129
04 अ    01 None    07 None    06 काण्ड    06 प्रपा   

                        
                        
Ramayana Yuddha Kanda 6. युद्धकाण्डः • युद्धकाण्डे सर्गः 1 हनूमत्प्रशंसनम् 9 • युद्धकाण्डे सर्गः 2 रामप्रोत्साहनम् 11 • युद्धकाण्डे सर्गः 3 लङ्कादुर्गादिकथनम् 15 • युद्धकाण्डे सर्गः 4 रामाभिषेणनम् 19 • युद्धकाण्डे सर्गः 5 रामविप्रलम्भः 36 • युद्धकाण्डे सर्गः 6 रावणमन्त्रणम् 39 • युद्धकाण्डे सर्गः 7 सचिवोक्तिः 42 • युद्धकाण्डे सर्गः 8 प्रहस्तादिवचनम् 45 • युद्धकाण्डे सर्गः 9 विभीषणसमालोचनम् 48 • युद्धकाण्डे सर्गः 10 विभीषणपथ्योपदेशः 52 • युद्धकाण्डे सर्गः 11 द्वितीयमन्त्राधिवेशः 56 • युद्धकाण्डे सर्गः 12 कुम्भकर्णमतिः 61 • युद्धकाण्डे सर्गः13 महापार्श्ववचोभिनन्दनम् 66 • युद्धकाण्डे सर्गः 14 प्रहस्तविभीषणविवादः 69 • युद्धकाण्डे सर्गः 15 इन्द्रजिद्विभीषणविवादः 74 • युद्धकाण्डे सर्गः 16 विभीषणाक्रोशः 77 • युद्धकाण्डे सर्गः17 विभीषणशरणागतिनिवेदनम् 81 • युद्धकाण्डे सर्गः 18 विभीषणसङ्ग्रहनिर्णयः 91 • युद्धकाण्डे सर्गः 19 समुद्रतरणोपायः 96 • युद्धकाण्डे सर्गः 20 सुग्रीवभेदनोपायः 102 • युद्धकाण्डे सर्गः 21 समुद्रसङ्क्षोभः 107 • युद्धकाण्डे सर्गः 22 सेतुबन्धः 112 • युद्धकाण्डे सर्गः 23 लङ्काभिषेणनम् 123 • युद्धकाण्डे सर्गः 24 रावणप्रतिज्ञा 126 • युद्धकाण्डे सर्गः 25 शुकसारणप्रेषणम् 132 • युद्धकाण्डे सर्गः 26 कपिबलावेक्षणम् 137 • युद्धकाण्डे सर्गः 27 हरादिवानर पराक्रमाख्यानम् 143 • युद्धकाण्डे सर्गः 28 मैन्दादिपराक्रमाख्यानम् 151 • युद्धकाण्डे सर्गः 29 शार्दूलादिचारप्रेषणम् 156 • युद्धकाण्डे सर्गः 30 वानरबलसङ्ख्यानम् 161 • युद्धकाण्डे सर्गः 31 विद्युज्जिह्वमायाप्रयोगः 166 • युद्धकाण्डे सर्गः 32 सीताविलापः 172 • युद्धकाण्डे सर्गः 33 सरमा- समाश्वासनम् 179 • युद्धकाण्डे सर्गः 34 रावणनिश्चयकथनम् 184 • युद्धकाण्डे सर्गः 35 माल्यवदुपदेशः 188 • युद्धकाण्डे सर्गः 36 पुरद्वाररक्षा 193 • युद्धकाण्डे सर्गः 37 रामगुल्मविभागः 196 • युद्धकाण्डे सर्गः 38 सुवेलारोहणम् 201 • युद्धकाण्डे सर्गः 39 लङ्कादर्शनम् 204 • युद्धकाण्डे सर्गः 40 रावणसुग्रीवनियुद्धम् 208 • युद्धकाण्डे सर्गः 41 अङ्गददूत्यम् 213 • युद्धकाण्डे सर्गः 42 युद्धारम्भः 227 • युद्धकाण्डे सर्गः 43 द्वन्द्वयुद्धम् 233 • युद्धकाण्डे सर्गः 44 निशायुद्धम् 239 • युद्धकाण्डे सर्गः 45 नागपाशबन्धः 245 • युद्धकाण्डे सर्गः 46 सुग्रीवाद्यनुशोकः 249 • युद्धकाण्डे सर्गः 47 नागबद्ध रामलक्ष्मण प्रदर्शनम् 256 • युद्धकाण्डे सर्गः 48 सीताश्वासनम् 259 • युद्धकाण्डे सर्गः 49 रामनिर्वेदः 264 • युद्धकाण्डे सर्गः 50 नागपाशविमोक्षणम् 269 • युद्धकाण्डे सर्गः 51 धूम्राक्षाभिषेणनम् 278 • युद्धकाण्डे सर्गः 52 धूम्राक्षवधः 283 • युद्धकाण्डे सर्गः 53 वज्रदंष्ट्रयुद्धम् 288 • युद्धकाण्डे सर्गः 54 वज्रदंष्ट्रवधः 293 • युद्धकाण्डे सर्गः 55 अकम्पनयुद्धम् 298 • युद्धकाण्डे सर्गः 56 अकम्पनवधः 302 • युद्धकाण्डे सर्गः 57 प्रहस्तयुद्धम् 307 • युद्धकाण्डे सर्गः 58 प्रहस्तवधः 314 • युद्धकाण्डे सर्गः 59 रावणाभिषेणनम् 322 • युद्धकाण्डे सर्गः 60 कुम्भकर्णप्रबोधः 347 • युद्धकाण्डे सर्गः 61 कुम्भकर्णवृत्तकथनम् 361 • युद्धकाण्डे सर्गः 62 रावणाभ्यर्थना 367 • युद्धकाण्डे सर्गः 63 कुम्भकर्णानुशोकः 370 • युद्धकाण्डे सर्गः 64 सीताप्रलोभनोपयः 378 • युद्धकाण्डे सर्गः 65 कुम्भकर्णाभिषेणनम् 384 • युद्धकाण्डे सर्गः 66 वानरपर्यवस्थापनम् 392 • युद्धकाण्डे सर्गः 67 कुम्भकर्णवधः 396 • युद्धकाण्डे सर्गः 68 रावणानुशोकः 422 • युद्धकाण्डे सर्गः 69 नरान्तकवधः 426 • युद्धकाण्डे सर्गः 70 देवान्तकादिवधः 440 • युद्धकाण्डे सर्गः 71 अतिकायवधः 451 • युद्धकाण्डे सर्गः 72 रावणमन्युशल्याविष्कारः 467 • युद्धकाण्डे सर्गः 73 इन्द्रजिन्मायायुद्धम् 470 • युद्धकाण्डे सर्गः 74 औषधिपर्वतानयनम् 482 • युद्धकाण्डे सर्गः 75 लङ्कादाहः 494 • युद्धकाण्डे सर्गः 76 कम्पनादिवधः 503 • युद्धकाण्डे सर्गः 77 निकुम्भवधः 516 • युद्धकाण्डे सर्गः 78 मकराक्षाभिषेणनम् 519 • युद्धकाण्डे सर्गः 79 मकराक्षवधः 522 • युद्धकाण्डे सर्गः 80 तिरोहितरावणियुद्धम् 529 • युद्धकाण्डे सर्गः 81 मायासीतावधः 534 • युद्धकाण्डे सर्गः 82 हनूमदादिनिर्वेदः 540 • युद्धकाण्डे सर्गः 83 रामाश्वासनम् 543 • युद्धकाण्डे सर्गः 84 इन्द्रजिन्मायाविवरणम् 549 • युद्धकाण्डे सर्गः 85 निकुम्भिलाभियानम् 553 • युद्धकाण्डे सर्गः 86 रावणिबलकथनम् 557 • युद्धकाण्डे सर्गः 87 विभीषणरावणि परस्परनिन्दा 562 • युद्धकाण्डे सर्गः 88 सौमित्रिरावणियुद्धम् 566 • युद्धकाण्डे सर्गः 89 सौमित्रिसन्धुक्षणम् 572 • युद्धकाण्डे सर्गः 90 सौमित्रिरावणियुद्धम् 578 • युद्धकाण्डे सर्गः 91 रावणिवधः 585 • युद्धकाण्डे सर्गः 92 रावणिशस्त्रहतचिकित्सा 598 • युद्धकाण्डे सर्गः 93 सीताहननोद्यमनिवृत्तिः 602 • युद्धकाण्डे सर्गः 94 गान्धर्वास्त्रमोहनम् 611 • युद्धकाण्डे सर्गः 95 राक्षसीविलापः 616 • युद्धकाण्डे सर्गः 96 रावणाभिषेणनम् 622 • युद्धकाण्डे सर्गः 97 विरूपाक्षवधः 629 • युद्धकाण्डे सर्गः 98 महोदरवधः 633 • युद्धकाण्डे सर्गः 99 महापार्श्ववधः 639 • युद्धकाण्डे सर्गः 100 रामरावणास्त्रपरम्परा 642 • युद्धकाण्डे सर्गः 101 लक्ष्मणशक्तिक्षेपः 650 • युद्धकाण्डे सर्गः 102 लक्ष्मणसञ्जीवनम् 658 • युद्धकाण्डे सर्गः 103 ऐन्द्ररथकेतुपातनम् 665 • युद्धकाण्डे सर्गः 104 रावणशूलभङ्गः 669 • युद्धकाण्डे सर्गः 105 दशग्रीवविघूर्णनम् 674 • युद्धकाण्डे सर्गः 106 सारथिविज्ञेयम् 678 • युद्धकाण्डे सर्गः 107 आदित्यहृदयम् 681 • युद्धकाण्डे सर्गः 108 शुभाशुभनिमित्तदर्शनम् 686 • युद्धकाण्डे सर्गः 109 रावणध्वजोन्मथनम् 691 • युद्धकाण्डे सर्गः 110 रावणैकशतशिरश्छेदनम् 695 • युद्धकाण्डे सर्गः 111 पौलस्त्यवधः 700 • युद्धकाण्डे सर्गः 112 विभीषणविलापः 705 • युद्धकाण्डे सर्गः 113 रावणान्तःपुर परिदेवनम् 709 • युद्धकाण्डे सर्गः 114 मन्दोदरीविलापः 713 • युद्धकाण्डे सर्गः 115 विभीषणाभिषेकः 730 • युद्धकाण्डे सर्गः 116 मैथिलीप्रियनिवेदनम् 733 • युद्धकाण्डे सर्गः 117 सीताभर्तृमुखोदीक्षणम् 740 • युद्धकाण्डे सर्गः 118 सीताप्रत्यादेशः 745 • युद्धकाण्डे सर्गः 119 हुताशनप्रवेशः। 748 • युद्धकाण्डे सर्गः 120 ब्रह्मकृतरामस्तवः 753 • युद्धकाण्डे सर्गः 121 सीताप्रतिग्रहः 758 • युद्धकाण्डे सर्गः 122 दशरथप्रतिसमादेशः 761 • युद्धकाण्डे सर्गः 123 इन्द्रवरदानम् 765 • युद्धकाण्डे सर्गः 124 पुष्पकोपस्थापनम् 769 • युद्धकाण्डे सर्गः 125 पुष्पकोत्पतनम् 773 • युद्धकाण्डे सर्गः 126 प्रत्यावृत्तिपथवर्णनम् 777 • युद्धकाण्डे सर्गः 127 भरद्वाजामन्त्रणम् 783 • युद्धकाण्डे सर्गः 128 भरतप्रियाख्यानम् 787 • युद्धकाण्डे सर्गः 129 हनूमद्भरत सम्भाषणम् 793 • युद्धकाण्डे सर्गः 130 भरतसमागमः 800 • युद्धकाण्डे सर्गः 131 श्रीरामपट्टाभिषेकः। 808 • पारायण समापने अनुसन्धेयश्लोकाः। 824 ==== • युद्धकाण्डे सर्गः 60 कुम्भकर्णप्रबोधः स प्रविश्य पुरीं लङ्कां रामबाण.भयार्दितः। भग्नदर्प.स्तदा राजा बभूव व्यथितेन्द्रियः।। 1।। >> मातङ्ग इव सिंहेन गरुडेनेव पन्नगः। अभिभूतोभव.द्राजा राघवेण महात्मना 2।। >> ब्रह्मदण्ड.प्रकाशानां विद्युत्सदृश.वर्चसाम्। स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः।। 3।। >> स काञ्चनमयं दिव्य.माश्रित्य परमासनम्। विप्रेक्षमाणो रक्षांसि रावणो वाक्य.मब्रवीत्।। 4।। >> सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः। यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः 5।। >> इदं तद्ब्रह्मणो घोरं वाक्यं मा.मभ्युपस्थितम्। मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा।। 6।। >> देवदानव.गन्धर्वैर्-यक्षराक्षस.पन्नगैः। अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम्।। 7।। >> विदितं मानुषं मन्ये रामं दशरथात्मजम्। इक्ष्वाकु.कुलनाथेन- अनरण्येन यत्पुरा 8।। >> उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम। यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम्।। 9।। >> निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते। शप्तोहं वेदवत्या च यदा सा धर्षिता पुरा।। 10।। >> सेयं सीता महाभागा जाता जनकनन्दिनी। उमा नन्दीश्वर.श्चापि रम्भा वरुण.कन्यका।। 11।। >> यथोक्ता.स्तपसा प्राप्तं न मिथ्या ऋषिभाषितम्। एत.देवाभ्युपागम्य यत्नं कर्तु.मिहार्हथ।। 12।। >> राक्षसा.श्चापि तिष्ठन्तु चर्यागोपुर.मूर्धसु। स चाप्रतिम.गम्भीरो देवदानव.दर्पहा।। 13।। >> ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्। स पराजित.मात्मानं प्रहस्तं च निषूदितम्।। 14।। >> ज्ञात्वा रक्षोबलं भीम-मादिदेश महाबलः। द्वारेषु यत्नः क्रियतां प्राकारा.श्चाधिरुह्यताम्।। 15।। >> निद्रावश.समाविष्टः कुम्भकर्णो विबोध्यताम्। सुखं स्वपिति निश्चिन्तः कालोपहत.चेतनः।। 16।। >> नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः। मन्त्रयित्वा प्रसुप्तोय-मितस्तु नवमेहनि।। 17। तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्। स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम्।। 18।। >> वानरान् राजपुत्रौ च क्षिप्र.मेव वधिष्यति। एष केतुः पर.स्सङ्ख्ये मुख्यो वै सर्वरक्षसाम्।। 19।। >> कुम्भकर्ण.स्सदा शेते मूढो ग्राम्यसुखे रतः। रामेण हि निरस्तस्य सङ्ग्रामेस्मिन् सुदारुणे 20।। >> भविष्यति न मे शोकः कुम्भकर्णे विबोधिते। किं करिष्या.म्यहं तेन शक्रतुल्यबलेन हि।। 21।। >> ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते। ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः 22।। >> जग्मुः परमसम्भ्रान्ताः कुम्भकर्ण.निवेशनम्। ते रावण.समादिष्टा मांसशोणित.भोजनाः 23।। >> गन्धमाल्यां.स्तथा भक्ष्या-नादाय सहसा ययुः। तां प्रविश्य महाद्वारां सर्वतो योजनायताम् 24।। >> कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम्। कुम्भकर्णस्य निश्वासा-दवधूता महाबलाः 25।। >> प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशु.र्गुहाम्। तां प्रविश्य गुहां रम्यां शुभां काञ्चन.कुट्टिमाम् 26।। >> ददृशु.र्नैरृतव्याघ्रं शयानं भीमदर्शनम्। ते तु तं विकृतं सुप्तं विकीर्ण.मिव पर्वतम् 27।। >> कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन्। ऊर्ध्वरोमाञ्चित.तनुं- श्वसन्त.मिव पन्नगम् 28।। >> त्रासयन्तं महाश्वासै.-श्शयानं भीमदर्शनम्। भीमनासापुटं तं तु पाताल.विपुलाननम्। 29।। >> शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिर.गन्धिनम्। काञ्चनाङ्गद.नद्धाङ्गं किरीटिन.मरिन्दमम्। 30।। >> ददृशु.र्नैरृतव्याघ्रं कुम्भकर्णं महाबलम्। तत.श्चक्रु.र्महात्मानः कुम्भकर्णाग्रत.स्तदा।। 31।। >> मांसानां मेरुसङ्काशं राशिं परमतर्पणम्। मृगाणां महिषाणां च वराहाणां च सञ्चयान्।। 32।। >> चक्रु.र्नैरृतशार्दूलाः राशि.मन्नस्य चाद्भुतम्। तत.श्शोणितकुम्भांश्च मद्यानि विविधानि च।। 33।। >> पुरस्तात् कुम्भकर्णस्य चक्रु.स्त्रिदशशत्रवः। लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम्।। 34।। >> दिव्यै.राच्छादयामासुर्- माल्यै.र्गन्धै.स्सुगन्धिभिः। धूपं सुगन्धं ससृजु-स्तुष्टुवुश्च परन्तपम् 35।। >> जलदा इव चोन्नेदु-र्यातुधाना.स्तत.स्ततः। शङ्खा.नापूरयामासु.-श्शशाङ्कसदृश.प्रभान् 36।। >> तुमुलं युगपच्चापि विनेदु.श्चाप्यमर्षिताः। नेदु.रास्फोटयामासु-श्चिक्षिपु.स्ते निशाचराः। कुम्भकर्ण.विबोधार्थं चक्रुस्ते विपुलं स्वनम् 37।। >> सशङ्ख भेरीपटह.प्रणाद-मास्फोटित क्ष्वेलित.सिंहनादम्। दिशो द्रवन्त.स्त्रिदिवं किरन्त-श्श्रुत्वा विहङ्गा.स्सहसा निपेतुः।। 38।। >> यदा भृशं तै.र्निनदै.र्महात्मा- न कुम्भकर्णो बुबुधे प्रसुप्तः। ततो भुशुण्डीमुसलानि सर्वे- रक्षोगणास्ते जगृहु.र्गदाश्च।। 39।। >> तं शैलशृङ्गै.र्मुसलै.र्गदाभिर्- वृक्षै.स्तलै.र्मुद्गर.मुष्टिभिश्च। सुखप्रसुप्तं भुवि कुम्भकर्णं- रक्षांस्युदग्राणि तदा निजघ्नुः।। 40।। >> तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः। राक्षसा बलवन्तोपि स्थातुं नाशक्नुव.न्पुरः 41।। >> ततः परिहिता गाढं राक्षसा भीमविक्रमाः। मृदङ्ग पणवान् भेरी.-श्शङ्ख.कुम्भगणां.स्तथा 42।। >> दशराक्षस.साहस्रं युगप.त्पर्यवादयन्। नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्।। 43।। >> अभिघ्नन्तो नदन्तश्च-नैव सँविविदे तु सः। यदा चैनं न शेकु.स्ते- प्रतिबोधयितुं तदा 44।। >> ततो गुरुतरं यत्नं- दारुणं समुपाक्रमन्। अश्वा.नुष्ट्रान् खरान् नागान्- जघ्नु.र्दण्ड.कशाङ्कुशैः 45।। >> भेरी.शङ्ख.मृदङ्गांश्च सर्वपाणै.रवादयन्। निजघ्नु.श्चास्य गात्राणि महाकाष्ठ.कटङ्करैः 46।। >> मुद्गरै.र्मुसलैश्चैव सर्वप्राण.समुद्यतैः। तेन शब्देन महता लङ्का समभिपूरिता।। 47।। >> सपर्वतवना सर्वा सोपि नैव प्रबुध्यते। तत.स्सहस्रं भेरीणां युगप.त्समहन्यत।। 48।। >> मृष्टकाञ्चन.कोणाना.-मसक्तानां समन्ततः। एव.मप्यतिनिद्रस्तु यदा नैव प्रबुध्यते।। 49।। >> शापस्य वश.मापन्न-स्ततः क्रुद्धा निशाचराः। महाक्रोध.समाविष्टा.-स्सर्वे भीमपराक्रमाः 50।। >> तद्रक्षो बोधयिष्यन्त-श्चक्रु.रन्ये पराक्रमम्। अन्ये भेरी.स्समाजघ्नु-रन्ये चक्रु.र्महास्वनम् 51।। >> केशा.नन्ये प्रलुलुपुः कर्णा.वन्ये दशन्ति च। उदकुम्भशता.नन्ये समसिञ्चन्त कर्णयोः।। 52।। >> न कुम्भकर्णः पस्पन्द महानिद्रावशं गतः। अन्ये च बलिन.स्तस्य कूटमुद्गर.पाणयः 53।। >> मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्। रज्जुबन्धन.बद्धाभि.-श्शतघ्नीभिश्च सर्वतः 54।। >> वध्यमानो महाकायो न प्राबुध्यत राक्षसः। वारणानां सहस्रं तु शरीरेस्य प्रधावितम्। कुम्भकर्ण.स्ततो बुद्ध.-स्स्पर्शं पर.मबुध्यत 55।। >> स पात्यमानै र्गिरिशृङ्ग वृक्षै-रचिन्तयं.स्तान् विपुलान् प्रहारान्। निद्राक्षयात् क्षुद्भयपीडितश्च- विजृम्भमाण.स्सहसोत्पपात।। 56।। >> स नागभोगाचलशृङ्ग कल्पौ- विक्षिप्य बाहू गिरिशृङ्गसारौ। विवृत्य वक्त्रं बडबा.मुखाभं- निशाचरोसौ विकृतं जजृम्भे।। 57।। >> तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम्। ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः 58।। >> स जृम्भमाणोतिबलः प्रतिबुद्धो निशाचरः। निश्वास.श्चास्य सञ्जज्ञे पर्वतादिव मारुतः 59।। >> रूप.मुत्तिष्ठत.स्तस्य कुम्भकर्णस्य तद्बभौ। तपान्ते सबलाकस्य मेघस्येव विवर्षतः 60। तस्य दीप्ताग्निसदृशे विद्युत्सदृश.वर्चसी। ददृशाते महानेत्रे दीप्ता.विव महाग्रहौ 61।। >> तत.स्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधा.न्बहून्। वराहान् महिषांश्चैव स बभक्ष महाबलः।। 62। अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन्। मेदःकुम्भं च मद्यं च पपौ शक्ररिपु.स्तदा 63।। >> तत.स्तृप्त इति ज्ञात्वा समुत्पेतु.र्निशाचराः। शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् 64।। >> निद्राविशद.नेत्रस्तु कलुषीकृतलोचनः। चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान्।। 65।। >> स सर्वान् सान्त्वयामास नैरृतान् नैरृतर्षभः। बोधनाद् विस्मित.श्चापि राक्षसा.निद.मब्रवीत् 66।। >> किमर्थ.मह.मादृत्य भवद्भिः प्रतिबोधितः। कच्चित् सुकुशलं राज्ञो भयं वा नेह किञ्चन।। 67।। >> अथवा ध्रुव.मन्येभ्यो भयं पर.मुपस्थितम्। यदर्थ.मेव त्वरितै-र्भवद्भिः प्रतिबोधितः।। 68।। >> अद्य राक्षसराजस्य भय.मुत्पाटया.म्यहम्। पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् 69।। >> न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः। तदाख्यातार्थ.तत्त्वेन मत्प्रबोधन.कारणम् 70। एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम्। यूपाक्ष.स्सचिवो राज्ञः कृताञ्जलि.रुवाच ह 71।। >> न नो देवकृतं किञ्चि-द्भय.मस्ति कदाचन। मानुषा.न्नो भयं राजं-स्तुमुलं सम्प्रबाधते 72।। >> न दैत्यदानवेभ्यो वा भय.मस्ति हि तादृशम्। यादृशं मानुषं राजन् भय.मस्मा.नुपस्थितम् 73।। >> वानरैः पर्वताकारै-र्लङ्केयं परिवारिता। सीताहरण.सन्तप्ता-द्रामा.न्न.स्तुमुलं भयम्।। 74।। >> एकेन वानरेणेयं पूर्वं दग्धा महापुरी। कुमारो निहत.श्चाक्ष.-स्सानुयात्र.स्सकुञ्जरः 75।। >> स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः। व्रजेति सँयुगे मुक्तो रामेणादित्यतेजसा।। 76।। >> यन्न देवैः कृतो राजा नापि दैत्यै.र्न दानवैः। कृत.स्स इह रामेण विमुक्तः प्राणसंशयात्।। 77।। >> स यूपाक्षवच.श्श्रुत्वा भ्रातु.र्युधि पराजयम्। कुम्भकर्णो विवृत्ताक्षो यूपाक्ष.मिद.मब्रवीत् 78।। >> सर्व.मद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्। राघवं च रणे हत्वा पश्चा.द्द्रक्ष्यामि रावणम् 79।। >> राक्षसां.स्तर्पयिष्यामि हरीणां मांसशोणितैः। रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् 80। त.त्तस्य वाक्यं ब्रुवतो निशम्य- सगर्वितं रोषविवृद्ध.दोषम्। महोदरो नैरृतयोधमुख्यः- कृताञ्जलि.र्वाक्य.मिदं बभाषे।। 81।। >> रावणस्य वच.श्श्रुत्वा गुणदोषौ विमृश्य च। पश्चा.दपि महाबाहो शत्रून् युधि विजेष्यसि।। 82।। >> महोदरवच.श्श्रुत्वा राक्षसैः परिवारितः। कुम्भकर्णो महातेजा.-स्सम्प्रतस्थे महाबलः 83।। >> सुप्त.मुत्थाप्य भीमाक्षं भीमरूप.पराक्रमम्। राक्षसा.स्त्वरिता जग्मु-र्दशग्रीव.निवेशनम् 84।। >> ततो गत्वा दशग्रीव-.मासीनं परमासने। ऊचु.र्बद्धाञ्जलिपुटा.-स्सर्व एव निशाचराः।। 85।। >> प्रबुद्धः कुम्भकर्णोसौ भ्राता ते राक्षसर्षभ। कथं तत्रैव निर्यातु द्रक्ष्यस्येन.मिहागतम् 86।। >> रावण.स्त्वब्रवी.द्धृष्टो राक्षसां.स्ता.नुपस्थितान्। द्रष्टु.मेन.मिहेच्छामि यथान्यायं च पूज्यताम् 87।। >> तथेत्युक्त्वा तु ते सर्वे पुन.रागम्य राक्षसाः। कुम्भकर्ण.मिदं वाक्य-मूचू रावणचोदिताः 88।। >> द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः। गमने क्रियतां बुद्धि-र्भ्रातरं सम्प्रहर्षय 89।। >> कुम्भकर्णस्तु दुर्धर्षो भ्रातु.राज्ञाय शासनम्। तथे.त्युक्त्वा महाबाहु-श्शयना.दुत्पपात ह 90। प्रक्षाल्य वदनं हृष्ट.-स्स्नातः परमभूषितः। पिपासु.स्त्वरयामास पानं बलसमीरणम् 91।। >> ततस्ते त्वरिता.स्तस्य राक्षसा रावणाज्ञया। मद्यं कुम्भांश्च विविधान् क्षिप्र.मेवोपहारयन् 92।। >> पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे। ईष.त्समुत्कटो मत्त-स्तेजोबल.समन्वितः 93।। >> कुम्भकर्णो बभौ हृष्टः कालान्तक.यमोपमः। भ्रातु.स्स भवनं गच्छन् रक्षोगण.समन्वितः। कुम्भकर्णः पदन्यासै-रकम्पयत मेदिनीम्। 94।। >> स राजमार्गं वपुषा प्रकाशयन्- सहस्ररश्मि.र्धरणी. मिवांशुभिः। जगाम तत्राञ्जलिमालया वृत- श्शतक्रतु.र्गेह मिव स्वयम्भुवः।। 95।। >> तं राजमार्गस्थ.ममित्रघातिनं- वनौकस.स्ते सहसा बहिस्स्थिताः। दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं- वितत्रसु.स्ते हरियूथपालाः।। 96।। >> केचि.च्छरण्यं शरणं स्म रामं- व्रजन्ति केचि.द्व्यथिताः पतन्ति। केचि.द्दिश.स्स्म व्यथिताः प्रयान्ति- केचि.द्भयार्ता भुवि शेरते स्म।। 97।। >> त.मद्रिशृङ्ग.प्रतिमं किरीटिनं- स्पृशन्त.मादित्य मिवात्मतेजसा। वनौकसः प्रेक्ष्य विवृद्ध मद्भुतं- भयार्दिता दुद्रुविरे तत.स्ततः।। 98।। >> श्रीमद्रामायणे युद्धकाण्डे षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 61 कुम्भकर्णवृत्तकथनम् ततो रामो महातेजा धनु.रादाय वीर्यवान्। किरीटिनं महाकायं कुम्भकर्णं ददर्श ह।। 1।। >> तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्। क्रममाण.मिवाकाशं पुरा नारायणं प्रभुम् 2।। >> स तोयाम्बुदसङ्काशं काञ्चनाङ्गद.भूषणम्। दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः।। 3।। >> विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्। सविस्मय मिदं रामो विभीषण.मुवाच ह 4।। >> कोसौ पर्वतसङ्काशः किरीटी हरिलोचनः। लङ्कायां दृश्यते वीर.-स्सविद्यु.दिव तोयदः 5।। >> पृथिव्याः केतुभूतोसौ महा.नेकोत्र दृश्यते। यं दृष्ट्वा वानरा.स्सर्वे विद्रवन्ति तत.स्ततः 6।। >> आचक्ष्व मे महान् कोसौ रक्षो वा यदि वासुरः। न मयैवँविधं भूतं दृष्टपूर्वं कदाचन 7।। >> स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा। विभीषणो महाप्राज्ञः काकुत्स्थ.मिद.मब्रवीत् 8।। >> येन वैवस्वतो युद्धे वासवश्च पराजितः। सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्। अस्य प्रमाणा.त्सदृशो राक्षसोन्यो न विद्यते 9।। >> एतेन देवा युधि दानवाश्च- यक्षा भुजङ्गाः पिशिताशनाश्च। गन्धर्वविद्याधरकिन्नराश्च- सहस्रशो राघव सम्प्रभग्नाः।। 10।। >> शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्। हन्तुं न शेकु.स्त्रिदशाः कालोय.मिति मोहिताः।। 11।। >> प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः। अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्।। 12।। >> एतेन जातमात्रेण क्षुधार्तेन महात्मना। भक्षितानि सहस्राणि सत्त्वानां सुबहू.न्यपि।। 13।। >> तेषु सम्भक्ष्यमाणेषु प्रजा भय.निपीडिताः। यान्ति स्म शरणं शक्रं त.मप्यर्थं न्यवेदयन्।। 14।। >> स कुम्भकर्णं कुपितो महेन्द्रो- जघान वज्रेण शितेन वज्री। स शक्रवज्राभिहतो महात्मा- चचाल कोपाच्च भृशं ननाद।। 15।। >> तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः। श्रुत्वा निनादं वित्रस्ता भूयो भूमि.र्वितत्रसे।। 16।। >> ततः कोपा.न्महेन्द्रस्य कुम्भकर्णो महाबलः। विकृष्यैरावता.द्दन्तं जघानोरसि वासवम्।। 17।। >> कुम्भकर्णप्रहारार्तो विचचाल स वासवः। ततो विषेदु.स्सहसा देवा ब्रह्मर्षिदानवाः।। 18।। >> प्रजाभि.स्सह शक्रश्च ययौ स्थानं स्वयम्भुवः। कुम्भकर्णस्य दौरात्म्यं शशंसु.स्ते प्रजापतेः।। 19।। >> प्रजानां भक्षणं चापि देवानां चापि धर्षणम्। आश्रमध्वंसनं चापि परस्त्रीहरणं भृशं 20।। >> एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः। अचिरेणैव कालेन शून्यो लोको भविष्यति।। 21।। >> वासवस्य वच.श्श्रुत्वा सर्वलोक.पितामहः। रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह 22।। >> कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः। दृष्ट्वा विश्वास्य चैवेदं स्वयम्भू.रिद.मब्रवीत् 23।। >> ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः। तस्मात् त्व.मद्य प्रभृति मृतकल्प.श्शयिष्यसे 24।। >> ब्रह्मशापाभिभूतोथ निपपाताग्रतः प्रभोः। ततः परमसम्भ्रान्तो रावणो वाक्य.मब्रवीत् 25।। >> विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते। न नप्तारं स्वकं न्याय्यं शप्तु.मेवं प्रजापते 26।। >> न मिथ्यावचनश्च त्वं स्वप्स्य.त्येष न संशयः। कालस्तु क्रियता.मस्य शयने जागरे तथा।। 27।। >> रावणस्य वच.श्श्रुत्वा स्वयम्भू.रिद.मब्रवीत्। शयिता ह्येष षण्मासा.-नेकाहं जागरिष्यति। 28।। >> एकेनाह्ना त्वसौ वीर.श्चरन् भूमिं बुभुक्षितः। व्यात्तास्यो ।भक्षये.ल्लोकान् सङ्क्रुद्ध इव पावकः।। 29।। >> सोसौ व्यसन.मापन्नः कुम्भकर्ण.मबोधयत्। त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः।। 30।। >> स एष निर्गतो वीर.श्शिबिरा.द्भीमविक्रमः। वानरा.न्भृशसङ्क्रुद्धो भक्षयन् परिधावति 31।। >> कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः। कथ.मेनं रणे क्रुद्धं वारयिष्यन्ति वानराः। 32।। >> उच्यन्तां वानरा.स्सर्वे यन्त्र.मेतत् समुच्छ्रितम्। इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः।। 33।। >> विभीषणवच.श्श्रुत्वा हेतुमत् सुमुखोद्गतम्। उवाच राघवो वाक्यं नीलं सेनापतिं तदा।। 34।। >> गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके। द्वाराण्यादाय लङ्कायाः चर्याश्चाप्यथ सङ्क्रमान् 35।। >> शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर। तिष्ठन्तु वानरा.स्सर्वे सायुधा.श्शैलपाणयः।। 36।। >> राघवेण स.मादिष्टो नीलो हरिचमूपतिः। शशास वानरानीकं यथावत् कपिकुञ्जरः 37।। >> ततो गवाक्ष.श्शरभो हनुमा.नङ्गद.स्तदा। शैलशृङ्गाणि शैलाभा गृहीत्वा द्वार.मभ्ययुः 38।। >> रामवाक्य.मुपश्रुत्य हरयो जितकाशिनः। पादपै.रर्दयन् वीरा- वानराः परवाहिनीं 39। ततो हरीणां तदनीक.मुग्रं- रराज शैलोद्यत.वृक्षहस्तम्। गिरे.स्समीपानुगतं यथैव- मह.न्महाम्भोधर.जाल.मुग्रम् 40।। >> श्रीमद्रामायणे युद्धकाण्डे एक षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 62 रावणाभ्यर्थना स तु राक्षसशार्दूलो निद्रामद.समाकुलः। राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः।। 1।। >> राक्षसानां सहस्रैश्च वृतः परमदुर्जयः। गृहेभ्यः पुष्पवर्षेण कीर्यमाण.स्तदा ययौ 2।। >> स हेमजाल.विततं भानुभास्वर.दर्शनम्। ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् 3। स तत् तदा सूर्य इवाभ्रजालं- प्रविश्य रक्षोधिपते.र्निवेशनम्। ददर्श दूरेग्रज.मासनस्थं- स्वयम्भुवं शक्र इवासनस्थम् 4।। >> भ्रातु.स्स भवनं गच्छन् रक्षोगण समन्वितम्। कुम्भकर्णः पदन्यासै-रकम्पयत मेदिनीं 5।। >> सोभिगम्य गृहं भ्रातुः कक्ष्या.मभिविगाह्य च। ददर्शोद्विग्न.मासीनं विमाने पुष्पके गुरुम् 6।। >> अथ दृष्ट्वा दशग्रीवः कुम्भकर्ण.मुपस्थितम्। तूर्ण.मुत्थाय संहृष्ट.-स्सन्निकर्ष.मुपानयत् 7।। >> अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। भ्रातु.र्ववन्दे चरणान्- किं कृत्य.मिति चाब्रवीत् 8।। >> उत्पत्य चैनं मुदितो रावणः परिषस्वजे। स भ्रात्रा सम्परिष्वक्तो यथाव.च्चाभिनन्दितः 9।। >> कुम्भकर्ण.श्शुभं दिव्यं प्रतिपेदे वरासनम्। स तदासन.माश्रित्य कुम्भकर्णो महाबलः।। 10।। >> संरक्तनयनः कोपा-द्रावणं वाक्य.मब्रवीत्। किमर्थ.मह. मादृत्य त्वया राजन् विबोधितः।। 11।। >> शंस कस्मा.द्भयं तेस्ति कोद्य प्रेतो भविष्यति। भ्रातरं रावणः क्रुद्धं कुम्भकर्ण.मवस्थितम्।। 12।। >> ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्य.मब्रवीत्। अद्य ते सुमहान् काल.श्शयानस्य महाबल।। 13।। >> सुखित.स्त्वं न जानीषे मम रामकृतं भयम्। एष दाशरथी. राम.-स्सुग्रीवसहितो बली।। 14।। >> समुद्रं सबल.स्तीर्त्वा मूलं नः परिकृन्तति। हन्त पश्यस्व लङ्कायां वना.न्युपवनानि च।। 15।। >> सेतुना सुख.मागम्य वानरैकार्णवं कृतम्। ये रक्षसां मुख्यतमा हतास्ते वानरै.र्युधि।। 16।। >> वानराणां क्षयं युद्धे न पश्यामि कदाचन। न चापि वानरा युद्धे जितपूर्वाः कदाचन।। 17।। >> तदेत.द्भय.मुत्पन्नं मां त्रायस्व महाबल। नाशय त्वमिइमा.नद्य तदर्थं बोधितो भवान्।। 18।। >> सर्वक्षपितकोशं च स त्व.मभ्यवपद्य माम्। त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्।। 19।। >> भ्रातु.रर्थे महाबाहो कुरु कर्म सुदुष्करम्। मयैवं नोक्तपूर्वो हि कश्चि.द्भ्रातः परन्तप 20।। >> त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे। देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ। त्वया देवाः प्रतिव्यूह्य निर्जिता.श्चासुरा युधि 21।। >> त.देतत् सर्व.मातिष्ठ वीर्यं भीमपराक्रम। न हि ते सर्वभूतेषु दृश्यते सदृशो बली।। 22।। >> कुरुष्व मे प्रियहित.मेत.दुत्तमं- यथाप्रियं प्रियरण.बान्धवप्रिय। स्वतेजसा विधम सपत्नवाहिनीं- शरद्घनं पवन इवोद्यतो महान्।। 23।। >> श्रीमद्रामायणे युद्धकाण्डे द्विषष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 63 कुम्भकर्णानुशोकः तस्य राक्षसराजस्य निशम्य परिदेवितम्। कुम्भकर्णो बभाषेथ वचनं प्रजहास च।। 1।। >> दृष्टो दोषो हि योस्माभिः पुरा मन्त्रविनिर्णये। हितेष्वनभियुक्तेन सोय.मासादित.स्त्वया 2।। >> शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः। निरयेष्वेव पतनं यथा दुष्कृतकर्मणः।। 3।। >> प्रथमं वै महाराज कृत्य.मेत. दचिन्तितम्। केवलं वीर्यदर्पेण नानुबन्धो विचारितः 4।। >> यः पश्चात् पूर्वकार्याणि कुर्या.दैश्वर्य.मास्थितः।  पूर्वं चोत्तरकार्याणि न स वेद नयानयौ 5।। >> देशकालविहीनानि कर्माणि विपरीतवत्।  क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव।। 6।। >> त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति।  सचिवै.स्समयं कृत्वा स सभ्ये वर्तते पथि।। 7।। >> यथागमं च यो राजा समयं विचिकीर्षति।  बुध्यते सचिवान् बुद्ध्या सुहृद.श्चानुपश्यति 8।। >> धर्म.मर्थं च कामं च सर्वान् वा रक्षसां पते। भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः।। 9।। >> त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते। राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्।। 10।। >> उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्। योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ।। 11।। >> काले धर्मार्थकामान् य.-स्सम्मन्त्र्य सचिवै.स्सह। निषेवेतात्मवान् लोके- न स व्यसन.माप्नुयात्।। 12।। >> हितानुबन्ध.मालोक्य कार्याकार्य.मिहात्मनः। राजा सहार्थतत्त्वज्ञै.-स्सचिवै.स्स हि जीवति।। 13।। >> अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः। प्रागल्भ्या.द्वक्तु. मिच्छन्ति मन्त्रे.ष्वभ्यन्तरीकृताः।। 14।। >> अशास्त्र विदुषां तेषां- न कार्य.महितं वचः। अर्थशास्त्रानभिज्ञानां विपुलां श्रिय. मिच्छताम्।। 15।। >> अहितं च हिताकारं धार्ष्ट्या.ज्जल्पन्ति ये नराः। अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः।। 16।। >> विनाशयन्तो भर्तारं सहिता.श्शत्रुभि.र्बुधैः। विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः।। 17।। >> तान् भर्ता मित्रसङ्काशा-नमित्रान् मन्त्रनिर्णये। व्यवहारेण जानीयात् सचिवा.नुपसंहितान्।। 18।। >> चपलस्येह कृत्यानि सहसानुप्रधावतः। छिद्र.मन्ये प्रपद्यन्ते क्रौञ्चस्य ख.मिव द्विजाः।। 19।। >> यो हि शत्रु.मभिज्ञाय नात्मान.मभिरक्षति। अवाप्नोति हि सोनर्थान्- स्थानाच्च व्यवरोप्यते 20।। >> य.दुक्त मिह ते पूर्वं क्रियता. मनुजेन च। तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु।। 21। तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्। भ्रुकुटिं चैव सञ्चक्रे क्रुद्ध.श्चैन. मभाषत 22।। >> मान्यो गुरु.रिवाचार्यः किं मां त्वमनुशासति। किमेवं वाक्छ्रमं कृत्वा काले युक्तं विधीयताम्।। 23।। >> विभ्रमा.च्चित्तमोहा.द्वा बलवीर्याश्रयेण वा। नाभिपन्न.मिदानीं यद्- व्यर्था.स्तस्य पुनः कथाः 24।। >> अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम्। गतं तु नानुशोचन्ति गतं तु गत.मेव हि।। 25।। >> ममापनयजं दोषं विक्रमेण समीकुरु। यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि।। 26।। >> यदि वा कार्य.मेत.त्ते हृदि कार्यतमं मतम्। स सुहृद् यो विपन्नार्थं दीन.मभ्यवपद्यते  27।। >> स बन्धु.र्योपनीतेषु साहाय्यायोपकल्पते।  तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् 28।। >> रुष्टोयमिति विज्ञाय शनै.श्श्लक्ष्ण. मुवाच ह। अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् 29।। >> कुम्भकर्ण.श्शनै. र्वाक्यं बभाषे परिसान्त्वयन्। अलं राक्षसराजेन्द्र सन्ताप.मुपपद्य ते 30।। >> रोषं च सम्परित्यज्य स्वस्थो भवितु.मर्हसि। नैत.न्मनसि कर्तव्यं मयि जीवति पार्थिव 31।। >> त.महं नाशयिष्यामि यत्कृते परितप्यसे। अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव।। 32।। >> बन्धुभावा.दभिहितं भ्रातृस्नेहा.च्च पार्थिव। सदृशं यत्तु कालेस्मिन् कर्तुं स्निग्धेन बन्धुना।। 33।। >> शत्रूणां कदनं पश्य क्रियमाणं मया रणे। अद्य पश्य महाबाहो मया समरमूर्धनि।। 34।। >> हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्। अद्य रामस्य तद्दृष्ट्वा मयानीतं रणा.च्छिरः।। 35।। >> सुखी भव महाबाहो सीता भवतु दुःखिता। अद्य रामस्य पश्यन्तु निधनं सुमह.त्प्रियम्।। 36।। >> लङ्कायां राक्षसा.स्सर्वे ये ते निहतबान्धवाः। अद्य शोकपरीतानां स्वबन्धुवध.कारणात् 37।। >> शत्रो.र्युधि विनाशेन करो.म्यस्रप्रमार्जनम्। अद्य पर्वतसङ्काशं ससूर्य.मिव तोयदम् 38।। >> विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्। कथं त्वं राक्षसै.रेभि-र्मया च परिसान्त्वितः 39।। >> जिघांसुभि.र्दाशरथिं व्यथसे त्वं सदानघ। अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः 40।। >> नाह.मात्मनि सन्तापं गच्छेयं राक्षसाधिप। कामं त्विदानी.मपि मां व्यादिश त्वं परन्तप।। 41।। >> न परः प्रेषणीय.स्ते युद्धायातुलविक्रम। अह.मुत्सादयिष्यामि शत्रूं.स्तव महाबल 42।। >> यदि शक्रो यदि यमो यदि पावकमारुतौ। ता.नहं योधयिष्यामि कुबेरवरुणा.वपि 43।। >> गिरिमात्रशरीरस्य शितशूलधरस्य मे। नर्दत.स्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः 44।। >> अथ वा त्यक्तशस्त्रस्य मृद्नत.स्तरसा रिपून्। न मे प्रतिमुखे स्थातुं कश्चि.च्छक्तो जिजीविषुः 45।। >> नैव शक्त्या न गदया नासिना न शितै.श्शरैः। हस्ताभ्या.मेव संरब्धो हनिष्या.म्यपि वज्रिणम् 46।। >> यदि मे मुष्टिवेगं स राघवोद्य सहिष्यति। ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु 47।। >> चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति। सोहं शत्रुविनाशाय तव निर्यातु. मुद्यतः 48।। >> मुञ्च रामा द्भयं राजन् हनिष्यामीह सँयुगे। राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् 49।। >> हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता। हरींश्चापि हनिष्यामि सँयुगे समवस्थितान् 50।। >> असाधारण.मिच्छामि तव दातुं मह.द्यशः। यदि चेन्द्रा.द्भयं राजन् यदि वापि स्वयम्भुवः 51।। >> अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले। यमं च शमयिष्यामि भक्षयिष्यामि पावकं 52।। >> आदित्यं पातयिष्यामि सनक्षत्रं महीतले। शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्।। 53।। >> पर्वतां.श्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्। दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् 54।। >> अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः। नन्विदं त्रिदिवं सर्व.-माहारस्य न पूर्यते 55।। >> वधेन ते दाशरथे.स्सुखावहं- सुखं समाहर्तु.महं व्रजामि। निहत्य रामं सहलक्ष्मणेन- खादामि सर्वान् हरियूथमुख्यान्।। 56।। >> रमस्व कामं पिब चाग्र्यवारुणीं- कुरुष्व कृत्यानि विनीयतां ज्वरः। मयाद्य रामे गमिते यमक्षयं- चिराय सीता वशगा भविष्यति।। 57।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिषष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 64 सीताप्रलोभनोपायः तदुक्त.मतिकायस्य बलिनो बाहुशालिनः। कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः।। 1।। >> कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः। अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् 2।। >> न हि राजा न जानीते कुम्भकर्ण नयानयौ। त्वं तु कैशोरका.द्धृष्टः केवलं वक्तु.मिच्छसि ।। >> स्थानं वृद्धिं च हानिं च देशकाल.विभागवित्। आत्मनश्च परेषां च बुध्यते राक्षसर्षभ 4।। >> य.त्त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना। अनुपासित.वृद्धेन कः कुर्यात् तादृशं बुधः 5।। >> यांस्तु धर्मार्थ.कामां.स्त्वं ब्रवीषि पृथ.गाश्रयान्। अनुबोद्धुं स्वभावेन न हि लक्षण.मस्ति ते।। 6।। >> कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्। श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्।। 7।। >> निश्श्रेयस.फलावेव धर्मार्था.वितरा.वपि। अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्।। 8।। >> ऐहलौकिक.पारत्रॊ कर्म पुम्भि.र्निषेव्यते। कर्माण्यपि तु कल्यानि लभते काम.मास्थितः 9।। >> तत्र कౢप्त.मिदं राज्ञा हृदि कार्यं मतं च नः। शत्रौ हि साहसं यत्स्यात् कि.मिवात्रापनीयताम्।। 10।। >> एकस्यैवाभियाने तु हेतु.र्यः प्रकृत.स्त्वया। तत्राप्यनुपपन्नं ते वक्ष्यामि य.दसाधु च।। 11।। >> येन पूर्वं जनस्थाने बहवोतिबला हताः। राक्षसा राघवं तं त्वं कथ.मेको जयिष्यसि।। 12।। >> ये पुरा निर्जिता.स्तेन जनस्थाने महौजसः। राक्षसां.स्तान् पुरे सर्वान् भीता.नद्यापि पश्यसि।। 13।। >> तं सिंह.मिव सङ्क्रुद्धं रामं दशरथात्मजम्। सर्पं सुप्त.मिवाबुद्ध्या प्रबोधयितु.मिच्छसि।। 14।। >> ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्। कस्तं मृत्यु मिवासह्य.-मासादयितु. मर्हति।। 15।। >> संशयस्थ.मिदं सर्वं शत्रोः प्रतिसमासने। एकस्य गमनं तत्र न हि मे रोचते भृशम्।। 16।। >> हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा। निश्चितं जीवित.स्त्यागे वश.मानेतु.मिच्छति।। 17।। >> यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम। कथ.माशंससे योद्धुं तुल्येनेन्द्र.विवस्वतोः।। 18।। >> एव.मुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः। उवाच रक्षसां मध्ये रावणो लोकरावणम्।। 19।। >> लब्ध्वा पुन.स्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि। यदीच्छसि तदा सीता वशगा ते भविष्यति 20।। >> दृष्टः कश्चि.दुपायो मे सीतोपस्थान.कारकः। रुचिर.श्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु 21।। >> अहं द्विजिह्व.स्संह्रादी कुम्भकर्णो वितर्दनः। पञ्च रामवधायैते निर्यान्ती.त्यवघोषय।। 22।। >> ततो गत्वा वयं युद्धं दास्याम.स्तस्य यत्नतः। जेष्यामो यदि ते शत्रून् नोपायैः कृत्य.मस्ति नः 23।। >> अथ जीवति न.श्शत्रु. र्वयं च कृतसँयुगाः। तत.स्स्त.दभिपत्स्यामो मनसा यत् समीक्षितम्।। 24।। >> वयं युद्धा.दिहैष्यामो रुधिरेण समुक्षिताः। विदार्य स्वतनुं बाणै.- रामनामाङ्कितै.श्शितैः 25।। >> भक्षितो राघवोस्माभिर्- लक्ष्मणश्चेति वादिनः। तव पादौ ग्रहीष्याम.स्त्वं नः कामं प्रपूरय।। 26।। >> ततोवघोषय पुरे गजस्कन्धेन पार्थिव। हतो राम.स्सह भ्रात्रा ससैन्य इति सर्वतः 27।। >> प्रीतो नाम ततो भूत्वा भृत्यानां त्व.मरिन्दम। भोगांश्च परिवारांश्च कामांश्च वसु दापय।। 28।। >> ततो माल्यानि वासांसि वीराणा.मनुलेपनम्। पेयं च बहु योधेभ्य.स्स्वयं च मुदितः पिब 29।। >> ततोस्मिन् बहुलीभूते कौलीने सर्वतो गते। भक्षितः ससुहृ.द्रामो राक्षसै.रिति विश्रुते 30।। >> प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय। धनधान्यैश्च कामैश्च रत्नै.श्चैनां प्रलोभय 31। अनयोपधया राजन् भयशोकानुबन्धया। अकामा त्व.द्वशं सीता नष्टनाथा गमिष्यति 32।। >> रञ्जनीयं हि भर्तारं विनष्ट.मवगम्य सा। नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते 33।। >> सा पुरा सुखसँवृद्धा सुखार्हा दुःखकर्षिता। त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति 34।। >> एत.त्सुनीतं मम दर्शनेन- रामं हि दृष्ट्वैव भवे.दनर्थः। इहैव ते सेत्स्यति मोत्सुको भूर्- महा.नयुद्धेन सुखस्य लाभः।। 35।। >> अनष्टसैन्यो ह्यनवाप्त.संशयो- रिपू.नयुद्धेन जय.न्नराधिप। यशश्च पुण्यं च मह.न्महीपते- श्रियं च कीर्तिं च चिरं समश्नुते।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे चतुष्षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 65 कुम्भकर्णाभिषेणनम् स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्। अब्रवी.द्राक्षसश्रेष्ठं भ्रातरं रावणं ततः।। 1।। >> सोहं तव भयं घोरं वधा.त्तस्य दुरात्मनः। रामस्याद्य प्रमार्जामि निर्वैर.स्त्वं सुखी भव 2।। >> गर्जन्ति न वृथा शूरा- निर्जला इव तोयदाः। पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा 3।। >> न मर्षयति चात्मानं सम्भावयति नात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् 4।। >> विक्लबाना.मबुद्धीनां राज्ञां पण्डितमानिनाम्। शृण्वता सादित.मिदं त्वद्विधानां महोदर 5।। >> युद्धे कापुरुषै.र्नित्यं भवद्भिः प्रियवादिभिः। राजान.मनुगच्छद्भिः कृत्य.मेतद्धि सादितम् 6।। >> राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्। राजान मिम.मासाद्य सुहृच्चिह्न.ममित्रकम् 7।। >> एष निर्या.म्यहं युद्ध-मुद्यत.श्शत्रुनिर्जये। दुर्नयं भवता.मद्य समीकर्तु.मिहाहवे 8।। >> एव.मुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः। प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः।। 9।। >> महोदरोयं रामात्तु परित्रस्तो न संशयः। न हि रोचयते तात युद्धं युद्धविशारद।। 10।। >> कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च। गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च।। 11।। >> तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया। अयं हि काल.स्सुहृदां राक्षसाना. मरिन्दम।। 12।। >> तद्गच्छ शूल.मादाय पाशहस्त इवान्तकः। वानरान् राजपुत्रौ च भक्षयादित्यतेजसा।। 13।। >> समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः। रामलक्ष्मणयो.श्चापि हृदये प्रस्फुटिष्यति।। 14।। >> एव.मुक्त्वा महाराजः कुम्भकर्णं महाबलम्। पुनर्जात.मिवात्मानं मेने राक्षसपुङ्गवः।। 15।। >> कुम्भकर्ण.बलाभिज्ञो जानं.स्तस्य पराक्रमम्। बभूव मुदितो राजा शशाङ्क इव निर्मलः।। 16।। >> इत्येव.मुक्तसंहृष्टो निर्जगाम महाबलः। राज्ञ.स्तु वचनं श्रुत्वा कुम्भकर्ण.स्समुद्यतः।। 17। आददे निशितं शूलं वेगा.च्छत्रुनिबर्हणम्। सर्वकालायसं दीप्तं तप्तकाञ्चन भूषणम्।। 18।। >> इन्द्राशनिसमं भीमं वज्रप्रतिम.गौरवम्। देवदानव.गन्धर्व-यक्ष.किन्नर.सूदनम्।। 19।। >> रक्तमाल्यं महादाम- स्वत.श्चोद्गत.पावकम्। आदाय निशितं शूलं शत्रुशोणित.रञ्जितम् 20।। >> कुम्भकर्णो महातेजा रावणं वाक्य.मब्रवीत्। गमिष्या.म्यह.मेकाकी तिष्ठ.त्विह बलं महत् 21।। >> अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान्। कुम्भकर्ण.वच.श्श्रुत्वा रावणो वाक्य.मब्रवीत्।। 22।। >> सैन्यैः परिवृतो गच्छ शूलमुद्गर.पाणिभिः। वानरा हि महात्मान.श्शीघ्रा.स्सुव्यवसायिनः 23।। >> एकाकिनं प्रमत्तं वा नयेयु.र्दशनैः क्षयम्। तस्मा.त्परमदुर्धर्षै.-स्सैन्यैः परिवृतो व्रज।। 24।। >> रक्षसा प्रहितं सर्वं शत्रुपक्षं निषूदय। अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम् 25।। >> आबबन्ध महातेजाः कुम्भकर्णस्य रावणः। अङ्गदा.न्यङ्गुलीवेष्टान् वराण्याभरणानि च 26।। >> हारं च शशिसङ्काश.-माबबन्ध महात्मनः। दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।। 27।। >> श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले। काञ्चनाङ्गद.केयूरो निष्काभरण.भूषितः। कुम्भकर्णो बृहत्कर्ण.-स्सुहुतोग्नि.रिवाबभौ 28।। >> श्रोणीसूत्रेण महता मेचकेन व्यराजत। अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः 29।। >> स काञ्चनं भारसहं निवातं- विद्युत्प्रभं दीप्त.मिवात्मभासा। आबध्यमानः कवचं रराज- सन्ध्याभ्रसँवीत इवाद्रिराजः।। 30।। >> सर्वाभरण.नद्धाङ्ग- श्शूलपाणि.स्स राक्षसः। त्रिविक्रम.कृतोत्साहो नारायण इवाबभौ।। 31।। >> भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम्। प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः 32।। >> निष्पतन्तं महाकायं महानादं महाबलम्। त.माशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः।। 33।। >> शङ्खदुन्दुभि.निर्घोषै.-स्सैन्यैश्चापि वरायुधैः। तं गजैश्च तुरङ्गैश्च स्यन्दनै.श्चाम्बुदस्वनैः। अनुजग्मु.र्महात्मानं रथिनो रथिनां वरम्।। 34।। >> सर्पै.रुष्ट्रैः खरै.रश्वै.-स्सिंह.द्विप.मृगद्विजैः। अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् 35।। >> स पुष्पवर्षै.रवकीर्यमाणो- धृतातपत्र.श्शितशूलपाणिः। मदोत्कट.श्शोणितगन्धमत्तो- विनिर्ययौ दानवदेव.शत्रुः ।। 36।। >> पदातयश्च बहवो महानादा महाबलाः। अन्वयू. राक्षसा भीमा भीमाक्षा.श्शस्त्रपाणयः।। 37।। >> रक्ताक्षा.स्सुमहाकाया नीलाञ्जन.चयोपमाः। शूला.नुद्यम्य खड्गांश्च निशितांश्च परश्वधान्।। 38।। >> भिन्दिपालांश्च परिघान् गदांश्च मुसलानि च। तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान्।। 39।। >> अथान्य.द्वपु.रादाय दारुणं रोमहर्षणम्। निष्पपात महातेजाः कुम्भकर्णो महाबलः 40।। >> धनु.श्शतपरीणाह.स्स षट्छतसमुच्छ्रितः। रौद्र.श्शकट.चक्राक्षो महापर्वतसन्निभः।। 41।। >> सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्। कुम्भकर्णो महावक्त्रः प्रहस.न्निद.मब्रवीत् 42।। >> अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि सङ्क्रुद्ध.श्शलभा.निव पावकः 43।। >> नापराध्यन्ति मे कामं वानरा वनचारिणः। जाति.रस्मद्विधानां सा पुरोद्यान.विभूषणम् 44।। >> पुररोधस्य मूलं तु राघव.स्सहलक्ष्मणः। हते तस्मिन् हतं सर्वं तं वधिष्यामि सँयुगे 45।। >> एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः। नादं चक्रु.र्महाघोरं कम्पयन्त इवार्णवम् 46।। >> तस्य निष्पतत.स्तूर्णं कुम्भकर्णस्य धीमतः। बभूवु.र्घोररूपाणि निमित्तानि समन्ततः 47।। >> उल्काशनियुता मेघा- बभूवु.र्गर्दभारुणाः। ससागरवना चैव वसुधा समकम्पत ।। 48।। >> घोररूपा.श्शिवा नेदु.-स्सज्वाल.कबलै. र्मुखैः। मण्डला.न्यपसव्यानि बबन्धुश्च विहङ्गमाः 49।। >> निष्पपात च गृध्रोस्य शूले वै पथि गच्छतः। प्रास्फुर.न्नयनं चास्य सव्यो बाहुश्च कम्पते।। 50।। >> निष्पपात तदा चोल्का ज्वलन्ती भीमनिस्वना। आदित्यो निष्प्रभश्चासी.-न्न प्रवाति सुखोनिलः 51।। >> अचिन्तय.न्महोत्पाता-नुत्थितान् रोमहर्षणान्। निर्ययौ कुम्भकर्णस्तु कृतान्तबल.चोदितः 52।। >> स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः। ददर्शाभ्रघनप्रख्यं वानरानीक. मद्भुतम् 53।। >> ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्। वायुनुन्ना इव घना ययु.स्सर्वा दिश.स्तदा 54।। >> तद्वानरानीक मतिप्रचण्डं- दिशोद्रव.द्भिन्न.मिवाभ्रजालम्। स कुम्भकर्ण.स्समवेक्ष्य हर्षा-न्ननाद भूयो घनव.द्घनाभः 55।। >> ते तस्य घोरं निनदं निशम्य- यथा निनादं दिवि वारिदस्य। पेतु.र्धरण्यां बहवः प्लवङ्गा- निकृत्तमूला इव सालवृक्षाः।। 56।। >> विपुल.परिघवान् स कुम्भकर्णो- रिपुनिधनाय विनिस्सृतो महात्मा। कपिगण.भय.मादद.त्सुभीमं- प्रभु.रिव किङ्करदण्डवान् युगान्ते।। 57।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्च षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 66 वानरपर्यवस्थापनम् स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्। निर्ययौ नगरा.त्तूर्णं कुम्भकर्णो महाबलः।। 1।। >> स ननाद महानादं समुद्र.मभिनादयन्। जनय.न्निव निर्घातान् विधम.न्निव पर्वतान् 2।। >> त.मवध्यं मघवता यमेन वरुणेन च। प्रेक्ष्य भीमाक्ष.मायान्तं वानरा विप्रदुद्रुवुः 3।। >> तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोङ्गदोब्रवीत्। नलं नीलं गवाक्षं च कुमुदं च महाबलम् 4।। >> आत्मान.मत्र विस्मृत्य- वीर्याण्यभिजनानि च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा।। 5।। >> साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ। नालं युद्धाय वै रक्षो महतीयं विभीषिका।। 6।। >> महती.मुत्थिता.मेनां राक्षसानां विभीषिकाम्। विक्रमा.द्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः 7।। >> कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः। वृक्षाद्रिहस्ता हरय.-स्सम्प्रतस्थू रणाजिरम् 8।। >> ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः। निजघ्नुः परमक्रुद्धा.स्समदा इव कुञ्जराः 9।। >> प्रांशुभि.र्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः। पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते।। 10।। >> तस्य गात्रेषु पतिता भिद्यन्ते शतश.श्शिलाः। पादपाः पुष्पिताग्राश्च भग्नाः पेतुर् महीतले।। 11।। >> सोपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्। ममन्थ परमायत्तो वना.न्यग्नि.रिवोत्थितः।। 12। लोहितार्द्रास्तु बहव.-श्शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः।। 13।। >> लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्। केचित् समुद्रे पतिताः केचिद् गगन.माश्रिताः।। 14।। >> वध्यमानास्तु ते वीरा राक्षसेन बलीयसा। सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः।। 15।। >> ते स्थलानि तथा निम्नं विषण्णवदना भयात्। ऋक्षा वृक्षान् समारूढाः केचित् पर्वत.माश्रिताः।। 16।। >> ममज्जु.रर्णवे केचि.-द्गुहाः केचित् समाश्रिताः। निषेदुः प्लवगाः केचित् केचि.न्नैवावतस्थिरे।। 17।। >> केचित् भूमौ निपतिताः केचित् सुप्ता मृता इव। तान् समीक्ष्याङ्गदो भग्नान् वानरा.निद. मब्रवीत्।। 18।। >> अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः। भग्नानां वो न पश्यामि परिगम्य मही.मिमाम्।। 19।। >> स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ। निरायुधानां द्रवता.मसङ्गगति.पौरुषाः 20।। >> दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम्। कुलेषु जाता.स्सर्वे स्म विस्तीर्णेषु महत्सु च 21।। >> क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा। अनार्याः खलु यद्भीता-स्त्यक्त्वा वीर्यं प्रधावत।। 22।। >> विकत्थनानि वो यानि यदा वै जनसंसदि। तानि वः क्व नु यातानि सोदग्राणि महान्ति च।। 23।। >> भीरु प्रवादा.श्श्रूयन्ते यस्तु जीवति धिक्कृतः। मार्ग.स्सत्पुरुषै. र्जुष्ट.-स्सेव्यतां त्यज्यतां भयम्।। 24।। >> शयामहेथ निहताः पृथिव्या.मल्पजीविताः। दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः।। 25।। >> सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रु.माहवे। जीवितं वीरलोकस्य भोक्ष्यामो वसु वानराः।। 26।। >> न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति। दीप्यमान.मिवासाद्य पतङ्गो ज्वलनं यथा।। 27।। >> पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। एकेन बहवो भग्ना यशो नाशं गमिष्यति।। 28।। >> एवं ब्रुवाणं तं शूर.मङ्गदं कनकाङ्गदम्। द्रवमाणा.स्ततो वाक्य.-मूचु.श्शूरविगर्हितम् 29।। >> कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। न स्थानकालो गच्छामो दयितं जीवितं हि नः 30।। >> एताव.दुक्त्वा वचनं सर्वे ते भेजिरे दिशः। भीमं भीमाक्ष.मायान्तं दृष्ट्वा वानरयूथपाः 31।। >> द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः। सान्त्वैश्च बहुमानैश्च तत.स्सर्वे निवर्तिताः 32।। >> प्रहर्ष.मुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः।। 33। ऋषभ.शरभ.मैन्द.धूम्रनीलाः- कुमुद.सुषेण.गवाक्ष. रम्भ.ताराः। द्विविद.पनस.वायुपुत्र.मुख्या-स्त्वरिततराभिमुखं रणं प्रयाताः।। 34।। >> श्रीमद्रामायणे युद्धकाण्डे षट्षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 67 कुम्भकर्णवधः ते निवृत्ता महाकाया.श्श्रुत्वाङ्गद वच.स्तदा। नैष्ठिकीं बुद्धि.मासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः।। 1।। >> समुदीरित.वीर्यास्ते समारोपित.विक्रमाः। पर्यवस्थापिता वाक्यै-रङ्गदेन वलीमुखाः 2।। >> प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः। चक्रु.स्सुतुमुलं युद्धं वानरा.स्त्यक्तजीविताः।। 3।। >> अथ वृक्षान् महाकाया.-स्सानूनि सुमहान्ति च। वानरा.स्तूर्ण.मुद्यम्य कुम्भकर्ण.मभिद्रुताः 4।। >> स कुम्भकर्ण.स्सङ्क्रुद्धो गदा.मुद्यम्य वीर्यवान्। अर्दयन् सुमहाकाय.-स्समन्ता.द्व्याक्षिप.द्रिपून् 5।। >> शतानि सप्त चाष्टौ च सहस्राणि च वानराः। प्रकीर्णा.श्शेरते भूमौ कुम्भकर्णेन पोथिताः।। 6।। >> षोडशाष्टौ च दश च विंशत् त्रिंशत् तथैव च। परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति।। 7।। >> भक्षयन् भृश सङ्क्रुद्धो गरुडः पन्नगा.निव। कृच्छ्रेण च समाश्वस्ता-स्सङ्गम्य च तत.स्ततः।। 8।। >> वृक्षाद्रि.हस्ता हरय-स्तस्थु.स्सङ्ग्राम मूर्धनि। ततः पर्वत.मुत्पाट्य द्विविदः प्लवगर्षभः 9।। >> दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः। तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः।। 10।। >> त.मप्राप्तो महाकायं तस्य सैन्येपतत् तदा। ममर्दाश्व.गजांश्चापि रथां.श्चैव नगोत्तमः।। 11।। >> तानि चान्यानि रक्षांसि पुनश्चान्य.द्गिरे.श्शिरः। त.च्छैलशृङ्गाभिहतं हताश्वं हतसारथिः।। 12।। >> रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत्। रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः।। 13।। >> शिरांसि नदतां जह्रु-स्सहसा भीम.निस्स्वनाः। वानराश्च महात्मान.-स्समुत्पाट्य महाद्रुमान्।। 14।। >> रथा.नश्वान् गजा.नुष्ट्रान् राक्षसा.नभ्यसूदयन्। हनूमा.न्छैलशृङ्गाणि वृक्षांश्च विविधान् बहून्। ववर्ष कुम्भकर्णस्य शिरस्यम्बर.मास्थितः।। 15।। >> तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह। बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः।। 16।। >> ततो हरीणां त.दनीक मुग्रं- दुद्राव शूलं निशितं प्रगृह्य। तस्थौ ततोस्यापततः पुरस्ता-न्महीधराग्रं हनुमान् प्रगृह्य।। 17।। >> स कुम्भकर्णं कुपितो जघान- वेगेन शैलोत्तम.भीमकायम्। स चुक्षुभे तेन तदाभिभूतो- मेदार्द्रगात्रो रुधिरावसिक्तः।। 18।। >> स शूल.माविध्य तटित्प्रकाशं- गिरिं यथा प्रज्वलिताग्रशृङ्गम्। बाह्वन्तरे मारुति.माजघान- गुहोचलं क्रौञ्च.मिवोग्रशक्त्या।। 19।। >> स शूलनिर्भिन्न.महाभुजान्तरः- प्रविह्वल.श्शोणित.मुद्वमन् मुखात्। ननाद भीमं हनुमान् महाहवे- युगान्तमेघ.स्तनितस्वनोपमम्।। 20।। >> ततो विनेदु.स्सहसा प्रहृष्टा- रक्षोगणा.स्तं व्यथितं समीक्ष्य। प्लवङ्गमास्तु व्यथिता भयार्ताः- प्रदुद्रुवु.स्सँयति कुम्भकर्णात्।। 21।। >> ततस्तु नीलो बलवान्- पर्यवस्थापयन् बलम्। प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते।। 22।। >> त.मापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह। मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत।। 23।। >> सविस्फुलिङ्गं सज्वालं निपपात महीतले। ऋषभ.श्शरभो नीलो गवाक्षो गन्धमादनः।। 24।। >> पञ्च वानरशार्दूलाः कुम्भकर्ण.मुपाद्रवन्। शैलै.र्वृक्षै.स्तलैः पादै-र्मुष्टिभिश्च महाबलाः 25।। >> कुम्भकर्णं महाकायं सर्वतोभिप्रदुद्रुवुः। स्पर्शा.निव प्रहारां.स्तान् वेदयानो न विव्यथे।। 26।। >> ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे। कुम्भकर्ण.भुजाभ्यां तु पीडितो वानरर्षभः।। 27।। >> निपपातर्षभो भीमः प्रमुखा.द्वान्तशोणितः। मुष्टिना शरभं हत्वा जानुना नील.माहवे।। 28।। >> आजघान गवाक्षं च तलेनेन्द्ररिपु.स्तदा। पादेनाभ्यहन.त्क्रुद्ध-स्तरसा गन्धमादनं 29।। >> दत्तप्रहारव्यथिता मुमुहु.श्शोणितोक्षिताः। निपेतु.स्ते तु मेदिन्यां निकृत्ता इव किंशुकाः 30।। >> तेषु वानरमुख्येषु पतितेषु महात्मसु। वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः।। 31।। >> तं शैलमिव शैलाभा.-स्सर्वे ते प्लवगर्षभाः। समारुह्य समुत्पत्य ददंशुश्च महाबलाः 32।। >> तं नखै.र्दशनैश्चापि मुष्टिभि.र्जानुभि.स्तथा। कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः 33।। >> स वानरसहस्रै.स्तै-राचितः पर्वतोपमः। रराज राक्षसव्याघ्रो गिरि.रात्मरुहै.रिव 34।। >> बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः। भक्षयामास सङ्क्रुद्धो गरुडः पन्नगा.निव।। 35।। >> प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे। नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः।। 36।। >> भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः। बभञ्ज वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः।। 37।। >> मांसशोणित.सङ्क्लेदां भूमिं कुर्वन् स राक्षसः। चचार हरिसैन्येषु कालाग्निरिव मूर्छितः 38।। >> वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः। शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः।। 39।। >> यथा शुष्का.ण्यरण्यानि ग्रीष्मे दहति पावकः। तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत्।। 40।। >> ततस्ते वध्यमानास्तु हतयूथा विनायकाः। वानरा भयसँविग्ना विनेदु.र्विस्वरं भृशम् 41।। >> अनेकशो वध्यमानाः कुम्भकर्णेन वानराः। राघवं शरणं जग्मु-र्व्यथिताः खिन्नचेतसः 42।। >> प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्त.सुतात्मजः। अभ्यधावत वेगेन कुम्भकर्णं महाहवे 43।। >> शैलशृङ्गं मह.द्गृह्य विनदंश्च मुहुर्मुहुः। त्रासयन् राक्षसान् सर्वान् कुम्भकर्ण.पदानुगान् 44।। >> चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि। स तेनाभिहतोत्यर्थं गिरिशृङ्गेण मूर्धनि 45।। >> कुम्भकर्णः प्रजज्वाल कोपेन महता तदा। सोभ्यधावत वेगेन वालिपुत्र.ममर्षणः 46।। >> कुम्भकर्णो महानाद-स्त्रासयन् सर्ववानरान्। शूलं ससर्ज वै रोषा-दङ्गदे स महाबलः 47।। >> त.मापतन्तं बुद्ध्वा तु युद्धमार्ग.विशारदः। लाघवा.न्मोचयामास बलवान् वानरर्षभः 48।। >> उत्पत्य चैनं सहसा तलेनोर.स्यताडयत्। स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः।। 49।। >> स लब्धसञ्ज्ञो बलवान् मुष्टि.मावर्त्य राक्षसः। अपहस्तेन चिक्षेप विसञ्ज्ञ.स्स पपात ह।। 50।। >> तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि। तच्छूलं समुपादाय सुग्रीव.मभिदुद्रुवे 51।। >> त.मापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्। उत्पपात तदा वीर.-स्सुग्रीवो वानराधिपः 52।। >> पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः। अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् 53।। >> त.मापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम्। तस्थौ विकृतसर्वाङ्गो वानरेन्द्र.समुन्मुखः 54।। >> कपिशोणित.दिग्धाङ्गं भक्षयन्तं प्लवङ्गमान्। कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्य.मब्रवीत् 55।। >> पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्। भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः 56।। >> त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि। सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस।। 57।। >> तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्। श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोब्रवी.द्वचः 58।। >> प्रजापतेस्तु पौत्र.स्त्वं तथैवर्क्षरज.स्सुतः। श्रुतपौरुष.सम्पन्न-स्तस्मा.द्गर्जसि वानर।। 59।। >> स कुम्भकर्णस्य वचो निशम्य- व्याविध्य शैलं सहसा मुमोच। तेनाजघानोरसि कुम्भकर्णं- शैलेन वज्राशनि.सन्निभेन।। 60। तच्छैलशृङ्गं सहसा विकीर्णं- भुजान्तरे तस्य तदा विशाले। ततो विषेदु.स्सहसा प्लवङ्गाः- रक्षोगणाश्चापि मुदा विनेदुः।। 61।। >> स शैलशृङ्गाभिहत.श्चुकोप- ननाद कोपाच्च विवृत्य वक्त्रम्। व्याविध्य शूलं च तटित्प्रकाशं- चिक्षेप हर्यृक्षपते.र्वधाय।। 62।। >> तत् कुम्भकर्णस्य भुजप्रविद्धं- शूलं शितं काञ्चनदाम.जुष्टम्। क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां- बभञ्ज वेगेन सुतोनिलस्य।। 63।। >> कृतं भारसहस्रस्य शूलं कालायसं महत्। बभञ्ज जानु.न्यारोप्य प्रहृष्टः प्लवगर्षभः।। 64।। >> शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी। हृष्टा ननाद बहुश-स्सर्वत.श्चापि दुद्रुवे 65।। >> बभूवाथ परित्रस्तो राक्षसो विमुखोभवत्। सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः। मारुतिं पूजयाञ्चक्रुर्- दृष्ट्वा शूलं तथागतम्।। 66।। >> स तत् तदा भग्न.मवेक्ष्य शूलं- चुकोप रक्षोधिपति.र्महात्मा। उत्पाट्य लङ्कामलयात् स शृङ्गं- जघान सुग्रीव.मुपेत्य तेन।। 67।। >> स शैलशृङ्गाभिहतो विसञ्ज्ञः- पपात भूमौ युधि वानरेन्द्रः। तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं- नेदुः प्रहृष्टा.स्त्वथ यातुधानाः।। 68।। >> तमभ्युपेत्याद्भुतघोरवीर्यं- स कुम्भकर्णो युधि वानरेन्द्रम्। जहार सुग्रीव.मभिप्रगृह्य- यथानिलो मेघ. मतिप्रचण्डः।। 69।। >> स तं महामेघनिकाश.रूप.-मुत्पाट्य गच्छन् युधि कुम्भकर्णः। रराज मेरुप्रतिमान.रूपो- मेरुर् यथाभ्युच्छ्रित.घोरशृङ्गः।। 70। तत.स्समुत्पाट्य जगाम वीर-स्संस्तूयमानो युधि राक्षसेन्द्रैः। शृण्वन् निनादं त्रिदशालयानां- प्लवङ्गराज.ग्रहविस्मितानाम्।। 71।। >> ततस्त.मादाय तदा स मेने- हरीन्द्र.मिन्द्रोपम. मिन्द्रवीर्यः। अस्मिन् हृते सर्व.मिदं हृतं स्यात्- सराघवं सैन्य.मितीन्द्रशत्रुः।। 72।। >> विद्रुतां वाहिनीं दृष्ट्वा वानराणां तत.स्ततः। कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्।। 73।। >> हनूमां.श्चिन्तयामास मतिमान् मारुतात्मजः। एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्।। 74।। >> यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा। भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम्।। 75।। >> मया हते सँयति कुम्भकर्णे- महाबले मुष्टिविशीर्णदेहे। विमोचिते वानरपार्थिवे च- भवन्तु हृष्टाः प्लवगा.स्समस्ताः।। 76।। >> अथ वा स्वय.मप्येष मोक्षं प्राप्स्यति पार्थिवः। गृहीतोयं यदि भवेत्- त्रिदशै.स्सासुरोरगैः 77।। >> मन्ये न ताव.दात्मनं बुध्यते वानराधिपः। शैलप्रहाराभिहतः कुम्भकर्णेन सँयुगे 78।। >> अयं मुहूर्तात् सुग्रीवो लब्धसञ्ज्ञो महाहवे। आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति।। 79।। >> मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः।। 80। तस्मा.न्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः। भिन्नं च वानरानीकं ताव.दाश्वासया.म्यहम् 81।। >> इत्येवं चिन्तयित्वा तु हनूमान् मारुतात्मजः। भूय.स्संस्तम्भयामास वानराणां महाचमूम् 82।। >> स कुम्भकर्णोथ विवेश लङ्कां- स्फुरन्त.मादाय महाहरिं तम्। विमानचर्या.गृहगोपुरस्थैः-पुष्पाग्र्य.वर्षै.रवकीर्यमाणः।। 83।। >> लाज.गन्धोद.वर्षैस्तु- सिच्यमान.श्शनैश्शनैः। राजमार्गस्य शीतत्वा.त्सञ्ज्ञा.माप महाबलः।। 84।। >> तत.स्स सञ्ज्ञा मुपलभ्य कृच्छ्राद्- बलीयस.स्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्गं- विचिन्तयामास मुहु.र्महात्मा।। 85। एवं गृहीतेन कथं नु नाम- शक्यं मया सम्प्रति कर्तु.मद्य। तथा करिष्यामि यथा हरीणां- भविष्यतीष्टं च हितं च कार्यम्।। 86।। >> ततः कराग्रै.स्सहसा समेत्य- राजा हरीणा.ममरेन्द्रशत्रोः। नखैश्च कर्णौ दशनैश्च नासां- ददंश पार्श्वेषु च कुम्भकर्णम्।। 87।। >> स कुम्भकर्णो हृत.कर्णनासो- विदारित.स्तेन विमर्दितश्च। रोषाभिभूतः क्षतजार्द्रगात्र- स्सुग्रीव.माविध्य पिपेष भूमौ।। 88।। >> स भूतले भीमबलाभिपिष्टः- सुरारिभि.स्तै. रभिहन्यमानः। जगाम खं वेगव.दभ्युपेत्य- पुनश्च रामेण समाजगाम।। 89।। >> कर्णनासा.विहीनस्तु कुम्भकर्णो महाबलः। रराज शोणितोत्सिक्तो गिरिः प्रस्रवणै.रिव।। 90। शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः। युद्धायाभिमुखो भूयो मन.श्चक्रे महाबलः।। 91।। >> अमर्षा.च्छोणितोद्गारी शुशुभे रावणानुजः। नीलाञ्जनचय.प्रख्य-स्ससन्ध्य इव तोयदः।। 92।। >> गते तु तस्मिन् सुरराजशत्रुः- क्रोधा.त्प्रदुद्राव रणाय भूयः। अनायुधोस्मीति विचिन्त्य रौद्रो- घोरं तदा मुद्गर.माससाद।। 93।। >> तत.स्स पुर्या.स्सहसा महौजा- निष्क्रम्य त.द्वानर सैन्य. मुग्रम्। तेनैव रूपेण बभञ्ज रुष्टः- प्रहार.मुष्ट्या च पदेन सद्यः।। 94। बभक्ष रक्षो युधि कुम्भकर्णः- प्रजा युगान्ताग्नि.रिव प्रदीप्तः। बुभुक्षित.श्शोणितमांस.गृध्नुः- प्रविश्य तद्वानरसैन्य.मुग्रम्।। 95। चखाद रक्षांसि हरीन् पिशाचा-नृक्षांश्च मोहा.द्युधि कुम्भकर्णः। यथैव मृत्यु.र्हरते युगान्ते- स भक्षयामास हरींश्च मुख्यान्।। 96। एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः। स.मादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे।। 97।। >> सम्प्रस्रवं.स्तदा मेद.-श्शोणितं च महाबलः। वध्यमानो नगेन्द्राग्रै-र्भक्षयामास वानरान्।। 98।। >> ते भक्षमाणा हरयो रामं जग्मु.स्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति।। 99।। >> शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च। सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति।। 100।। >> मेदो.वसा.शोणित.दिग्ध गात्रः- कर्णावसक्त.प्रथितान्त्रमालः। ववर्ष शूलानि स तीक्ष्णदंष्ट्रः- काले युगान्ताग्नि.रिव प्रवृद्धः।। 101।। >> तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः।। 102।। >> स कुम्भकर्णस्य शरा.-न्छरीरे सप्त वीर्यवान्। निचखानाददे चान्यान् विससर्ज च लक्ष्मणः।। 103।। >> पीड्यमान.स्तदस्त्रं तु- विशेषं तत् स राक्षसः। तत.श्चुकोप बलवान् सुमित्रानन्दवर्धनः।। 104।। >> अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः। राम.मेवाभिदुद्राव दारय.न्निव मेदिनीम्।। 105।। >> अथ रामेण विद्धस्य सहसाभिप्रधावतः। अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरु.रर्चिषः।। 105।। >> अथ दाशरथी रामो रौद्र.मस्त्रं प्रयोजयन्। कुम्भकर्णस्य हृदये ससर्ज निशिता.न्छरान्।। 106।। >> रामास्त्रविद्धो घोरं वै नदन् राक्षसपुङ्गवः। अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे।। 107।। >> तस्योरसि निमग्नाश्च शरा बर्हिणवाससः। हस्ता.च्चास्य परिभ्रष्टा पपातोर्व्यां महागदा।। 108।। >> आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले। स निरायुध.मात्मानं यदा मेने महाबलः।। 109।। >> मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत्। स बाणै.रतिविद्धाङ्ग-क्षतजेन समुक्षितः।। 110। रुधिरं परिसुस्राव गिरिः प्रस्रवणा.निव। स तीव्रेण च कोपेन रुधिरेण च मूर्छितः।। 111।। >> वानरान् राक्षसा.नृक्षान् खादन् विपरिधावति। अथ शृङ्गं समाविध्य- भीमं भीमपराक्रमः।। 112।। >> चिक्षेप राम.मुद्दिश्य बलवा.नन्तकोपमः। अप्राप्त.मन्तरा राम-स्सप्तभि.स्तै. रजिह्मगैः।। 113।। >> शरैः काञ्चन चित्राङ्गै-श्चिच्छेद पुरुषर्षभः। तन्मेरु.शिखराकारं द्योतमान.मिव श्रिया।। 114।। >> द्वे शते वानरेन्द्राणां पतमान.मपातयत्। तस्मिन् काले स धर्मात्मा लक्ष्मणो राम.मब्रवीत्।। 115।। >> कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून्। नैवायं वानरान् राजन् न विजानाति राक्षसान्।। 116।। >> मत्त.श्शोणितगन्धेन स्वान् परां.श्चैव खादति। साध्वेन.मधिरोहन्तु सर्वे ते वानरर्षभाः।। 117।। >> यूथपाश्च यथा मुख्या-स्तिष्ठ.न्त्वस्य समन्ततः। अप्ययं दुर्मतिः काले गुरुभार.प्रपीडितः।। 118।। >> प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान्। तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।। 119।। >> ते समारुरुहु.र्हृष्टाः कुम्भकर्णं प्लवङ्गमाः। कुम्भकर्णस्तु सङ्क्रुद्ध.-स्समारूढः प्लवङ्गमैः।। 120। व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान्। तान् दृष्ट्वा निर्धुतान् रामो दुष्टोय.मिति राक्षसः।। 121।। >> समुत्पपात वेगेन धनु.रुत्तम.माददे। क्रोध.ताम्रेक्षणो वीरो निर्दह.न्निव चक्षुषा।। 122।। >> राघवो राक्षसं रोषा-दभिदुद्राव वेगितः। यूथपान् हर्षय.न्सर्वान् कुम्भकर्ण.भयार्दितान्।। 123।। >> स चाप.मादाय भुजङ्गकल्पं- दृढज्य.मुग्रं तपनीयचित्रम्। हरीन् समाश्वास्य समुत्पपात- रामो निबद्धोत्तम.तूणबाणः।। 124।। >> स वानरगणै.स्तैस्तु वृतः परमदुर्जयः। लक्ष्मणानुचरो राम.-स्सम्प्रतस्थे महाबलः।। 125।। >> स ददर्श महात्मानं किरीटिन.मरिन्दमम्। शोणिताप्लुत.सर्वाङ्गं कुम्भकर्णं महाबलम्।। 126।। >> सर्वान् समभिधावन्तं यथारुष्टं दिशागजम्। मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम्।। 127।। >> विन्ध्यमन्दर.सङ्काशं काञ्चनाङ्गद.भूषणम्। स्रवन्तं रुधिरं वक्त्रा-द्वर्षमेघ.मिवोत्थितम्।। 128।। >> जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम्। मृद्नन्तं वानरानीकं कालान्तक.यमोपमम्।। 129।। >> तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्। विस्फारयामास तदा कार्मुकं पुरुषर्षभः।। 130। स तस्य चापनिर्घोषात् कुपितो नैरृतर्षभः। अमृष्यमाण.स्तं घोष-मभिदुद्राव राघवम्।। 128।। >> ततस्तु वातोद्धत.मेघकल्पं- भुजङ्गराजोत्तम. भोगबाहुम्। त.मापतन्तं धरणीधराभ-मुवाच रामो युधि कुम्भकर्णम्।। 129।। >> आगच्छ रक्षोधिप मा विषाद- अवस्थितोहं प्रगृहीतचापः। अवेहि मां राक्षसवंश.नाशन-मयं मुहूर्ता.द्भविता विचेताः।। 130। रामोय.मिति विज्ञाय जहास विकृतस्वनम्। अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे। पातय.न्निव सर्वेषां हृदयानि वनौकसाम्।। 131।। >> प्रहस्य विकृतं भीमं स मेघस्वनितोपमम्। कुम्भकर्णो महातेजा राघवं वाक्य.मब्रवीत्।। 132।। >> नाहं विराधो विज्ञेयो न कबन्धः खरो न च। न वाली न च मारीचः कुम्भकर्णोह.मागतः।। 133।। >> पश्य मे मुद्गरं घोरं सर्वकालायसं महत्। अनेन निर्जिता देवा दानवाश्च पुरा मया।। 134।। >> विकर्णनास इति मां नावज्ञातुं त्व.मर्हसि। स्वल्पापि हि न मे पीडा कर्णनासा.विनाशनात्।। 135।। >> दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु। तत.स्त्वां भक्षयिष्यामि दृष्टपौरुष.विक्रमम्।। 136।। >> स कुम्भकर्णस्य वचो निशम्य- राम.स्सुपुङ्खान् विससर्ज बाणान्। तै.राहतो वज्रसम प्रवेगैर्- न चुक्षुभे न व्यथते सुरारिः।। 137।। >> यै.स्सायकै.स्सालवरा निकृत्ता- वाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरं- वज्रोपमा न व्यथयां प्रचक्रुः।। 138।। >> स वारिधारा इव सायकां.स्तान्- पिब.न्छरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं- व्याविध्य तं मुद्गर मुग्रवेगम्।। 139।। >> ततस्तु रक्षः क्षतजानुलिप्तं- वित्रासनं देव.महाचमूनाम्। व्याविध्य तं मुद्गर.मुग्रवेगं- विद्रावयामास चमूं हरीणाम्।। 140। वायव्य.मादाय ततो वरास्त्रं- रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जहार बाहुं- स कृत्तबाहु.स्तुमुलं ननाद।। 141।। >> स तस्य बाहु.र्गिरिशृङ्ग.कल्प-स्स मुद्गरो राघवबाणकृत्तः। पपात तस्मिन् हरिराजसैन्ये- जघान तां वानरवाहिनीं च।। 142।। >> ते वानरा भग्नहतावशेषाः- पर्यन्त.माश्रित्य तदा विषण्णाः। प्रवेपिताङ्गं ददृशु.स्सुघोरं- नरेन्द्ररक्षोधिप. सन्निपातम्।। 143।। >> स कुम्भकर्णोस्त्र.निकृत्तबाहुर्- महान् निकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षं- ततोभिदुद्राव रणे नरेन्द्रम्।। 144।। >> तं तस्य बाहुं सह सालवृक्षं- समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जहार रामो- बाणेन जाम्बूनद.चित्रितेन।। 145।। >> स कुम्भकर्णस्य भुजो निकृत्तः- पपात भूमौ गिरिसन्निकाशः। विवेष्टमानोभिजघान वृक्षान्-छैला.न्छिशिला.वानर.राक्षसांश्च।। 146।। >> तं छिन्नबाहुं समवेक्ष्य राम- स्समापतन्तं सहसा नदन्तम्। द्वा.वर्धचन्द्रौ निशितौ प्रगृह्य- चिच्छेद पादौ युधि राक्षसस्य।। 147।। >> तौ तस्य पादौ प्रदिशो दिशश्च- गिरीन् गुहाश्चैव महार्णवं च। लङ्कां च सेनां कपि.राक्षसानां- विनादयन्तौ विनिपेततुश्च।। 148।। >> निकृत्तबाहु.र्विनिकृत्तपादो- विदार्य वक्त्रं बडबामुखाभम्। दुद्राव रामं सहसाभिगर्जन्- राहु.र्यथा चन्द्रमिवान्तरिक्षे।। 149।। >> अपूरयत् तस्य मुखं शिताग्रै.- राम.श्शरै र्हेम.पिनद्धपुङ्खैः। सम्पूर्णवक्त्रो न शशाक वक्तुं- चुकूज कृच्छ्रेण मुमोह चापि।। 150। अथाददे सूर्यमरीचिकल्पं- स ब्रह्मदण्डान्तक.कालकल्पम्। अरिष्ट.मैन्द्रं निशितं सुपुङ्खम्- राम.श्शरं मारुत.तुल्यवेगम्।। 151।। >> तं वज्र.जाम्बूनद.चारुपुङ्खं- प्रदीप्तसूर्य. ज्वलनप्रकाशम्। महेन्द्रवज्राशनि.तुल्यवेगं- रामः प्रचिक्षेप निशाचराय।। 152।। >> स सायको राघवबाहुचोदितो- दिश.स्स्वभासा दश सम्प्रकाशयन्। विधूम.वैश्वानर.दीप्तदर्शनो- जगाम शक्राशनि.वीर्य.विक्रमः।। 153।। >> स तन्महापर्वतकूट सन्निभं- विवृत्तदंष्ट्रं चलचारुकुण्डलम्। चकर्त रक्षोधिपते.श्शिर.स्तदा- यथैव वृत्रस्य पुरा पुरन्दरः।। 154।। >> कुम्भकर्ण.शिरो भाति कुण्डलालङ्कृतं महत्। आदित्येभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः।। 155।। >> तद्रामबाणाभिहतं पपात- रक्ष.श्शिरः पर्वत.सन्निकाशम्। बभञ्ज चर्यागृहगोपुराणि- प्राकार.मुच्चं त.मपातयच्च।। 156।। >> न्यपतत् कुम्भकर्णोथ स्वकायेन निपातयन्। प्लवङ्गमानां कोट्यश्च परित.स्सम्प्रधावताम्।। 157।। >> तच्चातिकायं हिमवत्प्रकाशं- रक्ष.स्तदा तोयनिधौ पपात। ग्राहा.न्वरान् मीनचयान् भुजङ्गमान्- ममर्द भूमिं च तथा विवेश।। 158।। >> तस्मिन् हते ब्राह्मण.देव.शत्रौ- महाबले सँयति कुम्भकर्णे। चचाल भू.र्भूमिधराश्च सर्वे- हर्षाच्च देवा.स्तुमुलं प्रणेदुः।। 159।। >> ततस्तु देवर्षिमहर्षि.पन्नगाः- सुराश्च भूतानि सुपर्णगुह्यकाः। सयक्षगन्धर्वगणा नभोगताः- प्रहर्षिता. रामपराक्रमेण।। 160। तत.स्तु ते तस्य वधेन भूरिणा- मनस्विनो नैरृतराज.बान्धवाः। विनेदु.रुच्चै.र्व्यथिता रघूत्तमं-हरिं समीक्ष्यैव यथा सुरार्दिताः।। 161।। >> स देवलोकस्य तमो निहत्य- सूर्यो यथा राहुमुखा. द्विमुक्तः। तथा व्यभासी.द्भुवि वानरौघे- निहत्य रामो युधि कुम्भकर्ण0।। 162।। >> प्रहर्ष मीयु.र्बहवस्तु वानराः- प्रबुद्धपद्म.प्रतिमै. रिवाननैः। अपूजयन् राघव मिष्टभागिनं- हते रिपौ भीमबले दुरासदे।। 163।। >> स कुम्भकर्णं सुरसैन्यमर्दनं- महत्सु युद्धे.ष्वपराजितश्रमम्। ननन्द हत्वा भरताग्रजो रणे- महासुरं वृत्र.मिवामराधिपः।। 164।। >> श्रीमद्रामायणे युद्धकाण्डे सप्त षष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 68 रावणानुशोकः कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्।। 1।। >> राजन् स कालसङ्काश.-स्सँयुक्तः कालकर्मणा। विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान्।। 2।। >> प्रतपित्वा मुहूर्तं च प्रशान्तो रामतेजसा। कायेनार्ध प्रविष्टेन समुद्रं भीमदर्शनम्।। 3।। >> निकृत्तकण्ठोरु.भुजो विक्षरन् रुधिरं बहु। रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः 4।। >> कुम्भकर्ण.स्तव भ्राता काकुत्स्थशर.पीडितः। कबन्ध.भूतो विकृतो दावदग्ध इव द्रुमः 5।। (लगण्डभूतो) तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्। रावण.श्शोकसन्तप्तो मुमोह च पपात च।। 6।। >> पितृव्यं निहतं श्रुत्वा देवान्तक.नरान्तकौ। त्रिशिरा.श्चातिकायश्च रुरुदु.श्शोकपीडिताः।। 7।। >> भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा। महोदर.महापार्श्वौ शोकाक्रान्तौ बभूवतुः 8।। >> ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः। कुम्भकर्णवधा.द्दीनो विललाप स रावणः 9।। >> हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल। त्वं मां विहाय वै दैवाद्-यातोसि यमसादनम् 10।। >> मम शल्य.मनुद्धृत्य बान्धवानां महाबल। शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि।। 11।। >> इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः। पतितो यं समाश्रित्य न बिभेमि सुरासुरान्।। 12।। >> कथ.मेवँविधो वीरो देवदानव.दर्पहा। कालाग्निरुद्र.प्रतिमो रणे रामेण वै हतः।। 13।। >> यस्य ते वज्रनिष्पेषो न कुर्या.द्व्यसनं सदा। स कथं रामबाणार्तः प्रसुप्तोसि महीतले।। 14।। >> एते देवगणा.स्सार्ध.-मृषिभि.र्गगने स्थिताः। निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः।। 15।। >> ध्रुव.मद्यैव संहृष्टा लब्धलक्ष्याः प्लवङ्गमाः। आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः।। 16।। >> राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया। कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः।। 17।। >> यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्। ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्।। 18।। >> अद्यैव तं गमिष्यामि देशं यत्रानुजो मम। न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितु.मुत्सहे।। 19।। >> देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्। कथ.मिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि।। 20।। >> तदिदं मामनुप्राप्तं विभीषणवच.श्शुभम्। यदज्ञाना.न्मया तस्य न गृहीतं महात्मनः 21।। >> विभीषणवचो यावत् कुम्भकर्ण.प्रहस्तयोः। विनाशोयं समुत्पन्नो मां व्रीडयति दारुणः।। 22।। >> तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः। यन्मया धार्मिक.श्श्रीमान् स निरस्तो विभीषणः।। 23।। >> इति बहु विध.माकुलान्तरात्मा- कृपण.मतीव विलप्य कुम्भकर्णम्। न्यपत.दथ दशाननो भृशार्त.-स्त.मनुज. मिन्द्ररिपुं हतं विदित्वा।। 24।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टाषष्टितमस्सर्गः। • युद्धकाण्डे सर्गः 69 नरान्तकवधः एवं विलपमानस्य रावणस्य दुरात्मनः। श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्य.मब्रवीत्।। 1।। >> एव.मेव महावीर्यो हतो न.स्तात मध्यमः। न तु सत्पुरुषा राजन् विलपन्ति यथा भवान्।। 2।। >> नूनं त्रिभुवनस्यापि पर्याप्त.स्त्वमसि प्रभो। स कस्मात् प्राकृत इव शोकस्यात्मान. मीदृशम् 3।। >> ब्रह्मदत्तास्ति ते शक्तिः कवच.स्सायको धनुः। सहस्रखर.सँयुक्तो रथो मेघस्वनो महान्।। 4।। >> त्वया सकृ.द्विशस्त्रेण विशस्ता देवदानवाः। स सर्वायुध.सम्पन्नो राघवं शास्तु.मर्हसि।। 5।। >> कामं तिष्ठ महाराज निर्गमिष्या.म्यहं रणम्। उद्धरिष्यामि ते शत्रून् गरुडः पन्नगा.निव।। 6।। >> शम्बरो देवराजेन नरको विष्णुना यथा। तथाद्य शयिता रामो मया युधि निपातितः।। 7।। >> श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः। पुन.र्जात.मिवात्मानं मन्यते कालचोदितः 8।। >> श्रुत्वा त्रिशिरसो वाक्यं देवान्तक.नरान्तकौ। अतिकायश्च तेजस्वी बभूवु.र्युद्धहर्षिताः 9।। >> ततोह.मह.मित्येवं गर्जन्तो नैरृतर्षभाः। रावणस्य सुता वीरा.श्शक्रतुल्य.पराक्रमाः।। 10।। >> अन्तरिक्षगता. स्सर्वे सर्वे मायाविशारदाः। सर्वे त्रिदशदर्पघ्ना.-स्सर्वे च रणदुर्जयाः।। 11।। >> सर्वे सुबलसम्पन्ना.-स्सर्वे विस्तीर्णकीर्तयः। सर्वे समर.मासाद्य न श्रूयन्ते पराजिताः। देवै.रपि सगन्धर्वै.-स्सकिन्नर.महोरगैः।। 12।। >> सर्वेस्त्रविदुषो वीरा.-स्सर्वे युद्धविशारदाः। सर्वे प्रवरविज्ञाना.-स्सर्वे लब्धवरा.स्तथा।। 13।। >> स तै.स्तथा भास्करतुल्य.वर्चसै.-स्सुतै.र्वृत.श्शत्रुबलप्रमर्दनैः। रराज राजा मघवा.न्यथामरैर्-वृतो महादानवदर्प.नाशनैः।। 14।। >> स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः। आशीर्भिश्च प्रशस्ताभिः प्रेषयामास सँयुगे।। 15।। >> युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः। रक्षणार्थं कुमाराणां प्रेषयामास सँयुगे।। 16।। >> तेभिवाद्य महात्मानं रावणं रिपुरावणम्। कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे।। 17।। >> सर्वौषधीभि.र्गन्धैश्च समालभ्य महाबलाः। निर्जग्मु.र्नैरृतश्रेष्ठा-ष्षडेते युद्धकाङ्क्षिणः।। 18।। >> त्रिशिरा.श्चातिकायश्च देवान्तक.नरान्तकौ। महोदर.महापार्श्वौ निर्जग्मुः कालचोदिताः।। 19।। >> तत.स्सुदर्शनं नाम नीलजीमूत.सन्निभम्। ऐरावतकुले जात-मारुरोह महोदरः 20।। >> सर्वायुध.समायुक्तं तूणीभिश्च स्वलङ्कृतम्। रराज गज.मास्थाय सवितेवास्त.मूर्धनि 21।। >> हयोत्तम.समायुक्तं सर्वायुध.समाकुलम्। आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः।। 22।। >> त्रिशिरा रथ.मास्थाय विरराज धनुर्धरः। सविद्यु.दुल्क.श्शैलाग्रे सेन्द्रचाप इवाम्बुदः।। 23।। >> त्रिभिः किरीटै.श्शुशुभे त्रिशिरा.स्स रथोत्तमे। हिमवा.निव शैलेन्द्र.-स्त्रिभिः काञ्चनपर्वतैः।। 24।। >> अतिकायोपि तेजस्वी राक्षसेन्द्रसुत.स्तदा। आरुरोह रथश्रेष्ठं श्रेष्ठ.स्सर्वधनुष्मताम् 25।। >> सुचक्राक्षं सुसँयुक्तं स्वनुकर्षं सुकूबरम्। तूणीबाणासनै.र्दीप्तं प्रासासि.परिघाकुलम्।। 26।। >> स काञ्चनविचित्रेण किरीटेन विराजता। भूषणैश्च बभौ मेरुः प्रभाभि.रिव भास्वतः।। 27।। >> स रराज रथे तस्मिन् राजसूनु.र्महाबलः। वृतो नैरृतशार्दूलै-र्वज्रपाणि.रिवामरैः 28।। >> हय.मुच्चैश्श्रवःप्रख्यं श्वेतं कनकभूषणम्। मनोजवं महाकाय.मारुरोह नरान्तकः 29।। >> गृहीत्वा प्रास.मुल्काभं विरराज नरान्तकः। शक्ति.मासाद्य तेजस्वी गुह.श्शिखिगतो यथा।। 30।। >> देवान्तक.स्समादाय परिघं वज्रभूषणम्। परिगृह्य गिरिं दोर्भ्यां वपु.र्विष्णो.र्विडम्बयन्।। 31।। >> महापार्श्वो महातेजा गदा.मादाय वीर्यवान्। विरराज गदापाणिः कुबेर इव सँयुगे।। 32।। >> प्रतस्थिरे महात्मानो बलै.रप्रतिमै. र्वृताः। सुरा इवामरावत्यां बलै.रप्रतिमै.र्वृताः।। 33।। >> तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुद.निस्वनैः। अनुजग्मु.र्महात्मानो राक्षसाः प्रवरायुधाः।। 34।। >> ते विरेजु.र्महात्मानः कुमारा.स्सूर्यवर्चसः। किरीटिन.श्श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे।। 35।। >> प्रगृहीता बभौ तेषां छत्राणा.मावलि.स्सिता। शारदाभ्र.प्रतीकाशा हंसावलि.रिवाम्बरे।। 36।। >> मरणं वापि निश्चित्य शत्रूणां वा पराजयम्। इति कृत्वा मतिं वीरा निर्जग्मु.स्सँयुगार्थिनः 37।। >> जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्। जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः 38।। >> क्ष्वेलितास्फोट.निनदै.-स्सञ्चचालेव मेदिनी। रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् 39।। >> तेभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः। ददृशु.र्वानरानीकं समुद्यत.शिलानगम्।। 40।। >> हरयोपि महात्मानो ददृशु.र्नैरृतं बलम्। हस्त्यश्वरथ.सम्बाधं किङ्किणीशत.नादितम्।। 41।। >> नीलजीमूत.सङ्काशं समुद्यत.महायुधम्। दीप्तानलरवि.प्रख्यै-स्सर्वतो नैरृतै.र्वृतम् 42।। >> तद्दृष्ट्वा बल.मायान्तं लब्धलक्ष्याः प्लवङ्गमाः। समुद्यत.महाशैला.-स्सम्प्रणेदु.र्मुहुर्मुहुः 43।। >> अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः 44।। >> तत.स्समुद्घुष्टरवं निशम्य- रक्षोगणा वानरयूथपानाम्। अमृष्यमाणाः परहर्ष मुग्रं- महाबला भीमतरं विनेदुः।। 45।। >> ते राक्षसबलं घोरं प्रविश्य हरियूथपाः। विचेरु.रुद्यतै.श्शैलै- र्नगा.श्शिखरिणो यथा।। 46।। >> केचि.दाकाश.माविश्य केचि.दुर्व्यां प्लवङ्गमाः। रक्ष.स्सैन्येषु सङ्क्रुद्धा.श्चेरुर्-द्रुमशिलायुधाः।। 47।। >> द्रुमांश्च विपुलस्कन्धान्-गृह्य वानरपुङ्गवाः। तद्युद्ध.मभव. द्घोरं रक्षोवानर.सङ्कुलम्।। 48। ते पादपशिलाशैलै-श्चक्रु.र्वृष्टि.मनुत्तमाम्। बाणौघै.र्वार्यमाणाश्च हरयो भीमविक्रमाः 49।। >> सिंहनादान्.विनेदुश्च रणे राक्षस.वानराः। शिलाभि.श्चूर्णयामासु-र्यातुधानान् प्लवङ्गमाः 50।। >> निजघ्नु.स्सँयुगे क्रुद्धाः कवचाभरणावृतान्। केचि.द्रथगतान् वीरान् गजवाजिगता.नपि।। 51।। >> निजघ्नु.स्सहसाप्लुत्य यातुधानान् प्लवङ्गमाः। शैलशृङ्ग.निपातैश्च मुष्टिभि.र्वान्त.लोचनाः 52।। >> चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः। राक्षसाश्च शरै.स्तीक्ष्णै-र्भिभिदुः कपिकुञ्जरान् 53।। >> शूलमुद्गर.खड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः। अन्योन्यं पातयामासुः परस्पर.जयैषिणः 54।। >> रिपुशोणित.दिग्धाङ्गा.-स्तत्र वानरराक्षसाः। तत.श्शैलैश्च खड्गैश्च विसृष्टै.र्हरिराक्षसैः 55। मुहूर्तेनावृता भूमि-रभव.च्छोणिताप्लुता। विकीर्ण.पर्वताकारै.-रक्षोभि. ररिमर्दनैः 56।। >> आसी.द्वसुमती पूर्णा तदा युद्धमदान्वितैः। आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः 57।। >> पुन.रङ्गै.स्तथा चक्रु-रासन्ना युद्ध.मद्भुतम्। वानरान् वानरै.रेव जघ्नु.स्ते रजनीचराः 58।। >> राक्षसान् राक्षसै.रेव जघ्नु.स्ते वानरा अपि। आक्षिप्य च शिला.स्तेषां निजघ्नू. राक्षसा हरीन् 59।। >> तेषां चाच्छिद्य शस्त्राणि जघ्नू. रक्षांसि वानराः। निजघ्नु.श्शैलशूलास्त्रैर्- बिभिदुश्च परस्परम्।। 60।। >> सिंहनादान् विनेदुश्च रणे वानरराक्षसाः। छिन्नवर्म.तनुत्राणा राक्षसा वानरै.र्हताः।। 61।। >> रुधिरं प्रस्रुता.स्तत्र रससार.मिव द्रुमाः। रथेन च रथं चापि वारणेन च वारणम् 62।। >> हयेन च हयं केचि.न्निजघ्नु.र्वानरा रणे। प्रहृष्टमनस.स्सर्वे प्रगृहीत.मनश्शिलाः 63।। >> हरयो राक्षसान् जघ्नुर्- द्रुमैश्च बहुशाखिभिः। तद्युद्ध.मभवत् घोरं रक्षोवानर.सङ्कुलम्।। 64।। >> क्षुरप्रै. रर्धचन्द्रैश्च- भल्लैश्च निशितै.श्शरैः। राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान्छिलाः 65।। >> विकीर्णैः पर्वताग्रैश्च द्रुमै.श्छिन्नैश्च सँयुगे। हतैश्च कपिरक्षोभि.-र्दुर्गमा वसुधाभवत् 66।। >> ते वानरा गर्वित हृष्टचेष्टा-स्सङ्ग्राम.मासाद्य भयं विमुच्य। युद्धं तु सर्वे सह राक्षसै.स्तैर्- नानायुधा.श्चक्रु. रदीनसत्त्वाः।। 67।। >> तस्मिन् प्रवृत्ते तुमुले विमर्दे- प्रहृष्यमाणेषु वलीमुखेषु। निपात्यमानेषु च राक्षसेषु- महर्षयो देवगणाश्च नेदुः।। 68।। >> ततो हयं मारुततुल्यवेग-मारुह्य शक्तिं निशितां प्रगृह्य। नरान्तको वानरराजसैन्यं- महार्णवं मीन इवाविवेश।। 69।। >> स वानरान् सप्तशतानि वीरः- प्रासेन दीप्तेन विनिर्बिभेद। एकः क्षणेनेन्द्ररिपु.र्महात्मा- जघान सैन्यं हरिपुङ्गवानाम्।। 70।। >> ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्। चरन्तं हरिसैन्येषु विद्याधर.महर्षयः 71।। >> स तस्य ददृशे मार्गो मांसशोणित.कर्दमः। पतितैः पर्वताकारै-र्वानरै.रभिसँवृतः 72।। >> याव.द्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। ताव.देता.नतिक्रम्य निर्बिभेद नरान्तकः।। 73।। >> ततो यत्त. सुसङ्क्रुद्धः प्रासपाणि.र्नरान्तकः। ततस्तत.स्ते मन्यन्ते कालोय.मिति वानराः।। 74।। >> ज्वलन्तं प्रास.मुद्यम्य सङ्ग्रामान्ते नरान्तकः। ददाह हरिसैन्यानि वनानीव विभावसुः।। 75।। >> याव.दुत्पाटयामासु-र्वृक्षा.न्छैलान् वनौकसः। तावत् प्रास.हताः पेतु-र्वज्रकृत्ता इवाचलाः।। 76।। >> दिक्षु सर्वासु बलवान् विचचार नरान्तकः। प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः 77।। >> न शेकु.र्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्। उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्।। 78। एकेनान्तककल्पेन प्रासेनादित्यतेजसा। भिन्नानि हरिसैन्यानि निपेतु.र्धरणीतले।। 79।। >> वज्रनिष्पेष.सदृशं प्रासस्याभिनिपातनम्। न शेकु.र्वानरा.स्सोढुं ते विनेदु.र्महास्वनम् 80। पततां हरिवीराणां रूपाणि प्रचकाशिरे। वज्रभिन्नाग्र.कूटानां शैलानां पतता.मिव।। 81।। >> ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः। ते स्वस्था वानरश्रेष्ठा.-स्सुग्रीव.मुपतस्थिरे 82।। >> विप्रेक्षमाण.स्सुग्रीवो ददर्श हरिवाहिनीम्। नरान्तक.भयत्रस्तां विद्रवन्ती.मित.स्ततः 83।। >> विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्। गृहीतप्रास.मायान्तं हयपृष्ठे प्रतिष्ठितम्।। 84।। >> अथोवाच महातेजा.-स्सुग्रीवो वानराधिपः। कुमार.मङ्गदं वीरं शक्रतुल्यपराक्रमम्।। 85।। >> गच्छ त्वं राक्षसं वीरो योसौ तुरग.मास्थितः। क्षोभयन्तं हरिबलं क्षिप्रं प्राणै.र्वियोजय 86।। >> स भर्तु.र्वचनं श्रुत्वा निष्पपाताङ्गद.स्ततः। अनीकान् मेघसङ्काशान् मेघानीका.दिवांशुमान्।। 87।। >> शैलसङ्घात.सङ्काशो हरीणा.मुत्तमोङ्गदः। रराजाङ्गद.सन्नद्ध.-स्सधातु.रिव पर्वतः 88।। >> निरायुधो महातेजाः केवलं नखदंष्ट्रवान्। नरान्तक.मभिक्रम्य वालिपुत्रोब्रवी.द्वचः 89।। >> तिष्ठ किं प्राकृतै.रेभि-र्हरिभि.स्त्वं करिष्यसि। अस्मिन् वज्रसमस्पर्शं प्रासं क्षिप ममोरसि।। 90। अङ्गदस्य वच.श्श्रुत्वा प्रचुक्रोध नरान्तकः। सन्दश्य दशनै.रोष्ठं निश्वस्य च भुजङ्गवत्। अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः 91।। >> प्रासं स.माविध्य तदाङ्गदाय- समुज्ज्वलन्तं सहसोत्ससर्ज। स वालिपुत्रोरसि वज्रकल्पे- बभूव भग्नो न्यपतच्च भूमौ।। 92।। >> तं प्रास.मालोक्य तदा विभग्नं- सुपर्णकृत्तोरग.भोगकल्पम्। तलं समुद्यम्य स वालिपुत्र.- स्तुरङ्गमं तस्य जघान मूर्ध्नि।। 93।। >> निमग्न.तालु.स्फुटिताक्षिताधरो- निष्क्रान्तजिह्वोचल.सन्निकाशः। स तस्य वाजी निपपात भूमौ- तलप्रहारेण विकीर्णमूर्धा।। 94।। >> नरान्तकः क्रोधवशं जगाम- हतं तुरङ्गं पतितं निरीक्ष्य। स मुष्टि.मुद्यम्य महाप्रभावो- जघान शीर्षे युधि वालिपुत्रम्।। 95।। >> अथाङ्गदो मुष्टिविभिन्नमूर्धा- सुस्राव तीव्रं रुधिरं भृशोष्णम्। मुहु.र्विजज्वाल मुमोह चापि- सञ्ज्ञां स.मासाद्य विसिष्मिये च।। 96।। >> अथाङ्गदो वज्रसमानवेगं- सँवर्त्य मुष्टिं गिरिशृङ्ग. कल्पम्। निपातयामास तदा महात्मा- नरान्तकस्योरसि वालिपुत्रः।। 97।। >> स मुष्टिनिष्पिष्ट.विभिन्नवक्षा- ज्वाला वम.न्छोणितदिग्धगात्रः। नरान्तको भूमितले पपात- यथाचलो वज्रनिपातभग्नः। 98।। >> अथान्तरिक्षे त्रिदशोत्तमानां- वनौकसां चैव महाप्रणादः। बभूव तस्मिन् निहतेग्र्यवीरे- नरान्तके वालिसुतेन सङ्ख्ये।। 99।। >> अथाङ्गदो राममनः प्रहर्षणं- सुदुष्करं तं कृतवान् हि विक्रमम्। विसिष्मिये सोप्यतिवीर्य विक्रमः- पुनश्च युद्धे स बभूव हर्षितः।। 100।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 70 देवान्तकादिवधः नरान्तकं हतं दृष्ट्वा चुक्रुशु.र्नैरृतर्षभाः। देवान्तक.स्त्रिमूर्धा च पौलस्त्यश्च महोदरः।। 1।। >> आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः। वालिपुत्रं महावीर्य.मभिदुद्राव वीर्यवान्।। 2।। >> भ्रातृव्यसन.सन्तप्त-स्तदा देवान्तको बली। आदाय परिघं दीप्त-मङ्गदं समभिद्रवत् 3।। >> रथ.मादित्यसङ्काशं युक्तं परमवाजिभिः। आस्थाय त्रिशिरा वीरो वालिपुत्र.मथाभ्ययात् 4।। >> स त्रिभि.र्देवदर्पघ्नै-र्नैरृतेन्द्रै.रभिद्रुतः। वृक्ष.मुत्पाटयामास महाविटप. मङ्गदः 5।। >> देवान्तकाय तं वीर-श्चिक्षेप सहसाङ्गदः। महावृक्षं महाशाखं शक्रो दीप्त.मिवाशनिम् 6।। >> त्रिशिरा.स्तं प्रचिच्छेद शरै.राशीविषोपमैः। स वृक्षं कृत्त.मालोक्य उत्पपात ततोङ्गदः 7।। >> स ववर्ष ततो वृक्षा-न्छिलाश्च कपिकुञ्जरः। तान् प्रचिच्छेद सङ्क्रुद्ध-स्त्रिशिरा निशितै.श्शरैः 8।। >> परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः। त्रिशिराश्चाङ्गदं वीर.-मभिदुद्राव सायकैः 9।। >> गजेन समभिद्रुत्य वालिपुत्रं महोदरः। जघानोरसि सङ्क्रुद्ध-स्तोमरै. र्वज्रसन्निभैः।। 10।। >> देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम्। उपगम्याभिहत्याशु व्यपचक्राम वेगवान्।। 11।। >> स त्रिभि.र्नैरृतश्रेष्ठै-र्युगपत् समभिद्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान्।। 12।। >> स वेगवान् महावेगं कृत्वा परमदुर्जयः। तलेन भृश.मुत्पत्य जघानास्य महागजम्।। 13।। >> तस्य तेन प्रहारेण नागराजस्य सँयुगे। पेततु.र्लोचने तस्य विननाद स वारणः।। 14।। >> विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः। देवान्तक.मभिद्रुत्य ताडयामास सँयुगे।। 15।। >> स विह्वलित.सर्वाङ्गो वातोद्धत इव द्रुमः। लाक्षारस.सवर्णं च सुस्राव रुधिरं मुखात्।। 16।। >> अथाश्वास्य महातेजाः कृच्छ्रा.द्देवान्तको बली। आविध्य परिघं घोर.-माजघान तदाङ्गदम्।। 17।। >> परिघाभिहतश्चापि वानरेन्द्रात्मज.स्तदा। जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह।। 18।। >> समुत्पतन्तं त्रिशिरा-स्त्रिभि.राशीविषोपमैः। घोरै.र्हरिपतेः पुत्रं ललाटेभिजघान ह।। 19।। >> ततोङ्गदं परिक्षिप्तं त्रिभि.र्नैरृतपुङ्गवैः। हनूमा.नपि विज्ञाय नीलश्चापि प्रतस्थतुः 20।। >> तत.श्चिक्षेप शैलाग्रं नील.स्त्रिशिरसे तदा। तद्रावणसुतो धीमान् बिभेद निशितै.श्शरैः 21।। >> तद्बाणशत.निर्भिन्नं विदारित.शिलातलम्। सविस्फुलिङ्गं सज्वालं निपपात गिरे.श्शिरः 22।। >> ततो जृम्भित.मालोक्य हर्षा.द्देवान्तक.स्तदा। परिघेणाभिदुद्राव मारुतात्मज.माहवे 23।। >> त.मापतन्त.मुत्प्लुत्य हनूमा.न्मारुतात्मजः। आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना।। 24।। >> शिरसि प्रहर.न्वीर.-स्तदा वायुसुतो बली। नादेनाकम्पय.च्चैव राक्षसान् स महाकपिः 25।। >> स मुष्टिनिष्पिष्ट.विकीर्णमूर्धा- निर्वान्त.दन्ताक्षि.विलम्बि.जिह्वः। देवान्तको राक्षसराज सूनुर्- गतासु.रुर्व्यां सहसा पपात।। 26।। >> तस्मिन् हते राक्षसयोधमुख्ये- महाबले सँयति देवशत्रौ। क्रुद्ध.स्त्रिमूर्धा निशिताग्र.मुग्रं- ववर्ष नीलोरसि बाणवर्षम्।। 27।। >> महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्। भूय.स्समधिरुह्याशु मन्दरं रश्मिमा.निव।। 28।। >> ततो बाणमयं वर्षं नीलस्योरस्यपातयत्। गिरौ वर्षं तटिच्चक्र-चापवा.निव तोयदः।। 29। तत.श्शरौघै.रभिवर्ष्यमाणो- विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो- विष्टम्भित.स्तेन महाबलेन।। 30।। >> ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां- शैलं समुत्पाट्य सवृक्षषण्डम्। तत.स्समुत्पत्य भृशोग्रवेगो- महोदरं तेन जघान मूर्ध्नि।। 31।। >> तत.स्स शैलेन्द्र निपातभग्नो- महोदर.स्तेन सह द्विपेन। विपोथितो भूमितले गतासुः- पपात वज्राभिहतो यथाद्रिः।। 32।। >> पितृव्यं निहतं दृष्ट्वा त्रिशिरा.श्चाप.माददे। हनूमन्तं च सङ्क्रुद्धो विव्याध निशितै.श्शरैः।। 33।। >> स वायुसूनुः कुपित.-श्चिक्षेप शिखरं गिरेः। त्रिशिरा.स्तच्छरै.स्तीक्ष्णै-र्बिभेद बहुधा बली।। 34।। >> तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः। विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति।। 35।। >> त.मापतन्त.माकाशे द्रुमवर्षं प्रतापवान्। त्रिशिरा निशितै.र्बाणै-श्चिच्छेद च ननाद च।। 36।। >> ततो हनूमा.नुत्प्लुत्य हयां.स्त्रिशिरस.स्तदा। विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव।। 37।। >> अथ शक्तिं समादाय कालरात्रि.मिवान्तकः। चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ।। 38।। >> दिवः क्षिप्ता.मिवोल्कां तां- शक्तिं क्षिप्ता.मसङ्गताम्। गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च।। 39।। >> तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता। प्रहृष्टा वानरगणा विनेदु.र्जलदा इव।। 40।। >> ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः। निजघान तदा रोषा-द्वानरेन्द्रस्य वक्षसि।। 41।। >> खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः। आजघान त्रिशिरसं तलेनोरसि वीर्यवान्।। 42।। >> स तलाभिहत.स्तेन-स्रस्त.हस्ताम्बरो भुवि। निपपात महातेजा-स्त्रिशिरा.स्त्यक्तचेतनः 43।। >> स तस्य पततः खड्गं समाच्छिद्य महाकपिः। ननाद गिरिसङ्काश-स्त्रासयन् सर्वनैरृतान्।। 44।। >> अमृष्यमाण.स्तं घोष-मुत्पपात निशाचरः। उत्पत्य च हनूमन्तं- ताडयामास मुष्टिना।। 45।। >> तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः। कुपितश्च निजग्राह किरीटे राक्षसर्षभम्।। 46।। >> स तस्य शीर्षाण्यसिना शितेन- किरीटजुष्टानि सकुण्डलानि। क्रुद्धः प्रचिच्छेद सुतोनिलस्य- त्वष्टु.स्सुतस्येव शिरांसि शक्रः।। 47।। >> ता.नायताक्षा.ण्यगसन्निभानि- प्रदीप्त.वैश्वानर.लोचनानि। पेतु.श्शिरांसीन्द्ररिपो. र्धरण्यां- ज्योतींषि मुक्तानि यथार्कमार्गात्।। 48।। >> तस्मिन् हते देवरिपौ त्रिशीर्षे- हनूमता शक्रपराक्रमेण। नेदुः प्लवङ्गाः प्रचचाल भूमी-रक्षां.स्यथो दुद्रुविरे समन्तात्।। 49।। >> हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्। हतौ प्रेक्ष्य दुराधर्षौ देवान्तक.नरान्तकौ।। 50।। >> चुकोप परमामर्षी महापार्श्वो महाबलः। जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम्।। 51।। >> हेमपट्ट.परिक्षिप्तां मांसशोणित.लेपनाम्। विराजमानां वपुषा शत्रुशोणित.रञ्जिताम्।। 52।। >> तेजसा सम्प्रदीप्ताग्रां रक्तमाल्य.विभूषिताम्। ऐरावत.महापद्म- सार्वभौम.भयावहाम्।। 53।। >> गदा.मादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः। हरीन् समभिदुद्राव युगान्ताग्नि.रिव ज्वलन्।। 54।। >> अथर्षभ.स्समुत्पत्य वानरो रावणानुजम्। महापार्श्व.मुपागम्य तस्थौ तस्याग्रतो बली।। 55।। >> तं पुरस्ता.त्स्थितं दृष्ट्वा वानरं पर्वतोपमम्। आजघानोरसि क्रुद्धो गदया वज्रकल्पया।। 56।। >> स तयाभिहत.स्तेन गदया वानरर्षभः। भिन्नवक्षा.स्समाधूत.-स्सुस्राव रुधिरं बहु 57।। >> स सम्प्राप्य चिरात् सञ्ज्ञा.-मृषभो वानरर्षभः। क्रुद्धो विस्फुरमाणोष्ठो महापार्श्व.मुदैक्षत। अभिजग्राह वेगेन गदां तस्य महात्मनः।। 58।। >> गृहीत्वा तां गदां भीमा.-माविध्य च पुनः पुनः। मत्तानीकं महापार्श्वं जघान रणमूर्धनि।। 59।। >> स स्वया गदया भग्नो विकीर्ण.दशनेक्षणः। निपपात महापार्श्वो वज्राहत इवाचलः।। 60। विशीर्णनयने भूमौ गतसत्त्वे गतायुषि। पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्।। 61।। >> उन्मत्तस्तु ततो दृष्ट्वा गतासुं भ्रातरं रणे। चुकोप परमक्रुद्धः प्रलयाग्नि.समप्रभः।। 62।। >> तत.स्समादाय गदां स वीरो- वित्रासयन् वानर सैन्य.मुग्रम्। दुद्राव वेगेन तु सैन्यमध्ये- दहन् यथा वह्नि.रतिप्रचण्डः।। 63।। >> आपतन्तं तदा दृष्ट्वा राक्षसं भीमविक्रमम्। शैल.मादाय दुद्राव गवाक्षः पर्वतोपमः।। 64।। >> जिघांसू. राक्षसं भीमं तं शैलेन महाबलः। आपतन्तं तदा दृष्ट्वा उन्मत्तोपि महागिरिम्।। 65।। >> चिच्छेद गदया वीर- श्शतधा तत्र सँयुगे। चूर्णीकृतं गिरिं दृष्ट्वा- रक्षसा कपिकुञ्जरः।। 66।। >> विस्मितोभू.न्महाबाहुर्- जगर्ज च मुहुर्मुहुः। उन्मत्तस्तु सुसङ्क्रुद्धो ज्वलन्तीं राक्षसोत्तमः।। 67।। >> गदा.मादाय वेगेन कपे.र्वक्षस्यताडयत्। स तया गदया वीर-स्ताडितः कपिकुञ्जरः।। 68।। >> पपात भूमौ निस्सञ्ज्ञ-स्सुस्राव रुधिरं बहु। पुन.स्सञ्ज्ञा.मथास्थाय वानर.स्स समुत्थितः।। 69।। >> तलेन ताडयामास तत.स्तस्य शिरः कपिः। तेन प्रताडितो वीरो राक्षसः पर्वतोपमः।। 70। विस्रस्त.दन्तनयनो निपपात महीतले। सुस्राव रुधिरं सोष्णं गतासुश्च ततोभवत्।। 71।। >> तस्मिन् हते भ्रातरि रावणस्य- तन्नैरृतानां बल.मर्णवाभम्। त्यक्तायुधं केवलजीवितार्थं- दुद्राव भिन्नार्णव.सन्निकाशम्।। 73।। >> श्रीमद्रामायणे युद्धकाण्डे सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 71 अतिकायवधः स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्। भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्य.पराक्रमान्।। 1।। >> पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ। महोदर.महापार्श्वौ भ्रातरौ राक्षसर्षभौ।। 2।। >> चुकोप च महातेजा- ब्रह्मदत्तवरो युधि। अतिकायोद्रिसङ्काशो देवदानव.दर्पहा।। 3।। >> स भास्करसहस्रस्य सङ्घातमिव भास्वरम्। रथ.मास्थाय शक्रारि-रभिदुद्राव वानरान्।। 4।। >> स विस्फार्य मह.च्चापं किरीटी मृष्टकुण्डलः। नाम विश्रावयामास ननाद च महास्वनम्।। 5।। >> तेन सिंहप्रणादेन नामविश्रावणेन च। ज्याशब्देन च भीमेन त्रासयामास वानरान्।। 6।। >> ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोय.मुत्थितः। भयार्ता वानरा.स्सर्वे संश्रयन्ते परस्परम्।। 7।। >> ते तस्य रूप.मालोक्य यथा विष्णो.स्त्रिविक्रमे। भयार्ता वानरा.स्सर्वे विद्रवन्ति दिशो दश।। 8।। >> तेतिकायं समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मु-र्लक्ष्मणाग्रज.माहवे।। 9।। >> ततोतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्। ददर्श धन्विनम् दूरा-द्गर्जन्तं कालमेघवत्।। 10।। >> स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः। वानरान् सान्त्वयित्वा तु विभीषण.मुवाच ह।। 11।। >> कोसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः। युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः।। 12।। >> य एष निशितै.श्शूलै.-स्सुतीक्ष्णैः प्रासतोमरैः। अर्चिष्मद्भि.र्वृतो भाति भूतै.रिव महेश्वरः।। 13।। >> कालजिह्वा.प्रकाशाभि-र्य एषोभिविराजते। आवृतो रथशक्तीभि-र्विद्युद्भि.रिव तोयदः।। 14।। >> धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः। शोभयन्ति रथश्रेष्ठं शक्रचाप.मिवाम्बरम्।। 15।। >> क एष रक्ष.श्शार्दूलो रणभूमिं विराजयन्। अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा।। 16।। >> ध्वजशृङ्ग.प्रतिष्ठेन राहुणाभिविराजते। सूर्यरश्मिप्रभै.र्बाणै-र्दिशो दश विराजयन्।। 17।। >> त्रिणतं मेघनिर्ह्रादं हेमपृष्ठ.मलङ्कृतम्। शतक्रतु.धनुःप्रख्यं धनुश्चास्य विराजते।। 18।। >> सध्वज.स्सपताकश्च सानुकर्षो महारथः। चतुस्सादि.समायुक्तो मेघस्तनित.निस्वनः।। 19।। >> विंशति.र्दश चाष्टौ च तूणीररथ.मास्थिताः। कार्मुकाणि च भीमानि ज्याश्च काञ्चन.पिङ्गलाः।। 20।। >> द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ। चतुर्हस्त.त्सरुयुतौ व्यक्तहस्तदशायतौ 21।। >> रक्तकण्ठगुणो धीरो महापर्वत.सन्निभः। कालः कालमहावक्त्रो मेघस्थ इव भास्करः 22।। >> काञ्चनाङ्गद.नद्धाभ्यां भुजाभ्या.मेष शोभते। शृङ्गाभ्या.मिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः।। 23।। >> कुण्डलाभ्यां तु यस्यैतद्- भाति वक्त्रं शुभेक्षणम्। पुनर्वस्वन्तरगतं पूर्णबिम्ब.मिवैन्दवम्।। 24।। >> आचक्ष्व मे महाबाहो त्व.मेनं राक्षसोत्तमम्। यं दृष्ट्वा वानरा.स्सर्वे भयार्ता विद्रुता दिशः।। 25।। >> स पृष्टो राजपुत्रेण रामेणामिततेजसा। आचचक्षे महातेजा राघवाय विभीषणः 26।। >> दशग्रीवो महातेजा राजा वैश्रवणानुजः। भीमकर्मा महोत्साहो रावणो राक्षसाधिपः।। 27।। >> तस्यासी.द्वीर्यवान् पुत्रो रावणप्रतिमो रणे। वृद्धसेवी श्रुतधर.-स्सर्वास्त्र.विदुषां वरः।। 28।। >> अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।।  भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः।। 29।। >> यस्य बाहुं स.माश्रित्य लङ्का भवति निर्भया। तनयं धान्यमालिन्या अतिकाय.मिमं विदुः।। 30।। >> एतेनाराधितो ब्रह्मा तपसा भावितात्मना। अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः।। 31।। >> सुरासुरै.रवध्यत्वं दत्त.मस्मै स्वयम्भुवा। एतच्च कवचं दिव्यं रथ.श्चैषोर्कभास्करः 32।। >> एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षा.श्चापि निषूदिताः।। 33।। >> वज्रं विष्टम्भितं येन बाणै.रिन्द्रस्य धीमतः। पाश.स्सलिलराजस्य युद्धे प्रतिहत.स्तथा।। 34।। >> एषोतिकायो बलवान् राक्षसाना.मथर्षभः। रावणस्य सुतो धीमान् देवदानव.दर्पहा 35।। >> तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव। पुरा वानरसैन्यानि क्षयं नयति सायकैः।। 36।। >> ततोतिकायो बलवान् प्रविश्य हरिवाहिनीम्। विस्फारयामास धनु-र्ननाद च पुनः पुनः।। 37।। >> तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतु. र्महात्मानो ये प्रधाना वनौकसः।। 38।। >> कुमुदो द्विविदो मैन्दो नील.श्शरभ एव च। पादपै.र्गिरिशृङ्गैश्च युगप.त्समभिद्रवन्।। 39।। >> तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः। अतिकायो महातेजा-श्चिच्छेदास्त्रविदां वरः।। 40।। >> तां.श्चैव सर्वान् स हरी.-न्छरै.स्सर्वायसै.र्बली। विव्याधाभिमुख.स्सङ्ख्ये भीमकायो निशाचरः 41।। >> तेर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः। न शेकु.रतिकायस्य प्रतिकर्तुं महारणे 42।। >> तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः। मृगयूथ.मिव क्रुद्धो हरि.र्यौवनदर्पितः।। 43।। >> स राक्षसेन्द्रो हरिसैन्यमध्ये- नायुध्यमानं निजघान कञ्चित्। उपेत्य रामं सधनुः कलापी- सगर्वितं वाक्य.मिदं बभाषे।। 44।। >> रथे स्थितोहं शरचाप पाणिर्- न प्राकृतं कञ्चन योधयामि। यस्यास्ति शक्ति.र्व्यवसाय.युक्ता- ददातु मे क्षिप्र.मिहाद्य युद्धम्।। 45।। >> तत् तस्य वाक्यं ब्रुवतो निशम्य- चुकोप सौमित्रि. रमित्रहन्ता। अमृष्यमाणश्च समुत्पपात- जग्राह चापं च तत.स्स्मयित्वा।। 46।। >> क्रुद्ध.स्सौमित्रि.रुत्पत्य तूणा.दाक्षिप्य सायकम्। पुरस्ता.दतिकायस्य विचकर्ष मह.द्धनुः।। 47।। >> पूरयन् स महीं शैला.-नाकाशं सागरं दिशः। ज्याशब्दो लक्ष्मणस्योग्र-स्त्रासयन् रजनीचरान्।। 48।। >> सौमित्रे.श्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा। विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली।। 49।। >> अथातिकायः कुपितो दृष्ट्वा लक्ष्मण.मुत्थितम्। आदाय निशितं बाण-मिदं वचन.मब्रवीत्।। 50।। >> बाल.स्त्वमसि सौमित्रे विक्रमे.ष्वविचक्षणः। गच्छ किं कालसदृशं मां योधयितु.मिच्छसि।। 51।। >> न हि मद्बाहुसृष्टाना-मस्त्राणां हिमवा.नपि। सोढु.मुत्सहते वेग-मन्तरिक्ष.मथो मही।। 52।। >> सुखप्रसुप्तं कालाग्निं प्रबोधयितु.मिच्छसि। न्यस्य चापं निवर्तस्व मा प्राणान् जहि मद्गतः।। 53।। >> अथ वा त्वं प्रतिष्टब्धो न निवर्तितु. मिच्छसि। तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् 54।। >> पश्य मे निशितान् बाणा-नरिदर्प.निषूदनान्। ईश्वरायुध.सङ्काशां.-स्तप्तकाञ्चन.भूषणान्।। 55।। >> एष ते सर्पसङ्काशो बाणः पास्यति शोणितम्। मृगराज इव क्रुद्धो नागराजस्य शोणितम्। इत्येव. मुक्त्वा सङ्क्रुद्ध-श्शरं धनुषि सन्दधे।। 56।। >> श्रुत्वातिकायस्य वच.स्सरोषं- सगर्वितं सँयति राजपुत्रः। स सञ्चुकोपातिबलो बृहच्छ्री-रुवाच वाक्यं च ततो महार्थम्।। 57।। >> न वाक्यमात्रेण भवान् प्रधानो- न कत्थनात् सत्पुरुषा भवन्ति। मयि स्थिते धन्विनि बाणपाणौ- विदर्शयस्वात्मबलं दुरात्मन्।। 58।। >> कर्मणा सूचयात्मानं न विकत्थितु.मर्हसि। पौरुषेण तु यो युक्त.-स्स तु शूर इति स्मृतः।। 59।।  सर्वायुधस.मायुक्तो धन्वी त्वं रथ.मास्थितः। शरै.र्वा यदि वाप्यस्त्रै-र्दर्शयस्व पराक्रमम्।। 60। तत.श्शिर.स्ते निशितैः- पातयिष्या.म्यहं शरैः। मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा।। 61।। >> अद्य ते मामका बाणा-स्तप्तकाञ्चन.भूषणाः। पास्यन्ति रुधिरं गात्रा-द्बाण.शल्यान्तरोत्थितम्।। 62।। >> बालोय.मिति विज्ञाय न मावज्ञातु. मर्हसि। बालो वा यदि वा वृद्धो- मृत्युं जानीहि सँयुगे। बालेन विष्णुना लोका.-स्त्रयः क्रान्ता.स्त्रिभिः क्रमैः।। 63। इत्येव.मुक्त्वा सङ्क्रुद्ध.-श्शरान् धनुषि सन्दधे। लक्ष्मणस्य वच.श्श्रुत्वा हेतुमत् परमार्थवत्। अतिकायः प्रचुक्रोध बाणं चोत्तम.माददे।। 64।। >> ततो विद्याधरा भूता देवा दैत्या महर्षयः। गुह्यकाश्च महात्मान-स्तद्युद्धं द्रष्टु.मागमन्।। 65।। >> ततोतिकायः कुपित-श्चाप.मारोप्य सायकम्। लक्ष्मणाय प्रचिक्षेप सङ्क्षिप.न्निव चाम्बरम्।। 66।। >> त.मापतन्तं निशितं शर.माशीविषोपमम्। अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा।। 67।। >> तं निकृत्तं शरं दृष्ट्वा- कृत्तभोग. मिवोरगम्। अतिकायो भृशं क्रुद्धः- पञ्च बाणान् स.माददे 68।। >> तान्छरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः। ता.नप्राप्ता.न्छरै.स्तीक्ष्णै-श्चिच्छेद भरतानुजः।। 69।। >> स तां.श्छित्त्वा शरै.स्तीक्ष्णै-र्लक्ष्मणः परवीरहा। आददे निशितं बाणं ज्वलन्त.मिव तेजसा।। 70। त.मादाय धनु.श्श्रेष्ठे योजयामास लक्ष्मणः। विचकर्ष च वेगेन विससर्ज च वीर्यवान्।। 71।। >> पूर्णायत.विसृष्टेन शरेण नतपर्वणा। ललाटे राक्षसश्रेष्ठ.-माजघान स वीर्यवान्।। 72।। >> स ललाटे शरो मग्न-स्तस्य भीमस्य रक्षसः। ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले 73।। >> राक्षसः प्रचकम्पे च लक्ष्मणेषु.प्रकम्पितः। रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् 74।। >> चिन्तयामास चाश्वस्य विमृश्य च महाबलः। साधु बाणनिपातेन श्लाघनीयोसि मे रिपुः।। 75।। >> विधायैवं विनम्यास्यं नियम्य च भुजा.वुभौ। स रथोपस्थ.मास्थाय रथेन प्रचचार ह 76।। >> एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः। आददे सन्दधे चापि विचकर्षोत्ससर्ज च 77।। >> ते बाणाः कालसङ्काशा- राक्षसेन्द्र.धनुश्च्युताः। हेमपुङ्खा रविप्रख्या-श्चक्रु.र्दीप्त.मिवाम्बरम्।। 78।। >> तत.स्तान् राक्षसोत्सृष्टा-न्छरौघान् राघवानुजः। असम्भ्रान्तः प्रचिच्छेद- निशितै. र्बहुभि.श्शरैः।। 79।। >> तान्छरान् युधि सम्प्रेक्ष्य- निकृत्तान् रावणात्मजः। चुकोप त्रिदशेन्द्रारि-र्जग्राह निशितं शरम्।। 80। स सन्धाय महातेजा-स्तं बाणं सहसोत्सृजत्। तत.स्सौमित्रि.मायान्त.-माजघान स्तनान्तरे 81।। >> अतिकायेन सौमित्रि-स्ताडितो युधि वक्षसि। सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः।। 82।। >> स चकार तदात्मानं विशल्यं सहसा विभुः। जग्राह च शरं तीक्ष्ण-मस्त्रेणापि स.मादधे 83।। >> आग्नेयेन तदास्त्रेण योजयामास सायकम्। स जज्वाल तदा बाणो- धनु.श्चास्य महात्मनः 84।। >> अतिकायोपि तेजस्वी- सौर.मस्त्रं स.माददे। तेन बाणं भुजङ्गाभं हेमपुङ्ख.मयोजयत् 85।। >> तदस्त्रं ज्वलितं घोरं- लक्ष्मण.श्शर.माहितम्। अतिकायाय चिक्षेप कालदण्ड.मिवान्तकः 86।। >> आग्नेयेनाभिसँयुक्तं दृष्ट्वा बाणं निशाचरः। उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्र.योजितम् 87।। >> ता.वुभा.वम्बरे बाणा-वन्योन्य.मभिजघ्नतुः। तेजसा सम्प्रदीप्ताग्रौ क्रुद्धा.विव भुजङ्गमौ 88। ता.वन्योन्यं विनिर्दह्य पेततुः पृथिवीतले। निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ।। 89।। >> ततोतिकाय.स्सङ्क्रुद्ध-स्त्वस्त्र.मैषीक. मुत्सृजत्। तत्प्रचिच्छेद सौमित्रि.-रस्त्र.मैन्द्रेण वीर्यवान् 90। ऐषीकं निहतं दृष्ट्वा- कुमारो रावणात्मजः। याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् 91।। >> तत.स्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः। वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः।। 92।। >> अथैनं शरधाराभि-र्धाराभि.रिव तोयदः। अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् 93।। >> तेतिकायं समासाद्य कवचे वज्रभूषिते। भग्नाग्र.शल्या.स्सहसा- पेतु.र्बाणा महीतले 94।। >> तान् मोघा.नभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा। अभ्यवर्षत बाणानां- सहस्रेण महायशाः 95।। >> स वर्ष्यमाणो बाणौघै- रतिकायो महाबलः। अवध्यकवच.स्सङ्ख्ये राक्षसो नैव विव्यथे 96।। >> शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत्। स तेन विद्धः सौमित्रिर्- मर्मदेशे शरेण ह 97।। >> मुहूर्तमात्रं निस्सञ्ज्ञो ह्यभव.च्छत्रुतापनः। तत.स्सञ्ज्ञा मुपालभ्य चतुर्भि.स्सायकोत्तमैः 98।। >> निजघान हयान् सङ्ख्ये सारथिं च महाबलः। ध्वजस्योन्मथनं कृत्वा शरवर्षै.ररिन्दमः।। 99।। >> असम्भ्रान्त.स्स सौमित्रि-स्ता.न्छरा.नभिलक्षितान्। मुमोच लक्ष्मणो बाणान्- वधार्थं तस्य रक्षसः।। 100। न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः। अथैन.मभ्युपागम्य वायु-र्वाक्य.मुवाच ह।। 101।। >> ब्रह्मदत्त.वरो ह्येषो- अवध्यकवचावृतः। ब्राह्मेणास्त्रेण भिन्ध्येन-मेष वध्यो हि नान्यथा।। >> अवध्य एष ह्यन्येषा-मस्त्राणां कवची बली।। 102।। >> ततस्तु वायो र्वचनं निशम्य- सौमित्रि.रिन्द्रप्रतिमान.वीर्यः। समादधे बाण.ममोघवेगं- तद्ब्राह्म.मस्त्रं सहसा नियोज्य।। 103।। >> तस्मिन् वरास्त्रे तु नियुज्यमाने- सौमित्रिणा बाणवरे शिताग्रे। दिश.स्सचन्द्रार्क.महाग्रहाश्च- नभश्च तत्रास ररास चोर्वी।। 104।। >> तं ब्रह्मणोस्त्रेण नियुज्य चापे- शरं सुपुङ्खं यमदूत.कल्पम्। सौमित्रि.रिन्द्रारिसुतस्य तस्य- ससर्ज बाणं युधि वज्रकल्पम्।। 105।। >> तं लक्ष्मणोत्सृष्ट.ममोघवेगं- समापतन्तं ज्वलनप्रकाशम्। सुवर्णवज्रोत्तम.चित्रपुङ्खं- तदातिकाय.स्समरे ददर्श।। 106।। >> तं प्रेक्षमाण.स्सहसातिकायो- जघान बाणै.र्निशितै. रनेकैः। स सायक.स्तस्य सुपर्णवेग.-स्तदातिवेगेन जगाम पार्श्वम्।। 107।। >> त.मागतं प्रेक्ष्य तदातिकायो- बाणं प्रदीप्तान्तक.कालकल्पम्। जघान शक्त्यृष्टि.गदाकुठारै-श्शूलै.र्हलै.श्चाप्यविपन्नचेताः।। 108।। >> तान्यायुधा.न्यद्भुतविग्रहाणि- मोघानि कृत्वा स शरोग्निदीप्तः। प्रगृह्य तस्यैव किरीटजुष्टं- तदातिकायस्य शिरो जहार।। 109।। >> तच्छिर.स्सशिरस्त्राणं लक्ष्मणेषु.प्रपीडितम्। पपात सहसा भूमौ शृङ्गं हिमवतो यथा।। 110। तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम्। बभूवु.र्व्यथिता.स्सर्वे हतशेषा निशाचराः।। 111।। >> ते विषण्णमुखा दीनाः प्रहार.जनितश्रमाः। विनेदु.रुच्चै. र्बहव-स्सहसा विस्वरै.स्स्वरैः।। 112।। >> तत.स्ते त्वरितं याता निरपेक्षा निशाचराः। पुरी.मभिमुखा भीता- द्रवन्तो नायके हते।। 113। प्रहर्षयुक्ता बहवस्तु वानराः- प्रबुद्धपद्म.प्रतिमानना.स्तदा। अपूजयन् लक्ष्मण मिष्टभागिनं- हते रिपौ भीमबले दुरासदे।। 114।। >> अतिबल.मतिकाय. मभ्रकल्पं- युधि विनिपात्य स लक्ष्मणः प्रहृष्टः। त्वरित.मथ तथा स रामपार्श्वं- कपिनिवहैश्च सुपूजितो जगाम।। 115।। >> श्रीमद्रामायणे युद्धकाण्डे एक सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 72 रावणमन्युशल्याविष्कारः अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा। उद्वेग.मगम. द्राजा वचनं चेद. मब्रवीत्।। 1।। >> धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः। अकम्पनः प्रहस्तश्च कुम्भकर्ण.स्तथैव च।। 2।। >> एते महाबला वीरा- राक्षसा युद्धकाङ्क्षिणः। जेतारः परसैन्यानां परै.र्नित्यापराजिताः।। 3।। >> निहता.स्ते महावीर्या रामेणाक्लिष्ट कर्मणा। राक्षसा.स्सुमहाकाया- नानाशस्त्र.विशारदाः 4।। >> अन्ये च बहव.श्शूरा महात्मानो निपातिताः। प्रख्यात. बलवीर्येण पुत्रेणेन्द्रजिता मम।। 5।। >> यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरै.श्शरैः। यन्न शक्यं सुरै.स्सर्वै-रसुरै.र्वा महाबलैः 6।। >> मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्व.किन्नरैः। तन्न जाने प्रभावै.र्वा मायया मोहनेन वा 7।। >> शरबन्धा.द्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ। ये योधा निर्गता.श्शूरा राक्षसा मम शासनात्।। 8।। >> ते सर्वे निहता युद्धे वानरै.स्सुमहाबलैः। तं न पश्या.म्यहं युद्धे योद्य रामं सलक्ष्मणम् 9।। >> शासयेत् सबलं वीरं ससुग्रीव.विभीषणम्। अहो नु बलवान् रामो महदस्त्र.बलं च वै।। 10।। >> यस्य विक्रम.मासाद्य राक्षसा निधनं गताः। तं मन्ये राघवं वीरं नारायण.मनामयम्।। 11।। >> तद्भयाद्धि पुरी लङ्का पिहितद्वार.तोरणा। अप्रमत्तैश्च सर्वत्र गुप्तै.- रक्ष्या पुरी त्वियम्।। 12।। >> अशोकवनिकायां च यत्र सीताभिरक्ष्यते। निष्क्रामो वा प्रवेशो वा ज्ञातव्य.स्सर्वथैव नः।। 13।। >> यत्र यत्र भवे.द्गुल्म-स्तत्रस्तत्र पुनः पुनः। सर्वतश्चापि तिष्ठध्वं स्वै.स्स्वैः परिवृता बलैः।। 14।। >> द्रष्टव्यं च पदं तेषां वानराणां निशाचराः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वतः।। 15।। >> नावज्ञा तत्र कर्तव्या वानरेषु कदाचन। द्विषतां बल.मुद्युक्त.-मापतत् किं स्थितं सदा।। 16।। >> तत.स्ते राक्षसा.स्सर्वे- श्रुत्वा लङ्काधिपस्य तत्। वचनं सर्व.मातिष्ठन्- यथावत्तु महाबलाः।। 17।। >> स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन् दीनः- प्रविवेश स्व.मालयम्।। 18।। >> तत.स्स सन्दीपित कोपवह्निर्- निशाचराणा मधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन्- मुहु.र्मुहुश्चैव तदा व्यनिश्वसत्।। 19। श्रीमद्रामायणे युद्धकाण्डे द्विसप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 73 इन्द्रजिन्मायायुद्धम् ततो हतान् राक्षसपुङ्गवां.स्तान्- देवान्तकादि. त्रिशिरोतिकायान्। रक्षोगणा.स्तत्र हतावशिष्टा-स्ते रावणाय त्वरितं शशंसुः।। 1।। >> ततो हतां.स्तान् सहसा निशम्य- राजा मुमोहाश्रुपरिप्लुताक्षः। पुत्रक्षयं भ्रातृवधं च घोरं-विचिन्त्य राजा विपुलं प्रदध्यौ।। 2।। >> ततस्तु राजान.मुदीक्ष्य दीनं- शोकार्णवे सम्परिपुप्लुवानम्। अथर्षभो राक्षस राजसूनु-रथेन्द्रजि.द्वाक्य मिदं बभाषे।। 3।। >> न तात मोहं प्रतिगन्तुमर्हसि- यत्रेन्द्रजि.ज्जीवति राक्षसेन्द्र। नेन्द्रारिबाणाभिहतो हि कश्चित्- बाणान् समर्थ.स्समरेभिपातुम्।। 4।। >> पश्याद्य रामं सहलक्ष्मणेन- मद्बाण.निर्भिन्न.विकीर्णदेहम्। गतायुषं भूमितले शयानं- शरै.श्शितै. राचितसर्वगात्रम्।। 5।। >> इमां प्रतिज्ञां शृणु शक्रशत्रो.-स्सुनिश्चितां पौरुषदैव.युक्ताम्। अद्यैव रामं सहलक्ष्मणेन- सन्तापयिष्यामि शरै.रमोघैः।। 6।। >> अद्येन्द्र.वैवस्वत.विष्णु.मित्र- साध्याश्वि.वैश्वानर.चन्द्र.सूर्याः। द्रक्ष्यन्तु मे विक्रम.मप्रमेयं- विष्णो.रिवोग्रं बलियज्ञवाटे।। 7।। >> स एव.मुक्त्वा त्रिदशेन्द्रशत्रु.-रापृच्छ्य राजान.मदीनसत्त्वः। समारुरोहानिलतुल्यवेगं- रथं खरश्रेष्ठ.समाधियुक्तम्।। 8।। >> त.मास्थाय महातेजा रथं हरिरथोपमम्। जगाम सहसा तत्र यत्र युद्ध.मरिन्दमः 9।। >> तं प्रस्थितं महात्मान.-मनुजग्मु. र्महाबलाः। संहर्षमाणा बहवो धनुष्प्रवर.पाणयः।। 10।। >> गजस्कन्धगताः केचित् केचित् परमवाजिभिः। व्याघ्र वृश्चिक मार्जारैः खरोष्ट्रैश्च भुजङ्गमैः। वराह.श्वापदै.स्सिंहै-र्जम्बुकैः पर्वतोपमैः। शश.हंस.मयूरैश्च राक्षसाः पर्वतोपमैः। प्रास.मुद्गर.निस्त्रिंश-परश्वध.गदाधराः।। 11।। >> स शङ्खनिनदैः पूर्णैर्- भेरीणां चापि निस्स्वनैः। जगाम त्रिदशेन्द्रारि.-स्स्तूयमानो निशाचरैः।। 12।। >> स शङ्ख.शशिवर्णेन छत्रेण रिपुसूदनः। रराज प्रतिपूर्णेन नभ.श्चन्द्रमसा यथा।। 13।। >> अवीज्यत ततो वीरो-हैमै.र्हेमविभूषितैः। चारुचामर.मुख्यैश्च मुख्य.स्सर्वधनुष्मताम्।। 14।। >> स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्। राक्षसाधिपति.श्श्रीमान् रावणः पुत्र.मब्रवीत्। त्व.मप्रतिरथः पुत्र त्वया वै वासवो जितः। किं पुन.र्मानुषं धृष्यं निहनिष्यसि राघवम्। तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः। तत.स्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा। रराजाप्रतिवीर्येण द्यौ.रिवार्केण भास्वता।। 15।। >> स सम्प्राप्य महातेजा युद्धभूमि. मरिन्दमः। स्थापयामास रक्षांसि रथं प्रति समन्ततः।। 16।। >> ततस्तु हुतभोक्तारं हुतभुक्.सदृशप्रभः। जुहाव राक्षसश्रेष्ठो मन्त्रव.द्विधिवत् तदा।। 17।। >> स हवि.र्लाजसंस्कारैर्.- माल्यगन्ध.पुरस्कृतैः। जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्।। 18।। >> शस्त्राणि शरपत्राणि समिधोथ विभीतकाः। लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा।। 19।। >> स तत्राग्निं समास्तीर्य शरपत्रै.स्सतोमरैः। छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः 20।। >> सकृ.देव समिद्धस्य विधूमस्य महार्चिषः। बभूवु.स्तानि लिङ्गानि विजयं यान्यदर्शयन् 21।। >> प्रदक्षिणावर्त.शिख-स्तप्तकाञ्चन.भूषणः। हवि.स्तत् प्रतिजग्राह पावक.स्स्वय मुत्थितः 22।। >> सोस्त्र.माहारयामास ब्राह्म.मिन्द्ररिपु.स्तदा। धनु.श्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्।। 23।। >> तस्मि.न्नाहूयमानेस्त्रे हूयमाने च पावके। सार्कग्रहेन्दु.नक्षत्रं- वितत्रास नभस्स्थलम् 24।। >> स पावकं पावकदीप्ततेजा- हुत्वा महेन्द्रप्रतिम.प्रभावः। सचापबाणासि.रथाश्वसूतः- खेन्तर्दधेत्मान. मचिन्त्यरूपः।। 25।। >> ततो हय रथाकीर्णं पताका.ध्वज.शोभितम्। निर्ययौ राक्षसबलं नर्दमानं युयुत्सया 26।। >> ते शरै.र्बहुभि.श्चित्रै-स्तीक्ष्णवेगै. रलङ्कृतैः। तोमरै.रङ्कुशै.श्चापि वानरान् जघ्नु.राहवे।। 27।। >> रावणिस्तु ततः क्रुद्ध-स्तान्निरीक्ष्य निशाचरान्। हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया 28।। >> तत.स्ते राक्षसा.स्सर्वे नर्दन्तो जयकाङ्क्षिणः। अभ्यवर्षं.स्ततो घोरान् वानरा.न्छरवृष्टिभिः 29।। >> स तु नालीक नाराचै-र्गदाभि.र्मुसलै. रपि। रक्षोभि.स्सँवृत.स्सङ्ख्ये वानरा.न्विचकर्त ह 30।। >> तं वध्यमाना.स्समरे वानराः पादपायुधाः। अभ्यद्रवन्त सहिता.- रावणिं रणकर्कशं 31।। >> इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः। वानराणां शरीराणि व्यधम.द्रावणात्मजः ।। 32।। >> शरेणैकेन च हरीन् नव पञ्च च सप्त च। चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् 33।। >> स शरै.स्सूर्य सङ्काशै-श्शातकुम्भ. विभूषितैः। वानरान् समरे वीरः प्रममाथ सुदुर्जयः 34।। >> ते भिन्नगात्रा.स्समरे वानरा.श्शरपीडिताः। पेतु.र्मथित.सङ्कल्पा-स्सुरै.रिव महासुराः 35।। >> तं तपन्त.मिवादित्यं घोरै.र्बाणगभस्तिभिः। अभ्यधावन्त सङ्क्रुद्धा-स्सँयुगे वानरर्षभाः 36।। >> ततस्तु वानरा.स्सर्वे भिन्नदेहा विचेतसः। व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः 37।। >> रामस्यार्थे पराक्रम्य वानरा.स्त्यक्तजीविताः। नर्दन्त.स्तेभिवृत्ता.स्तु समरे सशिलायुधाः 38।। >> ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः। अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः 39।। >> तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्। व्यपोहत महाजा रावणि.स्समितिञ्जयः 40।। >> ततः पावकसङ्काशै-श्शरै.राशीविषोपमैः। वानराणा.मनीकानि बिभेद समरे प्रभुः 41।। >> अष्टादश शरै.स्तीक्ष्णै-स्स विद्ध्वा गन्धमादनम्। विव्याध नवभि.श्चैव नलं दूरा.दवस्थितं 42।। >> सप्तभि.स्तु महावीर्यो मैन्दं मर्मविदारणैः। पञ्चभि.र्विशिखैश्चैव गजं विव्याध सँयुगे।। 43।। >> जाम्बवन्तं तु दशभि-र्नीलं त्रिंशद्भि.रेव च। सुग्रीव.मृषभं चैव सोङ्गदं द्विविदं तदा 44।। >> घोरै.र्दत्तवरै.स्तीक्ष्णै-र्निष्प्राणा.नकरोत् तदा। अन्या.नपि तदा मुख्यान् वानरान् बहुभि.श्शरैः 45।। >> अर्दयामास सङ्क्रुद्धः कालाग्नि.रिव मूर्छितः। स शरैः सूर्यसङ्काशैः सुमुक्तै.श्शीघ्रगामिभिः 46।। >> वानराणा.मनीकानि निर्ममन्थ महारणे। आकुलां वानरीं सेनां शरजालेन मोहितां 47।। >> हृष्ट.स्स परया प्रीत्या ददर्श क्षतजोक्षिताम्। पुनरेव महातेजा राक्षसेन्द्रात्मजो बली 48।। >> संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्। ममर्द वानरानीक.मिन्द्रजित् त्वरितो बली 49।। >> स सैन्य.मुत्सृज्य समेत्य तूर्णं- महारणे वानरवाहिनीषु। अदृश्यमान.श्शरजाल.मुग्रं- ववर्ष नीलाम्बुधरो यथाम्बु।। 50।। >> ते शक्रजिद्बाण.विशीर्णदेहा- मायाहता. विस्वर. मुन्नदन्तः। रणे निपेतु.र्हरयोद्रिकल्पा- यथेन्द्रवज्राभिहता नगेन्द्राः।। 51।। >> ते केवलं सन्ददृशु.श्शिताग्रान्- बाणान् रणे वानरवाहिनीषु। मायानिगूढं च सुरेन्द्रशत्रुं- न चात्र तं राक्षस. मभ्यपश्यन्।। 52।। >> तत.स्स रक्षोधिपति.र्महात्मा- सर्वा दिशो बाणगणै.श्शिताग्रैः। प्रच्छादयामास रविप्रकाशैर्- विषादयामास च वानरेन्द्रान्।। 53।। >> स शूल.निस्त्रिंशपरश्वधानि- व्याविध्य दीप्तानल.सन्निभानि। सविस्फुलिङ्गोज्ज्वल.पावकानि- ववर्ष तीव्रं प्लवगेन्द्रसैन्ये।। 54।। >> ततो ज्वलन सङ्काशै.-श्शितै. र्वानरयूथपाः। ताडिता.श्शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः।। 55।। >> तेन्योन्य.मभिसर्पन्तो निनदन्तश्च विस्वरम्। राक्षसेन्द्रास्त्र.निर्भिन्ना निपेतु.र्वानरर्षभाः 56।। >> उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः। शरै.र्विविशु. रन्योन्यं पेतुश्च जगतीतले 57।। >> हनूमन्तं च सुग्रीव-मङ्गदं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिन.मेव च 58।। >> मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ। केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् 59।। >> सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्। पावकाक्षं नलं चैव कुमुदं चैव वानरम् 60। प्रासै.श्शूलै.श्शितै.र्बाणै- रिन्द्रजि.न्मन्त्रसंहितैः। विव्याध हरिशार्दूलान् सर्वां.स्तान् राक्षसोत्तमः 61।। >> स वै गदाभि.र्हरियूथमुख्यान्- निर्भिद्य बाणै.स्तपनीयपुङ्खैः। ववर्ष रामं शरवृष्टिजालै-स्सलक्ष्मणं भास्कररश्मिकल्पैः।। 62।। >> स बाणवर्षै.रभिवर्ष्यमाणो- धारानिपाता.निव तान् विचिन्त्य। समीक्षमाणः परमाद्भुतश्री.-राम.स्तदा लक्ष्मण.मित्युवाच।। 63।। >> असौ पुन.र्लक्ष्मण राक्षसेन्द्रो- ब्रह्मास्त्र.माश्रित्य सुरेन्द्रशत्रुः। निपातयित्वा हरिसैन्य.मुग्र-मस्मा.न्छरै.रर्दयति प्रसक्तम्।। 64।। >> स्वयम्भुवा दत्तवरो महात्मा- ख.मास्थितोन्तर्हित.भीमकायः। कथं नु शक्यो युधि नष्टदेहो- निहन्तु.मद्येन्द्रजि.दुद्यतास्त्रः।। 65।। >> मन्ये स्वयम्भू.र्भगवा.नचिन्त्यो- यस्यैत.दस्त्रं प्रभवश्च योस्य। बाणावपातां.स्त्व.मिहाद्य धीमन्- मया सहाव्यग्रमना.स्सहस्व।। 66।। >> प्रच्छादय.त्येष हि राक्षसेन्द्र-स्सर्वा दिश.स्सायकवृष्टिजालैः। एतच्च सर्वं पतिताग्र्यशूरं- न भ्राजते वानरराजसैन्यम्।। 67।। >> आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ- निवृत्तयुद्धौ हतरोषहर्षौ। ध्रुवं प्रवेक्ष्य.त्यमरारिवास-मसौ समादाय रणाग्रलक्ष्मीम्।। 68।। >> ततस्तु ता.विन्द्रजि.दस्त्रजालैर्- बभूवतु.स्तत्र तदा विशस्तौ। स चापि तौ तत्र विदर्शयित्वा- ननाद हर्षा.द्युधि राक्षसेन्द्रः।। 69।। >> स तत् तदा वानरसैन्य.मेवं- रामं च सङ्ख्ये सहलक्ष्मणेन। विषादयित्वा सहसा विवेश- पुरीं दशग्रीवभुजाभिगुप्ताम्।। 70। श्रीमद्रामायणे युद्धकाण्डे त्रिसप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 74 औषधिपर्वतानयनम् तयो.स्तदा सादितयो. रणाग्रे- मुमोह सैन्यं हरियूथपानाम्। सुग्रीव.नीलाङ्गद.जाम्बवन्तो- न चापि किञ्चित् प्रतिपेदिरे ते।। 1।। >> ततो विषण्णं समवेक्ष्य सैन्यं- विभीषणो बुद्धिमतां वरिष्ठः। उवाच शाखामृगराज.वीरा-नाश्वासय.न्नप्रतिमै. र्वचोभिः।। 2।। >> मा भैष्ट नास्त्यत्र विषादकालो- य.दार्यपुत्रौ ह्यवशौ विषण्णौ। स्वयम्भुवो वाक्य.मथोद्वहन्तौ- य.त्सादिता.विन्द्रजि.दस्त्रजालैः।। 3।। >> तस्मै तु दत्तं परमास्त्र.मेतत्- स्वयम्भुवा ब्राह्म. ममोघवेगम्। त.न्मानयन्तौ यदि राजपुत्रौ- निपातितौ कोत्र विषादकालः।। 4।। >> ब्राह्म.मस्त्रं तदा धीमान् मानयित्वा तु मारुतिः। विभीषणवच.श्श्रुत्वा हनूमां.स्त.मथाब्रवीत्।। 5।। >> एतस्मि.न्निहते सैन्ये वानराणां तरस्विनाम्। यो यो धारयते प्राणां.-स्तं त.माश्वासयावहे।। 6।। >> ता.वुभौ युगप.द्वीरौ हनूम.द्राक्षसोत्तमौ। उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः।। 7।। >> भिन्नलाङ्गूल.हस्तोरु-पादाङ्गुलि.शिरोधरैः। स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भि.स्समन्ततः।। 8।। >> पतितैः पर्वताकारै-र्वानरै.रभिसङ्कुलाम्। शस्त्रैश्च पतितै.र्दीप्तै-र्ददृशाते वसुन्धराम्।। 9।। >> सुग्रीव.मङ्गदं नीलं शरभं गन्धमादनम्। गवाक्षं च सुषेणं च- वेगदर्शिन.माहुकम्।। 10।। >> मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा। एतां.श्चान्यां.स्ततो वीरौ ददृशाते हतान् रणे।। 11।। >> सप्तषष्टि.र्हताः कोट्यो वानराणां तरस्विनाम्। अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः।। 12।। >> सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्। मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः।। 13।। >> स्वभावजरया युक्तं वृद्धं शरशतै.श्चितम्। प्रजापतिसुतं वीरं शाम्यन्त.मिव पावकम्।। 14।। >> दृष्ट्वा त.मुपसङ्गम्य पौलस्त्यो वाक्य.मब्रवीत्। कच्चि.दार्यशरै.स्तीक्ष्णै.-र्न प्राणा ध्वंसिता.स्तव।। 15।। >> विभीषणवच.श्श्रुत्वा जाम्बवा.नृक्षपुङ्गवः। कृच्छ्रा.दभ्युद्गिरन् वाक्य-मिदं वचन.मब्रवीत्।। 16।। >> नैरृतेन्द्र.महावीर्य स्वरेण त्वाभिलक्षये। पीड्यमान.श्शितै.र्बाणै-र्न त्वां पश्यामि चक्षुषा।। 17।। >> अञ्जना सुप्रजा येन मातरिश्वा च नैरृत। हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित्।। 18।। >> श्रुत्वा जाम्बवतो वाक्य.मुवाचेदं विभीषणः। आर्यपुत्रा.वतिक्रम्य कस्मात् पृच्छसि मारुतिम्।। 19।। >> नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे। आर्य सन्दर्शित.स्स्नेहः यथा वायुसुते परः 20।। >> विभीषणवच.श्श्रुत्वा जाम्बवान् वाक्य.मब्रवीत्। शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम् 21।। >> तस्मिन् जीवति वीरे तु हत.मप्यहतं बलम्। हनूम.त्युज्झितप्राणे जीवन्तोपि वयं हताः 22।। >> धरते मारुति.स्तात मारुतप्रतिमो यदि। वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् 23। ततो वृद्ध.मुपागम्य नियमेनाभ्यवादयत्। गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः 24।। >> श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः। पुनर्जात.मिवात्मानं स मेने ऋक्षपुङ्गवः 25।। >> ततोब्रवी.न्महातेजा हनूमन्तं स जाम्बवान्। आगच्छ हरिशार्दूल वानरां.स्त्रातु. मर्हसि।। 26।। >> नान्यो विक्रमपर्याप्त-स्त्व.मेषां परम.स्सखा। त्वत्पराक्रमकालोयं नान्यं पश्यामि कञ्चन।। 27।। >> ऋक्षवानर.वीराणा-मनीकानि प्रहर्षय। विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ।। 28।। >> गत्वा परम.मध्वान-मुपर्युपरि सागरम्। हिमवन्तं नगश्रेष्ठं हनूमन् गन्तु.मर्हसि।। 29।। >> ततः काञ्चन.मत्युच्च.-मृषभं पर्वतोत्तमम्। कैलासशिखरं चापि द्रक्ष्य.स्यरिनिषूदन।। 30।। >> तयो.श्शिखरयो.र्मध्ये प्रदीप्त. मतुलप्रभम्। सर्वौषधियुतं वीर द्रक्ष्य.स्यौषधिपर्वतम् 31।। >> तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः। द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश।। 32।। >> मृतसञ्जीवनीं चैव विशल्यकरणी.मपि। सावर्ण्यकरणीं चैव सन्धानकरणीं तथा।। 33।। >> ता.स्सर्वा हनुमन् गृह्य क्षिप्र.मागन्तु. मर्हसि। आश्वासय हरीन् प्राणै-र्योज्य गन्धवहात्मज।। 34।। >> श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुङ्गवः। आपूर्यत बलोद्धर्षै-स्तोयवेगै.रिवार्णवः 35।। >> स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्। हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः।। 36।। >> हरिपाद.विनिर्भग्नो निषसाद स पर्वतः। न शशाक तदात्मानं सोढुं भृश.निपीडितः 37।। >> तस्य पेतु.र्नगा भूमौ हरिवेगाच्च जज्वलुः। शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता।। 38।। >> तस्मिन् सम्पीड्यमाने तु भग्नद्रुम.शिलातले। न शेकु.र्वानरा.स्स्थातुं घूर्णमाने नगोत्तमे 39।। >> स घूर्णित.महाद्वारा प्रभग्न.गृहगोपुरा। लङ्का त्रासाकुला रात्रौ प्रनृत्तैवाभवत् तदा।। 40।। >> पृथिवीधर.सङ्काशो निपीड्य धरणीधरम्। पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ।। 41।। >> आरुरोह तदा तस्मा-द्धरि.र्मलयपर्वतम्। मेरुमन्दर.सङ्काशं नानाप्रस्रवणाकुलम्।। 42।। >> नानाद्रुम.लताकीर्णं विकासि कमलोत्पलम्। सेवितं देवगन्धर्वै.-ष्षष्टियोजन.मुच्छ्रितम्।। 43।। >> विद्याधरै.र्मुनिगणै-रप्सरोभि. र्निषेवितम्। नानामृगगणाकीर्णं बहुकन्दर.शोभितं 44।। >> सर्वा.नाकुलयं.स्तत्र यक्षगन्धर्व.किन्नरान्। हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ।। 45।। >> पद्भ्यां तु शैल.मापीड्य बडबामुखव.न्मुखम्। विवृत्योग्रं ननादोच्चै-स्त्रासय.न्निव राक्षसान् 46।। >> तस्य नानद्यमानस्य श्रुत्वा निनद.मद्भुतम्। लङ्कास्था राक्षसा.स्सर्वे न शेकु.स्स्पन्दितुं भयात् 47।। >> नमस्कृत्वाथ रामाय मारुति.र्भीमविक्रमः। राघवार्थे परं कर्म समीहत परन्तपः 48।। >> स पुच्छ.मुद्यम्य भुजङ्गकल्पं- विनम्य पृष्ठं श्रवणे निकुञ्च्य। विवृत्य वक्त्रं बडबामुखाभ.-मापुप्लुवे व्योम्नि स चण्डवेगः।। 49।। >> स वृक्षषण्डां.स्तरसा जहार- शैला.न्छिलाः प्राकृतवानरांश्च- बाहूरुवेगोद्धत. सम्प्रणुन्ना.-स्ते क्षीणवेगा.स्सलिले निपेतुः।। 50।। >> स तौ प्रसार्योरग.भोगकल्पौ- भुजौ भुजङ्गारि.निकाशवीर्यः। जगाम मेरुं नगराज मग्र्यं- दिशः प्रकर्ष.न्निव वायुसूनुः।। 51।। >> स सागरं घूर्णित.वीचिमालं- तदा भृशं भ्रामित.सर्वसत्त्वम्। समीक्षमाण.स्सहसा जगाम- चक्रं यथा विष्णुकराग्र.मुक्तम्।। 52।। >> स पर्वतान् वृक्षगणान् सरांसि- नदी.स्तटाकानि पुरोत्तमानि। स्फीतान् जनान्ता.नपि सम्प्रपश्यन्- जगाम वेगात् पितृतुल्यवेगः।। 53।। >> आदित्यपथ.माश्रित्य जगाम स गतक्लमः। हनुमां.स्त्वरितो वीरः पितृतुल्य.पराक्रमः 54।। >> जवेन महता युक्तो मारुति.र्मारुतो यथा। जगाम हरिशार्दूलो दिशः शब्देन पूरयन् 55।। >> स्मरन् जाम्बवतो वाक्यं मारुति.र्वातरंहसा। ददर्श सहसा चापि हिमवन्तं महाकपिः 56।। >> नानाप्रस्रवणोपेतं बहुकन्दर.निर्झरम्। श्वेताभ्रचय.सङ्काशै.-श्शिखरै.श्चारुदर्शनैः। शोभितं विविधै.र्वृक्षै-रगमत् पर्वतोत्तमम्।। 57।। >> स तं स.मासाद्य महानगेन्द्र-मतिप्रवृद्धोत्तम.घोरशृङ्गम्। ददर्श पुण्यानि महाश्रमाणि- सुरर्षिसङ्घोत्तम.सेवितानि।। 58।। >> स ब्रह्मकोशं रजतालयं च- शक्रालयं रुद्रशर.प्रमोक्षम्। हयाननं ब्रह्मशिरश्च दीप्तं- ददर्श वैवस्वत.किङ्करांश्च।। 59।। >> वज्रालयं वैश्रवणालयं च- सूर्यप्रभं सूर्यनिबन्धनं च। ब्रह्मासनं शङ्कर.कार्मुकं च- ददर्श नाभिं च वसुन्धरायाः।। 60। कैलास.मग्र्यं हिमव.च्छिलां च- तथर्षभं काञ्चनशैल.मग्र्यम्। स दीप्तसर्वौषधि.सम्प्रदीप्तं- ददर्श सर्वौषधि.पर्वतेन्द्रम्।। 61।। >> स तं समीक्ष्यानलरश्मिदीप्तं- विसिष्मिये वासवदूत.सूनुः। आवृत्य तं चौषधिपर्वतेन्द्रं- तत्रौषधीनां विचयं चकार।। 62।। >> स योजनसहस्राणि समतीत्य महाकपिः। दिव्यौषधिधरं शैलं व्यचर.न्मारुतात्मजः।। 63।। >> महौषध्यस्तु ता.स्सर्वा- स्तस्मिन् पर्वतसत्तमे। विज्ञायार्थिन.मायान्तं ततो जग्मु.रदर्शनम् 64।। >> स ता महात्मा हनुमा.नपश्यं.-श्चुकोप कोपाच्च भृशं ननाद। अमृष्यमाणोग्निनिकाश.चक्षुर्- महीधरेन्द्रं त.मुवाच वाक्यम्।। 65।। >> कि.मेत.देवं सुविनिश्चितं ते- यद्राघवेनासि कृतानुकम्पः। पश्याद्य मद्बाहुबलाभिभूतो- विकीर्ण.मात्मान.मथो नगेन्द्र।। 66।। >> स तस्य शृङ्गं सनगं सनागं- सकाञ्चनं धातुसहस्र.जुष्टम्। विकीर्णकूटं चलिताग्रसानुं- प्रगृह्य वेगात् सहसोन्ममाथ।। 67।। >> स तं समुत्पाट्य ख.मुत्पपात- वित्रास्य लोकान् ससुरान् सुरेन्द्रान्। संस्तूयमानः खचरै.रनेकैर्- जगाम वेगा.द्गरुडोग्र.वेगः।। 69।। >> स भास्कराध्वान.मनुप्रपन्न-स्तद्भास्कराभं शिखरं प्रगृह्य। बभौ तदा भास्करसन्निकाशो- रवे.स्समीपे प्रतिभास्कराभः।। 70। स तेन शैलेन भृशं रराज- शैलोपमो गन्धवहात्मजस्तु। सहस्रधारेण सपावकेन- चक्रेण खे विष्णु.रिवार्पितेन।। 71।। >> तं वानराः प्रेक्ष्य विनेदु रुच्चै-स्स ता.नपि प्रेक्ष्य मुदा ननाद। तेषां समुद्घुष्टरवं निशम्य- लङ्कालया भीमतरं विनेदुः।। 72।। >> ततो महात्मा निपपात तस्मि-न्छैलोत्तमे वानरसैन्यमध्ये। हर्युत्तमेभ्य.श्शिरसाभिवाद्य- विभीषणं तत्र च सस्वजे च।। 73।। >> ता.वप्युभौ मानुषराजपुत्रौ- तं गन्ध.माघ्राय महौषधीनाम्। बभूवतु.स्तत्र तदा विशल्या.-वुत्तस्थु.रन्ये च हरिप्रवीराः।। 74।। >> सर्वे विशल्या विरुजः क्षणेन- हरिप्रवीरा निहताश्च ये स्युः। गन्धेन तासां प्रवरौषधीनां- सुप्ता निशान्तेष्विव सम्प्रबुद्धाः।। 75।। >> यदा प्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः। तदा प्रभृति मानार्थ.-माज्ञया रावणस्य च।। 76।। >> ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः। हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे।। 77।। >> ततो हरि.र्गन्धवहात्मजस्तु- त.मोषधीशैल.मुदग्रवीर्यः। निनाय वेगा.द्धिमवन्त.मेव- पुनश्च रामेण स.माजगाम।। 78।। >> श्रीमद्रामायणे युद्धकाण्डे चतुस्सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 75 लङ्कादाहः ततोब्रवी.न्महातेजा.स्सुग्रीवो वानराधिपः। अर्थ्यं विज्ञापयं.श्चापि हनुमन्त.मिदं वचः।। 1।। >> यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः। नेदानी.मुपनिर्हारं रावणो.दातु. मर्हति।। 2।। >> ये ये महाबला.स्सन्ति लघवश्च प्लवङ्गमाः। लङ्का.मभ्युत्पत.न्त्वाशु- गृह्योल्काः प्लवगर्षभाः 3।। >> हरयो हरिसङ्काशाः प्रदग्धुं रावणालयम्। ततोस्तङ्गत आदित्ये रौद्रे तस्मिन् निशामुखे। लङ्का.मभिमुखा.स्सोल्का- जग्मु.स्ते प्लवगर्षभाः।। 4।। >> उल्काहस्तै.र्हरिगणै.-स्सर्वत.स्समभिद्रुताः। आरक्षस्था विरूपाक्षा.-स्सहसा विप्रदुद्रुवुः 5।। >> गोपुराट्ट.प्रतोलीषु चर्यासु विविधासु च। प्रासादेषु च संहृष्टा.-स्ससृजु.स्ते हुताशनम् 6।। >> तेषां गृहसहस्राणि ददाह हुतभुक् तदा। प्रासादाः पर्वताकाराः- पतन्ति धरणीतले।। 7।। >> अगरु.र्दह्यते तत्र वरं च हरिचन्दनम्। मौक्तिका मणय.स्स्निग्धा.- वज्रं चापि प्रवालकं 8।। >> क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम्। आविकं विविधं चौर्णं काञ्चनं भाण्ड.मायुधम्।। 9।। >> नानाविकृतसंस्थानं वाजिभाण्ड.परिच्छदौ। गजग्रैवेय.कक्ष्याश्च रथभाण्डाश्च संस्कृताः।। 10।। >> तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च। खड्गा धनूंषि ज्या.बाणा-स्तोमराङ्कुश. शक्तयः।। 11।। >> रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु। मुक्तामणि.विचित्रांश्च प्रासादांश्च समन्ततः।। 12।। >> विविधा.नस्त्रसँयोगा-नग्नि.र्दहति तत्र वै। नाना विधान् गृहच्छन्दा-न्ददाह हुतभुक् तदा।। 13।। >> आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम्। हेमचित्र.तनुत्राणां स्रग्दामाम्बर.धारिणाम्।। 14।। >> शीधुपान.चलाक्षाणां मदविह्वल.गामिनाम्। कान्तालम्बित.वस्त्राणां शत्रुसञ्जात.मन्युनाम्।। 15।। >> गदा.शूलासि. हस्तानां खादतां पिबता.मपि। शयनेषु महार्हेषु प्रसुप्तानां प्रियै.स्सह।। 16।। >> त्रस्तानां गच्छतां तूर्णं पुत्रा.नादाय सर्वतः। तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम्।। 17।। >> अदहत् पावक.स्तत्र जज्वाल च पुनः पुनः। सारवन्ति महार्हाणि गम्भीरगुणवन्ति च।। 18।। >> हेमचन्द्रार्ध.चन्द्राणि चन्द्र.शालोन्नतानि च। रत्नचित्र.गवाक्षाणि साधिष्ठानानि सर्वशः।। 19।। >> मणिविद्रुम.चित्राणि स्पृशन्तीव च भास्करम्। क्रौञ्चबर्हिण.वीणानां भूषणानां च निस्वनैः 20।। >> नादिता.नचलाभानि वेश्मा.न्यग्नि.र्ददाह सः। ज्वलनेन परीतानि तोरणानि चकाशिरे 21।। >> विद्युद्भि.रिव नद्धानि मेघजालानि घर्मगे। ज्वलनेन परीतानि निपेतु.र्भवना.न्यथ।। 22।। >> वज्रिवज्र.हतानीव शिखराणि महागिरेः। विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः।। 23। त्यक्ताभरण.सँयोगा हाहे.त्युच्चै. र्विचुक्रुशुः। तानि निर्दह्यमानानि दूरतः प्रचकाशिरे 24।। >> हिमव.च्छिखराणीव दीप्तौषधि.वनानि च। हर्म्याग्रै.र्दह्यमानैश्च ज्वालाप्रज्वलितै. रपि 25।। >> रात्रौ सा दृश्यते लङ्का पुष्पितै.रिव किंशुकैः। हस्त्यध्यक्षै.र्गजै.र्मुक्तै-र्मुक्तैश्च तुरगै.रपि।। 26।। >> बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः। अश्वं मुक्तं गजो दृष्ट्वा क्वचि.द्भीतोपसर्पति 27।। >> भीतो भीतं गजं दृष्ट्वा क्वचि.दश्वो निवर्तते। लङ्कायां दह्यमानायां शुशुभे स महार्णवः 28।। >> छाया.संसक्त.सलिलो लोहितोद इवार्णवः। सा बभूव मुहूर्तेन हरिभि.र्दीपिता पुरी 29।। >> लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा। नारीजनस्य धूमेन व्याप्तस्योच्चै.र्विनेदुषः 30।। >> स्वनो ज्वलन.तप्तस्य शुश्रुवे दशयोजनम्। प्रदग्धकाया.नपरान् राक्षसान् निर्गतान् बहिः 31।। >> सहसाभ्युत्पतन्ति स्म हरयोथ युयुत्सवः। उद्घुष्टं वानराणां च राक्षसानां च निस्वनः। 32।। >> दिशो दश समुद्रं च पृथिवीं चान्वनादयत्। विशल्यौ तु महात्मानौ ता.वुभौ रामलक्ष्मणौ 33।। >> असम्भ्रान्तौ जगृहतु-स्ता.वुभौ धनुषी वरे। ततो विस्फारयानस्य रामस्य धनु.रुत्तमम् 34।। >> बभूव तुमुल.श्शब्दो राक्षसानां भयावहः। अशोभत तदा रामो धनु.र्विस्फारयन् महत् 35।। >> भगवा.निव सङ्क्रुद्धो भवो वेदमयं धनुः। उद्घुष्टं वानराणां च राक्षसानां च निस्वनम् 36।। >> ज्याशब्द.स्ता.वुभौ शब्दा-वति रामस्य शुश्रुवे। वानरोद्घुष्ट.घोषश्च राक्षसानां च निस्वनः 37।। >> ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश। तस्य कार्मुकमुक्तैश्च शरै.स्तत्पुरगोपुरम् 38।। >> कैलासशृङ्ग प्रतिमं विकीर्ण. मपत.द्भुवि। ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च 39।। >> सन्नाहो राक्षसेन्द्राणां तुमुल.स्समपद्यत। तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् 40।। >> शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत। आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना 41।। >> आसन्नद्वार.मासाद्य युध्यध्वं प्लवगर्षभाः। यश्च वो वितथं कुर्यात् तत्र तत्र ह्युपस्थितः 42।। >> स हन्तव्यो हि सम्प्लुत्य राजशासन.दूषकः। तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वल.पाणिषु 43।। >> स्थितेषु द्वार.मासाद्य रावणं मन्यु.राविशत्। तस्य जृम्भितविक्षोभा-द्व्यामिश्रा वै दिशो दश।। 44।। >> रूपवा.निव रुद्रस्य मन्यु.र्गात्रे.ष्वदृश्यत। स निकुम्भं च कुम्भं च कुम्भकर्णात्मजा.वुभौ 45।। >> प्रेषयामास सङ्क्रुद्धो राक्षसै.र्बहुभि.स्सह। यूपाक्ष.श्शोणिताक्षश्च प्रजङ्घः कम्पन.स्तथा 46।। >> निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् । शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान्।। 47।। >> नादयन् गच्छतात्रैव जयध्वं शीघ्र.मेव च। ततस्तु चोदिता.स्तेन राक्षसा ज्वलितायुधाः 48।। >> लङ्काया निर्ययु.र्वीराः प्रणदन्तः पुनः पुनः। रक्षसां भूषणस्थाभिर्-भाभि.स्स्वाभिश्च सर्वशः 49।। >> चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभि.स्सह। तत्र ताराधिपस्याभा ताराणां च तथैव च 50।। >> तयो.राभरणस्था च बलयो.र्द्या.मभासयन्। चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा।। 51।। >> हरिराक्षस.सैन्यानि भ्राजयामास सर्वतः। तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः।। 52।। >> भाभि.स्संसक्त पाताल.-श्चलोर्मि.श्शुशुभेधिकम्। पताकाध्वज.संसक्त-मुत्तमासि परश्वधं 53।। >> भीमाश्वरथ.मातङ्गं नानापत्ति.समाकुलम्। दीप्तशूल.गदा.खड्ग-प्रास.तोमर.कार्मुकम् 54।। >> तद्राक्षसबलं घोरं भीमविक्रम.पौरुषम्। ददृशे ज्वलितप्रासं किङ्किणीशत.नादितम् 55।। >> हेमजालाजित.भुजं व्यावेष्टित.परश्वधम्। व्याघूर्णित.महाशस्त्रं बाणसंसक्त.कार्मुकम् 56।। >> गन्धमाल्य.मधूत्सेक- सम्मोदित.महानिलम्। घोरं शूरजनाकीर्णं महाम्बुधर.निस्वनम् 57।। >> तद्दृष्ट्वा बल.मायान्तं राक्षसानां सुदारुणम्। सञ्चचाल प्लवङ्गानां बल.मुच्चै.र्ननाद च 58।। >> जवेनाप्लुत्य च पुन-स्त.द्राक्षसबलं महत्। अभ्यया.त्प्रत्यरिबलं पतङ्ग इव पावकम् 59।। >> तेषां भुजपरामर्श-व्यामृष्ट.परिघाशनि। राक्षसानां बलंश्रेष्ठं भूयस्तर.मशोभत 60। तत्रोन्मत्ता इवोत्पेतु-र्हरयोथ युयुत्सवः। तरुशैलै.रभिघ्नन्तो मुष्टिभिश्च निशाचरान् 61।। >> तथैवापततां तेषां कपीना.मसिभि.श्शितैः। शिरांसि सहसा जह्रू.- राक्षसा भीमदर्शनाः 62।। >> दशनै.र्हृतकर्णाश्च मुष्टि.निष्कीर्ण.मस्तकाः। शिलाप्रहार.भग्नाङ्गा विचेरु.स्तत्र राक्षसाः।। 63।। >> तथैवाप्यपरे तेषां कपीना.मभिलक्षिताः। प्रवीरा.नभितो जघ्नू.- राक्षसानां तरस्विनां 64।। >> तथैवाप्यपरे तेषां कपीना.मसिभि.श्शितैः। हरिवीरा निजघ्नुश्च घोर रूपा निशाचराः।। 65।। >> घ्नन्त.मन्यं जघानान्यः पातयन्त. मपातयत्। गर्हमाणं जगर्हेन्यो- दशन्त.मपरोदशत् 66।। >> देहीत्यन्यो ददात्यन्यो ददामी.त्यपरः पुनः। किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे।। 67।। >> विप्रलम्भित.वस्त्रं च विमुक्त.कवचायुधम्। समुद्यत.महाप्रासं मुष्टिशूलासि.सङ्कुलम्।। 68।। >> प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्। वानरान् दश सप्तेति राक्षसा जघ्नु.राहवे।। 69।। >> राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन्। विस्रस्त.केश.वसनं विध्वस्त.कवचध्वजम्।। 70। बलं राक्षस.मालम्ब्य वानराः पर्यवारयन् 71।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्च सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 76 कुम्भवधः प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये। अङ्गदः कम्पनं वीर.माससाद रणोत्सुकः।। 1।। >> आहूय सोङ्गदं कोपात् ताडयामास वेगितः। गदया कम्पनः पूर्वं स चचाल भृशाहतः 2।। >> स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि।। 3।। >> ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे। रथेनाभ्यपतत् क्षिप्रं तत्राङ्गद.मभीतवत् 4।। >> सोङ्गदं निशितै.र्बाणै-स्तदा विव्याध वेगितः। शरीरदारणै.स्तीक्ष्णैः कालाग्निसम.विग्रहैः ।। 5। क्षुरक्षुरप्रै.र्नाराचैर्- वत्सदन्तै.श्शिलीमुखैः। कर्णिशल्य.विपाठैश्च बहुभि. र्निशितै.श्शरैः।। 6।। >> अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्। धनुरग्र्यं रथं बाणान् ममर्द तरसा बली।। 7।। >> शोणिताक्ष.स्ततः क्षिप्र-मसि चर्म समाददे। उत्पपात दिवं क्रुद्धो वेगवा.नविचारयन् 8।। >> तं क्षिप्रतर.माप्लुत्य परामृश्याङ्गदो बली। करेण तस्य तं खड्गं समाच्छिद्य ननाद च।। 9।। >> तस्यांसफलके खड्गं निजघान ततोङ्गदः। यज्ञोपवीतव.च्चैनं चिच्छेद कपिकुञ्जरः।। 10।। >> तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः। वालिपुत्रोभिदुद्राव रणशीर्षे परा.नरीन्।। 11।। >> आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः। शोणिताक्ष.स्समाश्वास्य त.मेवानुपपात ह।। 12।। >> प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली। रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम्।। 13।। >> तयो.र्मध्ये कपिश्श्रेष्ठ- श्शोणिताक्ष.प्रजङ्घयोः। विशाखयो.र्मध्यगतः पूर्णचन्द्र इवाभवत्।। 14।। >> अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च। तस्य तस्थतु.रभ्याशे परस्पर.दिदृक्षया।। 15।। >> अभिपेतु.र्महाकायाः प्रतियत्ता महाबलाः। राक्षसा वानरान् रोषा.-दसि.चर्म. गदाधराः।। 16।। >> त्रयाणां वानरेन्द्राणां त्रिभी. राक्षसपुङ्गवैः। संसक्तानां मह.द्युद्ध- मभव.द्रोमहर्षणम्।। 17।। >> ते तु वृक्षान् समादाय सम्प्रचिक्षुपु.राहवे। खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः।। 18।। >> रथा.नश्वान् द्रुमै.श्शैलै.-स्ते प्रचिक्षिपु.राहवे। शरौघैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः।। 19।। >> सृष्टान् द्विविद.मैन्दाभ्यां द्रुमा.नुत्पाट्य वीर्यवान्। बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् 20।। >> उद्यम्य विपुलं खड्गं परमर्म.निकृन्तनम्। प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः 21।। >> त.मभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः। आजघाना-श्वकर्णेन द्रुमेणातिबल.स्तदा।। 22।। >> बाहूं.श्चास्य सनिस्त्रिंश-माजघान स मुष्टिना। वालिपुत्रस्य घातेन स पपात क्षिता.वसिः 23।। >> तं दृष्ट्वा पतितं भूमौ खड्ग.मुत्पल.सन्निभम्। मुष्टिं सँवर्तयामास वज्रकल्पं महाबलः 24।। >> ललाटे महावीर्य-मङ्गदं वानरर्षभम्। आजघान महातेजा-स्स मुहूर्तं चचाल ह।। 25।। >> स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्। प्रजङ्घस्य शिरः कायात् स्वङ्गेनापातयत् क्षितौ 26।। >> स यूपाक्षोश्रुपूर्णाक्षः पितृव्ये निहते रणे। अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्ग.माददे।। 27।। >> त.मापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविद.स्त्वरन्। आजघानोरसि क्रुद्धो जग्राह च बला.द्बली 28।। >> गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः। आजघान गदाग्रेण वक्षसि द्विविदं ततः 29।। >> स गदाभिहत.स्तेन चचाल च महाबलः। उद्यतां च पुन.स्तस्य जहार द्विविदो गदां 30।। >> एतस्मि.न्नन्तरे वीरो मैन्दो वानरयूथपः। यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् 31।। >> तौ शोणिताक्ष.यूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ। चक्रतु.स्समरे तीव्र.-माकर्षोत्पाटनं भृशं 32।। >> द्विविद.श्शोणिताक्षं तु विददार नखै.र्मुखे। निष्पिपेष च वेगेन क्षिता.वाविध्य वीर्यवान् 33।। >> यूपाक्ष.मपि सङ्क्रुद्धो मैन्दो वानरयूथपः। पीडयामास बाहुभ्यां स पपात हतः क्षितौ 34।। >> हतप्रवीरा व्यथिता राक्षसेन्द्रचमू.स्तदा। जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः 35।। >> आपतन्तीं च वेगेन कुम्भ.स्तां सान्त्वय.च्चमूम्। अथोत्कृष्टं महावीर्यै-र्लब्धलक्षैः प्लवङ्गमैः 36।। >> निपातित.महावीरां दृष्ट्वा रक्ष.श्चमूं ततः। कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करं 37।। >> स धनु.र्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः। मुमोचाशीविषप्रख्या-न्छरान् देहविदारणान् 38।। >> तस्य तच्छुशुभे भूय.-स्सशरं धनु.रुत्तमम्। विद्यु.दैरावतार्चिष्म-द्द्वितीयेन्द्रधनु.र्यथा 39।। >> आकर्णाकृष्ट.मुक्तेन जघान द्विविदं तदा। तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा 40।। >> सहसाभिहत.स्तेन विप्रमुक्तपद.स्स्फुरन्। निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः।। 41।। >> मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे। अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् 42।। >> तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः। बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभि.श्शरैः 43।। >> सन्धाय चान्यं सुमुखं शर.माशीविषोपमम्। आजघान महातेजा वक्षसि द्विविदाग्रजम् 44।। >> स तु तेन प्रहारेण मैन्दो वानरयूथपः। मर्मण्यभिहत.स्तेन पपात भुवि मूर्छितः 45।। >> अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ। अभिदुद्राव वेगेन कुम्भ.मुद्यत.कार्मुकम् 46।। >> त.मापतन्तं विव्याध कुम्भः पञ्चभि.रायसैः। त्रिभिश्चान्यै.श्शितै र्बाणै-र्मातङ्ग.मिव तोमरैः 47।। >> सोङ्गदं विविधै.र्बाणैः कुम्भो विव्याध वीर्यवान्। अकुण्ठधारै.र्निशितै-स्तीक्ष्णैः कनकभूषणैः 48।। >> अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते। शिलापादप.वर्षाणि तस्य मूर्ध्नि ववर्ष ह।। 49।। >> स प्रचिच्छेद तान् सर्वान् बिभेद च पुन.श्शिलाः। कुम्भकर्णात्मज.श्श्रीमान् वालिपुत्र.समीरितान् 50। आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम्। भ्रुवो.र्विव्याध बाणाभ्या-मुल्काभ्या.मिव कुञ्जरम् 51।। >> तस्य सुस्राव रुधिरं पिहिते चास्य लोचने। अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।। 52।। >> साल.मासन्न.मेकेन परिजग्राह पाणिना। सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च 53।। >> किञ्चि.दभ्यवनम्यैन-मुन्ममाथ यथा गजः। त.मिन्द्रकेतुप्रतिमं वृक्षं मन्दर.सन्निभम् 54।। >> समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम्। स चिच्छेद शितै.र्बाणै.-स्सप्तभिः कायभेदनैः 55।। >> अङ्गदो विव्यथेभीक्ष्णं पपात च मुमोह च। अङ्गदं पतितं दृष्ट्वा सीदन्त.मिव सागरे 56।। >> दुरासदं हरिश्रेष्ठं रामायान्ये न्यवेदयन्। रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे 57।। >> व्यादिदेश हरिश्रेष्ठान् जाम्बव.त्प्रमुखां.स्ततः। ते तु वानरशार्दूला.-श्श्रुत्वा रामस्य शासनम् 58।। >> अभिपेतु.स्सुसङ्क्रुद्धाः कुम्भ.मुद्यतकार्मुकम्। ततो द्रुमशिला.हस्ताः कोपसंरक्त.लोचनाः 59।। >> रिरक्षिषन्तोभ्यपत-न्नङ्गदं वानरर्षभाः। जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।। 60। कुम्भकर्णात्मजं वीरं क्रुद्धा.स्समभिदुद्रुवुः। समीक्ष्यापतत.स्तां.स्तु वानरेन्द्रान् महाबलान् 61।। >> आववार शरौघेण नगेनेव जलाशयम्। तस्य बाणपथं प्राप्य न शेकु.रतिवर्तितुम् 62।। >> वानरेन्द्रा महात्मानो वेला.मिव महोदधिः। तांस्तु दृष्ट्वा हरिगणा-न्छरवृष्टिभि. रर्दितान् 63।। >> अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः। अभिदुद्राव वेगेन सुग्रीवः कुम्भ.माहवे 64।। >> शैल.सानुचरं नागं वेगवा.निव केसरी। उत्पाट्य च महाशैला-नश्वकर्णान् धवान् बहून् 65।। >> अन्यांश्च विविधान् वृक्षां-श्चिक्षेप च महाबलः। तां छादयन्ती.माकाशं वृक्षवृष्टिं दुरासदाम् 66।। >> कुम्भकर्णात्मज.श्शीघ्रं- चिच्छेद निशितै.श्शरैः। अभिलक्ष्येण तीव्रेण कुम्भेन निशितै.श्शरैः।। 67।। >> अर्दितास्ते द्रुमा रेजु-र्यथा घोरा.श्शतघ्नयः। द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्।। 68।। >> वानराधिपति.श्श्रीमान् महासत्त्वो न विव्यथे। निर्भिद्यमान.स्सहसा सहमानश्च ता.न्छरान् 69।। >> कुम्भस्य धनु.राक्षिप्य बभञ्जेन्द्रधनु.ष्प्रभम्। अवप्लुत्य तत.श्शीघ्रं कृत्वा कर्म सुदुष्करम् 70। अब्रवीत् कुपितः कुम्भं भग्नशृङ्ग.मिव द्विपम्। निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम्।। 71।। >> सन्नतिश्च प्रभावश्च तव वा रावणस्य वा। प्रह्लाद.बलि.वृत्रघ्न-कुबेर.वरुणोपमम्।। 72।। >> एक.स्त्व.मनुजातोसि पितरं बलवृत्ततः। त्वा.मेवैकं महाबाहुं चापहस्त. मरिन्दमम् 73।। >> त्रिदशा नातिवर्तन्ते जितेन्द्रिय.मिवाधयः। विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः।। 74।। >> वरदानात् पितृव्यस्ते सहते देवदानवान्। कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान्। 75।। >> धनुषीन्द्रजित.स्तुल्यः प्रतापे रावणस्य च। त्व.मद्य रक्षसां लोके श्रेष्ठोसि बलवीर्यतः।। 76।। >> महाविमर्दं समरे मया सह तवाद्भुतम्। अद्य भूतानि पश्यन्तु शक्रशम्बरयो.रिव 77।। >> कृत.मप्रतिमं कर्म दर्शितं चास्त्रकौशलम्। पातिता हरिवीराश्च त्वया वै भीमविक्रमाः 78।। >> उपालम्भ.भयाच्चापि नासि वीर मया हतः। कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम्।। 79।। >> तेन सुग्रीववाक्येन सावमानेन मानितः। अग्ने.राज्याहुतस्येव तेज.स्तस्याभ्यवर्धत।। 80। ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा। गजा.विवातीतमदौ निश्श्वसन्तौ मुहु.र्मुहुः 81।। >> अन्योन्य गात्रग्रथितौ कर्षन्ता.वितरेतरम्। सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् 82।। >> तयोः पादाभिघाताच्च निमग्ना चाभव.न्मही। व्याघूर्णित.तरङ्गश्च चुक्षुभे वरुणालयः 83।। >> ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि। पातयामास वेगेन दर्शय.न्नुदधे.स्तलं 84।। >> ततः कुम्भनिपातेन जलराशि.स्समुत्थितः। विन्ध्यमन्थर.सङ्काशो विससर्प समन्ततः 85।। >> ततः कुम्भ.स्समुत्पत्य सुग्रीव.मभिपात्य च। आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना 86।। >> तस्य चर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम्। स च मुष्टि.र्महावेगः प्रतिजघ्नेस्थिमण्डले 88।। >> तदा वेगेन तत्रासीत् तेजः प्रज्वलितं मुहुः। वज्रनिष्पेष.सञ्जात-ज्वाला मेरौ यथा गिरौ।। 89।। >> स तत्राभिहत.स्तेन सुग्रीवो वानरर्षभः। मुष्टिं सँवर्तयामास वज्रकल्पं महाबलः 90। अर्चिस्सहस्र.विकचं रविमण्डल.सप्रभम्। स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् 91।। >> स तु तेन प्रहारेण विह्वलो भृशताडितः। निपपात तदा कुम्भो गतार्चि.रिव पावकः 92।। >> मुष्टिनाभिहत.स्तेन निपपाताशु राक्षसः। लोहिताङ्ग इवाकाशा-द्दीप्तरश्मि.र्यदृच्छया 93।। >> कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना। बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः 94।। >> तस्मिन् हते भीमपराक्रमेण- प्लवङ्गमाना.मृषभेण युद्धे। मही सशैला सवना चचाल- भयं च रक्षांस्यधिकं विवेश।। 95।। >> श्रीमद्रामायणे युद्धकाण्डे षट् सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 77 निकुम्भवधः निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्। प्रदह.न्निव कोपेन वानरेन्द्र.मवैक्षत।। 1।। >> तत.स्स्रग्दाम.सन्नद्धं दत्त.पञ्चाङ्गुलं शुभम्। आददे परिघं वीरो नगेन्द्र.शिखरोपमम् 2।। >> हेमपट्ट.परिक्षिप्तं वज्रविद्रुम.भूषितम्। यमदण्डोपमं भीमं रक्षसां भयनाशनम् 3।। >> त.माविध्य महातेजा.-श्शक्रध्वजसमं रणे। विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः 4।। >> उरोगतेन निष्केण भुजस्थै.रङ्गदै.रपि। कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया 5।। >> निकुम्भो भूषणै.र्भाति तेन स्म परिघेण च। यथेन्द्रधनुषा मेघ.-स्सविद्युत् स्तनयित्नुमान् 6।। >> परिघाग्रेण पुस्फोट वातग्रन्थि. र्महात्मनः। प्रजज्वाल सघोषश्च विधूम इव पावकः 7।। >> नगर्या विटपावत्या गन्धर्व.भवनोत्तमैः। सह चैवामरावत्या सर्वैश्च भुवनै.स्सह 8।। >> सतारागण.नक्षत्रं सचन्द्रं समहाग्रहम्। निकुम्भपरिघा.घूर्णं भ्रमतीव नभस्तलम् 9।। >> दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः। कपीनां स निकुम्भाग्नि-र्युगान्ताग्नि.रिवोत्थितः।। 10।। >> राक्षसा वानरा.श्चापि न शेकु.स्स्पन्दितुं भयात्। हनूमां.स्तु विवृत्योर-स्तस्थौ तस्याग्रतो बली।। 11।। >> परिघोपम.बाहुस्तु परिघं भास्करप्रभम्। बली बलवत.स्तस्य पातयामास वक्षसि।। 12।। >> स्थिरे तस्योरसि व्यूढे परिघ.श्शतधा कृतः। विशीर्यमाण.स्सहसा उल्काशत.मिवाम्बरे।। 13।। >> स तु तेन प्रहारेण चचाल च महाकपिः। परिघेण समाधूतो यथा भूमिचलेचलः।। 14।। >> स तथाभिहत.स्तेन हनूमान् प्लवगोत्तमः। मुष्टिं सँवर्तयामास बलेनातिमहाबलः।। 15।। >> त.मुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्। अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः।। 16।। >> ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्। मुष्टिना तेन सञ्जज्ञे ज्वाला विद्यु.दिवोत्थिता।। 17।। >> स तु तेन प्रहारेण निकुम्भो विचचाल ह। स्वस्थ.श्चापि निजग्राह हनूमन्तं महाबलम्।। 18।। >> विचुक्रुशु.स्तदा सङ्ख्ये भीमं लङ्का निवासिनः। निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम्।। 19।। >> स तथा ह्रियमाणोपि कुम्भकर्णात्मजेन ह। आजघानानिलसुतो वज्रवेगेन मुष्टिना 20।। >> आत्मानं मोचयित्वाथ क्षिता.वभ्यवपद्यत। हनूमा.नुन्ममाथाशु निकुम्भं मारुतात्मजः 21।। >> निक्षिप्य पर.मायत्तो निकुम्भं निष्पिपेष ह। उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् 22।। >> परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्। उत्पाटयामास शिरो भैरवं नदतो महत् 23।। >> अथ विनदति सादिते निकुम्भे- पवनसुतेन रणे बभूव युद्धम्। दशरथसुत.राक्षसेन्द्र सून्वोर्- भृशतरमागत.रोषयो.स्सुभीमम् 24।। >> व्यपेते तु जीवे निकुम्भस्य हृष्टा- निनेदुः प्लवङ्गा दिश.स्सस्वनुश्च। चचालेव चोर्वी पपातेव च द्यौर्- भयं राक्षसानां बलं चाविवेश।। 25।। >> श्रीमद्रामायणे युद्धकाण्डे सप्त सप्ततितमस्सर्गः। • युद्धकाण्डे सर्गः 78 मकराक्षाभिषेणनम् निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्। रावणः परमामर्षी प्रजज्वालानलो यथा।। 1।। >> नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः। खरपुत्रं विशालाक्षं मकराक्ष.मचोदयत् 2।। >> गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः। राघवं लक्ष्मणं चैव जहि तौ सवनौकसः 3।। >> रावणस्य वच.श्श्रुत्वा शूरो मानी खरात्मजः। बाढ.मित्यब्रवी.द्धृष्टो मकराक्षो निशाचरः 4।। >> सोभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्। निर्जगाम गृहा.च्छुभ्रा-द्रावणस्याज्ञया बली 5।। >> समीपस्थं बलाध्यक्षं खरपुत्रोब्रवी.दिदम्। रथश्चानीयतां शीघ्रं सैन्यं चानीयतां त्वरात्।। 6। तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् 7।। >> प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः। सूतं सञ्चोदयामास शीघ्रं मे रथ.मावह 8।। >> अथ तान् राक्षसान् सर्वान् मकराक्षोब्रवी.दिदम्। यूयं सर्वे प्रयुध्यध्वं पुरस्ता.न्मम राक्षसाः 9।। >> अहं राक्षसराजेन रावणेन महात्मना। आज्ञप्त.स्समरे हन्तुं ता.वुभौ रामलक्ष्मणौ।। 10।। >> अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः। शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः।। 11।। >> अद्य शूलनिपातैश्च वानराणां महाचमूम्। प्रदहिष्यामि सम्प्राप्तः शुष्केन्धन.मिवानलः।। 12।। >> मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः। सर्वे नानायुधोपेता बलवन्त.स्समाहिताः।। 13।। >> ते कामरूपिण.स्सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः। मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः।। 14।। >> परिवार्य महाकाया महाकायं खरात्मजम्। अभिजग्मुस्तदा हृष्टा-श्चालयन्तो वसुन्धराम्।। 15।। >> शङ्ख भेरीसहस्राणा.-माहतानां समन्ततः। क्ष्वेलितास्फोटितानां च तत.श्शब्दो महा.नभूत्।। 16।। >> प्रभ्रष्टोथ करा.त्तस्य प्रतोद.स्सारथे.स्तदा। पपात सहसा चैव ध्वज.स्तस्य च रक्षसः।। 17।। >> तस्य ते रथयुक्ताश्च हया विक्रम.वर्जिताः। चरणै.राकुलै.र्गत्वा दीना.स्सास्रमुखा ययुः।। 18।। >> प्रवाति पवन.स्तस्मिन्- सपांसुः खरदारुणः। निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः।। 19।। >> तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः। अचिन्त्यनिर्गता.स्सर्वे यत्र तौ रामलक्ष्मणौ।। 20।। >> घनगज.महिषाङ्ग तुल्यवर्णा-स्समरमुखे.ष्वसकृद्. गदासिभिन्नाः। अह.मह.मिति युद्धकौशलास्ते- रजनिचराः परित.स्समुन्नदन्तः।। 21।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टसप्ततितम.स्सर्गः। • युद्धकाण्डे सर्गः 79 मकराक्षवधः निर्गतं मकराक्षं ते दृष्ट्वा वानरपुङ्गवाः। आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः।। 1।। >> ततः प्रवृत्तं सुमहत्-तद् युद्धं रोमहर्षणम्। निशाचरैः प्लवङ्गानां देवानां दानवैरिव।। 2।। >> वृक्षशूल.निपातैश्च शिलापरिघ.पातनैः। अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः।। 3।। >> शक्ति.शूल.गदा.खड्गै-स्तोमरैश्च निशाचराः। पट्टसैर्.भिन्दिपालैश्च बाणपातै.स्समन्ततः 4।। >> पाशमुद्गर.दण्डैश्च निर्घातै.श्चापरै.स्तथा। कदनं कपिसिंहानां चक्रु.स्ते रजनीचराः 5।। >> बाणौघै.रर्दिताश्चापि खरपुत्रेण वानराः। सम्भ्रान्तमनस.स्सर्वे दुद्रुवु.र्भयपीडिताः 6।। >> तान् दृष्ट्वा राक्षसा.स्सर्वे द्रवमाणान् वलीमुखान्। नेदु.स्ते सिंहव.द्धृष्टा- राक्षसा जितकाशिनः 7।। >> विद्रवत्सु तदा तेषु वानरेषु समन्ततः। राम.स्तान् वारयामास शरवर्षेण राक्षसान् 8।। >> वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः। क्रोधानल.समाविष्टो वचनं चेद. मब्रवीत्।। 9।। >> क्वासौ राम.स्सुदुर्बुद्धिर्-येन मे निहतः पिता। जनस्थान.गतः पूर्वं सानुगः सपरिच्छदः।। 10।। >> अद्य गन्तास्मि वैरस्य पारं वै रजनीचराः। सुहृदां चैव सर्वेषां निहतानां रणाजिरे।। 11।। >> हत्वा रामं सुदुर्बुध्धिं लक्ष्मणं च सवानरम्। तेषां शोणितनिष्यन्दैः करिष्ये सलिलक्रियाम्।। 12।। >> एव मुक्त्वा महाबाहुर्-युद्धे स रजनीचरः। व्यलोकयत तत्सर्वं बलं रामदिदृक्षया।। 13।। >> आहूयमानः कपिभिर्-बहुभि.र्बलशालिभिः। युद्धाय स महातेजा रामा.दन्यं न चेच्छति।। 14।। >> मार्गमाण.स्तदा रामं बलवान् रजनीचरः। रथेनाम्बुद घोषेण व्यचर.त्ता.मनीकिनीम्।। 15।। >> दृष्ट्वा राम.मदूरस्थं लक्ष्मणं च महारथम्। सघोषं पाणिनाहूय ततो वचन.मब्रवीत्।। 16।। >> तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते। त्याजयिष्यामि ते प्राणान् धनुर्मुक्तै.श्शितै.श्शरैः।। 17। य.त्तदा दण्डकारण्ये पितरं हतवान् मम। मदग्रत.स्स्वकर्मस्थं दृष्ट्वा रोषोभिवर्धते।। 18।। >> दह्यन्ते भृश.मङ्गानि दुरात्मन् मम राघव। यन्मयासि न दृष्ट.स्त्वं तस्मिन् काले महावने।। 19।। >> दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवा.निह। काङ्क्षितोसि क्षुधार्तस्य सिंहस्येवेतरो मृगः 20।। >> अद्य मद्बाणवेगेन प्रेतरा.ड्विषयं गतः। ये त्वया निहता वीरा-.स्सह तैश्च समेष्यति 21।। >> बहुनात्र कि.मुक्तेन शृणु राम वचो मम। पश्यन्तु सकला लोका-स्त्वां मां चैव रणाजिरे 22।। >> अस्त्रै.र्वा गदया वापि बाहुभ्यां वा महाहवे। अभ्यस्तं येन वा राम तेनैव युधि वर्तताम्।। 23।। >> मकराक्षवच.श्श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्य-मुत्तरोत्तर.वादिनम् 24।। >> कत्थसे किं वृथा रक्षो बहू.न्यसदृशानि तु। न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् 25।। >> चतुर्दश.सहस्राणि रक्षसां त्वत्पिता च यः। त्रिशिरा.दूषणश्चापि दण्डके निहता मया।। 26।। >> स्वाशिता.स्तव मांसेन गृध्रगोमायु.वायसाः। भविष्य.न्त्यद्य वै पाप तीक्ष्णतुण्ड.नखाङ्कुशाः 27।। >> एव.मुक्तस्तु रामेण खरपुत्रो निशाचरः। बाणौघा.नसृजत् तस्मै राघवाय रणाजिरे 28।। >> तान्छरा.न्छरवर्षेण राम.श्चिच्छेद नैकधा। निपेतु.र्भुवि ते छिन्ना रुक्मपुङ्खा.स्सहस्रशः 29।। >> तद्युद्ध.मभवत् तत्र समेत्यान्योन्य.मोजसा। खरराक्षस.पुत्रस्य सूनो.र्दशरथस्य च 30।। >> जीमूतयो.रिवाकाशे शब्दो ज्यातलयो.स्तदा। धनुर्मुक्त.स्स्वनोत्कृष्ट.-श्श्रूयते च रणाजिरे 31।। >> देवदानव गन्धर्वाः किन्नराश्च महोरगाः। अन्तरिक्षगता.स्सर्वे द्रष्टुकामा.स्तदद्भुतम् 32।। >> विद्ध.मन्योन्यगात्रेषु द्विगुणं वर्धते परम्। कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे 33।। >> राममुक्तांस्तु बाणौघान् राक्षस.स्त्वच्छिन.द्रणे। रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिन.च्छरैः 34।। >> बाणौघै.र्वितता.स्सर्वा दिशश्च प्रदिश.स्तथा। सञ्छन्ना वसुधा द्यौश्च समन्ता.न्न प्रकाशते 35।। >> ततः क्रुद्धो महाबाहुर्-धनु.श्चिच्छेद रक्षसः। अष्टाभि.रथ नाराचै.-स्सूतं विव्याध राघवः 36।। >> भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्। विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः 37।। >> अतिष्ठ.द्वसुधां रक्ष.-श्शूलं जग्राह पाणिना। त्रासनं सर्वभूतानां युगान्ताग्निसम.प्रभम् 38।। >> विभ्राम्य तु मह.च्छूलं प्रज्वलन्तं निशाचरः। स क्रोधात् प्राहिणो.त्तस्मै राघवाय महाहवे।। 39।। >> त.मापतन्तं ज्वलितं खरपुत्रकरा.च्च्युतम्। बाणैस्तु त्रिभि.राकाशे शूलं चिच्छेद राघवः 40।। >> सच्छिन्नो नैकधा शूलो दिव्यहाटक.मण्डितः। व्यशीर्यत महोल्केव रामबाणार्दितो भुवि 41।। >> तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा। साधु साध्विति भूतानि व्याहरन्ति नभोगताः 42।। >> तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः। मुष्टि.मुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् 43।। >> स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः। पावकास्त्रं ततो राम.-स्सन्दधे स्वशरासने 44।। >> तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे। सञ्छिन्नहृदयं तत्र पपात च ममार च 45।। >> दृष्ट्वा ते राक्षसा.स्सर्वे मकराक्षस्य पातनम्। लङ्का.मेवाभ्यधावन्त रामबाणार्दिता.स्तदा 46।। >> दशरथनृप.पुत्र.बाणवेगै.-रजनिचरं निहतं खरात्मजं तम्। ददृशु.रथ सुरा भृशं प्रहृष्टा- गिरि.मिव वज्रहतं यथा विकीर्णम्।। 47।। >> श्रीमद्रामायणे युद्धकाण्डे एकोनाशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 80 तिरोहितरावणि.युद्धम् मकराक्षं हतं श्रुत्वा रावण.स्समितिञ्जयः। क्रोधेन महताविष्टो दन्तान् कटकटापयन्।। 1।। >> कुपितश्च तदा तत्र किं कार्य.मिति चिन्तयन्। आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् 2।। >> जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ। अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः 3।। >> त्व.मप्रतिमकर्माण.-मिन्द्रं जयसि सँयुगे। किं पुनर् मानुषौ दृष्ट्वा न वधिष्यसि सँयुगे ।। 4।। >> तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितु.र्वचः। यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् 5।। >> जुह्वत.श्चापि तत्राग्निं रक्तोष्णीषधरा.स्स्त्रियः। आजग्मु.स्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः 6।। >> शस्त्राणि शरपत्राणि समिधोथ विभीतकाः। लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा 7।। >> सर्वतोग्निं समास्तीर्य शरपत्रै.स्समन्ततः। छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः।। 8।। >> सकृदेव समिद्धस्य विधूमस्य महार्चिषः। बभूवु.स्तानि लिङ्गानि विजयं दर्शयन्ति च 9।। >> प्रदक्षिणावर्त.शिख-स्तप्तहाटक.सन्निभः। हवि.स्तत् प्रतिजग्राह पावक.स्स्वय. मुत्थितः।। 10।। >> हुत्वाग्निं तर्पयित्वाथ देवदानव.राक्षसान्। आरुरोह रथश्रेष्ठ.-मन्तर्धानगतं शुभम्।। 11।। >> स वाजिभि.श्चतुर्भिश्च बाणैश्च निशितै. र्युतः। आरोपित.महाचाप.-श्शुशुभे स्यन्दनोत्तमः।। 12।। >> जाज्वल्यमानो वपुषा तपनीय.परिच्छदः। मृगै.श्चन्द्रार्ध.चन्द्रैश्च स रथ.स्समलङ्कृतः।। 13।। >> जाम्बूनद.महाकम्बु-र्दीप्तपावक सन्निभः। बभूवेन्द्रजितः केतु-र्वैदूर्य.समलङ्कृतः।। 14।। >> तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः। स बभूव दुराधर्षो रावणि.स्सुमहाबलः।। 15।। >> सोभिनिर्याय नगरा-दिन्द्रजित् समितिञ्जयः। हुत्वाग्निं राक्षसै.र्मन्त्रै-रन्तर्धानगतोब्रवीत्।। 16।। >> अद्य हत्वा रणे यौ तौ मिथ्याप्रव्राजितौ वने। जयं पित्रे प्रदास्यामि रावणाय रणार्जितम्।। 17।। >> अद्य निर्वानरा. मुर्वीं हत्वा रामं सलक्ष्मणम्। करिष्ये परमां प्रीति.-मित्युक्त्वान्त.रधीयत।। 18।। >> आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः। तीक्ष्णकार्मुक.नाराचै-स्तीक्ष्ण.स्त्विन्द्ररिपू. रणे।। 19।। >> स ददर्श महावीर्यौ नागौ त्रिशिरसा विव। सृजन्ता.विषुजालानि वीरौ वानरमध्यगौ 20।। >> इमौ ता.विति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्। सन्तता.निषुधाराभिः पर्जन्य इव वृष्टिमान् 21।। >> स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ। अचक्षु.र्विषये तिष्ठन् विव्याध निशितै.श्शरैः 22।। >> तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ। धनुषी सशरे कृत्वा दिव्य.मस्त्रं प्रचक्रतुः 23।। >> प्रच्छादयन्तौ गगनं शरजालै.र्महाबलौ। त.मस्त्रै.स्सूर्य सङ्काशै-र्नैव पस्पृशतु.श्शरैः 24।। >> स हि धूमान्धकारं च चक्रे प्रच्छादयन् नभः। दिश.श्चान्तर्दधे श्रीमा-न्नीहारतमसावृतः 25।। >> नैव ज्यातल.निर्घोषो न च नेमि.खुरस्वनः। शुश्रुवे चरत.स्तस्य न च रूपं प्रकाशते 26।। >> घनान्धकारे तिमिरे शरवर्ष.मिवाद्भुतम्। स ववर्ष महाबाहु-र्नाराचशर.वृष्टिभिः 27।। >> स रामं सूर्यसङ्काशै.-श्शरै.र्दत्तवरो भृशम्। विव्याध समरे क्रुद्ध.-स्सर्वगात्रेषु रावणिः 28।। >> तौ हन्यमानौ नाराचै-र्धाराभि.रिव पर्वतौ। हेमपुङ्खान् नरव्याघ्रौ तिग्मा.न्मुमुचतु.श्शरान् 29।। >> अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः। निकृत्य पतगा भूमौ पेतु.स्ते शोणितोक्षिताः।। 30।। >> अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ। ता.निषून् पततो भल्लै.-रनेकैर् निचकृन्ततुः।। 31।। >> यतो हि ददृशाते तौ शरा.न्निपतित.श्शितान्। तत.स्तु तौ दाशरथी ससृजातेस्त्र.मुत्तमम् 32।। >> रावणिस्तु दिश.स्सर्वा रथेनातिरथः पतन्। विव्याध तौ दाशरथी लघ्वस्त्रो निशितै.श्शरैः 33।। >> तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खै.स्सुसंहितैः। बभूवतु.र्दाशरथी पुष्पिता.विव किंशुकौ 34।। >> नास्य वेद गतिं कश्चि-न्न च रूपं धनु.श्शरान्। न चान्य.द्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे 35।। >> तेन विद्धाश्च हरयो निहताश्च गतासवः। बभूवु.श्शतश.स्तत्र पतिता धरणीतले 36।। >> लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्य.मब्रवीत्। ब्राह्म.मस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् 37।। >> त.मुवाच ततो रामो लक्ष्मणं शुभलक्षणम्। नैकस्य हेतो. रक्षांसि पृथिव्यां हन्तु.मर्हसि 38।। >> अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।  पलायन्तं प्रमत्तं वा न त्वं हन्तु.मिहार्हसि।। 39।। >> अस्यैव तु वधे यत्नं करिष्यावो महाबल। आदेक्ष्यावो महावेगा-नस्त्रा.नाशीविषोपमान् 40।। >> त.मेनं मायिनं क्षुद्र.-मन्तर्हितरथं बलात्। राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः 41।। >> यद्येष भूमिं विशते दिवं वा- रसातलं वापि नभस्तलं वा। एवं निगूढोपि ममास्त्रदग्धः- पतिष्यते भूमितले गतासुः।। 42।। >> इत्येव.मुक्त्वा वचनं महात्मा- रघुप्रवीरः प्लवगर्षभैर्. वृतः। वधाय रौद्रस्य नृशंसकर्मण.-स्तदा महात्मा त्वरितं निरीक्षते।। 43।। >> श्रीमद्रामायणे युद्धकाण्डे अशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 81 मायासीतावधः विज्ञाय तु मन.स्तस्य राघवस्य महात्मनः। सन्निवृत्याहवात् तस्मात् प्रविवेश पुरं ततः।। 1।। >> सोनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्। क्रोधताम्रेक्षण.श्शूरो निर्जगाम महाद्युतिः।। 2।। >> स पश्चिमेन द्वारेण निर्ययौ राक्षसै.र्वृतः। इन्द्रजि.त्तु महावीर्यः पौलस्त्यो देवकण्टकः।। 3।। >> इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत् तदा।। 4।। >> इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा। बलेन महतावृत्य तस्या वध.मरोचयत् 5।। >> मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः। हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।। 6।। >> तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः। उत्पेतु.रभिसङ्क्रुद्धा.- श्शिलाहस्ता युयुत्सवः 7।। >> हनूमान् पुरत.स्तेषां जगाम कपिकुञ्जरः। प्रगृह्य सुमह.च्छृङ्गं पर्वतस्य दुरासदम् 8।। >> स ददर्श हतानन्दां सीता.मिन्द्रजितो रथे। एकवेणीधरां दीना-मुपवास.कृशाननाम् 9।। >> परिक्लिष्टैक.वसना-ममृजां राघवप्रियाम्।। >> रजोमलाभ्या.मालिप्तै.-स्सर्वगात्रै.र्वरस्त्रियम्।। 10।। >> तां निरीक्ष्य मुहूर्तं तु मैथिली.त्यध्यवस्य तु। बभूवाचिर दृष्ट्वा हि तेन सा जनकात्मजा।। 11।। >> तां दीनां मल.दिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्। बाष्पपर्याकुल.मुखो हनूमान् व्यथितोभवत्।। 12।। >> अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनीम्। सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम्।। 13।। >> किं समर्थित.मस्येति चिन्तयन् स महाकपिः। सह तै.र्वानरश्रेष्ठै-रभ्यधावत रावणिम्।। 14।। >> त.द्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः। कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्।। 15।। >> तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः। क्रोशन्तीं राम रामेति मायया योजितां रथे।। 16।। >> गृहीत.मूर्धजां दृष्ट्वा हनूमान् दैन्य .मागतः। शोकजं वारि नेत्राभ्या.-मुत्सृज.न्मारुतात्मजः।। 17।। >> तं दृष्ट्वा चारु सर्वाङ्गीं रामस्य महिषीं प्रियाम्। अब्रवीत् परुषं वाक्यं क्रोधा.द्रक्षोधिपात्मजम्।। 18।। >> दुरात्म.न्नात्मनाशाय केशपक्षे परामृशः। ब्रह्मर्षीणां कुले जातो राक्षसीं योनि.माश्रितः।। 19।। >> धिक् त्वां पापसमाचारं यस्य ते मति.रीदृशी। नृशंसानार्य दुर्वृत्त-क्षुद्र.पापपराक्रम 20।। >> अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण। च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली 21।। >> किं तवैषापराद्धा हि य.देनां हन्तु मिच्छसि। सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन 22।। >> वधार्हकर्मणानेन मम हस्तगतो ह्यसि। ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः 23।। >> इह जीवित.मुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे। इति ब्रुवाणो हनुमान् सायुधै.र्हरिभि.र्वृतः 24।। >> अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति। आपतन्तं महावीर्यं त.दनीकं वनौकसाम्।। 25।। >> रक्षसां भीम वेगाना.-मनीकं तु न्यवारयत्। स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् 26।। >> हरिश्रेष्ठं हनूमन्त.-मिन्द्रजित् प्रत्युवाच ह। सुग्रीव.स्त्वं च रामश्च यन्निमित्त मिहागताः 27।। >> तां हनिष्यामि वैदेही-मद्यैव तव पश्यतः। इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर 28।। >> सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्। न हन्तव्या.स्स्त्रियश्चेति य.द्ब्रवीषि प्लवङ्गम 29।। >> पीडाकर.ममित्राणां यत् स्यात् कर्तव्य.मेव तत्। त.मेव.मुक्त्वा रुदतीं सीतां मायामयीं तदा 30।। >> शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम्। यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी 31।। >> सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना। ता.मिन्द्रजित् स्वयं हत्वा हनूमन्त.मुवाच ह 32।। >> मया रामस्य पश्येमां कोपेन च निषूदिताम्। एषा विशस्ता वैदेही विफलो वः परिश्रमः।। 33।। >> ततः खड्गेन महता हत्वा तामिन्द्रजित् स्वयम्। हृष्ट.स्स रथ.मास्थाय विननाद महास्वनम् 34।। >> वानरा.श्शुश्रुवु.श्शब्द.-मदूरे प्रत्यवस्थिताः। व्यादितास्यस्य नदत-स्त.द्दुर्गं संश्रितस्य च 35।। >> तथा तु सीतां विनिहत्य दुर्मतिः- प्रहृष्टचेता.स्स बभूव रावणिः। तं हृष्टरूपं समुदीक्ष्य वानरा- विषण्णरूपा.स्सहसा प्रदुद्रुवुः।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे एका शीतितमस्सर्गः। • युद्धकाण्डे सर्गः 82 हनूमदादिनिर्वेदः श्रुत्वा तं भीम.निर्ह्रादं शक्राशनि.समस्वनम्। वीक्षमाणा दिश.स्सर्वा दुद्रुवु.र्वानरर्षभाः।। 1।। >> ता.नुवाच तत.स्सर्वान् हनूमान् मारुतात्मजः। विषण्णवदनान् दीनां-स्त्रस्तान् विद्रवतः पृथक् 2।। >> कस्मा.द्विषण्णवदना विद्रवध्वं प्लवङ्गमाः। त्यक्तयुद्ध.समुत्साहा.-श्शूरत्वं क्व नु वो गतम् 3।। >> पृष्ठतोनुव्रजध्वं मा.-मग्रतो यान्त .माहवे। शूरै.रभिजनोपेतै-रयुक्तं हि निवर्तितुम् 4।। >> एव मुक्ता.स्सुसङ्क्रुद्धा वायुपुत्रेण वानराः। शैलशृङ्गान् नगां.श्चैव जगृहु.र्हृष्टमानसाः 5।। >> अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः। परिवार्य हनूमन्त.-मन्वयुश्च महाहवे 6।। >> स तै.र्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः। हुताशन इवार्चिष्मा-नदह.च्छत्रुवाहिनीम् 7।। >> स राक्षसानां कदनं चकार सुमहाकपिः। वृतो वानरसैन्येन कालान्तक.यमोपमः 8।। >> स तु कोपेन चाविष्ट.-श्शोकेन च महाकपिः। हनूमान् रावणिरथे- पातय.न्महतीं शिलाम्।। 9।। >> ता.मापतन्तीं दृष्ट्वैव रथ.स्सारथिना तदा। विधेयाश्व.समायुक्त.-स्सुदूर.मपवाहितः।। 10।। >> त.मिन्द्रजित.मप्राप्य रथस्थं सहसारथिम्। विवेश धरणीं भित्त्वा सा शिला व्यर्थ.मुद्यता।। 11।। >> पातितायां शिलायां तु रक्षसां व्यथिता चमूः। निपतन्त्या च शिलया राक्षसा मथिता भृशम्।। 12।। >> तमभ्यधाव.न्छतशो नदन्तः काननौकसः। ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।। 13।। >> क्षिपतीन्द्रजित.स्सङ्ख्ये वानरा भीमविक्रमाः। वृक्षशैल. महावर्षं विसृजन्तः प्लवङ्गमाः।। 14।। >> शत्रूणां कदनं चक्रुर्- नेदुश्च विविधै.स्स्वरैः। वानरैस्तै.र्महावीर्यैर्-घोररूपा निशाचराः।। 15।। >> वीर्या.दभिहता वृक्षैर्.-व्यवेष्टन्त रणाजिरे। स्वसैन्य.मभिवीक्ष्याथ वानरार्दित.मिन्द्रजित्।। 16।। >> प्रगृहीतायुधः क्रुद्धः परा.नभिमुखो ययौ। स शरौघा.नवसृजन्- स्वसैन्येनाभिसँवृतः।। 17।। >> जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः। शूलै.रशनिभिः खड्गैः- पट्टसैः कूटमुद्गरैः।। 18।। >> ते चाप्यनुचरा.स्तस्य वानरा जघ्नु.रोजसा। सस्कन्धविटपै.स्सालै.-श्शिलाभिश्च महाबलैः।। 19।। >> हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्। स निवार्य परानीक.-मब्रवी.त्तान् वनौकसः 20।। >> हनूमान् सन्निवर्तध्वं- न न.स्साध्य मिदं बलम्। त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रिय.चिकीर्षवः।। 21।। >> यन्निमित्तं हि युध्यामो हता सा जनकात्मजा। इम.मर्थं हि विज्ञाप्य रामं सुग्रीव.मेव च 22।। >> तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्। इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् 23।। >> शनै.श्शनै. रसन्त्रस्त.-स्सबल.स्सन् न्यवर्तत। ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः 24।। >> स होतुकामो दुष्टात्मा गत.श्चैत्य.निकुम्भिलाम्। निकुम्भिला.मधिष्ठाय पावकं जुहुवेन्द्रजित् 25।। >> यज्ञभूम्यां तु विधिवत् पावक.स्तेन रक्षसा। हूयमानः प्रजज्वाल मांसशोणितभुक् तदा 26।। >> सोर्चिःपिनद्धो ददृशे होमशोणित.तर्पितः। सन्ध्यागत इवादित्य.-स्स तीव्रोग्नि.स्समुत्थितः 27।। >> अथेन्द्रजि.द्राक्षसभूतये तु- जुहाव हव्यं विधिना विधानवत्। दृष्ट्वा व्यतिष्ठन्त च राक्षसा.स्ते- महासमूहेषु नयानय.ज्ञाः।। 28।। >> श्रीमद्रामायणे युद्धकाण्डे द्व्यशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 83 रामाश्वासनम् राघवश्चापि विपुलं तं राक्षस.वनौकसाम्। श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्त.मुवाच ह।। 1।। >> सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्। श्रूयते हि यथा भीम.-स्सुमहा.नायुधस्वनः 2।। >> तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसँवृतः। क्षिप्र.मृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः 3।। >> ऋक्षराज.स्तथेत्युक्त्वा स्वेनानीकेन सँवृतः। आगच्छत् पश्चिमद्वारं हनूमान् यत्र वानरः 4।। >> अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि। वानरैः कृतसङ्ग्रामै.-श्श्वसद्भि.रभिसँवृतम् 5।। >> दृष्ट्वा पथि हनूमांश्च तदृक्षबल.मुद्यतम्। नीलमेघ.निभं भीमं सन्निवार्य न्यवर्तत।। 6।। >> स तेन हरिसैन्येन सन्निकर्षं महायशाः। शीघ्र.मागम्य रामाय दुःखितो वाक्य.मब्रवीत्।। 7।। >> समरे युध्यमानाना.-मस्माकं प्रेक्षतां च सः। जघान रुदतीं सीता.-मिन्द्रजि. द्रावणात्मजः 8।। >> उद्भ्रान्तचित्त.स्तां दृष्ट्वा विषण्णोह.मरिन्दम। तदहं भवतो वृत्तं विज्ञापयितु.मागतः 9।। >> तस्य तद्वचनं श्रुत्वा राघव.श्शोकमूर्छितः। निपपात तदा भूमौ छिन्नमूल इव द्रुमः।। 10।। >> तं भूमौ देवसङ्काशं पतितं दृश्य राघवम्। अभिपेतु.स्समुत्पत्य सर्वतः कपिसत्तमाः।। 11।। >> असिञ्चन् सलिलै.श्चैनं पद्मोत्पल.सुगन्धिभिः। प्रदहन्त.मनासाद्यं सहसाग्नि.मिवोत्थितम्।। 12।। >> तं लक्ष्मणोथ बाहुभ्यां परिष्वज्य सुदुःखितः। उवाच राम.मस्वस्थं वाक्यं हेत्वर्थसंहितम्।। 13।। >> शुभे वर्त्मनि तिष्ठन्तं त्वा.मार्य विजितेन्द्रियम्। अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः।। 14।। >> भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।  यथास्ति न तथा धर्म-स्तेन नास्तीति मे मतिः।। 15।। >> यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्। नाय.मर्थ.स्तथा युक्त-स्त्वद्विधो न विपद्यते।। 16।। >> यद्यधर्मो भवे.द्भूतो रावणो नरकं व्रजेत्। भवांश्च धर्मयुक्तो वै नैवं व्यसन.माप्नुयात्।। 17।। >> तस्य च व्यसनाभावाद्- व्यसनं च गते त्वयि। धर्मो भवत्यधर्मस्य परस्पर विरोधिनौ।। 18।। >> धर्मेणोपलभे.द्धर्म.-मधर्मं चाप्यधर्मतः। यद्यधर्मेण युज्येयु-रेष्वधर्मः प्रतिष्ठितः।। 19।। >> यदि धर्मेण युज्येरन् नाधर्मरुचयो जनाः। धर्मेण चरतां धर्म-स्तथा चैषां फलं भवेत् 20।। >> यस्मा.दर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः। क्लिश्यन्ते धर्मशीलाश्च तस्मा.देतौ निरर्थकौ  21।। >> वध्यन्ते पापकर्माणो यद्यधर्मेण राघव। वधकर्महतो धर्म.-स्स हतः कं वधिष्यति 22।। >> अथ वा विहितेनायं हन्यते हन्ति वा परम्। विधि.रालिप्यते तेन न स पापेन कर्मणा।। 23।। >> अदृष्ट.प्रतिकारेण त्वव्यक्तेनासता सता। कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन।। 24।। >> यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किञ्चन। त्वया यदीदृशं प्राप्तं तस्मात् तन्नोपपद्यते 25।। >> अथ वा दुर्बलः क्लीबो बलं धर्मोनुवर्तते।  दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः 26।। >> बलस्य यदि चे.द्धर्मो गुणभूतः पराक्रमे। धर्म.मुत्सृज्य वर्तस्व यथा धर्मे तथा बले 27।। >> अथ चेत् सत्यवचनं धर्मः किल परन्तप। अनृत.स्त्वय्यकरुणः किं न बद्ध.स्त्वया पिता 28।। >> यदि धर्मो भवे.द्भूतो अधर्मो वा परन्तप। न स्म हत्वा मुनिं वज्री कुर्या-दिज्यां शतक्रतुः।। 29। अधर्मसंश्रितो धर्मो विनाशयति राघव। सर्व.मेतद् यथाकामं काकुत्स्थ कुरुते नरः 30।। >> मम चेदं मतं तात धर्मोय.मिति राघव। धर्ममूलं त्वया छिन्नं राज्य.मुत्सृजता तदा 31।। >> अर्थेभ्यो हि विवृद्धेभ्य.-स्सँवृत्तेभ्य.स्ततस्ततः। क्रिया.स्सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 32।। >> अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः। व्युच्छिद्यन्ते क्रिया.स्सर्वा ग्रीष्मे कुसरितो यथा 33।। >> सोय.मर्थं परित्यज्य सुखकाम.स्सुखैधितः। पाप.मारभते कर्तुं तथा दोषः प्रवर्तते 34।। >> यस्यार्था.स्तस्य मित्राणि यस्यार्था.स्तस्य बान्धवः।  यस्यार्था.स्स पुमान् लोके यस्यार्था.स्स च पण्डितः 35।। >> यस्यार्था.स्स च विक्रान्तो यस्यार्था.स्स च बुद्धिमान्। यस्यार्था.स्स महाभागो यस्यार्था.स्स महागुणः 36।। >> अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया। राज्य.मुत्सृजता वीर येन बुद्धि.स्त्वया कृता 37।। >> यस्यार्था धर्मकामार्था-स्तस्य सर्वं प्रदक्षिणम्। अधनेनार्थकामेन नार्थ.श्शक्यो विचिन्वता 38।। >> हर्षः कामश्च दर्पश्च धर्मः क्रोध.श्शमो दमः।  अर्था.देतानि सर्वाणि प्रवर्तन्ते नराधिप 39।। >> येषां नश्य.त्ययं लोक-श्चरतां धर्मचारिणाम्। तेर्था.स्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः।। 40।। >> त्वयि प्रव्राजिते वीर- गुरोश्च वचने स्थिते। रक्षसापहृता भार्या प्राणैः प्रियतरा तव 41।। >> तदद्य विपुलं वीर दुःख.मिन्द्रजिता कृतम्। कर्मणा व्यपनेष्यामि तस्मा.दुत्तिष्ठ राघव 42।। >> उत्तिष्ठ नरशार्दूल- दीर्घबाहो दृढव्रत। कि.मात्मानं महात्मान-मात्मानं नावबुध्यसे 43।। >> अय.मनघ तवोदितः प्रियार्थं- जनकसुता.निधनं निरीक्ष्य रुष्टः। सहय.गजरथां सराक्षसेन्द्रां- भृश.मिषुभिर् विनिपातयामि लङ्काम् ।। 44।। >> श्रीमद्रामायणे युद्धकाण्डे त्र्यशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 84 इन्द्रजिन्मायाविवरणम् राम.माश्वासयाने तु लक्ष्मणे भ्रातृवत्सले। निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छ.द्विभीषणः।। 1।। >> नानाप्रहरणै.र्वीरै-श्चतुर्भि.स्सचिवै.र्वृतः। नीलाञ्जनचयाकारै-र्मातङ्गै.रिव यूथपः 2।। >> सोभिगम्य महात्मानं राघवं शोकलालसम्। वानरां.श्चैव ददृशे बाष्पपर्याकुलेक्षणान् 3।। >> राघवं च महात्मान.-मिक्ष्वाकुकुल.नन्दनम्। ददर्श मोह.मापन्नं लक्ष्मणस्याङ्क.माश्रितम् 4।। >> व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः। अन्तर्दुःखेन दीनात्मा किमेत.दिति सोब्रवीत् 5।। >> विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्। उवाच लक्ष्मणो वाक्य-मिदं बाष्पपरिप्लुतः 6।। >> हता.मिन्द्रजिता सीता.-मिह श्रुत्वैव राघवः। हनूम.द्वचनात् सौम्य ततो मोह.मुपागतः 7।। >> कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः। पुष्कलार्थ.मिदं वाक्यं विसञ्ज्ञं राम.मब्रवीत् 8।। >> मनुजेन्द्रार्तरूपेण यदुक्त.स्त्वं हनूमता। त.दयुक्त.महं मन्ये सागरस्येव शोषणम् 9।। >> अभिप्रायं तु जानामि रावणस्य दुरात्मनः। सीतां प्रति महाबाहो न च घातं करिष्यति।। 10।। >> याच्यमान.स्सुबहुशो मया हितचिकीर्षुणा। वैदेही.मुत्सृजस्वेति न च तत् कृतवान् वचः।। 11।। >> नैव साम्ना न भेदेन न दानेन कुतो युधा। सा द्रष्टु.मपि शक्येत नैव चान्येन केनचित्।। 12।। >> वानरान् मोहयित्वा तु प्रतियात.स्स राक्षसः। चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति।। 13।। >> हुतवा.नुपयातो हि देवै.रपि सवासवैः। दुराधर्षो भव.त्येष सङ्ग्रामे रावणात्मजः।। 14।। >> तेन मोहयता नून-मेषा माया प्रयोजिता। विघ्न.मन्विच्छता तात वानराणां पराक्रमे।। 15।। >> ससैन्या.स्तत्र गच्छामो यावत् तन्न समाप्यते। त्यजैनं नरशार्दूल मिथ्यासन्ताप.मागतम्।। 16।। >> सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्। इह त्वं स्वस्थहृदय.-स्तिष्ठ सत्त्व.समुच्छ्रितः।। 17।। >> लक्ष्मणं प्रेषयास्माभि.-स्सह सैन्यानुकर्षिभिः। एष तं नरशार्दूलो रावणिं निशितै.श्शरैः। त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति।। 18।। >> तस्यैते निशिता.स्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः। पतत्रिण इवासौम्या.-श्शराः पास्यन्ति शोणितम्।। 19।। >> तं सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम्। राक्षसस्य विनाशाय वज्रं वज्रधरो यथा।। 20।। >> मनुजवर न कालविप्रकर्षो- रिपुनिधनं प्रति यत् क्षमोद्य कर्तुम्। त्व.मतिसृज रिपो.र्वधाय वाणी.-मसुरपुरोन्मथने यथा महेन्द्रः।। 21।। >> समाप्तकर्मा हि स राक्षसेन्द्रो- भव.त्यदृश्य.स्समरे सुरासुरैः। युयुत्सता तेन समाप्तकर्मणा- भवेत् सुराणा मपि संशयो महान्।। 22।। >> श्रीमद्रामायणे युद्धकाण्डे चतुरशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 85 निकुम्भिलाभियानम् तस्य तद्वचनं श्रुत्वा राघव.श्शोककर्शितः। नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा।। 1।। >> ततो धैर्य.मवष्टभ्य रामः परपुरञ्जयः। विभीषण.मुपासीन-मुवाच कपिसन्निधौ 2।। >> नैरृताधिपते वाक्यं यदुक्तं ते विभीषण। भूय.स्तच्छ्रोतु.मिच्छामि ब्रूहि य.त्ते विवक्षितम् 3।। >> राघवस्य वच.श्श्रुत्वा वाक्यं वाक्यविशारदः। यत्तत् पुन.रिदं वाक्यं बभाषे स विभीषणः 4।। >> यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्। तत्तथानुष्ठितं वीर त्वद्वाक्य.समनन्तरम् 5।। >> तान्यनीकानि सर्वाणि विभक्तानि समन्ततः। विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः 6।। >> भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः। त्वय्यकारण.सन्तप्ते सन्तप्तहृदया वयम् 7।। >> त्यज राजन्निमं शोकं मिथ्यासन्ताप.मागतम्। तदियं त्यज्यतां चिन्ता शत्रुहर्ष.विवर्धनी 8।। >> उद्यमः क्रियतां वीर हर्ष.स्समुपसेव्यताम्। प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः 9।। >> रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः। साध्वयं यातु सौमित्रि-र्बलेन महता वृतः।। 10।। >> निकुम्भिलायां सम्प्राप्य हन्तुं रावणि.माहवे। धनुर्मण्डल.निर्मुक्तै-राशीविष.विषोपमैः।। 11।। >> शरै.र्हन्तुं महेष्वासो रावणिं समितिञ्जयः। तेन वीरेण तपसा वरदानात् स्वयम्भुवः।। 12।। >> अस्त्रं ब्रह्मशिरः प्राप्तं कामगा.श्चतुरङ्गमाः। स एष सहसैन्येन प्राप्तः किल निकुम्भिलाम्।। 13।। >> यद्युत्थिष्ठेत् कृतं कर्म- हतान् सर्वांश्च विद्धि नः। निकुम्भिला.मसम्प्राप्त-महुताग्निं च यो रिपुः।। 14।। >> त्वा.माततायिनं हन्या-दिन्द्रशत्रो.स्स ते वधः। वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै।। 15।। >> इत्येवं विहितो राजन् वध.स्तस्यैव धीमतः। वधायेन्द्रजितो राम सन्दिशस्व महाबलम्।। 16।। >> हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम्। विभीषणवच.श्श्रुत्वा रामो वाक्य.मथाब्रवीत्।। 17।। >> जानामि तस्य रौद्रस्य मायां सत्यपराक्रम। स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।। 18।। >> करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणा.नपि। तस्यान्तरिक्षे चरतो रथस्थस्य महायशः।। 19।। >> न गतिर् ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे। राघवस्तु रिपोर् ज्ञात्वा मायावीर्यं दुरात्मनः।। 20।। >> लक्ष्मणं कीर्तिसम्पन्न-मिदं वचन. मब्रवीत्। यद्वानरेन्द्रस्य बलं तेन सर्वेण सँवृतः 21।। >> हनूम.त्प्रमुखै.श्चैव यूथपै.स्सहलक्ष्मण। जाम्बवेनर्क्षपतिना सह सैन्येन सँवृतः 22।। >> जहि तं राक्षससुतं मायाबल.विशारदम्। अयं त्वां सचिवै.स्सार्धं महात्मा रजनीचरः 23।। >> अभिज्ञ.स्तस्य देशस्य पृष्ठतोनुगमिष्यति। राघवस्य वच.श्श्रुत्वा लक्ष्मण.स्सविभीषणः 24।। >> जग्राह कार्मुकं श्रेष्ठ-मत्यद्भुत. पराक्रमः। सन्नद्धः कवची खड्गी सशरो वामचापधृत् 25।। >> रामपादा.वुपस्पृश्य हृष्ट.स्सौमित्रि. रब्रवीत्। अद्य मत्कार्मुकोन्मुक्ता.-श्शरा निर्भिद्य रावणिम् 26।। >> लङ्का.मभिपतिष्यन्ति हंसाः पुष्करिणी.मिव। अद्यैव तस्य रौद्रस्य शरीरं मामका.श्शराः 27।। >> विधमिष्यन्ति भित्वा तं महाचाप.गुणच्युताः। स एव.मुक्त्वा द्युतिमान् वचनं भ्रातु.रग्रतः 28।। >> स रावणिवधाकाङ्क्षी लक्ष्मण.स्त्वरितो ययौ। सोभिवाद्य गुरोः पादौ- कृत्वा चापि प्रदक्षिणम्।। 29।। >> निकुम्भिला.मभिययौ चैत्यं रावणिपालितम्। विभीषणेन सहितो राजपुत्रः प्रतापवान्।। 30।। >> कृत.स्वस्त्ययनो भ्रात्रा लक्ष्मण.स्त्वरितो ययौ। वानराणां सहस्रैस्तु हनूमान् बहुभिः वृतः।। 31।। >> विभीषण.स्सहामात्य-स्तदा लक्ष्मण. मन्वगात्। महता हरिसैन्येन सवेग.मभिसँवृतः 32।। >> ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्। स गत्वा दूर मध्वानं सौमित्रि.र्मित्रनन्दनः 33।। >> राक्षसेन्द्रबलं दूरा-दपश्य.द्व्यूह.मास्थितम्। स सम्प्राप्य धनुष्पाणि-र्मायायोग. मरिन्दमः। तस्थौ ब्रह्मविधानेन- विजेतुं रघुनन्दनः 34।। >> विभीषणेन सहितो- राजपुत्रः प्रतापवान्। अङ्गदेन च वीरेण तथानिलसुतेन च।। 35। विविध.ममल.शस्त्र.भास्वरं तद्- ध्वजगहनं विपुलं महारथैश्च। प्रतिभयतम. मप्रमेयवेगं- तिमिर.मिव द्विषतां बलं विवेश।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चाशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 86 रावणिबलकथनम् अथ तस्या.मवस्थायां लक्ष्मणं रावणानुजः। परेषा.महितं वाक्य.-मर्थसाधक. मब्रवीत्।। 1।। >> य.देत.द्राक्षसानीकं मेघश्यामं विलोक्यते। एत.दायोध्यतां शीघ्रं कपिभिः पादपायुधैः।। 2।। >> अस्यानीकस्य महतो भेदने यत लक्ष्मण। राक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति।। 3।। >> स त्व.मिन्द्राशनिप्रख्यै.-श्शरै.रवकिरन् परान्। अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते।। 4।। >> जहि वीर दुरात्मानं मायापर.मधार्मिकम्। रावणिं क्रूरकर्माणं सर्वलोक.भयावहम्।। 5।। >> विभीषणवच.श्श्रुत्वा लक्ष्मण.श्शुभलक्षणः। ववर्ष शरवर्षाणि राक्षसेन्द्र.सुतं प्रति।। 6।। >> ऋक्षा.श्शाखामृगाश्चैव द्रुमाद्रिवर.योधिनः। अभ्यधावन्त सहिता-स्तदनीक.मवस्थितम् 7।। >> राक्षसाश्च शितै.र्बाणै-रसिभि.श्शक्तितोमरैः। उद्यतै.स्समवर्तन्त- कपिसैन्य.जिघांसवः 8।। >> स सम्प्रहार.स्तुमुल.-स्सञ्जज्ञे कपिरक्षसाम्। शब्देन महता लङ्कां नादयन् वै समन्ततः 9।। >> शस्त्रैश्च बहुधाकारै.-श्शितै.र्बाणैश्च पादपैः। उद्यतै.र्गिरिशृङ्गैश्च घोरै.राकाश.मावृतम्।। 10।। >> ते राक्षसा वानरेषु विकृतानन.बाहवः। निवेशयन्त.श्शस्त्राणि चक्रु.स्ते सुमह.द्भयम्।। 11।। >> तथैव सकलै.र्वृक्षैर्- गिरिशृङ्गैश्च वानराः। अभिजघ्नु.र्निजघ्नुश्च समरे राक्षसर्षभान्।। 12।। >> ऋक्षवानर.मुख्यैश्च महाकायै.र्महाबलैः। रक्षसां वध्यमानानां मह.द्भय. मजायत।। 13।। >> स्व.मनीकं विषण्णं तु श्रुत्वा शत्रुभि.रर्दितम्। उदतिष्ठत दुर्धर्ष.-स्तत्कर्म.ण्यननुष्ठिते।। 14।। >> वृक्षान्धकारा.न्निष्क्रम्य जातक्रोध.स्स रावणिः। आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः।। 15।। >> स भीम.कार्मुकधरः कालमेघ.समप्रभः। रक्तास्यनयनः क्रूरो बभौ मृत्यु.रिवान्तकः।। 16।। >> दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्। रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्।। 17।। >> तस्मिन् काले तु हनुमा.-नुद्यम्य सुदुरासदम्। धरणीधर.सङ्काशो महावृक्ष.मरिन्दमः।। 18।। >> स राक्षसानां तत्सैन्यं कालाग्नि.रिव निर्दहन्। चकार बहुभि.र्वृक्षैर्- निस्सञ्ज्ञं युधि वानरः।। 19।। >> विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्। राक्षसानां सहस्राणि हनूमन्त.मवाकिरन्।। 20।। >> शितशूलधरा.श्शूलै- रसिभि.श्चासिपाणयः। शक्तिभि.श्शक्तिहस्ताश्च- पट्टसैः पट्टसायुधाः।। 21।। >> परिघैश्च गदाभिश्च- कुन्तैश्च शुभदर्शनैः। शतशश्च शतघ्नीभि-रायसै.रपि मुद्गरैः 22।। >> घोरैः परश्वथैश्चैव भिन्दिपालैश्च राक्षसाः। मुष्टिभि.र्वज्रवेगैश्च तलै.रशनिसन्निभैः 23।। >> अभिजघ्नु.स्समासाद्य समन्ता.त्पर्वतोपमम्। तेषा.मपि च सङ्क्रुद्ध-श्चकार कदनं महत् 24।। >> स ददर्श कपिश्रेष्ठ.-मचलोपम.मिन्द्रजित्। सूदयन्त.ममित्रघ्न-ममित्रान् पवनात्मजम् 25।। >> स सारथि.मुवाचेदं याहि यत्रैष वानरः। क्षय.मेष हि नः कुर्या-द्राक्षसाना.मुपेक्षितः 26।। >> इत्युक्त.स्सारथि.स्तेन ययौ यत्र स मारुतिः। वहन् परमदुर्धर्षं स्थित.मिन्द्रजितं रथे 27।। >> सोभ्युपेत्य शरान् खड्गान् पट्टसांश्च परश्वधान्। अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः 28।। >> तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः। रोषेण महताविष्टो वाक्यं चेद.मुवाच ह 29।। >> युध्यस्व यदि शूरोसि रावणात्मज दुर्मते। वायुपुत्रं समासाद्य जीव.न्न प्रतियास्यसि 30।। >> बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्व.माहवे। वेगं सहस्व दुर्बुद्धे तत.स्त्वं रक्षसां वरः 31।। >> हनूमन्तं जिघांसन्तं समुद्यत.शरासनम्। रावणात्मज.माचष्टे लक्ष्मणाय विभीषणः 32।। >> यस्तु वासवनिर्जेता रावणस्यात्मसम्भवः। स एष रथ.मास्थाय हनूमन्तं जिघांसति 33।। >> त.मप्रतिम.संस्थानै.-श्शरै.श्शत्रुविदारणैः। जीवितान्तकरै.र्घोरै.-स्सौमित्रे रावणिं जहि 34।। >> इत्येव.मुक्तस्तु तदा महात्मा- विभीषणेनारिविभीषणेन। ददर्श तं पर्वतसन्निकाशं- रथस्थितं भीमबलं दुरासदम्।। 35।। >> श्रीमद्रामायणे युद्धकाण्डे षडशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 87 विभीषणरावणिपरस्परनिन्दा एव.मुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः। धनुष्पाणिन.मादाय त्वरमाणो जगाम ह।। 1।। >> अविदूरं ततो गत्वा प्रविश्य च मह.द्वनम्। दर्शयामास तत् कर्म लक्ष्मणाय विभीषणः।। 2। नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्। तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।। 3।। >> इहोपहारं भूतानां बलवान् रावणात्मजः। उपहृत्य ततः पश्चात् सङ्ग्राम.मभिवर्तते।। 4।। >> अदृश्य.स्सर्वभूतानां ततो भवति राक्षसः। निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः।। 5।। >> त.मप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्। विध्वंसय शरै.स्तीक्ष्णै.-स्सरथं साश्वसारथिम्।। 6।। >> तथेत्युक्त्वा महातेजा.-स्सौमित्रि. र्मित्रनन्दनः। बभूवावस्थित.स्तत्र चित्रं विस्फारयन् धनुः।। 7।। >> स रथेनाग्निवर्णेन बलवान् रावणात्मजः। इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत।। 8।। >> त.मुवाच महातेजाः पौलस्त्य.मपराजितम्। स.माह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे।। 9।। >> एव.मुक्तो महातेजा मनस्वी रावणात्मजः। अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्।। 10।। >> इह त्वं जातसँवृद्ध.-स्साक्षा.द्भ्राता पितु.र्मम। कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस।। 11।। >> न ज्ञातित्वं न सौहार्दं न जाति.स्तव दुर्मते। प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण।। 12।। >> शोच्य.स्त्व.मसि दुर्बुद्धे निन्दनीयश्च साधुभिः। य.स्त्वं स्वजन.मुत्सृज्य परभृत्यत्व.मागतः।। 13।। >> नैत.च्छिथिलया बुद्ध्या त्वं वेत्सि मह.दन्तरम्। क्व च स्वजनसँवासः क्व च नीचपराश्रयः।। 14।। >> गुणवान् वा परजन.-स्स्वजनो निर्गुणोपि वा। निर्गुण.स्स्वजन.श्श्रेयान् यः परः पर एव सः।। 15।। >> य.स्स्वपक्षं परित्यज्य परपक्षं निषेवते। स स्वपक्षे क्षयं प्राप्ते पश्चात् तैरेव हन्यते।। 16।। >> निरनुक्रोशता चेयं यादृशी ते निशाचर। स्वजनेन त्वया शक्यं परुषं रावणानुज।। 17।। >> इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः। अजान.न्निव मच्छीलं किं राक्षस विकत्थसे।। 18।। >> राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्। कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।। 19।। >> गुणोयं प्रथमो नॄणां तन्मे शील.मराक्षसम्। न रमे दारुणेनाहं न चाधर्मेण वै रमे 20।। >> भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते। धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् 21।। >> त्यक्त्वा सुख.मवाप्नोति हस्ता.दाशीविषं यथा। हिंसा.परस्व.हरणे परदाराभिमर्शनम्।। 22।। >> त्याज्य.माहु.र्दुराचारं वेश्म प्रज्वलितं यथा।  परस्वानां च हरणं परदाराभिमर्शनम्।। 23।। >> सुहृदा.मतिशङ्का च त्रयो दोषाः क्षयावहाः।  महर्षीणां वधो घोर.-स्सर्वदेवैश्च विग्रहः।। 24।। >> अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता।  एते दोषा मम भ्रातु-र्जीवितैश्वर्य.नाशनाः।। 25।। >> गुणान् प्रच्छादयामासुः पर्वता.निव तोयदाः। दोषै.रेतैः परित्यक्तो मया भ्राता पिता तव।। 26।। >> नेय.मस्ति पुरी लङ्का न च त्वं न च ते पिता। अतिमानी च बालश्च दुर्विनीतश्च राक्षस।। 27।। >> बद्ध.स्त्वं कालपाशेन ब्रूहि मां यद्य.दिच्छसि। अद्य ते व्यसनं प्राप्तं किं मां त्व.मिह वक्ष्यसि 28।। >> प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम। धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया 29।। >> युध्यस्व नरदेवेन लक्ष्मणेन रणे सह। हत.स्त्वं देवताकार्यं करिष्यसि यमक्षये।। 30।। >> निदर्शयस्वात्मबलं समुद्यतं- कुरुष्व सर्वायुध.सायक.व्ययम्। न लक्ष्मणस्यैत्य हि बाणगोचरं- त्व.मद्य जीवन् सबलो गमिष्यसि।। 31।। >> श्रीमद्रामायणे युद्धकाण्डे सप्ताशीतितम.स्सर्गः। • युद्धकाण्डे सर्गः 88 सौमित्रिरावणियुद्धम् विभीषणवच.श्श्रुत्वा रावणिः क्रोधमूर्छितः। अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह।। 1।। >> उद्यतायुध.निस्त्रिंशो रथे तु समलङ्कृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः 2।। >> महाप्रमाण.मुद्यम्य विपुलं वेगव.द्दृढम्। धनु.र्भीमं परामृश्य शरां.श्चामित्रशातनान् 3।। >> तं ददर्श महेष्वासो रथे सुसमलङ्कृतः। अलङ्कृत.ममित्रघ्नं राघवस्यानुजं बली 4।। >> हनुमत्पृष्ठ.मासीन-मुदयस्थ.रविप्रभम्। उवाचैनं समारब्ध.-स्सौमित्रिं सविभीषणम् 5।। >> तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् 6।। >> मुक्तं वर्ष.मिवाकाशे वारयिष्यथ सँयुगे। अद्य वो मामका बाणा महाकार्मुक.निस्सृताः 7।। >> विधमिष्यन्ति गात्राणि तूलराशि.मिवानलः। तीक्ष्णसायक.निर्भिन्ना-न्छूल.शक्त्यृष्टितोमरैः 8।। >> अद्य वो गमयिष्यामि सर्वा.नेव यमक्षयम्। क्षिपत.श्शरवर्षाणि क्षिप्रहस्तस्य मे युधि 9।। >> जीमूतस्येव नदतः क.स्स्थास्यति ममाग्रतः। रात्रियुद्धे मया पूर्वं वज्राशनिसमै.श्शरैः।। 10।। >> शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरस्सरौ। स्मृति.र्न तेस्ति वा मन्ये व्यक्तं वा यमसादनम्।। 11।। >> आशीविष.मिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः। तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मण.स्तदा।। 12।। >> अभीतवदनः क्रुद्धो रावणिं वाक्य.मब्रवीत्। उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।। 13।। >> कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्। स त्व.मर्थस्य हीनार्थो दुरवापस्य केनचित्।। 14।। >> वचो व्याहृत्य जानीषे कृतार्थोस्मीति दुर्मते। अन्तर्धान.गतेनाजौ य.स्त्वयाचरित.स्तदा।। 15।। >> तस्कराचरितो मार्गो नैष वीरनिषेवितः। यथा बाणपथं प्राप्य स्थितोहं तव राक्षस।। 16।। >> दर्शयस्वाद्य त.त्तेजो वाचा त्वं किं विकत्थसे। एव.मुक्तो धनु.र्भीमं परामृश्य महाबलः।। 17।। >> ससर्जे निशितान् बाणा.-निन्द्रजित् समितिञ्जयः। ते निसृष्टा महावेगा.-श्शरा.स्सर्पविषोपमाः।। 18।। >> सम्प्राप्य लक्ष्मणं पेतु.-श्श्वसन्त इव पन्नगाः। शरै.रतिमहावेगैर् वेगवान् रावणात्मजः।। 19।। >> सौमित्रि.मिन्द्रजि.द्युद्धे विव्याध शुभलक्षणम्। स शरै.रतिविद्धाङ्गो रुधिरेण समुक्षितः 20।। >> शुशुभे लक्ष्मण.श्श्रीमान् विधूम इव पावकः। इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च।। 21।। >> विनद्य सुमहानाद.-मिदं वचन.मब्रवीत्। पत्रिण.श्शितधारा.स्ते शरा मत्कार्मुक.च्युताः 22।। >> आदास्यन्तेद्य सौमित्रे जीवितं जीवितान्तगाः। अद्य गोमायु.सङ्घाश्च श्येन.सङ्घाश्च लक्ष्मण 23।। >> गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया। अद्य यास्यन्ति सौमित्रे कर्णगोचरतां तव 24।। >> तर्जनं यमदूतानां सर्वभूत.भयावहम्। क्षत्रबन्धु.स्सदानार्यो रामः परमदुर्मतिः।। 25।। >> भक्तं भ्रातर.मद्यैव त्वां द्रक्ष्यति मया हतम्। विशस्तकवचं भूमौ व्यपविद्ध.शरासनम् 26।। >> हृतोत्तमाङ्गं सौमित्रे त्वा.मद्य निहतं मया। इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् 27।। >> हेतुम.द्वाक्य. मत्यर्थं लक्ष्मणः प्रत्युवाच ह। वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस 28।। >> अथ कस्मा.द्वदस्येतत् सम्पादय सुकर्मणा। अकृत्वा कत्थसे कर्म किमर्थ.मिह राक्षस 29। कुरु तत् कर्म येनाहं श्रद्दध्यां तव कत्थनम्। अनुक्त्वा परुषं वाक्यं किञ्चि.दप्यनवक्षिपन् 30।। >> अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम। इत्युक्त्वा पञ्च नाराचा-नाकर्णापूरितान्छरान्।। 31।। >> निजघान महावेगान् लक्ष्मणो राक्षसोरसि। सुपत्रवाजिता बाणा- ज्वलिता इव पन्नगाः 32।। >> नैरृतोरस्यभासन्त सवितू. रश्मयो यथा। स शरै.राहत.स्तेन सरोषो रावणात्मजः।। 33।। >> सुप्रयुक्तै.स्त्रिभि.र्बाणैः प्रतिविव्याध लक्ष्मणम्। स बभूव महाभीमो नर.राक्षससिंहयोः 34।। >> विमर्द.स्तुमुलो युद्धे परस्पर.जयैषिणोः। उभौ हि बलसम्पन्ना-वुभौ विक्रमशालिनौ 35।। >> उभा.वपि सुविक्रान्तौ सर्वशस्त्रास्त्र.कोविदौ। उभौ परम.दुर्जेया-वतुल्य.बलतेजसौ 36।। >> युयुधाते महावीरौ ग्रहाविव नभोगतौ। बलवृत्रा.विवाभीतौ युधि तौ दुष्प्रधर्षणौ।। 37।। >> युयुधाते महात्मानौ तदा केसरिणा.विव। बहू.नवसृजन्तौ हि मार्गणौघा.नवस्थितौ। नर.राक्षससिंहौ तौ प्रहृष्टा.वभ्ययुध्यताम् 38।। >> सुसम्प्रहृष्टौ नरराक्षसोत्तमौ- जयैषिणौ मार्गणचाप.धारिणौ। परस्परं तौ प्रववर्षतु.र्भृशं- शरौघवर्षेण बलाहका.विव।। 39।। >> अभिप्रवृद्धौ युधि युद्धकोविदौ- शरासिचण्डौ शितशस्त्र.धारिणौ। अभीक्ष्ण.माविव्यधतु.र्महाबलौ- महाहवे शम्बरवासवा.विव।। 40। श्रीमद्रामायणे युद्धकाण्डे अष्टाशीतितमस्सर्गः। • युद्धकाण्डे सर्गः 89 सौमित्रिसन्धुक्षणम् तत.श्शरं दाशरथि.-स्सन्धायामित्रकर्शनः। ससर्ज राक्षसेन्द्राय क्रुद्ध.स्सर्प इव श्वसन्।। 1।। >> तस्य ज्यातल.निर्घोषं सश्रुत्वा रावणात्मजः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत।। 2।। >> तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः।। 3।। >> निमित्ता.न्यनुपश्यामि यान्यस्मिन् रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः 4।। >> तत.स्सन्धाय सौमित्रि.-श्शरा.नग्निशिखोपमान्। मुमोच निशितां.स्तस्मै सर्पा.निव विषोल्बणान् 5।। >> शक्राशनि.समस्पर्शैर्- लक्ष्मणेनाहत.श्शरैः। मुहूर्त.मभव.न्मूढ.-स्सर्वसङ्क्षुभितेन्द्रियः 6।। >> उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः। ददर्शावस्थितं वीरं वीरो दशरथात्मजम् 7।। >> सोभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः। अब्रवी.च्चैन.मासाद्य पुन.स्स परुषं वचः 8।। >> किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्। निबद्ध.स्त्वं सह भ्रात्रा यदा भुवि विचेष्टसे।। 9।। >> युवां खलु महायुद्धे शक्राशनिसमै.श्शरैः। शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ।। 10।। >> स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तु.मिच्छसि यस्मा.त्त्वं मां धर्षयितु.मिच्छसि।। 11।। >> यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः।। 12।। >> इत्युक्त्वा सप्तभि.र्बाणै-रभिविव्याध लक्ष्मणम्। दशभिश्च हनूमन्तं तीक्ष्णधारै.श्शरोत्तमैः।। 13।। >> तत.श्शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधा.द्द्विगुणसंरब्धो निर्बिभेद विभीषणम्।। 14।। >> तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुज.स्तदा। अचिन्तयित्वा प्रहसन् नैतत् किञ्चि.दिति ब्रुवन्।। 15।। >> मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि।। 16।। >> नैवं रणगता.श्शूराः प्रहरन्ति निशाचर। लघव.श्चाल्पवीर्याश्च सुखा हीमे शरा.स्तव।। 17।। >> नैवं शूरा.स्तु युध्यन्ते समरे जयकाङ्क्षिणः। इत्येवं तं ब्रुवाणस्तु शरवर्षै.रवाकिरत्।। 18।। >> तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम्। व्यशीर्यत रथोपस्थे ताराजाल.मिवाम्बरात्।। 19।। >> विधूतवर्मा नाराचैर्- बभूव स कृतव्रणः। इन्द्रजित् समरे शूरः- प्रत्यूषे भानुमा.निव 20।। >> तत.श्शरसहस्रेण सङ्क्रुद्धो रावणात्मजः। बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः 21।। >> व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च। कृतप्रतिकृतान्योन्यं बभूवतु.रभिद्रुतौ 22।। >> अभीक्ष्णं निश्वसन्तौ तौ युध्येतां तुमुलं युधि। शरसङ्कृत्त.सर्वाङ्गौ सर्वतो रुधिरोक्षितौ 23।। >> सुदीर्घकालं तौ वीरा-वन्योन्यं निशितै.श्शरैः। ततक्षतु र्महात्मानौ रणकर्म.विशारदौ 24।। >> बभूवतु.श्चात्मजये यत्तौ भीमपराक्रमौ। तौ शरौघै.स्तदा कीर्णौ निकृत्त.कवचध्वजौ।। 25।। >> स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणा.निव। शरवर्षं ततो घोरं मुञ्चतो.र्भीमनिस्स्वनम्।। 26।। >> सासारयो.रिवाकाशे नीलयोः कालमेघयोः। तयो.रथ महान् कालो व्यत्यया.द्युध्यमानयोः 27।। >> न च तौ युद्ध.वैमुख्यं श्रमं वाप्युपजग्मतुः। अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः 28।। >> शरा.नुच्चावचाकारा-नन्तरिक्षे बबन्धतुः। व्यपेतदोष.मस्यन्तौ लघुचित्रं च सुष्ठु च।। 29।। >> उभौ तौ तुमुलं घोरं चक्रतु.र्नरराक्षसौ। तयोः पृथक्पृथग्. भीम.-श्शुश्रुवे तुमुलस्वनः 30।। >> प्रकम्पयन् वनं घोरो निर्घात इव दारुणः। स तयो.र्भ्राजते शब्द-स्तदा समरसक्तयोः 31।। >> ?सुघोरयो.र्निष्टनतोर्- गगने मेघयो. र्यथा। सुवर्णपुङ्खैर् नाराचैर्-बलवन्तौ कृतव्रणौ 32।। >> प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ। ते गात्रयो.र्निपतिता- रुक्मपुङ्खा.श्शरा युधि 33। असृङ्नद्धा विनिष्पत्य विविशु.र्धरणीतलम्। अन्ये सुनिशितै.श्शस्त्रै-राकाशे सञ्जघट्टिरे 34।। >> बभञ्जु.श्चिच्छिदु.श्चापि तयो.र्बाणा.स्सहस्रशः। स बभूव रणे घोर-स्तयो.र्बाणमय.श्चयः 35।। >> अग्निभ्या.मिव दीप्ताभ्यां सत्रे कुशमय.श्चयः। तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।। 36।। >> सपुष्पा.विव निष्पत्रौ वने शाल्मलि.किंशुकौ। चक्रतु.स्तुमुलं घोरं सन्निपातं मुहुर्मुहुः 37।। >> इन्द्रजि.ल्लक्ष्मण.श्चैव परस्पर.जयैषिणौ। लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् 38।। >> अन्योन्यं ता.वभिघ्नन्तौ न श्रमं प्रत्यपद्यताम्। बाणजालै.श्शरीरस्थै.- रवगाढै.स्तरस्विनौ।। 39।। >> शुशुभाते महावीर्यौ प्ररूढा.विव पर्वतौ। तयो. रुधिरसिक्तानि सँवृतानि शरै.र्भृशम् 40।। >> बभ्राजु.स्सर्वगात्राणि ज्वलन्त इव पावकाः। तयो.रथ महान् कालो व्यत्यया.द्युध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः 41।। >> अथ समरपरिश्रमं निहन्तुं- समरमुखे.ष्वजितस्य लक्ष्मणस्य। प्रियहित.मुपपादयन् महौजा.-स्समर. मुपेत्य विभीषणोवतस्थे।। 42।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन.नवतितम.स्सर्गः। • युद्धकाण्डे सर्गः 90 सौमित्रिरावणियुद्धम् युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्ना.विव मातङ्गौ परस्पर.वधैषिणौ।। 1।। >> तौ द्रष्टुकाम.स्सङ्ग्रामे परस्परगतौ बली। शूर.स्स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि।। 2। ततो विस्फारयामास मह.द्धनु.रवस्थितः। उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् 3।। >> ते शरा.श्शिखिसङ्काशा निपतन्त.स्समाहिताः। राक्षसान् दारयामासुर्- वज्राणीव महागिरीन् 4।। >> विभीषणस्यानुचरा-स्तेपि शूलासिपट्टसैः। चिच्छेदु.स्समरे वीरान् राक्षसान् राक्षसोत्तमाः 5।। >> राक्षसै.स्तैः परिवृत.-स्स तदा तु विभीषणः। बभौ मध्ये प्रहृष्टानां कलभाना.मिव द्विपः 6।। >> तत.स्सञ्चोदयानो वै हरीन् रक्षोरणप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः।। 7।। >> एकोयं राक्षसेन्द्रस्य परायण.मिव स्थितः। एत.च्छेषं बलं तस्य किं तिष्ठत हरीश्वराः 8।। >> अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेष.मस्य बलं हतम् 9।। >> प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः।। 10।। >> जम्बुमाली महामाली तीक्ष्णवेगाशनिप्रभः। सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः।। 11।। >> संह्रादी विकटोरिघ्न-स्तपनो दम एव च। प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च।। 12।। >> अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः।। 13।। >> अकम्पन.स्सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पन.स्सत्त्ववन्तौ तौ देवान्तक.नरान्तकौ।। 14।। >> एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्। बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु।। 15।। >> एताव.देव शेषं वो जेतव्य.मिह वानराः। हता.स्सर्वे समागम्य राक्षसा बलदर्पिताः।। 16।। >> अयुक्तं निधनं कर्तुं पुत्रस्य जनितु.र्मम। घृणा.मपास्य रामार्थे निहन्यां भ्रातु.रात्मजम्।। 17।। >> हन्तुकामस्य मे बाष्पं चक्षु.श्चैव निरुध्यति। तमेवैष महाबाहु-र्लक्ष्मण.श्शमयिष्यति।। 18।। >> वानरा घ्नत सम्भूय भृत्या.नस्य समीपगान्। इति तेनातियशसा राक्षसेनाभिचोदिताः।। 19।। >> वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः। तत.स्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहु.र्मुहुः 20।। >> मुमुचु.र्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः। जाम्बवा.नपि तै.स्सर्वै.-स्स्वयूथै.रभिसँवृतः 21।। >> अश्मभि.स्ताडयामास नखै.र्दन्तैश्च राक्षसान्। निघ्नन्त.मृक्षाधिपतिं राक्षसा.स्ते महाबलाः।। 22।। >> परिवव्रु.र्भयं त्यक्त्वा त.मनेकविधायुधाः। शरैः परशुभि.स्तीक्ष्णैः पट्टसैर् यष्टितोमरैः।। 23।। >> जाम्बवन्तं मृधे जघ्नुर्-निघ्नन्तं राक्षसीं चमूम्। स सम्प्रहार.स्तुमुल.-स्सञ्जज्ञे कपिरक्षसाम्।। 24।। >> देवासुराणां क्रुद्धानां यथा भीमो महास्वनः। हनूमा.नपि सङ्क्रुद्ध.-स्साल.मुत्पाट्य वीर्यवान्।। 25।। >> रक्षसां कदनं चक्रे समासाद्य सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजि.द्युधि 26।। >> लक्ष्मणं परवीरघ्नं पुन.रेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।। 27।। >> शरौघा.नभिवर्षन्तौ जघ्नतु.स्तौ परस्परम्। अभीक्ष्ण.मन्तर्दधतु.-श्शरजालै.र्महाबलौ।। 28।। >> चन्द्रादित्या.विवोष्णान्ते यथा मेघै.स्तरस्विनौ। न ह्यादानं न सन्धानं धनुषो वा परिग्रहः।। 29।। >> न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः। न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।। 30।। >> अदृश्यत तयो.स्तत्र युध्यतोः पाणिलाघवात्। चापवेग.विनिर्मुक्त-बाणजालै.स्समन्ततः।। 31।। >> अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे। लक्ष्मणो रावणिं प्राप्य रावणि.श्चापि लक्ष्मणम्।। 32।। >> अव्यवस्था भव.त्युग्रा ताभ्या.मन्योन्य.विग्रहे। ताभ्या.मुभाभ्यां तरसा विसृष्टै.र्विशिखै.श्शितैः।। 33।। >> निरन्तर.मिवाकाशं बभूव तमसावृतम्। तैः पतद्भिश्च बहुभि.-स्तयो.श्शरशतै.श्शितैः।। 34।। >> दिशश्च प्रदिशश्चैव बभूवु.श्शरसङ्कुलाः। तमसा संहृतं सर्व.-मासी.द्भीमतरं महत्।। 35।। >> अस्तं गते सहस्रांशौ सँवृतं तमसेव हि। रुधिरौघ.महानद्यः प्रावर्तन्त सहस्रशः 36।। >> क्रव्यादा दारुणा वाग्भि-श्चिक्षिपु.र्भीम निस्वनम्। न तदानीं ववौ वायु-र्न जज्वाल च पावकः 37।। >> स्वस्त्यस्तु लोकेभ्य इति- जजल्पुश्च महर्षयः। सम्पेतु.श्चात्र सम्प्राप्ता गन्धर्वा.स्सह चारणैः 38।। >> अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्। शरै.श्चतुर्भि.स्सौमित्रिर्- विव्याध चतुरो हयान् 39।। >> ततोपरेण भल्लेन शितेन निशितेन च। सम्पूर्णायत.मुक्तेन सुपत्रेण सुवर्चसा।। 40।। >> महेन्द्राशनि.कल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना।। 41।। >> लाघवा.द्राघव.श्श्रीमान् शिरः काया.दपाहरत्। स यन्तरि महातेजा हते मन्दोदरी.सुतः।। 42।। >> स्वयं सारथ्य.मकरोत्- पुनश्च धनु.रस्पृशत्। तदद्भुत. मभू. त्तत्र सामर्थ्यं पश्यतां युधि।। 43।। >> हयेषु व्यग्रहस्तं तं विव्याध निशितै.श्शरैः। धनुष्यथ पुन.र्व्यग्रे हयेषु मुमुचे शरान्।। 44।। >> छिद्रेषु तेषु बाणेषु सौमित्रि.श्शीघ्रविक्रमः। अर्दयामास बाणौघैर्-विचरन्त.मभीतवत् 45।। >> निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजहौ समरोद्धर्षं विषण्ण.स्स बभूव ह।। 46।। >> विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टो- लक्ष्मणं चाभ्यपूजयन्।। 47।। >> ततः प्रमाथी शरभो- रभसो गन्धमादनः। अमृष्यमाणा.श्चत्वार-श्चक्रु.र्वेगं हरीश्वराः 48।। >> ते चास्य हयमुख्येषु तूर्ण.मुत्पत्य वानराः। चतुर्षु सुमहावीर्या- निपेतु. र्भीमविक्रमाः 49।। >> तेषा.मधिष्ठितानां तैर्- वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत।। 50।। >> ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयां.स्तस्य प्रमथ्य च महारथम्। पुन.रुत्पत्य वेगेन तस्थु.र्लक्ष्मणपार्श्वतः 51।। >> स हताश्वा.दवप्लुत्य रथा.न्मथितसारथेः। शरवर्षेण सौमित्रि-मभ्यधावत रावणिः 52।। >> ततो महेन्द्रप्रतिम.स्स लक्ष्मणः- पदातिनं तं निशितै.श्शरोत्तमैः। सृजन्त.माजौ निशिता.न्छरोत्तमान्- भृशं तदा बाणगणै.र्न्यवारयत्।। 53।। >> श्रीमद्रामायणे युद्धकाण्डे नवतितमस्सर्गः। • युद्धकाण्डे सर्गः 91 रावणिवधः स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः। इन्द्रजित् परमक्रुद्ध.-स्सम्प्रजज्वाल तेजसा।। 1।। >> तौ धन्विनौ जिघांसन्ता-वन्योन्य.मिषुभि.र्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषा.विव।। 2।। >> निबर्हयन्त.श्चान्योन्यं ते राक्षस.वनौकसः। भर्तारं न जहु-र्युद्धे सम्पतन्त.स्तत.स्ततः 3।। >> तत.स्तान् राक्षसान् सर्वान्- हर्षयन् रावणात्मजः। स्तुवानो हर्षमाणश्च- इदं वचन.मब्रवीत् 4।। >> तमसा बहुलेनेमा-स्संसक्ता.स्सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः 5।। >> धृष्टं भवन्तो युद्ध्यन्तु हरीणां मोहनाय वै। अहं तु रथ.मास्थाय आगमिष्यामि सँयुगम्।। 6।। >> तथा भवन्तः कुर्वन्तु यथेमे काननौकसः। न युद्ध्येयु.र्दुरात्मानः प्रविष्टे नगरं मयि।। 7।। >> इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्कां रथहेतो. रमित्रहा।। 8।। >> स रथं भूषयित्वा तु रुचिरं हेमभूषितम्। प्रासासि.शर.सम्पूर्णं युक्तं परमवाजिभिः 9।। >> अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणि.स्समितिञ्जयः।। 10।। >> स राक्षस.गणै.र्मुख्यै-र्वृतो मन्दोदरी.सुतः। निर्ययौ नगरा.त्तूर्णं कृतान्त.बलचोदितः।। 11।। >> सोभिनिष्क्रम्य नगरा-दिन्द्रजित् परवीरहा। अभ्यया.ज्जवनै.रश्वैर्- लक्ष्मणं सविभीषणम्।। 12।। >> ततो रथस्थ.मालोक्य सौमित्री. रावणात्मजम्। वानराश्च महावीर्या.- रक्षसश्च विभीषणः।। 13।। >> विस्मयं परमं जग्मुर्- लाघवा.त्तस्य धीमतः। रावणि.श्चापि सङ्क्रुद्धो रणे वानरयूथपान्।। 14।। >> पातयामास बाणौघै-श्शतशोथ सहस्रशः। स मण्डलीकृत.धनू.-रावणि.स्समितिञ्जयः।। 15।। >> हरी.नभ्यहन.त्क्रुद्धः परं लाघव.मास्थितः। ते वध्यमाना हरयो- नाराचै. र्भीमविक्रमाः।। 16।। >> सौमित्रिं शरणं प्राप्ताः- प्रजापति.मिव प्रजाः। तत.स्समरकोपेन ज्वलितो रघुनन्दनः।। 17।। >> चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम्। सोन्यत् कार्मुक.मादाय सज्यं चक्रे त्वर.न्निव।। 18।। >> तदप्यस्य त्रिभि.र्बाणैर्-लक्ष्मणो निरकृन्तत। अथैनं छिन्न.धन्वान.-माशीविष.विषोपमैः।। 19।। >> विव्याधोरसि सौमित्री.- रावणिं पञ्चभि.श्शरैः। ते तस्य कायं निर्भिद्य महाकार्मुक.निस्सृताः।। 20।। >> निपेतु.र्धरणीं बाणा.- रक्ता इव महोरगाः। स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः।। 21।। >> जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम्। स लक्ष्मणं समुद्दिश्य परं लाघव.मास्थितः।। 22।। >> ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः। मुक्त.मिन्द्रजिता तत्तु शरवर्ष.मरिन्दमः।। 23।। >> अवारय.दसम्भ्रान्तो लक्ष्मण.स्सुदुरासदम्। दर्शयामास च तदा रावणिं रघुनन्दनः 24।। >> असम्भ्रान्तो महातेजा-स्त.दद्भुत. मिवाभवत्। तत.स्तान् राक्षसान् सर्वां.-स्त्रिभि.रेकैक.माहवे 25।। >> अविध्य.त्परमक्रुद्ध-श्शीघ्रास्त्रं सम्प्रदर्शयन्। राक्षसेन्द्रसुतं चापि बाणौघै.स्समताडयत्।। 26।। >> सोतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणाय बहून्छरान् 27।। >> तानप्राप्ता.न्छितै. र्बाणै-श्चिच्छेद रघुनन्दनः। सारथे.रस्य च रणे रथिनो रथिसत्तमः 28।। >> शिरो जहार धर्मात्मा भल्लेनानत.पर्वणा। असूता.स्ते हया-स्तत्र रथ.मूहु.रविक्लवाः।। 29।। >> मण्डला.न्यभिधावन्त-स्त.दद्भुत. मिवाभवत्। अमर्षवश.मापन्न-स्सौमित्रि. र्धृढविक्रमः 30।। >> प्रत्यविध्य.द्धयां.स्तस्य शरै.र्वित्रासयन् रणे। अमृष्यमाण.स्तत्कर्म- रावणस्य सुतो बली।। 31।। >> विव्याध दशभि. र्बाणै-स्सौमित्रिं त.ममर्षणम्। ते तस्य वज्रप्रतिमा-श्शरा.स्सर्पविषोपमाः।। 32।। >> विलयं जग्मु. राहत्य कवचं काञ्चनप्रभम्। अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः।। 33।। >> ललाटे लक्ष्मणं बाणै.-स्सुपुङ्खै.स्त्रिभि.रिन्द्रजित्। अविध्यत् परमक्रुद्ध.-श्शीघ्रास्त्रं च प्रदर्शयन्।। 34।। >> तैः पृषत्कै.र्ललाटस्थै.-श्शुशुभे रघुनन्दनः। रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः 35।। >> स तथाप्यर्दितो बाणै.- राक्षसेन महामृधे। त.माशु प्रतिविव्याध लक्ष्मणः पञ्चभि.श्शरैः 36।। >> विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले। लक्ष्मणेन्द्रजितौ वीरौ महाबल.शरासनौ 37।। >> अन्योन्यं जघ्नतु.र्बाणैर्- विशिखै. र्भीमविक्रमौ। तत.श्शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजिता.वुभौ 38।। >> रणे तौ रेजतु.र्वीरौ पुष्पिता.विव किंशुकौ। तौ परस्पर.मभ्येत्य सर्वगात्रेषु धन्विनौ 39।। >> घोरै.र्विव्यधतु.र्बाणैः- कृतभावा.वुभौ जये। तत.स्समरकोपेन सँयुक्तो रावणात्मजः।। 40।। >> विभीषणं त्रिभि.र्बाणैर्- विव्याध वदने शुभे। अयोमुखै.स्त्रिभि.र्विद्ध्वा- राक्षसेन्द्रं विभीषणं 41।। >> एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान्। तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।। 42।। >> विभीषणो महातेजा रावणे.स्स दुरात्मनः। स हताश्वा.दवप्लुत्य रथा.न्निहतसारथेः।। 43।। >> अथ शक्तिं महातेजाः- पितृव्याय मुमोच ह। ता.मापतन्तीं सम्प्रेक्ष्य सुमित्रानन्द.वर्धनः 44।। >> चिच्छेद निशितै.र्बाणैर्- दशधा सापतद् भुवि। तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः 45।। >> वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्। ते तस्य कायं निर्भिद्य- रुक्मपुङ्खा निमित्तगाः 46।। >> बभूवु.र्लोहिता दिग्धा रक्ता इव महोरगाः। स पितृव्याय सङ्क्रुद्ध- इन्द्रजि.च्छर.माददे 47।। >> उत्तमं रक्षसां मध्ये यमदत्तं महाबलः। तं समीक्ष्य महातेजा महेषुं तेन संहितम्।। 48।। >> लक्ष्मणोप्याददे बाण-मन्यं भीमपराक्रमः। कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना।। 49।। >> दुर्जयं दुर्विषह्यं च सेन्द्रै.रपि सुरासुरैः। तयोस्ते धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।। 50।। >> विकृष्यमाणौ वीराभ्यां भृशं जज्वलतु.श्श्रिया। तौ भासयन्ता.वाकाशं धनुर्भ्यां विशिखौ च्युतौ।। 51।। >> मुखेन मुख.माहत्य सन्निपेततु.रोजसा। सन्निपात.स्तयो. रासी-च्छरयो.र्घोररूपयोः 52।। >> सधूम.विस्फुलिङ्गश्च- तज्जोग्नि.र्दारुणोभवत्। तौ महाग्रहसङ्काशा-वन्योन्यं सन्निपत्य च 53।। >> सङ्ग्रामे शतधा यातौ- मेदिन्यां विनिपेततुः। शरौ प्रतिहतौ दृष्ट्वा ता.वुभौ रणमूर्धनि।। 54।। >> व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा। सुसंरब्धस्तु सौमित्रि-रस्त्रं वारुण.माददे 55।। >> रौद्रं महेन्द्रजि.द्युद्धे व्यसृज.द्युधि निष्ठितः। तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम्।। 56।। >> ततः क्रुद्धो महातेजा- इन्द्रजित् समितिञ्जयः। आग्नेयं सन्दधे दीप्तं- सलोकं सङ्क्षिप.न्निव 57।। >> सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत्। अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्छितः 58।। >> आसुरं शत्रुनाशाय घोर.मस्त्रं स.माददे। तस्मा.च्चापा. द्विनिष्पेतुर्-भास्वराः कूटमुद्गराः।। 59।। >> शूलानि च भुशुन्ड्यश्च- गदाः खड्गाः परश्वथाः। तद्दृष्ट्वा लक्ष्मण.स्सङ्ख्ये घोर.मस्त्र.मथासुरम्।। 60।। >> अवार्यं सर्वभूतानां सर्वशत्रु.विनाशनम्। माहेश्वरेण द्युतिमां-स्त.दस्त्रं प्रत्यवारयत् 61।। >> तयो.स्सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम्। गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्।। 62।। >> भैरवाभिरुते भीमे युद्धे वानररक्षसाम्। भूतै.र्बहुभि.राकाशं- विस्मितै.रावृतं बभौ 63।। >> ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षु.र्लक्ष्मणं रणे 64।। >> अथान्यं मार्गणश्रेष्ठं सन्दधे रावणानुजः। हुताशन.समस्पर्शं रावणात्मज.दारुणम् 65।। >> सुपत्र.मनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्। सुवर्णविकृतं वीर.-श्शरीरान्तकरं शरम्।। 66।। >> दुरावारं दुर्विषह्यं राक्षसानां भयावहम्। आशीविष.विषप्रख्यं देवसङ्घै.स्समर्चितम् 67।। >> येन शक्रो महातेजा दानवा.नजयत् प्रभुः। पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः।। 69।। >> तदैन्द्र.मस्त्रं सौमित्रि.-स्सँयुगे.ष्वपराजितम्। शरश्रेष्ठं धनु.श्श्रेष्ठे नरश्रेष्ठोभिसन्दधे।। 70। सन्धायामित्रदलनं विचकर्ष शरासनम्। सज्य.मायम्य दुर्धर्षं कालो लोकक्षये यथा।। 71।। >> सन्धाय धनुषि श्रेष्ठे विकर्ष.न्निद.मब्रवीत्। लक्ष्मीवान् लक्ष्मणो वाक्य.-मर्थसाधक.मात्मनः।। 72।। >> धर्मात्मा सत्यसन्धश्च रामो दाशरथि.र्यदि। पौरुषे चाप्रतिद्वन्द्व-श्शरैनं जहि रावणिम्।। 73।। >> इत्युक्त्वा बाण.माकर्णं विकृष्य त.मजिह्मगम्। लक्ष्मण.स्समरे वीर.-स्ससर्जेन्द्रजितं प्रति 74।। >> ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा। तच्छिर.स्सशिरस्त्राणं श्रीम.ज्ज्वलितकुण्डलम्।। 75।। >> प्रमथ्येन्द्रजितः कायात् पातयामास भूतले। तद्राक्षस.तनूजस्य छिन्नस्कन्धं शिरो महत्।। 76।। >> तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्। हतस्तु निपपाताशु धरण्यां रावणात्मजः।। 77।। >> कवची सशिरस्त्राणो विध्वस्त.स्सशरासनः। चुक्रुशु.स्ते तत.स्सर्वे वानरा.स्सविभीषणाः।। 78।। >> हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा। अथान्तरिक्षे भूताना.-मृषीणां च महात्मनाम् 79।। >> अभिजज्ञे च सन्नादो गन्धर्वाप्सरसा.मपि। पतितं समभिज्ञाय राक्षसी सा महाचमूः।। 80। वध्यमाना दिशो भेजे हरिभि.र्जितकाशिभिः। वानरै.र्वध्यमानास्ते शस्त्रा.ण्युत्सृज्य राक्षसाः 81।। >> लङ्का.मभिमुखा.स्सर्वे नष्टसञ्ज्ञाः प्रधाविताः। दुद्रुवु.र्बहुधा भीता- राक्षसा.श्शतशो दिशः 82।। >> त्यक्त्वा प्रहरणान् सर्वे पट्टसासि.परश्वथान्। केचि.ल्लङ्कां परित्रस्ताः- प्रविष्टा वानरार्दिताः।। 83।। >> समुद्रे पतिताः केचित्- केचित् पर्वत.माश्रिताः। हत.मिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ 84।। >> राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत। यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।। 85।। >> तथा तस्मि.न्निपतिते राक्षसा.स्ते गता दिशः। शान्तरश्मि. रिवादित्यो निर्वाण इव पावकः।। 86।। >> स बभूव महातेजा- व्यपास्त.गतजीवितः। प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान्।। 87।। >> बभूव लोकः पतिते राक्षसेन्द्रसुते तदा। हर्षं च शक्रो भगवान् सह सर्वै.स्सुरर्षभैः 88।। >> जगाम निहते तस्मिन् राक्षसे पापकर्मणि। आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः 89।। >> नृत्यद्भि.रप्सरसोभिश्च गन्धर्वैश्च महात्मभिः। ववृषुः पुष्पवर्षाणि तदद्भुत.मभू.त्तदा।। 90। प्रशशंसु.र्हते तस्मिन् राक्षसे क्रूरकर्मणि। शुद्धा आपो दिशश्चैव जहृषु.र्दैत्यदानवाः 91।। >> आजग्मुः पतिते तस्मिन् सर्वलोक.भयावहे। ऊचुश्च सहिता.स्सर्वे देवगन्धर्व.दानवाः 92।। >> विज्वरा.श्शान्तकलुषा ब्राह्मणा विचरन्त्विति। ततोभ्यनन्दन् संहृष्टा.-स्समरे हरियूथपाः।। 93।। >> त.मप्रतिबलं दृष्ट्वा हतं नैरृतपुङ्गवम्। विभीषणो हनूमांश्च जाम्बवां.श्चर्क्षयूथपः।। 94।। >> विजयेनाभिनन्दन्त-स्तुष्टुवुश्चापि लक्ष्मणम्। क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।। 95।। >> लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे। लाङ्गूलानि प्रविध्यन्त.-स्स्फोटयन्तश्च वानराः।। 96।। >> लक्ष्मणो जयती.त्येवं वाक्यं विश्रावयं.स्तदा। अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः। चक्रु.रुच्चावचगुणा राघवाश्रयजाः कथाः।। 97।। >> तदसुकर.मथाभिवीक्ष्य हृष्टाः- प्रियसुहृदो युधि लक्ष्मणस्य कर्म। परम.मुपलभन् मनःप्रहर्षं- विनिहत.मिन्द्ररिपुं निशम्य देवाः।। 98।। >> श्रीमद्रामायणे युद्धकाण्डे एकनवतितमस्सर्गः। • युद्धकाण्डे सर्गः 92 रावणिशस्त्रहतचिकित्सा रुधिर.क्लिन्नगात्रस्तु लक्ष्मण.श्शुभलक्षणः। बभूव हृष्ट.स्तं हत्वा शक्रजेतार.माहवे।। 1।। >> तत.स्स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। सन्निवर्त्य महातेजा-स्तांश्च सर्वान् वनौकसः।। 2।। >> आजगाम तत.श्शीघ्रं यत्र सुग्रीवराघवौ। विभीषण.मवष्टभ्य हनूमन्तं च लक्ष्मणः 3।। >> ततो राम.मभिक्रम्य सौमित्रि.रभिवाद्य च। तस्थौ भ्रातृसमीपस्थ.-श्शक्रस्येन्द्रानुजो यथा 4।। >> निष्टन.न्निव चागम्य राघवाय महात्मने। आचचक्षे तदा वीरो घोर.मिन्द्रजितो वधम्।। 5।। >> रावणे.स्तु शिर.श्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः।। 6।। >> श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजि.द्वधम्। प्रहर्ष.मतुलं लेभे रामो वाक्य.मुवाच ह 7।। >> साधु लक्ष्मण तुष्टोस्मि कर्मणा सुकृतं कृतम्। रावणे.र्हि विनाशेन जित.मित्युपधारय।। 8।। >> स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्। लज्जमानं बलात् स्नेहा-दङ्क.मारोप्य वीर्यवान्।। 9।। >> उपवेश्य त.मुत्सॊगे परिष्वज्यावपीडितम्। भ्रातरं लक्ष्मणं स्निग्धं पुनः पुन.रुदैक्षत।। 10।। >> शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम्। रामस्तु दुःख.सन्तप्त-स्तदा निश्वसितो भृशम्।। 11।। >> मूर्ध्नि चैन.मुपाघ्राय भूय.स्संस्पृश्य च त्वरन्। उवाच लक्ष्मणं वाक्य.-माश्वास्य पुरुषर्षभः।। 12।। >> कृतं परमकल्याणं कर्म दुष्करकर्मणा। अद्य मन्ये हते पुत्रे रावणिं निहतं युधि।। 13।। >> अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे।। 14।। >> छिन्नो हि दक्षिणो बाहु-स्स हि तस्य व्यपाश्रयः। विभीषण.हनूमद्भ्यां कृतं कर्म मह.द्रणे।। 15।। >> अहोरात्रै.स्त्रिभि र्वीरः कथञ्चि.द्विनिपातितः। निरमित्रः कृतोस्म्यद्य निर्यास्यति हि रावणः।। 16।। >> बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्। तं पुत्रवध.सन्तप्तं निर्यान्तं राक्षसाधिपम्।। 17।। >> बलेनावृत्य महता निहनिष्यामि दुर्जयम्। त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।। 18।। >> न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे। स तं भ्रातर.माश्वास्य परिष्वज्य च राघवः।। 19।। >> राम.स्सुषेणं मुदित.-स्समाभाष्येद. मब्रवीत्। सशल्योयं महाप्राज्ञ सौमित्रि.र्मित्रवत्सलः।। 20।। >> यथा भवति सुस्वस्थ-स्तथा त्वं समुपाचर। विशल्यः क्रियतां क्षिप्रं- सौमित्रि.स्सविभीषणः।। 21।। >> ऋक्षवानर.सैन्यानां शूराणां द्रुमयोधिनाम्। ये चाप्यन्येत्र युध्यन्त.स्सशल्या व्रणिन.स्तथा 22।। >> तेपि सर्वे प्रयत्नेन क्रियन्तां सुखिन.स्त्वया। एव.मुक्त.स्स रामेण महात्मा हरियूथपः 23।। >> लक्ष्मणाय ददौ नस्त.-स्सुषेणः परमौषधिम्। स तस्य गन्ध.माघ्राय विशल्य.स्समपद्यत 24।। >> तदा निर्वेदनश्चैव संरूढव्रण एव च। विभीषणमुखानां च सुहृदां राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्।। 25।। >> ततः प्रकृति.मापन्नो हृतशल्यो गतव्यथः। सौमित्रि.र्मुदित.स्तत्र क्षणेन विगतज्वरः।। 26।। >> तथैव रामः प्लवगाधिप.स्तदा- विभीषण.श्चर्क्षपतिश्च जाम्बवान्। अवेक्ष्य सौमित्रि.मरोग.मुत्थितं- मुदा ससैन्य.स्सुचिरं जहर्षिरे।। 27।। >> अपूजयत् कर्म स लक्ष्मणस्य- सुदुष्करं दाशरथि.र्महात्मा। हृष्टा बभूवु.र्युधि यूथपेन्द्रा- निपातितं शक्रजितं निशम्य।। 28।। >> श्रीमद्रामायणे युद्धकाण्डे द्विनवतितमस्सर्गः। • युद्धकाण्डे सर्गः 93 सीताहननोद्यमनिवृत्तिः ततः पौलस्त्य.सचिवा.-श्श्रुत्वा चेन्द्रजितं हतम्। आचचक्षु.रभिज्ञाय दशग्रीवाय सव्यथाः।। 1।। >> युद्धे हतो महाराज लक्ष्मणेन तवात्मजः। विभीषण.सहायेन मिषतां नो महाद्युतिः।। 2।। >> शूर.श्शूरेण सङ्गम्य सँयुगे.ष्वपराजितः। लक्ष्मणेन हत.श्शूरः पुत्र.स्ते विबुधेन्द्रजित्।। 3।। >> गत.स्स परमान् लोका-न्छरै.स्सन्ताप्य लक्ष्मणम्। स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।। 4।। >> घोर.मिन्द्रजित.स्सङ्ख्ये कश्मलं चाविश.न्महत्। उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः।। 5।। >> पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः। हा राक्षसचमू.मुख्य मम वत्स महारथ 6।। >> जित्वेन्द्रं कथ.मद्य त्वं लक्ष्मणस्य वशं गतः। ननु त्व.मिषुभिः क्रुद्धो भिन्द्याः कालान्तका.वपि 7।। >> मन्दरस्यापि शृङ्गाणि किं पुन.र्लक्ष्मणं युधि। अद्य वैवस्वतो राजा भूयो बहुमतो मम 8।। >> येनाद्य त्वं महाबाहो सँयुक्तः कालधर्मणा। एष पन्था.स्सुयोधानां सर्वामरगणेष्वपि 9।। >> यः कृते हन्यते भर्तु.-स्स पुमान् स्वर्ग.मृच्छति। अद्य देवगणा.स्सर्वे लोकपाला.स्तथर्षयः।। 10।। >> हत.मिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः। अद्य लोका.स्त्रयः कृत्स्ना पृथिवी च सकानना।। 11।। >> एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे। अद्य नैरृतकन्यानां श्रोष्या.म्यन्तःपुरे रवम्।। 12।। >> करेणुसङ्घस्य यथा निनादं गिरिगह्वरे। यौवराज्यं च लङ्कां च रक्षांसि च परन्तप।। 13।। >> मातरं मां च भार्यां च क्व गतोसि विहाय नः। मम नाम त्वया वीर गतस्य यमसादनम्।। 14।। >> प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे। स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।। 15।। >> मम शल्य.मनुद्धृत्य क्व गतोसि विहाय नः। एवमादि.विलापार्तं रावणं राक्षसाधिपम्।। 16।। >> आविवेश महान् कोपः पुत्रव्यसन.सम्भवः। प्रकृत्या कोपनं ह्येनं पुत्रस्य पुन.राधयः।। 17।। >> दीप्तं सन्दीपयामासुर्- घर्मेर्क.मिव रश्मयः। ललाटे भ्रुकुटीभिश्च सङ्गताभि.र्व्यरोचत।। 18।। >> युगान्ते सह नक्रैस्तु महोर्मिभि.रिवोदधिः। कोपा.द्विजृम्भमाणस्य वक्त्रा.द्व्यक्त.मभिज्वलन्।। 19।। >> उत्पपात स धूमोग्निर्-वृत्रस्य वदना.दिव। स पुत्रवध.सन्तप्त-श्शूरः क्रोधवशं गतः 20।। >> समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचय.द्वधम्। तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च।। 21।। >> रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः। घोरं प्रकृत्या रूपं तत्- तस्य क्रोधाग्निमूर्छितम्।। 22।। >> बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम्। तस्य क्रुद्धस्य नेत्राभ्यां प्रापत.न्नस्रबिन्दवः।। 23।। >> दीप्ताभ्या.मिव दीपाभ्यां सार्चिष.स्स्नेहबिन्दवः। दन्ता.न्विदशत.स्तस्य श्रूयते दशनस्वनः।। 24।। >> यन्त्रस्यावेष्ट्यमानस्य महतो दानवै.रिव। कालाग्निरिव सङ्क्रुद्धो यां यां दिश.मवैक्षत।। 25।। >> तस्यां तस्यां भयत्रस्ता राक्षसा.स्सँविलिल्यिरे। त.मन्तक.मिव क्रुद्धं चराचर.चिखादिषुम्।। 26।। >> वीक्षमाणं दिश.स्सर्वा राक्षसा नोपचक्रमुः। ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।। 27।। >> अब्रवी.द्रक्षसां मध्ये संस्तम्भयिषु.राहवे। मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।। 28।। >> तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः। तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।। 29।। >> नासुरेभ्यो न देवेभ्यो भयं मम कदाचन। कवचं ब्रह्म दत्तं मे यदादित्य.समप्रभम्।। 30।। >> देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः। तेन मा.मद्य सँयुक्तं रथस्थ.मिह सँयुगे 31।। >> प्रतीयात् कोद्य मा.माजौ साक्षा.दपि पुरन्दरः। यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्।। 32।। >> देवासुर.विमर्देषु मम दत्तं स्वयम्भुवा। अद्य तूर्यशतै.र्भीमं धनु.रुत्थाप्यतां मम।। 33।। >> रामलक्ष्मणयो.रेव वधाय परमाहवे। स पुत्रवध.सन्तप्त.श्शूरः क्रोधवशं गतः।। 34।। >> समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत। प्रत्यवेक्ष्य तु ताम्राक्ष.-स्सुघोरो घोरदर्शनः 35।। >> दीनो दीनस्वरान् सर्वां-स्ता.नुवाच निशाचरान्। मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।। 36।। >> किञ्चि.देव हतं तत्र- सीतेय.मिति दर्शितम्। तदिदं सत्य.मेवाहं करिष्ये प्रिय.मात्मनः 37।। >> वैदेहीं नाशयिष्यामि क्षत्रबन्धु.मनुव्रताम्। इत्येव.मुक्त्वा सचिवान् खड्ग.माशु परामृशत् 38।। >> उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्। निष्पपात स वेगेन सभाया.स्सचिवै.र्वृतः।। 39।। >> रावणः पुत्रशोकेन भृश.माकुलचेतनः। सङ्क्रुद्धः खड्ग.मादाय सहसा यत्र मैथिली।। 40।। >> व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः। ऊचु.श्चान्योन्य.माश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः 41।। >> अद्यैनं ता.वुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः। लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः।। 42।। >> बहव.श्शत्रव.श्चान्ये सँयुगेषु निपातिताः। त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः।। 43।। >> विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि । तेषां सञ्जल्पमानाना-मशोकवनिकां गताम् 44। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः। वार्यमाण.स्सुसङ्क्रुद्ध.-स्सुहृद्भि.र्हितबुद्धिभिः 45।। >> अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणी.मिव। मैथिली रक्ष्यमाणा तु राक्षसीभि.रनिन्दिता।। 46।। >> ददर्श राक्षसं क्रुद्धं निस्त्रिंशवर.धारिणम्। तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा।। 47।। >> निवार्यमाणं बहुश.-स्सुहृद्भि. रनिवर्तिनम्। सीता दुःख.समाविष्टा विलपन्तीद.मब्रवीत् 48।। >> यथायं मा.मभिक्रुद्ध.-स्समभिद्रवति स्वयम्। वधिष्यति सनाथां मा-मनाथा.मिव दुर्मतिः 49।। >> बहुश.श्चोदयामास भर्तारं मा.मनुव्रताम्। भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया।। 50।। >> सोयं मा.मनुपस्थाना-द्व्यक्तं नैराश्य.मागतः। क्रोधमोह.समाविष्टो निहन्तुं मां समुद्यतः।। 51।। >> अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ। मन्निमित्त.मनार्येण समरेद्य निपातितौ।। 52।। >> अहो धिङ्मन्निमित्तोयं विनाशो राजपुत्रयोः। अथवा पुत्र शोकेन अहत्वा रामलक्ष्मणौ 53।। >> विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः। हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया।। 54। यद्यहं तस्य पृष्ठेन तदा याया.मनिन्दिता। नाद्यैव मनुशोचेयं भर्तु.रङ्कगता सती 55।। >> मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति। एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि।। 56।। >> सा हि जन्म च बाल्यं च यौवनं च महात्मनः। धर्मकार्यानुरूपं च रुदती संस्मरिष्यति 57।। >> निराशा निहते पुत्रे दत्त्वा श्राद्ध. मचेतना। अग्नि.मारोक्ष्यते नून.-मपो वापि प्रवेक्ष्यति 58।। >> धिगस्तु कुब्जा मसतीं- मन्थरां पापनिश्चयाम्। यन्निमित्त.मिदं दुःखं कौसल्या प्रतिपत्स्यते 59।। >> इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्। रोहिणी.मिव चन्द्रेण विना ग्रहवशं गताम्।। 60। एतस्मि.न्नन्तरे तस्य अमात्यो बुद्धिमा.न्छुचिः। सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् 61।। >> निवार्यमाणं सचिवै-रिदं वचन.मब्रवीत्। कथं नाम दशग्रीव साक्षा.द्वैश्रवणानुज 62।। >> हन्तु.मिच्छसि वैदेहीं क्रोधा.द्धर्म.मपास्य हि। वेदविद्या.व्रतस्नात.-स्स्वधर्मनिरत.स्सदा 63।। >> स्त्रियाः कस्मा.द्वधं वीर मन्यसे राक्षसेश्वर। मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।। 64।। >> त्वमेव तु सहास्माभी.- राघवे क्रोध.मुत्सृज। अभ्युत्थानं त्वमद्यैव कृष्णपक्ष.चतुर्दशीम्। कृत्वा निर्याह्यमावास्यां- विजयाय बलै.र्वृतः 65।। >> शूरो धीमान् रथी खड्गी- रथप्रवर.मास्थितः। हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्।। 66।। >> स तद्दुरात्मा सुहृदा निवेदितं- वच.स्सुधर्म्यं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान्- पुन.स्सभां च प्रययौ सुहृद्वृतः।। 67।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिनवतितमस्सर्गः। • युद्धकाण्डे सर्गः 94 गान्धर्वास्त्रमोहनम् स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्।। 1।। >> अब्रवीच्च तदा सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलि.र्वाक्यं पुत्रव्यसन.कर्शितः 2।। >> सर्वे भवन्त.स्सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातै.श्चोपशोभिताः 3।। >> एकं रामं परिक्षिप्य समरे हन्तु.मर्हथ। वर्षन्त.श्शरवर्षेण प्रावृट्काल इवाम्बुदाः।। 4।। >> अथवाहं शरै.स्तीक्ष्णै.-र्भिन्नगात्रं महारणे। भवद्भि.श्श्वो निहन्तास्मि रामं लोकस्य पश्यतः।। 5।। >> इत्येत.द्राक्षसेन्द्रस्य वाक्य.मादाय राक्षसाः। निर्ययु.स्ते रथै.श्शीघ्रं नागानीकैश्च सँवृताः 6।। >> परिघान् पट्टसां.श्चैव शर.खड्ग. परश्वथान्। शरीरान्तकरान् सर्वे चिक्षिपु.र्वानरान् प्रति।। 7।। >> वानराश्च द्रुमा.न्छैलान् राक्षसान् प्रति चिक्षिपुः। स सङ्ग्रामो महाभीम.-स्सूर्यस्योदयनं प्रति।। 8।। >> रक्षसां वानराणां च तुमुल.स्समपद्यत। ते गदाभि.र्विचित्राभिः प्रासैः खड्गैः परश्वधैः 9।। >> अन्योन्यं समरे जघ्नु-स्तदा वानर.राक्षसाः। एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमह.द्रजः।। 10।। >> रक्षसां वानराणां च शान्तं शोणित.विस्रवैः। मातङ्ग.रथकूलाश्च वाजिमत्स्या.ध्वजद्रुमाः।। 11।। >> शरीरसङ्घाटवहाः प्रसस्रु.श्शोणितापगाः। ततस्ते वानरा.स्सर्वे शोणितौघ.परिप्लुताः।। 12।। >> ध्वजवर्म.रथा.नश्वान् नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे।। 13।। >> केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः। रक्षसां दशनै.स्तीक्ष्णैर्-नखैश्चापि न्यकर्तयन्।। 14।। >> एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः। अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा।। 15।। >> तथा गदाभि.र्गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नु.र्वानरान् घोरान्- राक्षसाः पर्वतोपमाः।। 16।। >> राक्षसै.र्युध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्।। 17।। >> ततो रामो महातेजा धनु.रादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह।। 18।। >> प्रविष्टं तु तदा रामं मेघा.स्सूर्य.मिवाम्बरे। नाभिजग्मु.र्महाघोरं निर्दहन्तं शराग्निना।। 19।। >> कृता.न्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्मा.ण्यसुकराणि च 20।। >> चालयन्तं महानीकं विधमन्तं महारथान्। ददृशुस्तु न वै रामं वातं वनगतं यथा 21।। >> छिन्नं भिन्नं शरै.र्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्- न रामं शीघ्रकारिणम् 22।। >> प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मान.मिव प्रजाः 23।। >> एष हन्ति गजानीक-मेष हन्ति महारथान्। एष हन्ति शरै.स्तीक्ष्णैः- पदातीन् वाजिभि.स्सह 24।। >> इति ते राक्षसा.स्सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नु.-स्सादृश्या. द्राघवस्य ते।। 25।। >> न ते ददृशिरे रामं- दहन्त.मरिवाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मनः।। 26।। >> ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थ-मेक.मेव महाहवे 27।। >> भ्रमन्तीं काञ्चनीं कोटिं- कार्मुकस्य महात्मनः। अलातचक्र.प्रतिमां ददृशु.स्ते न राघवम्।। 28।। >> शरीरनाभि.सत्त्वार्चि.-श्शरारं नेमिकार्मुकम्। ज्याघोषतल.निर्घोषं तेजोबुद्धि.गुणप्रभम्।। 29।। >> दिव्यास्त्रगुण.पर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत्- कालचक्र.मिव प्रजाः 30।। >> अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्।। 31।। >> चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्।। 32।। >> दिवसस्याष्टमे भागे शरै.रग्निशिखोपमैः। हता.न्येकेन रामेण रक्षसां कामरूपिणाम् 33।। >> ते हताश्वा हतरथा.-श्श्रान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः 34।। >> हतै.र्गजपदात्यश्वै-स्तद् बभूव रणाजिरम्। आक्रीड.मिव रुद्रस्य क्रुद्धस्य सुमहात्मनः।। 35।। >> ततो देवा.स्सगन्धर्वा.-स्सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य- तत् कर्म समपूजयन् 36।। >> अब्रवीच्च तदा राम.-स्सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरं 37।। >> जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविद.मेव च। एत.दस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा।। >> निहत्य तां राक्षसवाहिनीं तु- राम.स्तदा शक्रसमो महात्मा। अस्त्रेषु शस्त्रेषु जितक्लमश्च- संस्तूयते देवगणैः प्रहृष्टैः।। 38।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्नवतितमस्सर्गः। • युद्धकाण्डे सर्गः 95 राक्षसीविलापः तानि नागसहस्राणि सारोहाणां च वाजिनाम्। रथानां चाग्निवर्णानां सध्वजानां सहस्रशः।। 1।। >> राक्षसानां सहस्राणि गदापरिघ.योधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् 2।। >> निहतानि शरै.स्तीक्ष्णै.-स्तप्तकाञ्चन.भूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा।। 3।। >> दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षस्यश्च समागम्य दीना.श्चिन्तापरिप्लुताः 4।। >> विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः। राक्षस्य.स्सह सङ्गम्य दुःखार्ताः पर्यदेवयन् 5।। >> कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कन्दर्प.मिव रूपिणम्।। 6।। >> सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता।। 7।। >> कथं सर्वगुणै.र्हीना गुणवन्तं महौजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी 8।। >> जनस्यास्याल्पभाग्यत्वा-द्वलिनी श्वेतमूर्धजा। अकार्य.मपहास्यं च सर्वलोक.विगर्हितम्।। 9।। >> राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्।। 10।। >> तन्निमित्त.मिदं वैरं रावणेन कृतं महत्। वधाय सीता सानीता दशग्रीवेण रक्षसा।। 11।। >> न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैर.-मक्षयं राघवेण च।। 12।। >> वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्। हत.मेकेन रामेण पर्याप्तं तन्निदर्शनम्।। 13।। >> चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरै.रग्निशिखोपमैः।। 14।। >> खरश्च निहत.स्सङ्ख्ये दूषण.स्त्रिशिरा.स्तथा। शरै.रादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम्।। 15।। >> हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधा.न्नादं नदन् सोथ पर्याप्तं तन्निदर्शनम्।। 16।। >> जघान बलिनं राम.-स्सहस्रनयनात्मजम्। वालिनं मेघसङ्काशं पर्याप्तं तन्निदर्शनम्।। 17।। >> ऋश्यमूके वस.न्छैले दीनो भग्नमनोरथः। सुग्रीव.स्स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्।। 18।। >> एको वायुसुतः प्राप्य लङ्कां हत्वा च राक्षसान्। दग्ध्वा तां च पुन.र्यातः पर्याप्तं त.न्निदर्शनम्।। 19।। >> निगृह्य सागरं तस्मिन् सेतुं बद्ध्वा प्लवङ्गमैः। वृतोतरत् तं यद्रामः पर्याप्तं त न्निदर्शनम् 20।। >> धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते 21।। >> विभीषणवचः कुर्या-द्यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्।। 22।। >> कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः।। 23।। >> प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते। मम पुत्रो मम भ्राता मम भर्ता रणे हतः।। 24।। >> इत्येवं श्रूयते शब्दो राक्षसीनां कुले कुले। रथाश्चाश्वाश्च नागाश्च हता.श्शतसहस्रशः।। 25।। >> रणे रामेण शूरेण राक्षसाश्च पदातयः। रुद्रो वा यदि वा विष्णुर्- महेन्द्रो वा शतक्रतुः।। 26।। >> हन्ति नो रामरूपेण यदि वा स्वय.मन्तकः। हतप्रवीरा रामेण निराशा जीविते वयम्।। 27।। >> अपश्यन्त्यो भयस्यान्त.-मनाथा विलपामहे। रामहस्ता.द्दशग्रीव.-श्शूरो दत्तमहावरः 28।। >> इदं भयं महाघोर-मुत्पन्नं नावबुध्यते। न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।। 29।। >> उपसृष्टं परित्रातुं शक्ता रामेण सँयुगे। उत्पाताश्चापि दृश्यन्ते रावणस्य रणेरणे।। 30।। >> कथयिष्यन्ति रामेण रावणस्य निबर्हणम्। पितामहेन प्रीतेन देवदानव.राक्षसैः।। 31।। >> रावणस्याभयं दत्तं मानुषेभ्यो न याचितम्। तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम्।। 32।। >> जीवितान्तकरं घोरं रक्षसां रावणस्य च। पीड्यमानास्तु बलिना वरदानेन रक्षसा।। 33।। >> दीप्तै.स्तपोभि.र्विबुधाः पितामह.मपूजयन्। देवतानां हितार्थाय महात्मा वै पितामहः।। 34।। >> उवाच देवता.स्सर्वा इदं तुष्टो ह तद्वचः। अद्य प्रभृति लोकां.स्त्रीन् सर्वे दानव.राक्षसाः 35।। >> भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्। दैवतैस्तु समागम्य सर्वै.श्चेन्द्रपुरोगमैः 36।। >> वृषध्वज.स्त्रिपुरहा महादेवः प्रसादितः। प्रसन्नस्तु महादेवो देवा.नेत.द्वचोब्रवीत्।। 37।। >> उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा। एषा देवैः प्रयुक्ता तु क्षु.द्यथा दानवान् पुरा 38।। >> भक्षयिष्यति न.स्सीता राक्षसघ्नी सरावणान्। रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः 39।। >> अयं निष्ठानको घोर.-श्शोकेन समभिप्लुतः। तं नः पश्यामहे लोके यो न.श्शरणदो भवेत्।। 40।। >> राघवेणोपसृष्टानां कालेनेव युगक्षये। नास्ति नः शरणं कश्चि-द्भये महति तिष्ठताम्।। 41।। >> दावाग्निवेष्टितानां हि करेणूनां यथा वने 42।। >> प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं त.मेव शरणं गतः।। 43।। >> इतीव सर्वा रजनीचरस्त्रियः- परस्परं सम्परिरभ्य बाहुभिः। विषेदु.रार्तातिभयाभिपीडिता- विनेदु.रुच्चैश्च तदा सुदारुणम् 44।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्च नवतितमस्सर्गः। • युद्धकाण्डे सर्गः 96 रावणाभिषेणनम् आर्तानां राक्षसीनां तु लङ्कायां वै कुलेकुले। रावणः करुणं शब्दं शुश्राव परिवेदितम्।। 1।। >> स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यान.मास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः।। 2।। >> सन्दश्य दशनै.रोष्ठं क्रोध.संरक्तलोचनः। राक्षसै.रपि दुर्दर्शः कालाग्नि.रिव मूर्छितः 3।। >> उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः। भयाव्यक्तकथ.स्तत्र निर्दह.न्निव चक्षुषा।। 4।। >> महोदर.महापार्श्वौ विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया।। 5।। >> तस्य तद्वचनं श्रुत्वा राक्षसा.स्ते भयार्दिताः। चोदयामासु.रव्यग्रान् राक्षसां.स्ता.न्नृपाज्ञया 6।। >> ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः। कृतस्वस्त्ययना.स्सर्वे रावणाभिमुखा ययुः 7।। >> प्रतिपूज्य यथान्यायं रावणं ते निशाचराः। तस्थुः प्राञ्जलय.स्सर्वे भर्तु.र्विजयकाङ्क्षिणः 8।। >> अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः। महोदर.महापार्श्वौ विरूपाक्षं च राक्षसं 9।। >> अद्य बाणै.र्धनुर्मुक्तैर्- युगान्तादित्य सन्निभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्।। 10।। >> खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितो.स्तथा। करिष्यामि प्रतीकार.मद्य शत्रुवधा.दहम्।। 11।। >> नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः। प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः।। 12।। >> अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन विधमिष्यामि पत्रिणा।। 13।। >> अद्य वानरसैन्यानि रथेन पवनौजसा। धनुस्समुद्रा.दुद्भूतै-र्मथिष्यामि शरोर्मिभिः।। 14।। >> आकोशपद्म.वक्त्राणि पद्मकेसर.वर्चसाम्। अद्य यूथतटाकानि गजवत् प्रमथा.म्यहम्।। 15।। >> सशरै.रद्य वदनै.-स्सङ्ख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालै.रिव पङ्कजैः।। 16।। >> अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्।। 17।। >> हतो भर्ता हतो भ्राता यासां च तनया हताः। वधेनाद्य रिपो.स्तासां करो.म्यस्रप्रमार्जनम्।। 18।। >> अद्य मद्बाण.निर्भिन्नैः प्रकीर्णै.र्गतचेतनैः। करोमि वानरै.र्युद्धे यत्रावेक्ष्य तलां महीम्।। 19।। >> अद्य गोमायवो गृध्रा ये च मांसाशिनोपरे। सर्वां.स्तां.स्तर्पयिष्यामि शत्रुमांसै.श्शरार्दितैः।। 20।। >> कल्प्यतां मे रथ.श्शीघ्रं क्षिप्र.मानीयतां धनुः। अनुप्रयान्तु मां युद्धे येवशिष्टा निशाचराः।। 21।। >> तस्य तद्वचनं श्रुत्वा महापार्श्वोब्रवी.द्वचः। बलाध्यक्षान् स्थितां.स्तत्र बलं सन्त्वर्यता.मिति 22।। >> बलाध्यक्षास्तु संरब्धा राक्षसां.स्तान् गृहा.द्गृहात्। चोदयन्तः परिययुर्- लङ्कां लघुपराक्रमाः।। 23।। >> ततो मुहूर्ता.न्निष्पेतू राक्षसा भीमविक्रमाः। नर्दन्तो भीमवदना नानाप्रहरणै.र्भुजैः 24।। >> असिभिः पट्टसै.श्शूलै-र्गदाभि.र्मुसलै.र्हलैः। शक्तिभि.स्तीक्ष्णधाराभि.-र्महद्भिः कूटमुद्गरैः 25।। >> यष्टिभि.र्विमलै.श्चक्रैरा- निशितैश्च परश्वधैः। भिन्दिपालै.श्शतघ्नीभि-रन्यैश्चापि वरायुधैः 26।। >> अथानय.द्बलाध्यक्षा-श्चत्वारो रावणाज्ञया 27।। >> द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्। आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा।। 28।। >> ततः प्रयातः सहसा रावणो राक्षसै.र्वृतः। रावण.स्सत्त्वगाम्भीर्या-द्दारय.न्निव मेदिनीम्।। 29।। >> रावणेनाभ्यनुज्ञातौ महापार्श्व.महोदरौ। विरूपाक्षश्च दुर्धर्षो रथा.नारुरुहु.स्तदा।। 30।। >> ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययु.र्जयकाङ्क्षिणः 31।। >> ततो युद्धाय तेजस्वी रक्षोगणबलै.र्वृतः। निर्यया.वुद्यतधनुः कालान्तक.यमोमपः 32।। >> ततः प्रजवनाश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ।। 33।। >> ततो नष्टप्रभ.स्सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदु.र्घोराश्च सञ्चचाल च मेदिनी 34।। >> ववर्ष रुधिरं देव-श्चस्खलुश्च तुरङ्गमाः। ध्वजाग्रे न्यपत.द्गृध्रो विनेदु.श्चाशिवं शिवाः।। 35।। >> नयनं चास्फुर.द्वामं सव्यो बाहु.रकम्पत। विवर्णवदन.श्चासीत् किञ्चि.दभ्रश्यत स्वरः।। 36।। >> ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपा.ण्येतानि जज्ञिरे।। 37।। >> अन्तरिक्षात् पपातोल्का निर्घातसम.निस्वना। विनेदु.रशिवा गृध्रा वायसै.रनुनादिताः 38।। >> एता.नचिन्तयन् घोरा-नुत्पातान् समुपस्थितान्। निर्ययौ रावणो मोहाद्- वधार्थी कालचोदितः 39।। >> तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणा.मपि चमूर्-युद्धायैवाभ्यवर्तत।। 40।। >> तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्य.माह्वयानानां क्रुद्धानां जय.मिच्छताम् 41।। >> ततः क्रुद्धो दशग्रीव.-श्शरैः काञ्चनभूषणैः। वानराणा.मनीकेषु चकार कदनं महत्।। 42।। >> निकृत्तशिरसः केचि-द्रावणेन वलीमुखाः। केचि.द्विच्छिन्नहृदयाः केचि.च्छ्रोत्रविवर्जिताः 43।। >> निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचि.द्विभिन्नशिरसः केचि.च्चक्षुर्विवर्जिताः 44।। >> दशाननः क्रोधविवृत्तनेत्रो- यतो यतोभ्येति रथेन सङ्ख्ये। ततस्तत.स्तस्य शरप्रवेगं- सोढुं न शेकु.र्हरियूथपा.स्ते।। 45।। >> श्रीमद्रामायणे युद्धकाण्डे षण्णवतितमस्सर्गः। • युद्धकाण्डे सर्गः 97 विरूपाक्षवधः तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभि.र्वृता।। 1। रावणस्याप्रसह्यं तं शरसम्पात.मेकतः। न शेकु.स्सहितुं दीप्तं पतङ्गा ज्वलनं यथा।। 2।। >> तेर्दिता निशितै.र्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चि.स्समाविष्टा दह्यमाना यथा गजाः 3।। >> प्लवङ्गाना.मनीकानि महाभ्राणीव मारुतः। स ययौ समरे तस्मिन् विधमन् रावण.श्शरैः 4।। >> कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे राघवं त्वरित.स्तदा 5।। >> सुग्रीव.स्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः 6।। >> आत्मन.स्सदृशं वीर-स्स तं निक्षिप्य वानरम्। सुग्रीवोभिमुख.श्शत्रुं प्रतस्थे पादपायुधः 7।। >> पार्श्वतः पृष्ठत.श्चास्य सर्वे यूथाधिपा.स्स्वयम्। अनुजह्रु.र्महाशैलान् विविधांश्च महाद्रुमान् 8।। >> स नदन् युधि सुग्रीव.-स्स्वरेण महता महान्। पातयन् विविधांश्चान्यान् जघानोत्तमराक्षसान् 9।। >> ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धा.नगमा.निव।। 10।। >> राक्षसाना.मनीकेषु शैलवर्षं ववर्ष ह। अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने।। 11।। >> कपिराज.विमुक्तै.स्तै.-श्शैलवर्षैस्तु राक्षसाः। विकीर्णशिरसः पेतु.र्निकृत्ता इव पर्वताः।। 12।। >> अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च।। 13।। >> विरूपाक्ष.स्स्वकं नाम धन्वी विश्राव्य राक्षसः। रथा.दाप्लुत्य दुर्धर्षो गजस्कन्ध.मुपारुहत्।। 14।। >> स तं द्विरद.मारुह्य विरूपाक्षो महारथः। विनदन् भीमनिर्ह्रादं वानरा.नभ्यधावत।। 15।। >> सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे। स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्।। 16।। >> स तु विद्ध.श्शितै.र्बाणैः- कपीन्द्र.स्तेन रक्षसा। चुक्रोध च महाक्रोधो वधे चास्य मनो दधे।। 17।। >> ततः पादप.मुद्धृत्य शूर.स्सम्प्रधने हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्।। 18।। >> स तु प्रहाराभिहत.-स्सुग्रीवेण महागजः। अपासर्प.द्धनुर्मात्रं निषसाद ननाद च।। 19।। >> गजात्तु मथिता.त्तूर्ण.-मपक्रम्य स वीर्यवान्। राक्षसोभिमुख.श्शत्रुं प्रत्युद्गम्य ततः कपिम् 20।। >> आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः। भर्त्सय.न्निव सुग्रीव.-माससाद व्यवस्थितम्।। 21।। >> स हि तस्याभिसङ्क्रुद्धः प्रगृह्य महतीं शिलाम्। विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम्।। 22।। >> स तां शिला.मापतन्तीं दृष्ट्वा राक्षसपुङ्गवः। अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा।। 23।। >> तेन खड्गप्रहारेण रक्षसा बलिना हतः। मुहूर्त.मभव.द्वीरो विसञ्ज्ञ इव वानरः।। 24।। >> स तदा सहसोत्पत्य राक्षसस्य महाहवे। मुष्टिं सँवर्त्य वेगेन पातयामास वक्षसि 25।। >> मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्गेन सङ्क्रुद्ध.-स्सुग्रीवस्य चमूमुखे।। 26।। >> कवचं पातयामास स खड्गाभिहतोपतत्। स समुत्थाय पतितः कपि.स्तस्य व्यसर्जयत्।। 27।। >> तलप्रहार.मशने.-स्समानं भीमनिस्वनम्। तलप्रहारं तद्रक्ष.-स्सुग्रीवेण समुद्यतम् 28।। >> नैपुण्या.न्मोचयित्वैनं मुष्टिनोरस्यताडयत्। ततस्तु सङ्क्रुद्धतर.-स्सुग्रीवो वानरेश्वरः 29।। >> मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः।। 30।। >> ततो न्यपातयत् क्रोधा-च्छङ्ख देशे मह.त्तलम्। महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ 31।। >> पपात रुधिरक्लिन्न.-श्शोणितं स समुद्वमन्। स्रोतोभ्य.स्तु विरूपाक्षो जलं प्रस्रवणा.दिव।। 32।। >> विवृत्तनयनं क्रोधात् सफेन.रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्।। 33।। >> स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् 34।। >> तथा तु तौ सँयति सम्प्रयुक्तौ- तरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतु.स्सुभीमम्। महार्णवौ द्वा.विव भिन्नवेलौ।। 35।। >> विनाशितं प्रेक्ष्य विरूपनेत्रं- महाबलं तं हरिपार्थिवेन। बलं समस्तं कपिराक्षसाना.-मुन्मत्त.गङ्गाप्रतिमं बभूव।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तनवतितमस्सर्गः। • युद्धकाण्डे सर्गः 98 महोदरवधः हन्यमाने बले तूर्ण.-मन्योन्यं ते महामृधे। सरसीव महाघर्मे सूपक्षीणे बभूवतुः।। 1।। >> स्वबलस्य विघातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः।। 2।। >> प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः। बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।। 3।। >> उवाच च समीपस्थं महोदर.मरिन्दमम्। अस्मि.न्काले महाबाहो जयाशा त्वयि मे स्थिता।। 4। जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्। भर्तृपिण्डस्य कालोयं निर्देष्टुं साधु युध्यताम् 5।। >> एव मुक्त.स्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्।। 6।। >> तत.स्स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः।। 7।। >> वानराश्च महासत्त्वाः प्रगृह्य विपुला.श्शिलाः। प्रविव्याथ बलं भीमं जघ्नु.स्ते रजनीचरान् 8।। >> महोदरस्तु सङ्क्रुद्ध-श्शरैः काञ्चन.भूषणैः। चिच्छेद पाणिपादोरून् वानराणां महाहवे।। 9।। >> तत.स्ते वानरा.स्सर्वे राक्षसै.रर्दिता भृशम्। दिशो दश द्रुताः केचित्- केचित्सुग्रीव.माश्रिताः।। 10।। >> प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्। अभिदुद्राव सुग्रीवो महोदर.मनन्तरम्।। 11।। >> प्रगृह्य विपुलां घोरां महीधर.समां शिलाम्। चिक्षेप च महातेजा-स्तद्वधाय हरीश्वरः।। 12।। >> ता.मापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्त.स्ततो बाणैर्- निर्बिभेद दुरासदाम्।। 13।। >> रक्षसा तेन बाणौघैर्- निकृत्ता सा सहस्रधा। निपपात शिलाभूमौ गृध्रचक्र.मिवाकुलम्।। 14।। >> तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः। साल.मुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि।। 15।। >> शरैश्च विददारैनं- शूरः परपुरञ्जयः। स ददर्श ततः क्रुद्धः परिघं पतितं भुवि।। 16।। >> आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघाग्रेण वेगेन जघानास्य हयोत्तमान्।। 17।। >> तस्मा.द्धतहया.द्वीर.-स्सोवप्लुत्य महारथात्। गदां जग्राह सङ्क्रुद्धो राक्षसोथ महोदरः।। 18।। >> गदापरिघ.हस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घना.विव सविद्युतौ।। 19।। >> ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः। ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः 20।। >> गदां तां सुमहाघोरा.-मापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्ष-स्समुद्यम्य महाहवे।। 21।। >> आजघान गदां तस्य परिघेण हरीश्वरः। पपात स गदोद्भिन्नः परिघ.स्तस्य भूतले 22।। >> ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्।। 23।। >> स त.मुद्यम्य चिक्षेप सोप्यन्यां व्याक्षिप.द्गदाम्। भिन्ना.वन्योन्य.मासाद्य पेततुर् धरणीतले।। 24।। >> ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबल.समाविष्टौ दीप्ता.विव हुताशनौ।। 25।। >> जघ्नतु.स्तौ तदान्योन्यं नेदतुश्च पुनः पुनः। तलैश्चान्योन्य.माहत्य पेततुर् धरणीतले।। 26।। >> उत्पेततु.स्तत.स्तूर्णं जघ्नतुश्च परस्परम्। भुजै.श्चिक्षेपतु.र्वीरा-वन्योन्य.मपराजितौ।। 27।। >> जग्मतु.स्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ। आजहार तदा खड्ग.-मदूर.परिवर्तिनम्।। 28।। >> राक्षस.श्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह।। 29।। >> जग्राह वानरश्रेष्ठ.-स्सुग्रीवो वेगवत्तरः। तौ तु रोषपरीताङ्गौ नर्दन्ता.वभ्यधावताम्।। 30।। >> उद्यतासी. रणे हृष्टौ युधि शस्त्रविशारदौ। दक्षिणं मण्डलं चोभौ तौ तूर्णं सम्परीयतुः।। 31।। >> अन्योन्य.मभिसङ्क्रुद्धौ जये प्रणिहिता.वुभौ। स तु शूरो महावेगो वीर्यश्लाघी महोदरः।। 32।। >> महाचर्मणि तं खड्गं पातयामास दुर्मतिः। लग्न.मुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।। 33।। >> जहार सशिरस्त्राणं कुण्डलोपहितं शिरः। निकृत्तशिरस.स्तस्य पतितस्य महीतले।। 34।। >> तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते। हत्वा तं वानरै.स्सार्धं ननाद मुदितो हरिः।। 35।। >> चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः। विषण्णवदना.स्सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्त.चेतसः।। 36।। >> महोदरं तं विनिपात्य भूमौ- महागिरेः कीर्ण.मिवैकदेशम्। सूर्यात्मज.स्तत्र रराज लक्ष्म्या- सूर्य.स्वतेजोभि.रिवाप्रधृष्यः।। 37।। >> अथ विजय.मवाप्य वानरेन्द्र-स्समरमुखे सुर.यक्ष.सिद्धसङ्घैः। अवनितलगतैश्च भूतसङ्घैर्- हर्षसमाकुलितै.स्स्तुतो महात्मा।। 38।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टानवतितमस्सर्गः। • युद्धकाण्डे सर्गः 99 महापार्श्ववधः महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।। 1।। >> अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः। स वानराणां मुख्याना-मुत्तमाङ्गानि सर्वशः।। 2।। >> पातयामास कायेभ्यः फलं वृन्ता.दिवानिलः। केषाञ्चि.दिषुभि.र्बाहून्-स्कन्धां.श्चिच्छेद राक्षसः।। 3।। >> वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत्। तेर्दिता बाणवर्षेण महापार्श्वेन वानराः।। 4।। >> विषादविमुखा.स्सर्वे बभूवु.र्गतचेतसः। निरीक्ष्य बल.मुद्विग्न-मङ्गदो राक्षसार्दितम्।। 5।। >> वेगं चक्रे महाबाहु.-स्समुद्र इव पर्वणि। आयसं परिघं गृह्य सूर्यरश्मि.समप्रभम् 6।। >> समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः 7।। >> ससूत.स्स्यन्दनात् तस्मा-द्विसञ्ज्ञः प्रापत.द्भुवि। सर्क्षराजस्तु तेजस्वी नीलाञ्जन.चयोपमः।। 8।। >> निष्पत्य सुमहावीर्य.-स्स्वयूथान् मेघसन्निभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्ध.स्सुविपुलां शिलाम्।। 9।। >> अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम्। मुहूर्ता.ल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।। 10।। >> अङ्गदं बहुभि.र्बाणै-र्भूय.स्तं प्रत्यविध्यत। जाम्बवन्तं त्रिभि.र्बाणै-राजघान स्तनान्तरे।। 11।। >> ऋक्षराजं गवाक्षं च जघान बहुभि.श्शरैः। जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।। 12।। >> जग्राह परिघं घोर-मङ्गदः क्रोधमूर्छितः। तस्याङ्गदः प्रकुपितो राक्षसस्य त.मायसम्।। 13।। >> दूरस्थितस्य परिघं रविरश्मि.समप्रभम्। द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।। 14।। >> महापार्श्वाय चिक्षेप वधार्थं वालिन.स्सुतः। स तु क्षिप्तो बलवता परिघ.स्तस्य रक्षसः।। 15।। >> धनुश्च सशरं हस्ता-च्छिरस्त्रं चाप्यपातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।। 16।। >> तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।। 17।। >> करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसार.मयं दृढम्।। 18।। >> राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्।। 19।। >> अङ्गदो मोक्षयामास सरोष.स्स परश्वधम्। स वीरो वज्रसङ्काश-मङ्गदो मुष्टि.मात्मनः।। 20।। >> सँवर्तयन् सुसङ्क्रुद्धः पितु.स्तुल्यपराक्रमः। राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।। 21।। >> इन्द्राशनिसम.स्पर्शं स मुष्टिं विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महामृधे 22।। >> पफाल हृदयं चाशु स पपात हतो भुवि। तस्मिन् निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।। 23।। >> अभवच्च महान् क्रोध.-स्समरे रावणस्य तु। वानराणां च हृष्टानां सिंहनादस्य पुष्कलः।। 24।। >> स्फोटयन्निव शब्देन लङ्कां साट्टाल.गोपुराम्। महेन्द्रेणेव देवानां नाद.स्समभवन् महान्।। 25।। >> अथेन्द्र.शत्रु.स्त्रिदिवालयानां- वनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रः- पुनश्च युद्धाभि मुखोवतस्थे।। 26।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन शततमस्सर्गः। • युद्धकाण्डे सर्गः 100 रामरावणास्त्रपरम्परा महोदर.महापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ। तस्मिंश्च निहते वीरे विरूपाक्षे महाबले।। 1।। >> आविवेश महान् क्रोधो रावणं तु महामृधे। सूतं सञ्चोदयामास वाक्यं चेद.मुवाच ह।। 2।। >> निहताना.ममात्यानां रुद्धस्य नगरस्य च। दुःख.मेषोपनेष्यामि हत्वा तौ रामलक्ष्मणौ।। 3।। >> रामवृक्षं रणे हन्मि सीतापुष्प.फलप्रदम्। प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः।। 4।। >> मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः। हनुमांश्च सुषेणश्च सर्वे च हरियूथपाः।। 5।। >> स दिशो दश घोषेण रथस्यातिरथो महान्। नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत 6।। >> पूरिता तेन शब्देन सनदीगिरि.कानना। सञ्चचाल मही सर्वा सवराह.मृगद्विपा।। 7।। >> तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्। निर्ददाह कपीन् सर्वां-स्ते प्रपेतु.स्समन्ततः।। 8।। >> उत्पपात रजोघोरं तै.र्भग्नै.स्सम्प्रधावितैः। न हि तत् सहितुं शेकुर्-ब्रह्मणा निर्मितं स्वयम्।। 9।। >> तान्यनीका.न्यनेकानि रावणस्य शरोत्तमैः। दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः।। 10।। >> ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्। स ददर्श ततो रामं तिष्ठन्त.मपराजितम्।। 11।। >> लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा। आलिखन्त.मिवाकाश.-मवष्टभ्य मह.द्धनुः।। 12।। >> पद्मपत्र.विशालाक्षं दीर्घबाहु.मरिन्दमम्। ततो रामो महातेजा-स्सौमित्रिसहितो बली।। 13।। >> वानरांश्च रणे भग्ना-नापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्।। 14।। >> विस्फारयितु.मारेभे तत.स्स धनु.रुत्तमम्। महावेगं महानादं निर्भिन्द.न्निव मेदिनीम्।। 15।। >> रावणस्य च बाणौघै.- रामविस्फारितेन च। शब्देन राक्षसास्ते च पेतुश्च शतश.स्तदा।। 16। तयो.श्शरपथं प्राप्तो रावणो राजपुत्रयोः। स बभौ च यथा राहु.-स्समीपे शशिसूर्ययोः।। 17।। >> त.मिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः। मुमोच धनु.रायम्य शरा.नग्निशिखोपमान्।। 18।। >> तान् मुक्तमात्रा.नाकाशे लक्ष्मणेन धनुष्मता। बाणान् बाणै.र्महातेजा रावणः प्रत्यवारयत्।। 19।। >> एक.मेकेन बाणेन त्रिभि.स्त्रीन् दशभि.र्दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्।। 20।। >> अभ्यतिक्रम्य सौमित्रिं रावण.स्समितिञ्जयः। आससाद ततो रामं स्थितं शैल.मिवाचलम्।। 21।। >> स सङ्ख्ये राम.मासाद्य क्रोधसंरक्तलोचनः। व्यसृज.च्छरवर्षाणि रावणो राघवोपरि।। 22।। >> शरधारा.स्ततो रामो रावणस्य धनुश्च्युताः। दृष्ट्वैवापतिता.श्शीघ्रं भल्लान् जग्राह सत्वरम्।। 23।। >> तान्छरौघां.स्ततो भल्लै.स्तीक्ष्णै.श्चिच्छेद राघवः। दीप्यमानान् महावेगान् क्रुद्धा.नाशीविषा.निव।। 24।। >> राघवो रावणं तूर्णं रावणो राघवं तथा। अन्योन्यं विविधै.स्तीक्ष्णै.-श्शरै.रभिववर्षतुः।। 25।। >> चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्। बाणवेगान् समुत्क्षिप्ता-वन्योन्य.मपराजितौ।। 26।। >> तयो.र्भूतानि वित्रेसुर्-युगपत् सम्प्रयुध्यतोः। रौद्रयो.स्सायकमुचोर्- यमान्तक.निकाशयोः।। 27।। >> सन्ततं विविधै.र्बाणैर्- बभूव गगनं तदा। घनै.रिवातपापाये विद्युन्माला.समाकुलैः 28।। >> गवाक्षित.मिवाकाशं बभूव शरवृष्टिभिः। महावेगै.स्सुतीक्ष्णाग्रैर्-गृध्रपत्रै.स्सुवाजितैः 29।। >> शरान्धकार.माकाशं चक्रतुः परमं तदा। गतेस्तं तपने चापि महामेघा.विवोत्थितौ 30।। >> बभूव तुमुलं युद्ध.-मन्योन्यवध.काङ्क्षिणोः। अनासाद्य.मचिन्त्यं च वृत्रवासवयो.रिव 31।। >> उभौ हि परमेष्वासा-वुभौ शस्त्रविशारदौ। उभौ चास्त्रविदां मुख्या-वुभौ युद्धे विचेरतुः।। 32।। >> उभौ हि येन व्रजत-स्तेन तेन शरोर्मयः। ऊर्मयो वायुना- विद्धा जग्मु.स्सागरयो.रिव 33।। >> तत.स्संसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत।। 34।। >> रौद्रचाप.प्रयुक्तां तां नीलोत्पलदल.प्रभाम्। शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत 35।। >> अथ मन्त्रा.नभिजपन्- रौद्र.मस्त्र. मुदीरयन्। शरान् भूय.स्समादाय रामः क्रोधसमन्वितः।। 36।। >> मुमोच च महातेजा-श्चाप.मायम्य वीर्यवान्। ते महामेघसङ्काशे कवचे पतिता.श्शराः 37।। >> अवध्ये राक्षसेन्द्रस्य न व्यथां जनयं.स्तदा। पुन.रेवाथ तं रामो रथस्थं राक्षसाधिपम् 38।। >> ललाटे परमास्त्रेण सर्वास्त्र.कुशलो रणे। ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः 39।। >> श्वसन्तो विविशु.र्भूमिं रावणप्रतिकूलिताः। निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः 40।। >> आसुरं सुमहाघोर.-मन्य.दस्त्रं स.माददे। सिंहव्याघ्र.मुखां.श्चान्यान्- कङ्क.काकमुखा.नपि 41।। >> गृध्र.श्येन.मुखांश्चापि सृगालवदनां.स्तथा। ईहामृगमुखां.श्चान्यान् व्यादितास्यान् भयानकान्।। 42।। >> पञ्चास्यान् लेलिहानांश्च ससर्ज निशिता.न्छरान्। शरान् खरमुखां.श्चान्यान् वराहमुख.संस्थितान् 43।। >> श्वानकुक्कुट.वक्त्रांश्च मकराशीविषाननान्। एता.नन्यांश्च मायाभि.-स्ससर्ज निशिता.न्छरान् 44।। >> रामं प्रति महातेजाः क्रुद्ध.स्सर्प इव श्वसन्। आसुरेण समाविष्ट.स्सोस्त्रेण रघुनन्दनः 45।। >> ससर्जास्त्रं महोत्साहः पावकं पावकोपमः। अग्निदीप्तमुखान् बाणां-स्तथा सूर्यमुखा.नपि।। 46।। >> चन्द्रार्ध.चन्द्रवक्त्रांश्च धूमकेतुमुखा.नपि। ग्रहनक्षत्र.वर्णांश्च महोल्का मुखसंस्थितान् 47।। >> विद्युज्जिह्वोपमां.श्चान्यान् ससर्ज निशिता.न्छरान्। ते रावणशरा घोरा- राघवास्त्र.समाहताः 48।। >> विलयं जग्मु.राकाशे जग्मुश्चैव सहस्रशः। तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।। 49।। >> हृष्टा नेदु.स्तत.स्सर्वे कपयः कामरूपिणः। सुग्रीव.प्रमुखा वीराः परिवार्य तु राघवम्।। 50।। >> तत.स्तदस्त्रं विनिहत्य राघवः- प्रसह्य तद्रावण बाहु.निस्सृतम्। मुदान्वितो दाशरथि.र्महाहवे- विनेदु.रुच्चै.र्मुदिताः कपीश्वराः।। 51।। >> श्रीमद्रामायणे युद्धकाण्डे शततमस्सर्गः। • युद्धकाण्डे सर्गः 101 लक्ष्मणशक्तिक्षेपः तस्मिन् प्रतिहतेस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधा.च्चास्त्र.मनन्तरम्।। 1।। >> मयेन विहितं रौद्र.-मन्य.दस्त्रं महाद्युतिः। उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे।। 2।। >> तत.श्शूलानि निश्चेरु-र्गदाश्च मुसलानि च। कार्मुका.द्दीप्यमानानि वज्रसाराणि सर्वशः।। 3।। >> मुद्गराः कूटपाशाश्च दीप्ता.श्चाशनय.स्तथा। निष्पेतु.र्विविधा.स्तीक्ष्णा वाता इव युगक्षये।। 4।। >> तदस्त्रं राघव.श्श्रीमा-नुत्तमास्त्रविदां वरः। जघान परमास्त्रेण गान्धर्वेण महाद्युतिः।। 5।। >> तस्मिन् प्रतिहतेस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्ष.-स्सौर.मस्त्र. मुदीरयत्।। 6।। >> तत.श्चक्राणि निष्पेतुर्- भास्वराणि महान्ति च। कार्मुका.द्भीमवेगस्य दशग्रीवस्य धीमतः।। 7।। >> तै.रासी.द्गगनं दीप्तं सम्पतद्भि.रित.स्ततः। पतद्भिश्च दिशो दीप्तै-श्चन्द्रसूर्यग्रहै.रिव।। 8।। >> तानि चिच्छेद बाणौघै-श्चक्राणि तु स राघवः। आयुधानि विचित्राणि रावणस्य चमूमुखे।। 9।। >> तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभि.र्बाणै.- रामं सर्वेषु मर्मसु।। 10।। >> स विद्धो दशभि.र्बाणै-र्महाकार्मुक.निस्सृतैः। रावणेन महातेजा न प्राकम्पत राघवः।। 11।। >> ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः। राघवस्तु सुसङ्क्रुद्धो रावणं बहुभि.श्शरैः।। 12।। >> एतस्मि.न्नन्तरे क्रुद्धो राघवस्यानुजो बली। लक्ष्मण.स्सायकान् सप्त जग्राह परवीरहा।। 13।। >> तै.स्सायकै.र्महावेगै.- रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा।। 14।। >> सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। जहार लक्ष्मण.श्श्रीमान् नैरृतस्य महाबलः।। 15।। >> तस्य बाणैश्च चिच्छेद धनु.र्गजकरोपमम्। लक्ष्मणो राक्षसेन्द्रस्य पञ्चभि.र्निशितै.श्शरैः।। 16।। >> नीलमेघनिभां.श्चास्य सदश्वान् पर्वतोपमान्। जघानाप्लुत्य गदया रावणस्य विभीषणः।। 17।। >> हताश्वा.द्वेगवान् वेगा-दवप्लुत्य महारथात्। क्रोध.माहारय.त्तीव्रं भ्रातरं प्रति रावणः।। 18।। >> तत.श्शक्तिं महाशक्ति-र्दीप्तां दीप्ताशनी.मिव। विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्।। 19।। >> अप्राप्ता.मेव तां बाणै-स्त्रिभि.श्चिच्छेद लक्ष्मणः। अथोदतिष्ठत् सन्नादो वानराणां तदा रणे।। 20।। >> स पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिव.श्च्युता।। 21।। >> तत.स्सम्भाविततरान् कालेनापि दुरासदाम्। जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा।। 22।। >> सा वेगिता बलवता रावणेन दुरासदा। जज्वाल सुमहाघोरा शक्राशनि.समप्रभा 23।। >> एतस्मि.न्नन्तरे वीरो लक्ष्मण.स्तं विभीषणम्। प्राणसंशय.मापन्नं तूर्ण.मेवाभ्यपद्यत।। 24।। >> तं विमोक्षयितुं वीर-श्चाप.मायम्य लक्ष्मणः। रावणं शक्तिहस्तं तं शरवर्षै.रवाकिरत् 25।। >> कीर्यमाण.श्शरौघेण विसृष्टेन महात्मना। न प्रहर्तुं मन.श्चक्रे विमुखीकृत.विक्रमः 26।। >> मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मणाभिमुख.स्तिष्ठ-न्निदं वचन.मब्रवीत्।। 27।। >> मोक्षित.स्ते बलश्लाघिन् यस्मा.देवं विभीषणः। विमुच्य राक्षसं शक्ति-स्त्वयीयं विनिपात्यते 28।। >> एषा ते हृदयं भित्त्वा शक्ति.र्लोहितलक्षणा। मद्बाहु.परिघोत्सृष्टा प्राणा.नादाय यास्यति।। 29।। >> इत्येव.मुक्त्वा तां शक्ति.-मष्टघण्टां महास्वनाम्। मयेन मायाविहिता.-ममोघां शत्रुघातिनीम् 30।। >> लक्ष्मणाय समुद्दिश्य ज्वलन्ती.मिव तेजसा। रावणः परमक्रुद्ध-श्चिक्षेप च ननाद च।। 31।। >> सा क्षिप्ता भीमवेगेन शक्राशनि.समस्वना। शक्ति.रभ्यपत.द्वेगा-ल्लक्ष्मणं रणमूर्धनि।। 32।। >> ता.मनुव्याहर.च्छक्ति.-मापतन्तीं स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा।। 33।। >> रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। मुक्ता शूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा।। 34।। >> न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः।। 35।। >> ततो रावणवेगेन सुदूर.मवगाढया। शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः।। 36।। >> तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहा.न्महातेजा विषण्णहृदयोभवत् 37।। >> स मुहूर्त.मनुध्याय बाष्पव्याकुल.लोचनः। बभूव संरब्धतरो युगान्त इव पावकः 38।। >> न विषादस्य कालोय.-मिति सञ्चिन्त्य राघवः। चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः 39।। >> सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च। स ददर्श ततो राम.श्शक्त्या भिन्नं महाहवे 40।। >> लक्ष्मणं रुधिरादिग्धं सपन्नग.मिवाचलम्। ता.मपि प्रहितां शक्तिं रावणेन बलीयसा।। 41।। >> यत्नत.स्ते हरिश्रेष्ठा न शेकु.रवमर्दितुम्। अर्दिता.श्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा।। 42।। >> सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम्। तां कराभ्यां परामृश्य राम.श्शक्तिं भयावहाम्।। 43।। >> बभञ्ज समरे क्रुद्धो बलव.द्विचकर्ष च। तस्य निष्कर्षत.श्शक्तिं रावणेन बलीयसा।। 44।। >> शरा.स्सर्वेषु गात्रेषु पातिता मर्मभेदिनः। अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्।। 45।। >> अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः। लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः।। 46।। >> पराक्रमस्य कालोयं सम्प्राप्तो मे चिरेप्सितः। पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः।। 47।। >> काङ्क्षत.स्स्तोककस्येव घर्मान्ते मेघदर्शनम्। अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः।। 48।। >> अरावण.मरामं वा जग.द्द्रक्ष्यथ वानराः। राज्यनाशं वने वासं दण्डके परिधावनम्।। 49।। >> वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम्। प्राप्तं दुःखं मह.द्घोरं क्लेशं च निरयोपमम्।। 50।। >> अद्य सर्व.महं त्यक्ष्ये हत्वा तं रावणं रणे। यदर्थं वानरं सैन्यं समानीत.मिदं मया 51।। >> सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे। यदर्थं सागरः क्रान्त.-स्सेतु.र्बद्धश्च सागरे।। 52।। >> सोय.मद्य रणे पाप-श्चक्षु.र्विषय.मागतः। चक्षुर्विषय.मागम्य नायं जीवितु.मर्हति 53।। >> दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः। स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः 54।। >> आसीनाः पर्वताग्रेषु ममेदं रावणस्य च। अद्य रामस्य रामत्वं पश्यन्तु मम सँयुगे।। 55।। >> त्रयो लोका.स्सगन्धर्वा.-स्सदेवा.स्सर्षिचारणाः। अद्य कर्म करिष्यामि यल्लोका.स्सचराचराः 56। सदेवाः कथयिष्यन्ति यावद्भूमि.र्धरिष्यति। समागम्य सदा लोके यथा युद्धं प्रवर्तितम्।। 57। एव.मुक्त्वा शितै.र्बाणै.-स्तप्तकाञ्चन.भूषणैः। आजघान दशग्रीवं रणे राम.स्समाहितः 58।। >> अथ प्रदीप्तै.र्नाराचै-र्मुसलै.श्चापि रावणः। अभ्यवर्ष.त्तदा रामं धाराभि.रिव तोयदः।। 59।। >> रामरावण.मुक्ताना.मन्योन्य मभिनिघ्नताम्। शराणां च शराणां च बभूव तुमुल.स्स्वनः 60। ते भिन्नाश्च विकीर्णाश्च रामरावणयो.श्शराः। अन्तरिक्षा.त्प्रदीप्ताग्रा निपेतु.र्धरणीतले।। 61।। >> तयो.र्ज्यातलनिर्घोषो रामरावणयो.र्महान्। त्रासन.स्सर्वभूतानां स बभूवाद्भुतोपमः।। 62।। >> स कीर्यमाण.श्शरजालवृष्टिभिर्- महात्मना दीप्तधनुष्मतार्दितः। भयात् प्रदुद्राव समेत्य रावणो- यथानिलेनाभिहतो बलाहकः।। 63।। >> श्रीमद्रामायणे युद्धकाण्डे एकोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 102 लक्ष्मणसञ्जीवनम् शक्त्या विनिहितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं रुधिरौघ.परिप्लुतम्।। 1।। >> स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृज.न्नेव बाणौघान् सुषेणं वाक्य.मब्रवीत् 2।। >> एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ। सर्पव.द्वेष्टते वीरो मम शोक.मुदीरयन्।। 3।। >> शोणितार्द्र.मिमं वीरं प्राणै.रिष्टतरं मम। पश्यतो मम का शक्ति-र्योद्धुं पर्याकुलात्मनः।। 4।। >> अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्व.मापन्नः प्राणै.र्मे किं सुखेन च।। 5।। >> लज्जतीव हि मे वीर्यं भ्रश्यतीव करा.द्धनुः। सायका व्यवसीदन्ति दृष्टि.र्बाष्पवशं गता।। 6।। >> अवसीदन्ति गात्राणि स्वप्नयाने नृणा.मिव। चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते 7। भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। ?विनिष्टनन्तं दुःखार्तं मर्मण्यभिहितं भृशम्।। 8।। >> राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोक.परायणः।। 9।। >> परं विषाद.मापन्नो विललापाकुलेन्द्रियः। न हि युद्धेन मे कार्यं नैव प्राणै.र्न सीतया।। 10।। >> भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु। किं मे राज्येन किं प्राणै-र्युद्धे कार्यं न विद्यते।। 11।। >> यत्रायं निहत.श्शेते रणमूर्धनि लक्ष्मणः। देशे देशे कलत्राणि देशे देशे च बान्धवाः ।। 12।। >> तं तु देशं न पश्यामि यत्र भ्राता सहोदरः।  इत्येवं विलपन्तं तं शोक.विह्वलितेन्द्रिय0।। 13।। >> विवेष्टमानं करुण.-मुच्छ्वसन्तं पुनः पुनः। राम.माश्वासयन् वीर.-स्सुषेणो वाक्य. मब्रवीत्।। 14।। >> न मृतोयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः। न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम्।। 15।। >> सुप्रभं च प्रसन्नं च मुख.मस्याभिलक्ष्यते। पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने।। 16।। >> एवं न विद्यते रूपं गतासूनां विशां पते। दीर्घायुष.स्तु ये मर्त्या-स्तेषां तु मुख.मीदृशम्।। 17।। >> नायं प्रेतत्व.मापन्नोलक्ष्मणो लक्ष्मिवर्धनः। मा विषादं कृथा वीर सप्राणोय.मरिन्दमः।। 18।। >> आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले। सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः।। 19।। >> एव.मुक्त्वा तु वाक्यज्ञ.स्सुषेणो राघवं वचः। समीपस्थ.मुवाचेदं हनूमन्त.मभित्वरन् 20।। >> सौम्य शीघ्र.मितो गत्वा शैल.मोषधिपर्वतम्। पूर्वं ते कथितो योसौ वीर जाम्बवता शुभः 21।। >> दक्षिणे शिखरे तस्य जाता.मोषधि.मानय। विशल्यकरणी नाम विशल्यकरणीं शुभाम् 22।। >> सौवर्णकरणीं चापि तथा सञ्जीवनी.मपि। सन्धानकरणीं चापि गत्वा शीघ्र.मिहानय 23।। >> सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः। इत्येव.मुक्तो हनुमान् गत्वा चौषधिपर्वतम् 24।। >> चिन्ता.मभ्यगम.च्छ्रीमा-नजानं.स्तां महौषधी0। तस्य बुद्धि.स्समुत्पन्ना मारुते.रमितौजसः 25।। >> इद मेव.गमिष्यामि गृहीत्वा शिखरं गिरेः। अस्मिन् हि शिखरे जाता-मोषधीं तां सुखावहाम्।। 26।। >> प्रतर्केणावगच्छामि सुषेणोप्येव.मब्रवीत्। अगृह्य यदि गच्छामि विशल्यकरणी.महम्।। 27।। >> कालात्ययेन दोष.स्स्या-द्वैक्लब्यं च मह.द्भवेत्। इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः 28।। >> आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरे.श्शिरः। फुल्ल.नानातरुगणं समुत्पाट्य महाबलः ।। 29।। >> गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्। सनील.मिव जीमूतं तोय.पूर्णं नभस्थलात्।। 30।। >> आपपात गृहीत्वा तु हनूमान् शिखरं गिरेः। समागम्य महावेग-स्सन्न्यस्य शिखरं गिरेः।। 31।। >> विश्रम्य किञ्चि.द्धनुमान् सुषेण.मिद. मब्रवीत्। ओषधीं नावगच्छामि ता.महं हरिपुङ्गव 32।। >> तदिदं शिखरं कृत्स्नं गिरे.स्तस्याहृतं मया। एवं कथयमानं तं प्रशस्य पवनात्मजम् 33।। >> सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम्। विस्मितास्तु बभूवु.स्ते रणे वानरराक्षसाः 34।। >> दृष्ट्वा हनुमतः कर्म सुरै.रपि सुदुष्करम्। तत.स्सङ्क्षोदयित्वा ता.मोषधीं वानरोत्तमः 35।। >> लक्ष्मणस्य ददौ नस्त.-स्सुषेण.स्सुमहाद्युतेः। सशल्य.स्स समाघ्राय लक्ष्मणः परवीरहा 36।। >> विशल्यो विरुज.श्शीघ्र-मुदतिष्ठ.न्महीतलात्। समुत्थितं ते हरयो- भूतलात् प्रेक्ष्य लक्ष्मणम्।। 37।। >> साधु साध्विति सुप्रीता.-स्सुषेणं प्रत्यपूजयन्। एह्येही.त्यब्रवी.द्रामो लक्ष्मणं परवीरहा 38।। >> सस्वजे स्नेहगाढं च बाष्प.पर्याकुलेक्षणः। अब्रवीच्च परिष्वज्य सौमित्रिं राघव.स्तदा।। 39।। >> दिष्ट्या त्वां वीर पश्यामि मरणात् पुन.रागतम्। न हि मे जीवितेनार्थ.-स्सीतया चापि लक्ष्मण 40।। >> को हि मे विजयेनार्थ-स्त्वयि पञ्चत्व.मागते। इत्येवं वदत.स्तस्य राघवस्य महात्मनः 41।। >> खिन्न.श्शिथिलया वाचा लक्ष्मणो वाक्य.मब्रवीत्। तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम 42।। >> लघुः कश्चि.दिवासत्त्वो नैवं वक्तु.मिहार्हसि। न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोनघ 43।। >> लक्ष्मणं हि महत्त्वस्य प्रतिज्ञा.परिपालनम्। नैराश्य.मुपगन्तुं ते त.दलं मत्कृतेनघ 44।। >> वधेन रावणस्याद्य प्रतिज्ञा.मनुपालय। न जीवन् यास्यते शत्रु.-स्तव बाणपथं गतः 45।। >> नर्दत.स्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः। अहं तु वध.मिच्छामि शीघ्र.मस्य दुरात्मनः। याव.दस्तं न यात्येष कृतकर्मा दिवाकरः।। 46।। >> यदि वध.मिच्छसि रावणस्य सङ्ख्ये- यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम्। यदि तव राजवरात्मजाभिलाषः- कुरु च वचो मम शीघ्र.मद्य वीर।। 47।। >> श्रीमद्रामायणे युद्धकाण्डे द्व्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 103 ऐन्द्ररथकेतुपातनम् लक्ष्मणेन तु तद्वाक्य-मुक्तं श्रुत्वा स राघवः। सन्दधे परवीरघ्नो धनु.रादाय वीर्यवान्।। 1।। >> रावणाय शरान् घोरान् विससर्ज चमूमुखे। अथान्यं रथ.मारुह्य रावणो राक्षसाधिपः 2।। >> अभ्यद्रवत काकुत्स्थं स्वर्भानु.रिव भास्करम्। दशग्रीवो रथस्थस्तु रामं वज्रोपमै.श्शरैः 3।। >> आजघान महाघोरै-र्धाराभि.रिव तोयदः। दीप्तपावक.सङ्काशै.-श्शरैः काञ्चनभूषणैः 4।। >> निर्बिभेद रणे रामो दशग्रीवं समाहित0। भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः 5।। >> न समं युद्ध.मित्याहु-र्देवगन्धर्व.दानवाः। ततः काञ्चन.चित्राङ्गः किङ्किणीशत.भूषितः 6।। >> तरुणादित्य.सङ्काशो वैदूर्यमय.कूबरः। सदश्वैः काञ्चनापीडैर्- युक्त.श्श्वेत.प्रकीर्णकैः 7।। >> हरिभि.स्सूर्यसङ्काशैर्- हेमजाल.विभूषितैः। रुक्मवेणुध्वज.श्श्रीमान् देवराजरथो वरः 8।। >> देवराजेन सन्दिष्टो रथ.मारुह्य मातलिः। अभ्यवर्तत काकुत्स्थ.मवतीर्य त्रिविष्टपात् 9।। >> अब्रवी.च्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलि.र्मातलि.र्वाक्यं सहस्राक्षस्य सारथिः।। 10।। >> सहस्राक्षेण काकुत्स्थ रथोयं विजयाय ते। दत्त.स्तव महासत्त्व- श्रीम.न्छत्रुनिबर्हण।। 11।। >> इद.मैन्द्रं मह.च्चापं कवचं चाग्निसन्निभम्। शरा.श्चादित्यसङ्काशा.-श्शक्तिश्च विमला शिता।। 12।। >> आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना राम महेन्द्र इव दानवान्।। 13।। >> इत्युक्त.स्सम्परिक्रम्य रथं त.मभिवाद्य च। आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन्।। 14।। >> तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्। रामस्य च महाबाहो. रावणस्य च रक्षसः।। 15।। >> स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्।। 16।। >> अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुन.रेव निशाचरः।। 17।। >> ते रावणधनु.र्मुक्ता.-श्शराः काञ्चनभूषणाः। अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः।। 18।। >> ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राम.मेवाभ्यवर्तन्त व्यादितास्या भयानकाः।। 19।। >> तै.र्वासुकि.समस्पर्शैर्- दीप्तभोगै.र्महाविषैः। दिशश्च सन्तता.स्सर्वाः प्रदिशश्च समावृताः 20।। >> तान् दृष्ट्वा पन्नगान् राम.-स्स.मापतत आहवे। अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् 21।। >> ते राघव शरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरु.स्सर्पशत्रवः 22।। >> ते तान् सर्वा.न्छरान् जघ्नु.स्सर्परूपान् महाजवान्। सुपर्णरूपा रामस्य विशिखाः कामरूपिणः 23।। >> अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत् तदा रामं घोराभि.श्शरवृष्टिभिः 24।। >> तत.श्शरसहस्रेण राम.मक्लिष्टकारिणम्। अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत 25।। >> चिच्छेद केतु.मुद्दिश्य शरेणैकेन रावणः। पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् 26।। >> ऐन्द्रा.नभिजघानाश्वा-न्छरजालेन रावणः। तद्दृष्ट्वा सुमहत् कर्म रावणस्य दुरात्मनः 27।। >> विषेदु.र्देवगन्धर्वा दानवा.श्चारणै.स्सह। राम.मार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः 28।। >> व्यथिता वानरेन्द्राश्च बभूवु.स्सविभीषणाः। रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा 29।। >> प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्। समाक्रम्य बुध.स्तस्थौ प्रजाना.मशुभावहः 30।। >> सधूम.परिवृत्तोर्मिः प्रज्वलन्निव सागरः। उत्पपात तदा क्रुद्ध.-स्स्पृश.न्निव दिवाकरम् 31।। >> शस्त्रवर्ण.स्सुपरुषो मन्दरश्मि.र्दिवाकरः। अदृश्यत कबन्धाङ्ग-स्संसक्तो धूमकेतुना 32।। >> कोसलानां च नक्षत्रं व्यक्त.मिन्द्राग्निदैवतम्। आक्रम्याङ्गारक.स्तस्थौ विशाखा.मपि चाम्बरे 33।। >> दशास्यो विंशतिभुजः प्रगृहीत.शरासनः। अदृश्यत दशग्रीवो मैनाक इव पर्वतः 34।। >> निरस्यमानो रामस्तु दशग्रीवेण रक्षसा। नाशक्नो.दभिसन्धातुं सायकान् रणमूर्धनि 35।। >> स कृत्वा भ्रुकुटीं क्रुद्धः किञ्चित् संरक्तलोचनः। जगाम सुमहाक्रोधं निर्दह.न्निव चक्षुषा।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे त्र्युत्तर.शततमस्सर्गः। • युद्धकाण्डे सर्गः 104 रावणशूलभङ्गः तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी।। 1।। >> सिंहशार्दूलवा.न्छैल.-स्सञ्चचालाचलद्रुमः। बभूव चापि क्षुभित.-स्समुद्र.स्सरितां पतिः 2।। >> खराश्च खरनिर्घोषा गगने परुषस्वनाः। औत्पातिकानि नर्दन्त.-स्समन्तात् परिचक्रमुः 3।। >> रामं दृष्ट्वा सुसङ्क्रुद्ध-मुत्पातांश्च सुदारुणान्। वित्रेसु.स्सर्वभूतानि रावणस्याभव.द्भयम् 4।। >> विमानस्था.स्तदा देवा गन्धर्वाश्च महोरगाः। ऋषिदानव.दैत्याश्च गरुत्मन्तश्च खेचराः 5।। >> ददृशु.स्ते तदा युद्धं लोकसँवर्त.संस्थितम्। नानाप्रहरणै.र्भीमै.-श्शूरयो.स्सम्प्रयुध्यतोः 6।। >> ऊचु.स्सुरासुरा.स्सर्वे तदा विग्रह.मागताः। प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्।। 7।। >> दशग्रीवं जये.त्याहु-रसुरा.स्समवस्थिताः। देवा राम.मथोचु.स्ते त्वं जयेति पुनः पुनः 8।। >> एतस्मि.न्नन्तरे क्रोधा-द्राघवस्य स रावणः। प्रहर्तुकामो दुष्टात्मा- स्पृशन् प्रहरणं महत्।। 9।। >> वज्रसारं महानादं सर्वशत्रु.निबर्हणम्। शैलशृङ्गनिभैः कूटै-श्चितं दृष्टिभयावहम्।। 10।। >> सधूम.मिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्। अतिरौद्र.मनासाद्यं कालेनापि दुरासदम्।। 11।। >> त्रासनं सर्वभूतानां दारणं भेदनं तथा। प्रदीप्तमिव रोषेण शूलं जग्राह रावणः।। 12।। >> तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान्। अनेकै.स्समरे शूरै.- राक्षसैः परिवारितः।। 13।। >> समुद्यम्य महाकायो ननाद युधि भैरवम्। संरक्तनयनो रोषात् स्वसैन्य.मभिहर्षयन्।। 14।। >> पृथिवीं चान्तरिक्षं च दिशश्च प्रदिश.स्तथा। प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः।। 15।। >> अतिनादस्य नादेन तेन तस्य दुरात्मनः। सर्वभूतानि वित्रेसु-स्सागरश्च प्रचुक्षुभे।। 16।। >> स गृहीत्वा महावीर्य.-श्शूलं तद्रावणो महत्। विनद्य सुमहानादं रामं परुष.मब्रवीत्।। 17।। >> शूलोयं वज्रसार.स्ते राम रोषा.न्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति।। 18।। >> रक्षसा.मद्य शूराणां निहतानां चमूमुखे। त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्।। 19।। >> तिष्ठेदानीं निहन्मि त्वा-मेष शूलेन राघव। एव.मुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः।। 20।। >> तद्रावणकरा.न्मुक्तं विद्युज्ज्वाला.समाकुलम्। अष्टघण्टं महानादं वियद्गत.मशोभत।। 21।। >> तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्। ससर्ज विशिखान् राम-श्चाप.मायम्य वीर्यवान् 22।। >> आपतन्तं शरौघेण वारयामास राघवः। उत्पतन्तं युगान्ताग्निं जलौघै.रिव वासवः 23।। >> निर्ददाह स तान् बाणान् रामकार्मुक.निस्सृतान्। रावणस्य महाशूलः पतङ्गा.निव पावकः।। 24।। >> तान् दृष्ट्वा भस्मसा.द्भूता-न्छूलसंस्पर्श.चूर्णितान्। सायका.नन्तरिक्षस्थान् राघवः क्रोध.माहरत् 25।। >> स तां मातलिना नीतां शक्तिं वासवनिर्मिताम्। जग्राह परमक्रुद्धो राघवो रघुनन्दनः।। 26।। >> सा तोलिता बलवता शक्ति.र्घण्टाकृत.स्वना। नभः प्रज्वालयामास युगान्तोल्केन सप्रभा।। 28।। >> सा क्षिप्ता राक्षसेन्द्रस्य तस्मि.न्छूले पपात ह। भिन्न.श्शक्त्या महान्छूलो निपपात गतद्युतिः।। 29।। >> निर्बिभेद ततो बाणैर्-हया.नस्य महाजवान्। राम.स्तीक्ष्णै.र्महावेगैर्-वज्रकल्पै.श्शितै.श्शरैः 30।। >> निर्बिभेदोरसि तदा रावणं निशितै.श्शरैः। राघवः पर.मायत्तो ललाटे पत्रिभि.स्त्रिभिः 31।। >> स शरै.र्भिन्नसर्वाङ्गो गात्रप्रस्रुत.शोणितः। राक्षसेन्द्र.स्समूहस्थः फुल्लाशोक इवाबभौ 32।। >> स रामबाणै.रतिविद्धगात्रो- निशाचरेन्द्रः क्षतजार्द्रगात्रः। जगाम खेदं च समाजमध्ये- क्रोधं च चक्रे सुभृशं तदानीम्।। 33।। >> श्रीमद्रामायणे युद्धकाण्डे चतुरुत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 105 दशग्रीवविघूर्णनम् स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो रणे। रावण.स्समरश्लाघी महाक्रोध.मुपागमत्।। 1।। >> स दीप्तनयनो रोषा-च्चाप.मायम्य वीर्यवान्। अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे 2।। >> बाणधारा.सहस्रैस्तु स तोयद इवाम्बरात्। राघवं रावणो बाणै-स्तटाक.मिव पूरयत् 3।। >> पूरित.श्शरजालेन धनुर्मुक्तेन सँयुगे। महागिरि.रिवाकम्प्यः- काकुत्स्थो न प्रकम्पते 4।। >> स शरै.श्शरजालानि वारयन् समरे स्थितः। गभस्ती.निव सूर्यस्य प्रतिजग्राह वीर्यवान् 5।। >> तत.श्शरसहस्राणि क्षिप्रहस्तो निशाचरः। निजघानोरसि क्रुद्धो राघवस्य महात्मनः 6।। >> स शोणित समादिग्ध.-स्समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः 7।। >> शराभिघात.संरब्ध.-स्सोपि जग्राह सायकान्। काकुत्स्थ.स्सुमहातेजा युगान्तादित्यवर्चसः 8।। >> ततोन्योन्यं सुसंरब्धा-वुभौ तौ रामरावणौ। शरान्धकारे समरे नोपालक्षयतां तदा।। 9।। >> ततः क्रोधसमाविष्टो रामो दशरथात्मजः। उवाच रावणं वीरः प्रहस्य परुषं वचः।। 10।। >> मम भार्या जनस्थाना-दज्ञाना.द्राक्षसाधम। हृता ते विवशा यस्मात् तस्मा.त्त्वं नासि वीर्यवान्।। 11।। >> मया विरहितां दीनां वर्तमानां महावने। वैदेहीं प्रसभं हृत्वा शूरोह.मिति मन्यसे।। 12।। >> स्त्रीषु शूर विनाथासु परदाराभिमर्शक। कृत्वा कापुरुषं कर्म शूरोह.मिति मन्यसे।। 13।। >> भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित। दर्पा.न्मृत्यु.मुपादाय शूरोह.मिति मन्यसे।। 14।। >> शूरेण धनदभ्रात्रा बलै.स्समुदितेन च। श्लाघनीयं यशस्यं च कृतं कर्म मह.त्त्वया।। 15।। >> उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च। कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्।। 16।। >> शूरोह.मिति चात्मान.मवगच्छसि दुर्मते। नैव लज्जास्ति ते सीतां चोरव.द्व्यपकर्षतः।। 17।। >> यदि मत्सन्निधौ सीता धर्षिता स्यात् त्वया बलात्। भ्रातरं तु खरं पश्ये-स्तदा मत्सायकै.र्हतः।। 18।। >> दिष्ट्यासि मम दुष्टात्मं-श्चक्षु.र्विषय.मागतः। अद्य त्वां सायकै.स्तीक्ष्णैर्- नयामि यमसादनम्।। 19।। >> अद्य ते मच्छरै.श्छिन्नं शिरो ज्वलितकुण्डलम्। क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु।। 20।। >> निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षा-च्छर.शल्यान्तरोत्थितम्।। 21।। >> अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते। कर्षन्त्वान्त्राणि पतगाः गरुत्मन्त इवोरगान् 22।। >> इत्येवं स वदन् वीरो राम.श्शत्रुनिबर्हणः। राक्षसेन्द्रं समीपस्थं शरवर्षै.रवाकिरत् 23।। >> बभूव द्विगुणं वीर्यं बलं हर्षश्च सँयुगे। रामस्यास्त्रबलं चैव शत्रो.र्निधनकाङ्क्षिणः 24।। >> प्रादुर्बभूवु.रस्त्राणि सर्वाणि विदितात्मनः। प्रहर्षाच्च महातेजा.-श्शीघ्रहस्ततरोभवत् 25। शुभा.नेतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दय.द्रामो रावणं राक्षसान्तकृत्।। 26।। >> हरीणां चाश्म.निकरै.-श्शरवर्षैश्च राघवात्। हन्यमानो दशग्रीवो विघूर्णहृदयोभवत्।। 27।। >> यदा च शस्त्रं नारेभे न व्यकर्ष.च्छरासनम्। नास्य प्रत्यकरो.द्वीर्यं विक्लवेनान्तरात्मना।। 28। क्षिप्ता.श्चापि शरा.स्तेन शस्त्राणि विविधानि च। न रणार्थाय वर्तन्ते मृत्युकालेभिवर्ततः 29।। >> सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्। शनै.र्युद्धा.दसम्भ्रान्तो रथं तस्यापवाहयत्।। 30।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 106 सारथिविज्ञेयम् स तु मोहात् सुसङ्क्रुद्धः कृतान्त.बलचोदितः। क्रोधसंरक्त.नयनो रावण.स्सूत.मब्रवीत्।। 1।। >> हीनवीर्य.मिवाशक्तं पौरुषेण विवर्जितम्। भीरुं लघु.मिवासत्त्वं विहीन.मिव तेजसा 2।। >> विमुक्त.मिव मायाभि-रस्त्रै.रिव बहिष्कृतम्। मा.मवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे 3।। >> किमर्थं मा.मवज्ञाय मच्छन्द.मनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोय.मपवाहितः 4।। >> त्वयाद्य हि ममानार्य चिरकाल.समार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः।। 5।। >> शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोहं कृतः कापुरुष.स्त्वया 6।। >> यस्त्वं रथ.मिमं मोहा.न्न चोद्वहसि दुर्मते। सत्योयं प्रतितर्को मे परेण त्व.मुपस्कृतः।। 7।। >> न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः। रिपूणां सदृशं चैत-न्न त्वयैतत् स्वनुष्ठितम् 8।। >> निवर्तय रथं शीघ्रं याव.न्नोपैति मे रिपुः। यदि वाध्युषितोसि त्वं स्मर्यन्ते यदि वा गुणाः 9।। >> एवं परुष.मुक्तस्तु हितबुद्धि.रबुद्धिना। अब्रवी.द्रावणं सूतो हितं सानुनयं वचः।। 10।। >> न भीतोस्मि न मूढोस्मि नोपजप्तोस्मि शत्रुभिः। न प्रमत्तो न निस्स्नेहो विस्मृता न च सत्क्रिया।। 11।। >> मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रस्कन्न.मनसा प्रिय.मित्यप्रियं कृतम्।। 12।। >> नास्मि.न्नर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चि.ल्लघु.रिवानार्यो दोषतो गन्तु.मर्हसि।। 13।। >> श्रूयता.मभिधास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभि.-स्सँयुगे विनिवर्तितः।। 14।। >> श्रमं तवावगच्छामि महता रणकर्मणा। न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये।। 15।। >> रथोद्वहन.खिन्नाश्च त इमे रथवाजिनः। दीना घर्म.परिश्रान्ता गावो वर्षहता इव।। 16।। >> निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षया.म्यप्रदक्षिणम्।। 17।। >> देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च।  दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्।। 18।। >> स्थलनिम्नानि भूमेश्च समानि विषमाणि च।  युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्।। 19।। >> उपयानापयाने च स्थानं प्रत्यपसर्पणम्।  सर्व.मेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना।। 20।। >> तव विश्राम.हेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृत.मिदं मया।। 21।। >> न मया स्वेच्छया वीर रथोय.मपवाहितः। भर्तृस्नेह.परीतेन मयेदं यत्कृतं विभो 22।। >> आज्ञापय यथातत्त्वं वक्ष्य.स्यरिनिषूदन। तत् करिष्याम्यहं वीरं गतानृण्येन चेतसा।। 23।। >> सन्तुष्ट.स्तेन वाक्येन रावण.स्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोब्रवी.दिदम् 24।। >> रथं शीघ्र.मिमं सूत राघवाभिमुखं कुरु। नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः 25।। >> एव.मुक्त्वा तत.स्तुष्टो रावणो राक्षसेश्वरः। ददौ तस्मै शुभं ह्येकं हस्ताभरण. मुत्तमम्।। 26।। >> ततो द्रुतं रावणवाक्यचोदितः- प्रचोदयामास हयान् स सारथिः। स राक्षसेन्द्रस्य ततो महारथः- क्षणेन रामस्य रणाग्रतोभवत्।। 27।। >> श्रीमद्रामायणे युद्धकाण्डे षडुत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 107 आदित्यहृदयम् ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्।। 1।। >> दैवतैश्च समागम्य द्रष्टु.मभ्यागतो रणम्। उपागम्याब्रवी.द्राम.-मगस्त्यो भगवा.नृषिः।। 2। राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वा.नरीन् वत्स समरे विजयिष्यसि।। 3। आदित्यहृदयं पुण्यं सर्वशत्रु.विनाशनम्। जयावहं जपे.न्नित्य.-मक्षय्यं परमं शिवम्।। 4। सर्वमङ्गल.माङ्गल्यं सर्वपाप.प्रणाशनम्। चिन्ताशोक.प्रशमन.-मायुर्वर्धन.मुत्तमम् 5। रश्मिमन्तं समुद्यन्तं देवासुर.नमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्।। 6। सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुर.गणान् लोकान् पाति गभस्तिभिः 7। एष ब्रह्मा च विष्णुश्च शिव.स्स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यम.स्सोमो ह्यपां पतिः 8। पितरो वसव.स्साध्या ह्यश्विनौ मरुतो मनुः। वायु.र्वह्निः प्रजा प्राण ऋतुकर्ता प्रभाकरः 9। (सूर्य नामावलिः) आदित्य.स्सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर् हिरण्यरेता दिवाकरः 10। हरिदश्व.स्सहस्रार्चि.-स्सप्तसप्ति.र्मरीचिमान्। तिमिरोन्मथन.श्शम्भुः त्वष्टा मार्ताण्ड‌ अंशुमान् 11। हिरण्यगर्भ.श्शिशिर-स्तपनो भास्करो रविः। अग्निगर्भोदितेः पुत्र.-श्शङ्ख.श्शिशिरनाशनः 12। व्योमनाथ.स्तमोभेदी ऋग्यजुस्साम.पारगः। घनवृष्टि.रपां मित्रो विन्ध्यवीथी प्लवङ्गमः 13। आतपी मण्डली मृत्युः पिङ्गल.स्सर्वतापनः। कवि.र्विश्वो महातेजा रक्त.स्सर्वभवोद्भवः 14। नक्षत्रग्रहताराणा.-मधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्म.न्नमोस्तु ते 15। (सूर्य नमस्कारः) नमः पूर्वाय गिरये पश्चिमाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः 16। जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नम.स्सहस्रांशो आदित्याय नमो नमः 17। नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः 18। ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः।। 19। तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः 20। तप्तचामीकराभाय वह्नये विश्वकर्मणे। नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे 21। नाशय.त्येष वै भूतं तदेव सृजति प्रभुः। पाय.त्येष तपत्येष वर्षत्येष गभस्तिभिः 22। एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् 23। वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः 24। (फलश्रुतिः) एन.मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चि.-न्नावसीदति राघव 25। पूजयस्वैन.मेकाग्रो देवदेवं जगत्पतिम्। एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि 26। अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एव.मुक्त्वा तदागस्त्यो जगाम च यथागतम् 27। एत.च्छ्रुत्वा महातेजा नष्टशोकोभव.त्तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान् 28। आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्ष.मवाप्तवान्। त्रिराचम्य शुचि.र्भूत्वा धनु.रादाय वीर्यवान् 29। रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। सर्वयत्नेन महता वधे तस्य धृतोभवत् 30। अध रवि.रवद.न्निरीक्ष्य रामं- मुदितमनाः परमं प्रहृष्यमाणः। निशिचरपति.सङ्क्षयं विदित्वा- सुरगण. मध्यगतो वच.स्त्वरेति।। 31। श्रीमद्रामायणे युद्धकाण्डे सप्तोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 108 शुभाशुभनिमित्तदर्शनम् स रथं सारथि.र्हृष्टः परसैन्य. प्रधर्षणम्। गन्धर्व.नगराकारं समुच्छ्रित.पताकिनम्।। 1।। >> युक्तं परमसम्पन्नैर्- वाजिभि.र्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वज.मालिनम् 2।। >> ग्रसन्त मिव चाकाशं नादयन्तं वसुन्धराम्। प्रणाशं परसैन्यानां- स्वसैन्यानां प्रहर्षणं 3।। >> रावणस्य रथं क्षिप्रं चोदयामास सारथिः। त.मापतन्तं सहसा स्वनवन्तं महाध्वजम्। 4।। >> रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजि.समायुक्तं युक्तं रौद्रेण वर्चसा।। 5।। >> तटित्पताका.गहनं दर्शितेन्द्रायुधायुधम्। शरधारा विमुञ्चन्तं धारासार.मिवाम्बुदम्।। 6।। >> तं दृष्ट्वा मेघसङ्काश.-मापतन्तं रथं रिपोः। गिरे.र्वज्राभिमृष्टस्य दीर्यत.स्सदृशस्वनम्।। 7।। >> विस्फारयन् वै वेगेन बालचन्द्र.नतं धनुः। उवाच मातलिं राम.-स्सहस्राक्षस्य सारथिम् 8।। >> मातले पश्य संरब्ध.-मापतन्तं रथं रिपोः। यथापसव्यं पतता वेगेन महता पुनः 9।। >> समरे हन्तु.मात्मानं तथानेन कृता मतिः। त.दप्रमाद.मातिष्ठ प्रत्युद्गच्छ रथं रिपोः।। 10।। >> विध्वंसयितु.मिच्छामि वायु.र्मेघ.मिवोत्थितम्। अविक्लव.मसम्भ्रान्त.-मव्यग्र.हृदयेक्षणम्।। 11।। >> रश्मिसञ्चार.नियतं प्रचोदय रथं द्रुतम्। कामं न त्वं समाधेयः पुरन्दर.रथोचितः।। 12।। >> युयुत्सु.रह मेकाग्र.-स्स्मारये त्वां न शिक्षये। परितुष्ट.स्स रामस्य तेन वाक्येन मातलिः।। 13।। >> प्रचोदयामास रथं सुरसारथि.सत्तमः। अपसव्यं ततः कुर्वन् रावणस्य महारथम्।। 14।। >> चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत्। ततः क्रुद्धो दशग्रीव-स्ताम्र.विस्फारितेक्षणः।। 15।। >> रथप्रतिमुखं रामं सायकै.रवधूनयत्। धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्।। 16।। >> जग्राह सुमहावेग.-मैन्द्रं युधि शरासनम्। शरांश्च सुमहातेजा.-स्सूर्यरश्मिसम.प्रभान्।। 17।। >> तदोपोढं मह.द्युद्ध.-मन्योन्य.वधकाङ्क्षिणोः। परस्पराभिमुखयोर्-दृप्तयो.रिव सिंहयोः।। 18।। >> ततो देवा.स्सगन्धर्वा.-स्सिद्धाश्च परमर्षयः। समीयु.र्द्वैरथं द्रष्टुं रावणक्षय.काङ्क्षिणः।। 19।। >> समुत्पेतु.रथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्य जयाय च 20।। >> ववर्ष रुधिरं देवो रावणस्य रथोपरि।। >> वाता मण्डलिन. स्तीक्ष्णा-ह्यपसव्यं प्रचक्रमुः 21।। >> मह.द्गृध्रकुलं चास्य भ्रममाणं नभस्तले। येन येन रथो याति तेन तेन प्रधावति।। 22।। >> सन्ध्यया चावृता लङ्का जपापुष्प.निकाशया। दृश्यते सम्प्रदीप्तेव दिवसेपि वसुन्धरा।। 23।। >> सनिर्घाता महोल्काश्च सम्प्रचेरु.र्महास्वनाः। विषादयं.स्ते रक्षांसि रावणस्य तदाहिताः 24।। >> रावणश्च यत.स्तत्र सञ्चचाल वसुन्धरा। रक्षसां च प्रहरतां गृहीता इव बाहवः 25।। >> ताम्राः पीता.स्सिता.श्श्वेताः पतिता.स्सूर्यरश्मयः। दृश्यन्ते रावणस्याङ्के पर्वतस्येव धातवः।। 26।। >> गृध्रै.रनुगता.श्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदु.र्मुख. मीक्षन्त्य.-स्संरब्ध.मशिवं शिवाः 27।। >> प्रतिकूलं ववौ वायू.- रणे पांसून् समाकिरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टि.विलोपनम्।। 28।। >> निपेतु.रिन्द्राशनय.-स्सैन्ये चास्य समन्ततः। दुर्विषह्य.स्वना घोरा- विना जलधरस्वनम् 29।। >> दिशश्च प्रदिश.स्सर्वा बभूवु.स्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोभवत् 30।। >> कुर्वन्त्यः कलहं घोरं सारिका.स्तद्रथं प्रति। निपेतु.श्शतश.स्तत्र दारुणं दारुणा रुताः।। 31।। >> जघनेभ्य.स्स्फुलिङ्गांश्च नेत्रेभ्योश्रूणि सन्ततम्। मुमुचु.स्तस्य तुरगा-स्तुल्य.मग्निं च वारि च 32।। >> एवम्प्रकारा बहव.-स्समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणा.स्सम्प्रजज्ञिरे।। 33।। >> रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवु.र्जयशंसीनि प्रादुर्भूतानि सर्वशः।। 34।। >> निमित्तानि च सौम्यानि राघवस्य जयाय च। दृष्ट्वा परम संहृष्टो हतं मेने च रावणम्।। 35।। >> ततो निरीक्ष्यात्मगतानि राघवो- रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं- चकार युद्धे ह्यधिकं च विक्रमम्।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 109 रावणध्वजोन्मथनम् ततः प्रवृत्तं सुक्रूरं रामरावणयो.स्तदा। सुमह.द्द्वैरथं युद्धं सर्वलोक.भयावहम्।। 1।। >> ततो राक्षससैन्यं च हरीणां च मह.द्बलम्। प्रगृहीत.प्रहरणं निश्चेष्टं समतिष्ठत।। 2।। >> सम्प्रयुद्धौ ततो दृष्ट्वा बलव.न्नरराक्षसौ। व्याक्षिप्त.हृदया.स्सर्वे परं विस्मय.मागताः 3।। >> नानाप्रहरणै.र्व्यग्रैर्-भुजै.र्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च सङ्ग्रामं नाभिजघ्नुः परस्परम्।। 4।। >> रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्र मिवाबभौ।। 5।। >> तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत्।। 6।। >> जेतव्य.मिति काकुत्स्थो मर्तव्य.मिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेदर्शयतां तदा।। 7।। >> ततः क्रोधा.द्दशग्रीव.-श्शरान् सन्धाय वीर्यवान्। मुमोच ध्वज.मुद्दिश्य राघवस्य रथे स्थितम् 8।। >> ते शरा.स्त.मनासाद्य पुरन्दर.रथध्वजम्। रथशक्तिं परामृश्य निपेतु.र्धरणीतले 9।। >> ततो रामोभिसङ्क्रुद्ध.-श्चाप.मायम्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे।। 10।। >> रावणध्वज.मुद्दिश्य मुमोच निशितं शरम्। महासर्प.मिवासह्यं ज्वलन्तं स्वेन तेजसा।। 11।। >> जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः। स निकृत्तोपत.द्भूमौ रावणस्य रथध्वजः।। 12।। >> ध्वजस्योन्मथनं दृष्ट्वा रावण.स्सुमहाबलः। सम्प्रदीप्तोभवत् क्रोधा-दमर्षात् प्रदह.न्निव।। 13।। >> स रोषवश.मापन्न.-श्शरवर्षं मह.द्वमन्। रामस्य तुरगान् दीप्तै-श्शरै.र्विव्याध रावणः।। 14।। >> ते विद्धा हरय.स्तत्र नास्खल.न्नापि बभ्रमुः। बभूवु.स्स्वस्थहृदयाः- पद्मनालै.रिवाहताः।। 15।। >> तेषा.मसम्भ्रमं दृष्ट्वा वाजिनां रावण.स्तदा। भूय एव सुसङ्क्रुद्ध.-श्शरवर्षं मुमोच ह।। 16।। >> गदाश्च परिघां.श्चैव चक्राणि मुसलानि च। गिरिशृङ्गाणि वृक्षांश्च तथा शूल.परश्वधान्।। 17।। >> मायाविहित.मेतत्तु शस्त्रवर्ष.मपातयत्। तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्।। 18।। >> तद्वर्ष.मभव.द्युद्धे- नैकशस्त्रमयं महत्। विमुच्य राघवरथं समन्ता.द्वानरे बले।। 19।। >> सायकै.रन्तरिक्षं च चकाराशु निरन्तरम्। सहस्रश.स्ततो बाणा-नश्रान्त.हृदयोद्यमः।। 20।। >> मुमोच च दशग्रीवो निस्सङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे।। 21।। >> प्रहस.न्निव काकुत्स्थ.-स्सन्दधे सायका.न्छितान्। स मुमोच ततो बाणान् रणे शतसहस्रशः 22।। >> तान् दृष्ट्वा रावण.श्चक्रे- स्वशरैः खं निरन्तरम्। तत.स्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता।। 23।। >> शरबद्ध.मिवाभाति द्वितीयं भास्व.दम्बरम्। नानिमित्तोभव.द्बाणो नातिभेत्ता न निष्फलः 24।। >> अन्योन्य.मभिसंहत्य निपेतु.र्धरणीतले। तथा विसृजतो.र्बाणान् रामरावणयो.र्मृधे 25।। >> प्रायुध्यता.मविच्छिन्न.-मस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरौघै.स्तौ निरुच्छ्वास.मिवाम्बरम् 26।। >> रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतु.स्तौ तदान्योन्यं कृतानुकृत.कारिणौ।। 27।। >> एवं तु तौ सुसङ्क्रुद्धौ चक्रतु.र्युद्ध.मद्भुतम्। मुहूर्त.मभव.द्युद्धं तुमुलं रोमहर्षणम्।। 28।। >> प्रयुद्ध्यमानौ समरे महाबलौ- शितै.श्शरै. रावणलक्ष्मणाग्रजौ। ध्वजावपातेन स राक्षसाधिपो- भृशं प्रचुक्रोध तदा रघूत्तमे।। 29।। >> श्रीमद्रामायणे युद्धकाण्डे नवोत्तरशततमस्सर्गः। • युद्धकाण्डे सर्गः 110 रावणैकशतशिरश्छेदनम् तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशु.स्सर्वभूतानि विस्मितेनान्तरात्मना।। 1। अर्दयन्तौ तु समरे तयो.स्तौ स्यन्दनोत्तमौ। परस्पर.मभिक्रुद्धौ परस्पर.मभिद्रुतौ 2।। >> परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीधीश्च गत.प्रत्यागतानि च।। 3।। >> दर्शयन्तौ बहुविधां सूत.सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः।। 4।। >> गतिवेगं समापन्नौ प्रवर्तन.निवर्तने। क्षिपतो.श्शरजालानि तयो.स्तौ स्यन्दनोत्तमौ।। 5।। >> चेरतु.स्सँयुगमहीं सासारौ जलदौ यथा। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे 6।। >> परस्परस्याभिमुखौ पुन.रेवावतस्थतुः। धुरं धुरेण रथयोर्-वक्त्रं वक्त्रेण वाजिनाम्।। 7।। >> पताकाश्च पताकाभि.-स्समेयु.स्स्थितयो.स्तदा। रावणस्य ततो रामो- धनु.र्मुक्तै.श्शितै.श्शरैः 8।। >> चतुर्भि.श्चतुरो दीप्तैर्- हयान् प्रत्यपसर्पयत्। स क्रोधवश.मापन्नो हयाना.मपसर्पणे।। 9।। >> मुमोच निशितान् बाणान् राघवाय निशाचरः। सोतिविद्धो बलवता दशग्रीवेण राघवः।। 10।। >> जगाम न विकारं च न चापि व्यथितोभवत्। चिक्षेप च पुनर्बाणान् वज्रपात.समस्वनान्।। 11।। >> सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः। मातलेस्तु महावेगा.-श्शरीरे पतिता.श्शराः।। 12।। >> न सूक्ष्म.मपि सम्मोहं व्यथां वा प्रददु.र्युधि। तया धर्षणया क्रुद्धो मातले.र्न तथात्मनः।। 13।। >> चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतं षष्टिं शतशोथ सहस्रशः।। 14।। >> मुमोच राघवो वीर.-स्सायकान् स्यन्दने रिपोः। रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।। 15।। >> गदा.मुसलवर्षेण रामं प्रत्यर्दय.द्रणे। तत्प्रवृत्तं मह.द्युद्धं तुमुलं रोमहर्षणम्।। 16।। >> गदानां मुसलानां च परिघाणां च निस्वनैः। शराणां पुङ्खवातैश्च क्षुभिता.स्सप्त सागराः।। 17।। >> क्षुब्धानां सागराणां च पातालतल.वासिनः। व्यथिताः पन्नगा.स्सर्वे दानवाश्च सहस्रशः।। 18।। >> चकम्पे मेदिनी कृत्स्ना सशैलवन.कानना। भास्करो निष्प्रभ.श्चासी-न्न ववौ चापि मारुतः।। 19।। >> ततो देवा.स्सगन्धर्वा.-स्सिद्धाश्च परमर्षयः। चिन्ता.मापेदिरे सर्वे स किन्नर.महोरगाः 20।। >> स्वस्ति गोब्राह्मणेभ्योस्तु लोका.स्तिष्ठन्तु शाश्वताः। जयतां राघव.स्सङ्ख्ये रावणं राक्षसेश्वरम् 21।। >> एवं जपन्तोपश्यं.स्ते देवा.स्सर्षिगणा.स्तदा। रामरावणयो.र्युद्धं सुघोरं रोमहर्षणं 22।। >> गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्ध.मनूपमम्। गगनं गगनाकारं सागर.स्सागरोपमः।। 23।। >> रामरावणयो.र्युद्धं रामरावणयो.रिव। एवं ब्रुवन्तो ददृशु-स्तद्युद्धं रामरावणम्।। 24।। >> ततः क्रुद्धो महाबाहू.- रघूणां कीर्तिवर्धनः। सन्धाय धनुषा रामः क्षुर.माशीविषोपमम् 25।। >> रावणस्य शिरोच्छिन्द-च्छ्रीम.ज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकै.स्त्रिभि.स्तदा 26।। >> तस्यैव सदृशं चान्य-द्रावणस्योत्थितं शिरः। तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा।। 27।। >> द्वितीयं रावणशिर-श्छिन्नं सँयति सायकैः। छिन्नमात्रं च तच्छीर्षं पुन.रन्यत् स्म दृश्यते 28।। >> तदप्यशनि.सङ्काशै.-श्छिन्नं रामेण सायकैः। एव.मेव शतं छिन्नं शिरसां तुल्यवर्चसाम् 29।। >> न चैव रावणस्यान्तो दृश्यते जीवितक्षये। तत.स्सर्वास्त्रवि.द्वीरः कौसल्यानन्दवर्धनः 30।। >> मार्गणै.र्बहुभि.र्युक्त-श्चिन्तयामास राघवः। मारीचो निहतो यै.स्तु खरो यैस्तु सुदूषणः 31।। >> क्रौञ्चारण्ये विराधस्तु कबन्धो दण्डकावने। त इमे सायका.स्सर्वे युद्धे प्रत्यायिका मम 32।। >> किं नु तत् कारणं येन रावणे मन्दतेजसः। इति चिन्तापरश्चासी-दप्रमत्तश्च सँयुगे 33।। >> ववर्ष शरवर्षाणि राघवो रावणोरसि। रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः 34।। >> गदामुसल.वर्षेण रामं प्रत्यर्दय.द्रणे। तत्प्रवृत्तं मह.द्युद्धं तुमुलं रोमहर्षणम्।। 35।। >> अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि। देवदानव.यक्षाणां पिशाचोरग.रक्षसाम्। पश्यतां तन्मह.द्युद्धं सर्वरात्र.मवर्तत 36।। >> नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयो.र्युद्धं विराम.मुपगच्छति।। 37।। >> दशरथसुत.राक्षसेन्द्रयोर्- जय.मनवेक्ष्य रणे स राघवस्य। सुरवर.रथसारथि.र्महान्- रणगत.मेन. मुवाच वाक्य.माशु।। 38।। >> श्रीमद्रामायणे युद्धकाण्डे दशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 111 पौलस्त्यवधः अथ संस्मारयामास राघवं मातलि.स्तदा। अजान.न्निव किं वीर त्व.मेन.मनुवर्तसे।। 1।। >> विसृजास्मै वधाय त्व.-मस्त्रं पैतामहं प्रभो। विनाशकालः कथितो य.स्सुरै.स्सोद्य वर्तते 2।। >> तत.स्संस्मारितो राम.-स्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निश्वसन्त.मिवोरगम् 3।। >> य.मस्मै प्रथमं प्रादा-दगस्त्यो भगवानृषिः। ब्रह्मदत्तं मह.द्बाण-ममोघं युधि वीर्यवान्।। 4।। >> ब्रह्मणा निर्मितं पूर्व-मिन्द्रार्थ.ममितौजसा। दत्तं सुरपतेः पूर्वं त्रिलोकजय.काङ्क्षिणः।। 5।। >> यस्य वाजेषु पवनः फले पावकभास्करौ। शरीर.माकाशमयं गौरवे मेरुमन्दरौ 6।। >> जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्।। 7।। >> सधूममिव कालाग्निं दीप्त.माशीविषं यथा। परनागाश्व.बृन्दानां भेदनं क्षिप्रकारिणम्।। 8।। >> द्वाराणां परिघाणां च गिरीणा.मपि भेदनम्। नानारुधिर.सिक्ताङ्गं मेदोदिग्धं सुदारुणम्।। 9।। >> वज्रसारं महानादं नानासमिति.दारुणम्। सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्।। 10।। >> कङ्क.गृध्र.वलानां च गोमायुगण.रक्षसाम्। नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम्।। 11।। >> नन्दनं वानरेन्द्राणां रक्षसा.मवसादनम्। वाजितं विविधै.र्वाजै-श्चारुचित्रै.र्गरुत्मतः।। 12।। >> त.मुत्तमेषुं लोकाना- मिक्ष्वाकुभय.नाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकर.मात्मनः।। 13।। >> अभिमन्त्र्य ततो राम-स्तं महेषुं महाबलः। वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली।। 14।। >> तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि वित्रेसु-श्चचाल च वसुन्धरा।। 15।। >> स रावणाय सङ्क्रुद्धो भृश.मायम्य कार्मुकम्। चिक्षेप परमायत्त-स्तं शरं मर्मघातिनम्।। 16।। >> स वज्र इव दुर्धर्षो वज्रिबाहु.विसर्जितः। कृतान्त इव चावार्यो न्यपत.द्रावणोरसि।। 17।। >> स विसृष्टो महावेग.-श्शरीरान्तकर.श्शरः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः।। 18।। >> रुधिराक्त.स्स वेगेन जीवितान्तकर.श्शरः। रावणस्य हर.न्प्राणान् विवेश धरणीतलम्।। 19।। >> स शरो रावणं हत्वा रुधिरार्द्रीकृतच्छविः। कृतकर्मा निभृतवत् स्वतूणीं पुन.राविशत् 20।। >> तस्य हस्ता.द्धतस्याशु कार्मुकं तत् ससायकम्। निपपात सह प्राणैर्-भ्रश्यमानस्य जीवितात् 21।। >> गतासु.र्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः। पपात स्यन्दना.द्भूमौ वृत्रो वज्रहतो यथा।। 22।। >> तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ता.-स्सर्वत.स्सम्प्रदुद्रुवुः 23।। >> नर्दन्त.श्चाभिपेतु.स्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।। 24।। >> अर्दिता वानरै.र्हृष्टैर्- लङ्का.मभ्यपत.न्भयात्। गताश्रयत्वात् करुणैर्-बाष्पप्रस्रवणै.र्मुखैः।। 25।। >> ततो विनेदु.स्संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम् 26।। >> अथान्तरिक्षे व्यनदत्-सौम्य.स्त्रिदशदुन्दुभिः। दिव्यगन्धवह.स्तत्र मारुत.स्सुसुखो ववौ।। 27।। >> निपपातान्तरिक्षाच्च पुष्पवृष्टि.स्तदा भुवि। किरन्ती राघवरथं दुरवापा मनोरमा 28।। >> राघवस्तव.सँयुक्ता गगने च विशुश्रुवे। साधु साध्विति वागग्र्या दैवतानां महात्मनाम् 29।। >> आविवेश महाहर्षो देवानां चारणै.स्सह। रावणे निहते रौद्रे सर्वलोक.भयङ्करे।। 30।। >> तत.स्सकामं सुग्रीव.मङ्गदं च महाबलम्। चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम्।। 31।। >> ततः प्रजग्मुः प्रशमं मरुद्गणा- दिशः प्रसेदु.र्विमलं नभोभवत्। मही चकम्पे न च मारुता ववौ- स्थिरप्रभ.श्चाप्यभव.द्दिवाकरः।। 32।। >> ततस्तु सुग्रीवविभीषणादय- स्सुहृ.द्विशेषा.स्सहलक्ष्मणा.स्तदा। समेत्य हृष्टा विजयेन राघवं- रणेभिरामं विधिना ह्यपूजयन्।। 33।। >> स तु निहतरिपु.स्स्थिरप्रतिज्ञ-स्स्वजनबलाभिवृतो रणे रराज। रघुकुल.नृपनन्दनो महौजा-स्त्रिदशगणै. रभिसँवृतो यथेन्द्रः।। 34।। >> श्रीमद्रामायणे युद्धकाण्डे एकादशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 112 विभीषणविलापः भ्रातरं निहतं दृष्ट्वा शयानं राम.निर्जितम्। शोकवेगपरीतात्मा विललाप विभीषणः।। 1।। >> वीर विक्रान्त विख्यात विनीत नयकोविद। महार्हशयनोपेत किं शेषेद्य हतो भुवि।। 2।। >> विक्षिप्य दीर्घौ निश्चेष्टौ भुजा.वङ्गदभूषितौ। मकुटेनापवृत्तेन भास्कराकार.वर्चसा 3।। >> तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम्। काममोह.परीतस्य यत्ते न रुचितं वचः।। 4।। >> यन्न दर्पात् प्रहस्तो वा नेन्द्रजि.न्नापरे जनाः। न कुम्भकर्णोतिरथो नातिकायो नरान्तकः 5।। >> न स्वयं त्व.ममन्येथा- स्तस्योदर्कोय.मागतः। गत.स्सेतु.स्सुनीतानां गतो धर्मस्य विग्रहः।। 6।। >> गत.स्सत्त्वस्य सङ्क्षेप-स्सुहस्तानां गति.र्गता। आदित्यः पतितो भूमौ भग्न.स्तमसि चन्द्रमाः 7।। >> चित्रभानुः प्रशान्तार्चिर्-व्यवसायो निरुद्यमः। अस्मि.न्निपतिते भूमौ वीरे शस्त्रभृतां वरे।। 8।। >> किं शेष.मिव लोकस्य हतवीरस्य साम्प्रतम्। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु 9।। >> धृतिप्रवालः प्रसहाग्र्यपुष्प-स्तपोबल.श्शौर्य.निबद्धमूलः। रणे महान् राक्षसराजवृक्ष-स्सम्मर्दितो राघवमारुतेन।। 10।। >> तेजोविषाणः कुलवंश.वंशः- कोपप्रसादापर.गात्रहस्तः। इक्ष्वाकुसिंहावगृहीत.देह-स्सुप्तः क्षितौ रावणगन्ध.हस्ती।। 11।। >> पराक्रमोत्साह विजृम्भितार्चिर्-निश्वासधूम.स्स्वबल. प्रतापः। प्रतापवान् सँयति राक्षसाग्निर्-निर्वापितो रामपयोधरेण।। 12।। >> सिंहर्क्षलाङ्गूल.ककुद्विषाणः- पराभिजि.द्गन्धन.गन्धहस्ती। रक्षोवृष.श्चापलकर्णचक्षुः- क्षितीश्वरव्याघ्र.हतोवसन्नः।। 13।। >> वदन्तं हेतुम.द्वाक्यं परिमृष्टार्थ.निश्चयम्। राम.श्शोकस.माविष्ट-मित्युवाच विभीषणम्।। 14।। >> नायं विनष्टो निश्चेष्ट-स्समरे चण्डविक्रमः। अत्युन्नत.महोत्साहः पतितोय.मशङ्कितः।। 15।। >> नैवं विनष्टा शोच्यन्ते क्षत्रधर्म.मवस्थिताः। वृद्धि.माशंसमाना ये- निपतन्ति रणाजिरे।। 16।। >> येन सेन्द्रा.स्त्रयो लोका-स्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्।। 17। नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति सँयुगे ।। 18।। >> इयं हि पूर्वै.स्सन्दिष्टा- गतिः क्षत्रियसम्मता। क्षत्रियो निहत.स्सङ्ख्ये न शोच्य इति निश्चयः।। 19।। >> तदेवं निश्चयं दृष्ट्वा तत्त्व.मास्थाय विज्वरः। य.दिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय 20।। >> त.मुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणम्। उवाच शोकसन्तप्तो भ्रातु.र्हित.मनन्तरं 21।। >> योयं विमर्देषु न भग्नपूर्व-स्सुरै.स्समेतै.स्सह वासवेन। भवन्त.मासाद्य रणे विभग्नो- वेला.मिवासाद्य यथा समुद्रः।। 22।। >> अनेन दत्तानि सुपूजितानि- भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि- वैरा.ण्यमित्रेषु च यापितानि।। 23।। >> एषो हिताग्निश्च महातपाश्च- वेदान्तगः कर्मसु चाग्र्यवीर्यः। एतस्य यत्प्रेतगतस्य कृत्यं- तत् कर्तु.मिच्छामि तव प्रसादात्।। 24।। >> स तस्य वाक्यैः करुणै.र्महात्मा- सम्बोधित.स्साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनु-स्स्वर्गीय.माधान.मदीनसत्त्वः।। 25।। >> मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।  क्रियता.मस्य संस्कारो ममाप्येष यथा तव।। 26।। >> श्रीमद्रामायणे युद्धकाण्डे द्वादशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 113 रावणान्तःपुर परिदेवनम् रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुरा.द्विनिष्पेतू.- राक्षस्य.श्शोककर्शिताः।। 1। वार्यमाणा.स्सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा।। 2।। >> उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् 3।। >> आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्।। 4।। >> ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोक.पराजिताः। करेण्व इव नर्दन्त्यो विनेदु.र्हतयूथपाः 5।। >> ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जन.चयोपमम् 6।। >> ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतु.स्तस्य गात्रेषु छिन्ना वनलता इव 7।। >> बहुमानात् परिष्वज्य काचि.देनं रुरोद ह। चरणौ काचि.दालिङ्ग्य काचि.त्कण्ठेवलम्ब्य च 8।। >> उद्धृत्य च भुजौ काचि-द्भूमौ स्म परिवर्तते। हतस्य वदनं दृष्ट्वा काचि.न्मोह मुपागमत् 9।। >> काचि.दङ्के शिरः कृत्वा रुरोद मुख.मीक्षती। स्नापयन्ती मुखं बाष्पै-स्तुषारै.रिव पङ्कजम्।। 10।। >> एव.मार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशु.र्बहुधा शोका-द्भूय.स्ताः पर्यदेवयन्।। 11।। >> येन वित्रासित.श्शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः।। 12।। >> गन्धर्वाणा.मृषीणां च सुराणां च महात्मनाम्। भयं येन महद्दत्तं सोयं शेते रणे हतः।। 13।। >> असुरेभ्य.स्सुरेभ्यो वा पन्नगेभ्योपि वा तथा। न भयं यो विजानाति तस्येदं मानुषा.द्भयम्।। 14।। >> अवध्यो देवतानां य-स्तथा दानव.रक्षसाम्। हत.स्सोयं रणे शेते मानुषेण पदातिना।। 15।। >> यो न शक्य.स्सुरै.र्हन्तुं न यक्षै.र्नासुरै.स्तथा। सोयं कश्चि.दिवासत्त्वो मृत्युं मर्त्येन लम्भितः।। 16।। >> एवं वदन्त्यो बहुधा रुरुदु.स्तस्य ता.स्स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः।। 17।। >> अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता घातिताश्च निशाचराः।। 18।। >> एता.स्सम. मिदानीं ते वय.मात्मा च पातिताः। ब्रुवाणोपि हितं वाक्य.-मिष्टो भ्राता विभीषणः।। 19।। >> धृष्टं परुषितो मोहात् त्वयात्मवध.काङ्क्षिणा। यदि निर्यातिता ते स्यात् सीता रामाय मैथिली 20।। >> न न.स्स्या.द्व्यसनं घोर.-मिदं मूलहरं महत्। वृत्तकामो भवे.द्भ्राता रामो मित्रकुलं भवेत् 21।। >> वयं चाविधवा.स्सर्वा.-स्सकामा न च शत्रवः। त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् 22।। >> राक्षसा वय.मात्मा च त्रयं तुल्यं निपातितम्। न कामकारः कामं वा तव राक्षसपुङ्गव 23।। >> दैवं चेष्टयते सर्वं हतं दैवेन हन्यते।  वानराणां विनाशोयं रक्षसां च महाहवे 24।। >> तव चैव महाबाहो दैवयोगा.दुपागतः। नैवार्थेन न कामेन विक्रमेण न चाज्ञया। शक्या दैवगति.र्लोके निवर्तयितु.मुद्यता।। 25।। >> विलेपु.रेवं दीना.स्ता राक्षसाधिप.योषितः। कुरर्य इव दुःखार्ता बाष्प.पर्याकुलेक्षणाः 26।। >> श्रीमद्रामायणे युद्धकाण्डे त्रयोदशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 114 मन्दोदरीविलापः तासां विलपमानानां तथा राक्षसयोषिताम्। ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत।। 1।। >> दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् 2।। >> ननु नाम महाबाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुं त्रस्य.त्यपि पुरन्दरः 3।। >> ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः। ननु नाम तवोद्वेगा-च्चारणाश्च दिशो गताः 4।। >> स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् कि.मिदं राक्षसर्षभ 5।। >> कथं त्रैलोक्य.माक्रम्य श्रिया वीर्येण चान्वितम्। अविषह्यं जघान त्वं मानुषो वनगोचरः 6।। >> मानुषाणा.मविषये चरतः कामरूपिणः। विनाश.स्तव रामेण सँयुगे नोपपद्यते 7।। >> न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वत.स्समुपेतस्य तव तेनाभिमर्शनम् 8।। >> यदैव च जनस्थाने राक्षसै.र्बहुभि.र्वृतः। खर.स्तव हतो भ्राता तदैवासौ न मानुषः 9।। >> यदैव नगरीं लङ्कां दुष्प्रवेशां सुरै.रपि। प्रविष्टो हनुमान् वीर्यात्-तदैव व्यथिता वयम्।। 10।। >> यदैव वानरै.र्घोरैर्- बद्ध.स्सेतु. र्महार्णवे। तदैव हृदयेनाहं शङ्के राम.ममानुषम्।। 11।। >> अथ वा रामरूपेण कृतान्त.स्स्वय.मागतः। मायां तव विनाशाय विधायाप्रतितर्किताम्।। 12।। >> अथ वा वासवेन त्वं धर्षितोसि महाबल। वासवस्य कुत.श्शक्ति.-स्स्त्वां द्रष्टु.मपि सँयुगे।। 13।। >> व्यक्त.मेष महायोगी परमात्मा सनातनः। अनादि.मध्यनिधनो महतः परमो महान्।। 14।। >> तमसः परमो धाता शङ्खचक्र.गदाधरः। श्रीवत्सवक्षा नित्यश्री.-रजय्य.श्शाश्वतो ध्रुवः।। 15।। >> मानुषं वपु.रास्थाय विष्णु.स्सत्यपराक्रमः। सर्वैः परिवृतो देवैर्- वानरत्व.मुपागतैः।। 16।। >> सर्वलोकेश्वर.स्साक्षा-ल्लोकानां हितकाम्यया। सराक्षस.परीवारं हतवां.स्त्वां महाद्युतिः।। 17।। >> इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया।  स्मरद्भि.रिव तद्वैर.-मिन्द्रियै.रेव निर्जितः।। 18।। >> क्रियता.मविरोधश्च राघवेणेति यन्मया। उच्यमानो न गृह्णासि तस्येयं व्युष्टि.रागता।। 19।। >> अकस्माच्चाभिकामोसि सीतां राक्षसपुङ्गव। ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च 20।। >> अरुन्धत्याविशिष्टां तां रोहिण्या.श्चापि दुर्मते। सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्।। 21।। >> वसुधायाश्च वसुधां श्रिय.श्श्रीं भर्तृवत्सलाम्। सीतां सर्वानवद्याङ्गी-मरण्ये विजने शुभाम्।। 22।। >> आनयित्वा तु तां दीनां छद्मनात्मस्वदूषणः। अप्राप्य चैव तं कामं मैथिलीसङ्गमे कृतम्।। 23।। >> पतिव्रताया.स्तपसा नूनं दग्धोसि मे प्रभो। तदैव यत्नदग्ध.स्त्वं धर्षयं.स्तनुमध्यमां 24।। >> देवा बिभ्यति ते सर्वे सेन्द्रा.स्साग्निपुरोगमाः। अवश्य.मेव लभते फलं पापस्य कर्मणः ।। 25।। >> घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः। शुभकृ.च्छुभ.माप्नोति पापकृत् पाप.मश्नुते  26।। >> विभीषण.स्सुखं प्राप्त-स्त्वं प्राप्तः पाप.मीदृशम्। सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिका.स्ततः।। 27।। >> अनङ्गवश.मापन्न-स्त्वं तु मोहा.न्न बुद्ध्यसे। न कुलेन न रूपेण न दाक्षिण्येन मैथिली।। 28।। >> मयाधिका वा तुल्या वा त्वं तु मोहा.न्न बुध्यसे। सर्वथा सर्वभूतानां नास्ति मृत्यु.रलक्षणः  29।। >> तव ताव.दयं मृत्युर्- मैथिलीकृत.लक्षणः। सीतानिमित्तजो मृत्यु-स्त्वया दूरा.दुपाहृतः 30।। >> मैथिली सह रामेण विशोका विहरिष्यति। अल्पपुण्या त्वहं घोरे पतिता शोकसागरे।। 31।। >> कैलासे मन्दरे मेरौ तथा चैत्ररथे वने। देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया।। 32।। >> विमानेनानुरूपेण या याम्यतुलया श्रिया। पश्यन्ती विविधान् देशां-स्तां.स्तां.श्चित्र.स्रगम्बरा 33।। >> भ्रंशिता कामभोगेभ्य.-स्सास्मि वीर वधात् तव। सैवान्येवास्मि सँवृत्ता- धिग्राज्ञां चञ्चला.श्श्रियः 34।। >> हा राज सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम्। कान्तिश्रीद्युतिभि.स्तुल्य- इन्दुः पद्मदिवाकरैः।। 35।। >> किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्। मदव्याकुल.लोलाक्षं भूत्वा यत्पान.भूमिषु 36।। >> विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्। तदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो।। 37।। >> रामसायक.निर्भिन्नं सिक्तं रुधिरविस्रवैः। विशीर्ण.मेदो.मस्तिष्कं रूक्षं स्यन्दन.रेणुभिः 38।। >> हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी। या मयासी.न्न सम्बुद्धा कदाचि.दपि मन्दया 39।। >> पिता दानवराजो मे भर्ता मे राक्षसेश्वरः। पुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम्।। 40।। >> दृप्तारिमर्दना.श्शूराः प्रख्यात.बलपौरुषाः। अकुतश्चिद्भया नाथा ममे.त्यासी.न्मति.र्दृढा 41।। >> तेषा.मेवं प्रभावानां युष्माकं राक्षसर्षभ। कथं भय.मसम्बद्धं मानुषा.दिद.मागतं 42।। >> स्निग्धेन्द्रनील.नीलं तु प्रांशु शैलोपमं महत्। केयूराङ्गद.वैदूर्य-मुक्तादाम.स्रगुज्ज्वलम् 43।। >> कान्तं विहारे.ष्वधिकं दीप्तं सङ्ग्रामभूमिषु। भात्याभरण.भाभि.र्यद्- विद्युद्भि.रिव तोयदः 44।। >> तदेवाद्य शरीरं ते तीक्ष्णै.र्नैकै.श्शरै.श्चितम्। पुन.र्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते।। 45।। >> श्वाविध.श्शललैर्. यद्वत्- बाणै.र्लग्नै.र्निरन्तरम्। स्वर्पितै.र्मर्मसु भृशं- सञ्छिन्न.स्नायुबन्धनम् 46।। >> क्षितौ निपतितं राज-न्छ्यामं रुधिरसच्छवि। वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः।। 47।। >> हा स्वप्न.स्सत्य.मेवेदं त्वं रामेण कथं हतः। त्वं मृत्यो.रपि मृत्यु.स्स्याः कथं मृत्युवशं गतः।। 48।। >> त्रैलोक्य.वसुभोक्तारं त्रैलोक्योद्वेगदं महत्। जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च।। 49।। >> दृप्तानां निगृहीतार.-माविष्कृत. पराक्रमम्। लोक.क्षोभयितारं च- नादै.र्भूतविराविणम्।। 50।। >> ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ। स्वयूथ.भृत्यवर्गाणां गोप्तारं भीमकर्मणाम्।। 51।। >> हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः। निवात.कवचानां च निगृहीतार.माहवे 52।। >> नैकयज्ञ.विलोप्तारं त्रातारं स्वजनस्य च। धर्मव्यवस्था.भेत्तारं मायास्रष्टार.माहवे 53।। >> देवासुर.नृ- कन्याना-माहर्तारं तत.स्ततः। शत्रुस्त्री.शोकदातारं नेतारं निजसैनिकान् 54।। >> लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्। अस्माकं कामभोगानां दातारं रथिनां वरं 55।। >> एवम्प्रभावं भर्तारं दृष्ट्वा रामेण पातितम्। स्थिरास्मि या देह.मिमं धारयामि हतप्रिया 56।। >> शयनेषु महार्हेषु शयित्वा राक्षसेश्वर। इह कस्मात् प्रसुप्तोसि धरण्यां रेणुपाटलः।। 57।। >> यथा मे तनय.श्शस्तो लक्ष्मणेनेन्द्रजि.द्युधि। तदास्म्यभिहिता तीव्र-मद्य त्व.स्मिन् निपातिता।। 58।। >> नाहं बन्धुजनै.र्हीना- हीना नाथेन तु त्वया। विहीना कामभोगैश्च शोचिष्ये शाश्वती.स्समाः 59।। >> प्रसन्नो दीर्घ.मध्वानं राज.न्नद्यासि दुर्गमम्। नय मा.मपि दुःखार्तां न जीविष्ये त्वया विना 60।। >> कस्मा.त्त्वं मां विहायेह कृपणां गन्तु.मिच्छसि। दीनां विलपितै.र्मन्दां किं वा मां नाभिभाषसे 61।। >> दृष्ट्वा न खल्वसि क्रुद्धो मा.मिहानवकुण्ठिताम्। निर्गतां नगरद्वारात् पद्भ्या.मेवागतां प्रभो 62।। >> पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान्। बहि.र्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि 63।। >> अयं क्रीडासहाय.स्ते-नाथो लालप्यते जनः। न चैन.माश्वासयसे किँवा न बहु मन्यसे 64।। >> य.स्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः। पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः 65।। >> ताभि.श्शोकाभितप्ताभि-श्शप्तः परवशं गतः। त्वया विप्रकृताभि.र्यत्- तदा शप्तं तदागतम्।। 66।। >> प्रवाद.स्सत्य एवायं- त्वां प्रति प्रायशो नृप। पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले।  67।। >> कथं च नाम ते राजन् लोका.नाक्रम्य तेजसा। नारीचौर्य.मिदं क्षुद्रं कृतं शौण्डीर्यमानिना 68।। >> अपनीयाश्रमा. द्रामं यन्मृगच्छद्मना तव। आनीता रामपत्नी सा त.त्ते कातर्यलक्षणं 69।। >> कातर्यं च न ते युद्धे कदाचि.त्संस्मरा.म्यहम्। तत् तु भाग्यविपर्यासा-न्नूनं ते पक्वलक्षणम् 70। अतीतानागतार्थज्ञो- वर्तमान.विचक्षणः। मैथिली.माहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम्।। 71।। >> सत्यवाक् स महाभागो देवरो मे य.दब्रवीत्। सोयं राक्षसमुख्यानां विनाशः पर्युपस्थितः 72।। >> कामक्रोध.समुत्थेन व्यसनेन प्रसङ्गिना। निर्वृत्त.स्त्वत्कृतेनर्थ-स्सोयं मूलहरो महान् 73।। >> त्वया कृत.मिदं सर्व.-मनाथं रक्षसां कुलम्। न हि त्वं शोचितव्यो मे प्रख्यात.बलपौरुषः 74।। >> स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते। सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः 75।। >> आत्मान.मनुशोचामि त्वद्वियोगेन दुःखिता। सुहृदां हितकामानां न श्रुतं वचनं त्वया 76।। >> भ्रातॄणां चापि कार्स्न्येन हित.मुक्तं त्वयानघ। हेत्वर्थयुक्तं विधिव-च्छ्रेयस्कर.मदारुणं 77।। >> विभीषणेनाभिहितं न कृतं हेतुमत् त्वया। मारीच.कुम्भकर्णाभ्यां वाक्यं मम पितु.स्तदा 78।। >> न श्रुतं वीर मत्तेन तस्येदं फल.मीदृशम्। नीलजीमूत.सङ्काश- पीताम्बर.शुभाङ्गद।। 79।। >> सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः। प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे। 80। महावीर्यस्य दक्षस्य सँयुगे.ष्वपलायिनः। यातुधानस्य दौहित्री किं त्वं मां नाभ्युदीक्षसे। 81।। >> उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे। अद्य वै निर्भया लङ्कां प्रविष्टा.स्सूर्यरश्मयः 82।। >> येन सूदयसे शत्रून् समरे सूर्यवर्चसा। वज्रो वज्रधरस्येव सोयं ते सततार्चितः 83।। >> रणे शत्रुप्रहरणो हेमजाल.परिष्कृतः। परिघो व्यवकीर्णस्ते बाणै.श्छिन्न.स्सहस्रधा 84।। >> प्रिया.मिवोपगूह्य त्वं शेषे समरमेदिनीम्। अप्रिया.मिव कस्माच्च मां नेच्छस्यभिभाषितुम्।। 85।। >> धिगस्तु हृदयं यस्या ममेदं न सहस्रधा। त्वयि पञ्चत्व.मापन्ने फलते शोकपीडितम् 86।। >> इत्येवं विलपन्त्येनं बाष्प.व्याकुललोचना। स्नेहावस्कन्नहृदया देवी मोह.मुपागमत् 87।। >> कश्मलाभिहता सन्ना बभौ सा रावणोरसि। सन्ध्यानुरक्ते जलदे दीप्ता विद्युदिवासिते 88।। >> तथागतां समुत्पत्य सपत्न्य.स्ता भृशातुराः। पर्यवस्थापयामासू.- रुदन्त्यो रुदतीं भृशं 89।। >> न ते सुविदिता देवि लोकानां स्थिति.रध्रुवा। दशाविभाग.पर्याये राज्ञां चञ्चलया श्रिया 90। इत्येव.मुच्यमाना सा सशब्दं प्ररुरोद ह। स्नापयन्ती त्वभिमुखौ स्तना.वस्राम्बु.विस्रवैः 91।। >> एतस्मि.न्नन्तरे रामो विभीषण.मुवाच ह। संस्कारः क्रियतां भ्रातु.-स्स्त्रिय.श्चैता निवर्तय।। 92।। >> तं प्रश्रित.स्ततो रामं श्रुतवाक्यो विभीषणः। विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः 93।। >> रामस्यैवानुवृत्त्यर्थ-मुत्तरं प्रत्यभाषत। त्यक्तधर्मव्रतं क्रूरं नृशंस.मनृतं तथा 94।। >> नाह.मर्होस्मि संस्कर्तुं परदाराभिमर्शिनम्। भ्रातृरूपो हि मे शत्रु-रेष सर्वाहिते रतः 95।। >> रावणो नार्हते पूजां पूज्योपि गुरुगौरवात्। नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि 96।। >> श्रुत्वा तस्य गुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः 97।। >> विभीषण.मुवाचेदं वाक्यज्ञो वाक्यकोविदम्। तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् 98।। >> अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृत.सँयुक्तः काम.न्त्वेष निशाचरः 99।। >> तेजस्वी बलवा.न्छूर.-स्सङ्ग्रामेषु च नित्यशः। शतक्रतुमुखै.र्देवै.-श्श्रूयते न पराजितः।। 1ं0। महात्मा बलसम्पन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।। 101।। >> क्रियता.मस्य संस्कारो ममाप्येष यथा तव। त्वत्सकाशा.द्दशग्रीव-स्संस्कारं विधिपूर्वकम्।। 102।। >> प्राप्तु.मर्हति धर्मज्ञ त्वं यशोभा.ग्भविष्यसि। राघवस्य वच.श्श्रुत्वा त्वरमाणो विभीषणः।। 103।। >> संस्कारेणानुरूपेण योजयामास रावणम्। चितां चन्दनकाष्ठानां पद्मकोशीरसँवृताम्।। 104।। >> ब्राह्म्या सँवेशयाञ्चक्रू.-राङ्कवास्तरणावृताम्। वर्तते वेदविहितो राज्ञो वै पश्चिमक्रतुः।। 105।। >> प्रचक्रू. राक्षसेन्द्रस्य पितृमेध.मनुक्रमम्। वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम्।। 106।। >> पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः। पादयो.श्शकटं प्रादु-रन्त.रूर्वो.रुलूखलम्।। 107।। >> दारुपात्राणि सर्वाणि अरणिं चोत्तरारणि0। दत्वा तु मुसलं चान्य-द्यथास्थानं विचक्षणाः।। 108।। >> शास्त्रदृष्टेन विधिना महर्षिविहितेन च। तत्र मेध्यं पशुं हत्वा- राक्षसेन्द्रस्य राक्षसाः।। 109।। >> परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्। गन्धै.र्माल्यै. रलङ्कृत्य रावणं दीनमानसाः।। 110।। >> विभीषणसहायास्ते वस्त्रैश्च विविधै.रपि। लाजै.श्चावकिरन्ति स्म बाष्पपूर्णमुखा.स्तदा।। 111।। >> ददौ च पावकं तस्य विधियुक्तं विभीषणः। स्नात्वा चैवार्द्र.वस्त्रेण तिलान् दूर्वाभिमिश्रितान्।। 112।। >> उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्। प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च।। 113।। >> ता.स्स्त्रियोनुनयामास- सान्त्व.मुक्त्वा पुनः पुनः। गम्यता.मिति ता.स्सर्वा विविशु.र्नगरं तदा।। 114।। >> प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः। रामपार्श्व.मुपागम्य तदातिष्ठ.द्विनीतवत्।। 115।। >> रामोपि सह सैन्येन ससुग्रीव.स्सलक्ष्मणः। हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः।। 116।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्दशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 115 विभीषणाभिषेकः ते रावणवधं दृष्ट्वा देवगन्धर्व.दानवाः। जग्मु.स्वै.स्स्वै.र्विमानै.स्स्ते कथयन्त.श्शुभाः कथाः।। 1।। >> रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्।। 2।। >> अनुरागं च वीर्यं च सौमित्रे.र्लक्ष्मणस्य च। कथयन्तो महाभागा जग्मु.र्हृष्टा यथागतम्।। 3।। >> राघवस्तु रथं दिव्य.-मिन्द्रदत्तं शिखिप्रभम्। अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत्।। 4।। >> राघवेणाभ्यनुज्ञातो मातलि.श्शक्रसारथिः। दिव्यं तं रथ.मास्थाय दिव.मेवारुरोह सः।। 5।। >> तस्मिंस्तु दिव.मारूढे सुरसारथि.सत्तमे। राघवः परमप्रीत.-स्सुग्रीवं परिषस्वजे 6।। >> परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः। पूज्यमानो हरिश्रेष्ठै-राजगाम बलालयम्।। 7।। >> अब्रवीच्च तदा राम.-स्समीप.परिवर्तिनम्। सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्।। 8।। >> विभीषण.मिमं सौम्य लङ्काया.मभिषेचय। अनुरक्तं च भक्तं च मम चैवोपकारिणम्।। 9।। >> एष मे परमः कामो यदिमं रावणानुजम्। लङ्कायां सौम्य पश्येय.-मभिषिक्तं विभीषणम्।। 10।। >> एव.मुक्तस्तु सौमित्री.- राघवेण महात्मना। तथेत्युक्त्वा तु संहृष्ट.-स्सौवर्णं घट.माददे।। 11।। >> तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्। आदिदेश महासत्त्वान् समुद्र.सलिलानये।। 12।। >> अतिशीघ्रं ततो गत्वा वानरास्ते महाबलाः। आगता.स्तज्जलं गृह्य समुद्रा.द्वानरोत्तमाः।। 13।। >> तत.स्त्वेकं घटं गृह्य संस्थाप्य परमासने। घटेन तेन सौमित्रि-रभ्यषिञ्च.द्विभीषणम्।। 14।। >> लङ्कायां रक्षसां मध्ये राजानं रामशासनात्। विधिना मन्त्रदृष्टेन सुहृद्गण.समावृतम्।। 15।। >> अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम्। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः।। 16।। >> दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। स त.द्राज्यं मह.त्प्राप्य रामदत्तं विभीषणः।। 17।। >> प्रकृती.स्सान्त्वयित्वा च ततो राम.मुपागमत्। अक्षतान् मोदकान् लाजान् दिव्या.स्सुमनस.स्तदा।। 18।। >> आजह्रु.रथ संहृष्टाः पौरा.स्तस्मै निशाचराः। स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्।। 19।। >> मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्। कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्।। 20।। >> प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया। तत.श्शैलोपमं वीरं प्राञ्जलिं पार्श्वत.स्स्थितम्।। 21।। >> अब्रवी.द्राघवो वाक्यं हनूमन्तं प्लवङ्गमम्। अनुमान्य महाराज.-मिमं सौम्य विभीषणम्।। 22।। >> गच्छ सौम्य पुरीं लङ्का-मनुज्ञाप्य यथाविधि। प्रविश्य रावणगृहं विजयेनाभिनन्द्य च।। 23।। >> वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम्। आचक्ष्व वदतां श्रेष्ठ रावणं च मया हतम्।। 24।। >> प्रिय मेत.दुदाहृत्य मैथिल्या.स्त्वं हरीश्वर। प्रतिगृह्य च सन्देश-मुपावर्तितु. मर्हसि।। 25।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्च दशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 116 मैथिलीप्रियनिवेदनम् इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः।। 1।। >> प्रविश्य तु महातेजा रावणस्य निवेशनम्। ददर्श मृजया हीनां सातङ्का.मिव रोहिणीम्।। 2।। >> वृक्षमूले निरानन्दां राक्षसीभि.स्समावृताम्। निभृतः प्रणतः प्रह्व.-स्सोभिगम्याभिवाद्य च।। 3।। >> दृष्ट्वा त.मागतं देवी हनुमन्तं महाबलम्। तूष्णी.मास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताभवत् 4।। >> सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः। रामस्य वचनं सर्व-माख्यातु.मुपचक्रमे।। 5।। >> वैदेहि कुशली राम.-स्ससुग्रीव.स्सलक्ष्मणः। विभीषणसहायश्च हरीणां सहितो बलैः।। 6।। >> कुशलं चाह सिद्धार्थो हतशत्रु.ररिन्दमः। विभीषण.सहायेन रामेण हरिभि.स्सह 7।। >> निहतो रावणो देवि लक्ष्मणस्य नयेन च। पृष्ट्वा तु कुशलं रामो वीर.स्त्वां रघुनन्दनः 8।। >> अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना। प्रिय.माख्यामि ते देवि त्वां तु भूय.स्सभाजये।। 9।। >> दिष्ट्या जीवसि धर्मज्ञे जयेन मम सँयुगे। लब्धो नो विजय.स्सीते स्वस्था भव गतव्यथा।। 10।। >> रावणश्च हत.श्शत्रुर्- लङ्का चेयं वशे स्थिता। मया ह्यलब्धनिद्रेण धृतेन तव निर्जये।। 11।। >> प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ। सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये।। 12।। >> विभीषणविधेयं हि लङ्कैश्वर्य.मिदं कृतम्। त.दाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे।। 13।। >> अयं चाभ्येति संहृष्ट-स्त्वद्दर्शन.समुत्सुकः। एव.मुक्ता समुत्पत्य सीता शशिनिभानना।। 14।। >> प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन। अब्रवीच्च हरिश्रेष्ठ.-स्सीता.मप्रतिजल्पतीम्।। 15।। >> किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे। एव.मुक्ता हनुमता सीता धर्मे व्यवस्थिता।। 16।। >> अब्रवीत् परमप्रीता हर्ष.गद्गदया गिरा। प्रिय.मेत.दुपश्रुत्य भर्तु.र्विजयसंश्रितम्।। 17।। >> प्रहर्षवश.मापन्ना निर्वाक्यास्मि क्षणान्तरम्। न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम।। 18।। >> मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्। न हि पश्यामि तत् सौम्य पृथिव्या.मपि वानर।। 19।। >> सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम्। हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च।। 20।। >> राज्यं वा त्रिषु लोकेषु नैत.दर्हति भाषितुम्। एव.मुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः 21।। >> गृहीतप्राञ्जलि.र्वाक्यं सीतायाः प्रमुखे स्थितः। भर्तुः प्रियहिते युक्ते भर्तु.र्विजयकाङ्क्षिणि।। 22।। >> स्निग्ध.मेवँविधं वाक्यं त्व.मेवार्हसि भाषितुम्। तवैत.द्वचनं सौम्ये सारवत् स्निग्ध.मेव च।। 23।। >> रत्नौघा.द्विविधाच्चापि देवराज्या.द्विशिष्यते। अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः 24।। >> हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्। तस्य त.द्वचनं श्रुत्वा मैथिली जनकात्मजा 25।। >> तत.श्शुभतरं वाक्य-मुवाच पवनात्मजम्। अतिलक्षण.सम्पन्नं माधुर्यगुण.भूषितम्।। 26।। >> बुद्ध्या ह्यष्टाङ्गया युक्तं त्व.मेवार्हसि भाषितुम्। श्लाघनीयोनिलस्य त्वं पुत्रः परमधार्मिकः 27।। >> बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्य.मुत्तमम्। तेजः क्षमा धृति.र्धैर्यं विनीतत्वं न संशयः  28।। >> एते चान्ये च बहवो गुणा.स्त्वय्येव शोभनाः। अथोवाच पुन.स्सीता.-मसम्भ्रान्तो विनीतवत् 29।। >> प्रगृहीताञ्जलि.र्हर्षात् सीतायाः प्रमुखे स्थितः। इमास्तु खलु राक्षस्यो यदि त्व.मनुमन्यसे 30।। >> हन्तु.मिच्छा.म्यहं सर्वा याभि.स्त्वं तर्जिता पुरा। क्लिश्यन्तीं पतिदेवां त्वा.-मशोकवनिकां गताम् 31।। >> घोररूप.समाचाराः क्रूराः क्रूरतरेक्षणाः। राक्षस्यो दारुणकथा वर.मेतत् प्रयच्छ मे।। 32।। >> मुष्टिभिः पाणिभि.स्सर्वा-श्चरणै.श्चैव शोभने। इच्छामि विविधै.र्घातैः हन्तु मेता.स्सुदारुणाः 33।। >> घोरै.र्जानुप्रहारैश्च दशनानां च पातनैः। भक्षणैः कर्णनासानां केशानां लुञ्चनै.स्तथा 34।। >> नखै.श्शुष्कमुखीभि.श्च दारणै.र्लङ्घनै.र्हतैः। निपात्य हन्तु.मिच्छामि तव विप्रियकारिणीः 35।। >> एवम्प्रकारै.र्बहुभिर्-विप्रकारै.र्यशस्विनि। हन्तु.मिच्छा.म्यहं देवि तवेमाः कृतकिल्बिषाः 36।। >> एव.मुक्ता हनुमता वैदेही जनकात्मजा। उवाच धर्मसहितं हनूमन्तं यशस्विनी 37।। >> राजसंश्रय.वश्यानां कुर्वतीनां पराज्ञया। विधेयानां च दासीनां कः कुप्ये.द्वानरोत्तम 38।। >> भाग्यवैषम्य.योगेन पुरा दुश्चरितेन च। मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते।। 39।। >> प्राप्तव्यं तु दशायोगा-न्मयैत.दिति निश्चितम्। दासीनां रावणस्याहं मर्षयामीह दुर्बला।। 40।। >> आज्ञप्ता रावणेनैता राक्षस्यो मा.मतर्जयन्। हते तस्मिन् न कुर्युर् हि तर्जनं वानरोत्तम 41।। >> अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः। ऋक्षेण गीत.श्श्लोको मे तन्निबोध प्लवङ्गम।। 42।। >> न परः पाप.मादत्ते परेषां पापकर्मणाम्।  समयो रक्षितव्यस्तु सन्त.श्चारित्रभूषणाः।। 43।। >> पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम।  कार्यं करुण.मार्येण न कश्चिन्नापराध्यति।। 44।। >> लोकहिंसा.विहाराणां रक्षसां कामरूपिणाम्। कुर्वता.मपि पापानि नैव कार्य.मशोभनम्।। 45।। >> एव.मुक्तस्तु हनुमान् सीतया वाक्यकोविदः। प्रत्युवाच तत.स्सीतां रामपत्नीं यशस्विनीम् 46।। >> युक्ता रामस्य भवती धर्मपत्नी यशस्विनी। प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः।। 47।। >> एव.मुक्ता हनुमता वैदेही जनकात्मजा। अब्रवी.द्द्रष्टु.मिच्छामि भर्तारं वानरोत्तम 48।। >> तस्या.स्तद्वचनं श्रुत्वा हनुमान् पवनात्मजः। हर्षयन् मैथिलीं वाक्य-मुवाचेदं महाद्युतिः 49।। >> पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्। स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्।। 50।। >> ता.मेव.मुक्त्वा राजन्तीं सीतां साक्षा.दिव श्रियम्। आजगाम महावेगो हनूमान् यत्र राघवः 51।। >> श्रीमद्रामायणे युद्धकाण्डे षोडशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 117 सीताभर्तृमुखोदीक्षणम् स उवाच महाप्राज्ञ.-मभिगम्य प्लवङ्गमः। रामं वचन.मर्थज्ञो वरं सर्वधनुष्मताम्।। 1।। >> यन्निमित्तोय.मारम्भः कर्मणां च फलोदयः। तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टु.मर्हसि।। 2।। >> सा हि शोक.समाविष्टा बाष्प.पर्याकुलेक्षणा। मैथिली विजयं श्रुत्वा तव हर्ष.मुपागमत्।। 3।। >> पूर्वकात् प्रत्यया.च्चाह-मुक्तो विश्वस्तया तया। भर्तारं द्रष्टु.मिच्छामि कृतार्थं सहलक्ष्मणम्।। 4।। >> एव.मुक्तो हनुमता रामो धर्मभृतां वरः। अगच्छत् सहसा ध्यान-मीष.द्बाष्पपरिप्लुतः 5।। >> दीर्घ.मुष्णं विनिश्वस्य मेदिनी.मवलोकयन्। उवाच मेघसङ्काशं विभीषण.मुपस्थितम्।। 6।। >> दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्। इह सीतां शिर.स्स्नाता-मुपस्थापय मा चिरम्।। 7।। >> एव.मुक्तस्तु रामेण त्वरमाणो विभीषणः। प्रविश्यान्तःपुरं सीतां- स्वाभि.स्स्त्रीभि.रचोदयत्।। 8।। >> दिव्याङ्गरागा वैदेही दिव्याभरण.भूषिता। यान.मारोह भद्रं ते भर्ता त्वां द्रष्टु.मिच्छति।। 9।। >> एव.मुक्ता तु वैदेही प्रत्युवाच विभीषणम्। अस्नाता द्रष्टु.मिच्छामि भर्तारं राक्षसाधिप।। 10।। >> तस्या.स्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः। य.दाह राजा भर्ता ते तत् तथा कर्तु.मर्हसि।। 11।। >> तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता। भर्तृभक्ति.व्रता साध्वी तथेति प्रत्यभाषत।। 12।। >> तत.स्सीतां शिर.स्स्नातां युवतीभि.रलङ्कृताम्। महार्हाभरणोपेतां महार्हाम्बर.धारिणीम्।। 13।। >> आरोप्य शिबिकां दीप्तां परार्ध्याम्बर.सँवृताम्। रक्षोभि.र्बहुभि.र्गुप्ता.-माजहार विभीषणः।। 14।। >> सोभिगम्य महात्मानं ज्ञात्वाभिध्यान.मास्थितम्। प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्।। 15।। >> ता.मागता.मुपश्रुत्य रक्षोगृह.चिरोषिताम्। हर्षो दैन्यं च रोषश्च त्रयं राघव.माविशत्।। 16।। >> ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्। विभीषण.मिदं वाक्य.-महृष्टो राघवोब्रवीत्।। 17।। >> राक्षसाधिपते सौम्य नित्यं मद्विजये रत। वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु।। 18।। >> स तद्वचन.माज्ञाय राघवस्य विभीषणः। तूर्ण.मुत्सारणे यत्नं कारयामास सर्वतः।। 19।। >> कञ्चुकोष्णीषिण.स्तत्र वेत्रजर्जर.पाणयः। उत्सारयन्तः पुरुषा.-स्समन्तात् परिचक्रमुः 20।। >> ऋक्षाणां वानराणां च राक्षसानां च सर्वशः। बृन्दा.नुत्सार्यमाणानि दूर.मुत्ससृजु.स्तदा।। 21।। >> तेषा.मुत्सार्यमाणानां सर्वेषां ध्वनि.रुत्थितः। वायुनोद्वर्तमानस्य सागरस्येव निस्वनः।। 22।। >> उत्सार्यमाणां.स्तान् दृष्ट्वा समन्ता.ज्जातसम्भ्रमान्। दाक्षिण्यात् तदमर्षाच्च वारयामास राघवः।। 23।। >> संरब्ध.श्चाब्रवी.द्राम-श्चक्षुषा प्रदह.न्निव। विभीषणं महाप्राज्ञं सोपालम्भ.मिदं वचः।। 24।। >> किमर्थं मा.मनादृत्य क्लिश्यतेयं त्वया जनः। निवर्तयैन.मुद्योगं जनोयं स्वजनो मम ।। 25।। >> न गृहाणि न वस्त्राणि न प्राकारा.स्तिरस्क्रियाः।  नेदृशा राजसत्कारा- वृत्त.मावरणं स्त्रियाः।। 26।। >> व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयँवरे।  न क्रतौ नो विवाहे च दर्शनं दुष्यति स्त्रियाः।। 27।। >> सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता। दर्शनेस्या न दोष.स्स्या-न्मत्समीपे विशेषतः 28।। >> तदानय समीपं मे शीघ्र.मेनां विभीषण। सीता पश्यतु मा.मेषा सुहृद्गण.वृतं स्थितम् 29।। >> एव.मुक्तस्तु रामेण सविमर्शो विभीषणः। रामस्योपानयत् सीतां सन्निकर्षं विनीतवत्।। 30।। >> ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः। निशम्य वाक्यं रामस्य बभूवु.र्व्यथिता भृशम्।। 31।। >> कलत्रनिरपेक्षैश्च इङ्गितै.रस्य दारुणैः। अप्रीत.मिव सीतायां तर्कयन्ति स्म राघवम्।। 32।। >> लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेनानुगता भर्तारं साभ्यवर्तत।। 33।। >> सा वस्त्रसंरुद्ध.मुखी लज्जया जनसंसदि। रुरोदासाद्य भर्तार.-मार्यपुत्रेति भाषिणी।। 34।। >> विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदैक्षत मुखं भर्तु.-स्सौम्यं सौम्यतरानना।। 35।। >> अथ समपनुदन् मनःक्लमं सा- सुचिर.मदृष्ट. मुदीक्ष्य वै प्रियस्य। वदन.मुदित.पूर्णचन्द्र.कान्तं- विमलशशाङ्क. निभानना तदानीम्।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तदशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 118 सीताप्रत्यादेशः तां तु पार्श्वस्थितां प्रह्वां- राम.स्सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतक्रोधो व्याहर्तु.मुपचक्रमे।। 1।। >> एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे। पौरुषा.द्यदनुष्ठेयं तदेत.दुपपादितम् ।। 2।। >> गतोस्म्यन्त.ममर्षस्य धर्षणा सम्प्रमार्जिता। अवमानश्च शत्रुश्च मया युगप.दुद्धृतौ।। 3।। >> अद्य मे पौरुषं दृष्ट.-मद्य मे सफल.श्श्रमः। अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः 4।। >> या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसम्पादितो दोषो मानुषेण मया जितः।। 5।। >> सम्प्राप्त.मवमानं य-स्तेजसा न प्रमार्जति। क.स्तस्य पुरुषार्थोस्ति पुरुषस्याल्पतेजसः 6।। >> लङ्घनं च समुद्रस्य लङ्काया.श्चावमर्दनम्। सफलं तस्य तच्छ्लाघ्य.-मद्य कर्म हनूमतः।। 7।। >> युद्धे विक्रमत.श्चैव हितं मन्त्रयतश्च मे। सुग्रीवस्य ससैन्यस्य सफलोद्य परिश्रमः।। 8।। >> निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वय.मुपस्थितः। विभीषणस्य भक्तस्य सफलोद्य परिश्रमः।। 9।। >> इत्येवं ब्रुवत.स्तस्य सीता रामस्य तद्वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता।। 10।। >> पश्यत.स्तां तु रामस्य भूयः क्रोधोभ्यवर्तत। प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः।। 11।। >> स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक् प्रेक्षितलोचनः। अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम्।। 13।। >> यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता। तत् कृतं सकलं सीते शत्रुहस्ता.दमर्षणात्।। 14।। >> निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्।। 15।। >> विदित.श्चास्तु ते भद्रे योयं रणपरिश्रमः। स तीर्ण.स्सुहृदां वीर्या-न्न त्व.दर्थं मया कृतः।। 16।। >> रक्षता तु मया वृत्त.-मपवादं च सर्वशः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता।। 17।। >> प्राप्तचारित्र.सन्देहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्।। 18।। >> तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्य.मस्ति न मे त्वया ।। 19।। >> कः पुमान् हि कुले जात.-स्स्त्रियं परगृहोषिताम्। तेजस्वी पुन.रादद्यात् सुहृ.ल्लेख्येन चेतसा।। 20।। >> रावणाङ्क.परिभ्रष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिश.न्महत्।। 21।। >> तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यता.मितः ।। 22।। >> इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् 23।। >> सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे। निवेशय मन.स्सीते यथा वा सुख.मात्मनः 24।। >> न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम्।। 25।। >> ततः प्रियार्हश्रवणा तदप्रियं- प्रिया.दुपश्रुत्य चिरस्य मैथिली। मुमोच बाष्पं सुभृशं प्रवेपिता- गजेन्द्र.हस्ताभिहतेव सल्लकी।। 26।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टादशोत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 119 हुताशनप्रवेशः एव.मुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण भृशं प्रव्यथिताभवत्।। 1।। >> सा तदश्रुत.पूर्वं हि जने महति मैथिली। श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत्।। 2।। >> प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा। वाक्छल्यै.स्तै.स्सशल्येव भृशं प्रव्यथिताभवत्।। 3।। >> ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्व.माननम्। शनै.र्गद्गदया वाचा भर्तार.मिद.मब्रवीत्।। 4।। >> किं मा.मसदृशं वाक्य-मीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृता.मिव।। 5।। >> न तथास्मि महाबाहो यथा त्व.मवगच्छसि। प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे।। 6।। >> पृथक् स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजेमां शङ्कां तु यदि तेहं परीक्षिता।। 7।। >> यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति।। 8।। >> मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्या.म्यनीश्वरा।। 9।। >> सहसँवृद्ध.भावाच्च संसर्गेण च मानद। यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम्।। 10।। >> प्रेषित.स्ते यदा वीरो हनूमा.नवलोककः। लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता।। 11।। >> प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्य.समनन्तरम्। त्वया सन्त्यक्तया वीर त्यक्तं स्या.ज्जीवितं मया।। 12।। >> न वृथा ते श्रमोयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जन.परिक्लेशो न चायं निष्फल.स्तव।। 13।। >> त्वया तु नरशार्दूल क्रोध.मेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्व.मेव पुरस्कृतम्।। 14।। >> अपदेशेन जनका.-न्नोत्पत्ति.र्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु तेन पुरस्कृतम्।। 15।। >> न प्रमाणीकृतः पाणिर्- बाल्ये बालेन पीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्।। 16।। >> एवं ब्रुवाणा रुदती बाष्पगद्गद.भाषिणी। अब्रवी.ल्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम्।। 17।। >> चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्योपघातोपहता नाहं जीवितु.मुत्सहे।। 18।। >> अप्रीतस्य गुणै.र्भर्तु-स्त्यक्तया जनसंसदि। या क्षमा मे गति.र्गन्तुं प्रवेक्ष्ये हव्यवाहनम्।। 19।। >> एव.मुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवश.मापन्नो राघवानन.मैक्षत।। 20।। >> स विज्ञाय मन.श्छन्दं रामस्याकार.सूचितम्। चितां चकार सौमित्रिर्- मते रामस्य वीर्यवान्।। 21।। >> अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम्। उपासर्पत वैदेही दीप्यमानं हुताशनम्।। 22।। >> प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेद-मुवाचाग्निसमीपतः 23।। >> यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः।। 24।। >> यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः।। 25।। >> कर्मणा मनसा वाचा यथा नातिचरा.म्यहम्। राघवं सर्वधर्मज्ञं तथा मां पातु पावकः 26।। >> आदित्यो भगवान् वायुर्- दिश.श्चन्द्र.स्तथैव च। अह.श्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा।। 27।। >> यथान्येपि विजानन्ति तथा चारित्र.सँयुताम्। एव.मुक्त्वा तु वैदेही परिक्रम्य हुताशनम्।। 28।। >> विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना। जन.स्स सुमहां.स्त्रस्तो बालवृद्धस.माकुलः।। 29।। >> ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम्। सा तप्त.नवहेमाभा तप्तकाञ्चन.भूषणा।। 30।। >> पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ। ददृशु.स्तां महाभागां प्रविशन्तीं हुताशनम्।। 31।। >> सीतां कृत्स्ना.स्त्रयो लोकाः पूर्णा.माज्याहुती. मिव। प्रचुक्रुशु.स्स्त्रिय.स्सर्वा.-स्तां दृष्ट्वा हव्यवाहने।। 32।। >> पतन्तीं संस्कृतं मन्त्रैर्- वसो.र्धारा.मिवाध्वरे। ददृशु.स्तां त्रयो लोका देवगन्धर्व.दानवाः। शप्तां पतन्तीं निरये त्रिदिवा.द्देवता.मिव 33।। >> तस्या.मग्निं विशन्त्यां तु हाहेति विपुल.स्स्वनः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः।। 34।। >> श्रीमद्रामायणे युद्धकाण्डे एकोनविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 120 ब्रह्मकृतरामस्तवः ततो हि दुर्मना राम.-श्श्रुत्वैव वदतां गिरः। दध्यौ मुहूर्तं धर्मात्मा बाष्प.व्याकुललोचनः।। 1।। >> ततो वैश्रवणो राजा यम.श्चामित्रकर्शनः। सहस्राक्षो महेन्द्रश्च वरुणश्च जलेश्वरः।। 2।। >> षडर्धनयन.श्श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः।। 3।। >> एते सर्वे स.मागम्य विमानै.स्सूर्य.सन्निभैः। आगम्य नगरीं लङ्का.-मभिजग्मुश्च राघवम् 4।। >> तत.स्सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवं.स्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्।। 5।। >> कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः। उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने।। 6।। >> कथं देवगणश्रेष्ठ.-मात्मानं नावबुध्यसे। ऋतधामा वसुः पूर्वं- वसूनां च प्रजापतिः।। 7।। >> त्रयाणां त्वं हि लोकाना.-मादिकर्ता स्वयम्प्रभुः। रुद्राणा.मष्टमो रुद्र.-स्साध्याना.मसि पञ्चमः।। 8।। >> अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी। अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप।। 9।। >> उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा। इत्युक्तो लोकपालै.स्तै.-स्स्वामी लोकस्य राघवः।। 10।। >> अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः। आत्मानं मानुषं मन्ये रामं दशरथात्मजम्।। 11।। >> योहं यस्य यत.श्चाहं भगवां.स्तद्ब्रवीतु मे। इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः।। 12।। >> अब्रवी.च्छृणु मे राम सत्यं सत्यपराक्रम। भवान् नारायणो देव.श्श्रीमां.श्चक्रायुधो विभुः।। 13।। >> एकशृङ्गो वराह.स्त्वं भूतभव्य.सपत्नजित्। अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव।। 14।। >> लोकानां त्वं परो धर्मो विष्वक्सेन.श्चतुर्भुजः। शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः।। 15।। >> अजितः खड्गधृ.द्विष्णुः कृष्ण.श्चैव बृहद्बलः। सेनानी.र्ग्रामणीश्च त्वं बुद्धि.स्सत्त्वं क्षमा दमः।। 16।। >> प्रभव.श्चाप्ययश्च त्व-मुपेन्द्रो मधुसूदनः। इन्द्रकर्मा महेन्द्र.स्त्वं पद्मनाभो रणान्तकृत्।। 17।। >> शरण्यं शरणं च त्वा.-माहु.र्दिव्या महर्षयः। सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः।। 18।। >> त्वं त्रयाणां हि लोकाना.-मादिकर्ता स्वयम्प्रभुः। सिद्धाना.मपि साध्याना.-माश्रय.श्चासि पूर्वजः।। 19।। >> त्वं यज्ञ.स्त्वं वषट्कार-स्त्व.मोङ्कारः परन्तप। प्रभवं निधनं वा ते- न विदुः को भवा.निति।। 20।। >> दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च। दिक्षु सर्वासु गगने पर्वतेषु वनेषु च।। 21।। >> सहस्रचरण.श्श्रीमा-न्छतशीर्ष.स्सहस्रदृक्। त्वं धारयसि भूतानि वसुधां च सपर्वताम्।। 22।। >> अन्ते पृथिव्या.स्सलिले दृश्यसे त्वं महोरगः। त्रीन् लोकान् धारयन् राम- देवगन्धर्व.दानवान्।। 23।। >> अहं ते हृदयं राम जिह्वा देवी सरस्वती। देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो।। 24।। >> निमेष.स्ते भवे.द्रात्रि-रुन्मेष.स्ते भवे.द्दिवा। संस्कारा.स्तेभवन् वेदा- न तदस्ति त्वया विना।। 25।। >> जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्। अग्निः कोपः प्रसाद.स्ते सोम.श्श्रीवत्सलक्षण।। 26।। >> त्वया लोका.स्त्रयः क्रान्ताः पुराणे विक्रमै.स्त्रिभिः। महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम्।। 27।। >> सीता लक्ष्मी.र्भवान् विष्णुर्- देवः कृष्णः प्रजापतिः। वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्।। 28।। >> तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर। निहतो रावणो राम प्रहृष्टो दिव.माक्रम।। 29।। >> अमोघं बलवीर्यं ते- अमोघस्ते पराक्रमः। अमोघं दर्शनं राम न च मोघ.स्तव स्तवः।। 30।। >> अमोघा.स्ते भविष्यन्ति भक्तिमन्तश्च ये नराः। ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्।। 31।। >> प्राप्नुवन्ति सदा कामा-निह लोके परत्र च।। 32।। >> इम.मार्षस्तवं नित्य-मितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः।। 33।। >> श्रीमद्रामायणे युद्धकाण्डे विंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 121 सीताप्रतिग्रहः एत.च्छ्रुत्वा शुभं वाक्यं पितामह.समीरितम्। अङ्केनादाय वैदेही-मुत्पपात विभावसुः।। 1।। >> स विधूय चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमा.नाशु गृहीत्वा जनकात्मजाम्।। 2।। >> तरुणादित्य.सङ्काशां तप्तकाञ्चन.भूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चित.मूर्धजाम्।। 3।। >> अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम्। ददौ रामाय वैदेही.-मङ्के कृत्वा विभावसुः।। 4।। >> अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पाप.मस्यां न विद्यते।। 5।। >> नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा। सुवृत्ता वृत्तशौण्डीरा न त्वा.मतिचचार ह।। 6।। >> रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जना.द्वनात्।। 7।। >> रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा। रक्षिता राक्षसीसङ्घैर्- विकृतै.र्घोरदर्शनैः।। 8।। >> प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली। नाचिन्तयत तद्रक्ष-स्त्वद्गतेनान्तरात्मना।। 9।। >> विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव। न किञ्चि.दभिधातव्य.-मह.माज्ञापयामि ते।। 10।। >> ततः प्रीतमना राम.-श्श्रुत्वैत.द्वदतां वरः। दध्यौ मुहूर्तं धर्मात्मा बाष्प.व्याकुललोचनः।। 11।। >> एव.मुक्तो महातेजा धृतिमान् दृढविक्रमः। अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः।। 12।। >> अवश्यं त्रिषु लोकेषु न सीता पाप.मर्हति। दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा।। 13।। >> बालिशः खलु कामात्मा रामो दशरथात्मजः। इति वक्ष्यन्ति मां सन्तो जानकी.मविशोध्य हि।। 14।। >> अनन्यहृदयां भक्तां मच्चित्त.परिवर्तिनीम्। अह.मप्यवगच्छामि मैथिलीं जनकात्मजाम्।। 15।। >> प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः। उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्।। 16।। >> इमा.मपि विशालाक्षीं रक्षितां स्वेन तेजसा। रावणो नातिवर्तेत वेला.मिव महोदधिः।। 17।। >> न हि शक्त.स्स दुष्टात्मा मनसापि हि मैथिलीम्। प्रधर्षयितु.मप्राप्तां दीप्ता.मग्निशिखा.मिव।। 18।। >> नेय.मर्हति चैश्वर्यं रावणान्तःपुरे शुभा। अनन्या हि मया सीतां भास्करेण प्रभा यथा।। 19।। >> विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न हि हातु.मियं शक्या कीर्ति.रात्मवता यथा।। 20।। >> अवश्यं तु मया कार्यं सर्वेषां वो वच.श्शुभम्। स्निग्धानां लोकनाथाना-मेवं च ब्रुवतां हितम्।। 21।। >> इतीद.मुक्त्वा विजयी महाबलः- प्रशस्यमान.स्स्वकृतेन कर्मणा। समेत्य रामः प्रियया महाबल-स्सुखं सुखार्होनुबभूव राघवः।। 22।। >> श्रीमद्रामायणे युद्धकाण्डे एकविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 122 दशरथप्रतिसमादेशः एत.च्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्। इदं शुभतरं वाक्यं व्याजहार महेश्वरः।। 1।। >> पुष्कराक्ष महाबाहो महावक्षः परन्तप। दिष्ट्या कृत.मिदं कर्म त्वया शस्त्रभृतां वर।। 2।। >> दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम्।। 3।। >> आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्।। 4।। >> प्राप्य राज्य.मयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल।। 5।। >> इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तु.मर्हसि।। 6।। >> एष राजा विमानस्थः पिता दशरथ.स्तव। काकुत्स्थ मानुषे लोके गुरु.स्तव महायशाः।। 7।। >> इन्द्रलोकं गत.श्श्रीमां-स्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्व.मेन.मभिवादय 8।। >> महादेववच.श्श्रुत्वा काकुत्स्थ.स्सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाम.मकरोत् पितुः।। 9।। >> दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः।। 10।। >> हर्षेण महताविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथ.स्तदा।। 11।। >> आरोप्याङ्कं महाबाहु-र्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे।। 12।। >> न मे स्वर्गो बहुमत.-स्संमानश्च सुरर्षिभिः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते।। 13।। >> कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम।। 14।। >> त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखा.द्विमुक्तोस्मि नीहारा.दिव भास्करः।। 15।। >> तारितोहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा।। 16।। >> इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येह विहितं पुरुषोत्तम।। 17।। >> सिद्धार्था खलु कौसल्या या त्वां रामगृहं गतम्। वना.न्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन।। 18।। >> सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। जलार्द्र.मभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम्।। 19।। >> अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वा.महं द्रष्टुं भरतेन समागतम्।। 20।। >> चतुर्दश समा.स्सौम्य वने निर्यापिता.स्त्वया। वसता सीतया सार्धं लक्ष्मणेन च धीमता।। 21।। >> निवृत्त.वनवासोसि प्रतिज्ञा सफला कृता। रावणं च रणे हत्वा देवा.स्ते परितोषिताः।। 22।। >> कृतं कर्म यश.श्श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभि.स्सह राज्यस्थो दीर्घ.मायु.रवाप्नुहि।। 23।। >> इति ब्रुवाणं राजानं रामः प्राञ्जलि.रब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च।। 24।। >> सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोर.-स्सपुत्रां न स्पृशेत् प्रभो।। 25।। >> स तथेति महाराजो राम.मुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्य.मुवाच ह।। 26।। >> रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते।। 27।। >> धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथैव च।। 28।। >> रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। राम.स्सर्वस्य लोकस्य शुभेष्वभिरत.स्सदा।। 29।। >> एते सेन्द्रा.स्त्रयो लोका.-स्सिद्धाश्च परमर्षयः। अभिगम्य महात्मान.-मर्चन्ति पुरुषोत्तमम्।। 30।। >> एत.त्तदुक्त.मव्यक्त.-मक्षरं ब्रह्मनिर्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परन्तपः।। 31।। >> अवाप्तं धर्मचरणं यशश्च विपुलं त्वया। रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया।। 32।। >> स तथोक्त्वा महाबाहुर्-लक्ष्मणं प्राञ्जलिं स्थितम्। उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्।। 33।। >> कर्तव्यो न तु वैदेहि मन्यु.स्त्याग.मिमं प्रति। रामेण त्वद्विशुद्ध्यर्थं कृत.मेतद्धितैषिणा।। 34।। >> न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति। अवश्यं तु मया वाच्य-मेष ते दैवतं परम्।। 35।। >> इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्। इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे द्वाविंश.त्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 123 इन्द्रवरदानम् प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्।। 1।। >> अमोघं दर्शनं राम तवास्माकं परन्तप। प्रीतियुक्तोस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि।। 2।। >> एव.मुक्त.स्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः। लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया।। 3।। >> यदि प्रीति.स्समुत्पन्ना मयि सर्वसुरेश्वर। वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर।। 4।। >> मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः।। 5।। >> मत्कृते विप्रयुक्ता ये पुत्रै.र्दारैश्च वानराः। मत्प्रिये.ष्वभिरक्ताश्च न मृत्युं गणयन्ति च।। 6।। >> त्वत्प्रसादात् समेयु.स्ते वर.मेत.दहं वृणे। नीरुजो निर्व्रणांश्चैव सम्पन्नबल.पौरुषान्।। 7।। >> गोलाङ्गूलां.स्तथैवर्क्षान् द्रष्टु.मिच्छामि मानद। अकाले चापि मुख्यानि मूलानि च फलानि च।। 8।। >> नद्यश्च विमला.स्तत्र तिष्ठेयु.र्यत्र वानराः। श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः।। 9।। >> महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्। महा.नयं वर.स्तात- त्वयोक्तो रघुनन्दन।। 10।। >> द्वि.र्मया नोक्तपूर्वं हि तस्मा.देत.द्भविष्यति। समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः।। 11।। >> ऋक्षाश्च सह गोपुच्छा निकृत्तानन.बाहवः। नीरुजो निर्वणा.श्चैव सम्पन्नबल.पौरुषाः।। 12।। >> समुत्थास्यन्ति हरय-स्सुप्ता निद्राक्षये यथा। सुहृद्भि.र्बान्धवै.श्चैव ज्ञातिभि.स्स्वजनै.रपि।। 13।। >> सर्व एव समेष्यन्ति सँयुक्ताः परया मुदा। अकाले पुष्पशबलाः फलवन्तश्च पादपाः।। 14।। >> भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः। सव्रणैः प्रथमं गात्रै.-स्सँवृतै.र्निर्व्रणैः पुनः।। 15।। >> तत.स्समुत्थिता.स्सर्वे सुप्त्वेव हरिपुङ्गवाः। बभूवु.र्वानरा.स्सर्वे कि.मेत.दिति विस्मिताः।। 16।। >> ते सर्वे वानरा.स्तस्मै राघवायाभ्यवादयन्। काकुस्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः।। 17।। >> ऊचु.स्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम्। गच्छायोध्या.मितो वीर विसर्जय च वानरान्।। 18।। >> मैथिलीं सान्त्वयस्वैना.-मनुरक्तां तपस्विनीम्। शत्रुघ्नं च महात्मानं मातॄ.स्सर्वाः परन्तप।। 19।। >> भ्रातरं पश्य भरतं त्वच्छोका.द्व्रतचारिणम्। अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय।। 20।। >> एव.मुक्त्वा त.मामन्त्र्य रामं सौमित्रिणा सह। विमानै.स्सूर्यसङ्काशैर्- हृष्टा जग्मु.स्सुरा दिवम्।। 21।। >> अभिवाद्य च काकुत्स्थ. स्सर्वां.स्तां.स्त्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा वास.माज्ञापय.त्तदा।। 22।। >> ततस्तु सा लक्ष्मणराम.पालिता- महाचमू.र्हृष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो- निशाप्रणीतेव हि शीत रश्मिना।। 23।। >> श्रीमद्रामायणे युद्धकाण्डे त्रयोविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 124 पुष्पकोपस्थापनम् तां रात्रि.मुषितं रामं सुखोत्थित.मरिन्दमम्। अब्रवीत् प्राञ्जलि.र्वाक्यं जयं पृष्ट्वा विभीषणः।। 1।। >> स्नानानि चाङ्गरागाणि वस्त्रा.ण्याभरणानि च। चन्दनानि च दिव्यानि माल्यानि विविधानि च।। 2।। >> अलङ्कारविद.श्चेमा नार्यः पद्मनिभेक्षणाः। उपस्थिता.स्त्वां विधिवत् स्नापयिष्यन्ति राघव।। 3।। >> प्रतिगृह्णीष्व तत्सर्वं मदनुग्रह.काम्यया। एव.मुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्।। 4।। >> हरीन् सुग्रीवमुख्यां.स्त्वं स्नानेनोपनिमन्त्रय। स तु ताम्यति धर्मात्मा मम हेतो.स्सुखोचितः।। 5।। >> सुकुमारो महाबाहुः कुमार.स्सत्यसंश्रवः। तं विना कैकयीपुत्रं भरतं धर्मचारिणम्।। 6।। >> न मे स्नानं बहुमतं वस्त्रा.ण्याभरणानि च। इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम्।। 7।। >> अयोध्या.मागतो ह्येष पन्थाः परमदुर्गमः। एव.मुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः।। 8।। >> अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज। पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम्।। 9।। >> मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्। हृतं निर्जित्य सङ्ग्रामे कामगं दिव्य.मुत्तमम्।। 10।। >> त्वदर्थे पालितं चैतत् तिष्ठ.त्यतुलविक्रम। तदिदं मेघसङ्काशं विमान.मिह तिष्ठति।। 11। तेन यास्यसि यानेन त्व.मयोध्यां गतज्वरः। अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्।। 12।। >> वस ताव.दिह प्राज्ञ यद्यस्ति मयि सौहृदम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।। 13।। >> अर्चित.स्सर्वकामै.स्त्वं ततो राम गमिष्यसि। प्रीतियुक्तस्तु मे राम ससैन्य.स्ससुहृद्गणः।। 14।। >> सत्क्रियाविहितां ताव-द्गृहाण त्वं मयोद्यताम्। प्रणया.द्बहुमानाच्च सौहृदेन च राघव।। 15।। >> प्रसादयामि प्रेष्योहं न खल्वाज्ञापयामि ते। एव.मुक्त.स्ततो रामः प्रत्युवाच विभीषणम्।। 16।। >> रक्षसां वानराणां च सर्वेषां चोपशृण्वताम्। पूजितोहं त्वया वीर साचिव्येन परन्तप।। 17।। >> सर्वात्मना च चेष्टाभि.-स्सौहृदेनोत्तमेन च। न खल्वेत.न्न कुर्यां ते वचनं राक्षसेश्वर।। 18।। >> तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः। मां निवर्तयितुं योसौ चित्रकूट.मुपागतः।। 19।। >> शिरसा याचतो यस्य वचनं न कृतं मया। कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्।। 20।। >> गुरूंश्च सुहृदश्चैव पौरांश्च तनयै.स्सह। उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर।। 21।। >> कृतकार्यस्य मे वासः कथंस्वि.दिह सम्मतः। अनुजानीहि मां सौम्य पूजितोस्मि विभीषण।। 22।। >> मन्यु.र्न खलु कर्तव्य-स्त्वरितं त्वानुमानये। राघवस्य वच.श्श्रुत्वा राक्षसेन्द्रो विभीषणः।। 23।। >> तं विमानं स.मादाय तूर्णं प्रतिनिवर्तत। ततः काञ्चनचित्राङ्गं वैदूर्यमणि.वेदिकम्।। 24। कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्। पाण्डुराभिः पताकाभि-र्ध्वजैश्च समलङ्कृतम्।। 25।। >> शोभितं काञ्चनै.र्हर्म्यैर्- हेमपद्म.विभूषितम्। प्रकीर्णं किङ्किणीजालैर्-मुक्तामणि.गवाक्षितम्।। 26। घण्टाजालैः परिक्षिप्तं सर्वतो मधुर.स्वनम्। यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा।। 27।। >> बहुभि.र्भूषितं हर्म्यैर्-मुक्तारजत.सन्निभैः। तलै.स्स्फटिकचित्राङ्गैर्-वैडूर्यैश्च वरासनैः। महार्हास्तरणोपेतै-रुपपन्नं महाधनैः।। 28।। >> उपस्थित.मनाधृष्यं तद्विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः।। 29।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्विंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 125 पुष्पकोत्पतनम् उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्। अविदूरस्थितं रामं प्रत्युवाच विभीषणः।। 1।। >> स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः। अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्।। 2।। >> त.मब्रवी.न्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्य.-मिदं स्नेहपुरस्कृतम्।। 3।। >> कृतप्रयत्न.कर्माणो विभीषण वनौकसः। रत्नै.रर्थैश्च विविधैर्-भूषणै.श्चाभिपूजय।। 4।। >> सहैभि.रजिता लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामे.ष्वनिवर्तिभिः।। 5।। >> त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः। घनरत्न.प्रदानेन कर्मैषां सफलं कुरु।। 6।। >> एवं सम्मानिता.श्चेमे मानार्हा मानद त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः।। 7।। >> त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम्।  सर्वे त्वा.मवगच्छन्ति तत.स्सम्बोधया.म्यहम्।। 8।। >> हीनं रतिगुणै.सर्वै-रभिहन्तार.माहवे।  त्यजन्ति नृपतिं सैन्याः सँविग्ना.स्तं नरेश्वरम्।। 9।। >> एव.मुक्तस्तु रामेण वानरां.स्तान् विभीषणः। रत्नार्थै.स्सँविभागेन सर्वा.नेवान्वपूजयत्।। 10।। >> तत.स्तान् पूजितान् दृष्ट्वा रत्नै.रर्थैश्च यूथपान्। आरुरोह ततो राम-स्तद् विमान.मनुत्तमम्।। 11।। >> अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता।। 12।। >> अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थ.स्सविभीषणम्।। 13। मित्रकार्यं कृत.मिदं भवद्भि.र्वानरोत्तमाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ।। 14।। >> यत्तु कार्यं वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा।। 15।। >> किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसँवृतः। स्वराज्ये वस लङ्कायां मया दत्ते विभीषण।। 16।। >> न त्वां धर्षयितुं शक्ता.-स्सेन्द्रा अपि दिवौकसः। अयोध्यां प्रतियास्यामि राजधानीं पितु.र्मम।। 17।। >> अभ्यनुज्ञातु.मिच्छामि सर्वा.नामन्त्रयामि वः। एव.मुक्ता.स्तु रामेण वानरा.स्ते महाबलाः।। 18।। >> ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः। अयोध्यां गन्तु.मिच्छाम.-स्सर्वान् नयतु नो भवान्।। 19।। >> उद्युक्ता विचरिष्यामो वनानि नगराणि च। दृष्ट्वा त्वा.मभिषेकार्द्रं कौसल्या.मभिवाद्य च।। 20।। >> अचिरेणागमिष्याम.-स्स्वान् गृहान् नृपते.स्सुत। एव.मुक्तस्तु धर्मात्मा वानरै.स्सविभीषणैः 21।। >> अब्रवी.द्राघव.श्श्रीमान् ससुग्रीव.विभीषणान्। प्रियात् प्रियतरं लब्धं य.दहं ससुहृज्जनः।। 22।। >> सर्वै.र्भवद्भि.स्सहितः प्रीतिं लप्स्ये पुरीं गतः। क्षिप्र.मारोह सुग्रीव विमानं वानरै.स्सह।। 23।। >> त्व.मध्यारोह सामात्यो राक्षसेन्द्र विभीषण। तत.स्तत् पुष्पकं दिव्यं सुग्रीव.स्सह सेनया 24।। >> आरुरोह मुदा युक्त-स्सामात्यश्च विभीषणः। तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्।। 25।। >> राघवेणाभ्यनुज्ञात-मुत्पपात विहायसम्। ययौ तेन विमानेन हंसयुक्तेन भास्वता।। 26।। >> प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्। ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः। यथासुख. मसम्बाधं दिव्ये तस्मि.न्नुपाविशन्।। 27।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 126 प्रत्यावृत्तिपथवर्णनम् अनुज्ञातं तु रामेण तद्विमान.मनुत्तमम्। उत्पपात महामेघ.-श्श्वसनेनोद्धतो यथा।। 1।। >> पातयित्वा तत.श्चक्षु.-स्सर्वतो रघुनन्दनः। अब्रवी.न्मैथिलीं सीतां राम.श्शशिनिभाननाम्।। 2।। >> कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्का.मीक्षस्व वैदेहि निर्मितां विश्वकर्मणा।। 3।। >> एत.दायोधनं पश्य मांसशोणित.कर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्।। 4।। >> अत्र दत्तवर.श्शेते प्रमाथी राक्षसेश्वरः। तव हेतो.र्विशालाक्षि रावणो निहतो मया।। 5।। >> कुम्भकर्णोत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता।। 6।। >> विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजि.च्चात्र रावणि.र्निहतो रणे।। 7।। >> अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुर्धर्षो महापार्श्व.महोदरौ।। 8।। >> अकम्पनश्च निहतो बलिनोन्ये च राक्षसाः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्।। 9।। >> सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने।। 10।। >> यत्र सागर.मुत्तीर्य तां रात्रि.मुषिता वयम्। एष सेतु.र्मया बद्ध.-स्सागरे सलिलार्णवे।। 11।। >> तव हेतो.र्विशालाक्षि नलसेतु.स्सुदुष्करः। पश्य सागर.मक्षोभ्यं वैदेहि वरुणालयम्।। 12।। >> अपार.मभिगर्जन्तं शङ्खशुक्ति.निषेवितम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि।। 13।। >> विश्रमार्थं हनुमतो भित्त्वा सागर.मुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावार.निवेशनम्।। 14।। >> एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः। सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्।। 15।। >> एतत् पवित्रं परमं महापातक.नाशनम्। अत्र पूर्वं महादेवः प्रसाद.मकरोत् प्रभुः।। 16।। >> अत्र राक्षसराजोय.- माजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना।। 17।। >> सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्।। 18।। >> अब्रवीत् प्रश्रितं वाक्यं रामं प्रणय.साध्वसा। सुग्रीवप्रियभार्याभि.-स्तारा प्रमुखतो नृप।। 19।। >> अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तु.मिच्छे सहायोध्यां राजधानीं त्वयानघ।। 20।। >> एव.मुक्तोथ वैदेह्या राघवः प्रत्युवाच ताम्। एव.मस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः।। 21।। >> विमानं प्रेक्ष्य सुग्रीवं वाक्य.मेत.दुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्।। 22।। >> स्वदारसहिता.स्सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभि.-स्स्त्रीभि.स्सह महाबल।। 23।। >> अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर। एव.मुक्तस्तु सुग्रीवो रामेणामित तेजसा।। 24।। >> वानराधिपति.श्श्रीमां.-स्तैश्च सर्वै.स्समावृतः। प्रविश्यान्तः पुरं शीघ्रं तारा.मुद्वीक्ष्य भाषत।। 25।। >> प्रिये त्वं सह नारीभि-र्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिली.प्रियकाम्यया।। 26।। >> त्वर त्व.मभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः।। 27।। >> सुग्रीवस्य वच.श्श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवी.त्सर्वा वानराणां तु योषितः।। 28।। >> सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्य-मयोध्यादर्शनेन च।। 29।। >> प्रवेशं चापि रामस्य पौरजानपदै.स्सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च।। 30।। >> तारया चाभ्यनुज्ञाता-स्सर्वा वानरयोषितः। नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम्।। 31।। >> अध्यारोहन् विमानं तत्- सीतादर्शन.काङ्क्षया। ताभि.स्सहोत्थितं शीघ्रं- विमानं प्रेक्ष्य राघवः।। 32।। >> ऋश्यमूक.समीपे तु वैदेहीं पुन.रब्रवीत्। दृश्यतेसौ महान् सीते सविद्यु.दिव तोयदः।। 33।। >> ऋश्यमूको गिरिश्रेष्ठः- काञ्चनै.र्धातुभि.र्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः।। 34।। >> समयश्च कृत.स्सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना।। 35।। >> त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्या.स्तीरे मया दृष्टा शबरी धर्मचारिणी।। 36।। >> अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेसौ जनस्थाने सीते श्रीमान् वनस्पतिः।। 37।। >> यत्र युद्धं मह.द्दत्तं तव हेतो.र्विलासिनि। रावणस्य नृशंसस्य जटायोश्च महात्मनः।। 38।। >> खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणै.रजिह्मगैः।। 39।। >> एतत् तदाश्रमपद.-मस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शना।। 40।। >> यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शिवा।। 41।। >> अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि। दीप्त.श्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः।। 42।। >> वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्। उपयात.स्सहस्राक्षो यत्र शक्रः पुरन्दरः।। 43।। >> अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसावासा दृश्यन्ते तनुमध्यमे।। 44।। >> अत्रिः कुलपति.र्यत्र सूर्यवैश्वानर.प्रभः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी।। 45।। >> असौ सुतनु शैलेन्द्र-श्चित्रकूटः प्रकाशते। यत्र मां कैकयीपुत्रः प्रसादयितु.मागतः।। 46।। >> एषा सा यमुना दूरा-द्दृश्यते चित्रकानना। भरद्वाजाश्रमो यत्र- श्रीमा.नेष प्रकाशते।। 47।। >> एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि। नानाद्विजगणाकीर्णा सम्प्रपुष्पित.कानना।। 48।। >> शृङ्गिबेरपुरं चैत-द्गुहो यत्र समागतः। एषा सा दृश्यते सीते सरयू.र्यूपमालिनी।। 49।। >> नानातरु.शताकीर्णा सम्प्रपुष्पित.कानना। एषा सा दृश्यतेयोध्या राजधानी पितु.र्मम।। 50।। >> अयोध्यां कुरु वैदेहि प्रणामं पुन.रागता। ततस्ते वानरा.स्सर्वे राक्षसश्च विभीषणः। उत्पत्योत्पत्य ददृशु-स्तां पुरीं शुभदर्शनाम्।। 51।। >> ततस्तु तां पाण्डुर.हर्म्यमालिनीं- विशालकक्ष्यां गजवाजि.सङ्कुलाम्। पुरी.मयोध्यां ददृशुः प्लवङ्गमाः- पुरीं महेन्द्रस्य यथामरावतीम्।। 52।। >> श्रीमद्रामायणे युद्धकाण्डे षड्विंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 127 भरद्वाजामन्त्रणम् पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः। भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्।। 1।। >> सोपृच्छ.दभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चि.द्भगवन् सुभिक्षाना.मयं पुरे।। 2।। >> कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः। एव.मुक्तस्तु रामेण भरद्वाजो महामुनिः।। 3।। >> प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्। पङ्कदिग्धस्तु भरतो जटिल.स्त्वां प्रतीक्षते।। 4।। >> पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे। त्वां पुरा चीरवसनं प्रविशन्तं महावनम्।। 5।। >> स्त्रीतृतीयं च्युतं राज्याद्- धर्मकामं च केवलम्। पदातिं त्यक्तसर्वस्वं पितु.र्वचनकारिणम्।। 6।। >> सर्वभोगैः परित्यक्तं स्वर्गच्युत.मिवामरम्। दृष्ट्वा तु करुणापूर्वं ममासीत् समितिञ्जय।। 7।। >> कैकेयीवचने युक्तं वन्यमूल.फलाशिनम्। साम्प्रतं सुसमृद्धार्थं समित्रगण.बान्धवम्।। 8।। >> समीक्ष्य विजितारिं त्वां मम प्रीति.रनुत्तमा। सर्वं च सुखदुःखं ते विदितं मम राघव।। 9।। >> यत्त्वया विपुलं प्राप्तं जनस्थान.वधादिकम्। ब्राह्मणार्थे नियुक्तस्य रक्षत.स्सर्वतापसान्।। 10।। >> रावणेन हृता भार्या बभूवेय.मनिन्दिता। मारीचदर्शनं चैव सीतोन्मथन.मेव च।। 11।। >> कबन्धदर्शनं चैव पम्पाभिगमनं तथा। सुग्रीवेण च ते सख्यं यच्च वाली हत.स्त्वया।। 12।। >> मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च। विदितायां च वैदेह्यां नलसेतु.र्यथा कृतः।। 13।। >> यथा वा दीपिता लङ्का प्रहृष्टै.र्हरियूथपैः। सपुत्रबान्धवामात्य.-स्सबल.स्सहवाहनः।। 14।। >> यथा विनिहत.स्सङ्ख्ये रावणो देवकण्टकः। समागमश्च त्रिदशै-र्यथादत्तश्च ते वरः।। 15।। >> सर्वं ममैत.द्विदितं तपसा धर्मवत्सल। अह मप्यत्र ते दद्मि वरं शस्त्रभृतां वर।। 16।। >> अर्घ्य.मद्य गृहाणेद.-मयोध्यां श्वो गमिष्यसि। तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः।। 17।। >> बाढ.मित्येव संहृष्ट-श्श्रीमान् वर.मयाचत। अकाले फलिनो वृक्षा.--स्सर्वे चापि मधुस्रवाः।। 18।। >> फला.न्यमृतकल्पानि बहूनि विविधानि च। भवन्तु मार्गे भगव-न्नयोध्यां प्रति गच्छतः।। 19।। >> तथेति च प्रतिज्ञाते वचनात् समनन्तरम्। अभवन् पादपा.स्तत्र- स्वर्गपादप.सन्निभाः।। 20।। >> निष्फलाः फलिन.श्चासन् विपुष्पाः पुष्पशालिनः। शुष्का.स्समग्रपत्रा.स्ते नगाश्चैव मधुस्रवाः। सर्वतो योजना त्रीणि गच्छता मभवं.स्तदा ।। 21।। >> ततः प्रहृष्टाः प्लवगर्षभास्ते- बहूनि दिव्यानि फलानि चैव। कामा.दुपाश्नन्ति सहस्रश.स्ते- मुदान्विता.स्स्वर्गजितो यथैव।। 22।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डे सर्गः 128 भरतप्रियाख्यानम् अयोध्यां तु समालोक्य चिन्तयामास राघवः। चिन्तयित्वा हनूमन्त-मुवाच प्लवगेश्वरम्।। 1।। >> जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे। शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम्।। 2।। >> निषादाधिपतिं ब्रूहि कुशलं वचनान्मम। श्रुत्वा तु मां कुशलिन-मरोगं विगतज्वरम्।। 3।। >> भविष्यति गुहः प्रीत.-स्स ममात्मसम.स्सखा। अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च।। 4।। >> निवेदयिष्यति प्रीतो निषादाधिपति.र्गुहः। भरतस्तु त्वया वाच्यः कुशलं वचनान्मम।। 5।। >> सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्। हरणं चापि वैदेह्या रावणेन बलीयसा।। 6।। >> सुग्रीवेण च संसर्गं वालिनश्च वधं रणे। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया।। 7।। >> लङ्घयित्वा महातोय.-मापगापति.मव्ययम्। उपयानं समुद्रस्य सागरस्य च दर्शनम्।। 8।। >> यथा च कारित.स्सेतू- रावणश्च यथा हतः। वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च।। 9।। >> महादेव.प्रसादाच्च पित्रा मम समागमम्। उपयान्तं च मां सौम्यं भरतस्य निवेदय।। 10।। >> सह राक्षसराजेन हरीणां प्रवरेण च। एतच्छ्रुत्वा य.माकारं भजते भरत.स्तदा।। 11।। >> स च ते वेदितव्य.स्स्यात् सर्वं यच्चापि मां प्रति। जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः।। 12।। >> उपयाति समृद्धार्थ.-स्सह मित्रै.र्महाबलैः। ज्ञेयाश्च सर्वे वृत्तान्ता- भरतस्येङ्गितानि च।। 13।। >> तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च।  सर्वकाम.समृद्धं हि हस्त्यश्व.रथसङ्कुलम्।। 14।। >> पितृपैतामहं राज्यं कस्य नावर्तये.न्मनः।  सङ्गत्या भरत.श्श्रीमान् राज्यार्थी चेत् स्वयं भजेत्।। 15।। >> प्रशास्तु वसुधां सर्वा.-मखिलां रघुनन्दनः।  तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर।। 16।। >> यावन्न दूरं याता.स्स्म क्षिप्र.मागन्तु.मर्हसि। इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः।। 17।। >> मानुषं धारयन् रूप.-मयोध्यां त्वरितो ययौ। अथोत्पपात वेगेन हनुमान् मारुतात्मजः।। 18।। >> गरुत्मा.निव वेगेन जिघृक्षन् भुजगोत्तमम्। लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्।। 19।। >> गङ्गायमुनयो.र्मध्यं सन्निपात.मतीत्य च। शृङ्गिबेरपुरं प्राप्य गुह.मासाद्य वीर्यवान्।। 20।। >> स वाचा शुभया हृष्टो हनूमा.निद.मब्रवीत्। सखा तु तव काकुत्स्थो राम.स्सत्यपराक्रमः।। 21।। >> सहसीत. स्ससौमित्रि.स्स त्वां कुशल.मब्रवीत्। पञ्चमी.मद्य रजनी.मुषित्वा वचना.न्मुनेः।। 22।। >> भरद्वाजाभ्यनुज्ञातं द्रक्ष्य.स्यद्यैव राघवम्। एव.मुक्त्वा महातेजा.-स्सम्प्रहृष्ट.तनूरुहः 23।। >> उत्पपात महावेगो वेगवा.नविचारयन्। सोपश्य.द्रामतीर्थं च नदीं वालुकिनीं तथा।। 24। गोमतीं तां च सोपश्य-द्भीमं सालवनं तथा। प्रजाश्च बहुसाहस्रान् स्फीतान् जनपथा.नपि।। 25।। >> स गत्वा दूर.मध्वानं त्वरितः कपिकुञ्जरः। आससाद द्रुमान् फुल्लान् नन्दिग्राम.समीपजान्।। 26।। >> स्त्रीभिः सपुत्रै.र्वृद्धैश्च रममाणै.रलङ्कृतान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्।। 27।। >> क्रोशमात्रे त्वयोध्याया-श्चीरकृष्णाजिनाम्बरम्। ददर्श भरतं दीनं कृश.माश्रमवासिनम्।। 28।। >> जटिलं मलदिग्धाङ्गं भ्रातृव्यसन.कर्शितम्। फलमूलाशिनं दान्तं तापसं धर्मचारिणम्।। 29।। >> समुन्नत.जटाभारं वल्कलाजिनवाससम्। नियतं भावितात्मानं ब्रह्मर्षिसम.तेजसम्।। 30।। >> पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम्। चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्।। 31।। >> उपस्थित.ममात्यैश्च शुचिभिश्च पुरोहितैः। बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः।। 32।। >> न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्। परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम्।। 33।। >> तं धर्म.मिव धर्मज्ञं देहवन्त.मिवापरम्। उवाच प्राञ्जलि.र्वाक्यं हनूमान् मारुतात्मजः।। 34।। >> वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्। अनुशोचसि काकुत्स्थं स त्वां कुशल.मब्रवीत्।। 35।। >> प्रिय.माख्यामि ते देव शोकं त्यज सुदारुणम्। अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः।। 36।। >> निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्। उपयाति समृद्धार्थ.-स्सह मित्रै.र्महाबलैः।। 37।। >> लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण यथा शची।। 38।। >> एव.मुक्तो हनुमता भरतो भ्रातृवत्सलः। पपात सहसा हृष्टो हर्षा.न्मोहं जगाम ह।। 39।। >> ततो मुहूर्ता.दुत्थाय प्रत्याश्वस्य च राघवः। हनुमन्त.मुवाचेदं भरतः प्रियवादिनम्।। 40।। >> अशोकजैः प्रीतिमयैः कपि.मालिङ्ग्य सम्भ्रमात्। सिषेच भरत.श्श्रीमान् विपुलै.रश्रुबिन्दुभिः।। 41।। >> देवो वा मानुषो वा त्व.-मनुक्रोशा.दिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्।। 42।। >> गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डला.श्शुभाचारा भार्याः कन्याश्च षोडश।। 43।। >> हेमवर्णा.स्सुनासोरू.-श्शशिसौम्यानना.स्स्त्रियः। सर्वाभरणसम्पन्ना सम्पन्नाः कुलजातिभिः।। 44।। >> निशम्य रामागमनं नृपात्मजः- कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो राम.दिदृक्षयाभवत्- पुनश्च हर्षा.दिद. मब्रवी.द्वचः।। 45।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टाविंशत्युत्तर शततमस्सर्गः। • युद्धकाण्डेसर्गः129 हनूमद्भरतसम्भाषणम् बहूनि नाम वर्षाणि गतस्य सुमह.द्वनम्। शृणो.म्यहं प्रीतिकरं मम नाथस्य कीर्तनम्।। 1।। >> कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।  एति जीवन्त.मानन्दो नरं वर्षशता.दपि।। 2।।  राघवस्य हरीणां च कथ.मासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत् त्व.माख्याहि पृच्छतः।। 3।। >> स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे तत.स्सर्वं रामस्य चरितं वने।। 4।। >> यथा प्रव्राजितो रामो मातु.र्दत्तो वर.स्तव। यथा च पुत्रशोकेन राजा दशरथो मृतः।। 5।। >> यथा दूतै.स्त्व.मानीत-स्तूर्णं राजगृहात् प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्।। 6।। >> चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रित.स्त्वया भ्राता धर्म.माचरता सताम्।। 7।। >> स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुन.रागतः।। 8।। >> सर्व.मेत.न्महाबाहो यथाव.द्विदितं तव। त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे।। 9।। >> अपयाते त्वयि तदा समुद्भ्रान्त.मृगद्विजम्। परिद्यून.मिवात्यर्थं तद्वनं समपद्यत।। 10।। >> तद्धस्ति.मृदितं घोरं सिंह.व्याघ्रमृगायुतम्। प्रविवेशाथ विजनं सुमह.द्दण्डकावनम्।। 11। तेषां पुरस्ता.द्बलवान् गच्छतां गहने वने। विनदन् सुमहानादं विराधः प्रत्यदृश्यत।। 12।। >> तमुत्क्षिप्य महानाद-मूर्ध्वबाहु.मधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्त.मिव कुञ्जरम्।। 13।। >> तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्य.माश्रम.मीयतुः।। 14।। >> शरभङ्गे दिवं प्राप्ते राम.स्सत्यपराक्रमः। अभिवाद्य मुनीन् सर्वान् जनस्थान.मुपागमत्।। 15।। >> ततः पश्चा.च्छूर्पणखा रामपार्श्व.मुपागता। ततो रामेण सन्दिष्टो लक्ष्मण.स्सहसोत्थितः।। 16।। >> प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।। 17।। >> हतानि वसता तत्र राघवेण महात्मना। एकेन सह सङ्गम्य रणे रामेण सङ्गताः।। 18।। >> अह्न.श्चतुर्थभागेन निश्शेषा राक्षसाः कृताः। महाबला महावीर्या-स्तपसो विघ्नकारिणः।। 19।। >> निहता राघवेणाजौ दण्डकारण्यवासिनः। राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे।। 20।। >> तत.स्तेनार्दिता बाला रावणं समुपागता। रावणानुचरो घोरो मारीचो नाम राक्षसः।। 21।। >> लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः। अथैन.मब्रवी.द्रामं वैदेही गृह्यता.मिति।। 22।। >> अहो मनोहरः कान्त- आश्रमो नो भविष्यति। ततो रामो धनुष्पाणि-र्धावन्त.मनुधावति।। 23।। >> स तं जघान धावन्तं शरेणानत.पर्वणा। अथ सौम्य दशग्रीवो मृगं याते तु राघवे।। 24।। >> लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा। जग्राह तरसा सीतां ग्रहः खे रोहिणी.मिव।। 25।। >> त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्। प्रगृह्य सीतां सहसा जगामाशु स रावणः।। 26।। >> तत.स्त्वद्भुत.सङ्काशा.-स्स्थिताः पर्वतमूर्धनि। सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।। 27।। >> ददृशु.र्विस्मिता.स्तत्र रावणं राक्षसाधिपम्। प्रविवेश तदा लङ्कां रावणो लोकरावणः।। 28।। >> तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि। प्रवेश्य मैथिलीं वाक्यै.-स्सान्त्वयामास रावणः।। 29।। >> तृणव.द्भाषितं तस्य तं च नैरृतपुङ्गवम्। अचिन्तयन्ती वैदेही अशोकवनिकां गता।। 30।। >> निवर्तत ततो रामो मृगं हत्वा महावने। निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे।। 31।। >> गृध्रं हतं ततो दग्ध्वा रामः प्रियसखं पितुः। मार्गमाणस्तु वैदेहीं राघव.स्सहलक्ष्मणः।। 32।। >> गोदावरी.मन्वचर-द्वनोद्देशांश्च पुष्पितान्। आसेदतु.र्महारण्ये कबन्धं नाम राक्षसम्।। 33।। >> ततः कबन्धवचना-द्राम.स्सत्यपराक्रमः। ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः।। 34।। >> तयो.स्समागमः पूर्वं प्रीत्या हार्दो व्यजायत। भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा।। 35।। >> इतरेतर.सँवादात् प्रगाढः प्रणय.स्तयोः। रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत्।। 36।। >> वालिनं समरे हत्वा महाकायं महाबलम्। सुग्रीव.स्स्थापितो राज्ये सहित.स्सर्ववानरैः।। 37।। >> रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम्। आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।। 38।। >> दशकोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः। तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे।। 39।। >> भृशं शोकाभितप्तानां महान् कालोत्यवर्तत। भ्राता तु गृध्रराजस्य सम्पाति.र्नाम वीर्यवान्।। 40।। >> समाख्याति स्म वसतिं सीताया रावणालये। सोहं शोकपरीतानां दुःखं तज्ङातिनां नुदन्।। 41।। >> आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः। तत्राह.मेका.मद्राक्ष.- मशोकवनिकां गताम्।। 42।। >> कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्। तया समेत्य विधिवत् पृष्ट्वा सर्व.मनिन्दिताम्।। 43।। >> अभिज्ञानं च मे दत्त-मर्चिष्मान् स महामणिः। अभिज्ञानं मणिं लब्ध्वा चरितार्थोह.मागतः।। 44।। >> मया च पुन.रागम्य रामस्याक्लिष्टकर्मणः। अभिज्ञानं मया दत्त.-मर्चिष्मान् स महामणिः।। 45।। >> श्रुत्वा तां मैथिलीं हृष्ट-स्त्वाशशंसे च जीवितम्। जीवितान्त.मनुप्राप्तः पीत्वामृत.मिवातुरः।। 46।। >> उद्योजयिष्य.न्नुद्योगं दध्रे कामं वधे मनः। जिघांसु.रिव लोकान्ते- सर्वा.न्लोकान् विभावसुः 47।। >> तत.स्समुद्र.मासाद्य नलं सेतु.मकारयत्। अतरत् कपिवीराणां वाहिनी तेन सेतुना।। 48।। >> प्रहस्त.मवधी.न्नीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्।। 49।। >> स शक्रेण समागम्य यमेन वरुणेन च। महेश्वर.स्वयम्भूभ्यां तथा दशरथेन च।। 50।। >> तैश्च दत्त वर.श्श्रीमा-नृषिभिश्च समागतः। सुरर्षिभिश्च काकुत्स्थो वरा.न्लेभे परन्तपः।। 51।। >> स तु दत्तवरः प्रीत्या वानरैश्च समागतः। पुष्पकेण विमानेन किष्किन्धा.मभ्युपागमत्।। 52।। >> तं गङ्गां पुन.रासाद्य वसन्तं मुनिसन्निधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टु.मर्हसि।। 53।। >> ततस्तु सत्यं हनुमद्वचो मह-न्निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणीं मनसः प्रहर्षिणीं- चिरस्य पूर्णः खलु मे मनोरथः ।। 54।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन.त्रिंश.दुत्तरशततमः सर्गः। • युद्धकाण्डे सर्गः 130 भरतसमागमः श्रुत्वा तु परमानन्दं भरत.स्सत्यविक्रमः। हृष्ट.माज्ञापयामास शत्रुघ्नं परवीरहा।। 1।। >> दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यै.र्वादित्रै-रर्चन्तु शुचयो नराः।। 2।। >> सूता.स्स्तुतिपुराणज्ञा-स्सर्वे वैतालिका.स्तदा। सर्वे वादित्रकुशला गणिका.श्चापि सङ्घशः।। 3।। >> अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वच.श्श्रुत्वा शत्रुघ्नः परवीरहा।। 4।। >> विष्टी.रनेकसाहस्रा.-श्चोदयामास वीर्यवान्। समीकुरुत निम्नानि विषमाणि समानि च।। 5।। >> स्थलानि च निरस्यन्तां नन्दिग्रामा.दितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा।। 6।। >> ततोभ्यवकिरं.त्वन्ये लाजैः पुष्पैश्च सर्वशः। समुच्छ्रित.पताकास्तु रथ्याः पुरवरोत्तमे।। 7।। >> शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दामभि.र्मुक्तपुष्पै-स्सुगन्धैः पञ्चवर्णकैः।। 8।। >> राजमार्ग.मसम्बाधं किरन्तु शतशो नराः। राजदारा.स्तथामात्या.-स्सैन्या.स्सेनागणाङ्गणाः।। 9।। >> ब्राह्मणाश्च सराजन्या.-श्श्रेणीमुख्या.स्तथा गणाः। दृष्टि.र्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः।। 10।। >> अशोको मन्त्रपालाश्च सुमन्त्र.श्चापि निर्ययुः। मत्तै.र्नागसहस्रैश्च शातकुम्भ.विभूषितैः।। 11।। >> अपरे हेमकक्ष्याभि.-स्सगजाभिः करेणुभिः। निर्ययु.स्तुरगाक्रान्तौ रथैश्च सुमहारथाः।। 12।। >> शक्त्यृष्टि.प्रासहस्तानां सध्वजानां पताकिनाम्। तुरगाणां सहस्रैश्च मुख्यै.र्मुख्यनरान्वितैः।। 13।। >> पदातीनां सहस्रैश्च वीराः परिवृता ययुः। ततो याना.न्युपारूढा.स्सर्वा दशरथस्त्रियः।। 14।। >> कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः। कैकेय्या सहिता.स्सर्वा नन्दिग्राम.मुपागमन्।। 15।। >> कृत्स्नं च नगरं तत्तु नन्दिग्राम.मुपागमत्। अश्वानां खुरशब्देन रथनेमि.स्वनेन च।। 16।। >> शङ्खदुन्दुभि.नादेन सञ्चचालेव मेदिनी। द्विजातिमुख्यै.र्धर्मात्मा श्रेणीमुख्यै.स्सनैगमैः।। 17।। >> माल्य.मोदकहस्तैश्च मन्त्रिभि.र्भरतो वृतः। शङ्खभेरी.निनादैश्च वन्दिभि.श्चाभिवन्दितः।। 18।। >> आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः। पाण्डुरं छत्र.मादाय शुक्लमाल्योपशोभितम्।। 19।। >> शुक्ले च वालव्यजने राजार्हे हेमभूषिते। उपवासकृशो दीन.-श्चीरकृष्णाजिनाम्बरः।। 20।। >> भ्रातु.रागमनं श्रुत्वा तत्पूर्वं हर्ष.मागतः। प्रत्युद्ययौ तदा रामं महात्मा सचिवै.स्सह।। 21।। >> समीक्ष्य भरतो वाक्य-मुवाच पवनात्मजम्। कच्चिन्न खलु कापेयी सेव्यते चलचित्तता।। 22।। >> न हि पश्यामि काकुत्स्थं राम.मार्यं परन्तपम्। कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः।। 23।। >> अथैव.मुक्ते वचने हनूमा.निद.मब्रवीत्। अर्थं विज्ञापय.न्नेव भरतं सत्यविक्रमम्।। 24।। >> सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्। भरद्वाज.प्रसादेन मत्तभ्रमर.नादितान्।। 25।। >> तस्य चैष वरो दत्तो वासवेन परन्तप। ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्।। 26।। >> निस्वन.श्श्रूयते भीमः प्रहृष्टानां वनौकसाम्। मन्ये वानरसेना सा नदीं तरति गोमतीम्।। 27।। >> रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति। मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः।। 28।। >> तदेत.द्दृश्यते दूरा-द्विमलं चन्द्रसन्निभम्। विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्।। 29।। >> रावणं बान्धवै.स्सार्धं हत्वा लब्धं महात्मना। तरुणादित्य.सङ्काशं विमानं राम.वाहनम्।। 30।। >> धनदस्य प्रसादेन दिव्य.मेत.न्मनोजवम्। एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ।। 31।। >> सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः। ततो हर्षसमुद्भूतो निस्वनो दिव.मस्पृशत्।। 32।। >> स्त्रीबालयुव.वृद्धानां रामोय.मिति कीर्तितः। रथकुञ्जर.वाजिभ्य-स्तेवतीर्य महीं गताः।। 33।। >> ददृशु.स्तं विमानस्थं नरा.स्सोम.मिवाम्बरे। प्राञ्जलि.र्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः।। 34।। >> स्वागतेन यथार्थेन ततो राम.मपूजयत्। मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः।। 35।। >> रराज पृथुदीर्घाक्षो वज्रपाणि.रिवापरः। ततो विमानाग्रगतं भरतो भ्रातरं तदा।। 36।। >> ववन्दे प्रणतो रामं मेरुस्थ.मिव भास्करम्। ततो रामाभ्यनुज्ञातं तद्विमान. मनुत्तमम्।। 37।। >> हंसयुक्तं महावेगं निष्पपात महीतले। आरोपितो विमानं तद्-भरत.स्सत्यविक्रमः।। 38।। >> राम.मासाद्य मुदितः पुन.रेवाभ्यवादयत्। तं समुत्थाप्य काकुस्थ.-श्चिरस्याक्षिपथं गतम्।। 39।। >> अङ्के भरत.मारोप्य मुदितः परिषष्वजे। ततो लक्ष्मण.मासाद्य वैदेहीं च परन्तपः।। 40।। >> अथाभ्यवादय.त्प्रीतो भरतो नाम चाब्रवीत्। सुग्रीवं कैकयीपुत्रो जाम्बवन्तं तथाङ्गदम्।। 41।। >> मैन्दं च द्विविदं नील.-मृषभं परिषस्वजे। सुषेणं च नलं चैव गवाक्षं गन्धमादनम्।। 42।। >> शरभं पनसं चैव भरतः परिषस्वजे। ते कृत्वा मानुषं रूपं वानराः कामरूपिणः।। 43।। >> कुशलं पर्यपृच्छं.स्ते प्रहृष्टा भरतं तदा। अथाब्रवी.द्राजपुत्र-स्सुग्रीवं वानरर्षभम्।। 44।। >> परिष्वज्व महातेजा भरतो धर्मिणां वरः। त्व.मस्माकं चतुर्णां तु भ्राता सुग्रीवपञ्चमः।। 45।। >> सौहृदा.ज्जायते मित्र-मपकारोरिलक्षणम्।  विभीषणं च भरत.-स्सान्त्ववाक्य.मथाब्रवीत्।। 46।। >> दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्। शत्रुघ्नश्च तदा राम.-मभिवाद्य सलक्ष्मणम्।। 47।। >> सीताया.श्चरणौ पश्चा-द्ववन्दे विनयान्वितः। रामो मातर.मासाद्य विषण्णां शोककर्शिताम्।। 48।। >> जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्। अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्।। 49।। >> स मातॄश्च तदा सर्वाः पुरोहित.मुपागमत्। स्वागतं ते महाबाहो कौसल्यानन्दवर्धन।। 50।। >> इति प्राञ्जलय.स्सर्वे नागरा राम.मब्रुवन्। तान्यञ्जलि.सहस्राणि प्रगृहीतानि नागरैः।। 51।। >> व्याकोचानीव पद्मानि ददर्श भरताग्रजः। पादुके ते तु रामस्य गृहीत्वा भरत.स्स्वयम्।। 52।। >> चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्। अब्रवीच्च तदा रामं भरत.स्स कृताञ्जलिः।। 53।। >> एत.त्ते सकलं राज्यं न्यासं निर्यातितं मया। अद्य जन्म कृतार्थं मे सँवृत्तश्च मनोरथः।। 54।। >> य.स्त्वां पश्यामि राजान-मयोध्यां पुन.रागतम्। अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम्।। 55।। >> भवत.स्तेजसा सर्वं कृतं दशगुणं मया। तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्।। 56।। >> मुमुचु.र्वानरा बाष्पं राक्षस.श्च विभीषणः। ततः प्रहर्षा.द्भरत-मङ्क.मारोप्य राघवः।। 57।। >> ययौ तेन विमानेन ससैन्यो भरताश्रमम्। भरताश्रम.मासाद्य ससैन्यो राघव.स्तदा।। 58।। >> अवतीर्य विमानाग्रा-दवतस्थे महीतले। अब्रवीच्च तदा राम-स्तद्विमान.मनुत्तमम्।। 59।। >> वह वैश्रवणं देव.-मनुजानामि गम्यताम्। ततो रामाभ्यनुज्ञातं तद्विमान.मनुत्तमम्। उत्तरां दिश.मागम्य जगाम धनदालयम्।। 60।। >> पुरोहितस्यात्मसमस्य राघवो- बृहस्पते.श्शक्र इवामराधिपः। निपीड्य पादौ पृथ.गासने शुभे- सहैव तेनोपविवेश राघवः।। 61।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिंशदुत्तर.शततमस्सर्गः। • युद्धकाण्डे सर्गः 131 श्रीरामपट्टाभिषेकः। शिरस्यञ्जलि.मादाय कैकेय्यानन्द.वर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्।। 1।। >> पूजिता मामिका माता दत्तं राज्य.मिदं मम। त.द्ददामि पुन.स्तुभ्यं यथा त्व.मददा मम।। 2।। >> धुर.मेकाकिना न्यस्ता.-मृषभेण बलीयसा। किशोरव.द्गुरुं भारं न वोढु.मह. मुत्सहे।। 3।। >> वारिवेगेन महता भिन्न.स्सेतु.रिव क्षरन्। दुर्बन्धन.मिदं मन्ये राज्यच्छिद्र.मसँवृतम्।। 4।। >> गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतु.मुत्सहे देव तव मार्ग.मरिन्दम।। 5।। >> यथा चारोपितो वृक्षो जात.श्चान्त.र्निवेशने। महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान्।। 6।। >> शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवे.दर्थं यस्य हेतो.स्स रोप्यते।। 7।। >> एषोपमा महाबाहो त्वदर्थं वेत्तु.मर्हसि। यद्यस्मान् मनुजेन्द्र त्वं भक्तान् भृत्या.न्न शाधि हि।। 8।। >> जग.दद्याभिषिक्तं त्वा.मनुपश्यतु सर्वतः। प्रतपन्त.मिवादित्यं मध्याह्ने दीप्ततेजसम्।। 9।। >> तूर्यसङ्घात.निर्घोषैः काञ्चीनूपुर.निस्वनैः। मधुरै.र्गीतशब्दैश्च प्रतिबुध्यस्व राघव।। 10।। >> याव.दावर्तते चक्रं यावती च वसुन्धरा। तावत् त्व.मिह सर्वस्य स्वामित्व.मभिवर्तय।। 11।। >> भरतस्य वच.श्श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे।। 12।। >> तत.श्शत्रुघ्नवचना-न्निपुणा.श्श्मश्रुवर्धकाः। सुखहस्ता.स्सुशीघ्राश्च राघवं पर्युपासत।। 13।। >> पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे।। 14।। >> विशोधितजट.स्स्नात-श्चित्रमाल्यानुलेपनः। महार्ह.वसनोपेत-स्तस्थौ तत्र श्रिया ज्वलन्।। 15।। >> प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवा-निक्ष्वाकुकुल.वर्धनः।। 16।। >> प्रतिकर्म च सीताया.-स्सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्- मनस्विन्यो मनोहरम्।। 17।। >> ततो वानरपत्नीनां सर्वासा.मेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालासा।। 18।। >> तत.श्शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्।। 19। अर्कमण्डल.सङ्काशं दिव्यं दृष्ट्वा रथोत्तमम्। आरुरोह महाबाहू-राम.स्सत्यपराक्रमः।। 20।। >> सुग्रीवो हनुमां.श्चैव महेन्द्रसदृश.द्युती। स्नातौ दिव्यनिभै.र्वस्त्रै.-र्जग्मतु.श्शुभकुण्डलौ।। 21।। >> वराभरण.सम्पन्ना ययु.स्ता.श्शुभकुण्डलाः। सुग्रीवपत्नय.स्सीता च द्रष्टुं नागर.मुत्सुकाः।। 22।। >> अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये। पुरोहितं पुरस्कृत्य मन्त्रयामासु.रर्थवत्।। 23।। >> अशोको विजयश्चैव सुमन्त्रश्च समागताः। मन्त्रयन् रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च।। 24।। >> सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तु.मर्हथ रामस्य यद्यन्मङ्गल.पूर्वकम्।। 25।। >> इति ते मन्त्रिण.स्सर्वे सन्दिश्य तु पुरोहितम्। नगरा.न्निर्ययु.स्तूर्णं रामदर्शन.बुद्धयः।। 26।। >> हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथ.मास्थाय रामो नगर.मुत्तमम्।। 27।। >> जग्राह भरतो रश्मी-न्छत्रुघ्न.श्छत्र.माददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत्  28।। >> श्वेतं च वालव्यजनं जग्राह पुरत.स्स्थितः। अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः।। 29।। >> ऋषिसङ्घै.स्तदाकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः।। 30।। >> तत.श्शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजा.-स्सुग्रीवः प्लवगर्षभः।। 31।। >> नवनागसहस्राणि ययु.रास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः।। 32।। >> शङ्खशब्द.प्रणादैश्च दुन्दुभीनां च निस्वनैः। प्रययू. पुरुषव्याघ्रा-स्तां पुरीं हर्म्यमालिनीम्।। 33।। >> ददृशुस्ते समायान्तं राघवं सपुरस्सरम्। विराजमानं वपुषा रथेनातिरथं तदा।। 34।। >> ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मु.र्महात्मानं भ्रातृभिः परिवारितम्।। 35।। >> अमात्यै.र्ब्राह्मणै.श्चैव तथा प्रकृतिभि.र्वृतः। श्रिया विरुरुचे रामो नक्षत्रै.रिव चन्द्रमाः।। 36।। >> स पुरोगामिभि.स्तूर्यै-स्तालस्वस्तिक.पाणिभिः। प्रव्याहरद्भि.र्मुदितैर्-मङ्गलानि वृतो ययुः।। 37।। >> अक्षतं जातरूपं च- गावः कन्या.स्तथा द्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः।। 38।। >> सख्यं च राम.स्सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म राक्षसानां च तद्बलम्।। 39।। >> विभीषणस्य सँयोग.-माचचक्षे च मन्त्रिणा0। श्रुत्वा तु विस्मयं जग्मु-रयोध्यापुरवासिनः।। 40।। >> द्युतिमा.नेत.दाख्याय रामो वानरसँवृतः। हृष्टपुष्ट.जनाकीर्णा.-मयोध्यां प्रविवेश ह।। 41।। >> ततो ह्यभ्युच्छ्रयन् पौराः पताका.स्ते गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्य.-माससाद पितु.र्गृहम्।। 42।। >> अथाब्रवी.द्राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः।। 43।। >> पितु.र्भवन.मासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्।। 44।। >> यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्य.सङ्कीर्णं सुग्रीवस्य निवेदय।। 45।। >> तस्य तद्वचनं श्रुत्वा भरत.स्सत्यविक्रमः। पाणौ गृहीत्वा सुग्रीवं प्रविवेश त.मालयम्।। 46।। >> तत.स्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः।। 47।। >> उवाच च महातेजा.-स्सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूता.नाज्ञापय प्रभो।। 48।। >> सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीव.-स्सर्वरत्न.विभूषितान्।। 49।। >> यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णै.र्घटैः प्रतीक्षध्वं तथा कुरुत वानराः।। 50।। >> एव.मुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतु.र्गगनं शीघ्रं गरुडा इव शीघ्रगाः।। 51।। >> जाम्बवांश्च सुषेणश्च वेगदर्शी च वानराः। ऋषभश्चैव कलशान् जलपूर्णा.नथानयन्।। 52।। >> नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्ण.मथानयत्।। 53।। >> सुषेण.स्सत्त्वसम्पन्न.-स्सर्वरत्न.विभूषितम्। ऋषभो दक्षिणात् तूर्णं समुद्रा.ज्जल.माहरत्।। 54।। >> रक्तचन्दन.कर्पूरै.-स्सँवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोय.-माजहार महार्णवात्।। 55। रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः।। 56।। >> आजहार स धर्मात्मा नल.स्सर्वगुणान्वितः। तत.स्तै.र्वानरश्रेष्ठै-रानीतं प्रेक्ष्य तज्जलम्।। 57।। >> अभिषेकाय रामस्य शत्रुघ्न.स्सचिवै.स्सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्।। 58।। >> तत.स्स प्रयतो वृद्धो वसिष्ठो ब्राह्मणै.स्सह। रामं रत्नमये पीठे सहसीतं न्यवेशयत्।। 59।। >> वसिष्ठो वामदेवश्च जाबालि.रथ काश्यपः। कात्यायन.स्सुयज्ञश्च गौतमो विजय.स्तथा।। 60।। >> अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा।। 61।। >> ऋत्विग्भि.र्ब्राह्मणैः पूर्वं कन्याभि.र्मन्त्रिभि.स्तथा। योधै.श्चैवाभ्यषिञ्चं.स्ते सम्प्रहृष्टा.स्सनैगमैः 62।। >> सर्वौषधिरसै.श्चापि दैवतै.र्नभसि स्थितैः। चतुर्भि.र्लोकपालैश्च सर्वै.र्देवैश्च सङ्गतैः।। 63।। >> किरीटेन ततः पश्चा-द्वशिष्ठेन महात्मना। ऋत्विग्भि.र्भूषणै.श्चैव समयोक्ष्यत राघवः।। 64।। >> छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः।। 65।। >> अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्।। 66।। >> राघवाय ददौ वायुर्- वासवेन प्रचोदितः। सर्वरत्न.समायुक्तं मणिरत्न.विभूषितम्।। 67।। >> मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगु.र्देवगन्धर्वा ननृतुश्चाप्सरोगणाः।। 68।। >> अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमि.स्सस्यवती चैव फलवन्तश्च पादपाः।। 69।। >> गन्धवन्ति च पुष्पाणि बभूवू. राघवोत्सवे। सहस्रशत. मश्वानां धेनूनां च गवां तथा।। 70।। >> ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटी.र्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः।। 71।। >> नानाभरण.वस्त्राणि महार्हाणि च राघवः। अर्करश्मि.प्रतीकाशां काञ्चनीं मणिविग्रहाम्।। 72।। >> सुग्रीवाय स्रजं दिव्यां प्रायच्छ.न्मनुजर्षभः। वैदूर्य.मणिचित्रे च वज्ररत्न.विभूषिते।। 73।। >> वालिपुत्राय धृतिमा-नङ्गदायाङ्गदे ददौ। मणिप्रवर.जुष्टं च मुक्ताहार.मनुत्तमम्।। 74।। >> सीतायै प्रददौ राम-श्चन्द्ररश्मि.समप्रभम्। अरजे वाससी दिव्ये शुभा.न्याभरणानि च।। 75।। >> अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठा.-द्धारं जनकनन्दिनी ।। 76।। >> अवैक्षत हरीन् सर्वान् भर्तारं च मुहु.र्मुहुः। ता.मिङ्गितज्ञ.स्सम्प्रेक्ष्य बभाषे जनकात्मजाम्।। 77।। >> प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। पौरुषं विक्रमो बुद्धिर्-यस्मि.न्नेतानि सर्वशः।। 78।। >> ददौ सा वायुपुत्राय तं हार.मसितेक्षणा। हनूमां.स्तेन हारेण शुशुभे वानरर्षभः।। 79।। >> चन्द्रांशुचय.गौरेण श्वेताभ्रेण यथाचलः। ततो द्विविद.मैन्दाभ्यां नीलाय च परन्तपः।। 80।। >> सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः। सर्वे वानरवृद्धाश्च ये चान्ये वानरेश्वराः।। 81।। >> वासोभि.र्भूषणैश्चैव यथार्हं प्रतिपूजिताः। विभीषणोथ सुग्रीवो हनुमान् जाम्बवां.स्तथा।। 82।। >> सर्वे वानरमुख्याश्च रामेणाक्लिष्ट कर्मणा। यथार्हं पूजिता.स्सर्वे कामै. रत्नैश्च पुष्कलैः।। 83।। >> प्रहृष्टमनस.स्सर्वे जग्मु.रेव यथागतम्। नत्वा सर्वे महात्मानं तत.स्ते प्लवगर्षभाः।। 84।। >> विसृष्टाः पार्थिवेन्द्रेण किष्किन्धा.मप्युपागमन्। सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्।। 85।। >> पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्। विभीषणोपि धर्मात्मा सह तै.र्नैऋतर्षभैः।। 86।। >> लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः। स राज्य.मखिलं शास-न्निहतारि.र्महायशाः।। 87।। >> राघवः परमोदारो शशास परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः।। 88।। >> आतिष्ठ धर्मज्ञ मया सहेमां- गां पूर्व. राजाध्युषितां बलेन। तुल्यं मया त्वं पितृभि.र्धृता या- तां यौवराज्ये धुर.मुद्वहस्व।। 89।। >> सर्वात्मना पर्यनुनीयमानो- यदा न सौमित्रि.रुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये- ततोभ्यषिञ्च. द्भरतं महात्मा।। 90।। >> पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधै.र्यज्ञै-रयजत् पार्थिवात्मजः।। 91।। >> राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधा.नाजह्रे सदश्वान् भूरिदक्षिणान्।। 92।। >> आजानु.लम्बबाहुश्च महास्कन्धः प्रतापवान्। लक्ष्मणानुचरो रामः पृथिवी.मन्वपालयत्।। 93।। >> राघवश्चापि धर्मात्मा प्राप्य राज्य.मनुत्तमम्। ईजे बहुविधै.र्यज्ञै.-स्ससुहृद्.भ्रातृ.बान्धवः।। 94।। >> न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं वापि रामे राज्यं प्रशासति।। 95।। >> निर्दस्यु.रभव.ल्लोको नानर्थं कञ्चि.दस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते।। 96।। >> सर्वं मुदित.मेवासीत्- सर्वो धर्मपरोभवत्। राम.मेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्।। 97।। >> आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति।। 98।। >> रामो रामो राम इति प्रजाना.मभवन् कथाः। रामभूतं जग.दभू-द्रामे राज्यं प्रशासति।। 99।। >> नित्यपुष्पा नित्यफला-स्तरव.स्स्कन्धविस्तृताः। काले वर्षी च पर्जन्य.-स्सुखस्पर्शश्च मारुतः।। 1ं0। ब्राह्मणाः क्षत्रिया वैश्या-श्शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टा.स्स्वै रेव कर्मभिः।। 101।। >> आसन् प्रजा धर्मरता- रामे शासति नानृताः। सर्वे लक्षणसम्पन्ना.-स्सर्वे धर्मपरायणाः।। 102।। >> दश वर्षसहस्राणि दश वर्षशतानि च। भ्रातृभि.स्सहित.श्श्रीमान् रामो राज्य.मकारयत्।। 103।। >> फलश्रुतिः। धन्यं यशस्य.मायुष्यं राज्ञां च विजयावहम्। आदिकाव्य.मिदं त्वार्षं पुरा वाल्मीकिना कृतम्।। 104।। >> यः पठे.च्छृणुया.ल्लोके नरः पापा.द्विमुच्यते। पुत्र.कामस्तु पुत्रा.न्वै धनकामो धना.नपि।। 105।। >> लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूं.श्चाप्यधितिष्ठति।। 106।। >> राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रा.स्तथा स्त्रियः।। 107।। >> भविष्यन्ति सदानन्दाः पुत्रपौत्र.समन्विताः। श्रुत्वा रामायण.मिदं दीर्घ.मायुश्च विन्दति।। 108।। >> रामस्य विजयं चैव सर्व.मक्लिष्टकर्मणः। शृणोति य इदं काव्य.मार्षं वाल्मीकिना कृतम्।। 109।। >> श्रद्दधानो जितक्रोधो दुर्गा.ण्यतितर.त्यसौ। समागमं प्रवासान्ते लभते चापि बान्धवैः।। 110। प्रार्थितांश्च वरान् सर्वान् प्राप्नुया.दिह राघवात्। श्रवणेन सुरा.स्सर्वे प्रीयन्ते सम्प्रशृण्वताम्।। 111।। >> विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै। विजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत्।। 112।। >> स्त्रियो रजस्वला.श्श्रुत्वा पुत्रान् सूयु.रनुत्तमान्। पूजयंश्च पठं.श्चेम.-मितिहासं पुरातनम्।। 113।। >> सर्वपापैः प्रमुच्येत दीर्घ.मायु.रवाप्नुयात्। प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियै.र्द्विजात्।। 114।। >> ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः। रामायण.मिदं कृत्स्नं शृण्वतः पठत.स्सदा। प्रीयते सततं राम-स्स हि विष्णु.स्सनातनः।। 115।। >> आदिदेवो महाबाहुर्- हरि.र्नारायणः प्रभुः। साक्षा.द्रामो रघुश्रेष्ठ-श्शेषो लक्ष्मण उच्यते।। 116।। >> कुटुम्बवृद्धिं धनधान्यवृद्धिं- स्त्रियश्च मुख्या.स्सुख. मुत्तमं च। श्रुत्वा शुभं काव्य.मिदं महार्थं- प्राप्नोति सर्वां भुवि चार्थसिद्धिम्।। 117।। >> आयुष्य.मारोग्यकरं यशस्यं- सौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्य.मेत.न्नियमेन सद्भि- राख्यान.मोजस्कर. मृद्धिकामैः।। 11 8।। >> एव.मेतत् पुरावृत्त- माख्यानं भद्र.मस्तु वः। प्रव्याहरत विस्रब्धं- बलं विष्णोः प्रवर्धताम्।। 119।। >> देवाश्च सर्वे तुष्यन्ति ग्रहणा.च्छ्रवणात् तथा। रामायणस्य श्रवणात् तुष्यन्ति पितर.स्तथा।। 120।। >> भक्त्या रामस्य ये चेमां संहिता.मृषिणा कृताम्। लेखयन्तीह च नरा-स्तेषां वास.स्त्रिविष्टपे।। 121।। >> श्रीमद्रामायणे युद्धकाण्डे एकत्रिंश.दुत्तर शततमस्सर्गः। • पारायण समापने अनुसन्धेयश्लोकाः। स्वस्ति प्रजाभ्यः परिपालयन्तां- न्याय्येन मार्गेण महीं महीशाः।गो ब्राह्मणेभ्य.श्शुभमस्तु नित्यं- लोका.स्समस्ता.स्सुखिनो भवन्तु।। 1।। >> काले वर्ष तु पर्जन्यः पृथिवी सस्यशालिनी। देशोयं क्षोभरहितो ब्राह्मणा.स्सन्तु निर्भयाः।। 2।। >> अपुत्राः पुत्रिण.स्सन्तु पुत्रिण.स्सन्तु पौत्रिणः। अधना.स्सधना.स्सन्तु जीवन्तु शरदां शतम्।। 3।। >> चरितं रघुनाथस्य शतकोटि.प्रविस्तरम्। एकैक.मक्षरं प्रोक्तं महापातक नाशनम्।। 4।। >> शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा। स याति ब्रह्मणस्स्थानं ब्रह्मणा पूज्यते सदा।। 5।। >> रामाय रामभद्राय रामचन्द्राय वेधसे। रघुनाथाय नाथाय सीतायाः पतये नमः।। 6।। >> मङ्गलं कोसलेन्द्राय महनीय.गुणाब्धये। चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलं 7।। >> यन्मङ्गलं सहस्राक्षे सर्वदेव नमस्कृते। वृत्रनाशे समभवत्- तत्ते भवतु मङ्गलं 8।। >> यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा। अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलं 9।। >> अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्। अदिति.र्मङ्गलं प्रादात् तत्ते भवतु मङ्गलम्।। 10।। >> त्रीन् विक्रमान् प्रक्रमतो विष्णो.रमित तेजसः। यदासी.न्मङ्गलं राम तत्ते भवतु मङ्गलम्।। 11।। >> ऋतव.स्सागरा द्वीपा वेदा लोका दिशश्च ते। मङ्गलानि महाबाहो दिशन्तु तव सर्वदा।। 12।। >> कायेन वाचा मनसेन्द्रियैर्वा- बुद्ध्यात्मना वा प्रकृते.स्स्वभावात्। करोमि यद्यत् सकलं परस्मै- श्रीराघवा येति समर्पयामि।। 13।। >> यदक्षर पदभ्रष्टं मात्राहीनं च यद्भवेत्। तत्सर्वं क्षम्यतां देव नारायण नमोस्तुते।। 14।। >> आत्मा त्वां क्षितिजा मतिः परिजनाः प्राणा.श्शरीरं गृहं- पूजा ते विषयोपभोग.रचना निद्रा समाधि.स्थितिः। सञ्चारः पदयोः प्रदक्षिण विधि-.स्स्तोत्राणि सर्वा गिरो- यद्यत्कर्म करोमि तत्तदखिलं रामास्तु ते पूजनम्।।15।। >> अनेनश्री रामायण पारायणेन भगवान् सर्वदेवतात्मकः सीता.लक्ष्मण. भरत. शत्रुघ्न. हनुम.त्समेत श्रीरामचन्द्रः सुप्रीतः सुप्रसन्नो वरदो भवतु।। ==00==