याजुष एकोद्दिष्टश्राद्ध प्रयोगः
-------
1) विच्छिन्नाग्नि.पुनस्सन्धानम् (औपसनाग्नौ कृतञ्चेदेव)
आचम्य . . . परमेश्वरप्रीत्यर्थं, श्रीमान् गोत्रः . . . . , नामधेयः . . . धर्मपत्नीसमेतोहं, मम विच्छिन्नमौपासनाग्निं पुन.स्सन्धास्ये।
2) चतुष्पात्र प्रयोगः(औपसनाग्नौ कृतञ्चेदेव)
• प्राची पूर्व.मुदक्संस्थं दक्षिणारम्भ.मालिखेत्।
अथोदीची पुरस्संस्थं पश्चिमारम्भ.मालिखेत्।।
यत्राग्नि.स्स्थाप्यते तत्र श्वेततण्डुल.चूर्णेन प्रादेशमात्रं चतुरस्रं स्थण्डिलं कल्पयित्वा, द्वाभ्यां दर्भाभ्या मुल्लिख्य, तत्र प्राची रुदक्संस्थाः, उदीची प्राक्संस्थाः, तिस्रस्तिस्रो रेखा लिखित्वा। अद्भि.रवोक्ष्य। अवोक्षणशेषतोयमुत्सिच्य, प्रागुदग्वा अन्यत्र तोयं निदधाति।
• अवाक्करोभ्युक्ष्य, निधाय वह्नि.-मुत्सिच्यतेवोक्षण.तोयशेषम्।
प्राक्तोय.मन्य.न्निदधा.त्युदग्वा यथाबहि.स्स्याच्च परिस्तराणाम्।।
ॐ ॐ भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठाप्य।।
ओम्। भूर्भुवस्सुवरोम्। अग्नि.मिद्ध्वा।।
ॐ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश।।
• सप्तहस्त.श्चतुशृङ्ग स्सप्तजिह्वो द्विशीर्षकः।
त्रिपा.त्प्रसन्नवदन.- स्सुखासीन.श्शुचिस्मितः।।
• स्वाहा.न्तु दक्षिणे पार्श्वे देवीँ वामे स्वधा.न्तथा।
बिभ्र.द्दक्षिणहस्तै.स्तु शक्ति.मन्नं स्रुचं स्रुवम्।।
• तोमरं व्यजनं वामै.-र्घृतपात्र.न्तु धारयन्न्।
मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।।
• धूमध्वजं लोहिताक्षं सप्तार्चि.स्सर्वकामदम्।
आत्माभिमुख.मासीन.-मेव.न्ध्याये.द्धुताशनम्।।
ॐ एष हि देव प्रदिशोनु सर्वा पूर्वो हि जात.स्स उ गर्भे अन्तः। स विजायमान.स्स जनिष्यमाण प्रत्यङ्मुखा.स्तिष्ठति विश्वतो मुखः।।
• प्राङ्मुखाग्ने। मम - अभिमुखो भव। सुमुखोभव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हवि.र्गृहाण।
ॐ भूर्भुवस्सुवः। ॐ तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।
सोदकेन पाणिना प्रदक्षिणमग्निं परिसमूह्य, अग्नि मलङ्कृत्य।।
• अलङ्कारः -
• अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः।
• परिस्तरणम्, पात्रासादनम्
प्रागग्रै.र्दर्भै.रग्निं परिस्तृणाति। प्रागुदगग्रैर्वा, दक्षिणानुत्तरान् करोति, उत्तरानधरान्। पुरस्तात्, दक्षिणतः, पश्चात्, उत्तरतः।
उत्तरेणाग्निं प्रागग्रा.न्दर्भान्थ्सस्तीर्य, द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति - देवसँयुक्तानि। दर्व्याज्यस्थाल्यौ। प्रोक्षणी स्रुवाविति।
• पवित्र करणम्, प्रोक्षण पात्र संस्कारः
समा,वप्रच्छिन्नाग्रा.वनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठँ वा अन्तर्धाय छिनत्ति। न नखेन। अप उपस्पृश्य। अद्भि.रनुमृज्य। प्रोक्षण्या.मवधाय। प्रोक्ष्य। तस्या.मक्षतै.स्सह अप आनीय। हस्तयो.रङ्गुष्ठोपकनिष्ठिकाभ्या.मुत्तानाभ्यां पाणिभ्या.मुदगग्रे गृहीत्वा। प्राची स्त्रिरुत्पूय। अभिमन्त्र्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। पात्राण्युदक्प्रवण मुत्तानानि कृत्वा। त्रि प्रोक्ष्य। प्रोक्षणशेष.मग्ने.र्दक्षिणतो निधाय।
• आज्य संस्कारः
सपवित्र.माज्यस्थाली.मादाय। आज्यं विलाप्य। अपरेणाग्निं पवित्रान्तर्हिताया. माज्यस्थाल्या.माज्यं निरुप्य। उदीचोङ्गारान् निरूह्य। तेष्वधिश्रित्य।
ज्वलता तृणेनावद्युत्य। द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाल्य, प्रत्यस्य, आज्ये प्रास्य, त्रि पर्यग्नि कृत्वा। उदगुद्वास्य। अङ्गारा.न्प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहार.माज्य.न्त्रिरुत्पूय। प्रागारभ्य पश्चा.न्नीत्वा पुनः प्रागेव समाप्तिः। एवन्त्रिः। पवित्रग्रन्थिं विस्रस्य। प्रक्षाल्य। प्रागग्र.मग्नौ पवित्रे अनुप्रहृत्य।
• स्रुक्स्रुव संमार्गः -
स्रुक्स्रुवावादाय, येन जुहोति तदग्नौ प्रतितप्य, दर्भाग्रै.स्संमृज्य। पुन प्रतितप्य। प्रोक्ष्य। स्रुव मुत्तरतो निधाय। दर्भा.नद्भि.स्सस्पृश्य, अग्नौ प्रहरति।
• परिषेचनम् (अग्निं परिषिञ्चति)
ओम् अदितेनुमन्यस्व। (इति दक्षिणत प्राचीनम्)।।
ओम् अनुमतेनुमन्यस्व। (इति पश्चा दुदीचीनम्)
ओम् सरस्वतेनुमन्यस्व। (इत्युत्तरत प्राचीनम्)।।
ओम् देव सवित प्रसुव। (इति समन्तं परिषिच्य)
(चतुर्गृहीतेनाज्येन स्रुचं पूरयित्वा।) एकं, द्वे, त्रीणि, चत्वारि।
ॐ भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं न मम।।
3) उपवासाकरण प्रायश्चित्त होमः
पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम उपवासाकरण.प्रायश्चित्तार्थं, अयाश्च मन्त्र- व्याहृति होमं करिष्ये।। (एकं, द्वे, त्रीणि, चत्वारि)
अयाश्चाग्ने स्यनभिशस्तीश्च सत्यमित्त्व.मया असि। अयसा मनसा धृतोयसा हव्य.मूहिषेया नो धेहि भेषज स्वाहा।। अयसेग्नय इदं न मम।।
भू.स्स्वाहा। अग्नय इदं न मम।
भुव.स्स्वाहा। वायव इदं न मम।
सुव.स्स्वाहा। सूर्यायेदं नमम।
भूर्भुव.स्सुव.स्स्वाहा। प्रजापतय इदं नमम।
4) पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः
पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम औपासनान्तरित.लोप.प्रायश्चित्तार्थं, पाकयज्ञ.व्रतलोप.प्रायश्चित्तार्थं सप्तहोतारं होष्ये।। (एकं, द्वे, त्रीणि, चत्वारि।)
महाहविर् होता। सत्यहवि.रध्वर्युः। अच्युतपाजा अग्नीत्। अच्युतमना उपवक्ता। अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ। अयास्य उद्गाता स्वाहा। सप्तहोतृभ्य इदं नमम।।
वाचस्पते हृद्विधे नामन्न्। विधेम ते नाम। विधे.स्त्व.मस्माक.न्नाम। वाचस्पति.स्सोम.मपात्। मा दैव्य.स्तन्तु.श्छेदि मा मनुष्यः। नमो दिवे। नम पृथिव्यै स्वाहा।। वाचस्पतये ब्रह्मण इदं न मम।।
मनो ज्योति.र्जुषता. माज्यँ विच्छिन्नँ यज्ञ स.मिम.न्दधातु। बृहस्पति.स्तनुता.मिम.न्नो विश्वे देवा इह मादयन्ता स्वाहा।। मनसे ज्योतिष इदं न मम।
यदस्मिन् यज्ञेन्त.रगा.-ममन्त्रतः कर्मतो वा। अनयाहुत्या तच्छमयामि सर्व.-न्तृप्यन्तु देवा आवृधन्तां घृतेन स्वाहा।। देवेभ्य इदं न मम।
• पूर्णाहुतिहोमः
(द्वादश गृहीतेनाज्येन स्रुचं पूरयित्वा)
सप्त ते अग्ने ... घृतेन स्वाहा।। (अग्नये सप्तवत इदं न मम)
• अस्मिन् विच्छिन्नाग्नि.पुनस्सन्धान.कर्मणि सर्वप्रायश्चित्तं करिष्ये।
ॐ भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं न मम।।
• उत्तर परिषेचनम्
ओम् अदितेन्वमस्थाः।
ओम् अनुमतेन्वमस्थाः।
ओम् सरस्वतेन्वमस्थाः।
ओम् देव सवित प्रासावीः।।
अनेन विच्छिन्नौपासनाग्निसन्धानहोमेन कर्मणा भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पण.मस्तु।
स्वस्ति ... अहं भो अभिवादये।।
5) प्रातरौपासनम्
आचम्य . . . एवङ्गुण विशेषण विशिष्टाया.मस्यां शुभतिथौ, श्री परमेश्वरप्रीत्यर्थं, प्रातरौपासनं तंडुलै.र्होष्यामि।
ॐ भूर्भुव.स्सुव.रोम्। अग्नि.मिद्ध्वा।। (इति समिध माधाय)
• अलङ्करणान्तं कृत्वा, परिषिञ्चति।
• तण्डुला नादाय। द्वेधा विभज्य। मध्ये, अग्नौ जुहोति।
ॐ सूर्याय स्वाहा। सूर्यायेद.न्न मम।।
अथ ईशान्यभागे जुहोति।
ओम् अग्नये स्विष्टकृते स्वाहा। अग्नये स्विष्टकृत इदन्न मम।।
• आहुतिसंसर्ग.दोष.निर्हरणार्थं वनस्पतिहोमं करिष्ये।।
ॐ यत्र वेत्थ वनस्पते देवाना.ङ्गुह्या नामानि। तत्र हव्यानि गामय।। (समिध माधाय) वनस्पतय इदन्न मम।।
• उत्तरपरिषेचनं कृत्वा
• उपस्थानम् -
ओम् अग्ने त्व.न्नो अन्तमः। उत त्राता शिवो भव वरूथ्यः।
त.न्त्वा शोचिष्ठ दीदिवः। सुम्नाय नून.मीमहे सखिभ्यः।
वसु.रग्नि.र्वसुश्रवाः। अच्छा नक्षि द्युमत्तमो रयि.न्दाः। (इति याजुष मन्त्राः)
स नो बोधि श्रुधी हव.मुरुष्याणो अघायत. स्समस्मात्।। (आर्चिकं वाक्यम्)
• होमसाद्गुण्यार्थं, अनाज्ञातत्रय.मन्त्रजपं करिष्ये।।
ओम् अनाज्ञातँ यदाज्ञातँ यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।
पुरुषसम्मितो यज्ञो यज्ञ पुरुषसम्मितः। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अग्नि.ष्टद्धोता क्रतुवि.द्विजानन् यजिष्ठो देवा ऋतुशो यजाति।।
• ॐ स्वस्ति। श्रद्धां मेधां यश प्रज्ञां विद्यां बुद्धिं श्रियं बलम्।
आयुष्य.न्तेज आरोग्य.न्देहि मे हव्यवाहन।
श्रिय.न्देहि मे हव्यवाहन ओ.न्नम इति।।
• यस्य स्मृत्या च नामोक्त्या तपो होमक्रियादिषु।
न्यूनं संपूर्णताँ याति सद्यो वन्दे हुताशनम्।।
• मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन।
यद्धुतन्तु मया देव परिपूर्णं तदस्तु ते।।
अनेन प्रातरौपासन (सायमौपासन) होमेन, भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पणमस्तु स्वस्ति।
(गोत्र प्रवरोच्चारणम्) चतुस्सागर पर्यन्तं . . .अभिवादये।
6) एकोद्दिष्ट श्राद्ध प्रयोगः
श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः।श्री गुरुभ्यो नमः।
• स्नात्वा, धौतवासा विधिव.दाचम्य, दीपाराधनं कृत्वा,
• औपासनाग्न्यभावे लौकिकाग्निं प्रज्वाल्य।।
• पवित्रवन्त इति द्वाभ्यां पवित्रं धृत्वा।।
पवित्रवन्त परि वाज.मासते। पितैषां प्रत्नो अभि रक्षति व्रतम्। मह.स्समुद्रँ वरुण.स्तिरोदधे। धीरा इच्छेकु.र्द्धरुणे.ष्वारभम्।
पवित्र.न्ते विततं ब्रह्मणस्पते। प्रभु.र्गात्राणि पर्येषि विश्वतः। अतप्ततनू.र्न तदामो अश्नुते। शृतास इद्वहन्त. स्तथ्समाशत।।
त्रिराचामेत्। द्वि परिमृज्य, सकृ.दुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति, शिर.श्चक्षुषी नासिके श्रोत्रे।।
• प्राणानायम्य . . .
ॐ भूः। ॐ भुवः। ओ सुवः। ॐ महः। ॐ जनः। ॐ तपः। ओ सत्यम्। ॐ तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्। ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।।
श्री गोविन्द गोविन्द गोविन्द, श्री महाविष्णो.राज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः ..., अयने, .... ऋतौ, ... मासे, ... पक्षे, ... तिथौ, ... वासरे, श्री विष्णु नक्षत्रे श्री विष्णुयोगे श्री विष्णुकरणे, एवं गुण.विशेषण विशिष्टायां ..
अस्यां पुण्यतिथौ।
>>(प्राचीनावीती)
अस्मत् - पितुः (मातुः) (_____ मासिक) श्राद्धम्, अन्नेन हविषा,
अग्नावाद्य-एकोद्दिष्ट- विधानेन, - सदैवम्- अद्य
>> (सव्यम्) - • करिष्ये।।
(भोक्तृ प्रतिवचनम्) कुरुष्व ।।
• काले अधिकारसिद्ध्यर्थं यथाशक्ति सम्भवत्, परिषत् प्रायश्चित्तं करिष्ये।।
(तिल.दर्भ.हिरण्याक्षतान् गृहीत्वा, प्रदक्षिणत्रयं कृत्वा।)
• समस्त.सम्पत्समवाप्ति.हेतव.-स्समुत्थितापत्कुल. धूमकेतवः।
अपार संसार समुद्रसेतवः- पुनन्तु मां ब्राह्मण पादपांसवः।।
• आपद्घन.ध्वान्त. सहस्रभानव.-स्समीहितार्थार्पण.कामधेनवः।
समस्ततीर्थाम्बु.पवित्रमूर्तयो- रक्षन्तु मां ब्राह्मण पादपांसवः।।
• आधिव्याधिहरं नॄणां- मृत्यु.दारिद्र्यनाशनम्।
श्रीपुष्टि.कीर्तिदं वन्दे- विप्रश्री.पादपङ्कजम्।।
• विप्रौघ दर्शनात्सद्यः- क्षीयन्ते पापराशयः।
वन्दना.न्मङ्गलावाप्ति-रर्चना.दच्युतं पदम्।।
• नमो ब्रह्मण्य.देवाय- गोब्राह्मण.हिताय च।
जगद्धिताय कृष्णाय- गोविन्दाय नमोनमः।।
• त्रिः प्रदक्षिणीकृत्य। तत्पुरतो हिरण्यं निधाय , ब्राह्मणान् नमस्कृत्य
यावती.र्वै देवता.स्ता.स्सर्वा वेदविदि ब्राह्मणे वसन्ति तस्मा.द्ब्राह्मणेभ्यो वेदविद्भ्यो दिवेदिवे नमस्कुर्या.न्नाश्लील.ङ्कीर्तये.देता एव देवता प्रीणाति।।
>> >>(प्राचीनावीती)
• अस्मत् - पितुः (मातुः) _____ मासिक- अन्नश्राद्धम्, अग्नावाद्य-एकोद्दिष्ट विधानेन कर्तुं, मुख्यकालो भूत्वा, मम अधिकार सम्पदस्त्विति भवन्तो ब्रुवन्तु।।
(प्रति वचनम्) कर्तुमधिकार.सम्पदस्तु।
• कालश्च (- कर्ता)। मुख्यकालोस्तु।(- इति भोक्तारौ वदेताम्)।।
• पाकादीनां (- कर्ता)। पवित्रतास्तु (-प्रतिवचनम्)।।
• सर्वे पाकाः (- कर्ता)। शुचयो भवन्तु (-प्रतिवचनम्)।।
• देवताभ्यः पितृभ्यश्च- महायोगिभ्य एव च।
नम.स्स्वधायै.स्स्वाहायै- नित्यमेव नमो नमः।।
• ईशानः पितृरूपेण- महादेवो महेश्वरः।
प्रीयतां भगवा.नीशः- परमात्मा सदाशिवः।।
ॐ भूः। ॐ भुवः। ओ सुवः। ॐ महः। ॐ जनः। ॐ तपः। ओ सत्यम्।
ॐ तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।
ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। (त्रिः)
• तिथि.र्विष्णु.स्तथा वारो- नक्षत्रं विष्णु.रेव च।
योगश्च करणं चैव सर्वं विष्णुमयं जगत्।।
7) श्राद्ध सङ्कल्पः
• श्री गोविन्द गोविन्द गोविन्द
ॐॐॐ अद्य पूर्वोक्त- एवं गुणविशेषण.विशिष्टायाम् .. अस्यां पुण्यतिथौ।
>> >>(प्राचीनावीती)
• अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य
{अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः}
>> (सव्यम्) रुद्रसंज्ञाकानां विश्वेषां देवाना.ञ्च,
>> >>(प्राचीनावीती) अस्मत् - पितुः (मातुः) ____मासिकश्राद्धं, अन्नेन हविषा, अग्नावाद्य-एकोद्दिष्ट विधानेन युष्मदनुज्ञया
>> (सव्यम्) सदैवम् - अद्य करिष्ये।।
• कुरुष्व (भोक्तृ प्रतिवचनम्)।
>> >>(प्राचीनावीती) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धं, भविष्यत्यत्र। अत्र भविष्यति। (भोक्तृ प्रतिवचनम्)।।
>> (सव्यम्)
• वैश्वदेवस्थाने हस्तोदकं (गृहीत्वा) दत्त्वा।
• रुद्रसंज्ञिकानां विश्वेषां देवानां स्थाने- आहवनीयार्थे क्षणं धृत्वा, भवद्भिः क्षणः प्रसादः करणीयः (-कर्ता)। अस्तु करणीयः (-भोक्ता)।
>> >>(प्राचीनावीती) अथ पितृ (मातृ) स्थाने - हस्तोदकं दत्त्वा।,
• अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य
{अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः}
• स्थाने आहवनीयार्थे क्षणं धृत्वा, भवद्भिः - क्षणः प्रसादः करणीयः। (-कर्ता)। अस्तु करणीयः (-भोक्ता)।
• अक्रोधनै.श्शौचपरै.-स्सततं ब्रह्मवादिभिः।
भवितव्यं भवद्भिश्च- मया च श्राद्धकर्मणि।।
>> (सव्यम्)।।
• मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरण.पूर्वकम्।
यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। (विष्णु.र्विष्णु र्विष्णुः)
-----
8) मण्डलार्चनम्
• प्राङ्मुखो मण्डलार्चनं कुर्वीत। लौकिकाग्निसमीपे, गोमयेन गन्धेन वा वैश्वदेव-पैतृक- मण्डलद्वयं कुर्वीत।।
>> उत्तरे (सव्येन) वैश्वदेवं चतुरश्रमण्डलं,
>> दक्षिणे (प्राचीनावीतिना) वर्तुलाकारमण्डलं
------------------
>> (सव्यम्)
• रुद्र संज्ञिकानां विश्वेषां देवानाम्,
• पाद्यस्थाने कुशासनम्।
• पाद्यस्थाने - दैवे क्षणः क्रियताम्। (प्रतिवचनम् - ) ॐ तथा।
• अमी गन्धाः। पुष्पार्था इमे अक्षताः। अमी कुशाः।
• पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु।।
>> >>(प्राचीनावीती)
• (अस्मत्) पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य
{अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः}
• पाद्यस्थाने - कुशासनम्।
• पाद्यस्थाने - श्राद्धे क्षणः क्रियताम्। (प्रतिवचनम् - ) ॐ तथा।
• अमी गन्धाः। पुष्पार्था इमे तिलाः। अमी कुशाः।
• पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु।
-------------
9) पादप्रक्षालनम्
• (कर्ता प्रत्यङ्मुखो भूत्वा, स्वागताद्यर्चनं प्रकुर्यात्।)
>> (सव्यम्) वैश्वदेवपादप्रक्षालनम्।
• रुद्र संज्ञिका विश्वे देवाः - स्वागतम्। (प्रतिवचनम्-) सुस्वागतम्।
• रुद्र संज्ञिका विश्वे देवाः - पाद्यस्थाने इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्।
• (शन्नो देवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)
शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।।
• रुद्र.संज्ञिका विश्वे देवाः- इदं ते पाद्यम् उपतिष्ठतु।
(प्रतिवचनम्-) सुपाद्यम्।
(ततः पवित्रं विसृज्य)
ॐ शुक्र.मसि ज्योति.रसि तेजोसि देवो व.स्सवितोत्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः। (आज्येनाङ्क्त्वा)
• पादप्रक्षालन मन्त्राः
चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान. मराति.न्तरेम।।
लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्म.द्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता.न्दधातु।।
• नमो ब्रह्मण्यदेवाय- गोब्राह्मण◌हितायच।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।
• (भोक्ता प्रक्षालयितारमुपस्पृश्य, आत्मानं प्रत्यभिमृशेत्।।
मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (इति जपेत्।)
• कर्ता पादप्रक्षालनोदकं शिरसि धारयेत्।
---
अथ पितृ.पादप्रक्षालनम्
>> अथ कर्ता पवित्रं धृत्वा, सव्येनैव स्वागतं कुर्यात्।
• (अस्मत्) पितः- {मातः-}
• स्वागतम्।। (प्रतिवचनम्-) सुस्वागतम्।
>>(प्राचीनावीती)
• अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य
{अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः}
• पाद्यस्थाने इदमिद मासनम्। (प्रतिवचनम् - सुखासनम्।)
(शन्नो देवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)
शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।।
• (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप।
{(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे}
• इदं ते पाद्यम् - उपतिष्ठतु। (प्रतिवचनम्-) सुपाद्यम्।
(पवित्रं विसृज्य)
ॐ शुक्र मसि ज्योति रसि तेजोसि देवो व.स्सवितो.त्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः।। (इति पादा.वाज्येनाङ्क्त्वा)
>> सव्येन प्रक्षालयति।
चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान.मराति.न्तरेम।।
लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्मद्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता न्दधातु।।
• नमो ब्रह्मण्य देवाय गोब्राह्मण हितायच।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।
• भोक्ता प्रक्षालयितार.मुपस्पृश्य, आत्मानं प्रत्यभिमृश्य।
मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (अप उपस्पृश्य)।
•कर्ता भोक्तृ.पादप्रक्षालनोदकं शिरसि धृत्वा,
-------
>> कर्ता पवित्रं धृत्वा, स्वयं च पादौ प्रक्षाल्य, आचम्य।
10) श्राद्धस्थले प्रधान कर्मारम्भः।
• विश्वान् देवान् अग्नेः पूर्वोत्तरदेशे, पितरं (मातरम्) अग्नेः दक्षिणोत्तरदेशे कूर्चरूपेण भावयेत्। (तत्तत् स्थानयोः कूर्चौ निधाय, प्राङ्मखः कर्ता चोपविशेत्। आचम्य,
• 1) रुद्र संज्ञिका विश्वे देवाः।
भूर्भुवस्सुवः। स्वाहास्ताम्।
• अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः।
• अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।।
>>2) (प्राचीनावीती) - (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप।
{(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे}
भूर्भुवस्सुवः। स्वधास्ताम्।
• अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः।
• अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।
---
>>सव्येन त्रिराचामेत् ।।। ।।
• ओम्, ओम्, ओम्, अद्य पूर्वोक्तैवंगुण.विशिष्टाया.मस्यां पुण्यतिथौ
>>(प्राचीनावीती) अस्मत्पितुः (मातुः)
• भवदनुज्ञया प्रक्रान्तं, अस्मत्पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक- अन्नश्राद्धकर्म
>> (सव्यम्) - करिष्ये। (प्रतिवचनं-) कुरुष्व।।
>>(प्राचीनावीती)-
अपहता असुरा रक्षासि पिशाचा- ये क्षयन्ति पृथिवी.मनु। अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः।
उदीरता.मवर उत्परास उन्मध्यमा पितर.स्सोम्यासः। असुँ य ईयु.रवृका ऋतज्ञा.स्ते नोवन्तु पितरो हवेषु।।
(इति भूमिं कूर्चेनावोक्ष्य, तूष्णीं खात्वा, उद्धृत्य, तिलान् विकिरेत्।)
• तूष्णीं वर्तुलाकार मण्डलं कृत्वा, तेषु तिलदर्भा.न्निक्षिप्य।।
>> (सव्यम्)- तूष्णीं वैश्वदेवस्थाने यवोदकेनावोक्ष्य।
• तत्र चतुरश्र मण्डलङ्कृत्वा। मण्डलयो.र्यवदर्भान् निक्षिप्य।।
• अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा। यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।।
(गायत्र्या अन्नादिपाक द्रव्याणि संप्रोक्ष्य)
ॐ भूर्भुव.स्सुवः। तथ्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योन प्रचोदयात्। (आत्मानञ्च संप्रोक्ष्य)
• श्राद्धार्थं संपादिताः इमे पदार्थाः, देशतः कालतश्चैव, श्राद्धयोग्या भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) श्राद्धयोग्या भवन्तु।।
• श्राद्धकाले गयां ध्यात्वा- ध्यात्वा देवं जनार्दनम्।
वस्वादींश्च पितॄन् ध्यात्वा- तत.श्श्राद्धं प्रवर्तये।।
• (प्रतिवचनम्-) प्रवर्तय।।
-----
11) वैश्वदेवार्चनस्य प्रारम्भः -
• रुद्र संज्ञिकानां विश्वेषां देवानाम् - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। हस्तोदकं (गृहीत्वा) दत्त्वा।
• वैश्वदेवे क्षणः क्रियतां। (प्रतिवचनम्-) ॐ तथा।
• प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।
• ततः प्रादक्षिण्येन दर्भेषु अर्घ्यपात्रमासाद्य, प्रोक्ष्य, उत्तानं कृत्वा, पुनप्रोक्ष्य, शन्नो देवीरिति मन्त्रेणाभिमन्त्र्य)
शन्नो देवी रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य।)
• यवोसि धान्यराजो वा- वारुणो मधुसँयुतः। निर्णोद.स्सर्वपापानां- पवित्र.मृषिभि.स्स्मृतम्।। (यवान् विकीर्य)
• अर्घ्यपात्रयोः - अमी गन्धाः।
• पुष्पार्था इमे अक्षताः। अमी कुशाः। इमानि श्री- तुलसी- भृंगराज- दर्भ- पत्र- तृणानि च। (औदुम्बरपर्णैः- दर्भैर्वा प्रच्छाद्य।)
• कूर्चोदकेनैव अष्टार्घ्यैः, संपूर्णार्चन.मस्तु।
• रुद्र संज्ञिकेभ्यो विश्वेभ्यो वो देवेभ्यो जुष्टं गृह्णामि।
• वः पात्रं संपन्नम्। (प्रतिवचनम्-) सुसम्पन्नम्।
स्वाहार्घ्याः । (प्रतिवचनम्-) सन्त्वर्घ्याः।।
12) वैश्वदेव-आवाहनम् -
ॐ विश्वे देवास आगत शृणुता म इमं हवम्। एदं बर्हि.र्निषीदत।।
• रुद्र संज्ञिकान् विश्वान् देवान् भवत्सु- आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।
ओम् विश्वे देवा.श्शृणुतेम हवं मे- ये अन्तरिक्षे य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा- आसद्यास्मिन्बर्हिषि मादयध्वम्। (इति मन्त्रेण नमस्कृत्य)
• आगच्छन्तु महाभागा विश्वे देवा महाबलाः।
एतात्र विहिता.श्श्राद्धे सावधाना भवन्तु मे।। (प्रतिवचनम्-) सावधाना.स्स्मः।
13) (वैश्वदेवस्थाने) - अर्घ्य प्रदानम्
(हस्तोदकं (गृहीत्वा) दत्त्वा, दक्षिणं जान्वाच्य, हस्ते शुद्धोदकं दर्भं निधाय, अर्घ्यपात्रं गृहीत्वा, अभिमन्त्र्य।)
या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.-श्श स्योना.स्सुहवा भवन्तु।।
• रुद्र संज्ञिका विश्वे देवाः- इदँ वो अर्घ्यम्, स्वाहा नमः। (प्रतिवचनम्-) अस्त्वर्घ्यम्।
(तत.श्शुद्धोदकम्। हस्तोदकं दत्त्वा, हस्ते शुद्धोदकं दर्भं निधाय)
• विश्वेभ्यो देवेभ्यः पात्र - स्थानेसि। (प्रतिवचनम्-) सुस्थान.मसि। अर्घ्यपात्र.मन्यत्र निधाय। ततः अर्चनं कुर्यात्।
14) वैश्वदेव अर्चनम्
ॐ अर्चत प्रार्चत- प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)
ॐ गन्धद्वारा.न्दुराधर्षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना. न्तामिहोप ह्वये श्रियम्।।
• रुद्र संज्ञिका विश्वे देवाः। यथाभागशः, अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।
ॐ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।।
• रुद्रसंज्ञिका विश्वे देवाः- इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्व यँ वय.न्धूर्वामः।।
• रुद्र संज्ञिका विश्वेदेवाः। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)
ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्ऋतिं मम। पशूश्च मह्य.मा वह जीवनञ्च दिशो दिश।।
• रुद्र संज्ञिका विश्वे देवाः। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।
ॐ युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।।
• रुद्र संज्ञिका विश्वे देवाः। अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्, आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः।
• (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः।
• अर्चनं संपूर्णम्।
• अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।।
• युष्मदनुज्ञया पित्रर्चनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।।
---------
15) पितृस्थाने अर्चनप्रारम्भः
>>(प्राचीनावीती)
अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य
{अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः}
• इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्।।
(हस्तोदकं दत्त्वा)
• अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, - क्षणः क्रियताम्। (प्रतिवचनम्-) ॐ तथा।
• प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।।
(दक्षिणाग्रेषु दर्भेषु अर्घ्यपात्रमासाद्य, उत्तानं प्रोक्ष्य। उद्धृत्य, सव्यं जान्वाच्य, शन्नोदेवीरिति मन्त्रेण- अर्घ्यपात्रमभिमन्त्र्य।
शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य)
तिलोसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्त.स्स्वध एहि।। तिलान् विकीर्य,
• (अस्मत्) पितरं . . . गोत्रं, .... शर्माणं वसुरूपं, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधा नमः।
• (अस्मत्) मातरं . . . गोत्रां, .... दाम्, वसुरूपाम्, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधा नमः।
• अर्घ्यपात्रे अमी गन्धाः। इमानि पुष्पाणि। अमी कुशाः। (इमानि श्री-तुलसी- भृंगराज- दर्भ-पत्र- तृणानि च। (औदुम्बर पर्णैः दर्भैर्वा प्रच्छाद्य)
• कूर्चोदकेनैव अष्टार्घ्यै.स्संपूर्णार्चनमस्तु।
• पित्रे ते जुष्टं गृह्णामि। {मात्रे ते जुष्टं गृह्णामि।)
• वः पात्रं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्।
• स्वधार्घ्याः। (प्रतिवचनम्-) सन्त्वर्घ्याः।।
16) पितृस्थाने- आवाहनम्
• अस्मत्) पितरम्... गोत्रम्, ... शर्माणम्, वसुरूपम्,
{ (अस्मत्) मातरम्... गोत्राम्, ... दाम्, वसुरूपाम्}
भवत्सु - आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।
ॐ उशन्त.स्त्वा हवामह- उशन्त. स्समिधीमहि। उश.न्नुशत आ वह- पितॄन् हविषे अत्तवे।।
ॐ आयन्तु न पितर.स्सोम्यासो-ग्निष्वात्ता पथिभि.र्देवयानैः। अस्मिन् यज्ञे स्वधया मद.-न्त्वधि ब्रुवन्तु ते अवन्त्वस्मान्।। (इत्यावाह्य)
• सावधाना भवन्तु मे। (प्रतिवचनम्-) सावधानास्स्मः।
• पितृस्थाने अर्घ्यप्रदानम्
(हस्ते शुद्धोदकं दर्भं निनीय। अर्घ्यपात्रं गृहीत्वा, यादिव्या इत्यर्घ्यपात्रमभिमन्त्र्य)
या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.-स्ता न आप.श्श स्योना.स्स्वधा भवन्तु।।
• (अस्मत्) पितः ... गोत्र ... शर्मन्न्, वसुरूप- इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।। तत श्शुद्धोदकम्।
{(अस्मत्) मातः ... गोत्रे .... दे, वसुरूपे, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।} ततश्शुद्धोदकम्। (अर्घ्यपात्रमन्यत्र निदध्यात्।)
17) पितृस्थाने अर्चनम् –
ॐ अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चन्तु पुत्रका उत पुरन्न धृष्ण्वर्चत।। अर्चत प्रार्चत।। (इति तिलान् समर्प्य)
ॐ गन्धद्वारा.न्दुराधर्षा-न्नित्यपुष्टाङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्ता. मिहोप ह्वये श्रियम्।।
• (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप। {(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे}
• यथाभागशः - अमीवो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।
ॐ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।।
• अस्मत् पितः (मातः)
• इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि।। (पुष्पार्था इमे तिलाः)
ॐ धूरसि धूर्व धूर्वन्त. न्धूर्व तँ योस्मा.न्धूर्वति तं धूर्व यँ वय.न्धूर्वामः।।
• अस्मत् पितः (मातः)
• अयँ वो धूपः। (प्रतिवचनम्-) सुधूपः।। (सांकल्पिको वो धूपः)
ॐ उद्दीप्यस्व जातवेदो-पघ्न.न्निर्ऋतिं मम। पशूश्च मह्य.मावह- जीवनञ्च दिशो दिश।।
• अस्मत् पितः (मातः)
• इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।।
ॐ युवा सुवासा परिवीत आगा-थ्स उ श्रेया.न्भवति जायमानः। तन्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।।
• अस्मत् पितः (मातः)
• अन्तप्रावरणार्थं- बहिप्रावरणार्थम्- आच्छादनार्थं- पवित्रार्थ- मलंकरणार्थम्- इदं वो वासः। (प्रतिवचनम्-) सुवासः।।
• (तदभावे सतिला इमे कुशाः।) (प्रतिवचनम्-) सुकुशाः।
अर्चनं संपूर्णम्। अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु।(प्रतिवचनम्-) अस्तु सङ्कल्प सिद्धिः।
>> सव्यम्
--------
• (युष्मदनुज्ञया) सर्वत्र मण्डलोद्वर्तनं पात्रासादनादिकञ्च करिष्ये। (प्रतिवचनम्-) कुरुष्व।
19) अग्नौकरणम् -
• आचम्य ... पुनः प्राणानायम्य, ओम् ओम् ओम्।
• अद्य पूर्वोक्तैवङ्गुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ,
>>(प्राचीनावीती)
• अस्मत् पितुः (मातु) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे भवदनुज्ञया, अन्नसंस्कारार्थं, अग्नौकरणम्
>> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।।
• अन्नमग्ना.वधिश्रित्य, उदगुद्वास्य, अद्भिः प्रोक्ष्य, अभिघार्य
• घृताप्लुतमन्नं चतुर्धा विभज्य, ईशान्यभागेभिघार्य।??
• तूष्णीम् अग्नि.मप्रदक्षिणं परिषिच्य। मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य, हविः प्रत्यभिघारयति।।
ॐ सोमाय पितृपीताय स्वधा नमः। (अर्धं जुहोति)
• सोमाय पितृपीतायेदं न मम। (शिष्टं पात्रान्तरे निधाय।)
??>>(प्राचीनावीती) पुनर्मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य।
>> (सव्यम्)
ओम् यमायाङ्गिरस्वते पितृमते स्वधा नमः। (अर्धं जुहोति।) यमायाङ्गिरस्वते पितृमत इदं न मम।।
• होमशिष्टद्वय.मादाय, अनुपस्तरणेन - अनभिघारणेन जुहोति।
ओम् अग्नये कव्यवाहनाय स्वधा नमः।। अग्नये कव्यवाहनायेदं न मम।। ??>>(प्राचीनावीती) तूष्णी.मग्नि.मप्रदक्षिणं परिषिच्य,
तूष्णीं मेक्षण.मग्नौ प्रहरति।।
>> (सव्यम्) चतुस्सागर पर्यन्तं ... . अभिवादये।।
• भोजन पात्रादि संस्कारः
>>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा।
• भोजन पात्रयो.रुपस्तीर्य।
20) पक्वान्न विनियोग चित्रम्
• वायव्यभाग.मादाय। (त्रिवारं पितृभोजनपात्रे पितृतीर्थेन निक्षिप्य)
स्वधेयं स्वधेयं स्वधेयम्।। (प्रतिवचनम्-) अस्तु स्वधा (3)
(पुन.रभिघार्य। पुनर्हस्तोदकं दत्त्वा।)
• आस्वधेति पात्रस्थ.मन्न.मभिमन्त्र्य
ओम् आस्वधेत्याश्रावयति। अस्तु स्वधेति प्रत्याश्रावयति। स्वधा नम इति वषट्करोति। स्वधाकारो हि पितृणाम्।।
>> (सव्यम्) वैश्वदेवस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।।
----------
21) अन्नसूक्त पठन सङ्कल्पः (आपेक्षिकमेतत्पठनम्)
• आचम्य ... पुनः प्राणानायम्य, एवंगुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ
>>(प्राचीनावीती) - अस्मत् पितुः (मातु) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
>> (सव्यम्) अन्नशुद्ध्यर्थं, आघ्राणदोष निर्हरणार्थं, अन्नसूक्तमन्त्र पठनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।।
• ब्राह्मणैस्सह आश्रावयिष्ये। (प्रतिवचनम्-) आश्रावय।। (अभिमन्त्रयति)
ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि।।
ॐ सह वै देवानां .... तदप्येष श्लोको भवति।। (अन्नसूक्तं जपित्वा)।
-------------
22) परिवेषण विधिः
• अन्नञ्च पायसं भक्ष्यं घृतञ्च व्यञ्जनादिकम्। सूप.मन्ते प्रदातव्यं सर्वं स्या.द्दैवपूर्वकम्।।
(भोजन पात्रेषु पाकद्रव्याणि परिवेष्य, अभिघार्य, गायत्र्या प्रोक्ष्य।)
ॐ भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।
• वैश्वदेवस्थाने हस्तोदकं दत्त्वा।
देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।
ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।
इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।।
• स्वाहा श्रीविष्णो हव्य रक्षस्व।
• वैश्वदेव.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य)
• रुद्र संज्ञिका विश्वेदेवाः। इदँ वो हव्यं सपरिकरम्।
• रुद्र संज्ञिका विश्वेदेवा देवता, इद.मन्नं हव्यम्। ब्राह्मणस्त्वाहवनीयार्थे। दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्।
• गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।।
• रुद्र संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - इदमिद.मन्नम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं,
• अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम।
• गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।)
• (प्रतिवचनम्-) गयायां दत्त.मस्तु।।
ओम्। ये देवा दिव्येकादश स्थ पृथिव्या.मध्येकादशस्थाफ्सुषदो महिनैकादशस्थ ते देवा यज्ञ.मिम.ञ्जुषध्वम्।। (इति नमस्कृत्य।)
-------
>>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा।
देव सवितः प्रसुव।। (अप्रदक्षिणं परिषिच्य।) (भोजनपात्रं स्पृष्ट्वा)
ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मि.न्लोके।।
इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।।
• स्वधा श्री विष्णो, कव्य रक्षस्व। पितृहस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य)
• (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप।
{(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे}
• एतद्वः कव्यं सपरिकरम्।।
• अस्मत् पिता {माता} देवता। इद.मन्नं कव्यम्। ब्राह्मण.स्त्वाहवनीयार्थे।
• दत्तं दास्यमानञ्च, आतृप्तेस्ततत् सर्वम्।
• गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। राजत.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।।
• (अस्मत्) पित्रे ... गोत्राय, ... शर्मणे, वसुरूपाय।।
{ (अस्मत्) मात्रे ...गोत्रायै, .. दायै, वसुरूपायै।}
• इदमिद.मन्नम्। अमृतस्वरूपम्।
• आतृप्ते.र्दास्यमानं यथाभागं कव्यम्।
• तत्सत्। स्वधा न मम। स्वधा न मम।
>> (सव्यम्)
• गयायां श्री विष्णुपादादि समस्त तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयायां दत्तमस्तु।।
ये चेह पितरो ये च नेह याश्च विद्म या उ चन प्रविद्म। अग्ने तान् वेत्थ यदि ते जातवेद.स्स्वधाभि.र्यज्ञ सुकृत.ञ्जुषस्व।।
-----
• चतुर्भिश्च चतुर्भिश्च- द्वाभ्यां पञ्चभि.रेव च। हूयते च पुन.र्द्वाभ्यां- स मे विष्णुः प्रसीदतु।।
• ब्रह्मार्पणं ब्रह्महविर्- ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं- ब्रह्मकर्म समाधिना।।
• यज्ञेश्वरो यज्ञसमस्त.नेता- भोक्ताव्ययात्मा हरि.रीश्वरोत्र। तत्सन्निधाना.दपयान्तु सद्यो- रक्षांस्यशेषा.ण्यसुराश्च सर्वे।।
• त्वां योगिन.श्चिन्तयन्ति- त्वाँ यजन्ति च यज्वनः। हव्यकव्यभु.गेक.स्त्वं पितृदेव.स्वरूपधृत्।
• कर्ता क्रियाणां स स इज्यते क्रतु.-स्स एव तत्कर्मफलञ्च यच्च। स्रुगादि यत्साधन.मप्यशेषं हरे.र्न किञ्चि.द्व्यतिरिक्त.मस्ति।।
• गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्पतेः। गयाशीर्षे वटे चैव पितॄणां दत्त.मक्षयम्।।
• देश- काल- पात्र- मन्त्र- तन्त्र- कर्म- कर्तृ- भोक्तृ- स्थल- हविर् द्रव्यादिषु, सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्त्विति भवन्तो ब्रुवन्तु।
• (प्रतिवचनम्-) सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्तु।
---
23) ब्राह्मणभोजने धारादत्तम्
>> (सव्यम्) ॐ ॐ ॐ ... अस्यां पुण्यतिथौ
>>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे,
• अस्मत्) पितरम्... गोत्रम् - ... शर्माणम् - वसु रूपम्,
{ (अस्मत्) मातरम्... गोत्राम् ... दाम् - वसु रूपाम्}
>> (सव्यम्) रुद्रसंज्ञिकान् विश्वान्देवाश्च, उद्दिश्य मया क्रियमाणेन, अनेन-
>>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धेन,
• वसुरूपस्य, (अस्मत्) पितुः ... गोत्रस्य, ... शर्मणः, वसुरूपस्य,
{(अस्मत्) मातुः ... गोत्रायाः ... दायाः, वसु रूपायाः}
• गयान्नश्राद्धेनेव, अक्षय्यतृप्ति.र्भूत्वा, पुनरावृत्ति.रहित- शाश्वतब्रह्मलोक.निवास. सिद्धिः अस्त्विति भवन्तो ब्रुवन्तु। (सदर्भ यव तिलोदकं विसृजेत्।)
• (प्रतिवचनम्-) पुनरावृत्ति.रहित शाश्वत.ब्रह्मलोक निवास सिद्धि.रस्तु। यथाकालं दत्तमस्तु। सर्वं सगुण.मस्तु।
नमो देवेभ्यः। स्वधा पितृभ्यः। नमो विष्णवे।।
>> (सव्यम्)
---------
>> (सव्यम्) पित्रे {मात्रे} - अमृतमस्तु। इति हस्तोदकं दत्त्वा।
• रुद्र संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - अमृतमस्तु। इति हस्तोदकं दत्त्वा।
• अमृतोपस्तरणमसि।
--------------
• इयं भू.र्गया। एते ब्राह्मणा गदाधराः।
• एको विष्णु.र्मह.द्भूतं- पृथ.ग्भूता.न्यनेकशः। त्रीन् लोकान् व्याप्य भूतात्मा- भुङ्क्ते विश्वभु.गव्ययः।।
• पितृरूपी जनार्दनः प्रीयताम्।। ॐ तत्सत्। ब्रह्मार्पणमस्तु।।
भोक्तारः-
श्रद्धायां प्राणे निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। प्राणाय स्वाहा।।
श्रद्धाया. मपाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। अपानाय स्वाहा।
श्रद्धायाँ व्याने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। व्यानाय स्वाहा।
श्रद्धाया. मुदाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। उदानाय स्वाहा।
श्रद्धाया समाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। समानाय स्वाहा।
ब्रह्मणि म आत्मामृतत्वाय।।
• यथासुखं जुषध्वम्। (प्रतिवचनम्-) जुषामहे।
• कलौ कलिकृतान् दोषान्- द्रव्यदेहात्मसम्भवान्। सर्वान् हरति चित्तस्थो- भगवान् देवकीसुतः।।
• मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरणपूर्वकम्। यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।।
• अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम्। उपविश्य सुखेनैव- भोक्तव्यं स्वस्थमानसैः।।
(मक्षिकानिरसनम्-)
ओम् यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्त.मस्ति। यद्धस्तयो. श्शमितु. र्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु।।
• मक्षिकाबाधा निवृत्तिरस्तु।।
• अग्नावन्नहोमः
घृताप्लुतमन्नादिकं सर्वं मेलयित्वा, यत्ते कृष्ण इति कुक्कुटाण्डपरिमितानि द्वात्रिंशत् कबलानि हस्तेन जुहुयात्। (ब्राह्मणभोजन प्रतिनिधिरयं होमः।)
यत्ते कृष्ण.श्शकुन आतुतोद पिपील.स्सर्प उत वा श्वापदः। अग्नि.ष्टद्विश्वा.दनृणं कृणोतु सोमश्च यो ब्राह्मण.माविवेश स्वाहा।
अग्नीषोमाभ्यामिदं न मम।।
ओम् अक्ष.न्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्रते हरी।।
हस्तं प्रक्षल्य।
• मया कृतं श्राद्धं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्।।
25) विकिरान्न प्रदानम्
• पक्वात्, नैरृत्यभाग.मोदन.मादाय, त्रेधा विभज्य,
• तत्र प्रथमभागं कुलस्त्रीभ्यः आदाय,
>>(प्राचीनावीती) अस्मत् - पितः {मातः }
• तृप्तोसि। तृप्तोसि। तृप्तोसि।
तृप्तासि। तृप्तासि। तृप्तासि। (प्रतिवचनम्- ) तृप्ता.स्स्मः।
• (आग्नेय्यां दिशि पितृस्थानस्य दक्षिणभागे भूमावेव विकीर्य, अप्रदक्षिणं परिषिच्य, कुलस्त्रीभ्य.स्समर्पयेत्।)
• असंस्कृत.प्रमीता ये त्यागिन्यो याः कुलस्त्रियः। दास्यामि तेभ्यो विकिर.-मन्नं ताभ्यश्च पैतृकम्।।
>> (सव्यम्) (नैरृत्यभागस्य द्वितीयार्ध.मोदनं सोमभाग.विवर्जितेभ्यो देवेभ्य आदाय)
• रुद्र संज्ञिका विश्वेदेवाः।
• तृप्तास्स्थ। तृप्ता.स्स्थ। (प्रतिवचनम्-) तृप्ता.स्स्मः।।
• (वायव्यां दिशि वैश्वदेवस्थानस्य वामभागे भूमावेव विकीर्य, प्रदक्षिणं परिषिच्य, असोमपेभ्यो देवेभ्य.स्समर्पयेत्।)
• असोमपाश्च ये देवा यज्ञभाग.विवर्जिताः। तेषा.मन्नं प्रदास्यामि विकिरं वैश्वदेवकम्।।
26) विकिर पिण्ड प्रदानम्
• अवशिष्टेन तृतीयभागेन विकिर पिण्डं विरच्य,
>>(प्राचीनावीती) – नैर्ऋत्यां प्रोक्ष्य। दक्षिणाग्रान् दर्भानास्तीर्य। तेषु तिलोदकं निनीय।
ये अग्निदग्धा येनग्निदग्धा ये वा जाताः कुले मम। भूमौ दत्तेन पिंडेन तृप्ता यान्तु परां गतिम्।।
• अग्निदग्धेभ्यः- अनग्नि दग्धेभ्यः- अस्मत्.कुल.प्रसूत.मृतेभ्यः - अयं विकिरपिण्ड.स्स्वधा नमः।। • एतद्व.स्तिलोदकम्।।
• भुक्तपात्रा.दुच्छिष्टभाग्भ्यः - अन्नं प्रदीयताम्।।
• (भोक्तारः-) यजमान कुले जाताः दासा दास्योन्नकांक्षिणः। ते सर्वे तृप्ति.मायान्तु मया दत्तेन भूतले।। इति हुतशेषञ्च भूमौ निक्षिपेत्।।
---------
>> (सव्यम्)
अमृतापिधानमसि।
• इत्युत्तरापोशनं पितृस्थाने, वैश्वदेवस्थाने च दत्त्वा।
श्रद्धायां प्राणे निविश्यामृत हुतम्। प्राण.मन्नेनाप्यायस्व।
श्रद्धाया.मपाने निविश्यामृत हुतम्। अपान. मन्नेनाप्यायस्व।
श्रद्धायाँ व्याने निविश्यामृत हुतम्। व्यान मन्नेनाप्यायस्व।
श्रद्धाया.मुदाने निविश्यामृत हुतम्। उदान. मन्नेनाप्यायस्व।
श्रद्धाया समाने निविश्यामृत हुतम्। समान.मन्नेनाप्यायस्व।।
अङ्गुष्ठमात्र पुरुषोङ्गुष्ठञ्च समाश्रितः। ईश.स्सर्वस्य जगत प्रभु प्रीणाति विश्वभुक्।।
• रौरवेपुण्यनिलये पद्मार्बुद.निवासिनाम्। अर्थिना.मुदकं दत्त.-मक्षय्य.मुपतिष्ठतु।।
----
27) पितृ-पितामह- प्रपितामह- पिण्ड प्रदानम्-
• ओम् ओम् ओम् ... पुण्यतिथौ,
>>(प्राचीनावीती) (अस्मत्) पितुः (मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्नश्राद्धीयं सतिलोदक पिण्डप्रदानं
>> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।।
• पक्वात्, चतुर्थभाग (माग्नेय) मादाय, भाण्ड शिष्टेनान्नेन मिश्रयित्वा, पिण्डं कृत्वा, दक्षिणाभिमुखो गोमयेनानुलिप्य,
ॐ अपां मेध्यं यज्ञिय सदेव शिव.मस्तु मे। आच्छेत्ता वो मा रिषं जीवानि शरद.श्शतम्। (इत्याच्छिनत्ति।)
(इति पिण्डप्रदान स्थले तृणादिकं निरस्य) अप उपस्पृश्य, अद्भि.रवोक्ष्य।।
ॐ अपहता असुरा रक्षासि पिशाचा वेदिषदः।
(इति भूमि.मुल्लिख्य, अप उपस्पृश्य।)
शुन्धन्तां पितरः। {शुन्धन्तां मातरः}
(इति दर्भैः पुनः प्रोक्षति।)
ओम् आयन्तु पितरो मनोजवसः।
सकृदाच्छिन्नं बर्हि.रूर्णामृदु। स्योनं पितृभ्यस्त्वा भरा.म्यहम्। अस्मि‘2’न्थ्सीदन्तु मे पितर.स्सोम्याः। पितामहाः प्रपितामहाश्चानुगै. स्सह।। (दक्षिणाग्रान् दर्भानास्तीर्य।।)
मार्जयन्तां पितरः। {
मार्जयन्तां मातरः।}
इति तिलोदकं निनीय,
• (सव्यम्) जान्वाच्य
• 1) पितृपिण्डम् –
एतत्ते तत, ... गोत्र, ... शर्मन्न्, वसुरूप ये च त्वा.मनु।
• (अस्मत्) पित्रे, ... गोत्राय, ... शर्मणे, वसुरूपाय,
• ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः।
• तस्मै ते स्वधा नमः। गयायां दत्त.मस्तु।।
{•एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे, याश्च त्वा मनु।
मात्रे, ... गोत्रायै, ... दायै, वसुरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।।
ॐ पितृभ्य.स्स्वधाविभ्य.स्स्वधा नमः। पितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः। प्रपितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः।।
ॐ अत्र पितरो यथाभागं मन्धध्वम्।
अक्ष.न्पितरोमीमदन्त पितरोतीतृपन्त पितरोमीमृजन्त पितरः।
ये समाना.स्समनसः। पितरो यमराज्ये। तेषाँ लोक.स्स्वधा नमः। यज्ञो देवेषु कल्पताम्।
ये सजाता.स्समनसः। जीवा जीवेषु मामकाः। तेषा श्री.र्मयि कल्पताम्। अस्मि.न्लोके शत समाः।
>> (सव्यम्)
वीर.न्धत्त पितरः। पिण्डशेषमाघ्राय।
आचम्य,
>> प्राचीनवीती
मार्जयन्तां मम पितरः। {मार्जयन्तां मम मातरः।} इति पिण्डे तिलोदकं निनीय।
28) आञ्जनाभ्यञ्जने
• घृताञ्जनम्
• एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप आंक्ष्व।
{ एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे आंक्ष्व।}
अभ्यञ्जनम्
• एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप अभ्यंक्ष्व।
• एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे अभ्यंक्ष्व।
• आंक्ष्वाभ्यंक्ष्व पितरः।
• अतोन्यत्पितरो मा योष्ट। {• अतोन्यन्मातरो मा योष्ट।}
• एतानि वः पितरो वासासि। इति वाससो दशां छित्त्वा, पिण्डेषु निदधाति।।
ओम् ऊर्जं वहन्ती.रमृतं घृतं पयः कीलालं परिस्रुतम्। स्वधा स्थ तर्पयत मे पितॄन्।
तृप्यत तृप्यत तृप्यत। (तर्पणोदकपात्रं पिण्डाना.मुपरि निक्षिप्य।।)
29) पिण्डनमस्काराः
>> (सव्यम्) नमस्कारा एते मन्त्राः।
ॐ नमो व पितरो रसाय नमो व पितर.श्शुष्माय नमो व पितरो जीवाय नमो व पितर.स्स्वधायै नमो व पितरो मन्यवे नमो व पितरो घोराय, पितरो नमो वो- य एतस्मि.न्लोके स्थ- युष्मास्तेनु, येस्मिन्लोके मान्तेनु, य एतस्मिन्लोके स्थ यूय.न्तेषां वसिष्ठा भूयास्त, येस्मिन्लोकेह न्तेषां वसिष्ठो भूयासम्।।
गृहान्न पितरो दत्त। सदो व पितरो देष्म। (प्रार्थनम्)
ॐ पुनर्न पितरो मनो ददातु दैव्यो जनः। जीवँ व्रात सचेमहि।
>>(प्राचीनावीती)
उत्तिष्ठत पितर प्रेतशूरा यमस्य पन्था.मनवेता पुराणम्। धत्ता.दस्मासु द्रविणँ यच्च भद्रं प्रणो ब्रूता.द्भागधा.न्देवतासु। (इति पिण्डानुत्थाप्य पात्रे निदधाति।)
ॐ परेत पितर.स्सोम्या- गम्भीरै पथिभि पूर्व्यैः। अथा पितॄ.न्थ्सुविदत्रा अपीत यमेन ये सधमादं मदन्ति।।
प्रवाहणीय.मृक्- इति प्रवाहयति।
मनो न्वाहुवामहे नाराशसेन स्तोमेन पितृणाञ्च मन्मभिः। आ न एतु मन पुन क्रत्वे दक्षाय जीवसे।
• ज्योक्च सूर्यन्दृशे।। (अनेन आदित्यदर्शनम्)
>> (सव्यम्)
30) पिण्डपूजा
• .... अस्यां पुण्यतिथौ, कुलाभिवृद्ध्यर्थं, पिण्डपूजां करिष्ये।
• पिण्ड पितृदेवताभ्यो नमः। दर्भ-पत्र-कुश-तिल-यवाक्षतान् समर्पयामि।
• ततः पिण्डनैवेद्यं कुर्यात्। यथाशक्ति दक्षिणां दद्यात्। • गय गय गय ।।
• ... अद्य पूर्वोक्त एवंगुण विशेषण विशिष्टाया,मस्यां पुण्यतिथौ
>>(प्राचीनावीती) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् - पितरं ... गोत्रं, ... शर्माणम्, वसुरूपम्,
{अस्मत् - मातरम् ... गोत्रां, ... दाम्, वसुरूपाम्
• उद्दिश्य, मया दत्तः पिण्डः, गया पिण्डसदृशो भवत्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयापिण्ड सदृशो भवतु।।
>> (सव्यम्) सर्वे बन्धवो नमस्कुर्युः। (लौकिको नमस्कारः)।
• पिण्डमुद्वासयिष्ये। (प्रतिवचनम्-) उद्वासय।।
>>(प्राचीनावीती) पिण्डमुद्वास्य, गोभ्यो दद्यात्, अफ्सु वा प्रक्षिपेत्, अग्नौ वा दह्यात्।
>> (सव्यम्) - अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका। पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः।।
• अहं काशीं गमिष्यामि तत्रैव निवसा.म्यहम्। इति ब्रुवाण.स्सततं काशीवासफलं लभेत्।।
• शमीपत्र प्रमाणेन पिण्डं दद्या.द्गयाशिरे। उद्धरेत् सप्त गोत्राणां कुल.मेकोत्तरं शतम्।।
• पिण्डस्थाने शान्ति.रस्तु। पुष्टि.रस्तु। तुष्टि.रस्तु। वृद्धि.रस्तु। अविघ्न.मस्तु। आयुष्य.मस्तु। आरोग्य.मस्तु। (इति कूर्चेन प्रोक्ष्य)
• स्वस्ति शोभनम्। स्वस्थाने वासः।
31) सकृदाच्छिन्न बर्हिः प्रहरणम्
अथ औपासन देशं गच्छति।
यदन्तरिक्षं पृथिवी.मुत द्याँ यन्मातरं पितरँ वा जिहिसिम। अग्नि.र्मा तस्मा.देनसो गार्हपत्य प्रमुञ्चतु दुरिता यानि चकृम करोतु मा.मनेनसम्।।
• इत्यग्निमुपस्थाय, सकृदाच्छिन्न.मग्नौ प्रहरति।
देवाः पितरः। वैश्वदेव प्रसादोस्तु।।
>>(प्राचीनावीती)
पितरो देवाः।
• पितृप्रसादोस्तु।। (मातृ प्रसादोस्तु।।)
• देव.पितृप्रसादेन, अस्मद्गोत्रं वर्धताम्। (प्रतिवचनम्-) स्वस्ति वर्धतां गोत्रम्।
• देवाश्च पितरः - स्वस्तीति ब्रूत। • (प्रतिवचनम्- ) ब्रूहि स्वस्ति।।
• रुद्र संज्ञिका विश्वेदेवाः - मया दत्तं श्राद्ध.मन्नम्, अक्षय्योदक.मस्त्विति ब्रूत। (प्रतिवचनम्- ) अस्त्वक्षय्योदकम्।।
>>(प्राचीनावीती)
• अस्मत् पितः {मातः } मया दत्तं श्राद्ध.मन्नम्- अक्षय्योदक.मस्त्विति ब्रूत।
• (प्रतिवचनम्) अस्त्वक्षय्योदकम्।।
>> (सव्यम्) स्वाहां वाचयिष्ये। (प्रतिवचनम्- ) वाच्यताम्।।
ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः। अन्तर्हृदा मनसा पूयमानाः।
घृतस्य धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्।
तस्मि.न्थ्सुपर्णो मधुकृ.त्कुलायी भज.न्नास्ते मधु देवताभ्यः। तस्यासते हरय.स्सप्त तीरे स्वधा.न्दुहाना अमृतस्य धाराम्।। (कूर्चग्रन्थिं विस्रस्य)
>>(प्राचीनावीती) पित्रे (मात्रे) स्वधोच्यताम्। • अस्तु स्वधा।(इति भूमौ जलंसिञ्चति।)
• दक्षिणादानम्, रजतदानम्
>> (सव्यम्) संपद्यन्तां संपद्यन्ताम्। प्रीयन्तां विश्वे देवाः।।
• उपस्थितेभ्यो ब्राह्मणेभ्यो दक्षिणाः पान्तु। (प्रतिवचनम्-) पान्तु दक्षिणाः।
ओम् वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मध्व पिबत मादयध्वं तृप्ता यात पथिभि र्देवयानैः।।
>>(प्राचीनावीती) उत्तिष्ठत पितरः। (इति पितॄ.नुत्थापयति।)
>> (सव्यम्) अनूत्तिष्ठन्तु विश्वे देवाः।
ओम् आ मा वाजस्य प्रसवो जगम्या.दा द्यावापृथिवी विश्वशम्भू। आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्।। इति प्रदक्षिणीकृत्य।।
32) आशीर्वचनम्
कर्तृवचनम् - भोक्तृवचनम्
• दातारो नोभि वर्धन्ताम् - दातारो वोभिवर्धन्ताम्।।
• वेदा,स्सन्ततिरेव नः। - वेदा.स्सन्तति रेव वः।।
• श्रद्धा च नो मा व्यगमत्। - श्रद्धा च वो मा व्यगमत्।।
• बहुदेयञ्च नोस्तु। - बहुदेयञ्च वोस्तु।।
• अन्नञ्च नो बहु भवेत्। - अन्नञ्च वो बहु भवेत्।।
• अतिथीश्च लभेमहि। - अतिथीश्च लभध्वम्।।
• याचितारश्च न.स्सन्तु। - याचितारश्च व.स्सन्तु।।
• मा च याचिष्म कञ्चन। - मा च याचिढ्वं कञ्चन।।
ॐ सत्या एता आशिषस्सन्तु।
• अन्नशेष किं क्रियताम्? - इष्टै.स्सह भुज्यताम्।।
ओम् स्वादुषसद पितरो वयोधा कृच्छ्रेश्रित.श्शक्तीवन्तो गभीराः। चित्रसेना इषुबला अमृध्रा.-स्सतोवीरा उरवो व्रातसाहाः।
ब्राह्मणास पितर.स्सोम्यास.-श्शिवे नो द्यावापृथिवी अनेहसा। पूषा न पातु दुरिता.दृतावृधो- रक्षा माकि.र्नो अघशस ईशत।
ओम् इहैवस्तं मा वियोष्टं विश्व.मायु.र्व्यश्नुतम्। क्रीडन्तु पुत्रै. र्नप्तृभि.-र्मोदमानौ स्वे गृहे।
सर्वस्याप्त्यै सर्वस्य जित्यै सर्व.मेव तेनाप्नोति सर्व.ञ्जयति।।
ॐ शतमानं भवति शतायु पुरुष श्शतेन्द्रिय. आयुष्येवेन्द्रिये प्रतितिष्ठति।
• आयु प्रजान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्तु तथा राज्यं प्रीत्या नॄणां पितामहाः।।
• अद्य मे सफलं जन्म भवत्पादाभिवन्दनात्। अद्य मे वंशजा.स्सर्वे याता वोनुग्रहा.द्दिवम्।। • सर्वं संपूर्णम्।।
---------------
>>(प्राचीनावीती) मयाचरितं, (अस्मत्) - पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्नश्राद्धीयम्, अग्नौकरण- ब्राह्मण भोजन- पिण्डप्रदानाख्यं कर्मत्रयं, यथोक्तं यथाशास्त्रीयं यथाकालं गयाश्राद्ध फलद.मस्त्विति भवन्तो ब्रुवन्तु।
• (प्रतिवचनम्-) यथोक्त.मस्तु।
ॐ कया न.श्चित्र आभुव.दूती सदावृध स्सखा। कया शचिष्ठया वृता।।
ॐ वामदेवाय नमो ज्येष्ठाय नम.श्श्रेष्ठाय नमो रुद्राय नम कालाय नम कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम स्सर्वभूतदमनाय नमो मनोन्मनाय नमः।।
• आशीर्वचनम् - वंशाभिवृद्धिरस्तु। गोत्राभिवृद्धिरस्तु।
----
1 (विच्छिन्नाग्नि) पुनस्सन्धानम्
2 चतुष्पात्र प्रयोगः
3 उपवासाकरण प्रायश्चित्त होमः
4 पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः
6 श्राद्धप्रयोगः श्राद्ध सङ्कल्पः
7 मण्डलार्चनम्
8 पादप्रक्षालनम्
9 श्राद्ध स्थले प्रधान कर्मारम्भः
10 वैश्वदेवार्चनस्य आरम्भः
11 वैश्वदेव आह्वानम्
12 वैश्वदेवस्थाने अर्घ्य प्रदानम्
13 वैश्वदेवार्चनम्
14 पितृस्थाने अर्चनारम्भः
15 पितृस्थाने आह्वानम्
16 पितृस्थाने अर्चनम्
17 अग्नौ करणम् (होमः)
18 पक्वान्न विनियोग चित्रम्
19 अन्नसूक्त पठन सङ्कल्पः
20 परिवेषण विधिः
21 विकिरपिण्ड प्रदानम्
22 पिण्ड प्रदानम्
23 पिण्डनमस्काराः
24 पिण्डपूजा
25 आशीर्वचनम्
==00==
|