136

                        
                        
यम तर्पण विधिः (Yama Tarpana Vidhi - Naraka Chaturdashi) यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च काल:। भूताधिपो दत्तकृतानुसारी कृतान्त एतद्दशभिर्जपन्ति।। यमतर्पणविधिः। (इसी प्रकार निम्नलिखित मन्त्र-वाक्यों को पढते हुए चौदह यमों के लिये भी पितृतीर्थ से ही तीन-तीन अञ्जलि तिल सहित जल दें) ॐ यमाय नम:। ॐ धर्मराजाय नम:। ॐ मृत्यवे नम:। ॐ अन्तकाय नम:। ॐ वैवस्वताय नमः। ॐ कालाय नम:। ॐ सर्वभूतक्षयाय नम:। ॐ औदुम्बराय नम:। ॐ दध्नाय नम:। ॐ नीलाय नम:। ॐ परमेष्ठिने नम:। ॐ वृकोदराय नम:। ॐ चित्राय नम:। ॐ चित्रगुप्ताय नम:। .. श्रीपरमेश्वरप्रीत्यर्थं, अस्यां नरकचतुर्दश्यां कृताभ्यङ्गस्नानः पापप्रणाशनद्वारा यमदेवताप्रीत्यर्थंस वर्षेवर्षे कर्तव्य - एतद्वर्षप्रयुक्त - यमतर्पणं करिष्ये। । (दक्षिणामुखः पितृतीर्थेन सतिलं जलं त्रिस्त्रिः दद्यात्) 1.यमं तर्पयामि। यमं तर्पयामि। यमं तर्पयामि। 2. धर्मराजं तर्पयामि। धर्मराजं तर्पयामि। धर्मराजं तर्पयामि। 3. मृत्युं तर्पयामि। मृत्युं तर्पयामि। मृत्युं तर्पयामि। 4. अन्तकं तर्पयामि। अन्तकं तर्पयामि। अन्तकं तर्पयामि। 5. वैवस्वतं तर्पयामि। वैवस्वतं तर्पयामि। वैवस्वतं तर्पयामि। 6. कालं तर्पयामि। कालं तर्पयामि। कालं तर्पयामि। 7. सर्वभूतक्षयकरं तर्पयामि। सर्वभूतक्षयकरं तर्पयामि। सर्वभूतक्षयकरं तर्पयामि। 8. औदुम्बरं तर्पयामि। औदुम्बरं तर्पयामि। औदुम्बरं तर्पयामि। 9. दध्नं तर्पयामि। दध्नं तर्पयामि। दध्नं तर्पयामि। 10. नीलं तर्पयामि। नीलं तर्पयामि। नीलं तर्पयामि। 11. परमेष्ठिनं तर्पयामि। नीलं तर्पयामि। नीलं तर्पयामि। 12. वृकोदरं तर्पयामि। वृकोदरं तर्पयामि। वृकोदरं तर्पयामि। 13. चित्रं तर्पयामि। चित्रं तर्पयामि। चित्रं तर्पयामि। 14. चित्रगुप्तं तर्पयामि। चित्रगुप्तं तर्पयामि। चित्रगुप्तं तर्पयामि। अनेन यमतर्पणेन भगवान् सर्वात्मकः यमः प्रीयताम्।। ----------- Yama Praarthanam (Savitri Krutam) from Devi Bhagavatam सावित्र्युवाच तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ ७ ॥ धर्मं सूर्यस्सुतं प्राप धर्मराजं नमाम्यहम्। समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ ८ ॥ अतो यन्नाम शमन-मिति तं प्रणमाम्यहम् । येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ९ ॥ कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् । बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ १० ॥ नमामि तं दण्डधरं य-श्शास्ता सर्वजीविनाम् । विश्वं च कलयत्येव यस्सर्वेषु च सन्ततम् ॥ ११ ॥ अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ १२ ॥ जीवानां कर्मफलद-स्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ १३ ॥ पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ १४ ॥ यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ १५ ॥ यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १६ ॥ यमात् तस्य भयं नास्ति सर्वपापात् प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ १७ ॥ ---- इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नाम एकत्रिंशोऽध्यायः ॥ ३१ ॥ ==00==