Already Registered? Login
विष्णुषट्पदी स्तोत्रम् अविनयमपनय विष्णोच दमय मन.श्शमय विषयमृगतृष्णाेम् । भूतदयां विस्तारय तारय संसारसागरतः ।। 1 दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ।। 2 सत्यपि भेदापगमे नाथ तवाहं न मामकीन.स्त्वम् सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ।। 3 उद्धृतनग नगभि.दनुज दनुजकुलामित्र मित्रशशिदृष्टेम दृष्टेन भवति प्रभवति न भवति किं भवतिरस्कारः? 4 मत्स्यादिभि.रवतारै.रवतारवतावता सदा वसुधाम्। परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्।। 5 दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ।। 6 नारायण करुणामय शरणं करवाणि तावकौ चरणौ। इति षट्पदी मदीये वदनसरोजे सदा वसतु ।। इति श्रीमच्छंकराचार्यविरचितं षट्पदीस्तोत्रं सम्पूर्णम्। ==00==