1
वर्णाः
1.1 पाणिनीय शिक्षा - वर्णाः
अथ शिक्षां प्रवक्ष्यामि पाणिनीय मतं यथा।
शास्त्रानुपूर्वं तद्विद्या - द्यथोक्तं लोकवेदयोः।। 1
प्रसिद्धमपि शब्दार्थ - मविज्ञात मबुद्धिभिः।
पुन र्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्।। 2
त्रिषष्टि श्चतुष्षष्टिर्वा वर्णा श्शंभुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ता स्स्वयंभुवा।। 3
स्वरा विंशति रेकश्च स्पर्शानां पञ्च विंशतिः।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमास्स्मृताः।। 4
अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ।
दुस्स्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च।। 5
-----
1.2 वर्णमाला
स्वरा विंशति रेकश्च। (21)
अ, आ, आ3 3
इ, ई, ई3 3
उ, ऊ, ऊ3 3
ऋ, ॠ, ॠ3 3
ऌ, 1
ए, ए3 2
ऐ, ऐ3 2
ओ, ओ3 2
औ, औ3 2 (21)
स्पर्शानां पञ्च विंशतिः। (25) 5
क वर्गः क, ख, ग, घ, ङ 5
च वर्गः च, छ, ज, झ, ञ 5
ट वर्गः ट, ठ, ड, ढ, ण 5
त वर्गः त, थ, द, ध, न 5
प वर्गः प, फ, ब, भ, म 5 (25)
यादयश्च स्मृताह्यष्टौ (8)
अन्तस्थाः य, र, ल, व 4
ऊष्माणः श, ष, स, ह 4 (8)
चत्वारश्च यमास्मृताः। 4
यमाः - पलिक्क्नीः, चक्ख्नतुः, अग्ग्निः, घ्घ्नन्ति (4)
अनुस्वारो विसर्गश्च। 2
अनुस्वारः, विसर्जनीयः (विसर्गः) अं, अ (2)
क पौ चापि पराश्रितौ। (2)
जिह्वामूलीयः, उपध्मानीयः (क), (प) (2)
दुस्पृष्टश्चेति विज्ञेयः। (1)
दुस्स्पृष्टः ळ (1)
ऌकार प्लुत एव च। (1) ऌ3 (1)
आहत्य 64
-----
1.3 प्रत्याहार सूत्राणि
1 अइउण् अ- इ- उ (ण्)
2 ऋलृक् ऋ- ऌ (क्)
3 एओङ् ए- ओ (ङ्)
4 ऐऔच् ऐ- औ (च्)
5 हयवरट् ह- य- व- र (ट्)
6 लण् ल (ण्)
7 ञमङणनम् ञ- म- ङ- ण- न (म्)
8 झभञ् झ- भ (ञ्)
9 घढधष् घ- ढ- ध (ष्)
10 जबगडदश् ज- ब- ग- ड- द (श्)
11 खफछठथचटतव् ख- फ- छ- ठ- थ- च- ट- त (व्)
12 कपय् क- प (य्)
13 शषसर् श- ष- स (र्)
14 हल् ह (ल्)
इति माहेश्वराणि सूत्राणि, अणादि संज्ञार्थानि।।
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकाम.स्सनकादिमुख्या-नेतद्विमर्शश्शिवसूत्रजालम्।।
----
1.4 स्थान प्रयत्न विवेकः
स्थानानि
• अकुह विसर्जनीयानां कण्ठः।
• इचु यशानां तालु।
• ऋटु रषाणां मूर्धा।
• ऌतु लसानां दन्ताः।
• उपूपध्मानीयाना मोष्ठौ।
• ञमङणनानां नासिका च।
• एदैतोः कण्ठ तालु।
• ओदौतोः कण्ठोष्ठम्।
• वकारस्य दन्तोष्ठम्।
• जिह्वामूलीयस्य जिह्वामूलम्।
• नासिकानुस्वारस्य। इति स्थानानि।
1.5 प्रयत्नः
• यत्नो द्विधा। आभ्यन्तरो बाह्यश्च।
o आभ्यन्तर प्रयत्न(अद्य) श्चतुर्धा।
o स्पृष्टे षत्स्पृष्ट विवृत संवृत भेदात्।
o तत्र स्पृष्टं प्रयत्नं स्पर्शानाम्।
o ईषत्स्पृष्ट मन्तस्थानाम्।
o विवृतमूष्मणां स्वराणां च।
o ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव।
• बाह्य प्रयत्नस्त्वेकादशधा-
o विवार स्संवार श्श्वासो नादो घॆषो घॆषो ल्प प्राणो महाप्राण उदात्तोनुदात्तः स्वरितश्चेति।।
o खयां यमाः खयः कः पौ विसर्गः शर एव च।
o एते श्वासानुप्रदाना अघोषाश्च विवृण्वते।।
o कण्ठ, मन्येतु घोषास्स्यु.स्संवृता नादभागिनः।
o अयुग्मा वर्गयमगा यणश्चाल्पासव स्स्मृता।।
(वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे, मध्ये यमो नाम पूर्वसदृशो वर्ण प्रातिशाख्ये प्रसिद्धः।
पलिक्क्नीः। चख्ख्नतुः। अग्ग्निः। घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः।
तत्र वर्णानां प्रथम द्वितीया खय, स्तथा तेषामेव यमाः, जिह्वामूलीयोपध्मानीयौ, विसर्गश्शषसा श्चेत्येतेषां विवारः श्वासोघोषश्च।
अन्येषां तु संवारो नादो घोषश्च।
वर्गाणां प्रथम तृतीयपञ्चमाः प्रथम तृतीय यमौ यरलवाश्चाल्पप्राणाः।
अन्ये महाप्राणा इत्यर्थः।
बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञाया मनुपयुक्त स्तथाप्यान्तरतम्य परीक्षाया मुपयोक्ष्यन्त इति बोध्यम्।
----
1.6 संग्रहः
• कादयो मावसानास्स्पर्शाः।
• यरलवा अन्तस्थाः।
• शषसहा ऊष्माणः।
• अच स्स्वराः।
• क प इति कपाभ्यां प्रागर्धविसर्ग सदृशौ जिह्वामूलीयोपध्मानीयौ।
• अं अः इत्यचः परावनुस्वार विसर्गौ।।
इति स्थान प्रयत्न विवेकः।।
-----
1.7 वर्णानां - स्थान प्रयत्नपट्टिका
वर्णः स्थानम् आभ्यन्तर यत्नः बाह्यप्रयत्नः
अ कण्ठः विवृतम्, संवृतम्
आ कण्ठः विवृतम्
इ तालु विवृतम्
ई तालु विवृतम्
उ औष्ठौ विवृतम्
ऊ औष्ठौ विवृतम्
ऋ मूर्धा विवृतम्
ॠ मूर्धा विवृतम्
ऌ दन्ताः विवृतम्
ए कण्ठः, तालु विवृतम्
ऐ कण्ठः, तालु विवृतम्
ओ कण्ठः, ओष्ठौ विवृतम्
औ कण्ठः, ओष्ठौ विवृतम्
अं नासिका विवारः श्वासः, अघोषः
अः कण्ठः विवारः श्वासः, अघोषः, महाप्राणः
क कण्ठः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
ख कण्ठः स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ग कण्ठः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
घ कण्ठः स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ङ कण्ठः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
च तालु स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
छ तालु स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ज तालु स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
झ तालु स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ञ तालु स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
ट मूर्धा स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
ठ मूर्धा स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ड मूर्धा स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
ढ मूर्धा स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ण मूर्धा स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
त दन्ताः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
थ दन्ताः स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
द दन्ताः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
ध दन्ताः स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
न दन्ताः स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
प औष्ठौ स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
फ औष्ठौ स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
ब औष्ठौ स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
भ औष्ठौ स्पृष्टम् विवारः. श्वासः, अघोषः, महाप्राणः
म औष्ठौ स्पृष्टम् विवारः. श्वासः, अघोषः, अल्पप्राणः
य तालु ईषत्स्पृष्टम् संवारः, नादः, घोषः, अल्पप्राणः
र मूर्धा ईषत्स्पृष्टम् संवारः, नादः, घोषः, अल्पप्राणः
ल दन्ताः ईषत्स्पृष्टम् संवारः, नादः, घोषः, अल्पप्राणः
व दन्ताः, औष्ठौ ईषत्स्पृष्टम् संवारः, नादः, घोषः, अल्पप्राणः
श तालु विवृतम् विवारः, श्वासः, अघोषः, महाप्राणः
ष मूर्धा विवृतम् विवारः, श्वासः, अघोषः, महाप्राणः
स दन्ताः विवृतम् विवारः, श्वासः, अघोषः, महाप्राणः
ह कण्ठः विवृतम् विवारः, श्वासः, अघोषः, महाप्राणः
क जिह्वामूलम् विवारः, श्वासः, अघोषः, महाप्राणः
ख जिह्वामूलम् विवारः, श्वासः, अघोषः, महाप्राणः
प औष्ठौ विवारः, श्वासः, अघोषः, महाप्राणः
फ औष्ठौ विवारः, श्वासः, अघोषः, महाप्राणः
ळ मूर्धा, दन्ताः संवारः, नादः, घोषः, अल्पप्राणः
|