109

                        
                        
।। समासकुसुमावलिः।।  प्रार्थनम् 1. भूनायकं वा धननायकं वा भजन् भुवं वा धनमेति लोके। तद्विघ्ननाथं न भजामि किन्तु सहस्रशस्तं प्रणमामि नित्यम्।। 1।।  अवतारिका 2. श्रीमत्पाणिनिसूत्राणि समालोच्य यथामति। बालव्युत्पत्तये कुर्म-स्समासकुसुमावलिम्।। 2।। 1. तत्पुरुषः 3. तत्पुरुषोष्टविधोभूत् प्रथमादिनञ्कृतैर्भेदैः। उत्तरपदजनितार्थो मुख्यस्तत्रेति पण्डितैःख्यातः।। 3।।  प्रथमातत्पुरुषसमासः 4. अमृतं योपिबद्दैत्य-स्तं वैकुण्ठो द्विधाच्छिनत्। राहुरुत्तरकायोस्य पूर्वकायोभवद् ध्वजः।। 4।।  द्वितीयातत्पुरुषसमासः 5. दुःखातीतो भवत्येव यदि कृष्णश्रितो जनः। अथवान्नबुभुक्षु.स्सन् मुहूर्तसुख.मश्नुते।। 5।।  तृतीयातत्पुरुषसमासः 6. मासावरस्त्वं खलु मासपूर्व-स्त्वहं तु विद्या निपुणो नितान्तम्। इतीव संसद्यपि बाडबानाम् परस्परं वाक्कलहो बभूव।। 6।।  चतुर्थीतत्पुरुषसमासः 7. गृही भूतबलिं दत्ते गोसुखं तु कृषीवलः। दत्ते यष्टा यूपदारु कुण्डलाष्टापदम् बुधः।। 7।।  पञ्चमीतत्पुरुषसमासः 8. पूर्वं चोरभयं प्राप्य व्याघ्रभीतस्ततः परम्। सुखापेतो जन.स्सम्य-गरण्ये निवसे.त्कथम्।। 8।।  षष्ठीतत्पुरुषसमासः 9. अधिकं राजपुरुष-स्सेव्य.स्सर्वमहान् यतः। वृक्षामूल.मुपाश्रित्य जपतो देवपूजकात्।। 9।।  सप्तमीतत्पुरुषसमासः 10. प्राश्यान्न.मीश्वराधीनं स्थालीपक्वं तु मानवः। वर्त्मन्यातपशुष्क.स्सन् दानशौण्डः कथं भवेत्।। 10।।  नञ्तत्पुरुषसमासः 11. अज्ञानात् पाप.माप्नोति पापा.दब्राह्मणो भवेत्। तस्मा.दिच्छन्ति तत्त्यक्तु-मभवायैव पण्डिताः।। 11।। 2. अथ कर्मधारयसमासनिरुपणम् 12. कविभि.स्सप्तविधस्स्या.दित्येवं कर्मधारयः कथितः। तत्पुरुषान्तर्भावात् तद्वत्प्राधान्य.मीरितं चास्य।। 12।। 13. विशेषणम्, पूर्वपदे विशेष्यं, तथोभयत्रापि विशेषणं च। यस्योपमानम् परत.स्तदादौ सम्भावना चाप्यवधारणा च।। 13।।  विशेषणपूर्वपदकर्मधारयसमासः 14. नीलोत्पलोनि नारीणां नयनानीव रेजिरे। कम्पिता.न्यल्पवातेन सत्सरस्सु स्थिता.न्यहो।। 14।।  विशेषणोत्तरपदकर्मधारयसमासः 15. उद्वीक्ष्य यस्य मातङ्गान् घना इति मनीषया।। मयूरव्यंसका हृष्टा ननृतु.स्तं नृपम् भजे।। 15।।  विशेषणोभयपदकर्मधारयसमासः 16. पुंसां स्नातानुलिप्ताना-मन्नम् भोज्योष्णमेव हि। पथ्यमित्यब्रवी.द्वैद्य-श्शास्त्रे निश्चप्रचं वचः।। 16।।  उपमानोत्तरपदकर्मधारयसमासः 17. रामोयम् पुरुषव्याघ्रः संवृतः कपिकुञ्जरैः। हनिष्यति बला.द्युद्धे रावणं राक्षसर्षभम्।। 17।।  उपमानपूर्वपदकर्मधारयसमासः 18. कौमुदीविशदा भाति या वाणी रतिसुन्दरी। लतातन्वी सदा दद्या-त्सा द्राक्षामधुरां गिरम्।। 18।।  सम्भावनापूर्वपदपर्मधारयसमासः 19. तमालवृक्षैः परित-स्संवृतो विन्ध्यपर्वतः। बम्भरै.स्सकलै.र्दृष्टो दूरा.द्गजमनीषया।। 19।।  अवधारणपूर्वपदकर्मधारयसमासः 20. मनीषासलिलै.र्युक्ति-रत्नै.र्वाक्कल्पनोर्मिभः। यशस्सरिद्भि.स्सम्पन्नो भात्ययं कविसागरः।। 20।। 3. अथ द्विगुसमासनिरुपणम् 21. स चैकव.द्भाव्यनेक-वद्भावीति द्विधा द्विगुः। कर्मधारय एवास्याप्यन्तर्भावो बुधै.र्मतः।। 21।।  एकवद्भावीद्विगुः 22. पञ्चवट्या समं क्षेत्रं त्रिलोक्यां नहि विद्यते। तत्र पञ्चगवं दत्त्वा जनश्श्रेष्ठपदं व्रजेत्।। 22।।  अनेकवद्भावीद्वगुः 23. युद्धेषु विबुधा.स्सर्वे बाडबाश्चाध्वरेष्वपि। गायन्ति यं कार्यसिद्ध्यै भजे षाण्मातुरम् मुदा।। 23।। 4. अथ बहुव्रीहिसमासनिरुपणम् 24. सप्तभि.राख्याभिर्वा विख्यातो यस्स वै बहुव्रीहिः। अन्यपदार्थो मुख्यः कथितो विबुधै.र्बहुव्रीहौ।। 24।। 25. द्वाभ्याम् पदाभ्याम् बहुभिः पदैर्वा संख्योभयो.स्सा पदयोः पदाग्रे। यस्या भवे.त्पूर्वपदे सहश्च दिगन्तराळ.व्यतिहारलक्ष्मा।। 25।।  द्विपदबहुव्रीहिसमासः 26. प्राप्ताग्निमेव.मिषुमूढरथा.नथाश्वां-स्तूणीर.मुद्धृतशरं च वहन् जवेन। रुद्रोपि वीरपुरुष.स्स पुरो बिभेद देवैश्च दत्तपशुरेव महाबल.स्सन्।। 26।।  बहुपदबहुव्रीहिसमासः 27. नीलोज्ज्वलवपुः पातु श्रीमत्पीताम्बरो हरिः। यस्य प्रसादा.त्कुब्जाभू-द्दिव्यसुन्दरविग्रहा।। 27।।  सङ्खोभयपदबहुव्रीहिसमासः 28. काननेस्मिन्नहो राजन् द्वित्रै.रायासिता जनैः। लभ्यन्ते पञ्चषा नागा इत्यूचु.र्बलिनः प्रभुम्।। 28।।  सङ्खोत्तरपदबहुव्रीहिसमासः 29. ब्रह्माणः कति वा रुद्रा वदन्त.मिति सङ्ख्यया। कुशल.स्त्वेकया युक्त्या वदे.दुपदशा इति।। 29।।  सहपूर्वपदबहुव्रीहिसमासः 30. सकला.स्सहसन्ताना-स्सकला अपि बाडबाः। प्रोचु.स्स्वस्ति महीपाय सहपुत्राय सन्ततम्।। 30।। 31. विद्यु.दुत्तरपूर्वाया-ममोहो मारुतोथ वा। यदि दक्षिणपूर्वायां वृष्टि.र्नैव भवे.त्तदा।। 31।।  व्यतिहारलक्षणबहुव्रीहिसमासः 32. बाहूबाहवि केषाञ्चि-न्मुष्टीमुष्ट्यद्भुतं तथा। केशाकेश्यभव.द्युद्धं वानराणां च रक्षसाम्।। 32।। 5. अथ अव्ययीभावसमासनिरुपणम् 33. यस्याभव.त्पूर्वपदेव्ययस्य नाम्नो विधाना.द्द्विविधं च लक्ष्म। पूर्वः पदार्थोपि च यत्र मुख्य-स्त.मव्ययीभाव.मुदाहरामः।। 33।।  अव्ययपूर्वपदाव्ययीभावसमासः 34. भो राजन् प्रत्यहम् भूया-द्यथाशक्त्यधिबाडबम्। भक्ति.स्तयास्तु सम्भद्रं निष्पाप.मुपलोचनम्।। 34।।  नामपूर्वपदाव्ययीभावसमासः 35. स्वस्यापि भोजने यस्य सूपप्रति न युज्यते। शाकप्रति वान्येभ्यः कथं दास्यति स प्रभुः।। 35।। 6. अथ द्वन्द्वसमासनिरुपणम् 36. अस्मिन् समासे प्राधान्य.मुभयो.स्स्यात् पदार्थयोः। स हि द्वन्द्व.श्चतुर्धा स्या-द्बुधै.रिति विनिश्चितः।। 36।। 37. इतरेतरयोगाख्य.स्समाहाराह्वय.स्तथा। द्वाभ्यां पदाभ्यां बहुभि-रुभौ चेति चतुर्विधः।। 37।।  द्विपदेतरेतरयोगद्वन्द्वसमासः 38. ययो.र्बलेन नमितौ निहतौ कंसरावणौ। सूर्याचन्द्रमसो.र्वंश्यौ रामकृष्णा.वहं भजे।। 38।।  बहुपदेतरेतरयोगद्वन्द्वसमासः 39. वापीकूपतटाकानाम् महतां स्थापनादपि। धर्मार्थकाममोक्षाख्या-स्सिद्ध्यन्ते नात्र संशयः।। 39।।  द्विपदसमाहारद्वन्द्वसमासः 40. शीतोष्णं सुखदुःखं वा सहन् यो वर्तते सदा। नियम्य वाक्त्वचं सम्यक्स हि योगीति कथ्यते।। 40।।  बहुपदसमाहारद्वन्द्वसमासः 41. ढक्कामृदङ्गपटहं यस्य दध्वान मन्दिरे। अश्वहस्तिरथं यस्य भावुकं तस्य भूभृतः।। 41।। 7. इतरप्रकाराः  अथ अलुक्समासः 42. कण्ठेकालं स्मरन्नेव जनुषान्धो हृदि स्पृशन्। वाचोयुक्तिं वदन् जीव-त्यन्तिका.दागतं प्रति।। 42।।  गतिसमासः 43. साक्षात्कृत्य हरिं सम्य-गलंकृत्य पुरं प्रभो। तिरस्कृत्य रिपून् पाहि पुरस्कृत्य द्विजान् भुवम्।। 43।।  नित्यसमासः 44. कुम्भकार.स्तन्तुवायो लोहकारक एव च। श्रेणयोन्येपि संस्थाप्याः पार्श्वे ग्रामस्य यत्नतः।। 44।।  असमर्थसमासः 45. शालातुरीयेण महात्मना हि सर्वे समर्था विहिता.स्समासाः। तेषूपयुक्ता विहिता.स्तथास-मर्थं तथा ज्ञापकसिद्धमुच्मः।। 45।। 46. तनुमुद्धूळयन् मर्त्य-श्शिवभागवतो यदि। अरिषड्वर्गत.स्तस्य भयं नास्ति कदाचन।। 46।। 47. प्रायिक.मेषां कथितं प्राधान्यं चातिमालादौ। दन्तोष्ठे द्वित्रादौ नैत-त्सूपप्रत्यादौ।। 47।। 8. अथ वृत्तयः 48. कृत्-तद्धित-सनाद्यन्त-धातुभ्य.श्चैकशेषतः। समासादपि विद्वद्भिः- कथिताः पञ्चवृत्तयः।। 48।।  कृद्वृत्तिः 49. भक्तानामपि मर्त्याना-ममराणा.मथापि वा। सम्पादयति या ज्ञानं तां वाचं प्रणमा.म्यहम्।। 49।।  तद्धितवृत्तिः 50. मानुषानादितेयान् वा पीडयन्तो भुवि स्थिताः। ये दैतेया.स्ता.न्निहन्तुं जातो दाशरथि.स्स्वयम्।। 50।।  सनाद्यन्तधातुवृत्तिः 51. यः पास्पर्धीति वा लोकान् देवै.र्वैरायते सदा। राक्षसस्य विनाशाय तस्य पुत्रीयतु प्रभुः।। 51।।  एकशेषवृत्तिः 52. सर्वेषामपि लोकानां पितरौ यौ सनातनौ। विदितौ पालना.च्चित्ते तौ शिवौ सततं भजे।। 52।।  समासवृत्तिः 53. समासवृत्ति.स्सर्वेषु समासेन निरुपिता। पदार्थस्याभिधानं हि वृत्ति.रित्यभिधीयते।। 53।। 9. उपसंहारः 54. भो भो मात्सर्य.मुत्सार्य वात्सल्या.न्मत्कृता.मिमाम्। पश्यन्तु विबुधा.स्सर्वे समासकुसुमावलिम्।। 54।। 55. श्रीमध्यमन्दिरकुलाम्बुधिपूर्णचन्द्र श्रीसर्वमङ्गल मनीषिकृता सलीलम्। एषा समासकुसुमावलि.राब्जतारं जीयात् कृपानिधि सदाशिवसम्प्रसादात्।। 55।।