याजुषः और्ध्वदैहिक प्रयोगः - अपरप्रयोगे नित्यकर्म
1. केशवपनम्
परिषद्दक्षिणां गृहीत्वा, परिषदं त्रिः प्रदक्षिणीकृत्य
• नमस्सदसे
• समस्तसम्पत् ..
• अशेषे हे परिषत् .. मदीयां विज्ञापनामवधार्य, यथाशक्ति मया समर्पितामिमां परिषद्दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• और्ध्वदैहिककर्माधिकारयोग्यता सिद्ध्यर्थं
• मम शरीरशुद्धर्थं च वपनं कारयितुम् अधिकारयोग्यता सिद्धिरस्त्विति भवति ... अनुगृहाण।
• (प्रतिवचनम्) - तव वपनाधिकारयोग्यतासिद्धिरस्तु।
2. कृच्छ्राचरणम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य
{मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• और्ध्वदैहिककर्माधिकारयोग्यता सिद्ध्यर्थं, मम शरीरशुद्धर्थं च वपनं कारयिष्ये।
• मम वपनाधिकारयोग्यता सिद्ध्यर्थं परिषदुपदिष्ट प्रकारेण स्वर्ण-धान्य-आज्य कृच्छ्राण्याचरिष्ये।।
• स्वर्णकृच्छ्रम्
स्वर्णं पवित्र ममलं स्वर्णं पाप प्रणाशनम्।
स्वर्णं हि शङ्करं यस्मा-दत.श्शान्तिं प्रयच्छ मे।।
• मम केशवपनाधिकार योग्यतासिद्ध्यर्थम्
अस्मै ब्राह्मणाय . . . गोत्राय . . . शर्मणे, साक्षान्नारायण स्वरूपाय, श्री महाविष्णु प्रीत्यर्थं, स्वर्णकृच्छ्र प्रत्याम्नायं यथाशक्ति हिरण्यं तुभ्यमहं संप्रददे न मम।।
• धान्यकृच्छ्रम्
धन्यं करोषि दातार-मिह लोके परत्र च।
यस्मात्तस्माच्छिवं मे स्या-दत.श्शान्तिं प्रयच्छ मे।।
• मम केशवपनाधिकार योग्यतासिद्ध्यर्थम्, अस्मै ब्राह्मणाय . . . गोत्राय . . . शर्मणे, साक्षान्नारायण स्वरूपाय, धान्यकृच्छ्र प्रत्याम्नायं यथाशक्ति हिरण्यं तुभ्यमहं संप्रददे न मम।।
• आज्यकृच्छ्रम्
कामधेनोस्समुद्भूतं सर्वक्रतुषु संस्थितम्।
देवानामाज्य.माहार-मत.श्शान्तिं प्रयच्छ मे।।
• मम केशवपनाधिकार योग्यतासिद्ध्यर्थम्
• अस्मै ब्राह्मणाय . . . गोत्राय . . . शर्मणे, साक्षान्नारायण स्वरूपाय, आज्य कृच्छ्रप्रत्याम्नायं यथाशक्ति हिरण्यं तुभ्यमहं संप्रददे न मम।।
(अथवा समानतन्त्रेण)
• मम केशवपनाधिकार योग्यतासिद्ध्यर्थम् श्री महाविष्णु स्वरूपाय ब्राह्मणाय मम केशवपनाधिकार योग्यता सिद्ध्यर्थम्, कृच्छ्रत्रय प्रत्याम्नायं यथाशक्ति हिरण्यं तुभ्यमहं संप्रददे न मम।।
• मयाकृतै रेभिः स्वर्ण-धान्य- आज्य कृच्छ्रैः भगवान्सर्वात्मकः श्री महाविष्णु स्सुप्रीणातु।।
• मम केशवपनाधिकारयोग्यतासिद्धिरस्त्विति भवन्तो ब्रुवन्तु।
• (प्रतिवचनम्) तव केशवपनाधिकारयोग्यतासिद्धिरस्तु।।
केशवपनम्
• मेरुमन्दरतुल्यानि पापानि विविधानि च।
केशानाश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्यहम्।।
• आत्मनश्शुद्धिकामो वा पितॄणां मुक्तिहेतवे।
वपनं कारयिष्यामि तीरे ब्राह्मणसन्निधौ।।
इति दर्भेण वपनसंस्कारं कृत्वा। ततः कनिष्ठपूर्वाः निवीतिनः दक्षिणाभिमुखाः कण्ठादुपरि वापयेयुः।।
3. शिलाप्रतिष्ठापनम्
अपामन्ते शुचौ देशे अवटं खात्वा, तस्मिन् दक्षिणाग्रं दर्भं निधाय, तेषु तिलानवकीर्य,
ततः चतुरङ्गुलम् आमलकमात्रम् रक्तवर्णं शुक्लं वा पाषणमादाय, केशवादि द्वादशनामभिस्स्नापयित्वा
• केशव - नारायण - माधव - गोविन्द - विष्णो - मधुसूदन - त्रिविक्रम - वामन - श्रीधर - हृषीकेश - पद्मनाभ - दामोदर ।।
इति शिलां स्नापयित्वा, दर्भेणसंवेष्ट्य, प्रज्ञातं निधाय, परिषद्दक्षिणां गृहीत्वा
• समस्त सम्पत् ... गोविन्दाय नमो नमः
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• दहनजनित-तापोपशमनार्थम् - तृष्णोपशमनार्थम् - क्षुदुपशमनार्थञ्च - प्रथमाहःप्रभृति दशाहपर्यन्तं
• शिलास्नान - मृत्तिकास्नान - वासोदक- तिलोदक- पिण्डप्रदानार्थं - शिलाप्रतिष्ठापनं कर्तुं मम अधिकारसम्पदस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् - ) शिलाप्रतिष्ठापनं कर्तुं तव अधिकारसम्पदस्तु।
• कालश्च - मुख्यकालोस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् - ) कालश्च - मुख्यकालोस्त्विति भवन्तो ब्रुवन्तु।
स्मार्ताचमनं कृत्वा
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित-तापोपशमनार्थम् - तृष्णोपशमनार्थम् - क्षुदुपशमनार्थञ्च -
• प्रथमाहःप्रभृति दशाहपर्यन्तं शिलास्नान - मृत्तिकास्नान - वासोदक- तिलोदक- पिण्डप्रदानार्थं -
• शिलाप्रतिष्ठापनं करिष्ये।।
तस्मिन्नवटे शिलां स्थापयित्वा
आयाहि प्रेतास्सोम्या गम्भीरैः पथिभिः पूर्व्यैः। प्रजामस्मभ्यं दधद्रयिं च दीर्घायुत्वञ्च शतशारदञ्च।।
अस्यां शिलायाम्- आवाहनमुपतिष्ठतु। आञ्जनमुपतिष्ठतु। अभ्यञ्जनमुपतिष्ठतु।।
(ऐच्छिकम् - शिलाप्रतिष्ठापनकाले गोदानादि दशदानानि करिष्ये।)
4. नित्यविधिः
श्रीगोविन्द गोविन्द ... अस्यां पुण्यतिथौ
प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित-तापोपशमनार्थम् - तृष्णोपशमनार्थम् - क्षुदुपशमनार्थञ्च - मरणदिनप्रभृति दशाहपर्यन्तं
• शिलास्नान - मृत्तिकास्नान - वासोदक- तिलोदक- पिण्डप्रदानानि करिष्ये।।
—-
परिषद्दक्षिणां गृहीत्वा, परिषदं त्रिः प्रदक्षिणीकृत्य
• नमस्सदसे
• समस्तसम्पत् ..
• अशेषे हे परिषत् .. मदीयां विज्ञापनामवधार्य, यथाशक्ति मया समर्पितामिमां परिषद्दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित-तापोपशमनार्थम् - तृष्णोपशमनार्थम् - क्षुदुपशमनार्थञ्च - मरणदिनप्रभृति दशाहपर्यन्तं
• शिलास्नान - मृत्तिकास्नान - वासोदक- तिलोदक- पिण्डप्रदानानि कर्तुं मम अधिकारसम्पदस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् - ) तव अधिकारसम्पदस्तु।
• कालश्च - मुख्यकालोस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् - ) कालश्च - मुख्यकालोस्तु।
5. शिलास्नानानि
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि शिलास्नानानि कारयिष्ये।।
• (शुक्लपक्षे) केशव - नारायण - माधव - गोविन्द - विष्णो - मधुसूदन - त्रिविक्रम - वामन - श्रीधर - हृषीकेश - पद्मनाभ - दामोदर ।।
• (कृष्णपक्षे) - सङ्कर्षण - वासुदेव - प्रद्युम्न - अनिरुद्ध - पुरुषोत्तम - अधोक्षज - नारसिंह - अच्युत - जनार्दन - उपेन्द्र - हरे - श्रीकृष्ण ।।।
इति त्रिवारं शिलां स्नापयेत्।।
धारादत्तम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
>> (प्राचीनावीती)
• मम पितरं ... गोत्रम्, ... शर्माणम् प्रेतं {मम मातरं ... गोत्राम्, .... दाम्, प्रेताम्}
• उद्दिश्य, मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मया कृतैः शिलास्नानैः
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् -) तापोपशमनमस्तु। प्रेताप्यायनञ्चास्तु।
6. मृत्तिकास्नानम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
>> (प्राचीनावीती)
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मृत्तिकास्नानानि करिष्ये।।
तदवटे मृदं गृहीत्वा। उदुत्यं जातवेदसमिति मन्त्रेण, आदित्याय मृदं दर्शयित्वा, मृत्तिके हन मे .. अङ्गादङ्गादित्येभिः स्वशरीरे मृदं लेपयित्वा।।
उदुत्यं जातवेदसं ... सूर्यम्।
मृत्तिके हन मे पापं ... गच्छामि परमां गतिम्।
अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि। यक्ष्म सर्वस्मादात्मनस्तमिमं विवृहामि ते।
इति मन्त्रेण, कर्ता स्वस्य मस्तकादि पादपर्यन्तं मृल्लेपनं कुर्यात्।
धाता पुनात्विति केशाप्रकीर्य
धाता पुनातु सविता पुनातु। अग्नेस्तेजसा सूर्यस्य वर्चसा।।
तटाकं प्रति गत्वा, दक्षिणाभिमुखास्सन्तः स्नात्वा।
>> (प्राचीनावीती)
अञ्जलिना जलं गृहीत्वा, तीरमागत्य
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• अस्यां शिलायाम् - एतत् - मृत्तिकास्नानम् - उपतिष्ठतु।
---
धारादत्तम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितरं ... गोत्रम्, ... शर्माणम् प्रेतं {मम मातरं ... गोत्राम्, .... दाम्, प्रेताम्}
• उद्दिश्य, मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मया कृतैः मृत्तिकास्नानैः
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम्-) तव पितुः (मातुः) तापोपशमनमस्तु। प्रेताप्यायनञ्चास्तु।
7. वासोदक प्रदानानि
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि वासोदकप्रदानानि करिष्ये।।
>> (प्राचीनावीती)
वासस्त्रिगुणीकृत्य, सव्यं जान्वाच्य
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• अस्यां शिलायाम् - एतत् - वासोदकम् - उपतिष्ठतु। (एवं त्रिः)
धारादत्तम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितरं ... गोत्रम्, ... शर्माणम् प्रेतं {मम मातरं ... गोत्राम्, .... दाम्, प्रेताम्}
• उद्दिश्य, मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मया कृतैः वासोदकप्रदानैः
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• प्रथमेहनि कृत दहनजनित- तापोपशमनमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् -) तव पितुः (मातुः) तापोपशमनमस्तु। प्रेताप्यायनञ्चास्तु।
8. तिलोदक प्रदानानि
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• तृष्णोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि तिलोदकप्रदानानि करिष्ये।।
>> (प्राचीनावीती) तिलोदकमञ्जलिना गृहीत्वा, सव्यं जान्वाच्य
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• तृष्णोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• अस्यां शिलायाम् - एतत् - तिलोदकम् - उपतिष्ठतु। (सकृन्मन्त्रेण, द्विस्तूष्णीम्)
एवमहरहः अञ्जलिना एकोत्तरवृद्धिः आदशाहात्। (प्रथमे अहनि त्रयः अञ्जलयः/ द्वितीये चत्वारः/ तृतीये पञ्च/ चतुर्थे षट्/ पञ्चमे सप्त/ षष्ठे अष्टौ/ सप्तमे नव/ अष्टमे दश/ नवमे एकादश/ दशमे द्वादश। इति क्रमेण आदशाहात् 75 पञ्चसप्ततिः तिलोदकानि कर्ता दद्यात्)
अहः अञ्जलयः
1 3
2 4
3 5
4 6
5 7
6 8
7 9
8 10
9 11
10 12
आहत्य 75
धारादत्तम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितरं ... गोत्रम्, ... शर्माणम् प्रेतं {मम मातरं ... गोत्राम्, .... दाम्, प्रेताम्}
• उद्दिश्य, मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मया कृतैः तिलोदकप्रदानैः
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• तृष्णोपशमनमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम् -) तव पितुः (मातुः) तृष्णोपशमनमस्तु। प्रेताप्यायनञ्चास्तु।
9. पिण्ड प्रदानानि
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• क्षुदुपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि सतिलोदक पिण्डप्रदानम् करिष्ये।।
>> (प्राचीनावीती)
पिण्डस्याधः गोमयेनानुलिप्य
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै}
पिण्डस्याधः दक्षिणाग्रम् - एतद्दर्भास्तरणम् - उपतिष्ठतु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} दर्भाणामुपरि - एतत्तिलोदकम् - उपतिष्ठतु।
कपित्थपरिमाणं पिण्डं कृत्वा, सव्यं जान्वाच्य, दक्षिणाभिमुख उपविश्य।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै}
• क्षुदुपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• एष पिण्ड उपतिष्ठतु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} पिण्डस्योपरि - एतत्तिलोदकम् - उपतिष्ठतु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} पिण्डस्योपरि - पर्यञ्जनम् - उपतिष्ठतु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} पिण्डस्योपरि - अभ्यञ्जनम् - उपतिष्ठतु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} ताम्बूलदक्षिणाः- उपतिष्ठन्तु।
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै} सकलाराधनैः स्वर्चितम् उपतिष्ठतु।
धारादत्तम्
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितरं ... गोत्रम्, ... शर्माणम् प्रेतं {मम मातरं ... गोत्राम्, .... दाम्, प्रेताम्}
• उद्दिश्य, मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि मया कृतेन सतिलोदक पिण्डप्रदानेन
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• क्षुदुपशमनमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम्-) तव पितुः (मातुः) क्षुदुपशमनमस्तु। प्रेताप्यायनञ्चास्तु।
• मम पितः ... गोत्र, ... शर्मन्न् प्रेत {मम मातः ... गोत्रे, .... दे, प्रेते}
• अत्र स्नाहि। अत्र पिब। अत्र भुङ्क्ष्व।
निवीती भूत्वा, उदङ्मुखस्सन्, पिण्डं वायसादिभ्यो दद्यात्।
असृङ्मुखो रुधिरेणाव्यक्तः। यमस्य दूतश्श्वपाद्विधावसि। गृध्रस्सुपर्णः कुणपन्निषेवसे। यमस्य दूतः प्रहितो भवस्य चोभयोः।।
• नारायण नमस्तेस्तु शङ्खचक्रगदाधर।
अक्षय्यं पिण्डदानेन प्रेततृप्तिकरो भव।।
• मम पितः ... गोत्र, ... शर्मन्न् प्रेत {मम मातः ... गोत्रे, .... दे, प्रेते}
• इमं पिण्डं गृध्र-वायस- जलचर-मुखेन उपभुङ्क्ष्व।।
इति पिण्डं वायसेभ्यो दद्यात्। काकाद्यभावे उदके क्षिपेत्।
एवमादशाहात् नित्यकर्म कर्तव्यम्।
सर्वे पुत्रा ज्ञातयश्च स्नात्वा, आचामन्ति।
10. गृहागमनम्
प्राचीनावीतिनः, कनिष्ठप्रथमाः, आर्द्रैकवाससः, अप्रतीक्षमाणाः गृहान् गच्छेयुः। गृहान् गत्वा पाणिपादं प्रक्षाल्य,
निवेशनबहिर्द्वारदेशे दक्षिणपार्श्वे अवटं खात्वा, आमलकपरिमाणं पाषाणान्तरं निधाय
श्रीगोविन्द गोविन्द .. अस्यां पुण्यतिथौ
• मम पितुः ... गोत्रस्य, ... शर्मणः प्रेतस्य {मम मातुः ... गोत्रायाः, .... दायाः, प्रेतायाः}
• तृष्णोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• मरणदिनादारभ्य (प्रथमे/ द्वितीये/ तृतीये/ चतुर्थे/ पञ्चमे/ षष्ठे/ सप्तमे/ अष्टमे/ नवमे/ दशमे)
• अहनि तिलसहित वासोदकप्रदानम् करिष्ये।।
प्राचीनावीती, सव्यं जान्वाच्य
• मम पित्रे ... गोत्राय, ... शर्मणे प्रेताय {मम मात्रे ... गोत्रायै, .... दायै, प्रेतायै}
• तृष्णोपशमनार्थम् - प्रेततृप्त्यर्थञ्च
• तिलसहितम् - एतद्वासोदकम् - उपतिष्ठतु।
1. एवमादशाहात् प्रतिदिनम् एकैकाञ्जलिवृद्ध्या पञ्चपञ्चाशत् तिलसहितवासोदकानि सर्वे ज्ञातयो दद्युः।
अहः अञ्जलयः
1 1
2 2
3 3
4 4
5 5
6 6
7 7
8 8
9 9
10 10
आहत्य 55
2. ततो गृहद्वारि, कर्ता सर्वान्नमस्कृत्य, विसृज्य, तत्रैव घृतं प्राश्य, निम्बपत्राणि विदश्य, आचम्य,
3. गोमय- सुवर्ण- अग्नि- सर्षप- यव- दूर्वाङ्कुराणि स्पृष्ट्वा,
4. द्वारमध्ये सुस्थिरं पाषाणं निधाय, शनैस्तदाक्रम्य, दक्षिणपादनिधानपूर्वकं, कनिष्ठप्रथमाः गृहं प्रविशेयुः।
5. सर्वत्र प्रवेशनेष्वयमेव नियमः, निर्गमने तु ज्येष्ठप्रथमाः।
==00==
|