शिवपूजा (लघुपूजा - सद्योजात विधानम् - यजुर्वेदपद्धतिः)
... एवंगुण विशेषण विशिष्टाया मस्यां शुभतिथौ श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थं,
. . . गोत्रस्य, . . नक्षत्रे, ... राशौ जातस्य, ... नामधेयस्य, धर्मपत्नी समेतस्य, सकुटुम्बस्य सपरिवारस्य,
मम क्षेम स्थैर्य वीर्य विजय - अभय – ओं नमश्शिवाय।आयु रारोग्य - ऐश्वर्य समृद्ध्यर्थं,
धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं,
श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं,
श्री परमेश्वरस्य यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां
सद्योजात विधानेन यथाशक्ति करिष्ये।।
सद्योजातं प्रपद्यामि – ओं नमश्शिवाय। ध्यानं समर्पयामि, आवाहयामि।
सद्योजाताय वै नमो नमः – ओं नमश्शिवाय। आसनं समर्पयामि
भवेभवे न – ओं नमश्शिवाय। पादारविन्दयोः पाद्यं समर्पयामि।
अतिभवे भवस्व माम् - ओं नमश्शिवाय। हस्तयोः अर्घ्यं समर्पयामि।
भवोद्भवाय नमः – ओं नमश्शिवाय। मुखे शुद्धाचमनं समर्पयामि।
वामदेवाय नमः – ओं नमश्शिवाय। शुद्धोदक स्नानं समर्पयामि।
ज्येष्ठाय नमः – ओं नमश्शिवाय। वस्त्रं समर्पयामि।
श्रेष्ठाय नमः - ओं नमश्शिवाय। उपवीतं समर्पयामि।
रुद्राय नमः - ओं नमश्शिवाय। आभरणं समर्पयामि।
कालाय नमः - ओं नमश्शिवाय। गन्धं समर्पयामि।
कल विकरणाय नमः - ओं नमश्शिवाय। अक्षतान् समर्पयामि।
बल विकरणाय नमः - ओं नमश्शिवाय। पुष्पं समर्पयामि।
बलाय नमः - ओं नमश्शिवाय। धूपमाघ्रापयामि।
बल प्रमथनाय नमः - ओं नमश्शिवाय। दीपं सन्दर्शयामि।
सर्वभूत दमनाय नमः – ओं नमश्शिवाय। नैवेद्यं निवेदयामि।
मनोन्मनाय नमः - ओं नमश्शिवाय। तांबूलं समर्पयामि।
अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य स्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्र रूपेभ्यः।
ओं नमश्शिवाय। - नीराजनं सन्दर्शयामि।
तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्र प्रचोदयात्। मन्त्रपुष्पं समर्पयामि।
ईशान स्सर्व विद्याना मीश्वर स्सर्वभूतानां ब्रह्माधिपति र्ब्रह्मणो धिपति र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्।
प्रदक्षिण नमस्कारान् समर्पयामि।।
• यस्यस्मृत्या च . . . . . . . . . . . . . . तमच्युतम्।
• मन्त्रहीनं क्रियाहीनं . . . . तदस्तुते।
अनया पूजया भगवान् सर्वात्मकः, श्री परमेश्वर स्सुप्रीणातु।।
एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।।
मध्ये स्वर वर्ण ध्यान नियम लोप प्रायश्चित्तार्थं नामत्रयजपं करिष्ये।।
अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः।
अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः।
अच्युतान्त गोविन्देभ्यो नमः।।
• कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।।
• यदक्षर पदभ्रष्टं मात्राहीन न्तु यद्भवेत्।
तत्सर्वं क्षम्यतां देव नारायण नमोस्तुते।।
==00==
|