Already Registered? Login
Rama Panchaka Stotram राम पञ्चक स्तोत्रम् जयतु जयतु रामो धर्म-मर्मज्ञ सम्राट् जयतु जयतु कौसल्यासुतो वेदवर्त्मा। जयतु जयतु रामो लोक पीडाविनाशो जयतु जयतु सीता-नायको लोकनाथः।। १ तुदतु तुदतु रामो दैत्यहन्ता कुबुद्धिं तुदतु तुदतु लोके भावदारिद्र्यजालम्। तुदतु तुदतु रामो धर्ममार्गादपेतिं तुदतु तुदतु राजा नित्यकार्पण्यतानम्॥ २ दिशतु दिशतु रामो धर्मसम्पत्तिमाद्यो दिशतु दिशतु देवो शुद्धमर्थं प्रजानाम्। दिशतु दिशतु रामः कामितं श्रेयसेऽलं दिशतु दिशतु मह्यं सन्ततं मोक्षमार्गम्॥ ३ भजतु भजतु रामं लोकजातं विनीतं भजतु भजतु धर्मे श्रद्दधानं महत्ताम्। भजतु भजतु रामान्मित्रवात्सल्यबन्धं भजतु भजतु सर्वो मोदमानन्दलाभम्॥ ४ भवतु भवतु रामो बुद्धिशुद्धौ सदा मे भवतु भवतु रामेणान्वितं चित्तमद्य। भवतु भवतु रामे मोदमानं मनो मे भवतु भवतु रामाहङ्कृतिर्नित्यसत्या॥ ५ श्रीरामसेवनासक्ताः रामभक्तिप्रपत्तितः!। श्रीरामपञ्चकस्तोत्रं प्रपठन्तु महाशयाः॥ जय जय श्रीराम - वंशीकृष्ण घनपाठी, मैसूरु अयोध्या- श्रीराम जन्मक्षेत्रे नूतनदेवायतने प्रथमश्रीरामनवमी शुभावसरे श्रीरामचरणारविन्दयुगले समर्पितम्॥