14॥  शरीर.वाङ्मनोभि.र्य - त्कर्म प्रारभते नरः। न्याय्यँ वा विपरीतँ वा पञ्चैते तस्य हेतवः॥ 18 - 15॥  तत्रैवं सति कर्तार - मात्मान.ङ्केवल.न्तु यः। पश्य.त्यकृत.बुद्धित्वा - न्न स पश्यति दुर्मतिः॥ 18 - 16॥  यस्य नाहङ्कृतो भावो बुद्धि.र्यस्य न लिप्यते। हत्वाऽपि स इमा.न्लोका - न्न हन्ति न निबध्यते॥ 18 - 17॥  ज्ञान.ञ्ज्ञेयं परिज्ञाता त्रिविधा कर्म.चोदना। करण.ङ्कर्म कर्तेति त्रिविध कर्म.सङ्ग्रहः॥ 18 - 18॥  ज्ञान.ङ्कर्म च कर्ता च त्रिधैव गुण.भेदतः। प्रोच्यते गुण.सङ्ख्याने यथाव.च्छृणु तान्यपि॥ 18 - 19॥  सर्वभूतेषु येनैकं भाव.मव्यय.मीक्षते। अविभक्तँ विभक्तेषु तज्ज्ञानँ विद्धि सात्त्विकम्॥ 18 - 20॥  पृथक्त्वेन तु यज्ज्ञान - न्नानाभावा.न्पृथ.ग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानँ विद्धि राजसम्॥ 18 - 21॥  यत्तु कृत्स्नव.देकस्मि - न्कार्ये सक्त.महैतुकम्। अतत्त्वार्थव.दल्पञ्च तत्तामस.मुदाहृतम्॥ 18 - 22॥  नियतं सङ्ग.रहित - मराग.द्वेषत कृतम्। अफल.प्रेप्सुना कर्म यत्त.त्सात्त्विक.मुच्यते॥ 18 - 23॥  यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः। क्रियते बहुलायास - न्तद्राजस.मुदाहृतम्॥ 18 - 24॥  अनुबन्धङ्क्षयं हिंसा - मनपेक्ष्य च पौरुषम्। मोहा.दारभ्यते कर्म यत्त.त्तामस.मुच्यते॥ 18 - 25॥  मुक्तसङ्गोऽनहँवादी धृत्युत्साह.समन्वितः। सिद्ध्यसिद्ध्यो.र्निर्विकार कर्ता सात्त्विक उच्यते॥ 18 - 26॥  रागी कर्मफल.प्रेप्सु - र्लुब्धो हिंसात्मकोऽशुचिः। हर्ष.शोकान्वित कर्ता राजस परिकीर्तितः॥ 18 - 27॥  अयुक्त प्राकृत.स्स्तब्ध - श्शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥ 18 - 28॥  बुद्धे.र्भेद.न्धृते.श्चैव गुणत.स्त्रिविधं शृणु। प्रोच्यमान.मशेषेण पृथक्त्वेन धनञ्जय॥ 18 - 29॥  प्रवृत्तिञ्च निवृत्तिञ्च कार्याकार्ये भयाभये। बन्धं मोक्षञ्च या वेत्ति बुद्धि.स्सा पार्थ सात्त्विकी॥ 18 - 30॥  यया धर्म.मधर्मञ्च कार्य.ञ्चाकार्यमेव च। अयथाव.त्प्रजानाति बुद्धि.स्सा पार्थ राजसी॥ 18 - 31॥  अधर्म.न्धर्म.मिति या मन्यते तमसावृता। सर्वार्था.न्विपरीतांश्च बुद्धि.स्सा पार्थ तामसी॥ 18 - 32॥  धृत्या यया धारयते मनप्राणेन्द्रिय.क्रियाः। योगेनाव्यभिचारिण्या धृति.स्सा पार्थ सात्त्विकी॥ 18 - 33॥  यया तु धर्म.कामार्था - न्धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृति.स्सा पार्थ राजसी॥ 18 - 34॥  यया स्वप्नं भयं शोकँ विषादं मद.मेव च। न विमुञ्चति दुर्मेधा धृति.स्सा पार्थ तामसी॥ 18 - 35॥  सुख.न्त्विदानी.न्त्रिविधं शृणु मे भरतर्षभ। अभ्यासा.द्रमते यत्र दुखान्तञ्च निगच्छति॥ 18 - 36॥  य.त्तदग्रे विष.मिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्त - मात्मबुद्धि.प्रसादजम्॥ 18 - 37॥  विषयेन्द्रिय.सँयोगा - द्यत्त.दग्रेऽमृतोपमम्। परिणामे विष.मिव तत्सुखं राजसं स्मृतम्॥ 18 - 38॥  यदग्रे चानुबन्धे च सुखं मोहन.मात्मनः। निद्रालस्य.प्रमादोत्थ - न्त.त्तामस.मुदाहृतम्॥ 18 - 39॥  न तदस्ति पृथिव्याँ वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजै.र्मुक्तँ यदेभि.स्स्या.त्त्रिभि.र्गुणैः॥ 18 - 40॥  ब्राह्मण.क्षत्रिय.विशां शूद्राणाञ्च परन्तप। कर्माणि प्रविभक्तानि स्वभाव.प्रभवै.र्गुणैः॥ 18 - 41॥  शमो दम.स्तप.श्शौच - ङ्क्षान्ति.रार्जव.मेव च। ज्ञानँ विज्ञान.मास्तिक्यं ब्रह्मकर्म स्वभावजम्॥ 18 - 42॥  शौर्य.न्तेजो धृति.र्दाक्ष्यँ युद्धे चाप्यपलायनम्। दान.मीश्वरभावश्च क्षात्र.ङ्कर्म स्वभावजम्॥ 18 - 43॥  कृषि.गौरक्ष्य.वाणिज्यँ वैश्य.कर्म स्वभावजम्। परिचर्यात्मक.ङ्कर्म शूद्रस्यापि स्वभावजम्॥ 18 - 44॥  स्वे स्वे कर्मण्यभिरत - स्संसिद्धिँ लभते नरः। स्वकर्म.निरत.स्सिद्धिँ यथा विन्दति तच्छृणु॥ 18 - 45॥  यत प्रवृत्ति.र्भूतानाँ येन सर्व.मिद.न्ततम्। स्वकर्मणा त.मभ्यर्च्य सिद्धिँ विन्दति मानवः॥ 18 - 46॥  श्रेया.न्स्वधर्मो विगुण परधर्मा.त्स्वनुष्ठितात्। स्वभाव.नियत.ङ्कर्म कुर्व.न्नाप्नोति किल्बिषम्॥ 18 - 47॥  सहज.ङ्कर्म कौन्तेय सदोष.मपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्नि.रिवावृताः॥ 18 - 48॥  असक्त.बुद्धि.स्सर्वत्र जितात्मा विगत.स्पृहः। नैष्कर्म्य.सिद्धिं परमां सन्न्यासेनाधिगच्छति॥ 18 - 49॥  सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे। समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥ 18 - 50॥  बुद्ध्या विशुद्धया युक्तो धृत्यात्मान.न्नियम्य च। शब्दादी.न्विषयां.स्त्यक्त्वा रागद्वेषौ व्युदस्य च॥ 18 - 51॥  विविक्तसेवी लघ्वाशी यत.वाक्काय.मानसः। ध्यानयोग.परो नित्यँ वैराग्यं समुपाश्रितः॥ 18 - 52॥  अहङ्कारं बल.न्दर्प - ङ्काम.ङ्क्रोधं परिग्रहम्। विमुच्य निर्मम.श्शान्तो ब्रह्मभूयाय कल्पते॥ 18 - 53॥  ब्रह्मभूत प्रसन्नात्मा न शोचति न काङ्क्षति। सम.स्सर्वेषु भूतेषु मद्भक्तिँ लभते पराम्॥ 18 - 54॥  भक्त्या मा.मभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मा.न्तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥ 18 - 55॥  सर्वकर्मा.ण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादा.दवाप्नोति शाश्वतं पद.मव्ययम्॥ 18 - 56॥  चेतसा सर्व.कर्माणि मयि सन्न्यस्य मत्परः। बुद्धि.योग.मुपाश्रित्य मच्चित्त.स्सततं भव॥ 18 - 57॥  मच्चित्त.स्सर्व.दुर्गाणि मत्प्रसादा.त्तरिष्यसि। अथ चेत्त्व.महङ्कारा - न्न श्रोष्यसि विनङ्क्ष्यसि॥ 18 - 58॥  यदहङ्कार.माश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसाय.स्ते प्रकृति.स्त्वा.न्नियोक्ष्यति॥ 18 - 59॥  स्वभावजेन कौन्तेय निबद्ध.स्स्वेन कर्मणा। कर्तु.न्नेच्छसि यन्मोहा - त्करिष्यस्यवशोऽपि तत्॥ 18 - 60॥  ईश्वर.स्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामय.न्सर्वभूतानि यन्त्रारूढानि मायया॥ 18 - 61॥  तमेव शरण.ङ्गच्छ सर्वभावेन भारत। तत्प्रसादा.त्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥ 18 - 62॥  इति ते ज्ञान.माख्यात - ङ्गुह्या.द्गुह्यतरं मया। विमृश्यैत.दशेषेण यथेच्छसि तथा कुरु॥ 18 - 63॥  सर्व.गुह्यतमं भूय - श्शृणु मे परमँ वचः। इष्टोऽसि मे दृढ.मिति ततो वक्ष्यामि ते हितम्॥ 18 - 64॥  मन्मना भव मद्भक्तो मद्याजी मा.न्नमस्कुरु। मामेवैष्यसि सत्य.न्ते प्रतिजाने प्रियोऽसि मे॥ 18 - 65॥  सर्वधर्मा.न्परित्यज्य मामेकं शरणँ व्रज। अह.न्त्वा सर्व.पापेभ्यो मोक्षयिष्यामि मा शुचः॥ 18 - 66॥  इद.न्ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्य - न्न च माँ योऽभ्यसूयति॥ 18 - 67॥  य इदं परम.ङ्गुह्यं मद्भक्ते.ष्वभिधास्यति। भक्तिं मयि परा.ङ्कृत्वा मामेवैष्य.त्यसंशयः॥ 18 - 68॥  न च तस्मा.न्मनुष्येषु कश्चि.न्मे प्रियकृत्तमः। भविता न च मे तस्मा - दन्य प्रियतरो भुवि॥ 18 - 69॥  अध्येष्यते च य इम - न्धर्म्यं सँवाद.मावयोः। ज्ञानयज्ञेन तेनाह - मिष्ट.स्स्या.मिति मे मतिः॥ 18 - 70॥  श्रद्धावा.ननसूयश्च शृणुया.दपि यो नरः। सोऽपि मुक्त.श्शुभा.न्लोका - न्प्राप्नुया.त्पुण्यकर्मणाम्॥ 18 - 71॥  कच्चि.देत.च्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चि.दज्ञान.सम्मोह प्रनष्टस्ते धनञ्जय॥ 18 - 72॥  अर्जुन उवाच -  नष्टो मोह.स्स्मृति.र्लब्धा त्वत्प्रसादा.न्मयाच्युत। स्थितोऽस्मि गत.सन्देह करिष्ये वचन.न्तव॥ 18 - 73॥  सञ्जय उवाच -  इत्यहँ वासुदेवस्य पार्थस्य च महात्मनः। सँवाद.मिम.मश्रौष - मद्भुतं रोम.हर्षणम्॥ 18 - 74॥  व्यास.प्रसादा.च्छ्रुतवा - नेत.द्गुह्य.महं परम्। योगँ योगेश्वरा.त्कृष्णा - त्साक्षा.त्कथयत.स्स्वयम्॥ 18 - 75॥  राज.न्संस्मृत्य संस्मृत्य सँवाद.मिम.मद्भुतम्। केशवार्जुनयो पुण्यं हृष्यामि च मुहु.र्मुहुः॥ 18 - 76॥  तच्च संस्मृत्य संस्मृत्य रूप.मत्यद्भुतं हरेः। विस्मयो मे महान् राज - न्हृष्यामि च पुन पुनः॥ 18 - 77॥  यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्री.र्विजयो भूति - र्ध्रुवा नीति.र्मति.र्मम॥ 18 - 78॥  ॐ तत्सत्। इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाँ योगशास्त्रे श्रीकृष्णार्जुनसँवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः॥ 18॥ ---  ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधार.ङ्गगन.सदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्त.ङ्कमलनयनँ योगिहृद्ध्यनगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥ ==00==