Already Registered? Login
Ramayana Yuddha Kanda 6. युद्धकाण्डः • युद्धकाण्डे सर्गः 1 हनूमत्प्रशंसनम् 9 • युद्धकाण्डे सर्गः 2 रामप्रोत्साहनम् 11 • युद्धकाण्डे सर्गः 3 लङ्कादुर्गादिकथनम् 15 • युद्धकाण्डे सर्गः 4 रामाभिषेणनम् 19 • युद्धकाण्डे सर्गः 5 रामविप्रलम्भः 36 • युद्धकाण्डे सर्गः 6 रावणमन्त्रणम् 39 • युद्धकाण्डे सर्गः 7 सचिवोक्तिः 42 • युद्धकाण्डे सर्गः 8 प्रहस्तादिवचनम् 45 • युद्धकाण्डे सर्गः 9 विभीषणसमालोचनम् 48 • युद्धकाण्डे सर्गः 10 विभीषणपथ्योपदेशः 52 • युद्धकाण्डे सर्गः 11 द्वितीयमन्त्राधिवेशः 56 • युद्धकाण्डे सर्गः 12 कुम्भकर्णमतिः 61 • युद्धकाण्डे सर्गः13 महापार्श्ववचोभिनन्दनम् 66 • युद्धकाण्डे सर्गः 14 प्रहस्तविभीषणविवादः 69 • युद्धकाण्डे सर्गः 15 इन्द्रजिद्विभीषणविवादः 74 • युद्धकाण्डे सर्गः 16 विभीषणाक्रोशः 77 • युद्धकाण्डे सर्गः17 विभीषणशरणागतिनिवेदनम् 81 • युद्धकाण्डे सर्गः 18 विभीषणसङ्ग्रहनिर्णयः 91 • युद्धकाण्डे सर्गः 19 समुद्रतरणोपायः 96 • युद्धकाण्डे सर्गः 20 सुग्रीवभेदनोपायः 102 • युद्धकाण्डे सर्गः 21 समुद्रसङ्क्षोभः 107 • युद्धकाण्डे सर्गः 22 सेतुबन्धः 112 • युद्धकाण्डे सर्गः 23 लङ्काभिषेणनम् 123 • युद्धकाण्डे सर्गः 24 रावणप्रतिज्ञा 126 • युद्धकाण्डे सर्गः 25 शुकसारणप्रेषणम् 132 • युद्धकाण्डे सर्गः 26 कपिबलावेक्षणम् 137 • युद्धकाण्डे सर्गः 27 हरादिवानर पराक्रमाख्यानम् 143 • युद्धकाण्डे सर्गः 28 मैन्दादिपराक्रमाख्यानम् 151 • युद्धकाण्डे सर्गः 29 शार्दूलादिचारप्रेषणम् 156 • युद्धकाण्डे सर्गः 30 वानरबलसङ्ख्यानम् 161 • युद्धकाण्डे सर्गः 31 विद्युज्जिह्वमायाप्रयोगः 166 • युद्धकाण्डे सर्गः 32 सीताविलापः 172 • युद्धकाण्डे सर्गः 33 सरमा- समाश्वासनम् 179 • युद्धकाण्डे सर्गः 34 रावणनिश्चयकथनम् 184 • युद्धकाण्डे सर्गः 35 माल्यवदुपदेशः 188 • युद्धकाण्डे सर्गः 36 पुरद्वाररक्षा 193 • युद्धकाण्डे सर्गः 37 रामगुल्मविभागः 196 • युद्धकाण्डे सर्गः 38 सुवेलारोहणम् 201 • युद्धकाण्डे सर्गः 39 लङ्कादर्शनम् 204 • युद्धकाण्डे सर्गः 40 रावणसुग्रीवनियुद्धम् 208 • युद्धकाण्डे सर्गः 41 अङ्गददूत्यम् 213 • युद्धकाण्डे सर्गः 42 युद्धारम्भः 227 • युद्धकाण्डे सर्गः 43 द्वन्द्वयुद्धम् 233 • युद्धकाण्डे सर्गः 44 निशायुद्धम् 239 • युद्धकाण्डे सर्गः 45 नागपाशबन्धः 245 • युद्धकाण्डे सर्गः 46 सुग्रीवाद्यनुशोकः 249 • युद्धकाण्डे सर्गः 47 नागबद्ध रामलक्ष्मण प्रदर्शनम् 256 • युद्धकाण्डे सर्गः 48 सीताश्वासनम् 259 • युद्धकाण्डे सर्गः 49 रामनिर्वेदः 264 • युद्धकाण्डे सर्गः 50 नागपाशविमोक्षणम् 269 • युद्धकाण्डे सर्गः 51 धूम्राक्षाभिषेणनम् 278 • युद्धकाण्डे सर्गः 52 धूम्राक्षवधः 283 • युद्धकाण्डे सर्गः 53 वज्रदंष्ट्रयुद्धम् 288 • युद्धकाण्डे सर्गः 54 वज्रदंष्ट्रवधः 293 • युद्धकाण्डे सर्गः 55 अकम्पनयुद्धम् 298 • युद्धकाण्डे सर्गः 56 अकम्पनवधः 302 • युद्धकाण्डे सर्गः 57 प्रहस्तयुद्धम् 307 • युद्धकाण्डे सर्गः 58 प्रहस्तवधः 314 • युद्धकाण्डे सर्गः 59 रावणाभिषेणनम् 322 • युद्धकाण्डे सर्गः 60 कुम्भकर्णप्रबोधः 347 • युद्धकाण्डे सर्गः 61 कुम्भकर्णवृत्तकथनम् 361 • युद्धकाण्डे सर्गः 62 रावणाभ्यर्थना 367 • युद्धकाण्डे सर्गः 63 कुम्भकर्णानुशोकः 370 • युद्धकाण्डे सर्गः 64 सीताप्रलोभनोपयः 378 • युद्धकाण्डे सर्गः 65 कुम्भकर्णाभिषेणनम् 384 • युद्धकाण्डे सर्गः 66 वानरपर्यवस्थापनम् 392 • युद्धकाण्डे सर्गः 67 कुम्भकर्णवधः 396 • युद्धकाण्डे सर्गः 68 रावणानुशोकः 422 • युद्धकाण्डे सर्गः 69 नरान्तकवधः 426 • युद्धकाण्डे सर्गः 70 देवान्तकादिवधः 440 • युद्धकाण्डे सर्गः 71 अतिकायवधः 451 • युद्धकाण्डे सर्गः 72 रावणमन्युशल्याविष्कारः 467 • युद्धकाण्डे सर्गः 73 इन्द्रजिन्मायायुद्धम् 470 • युद्धकाण्डे सर्गः 74 औषधिपर्वतानयनम् 482 • युद्धकाण्डे सर्गः 75 लङ्कादाहः 494 • युद्धकाण्डे सर्गः 76 कम्पनादिवधः 503 • युद्धकाण्डे सर्गः 77 निकुम्भवधः 516 • युद्धकाण्डे सर्गः 78 मकराक्षाभिषेणनम् 519 • युद्धकाण्डे सर्गः 79 मकराक्षवधः 522 • युद्धकाण्डे सर्गः 80 तिरोहितरावणियुद्धम् 529 • युद्धकाण्डे सर्गः 81 मायासीतावधः 534 • युद्धकाण्डे सर्गः 82 हनूमदादिनिर्वेदः 540 • युद्धकाण्डे सर्गः 83 रामाश्वासनम् 543 • युद्धकाण्डे सर्गः 84 इन्द्रजिन्मायाविवरणम् 549 • युद्धकाण्डे सर्गः 85 निकुम्भिलाभियानम् 553 • युद्धकाण्डे सर्गः 86 रावणिबलकथनम् 557 • युद्धकाण्डे सर्गः 87 विभीषणरावणि परस्परनिन्दा 562 • युद्धकाण्डे सर्गः 88 सौमित्रिरावणियुद्धम् 566 • युद्धकाण्डे सर्गः 89 सौमित्रिसन्धुक्षणम् 572 • युद्धकाण्डे सर्गः 90 सौमित्रिरावणियुद्धम् 578 • युद्धकाण्डे सर्गः 91 रावणिवधः 585 • युद्धकाण्डे सर्गः 92 रावणिशस्त्रहतचिकित्सा 598 • युद्धकाण्डे सर्गः 93 सीताहननोद्यमनिवृत्तिः 602 • युद्धकाण्डे सर्गः 94 गान्धर्वास्त्रमोहनम् 611 • युद्धकाण्डे सर्गः 95 राक्षसीविलापः 616 • युद्धकाण्डे सर्गः 96 रावणाभिषेणनम् 622 • युद्धकाण्डे सर्गः 97 विरूपाक्षवधः 629 • युद्धकाण्डे सर्गः 98 महोदरवधः 633 • युद्धकाण्डे सर्गः 99 महापार्श्ववधः 639 • युद्धकाण्डे सर्गः 100 रामरावणास्त्रपरम्परा 642 • युद्धकाण्डे सर्गः 101 लक्ष्मणशक्तिक्षेपः 650 • युद्धकाण्डे सर्गः 102 लक्ष्मणसञ्जीवनम् 658 • युद्धकाण्डे सर्गः 103 ऐन्द्ररथकेतुपातनम् 665 • युद्धकाण्डे सर्गः 104 रावणशूलभङ्गः 669 • युद्धकाण्डे सर्गः 105 दशग्रीवविघूर्णनम् 674 • युद्धकाण्डे सर्गः 106 सारथिविज्ञेयम् 678 • युद्धकाण्डे सर्गः 107 आदित्यहृदयम् 681 • युद्धकाण्डे सर्गः 108 शुभाशुभनिमित्तदर्शनम् 686 • युद्धकाण्डे सर्गः 109 रावणध्वजोन्मथनम् 691 • युद्धकाण्डे सर्गः 110 रावणैकशतशिरश्छेदनम् 695 • युद्धकाण्डे सर्गः 111 पौलस्त्यवधः 700 • युद्धकाण्डे सर्गः 112 विभीषणविलापः 705 • युद्धकाण्डे सर्गः 113 रावणान्तःपुर परिदेवनम् 709 • युद्धकाण्डे सर्गः 114 मन्दोदरीविलापः 713 • युद्धकाण्डे सर्गः 115 विभीषणाभिषेकः 730 • युद्धकाण्डे सर्गः 116 मैथिलीप्रियनिवेदनम् 733 • युद्धकाण्डे सर्गः 117 सीताभर्तृमुखोदीक्षणम् 740 • युद्धकाण्डे सर्गः 118 सीताप्रत्यादेशः 745 • युद्धकाण्डे सर्गः 119 हुताशनप्रवेशः। 748 • युद्धकाण्डे सर्गः 120 ब्रह्मकृतरामस्तवः 753 • युद्धकाण्डे सर्गः 121 सीताप्रतिग्रहः 758 • युद्धकाण्डे सर्गः 122 दशरथप्रतिसमादेशः 761 • युद्धकाण्डे सर्गः 123 इन्द्रवरदानम् 765 • युद्धकाण्डे सर्गः 124 पुष्पकोपस्थापनम् 769 • युद्धकाण्डे सर्गः 125 पुष्पकोत्पतनम् 773 • युद्धकाण्डे सर्गः 126 प्रत्यावृत्तिपथवर्णनम् 777 • युद्धकाण्डे सर्गः 127 भरद्वाजामन्त्रणम् 783 • युद्धकाण्डे सर्गः 128 भरतप्रियाख्यानम् 787 • युद्धकाण्डे सर्गः 129 हनूमद्भरत सम्भाषणम् 793 • युद्धकाण्डे सर्गः 130 भरतसमागमः 800 • युद्धकाण्डे सर्गः 131 श्रीरामपट्टाभिषेकः। 808 • पारायण समापने अनुसन्धेयश्लोकाः। 824 6. युद्धकाण्डः • युद्धकाण्डे सर्गः 1 हनूमत्प्रशंसनम् श्रुत्वा हनुमतो वाक्यं यथाव.दभिभाषितम्। रामः प्रीति समायुक्तो वाक्य.मुत्तर.मब्रवीत्।। 1।। >> कृतं हनुमता कार्यं सुमह.द्भुवि दुष्करम्। मनसापि यदन्येन न शक्यं धरणीतले 2।। >> न हि तं परिपश्यामि यस्तरेत महार्णवम्। अन्यत्र गरुडा.द्वायो-रन्यत्र च हनूमतः 3।। >> देवदानव.यक्षाणां गन्धर्वोरगरक्षसाम्। अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् 4।। >> प्रविष्ट.स्सत्त्व.माश्रित्य जीवन् को नाम निष्क्रमेत्। को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम् 5।। >> यो वीर्यबलसम्पन्नो न सम.स्स्या.द्धनूमतः। भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् 6।। >> एवं विधाय स्वबलं सदृशं विक्रमस्य च। यो हि भृत्यो नियुक्त.स्सन् भर्त्रा कर्मणि दुष्करे 7।। कुर्या.त्तदनुरागेण त.माहुः पुरुषोत्तमम्। नियुक्तो नृपतेः कार्यं न कुर्या.द्य.स्समाहितः । भृत्यो युक्त.स्समर्थश्च त.माहुः पुरुषाधमम् 9।। >> तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता। न चात्मा लघुतां नीत.स्सुग्रीवश्चापि तोषितः।। 10।। >> अहं च रघुवंशश्च लक्ष्मणश्च महाबलः। वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः।। 11।। >> इदं तु मम दीनस्य मनो भूयः प्रकर्षति। यदिहास्य प्रियाख्यातु.-र्न कुर्मि सदृशं प्रियम्।। 12।। >> एष सर्वस्व.भूतस्तु परिष्वङ्गो हनूमतः। मया काल मिमं प्राप्य दत्त.स्तस्य महात्मनः।। 13।। >> इत्युक्त्वा प्रतिहृष्टाङ्गो राम.स्तं परिषस्वजे। हनुमन्तं महात्मानं कृतकार्य.मुपागतम्।। 14।। >> ध्यात्वा पुन.रुवाचेदं वचनं रघुनन्दनः। हरीणा.मीश्वरस्यापि सुग्रीवोस्योपशृण्वतः।। 15।। >> सर्वधा सुकृतं ताव-त्सीतायाः परिमार्गणम्। सागरं तु समासाद्य पुन.र्नष्टं मनो मम।। 16।। >> कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः। हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः।। 17।। >> यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम। समुद्रपार गमने हरीणां कि मिवोत्तरम्।। 18।। >> इत्युक्त्वा शोकसम्भ्रान्तो राम.श्शत्रुनिबर्हणः। हनूमन्तं महाबाहु-स्ततो ध्यान.मुपागमत्।। 19।। >> श्रीमद्रामायणे युद्धकाण्डे प्रथम सर्गः। • युद्धकाण्डे सर्गः 2 रामप्रोत्साहनम् तं तु शोकपरिद्यूनं रामं दशरथात्मजम्। उवाच वचनं श्रीमान् सुग्रीव.श्शोकनाशनम्।। 1।। >> किं त्वं सन्तप्यसे वीर यथान्यः प्राकृत.स्तथा। मैवं भू.स्त्यज सन्तापं कृतघ्न इव सौहृदम् 2।। >> सन्तापस्य च ते स्थानं न हि पश्यामि राघव। प्रवृत्ता.वुपलब्धायां ज्ञाते च निलये रिपोः 3।। >> मतिमान् छास्त्रवित् प्राज्ञः पण्डितश्चासि राघव। त्यजेमं पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् 4।। >> समुद्रं लङ्घयित्वा तु महानक्र.समाकुलम्। लङ्का.मारोहयिष्यामो हनिष्यामश्च ते रिपुम् 5।। >> निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः। सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति 6।। >> इमे शूरा.स्समर्थाश्च सर्वे नो हरियूथपाः। त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टु.मपि पावकम्। एषां हर्षेण जानामि तर्क.श्चास्मिन् दृढो मम 7।। >> विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्। रावणं पापकर्माणं तथा त्वं कर्तु मर्हसि 8।। >> सेतु मत्र यथा बद्ध्वा यथा पश्येम तां पुरीम्। तस्य राक्षसराजस्य तथा त्वं कुरु राघव 9।। >> दृष्ट्वा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्। हतं च रावणं युद्धे दर्शना.दुपधारय।। 10।। >> अबद्ध्वा सागरे सेतुं घोरे तु वरुणालये। लङ्कां न मर्दितुं शक्या सेन्द्रै.रपि सुरासुरैः।। 11।। >> सेतुर्बद्ध.स्समुद्रे च याव.ल्लङ्कासमीपतः। सर्वं तीर्णं च वै सैन्यं जित.मित्युपधारय।। 12।। >> इमे हि समरे शूरा हरयः कामरूपिणः। शक्ता लङ्कां समानेतुं समुत्पाट्य सराक्षसाम्।। 13।। >> तदलं विक्लबा बुद्धी-राजन् सर्वार्थनाशनी। पुरुषस्य हि लोकेस्मिन् शोक.श्शौर्यापकर्षणः।। 14।। >> यत्तु कार्यं मनुष्येण शौण्डीर्य.मवलम्बता। अस्मिन् काले महाप्राज्ञ सत्त्व.मातिष्ठ तेजसा।। 15।। >> शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्। विनष्टे वा प्रणष्टे वा शोक.स्सर्वार्थनाशनः।। 16।। >> त्वं तु बुद्धिमतां श्रेष्ठ.-स्सर्वशास्त्रार्थकोविदः। मद्विधै.स्सचिवै.स्सार्थ.-मरिं जेतु.मिहार्हसि।। 17।। >> न हि पश्या.म्यहं कञ्चि.त्त्रिषु लोकेषु राघव। गृहीतधनुषो यस्ते तिष्ठे.दभिमुखो रणे।। 18।। >> वानरेषु समासक्तं न ते कार्यं विपत्स्यते। अचिरा.द्द्रक्ष्यसे सीतां तीर्त्वा सागर.मक्षयम्।। 19।। >> तदलं शोक.मालम्ब्य क्रोध.मालम्ब भूपते। निश्चेष्टाः क्षत्रिया मन्दा.-स्सर्वे चण्डस्य बिभ्यति 20।। >> लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः। सहास्माभि रिहोपेत.-स्सूक्ष्मबुद्धि.र्विचारय। सर्वं तीर्णं च मे सैन्यं जित.मित्युपधाराय 21।। >> इमे हि हरय.श्शूरा.-स्समरे कामरूपिणः। ता.नरीन् विधमिष्यन्ति शिलापादप.वृष्टिभिः 22।। >> कथञ्चित् सन्तरिष्याम-स्ते वयं वरुणालयम्। हत.मित्येव तं मन्ये युद्धे समितिनन्दन 23।। >> किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्। निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति 24।। >> श्रीमद्रामायणे युद्धकाण्डे द्वितीय सर्गः। • युद्धकाण्डे सर्गः 3 लङ्कादुर्गादिकथनम् सुग्रीवस्य वच.श्श्रुत्वा हेतुम.त्परमार्थवित्। प्रतिजग्राह काकुत्स्थो हनूमन्त.मथाब्रवीत्।। 1।। >> तरसा सेतुबन्धेन सागरोच्छोषणेन वा। सर्वथा सुसमर्थोस्मि सागरस्यास्य लङ्घने 2।। >> कति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे। ज्ञातु.मिच्छामि तत्सर्वं दर्शना.दिव वानर 3।। >> बलस्य परिमाणं च द्वारदुर्गक्रिया.मपि। गुप्तिकर्म च लङ्काया रक्षसां सदनानि च।। 4।। >> यथासुखं यथावच्च लङ्काया.मसि दृष्टवान्। सर्व.माचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि 5।। >> श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः। वाक्यं वाक्यविदां श्रेष्ठो रामं पुन.रथाब्रवीत् 6।। >> श्रूयतां सर्व.माख्यास्ये दुर्गकर्मविधानतः। गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः 7।। >> राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा। परां समृद्धिं लङ्काया.-स्सागरस्य च भीमताम्। विभागं च बलौघस्य निर्देशं वाहनस्य च 8।। >> एव.मुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः 9।। >> हृष्टा प्रमुदिता लङ्का मत्तद्विप.समाकुला। महती रथसम्पूर्णा रक्षोगण.समाकुला। वाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः।। 10।। >> दृढबद्ध.कवाटानि महापरिघवन्ति च। द्वाराणि विपुलान्यस्या-श्चत्वारि सुमहान्ति च।। 11।। >> तत्रेषूपल.यन्त्राणि बलवन्ति महान्ति च। आगतं परसैन्यं तु तैस्तत्र प्रतिहन्यते।। 12।। >> द्वारेषु संस्कृता भीमाः कालायस.मया.श्शिताः। शतशो रोचिता वीरै.-श्शतघ्न्यो रक्षसां गणैः।। 13।। >> सौवर्णश्च महां.स्तस्याः प्राकारो दुष्प्रधर्षणः। मणिविद्रुम वैदूर्य-मुक्ता.विचरितान्तरः।। 14।। >> सर्वतश्च महाभीमा.-श्शीततोयावहा.श्शुभाः। अगाधा ग्राहवत्यश्च परिघा मीनसेविताः।। 15।। >> द्वारेषु तासां चत्वार.-स्सङ्क्रमाः पर.मायताः। यन्त्रै.रुपेता बहुभि-र्महद्भि.र्गृहपङ्क्तिभिः ।। 16। त्रायन्ते सङ्क्रमा.स्तत्र परसैन्यागमे सति। यन्त्रै.स्तै.रवकीर्यन्ते परिघासु समन्ततः।। 17।। >> एक.स्त्वकम्प्यो बलवान् सङ्क्रम.स्सुमहादृढः । काञ्चनै र्बहुभि.स्स्तम्भै-र्वेदिकाभिश्च शोभितः।। 18।। >> स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः। उत्थितश्चाप्रमत्तश्च बलाना.मनुदर्शने।। 19।। >> लङ्कापुरी निरालम्बा देवदुर्गा भयावहा। नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् 20।। >> स्थिता पारे समुद्रस्य दूरपारस्य राघव। नौपथोश्चापि नास्त्यत्र निरादेशश्च सर्वतः 21।। >> शैलाग्रेरचिता दुर्गा सा पू.र्देवपुरोपमा। वाजिवारण.सम्पूर्णा लङ्का परमदुर्जया 22।। >> परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च। शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः 23।। >> अयुतं रक्षसा.मत्र पूर्वद्वारं समाश्रितम्। शूलहस्ता दुराधर्षा.-स्सर्वे खड्गाग्रयोधिनः 24।। >> नियुतं रक्षसा.मत्र दक्षिणद्वार.माश्रितम्। चतुरङ्गेण सैन्येन योधा.स्तत्राप्यनुत्तमाः 25।। >> प्रयुतं रक्षसा.मत्र पश्चिमद्वार.माश्रितम्। चर्मखड्गधरा.स्सर्वे तथा सर्वास्त्रकोविदाः 26।। >> न्यर्बुदं रक्षसा.मत्र उत्तरद्वार.माश्रितम्। रथिन.श्चाश्ववाहाश्च कुलपुत्रा.स्सुपूजिताः 27।। >> शतशोथ सहस्राणि मध्यमं स्कन्ध.माश्रिताः। यातुधाना दुराधर्षा.-स्साग्रकोटिश्च रक्षसाम् 28।। >> ते मया सङ्क्रमा भग्नाः परिखा.श्चावपूरिताः। दग्धा च नगरी लङ्का प्राकारा.श्चावसादिताः ।। 29।। >> बलैकदेशः क्षपितो राक्षसानां महात्मनाम्।। 30।। >> येन केन च मार्गेण तराम वरुणालयम्। हतेति नगरी लङ्का वानरै.रवधार्यताम् 31।। >> अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः। नील.स्सेनापति.श्चैव बलशेषेण किं तव 32।। >> प्लवमाना हि गत्वा तां रावणस्य महापुरीम्। सपर्वत वनां भित्वा सखातां सप्रतोरणाम्। सप्राकारां सभवना-मानयिष्यन्ति राघव 33।। >> एव.माज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम्। मुहूर्तेन तु युक्तेन प्रस्थान.मभिरोचय 34।। >> श्रीमद्रामायणे युद्धकाण्डे तृतीयस्सर्गः। • युद्धकाण्डे सर्गः 4 रामाभिषेणनम् श्रुत्वा हनूमतो वाक्यं यथाव.दनुपूर्वकः। ततोब्रवीन्महातेजा राम.स्सत्यपराक्रमः।। 1।। >> यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। क्षिप्र.मेनां वधिष्यामि सत्य मेत.द्ब्रवीमि ते 2।। >> अस्मिन् मुहूर्ते सुग्रीव प्रयाण मभिरोचये। युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः 3।। >> अस्मि.न्मुहूर्ते विजये पाप्ते मध्यं दिवाकरे। सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः।। 4।। >> सीता श्रुत्वाभियानं मे आशा.मेष्यति जीविते। जीवितान्तेमृतं स्पृष्ट्वा पीत्वामृत.मिवातुरः 5।। >> उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। अभिप्रयाम सुग्रीव सर्वानीक.समावृताः 6।। >> निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च। निहत्य रावणं सीता.मानयिष्यामि जानकीम् 7।। >> उपरिष्टाद्धि नयनं स्फुरमाण.मिदं मम। विजयं समनुप्राप्तं शंसतीव मनोरथम् 8।। >> ततो वानरराजेन लक्ष्मणेन च पूजितः। उवाच रामो धर्मात्मा पुन.रप्यर्थकोविदः 9।। >> अग्रे यातु बलस्यास्य नीलो मार्ग.मवेक्षितुम्। वृत.श्शतसहस्रेण वानराणां तरस्विनाम्।। 10।। >> फलमूलवता नील शीतकानन.वारिणा। पथा मधुमता चाशु सेनां सेनापते नय।। 11।। >> दूषयेयु.र्दुरात्मानः पथि मूलफलोदकम्। राक्षसाः परिरक्षेथा-स्तेभ्य.स्त्वं नित्य मुद्यतः।। 12।। >> निम्नेषु वनदुर्गेषु वनेषु च वनौकसः। अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्।। 13।। >> यच्च फल्गु बलं किञ्चि-त्तदत्रैवोपयुज्यताम्। एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुध्यताम्।। 14।। >> सागरौघनिभं भीम-मग्रानीकं महाबलाः। कपिसिंहाः प्रकर्षन्तु शतशोथ सहस्रशः।। 15।। >> गजश्च गिरिसङ्काशो गवयश्च महाबलः। गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः।। 16।। >> यातु वानरवाहिन्या वानरः प्लवतां वरः। पालयन् दक्षिणं पार्श्व मृषभो वानरर्षभः।। 17।। >> गन्धहस्तीव दुर्धर्ष-स्तरस्वी गन्धमादनः। यातु वानरवाहिन्या.-स्सव्यं पार्श्व.मधिष्ठितः।। 18।। >> यास्यामि बलमध्येहं बलौघ.मभिहर्षयन्। अधिरुह्य हनूमन्त मैरावत मिवेश्वरः।। 19।। >> अङ्गदेनैष सँयातु लक्ष्मणश्चान्तकोपमः। सार्वभौमेण भूतेशो द्रविणाधिपति र्यथा 20।। >> जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः 21।। >> राघवस्य वच.श्श्रुत्वा सुग्रीवो वाहिनीपतिः। व्यादिदेश महावीर्यान् वानरान् वानरर्षभः 22।। >> ते वानरगणा.स्सर्वे समुत्पत्य युयुत्सवः। गुहाभ्य.श्शिखरेभ्यश्च आशु पुप्लुविरे तदा 23।। >> ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् 24।। >> शतै.श्शतसहस्रैश्च कोटीभि रयुतै रपि। वारणाभिश्च हरिभि र्ययौ परिवृतस्तदा 25।। >> तं यान्त मनुयाति स्म महती हरिवाहिनी। हृष्टाः प्रमुदिता.स्सर्वे सुग्रीवेणाभिपालिताः 26।। >> आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् 27।। >> भक्षयन्त.स्सुगन्धीनि मधूनि च फलानि च। उद्वहन्तो महावृक्षा-न्मञ्जरीपुञ्ज धारिणः 28।। >> अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च। पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् 29।। >> रावणो नो निहन्तव्य.-स्सर्वे च रजनीचराः। इति गर्जन्ति हरयो राघवस्य समीपतः 30।। >> पुरस्ता दृषभो वीरो नीलः कुमुद एव च। पन्थानं शोधयन्ति स्म वानरै र्बहुभिस्सह 31।। >> मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। बहुभि.र्बलिभि.र्भीमै र्वृता.श्शत्रु निबर्हणाः 32।। >> हरि.श्शतवलि.र्वीरः कोटीभि. र्दशभि. र्वृतः। सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् 33।। >> कोटीशतपरीवारः केसरी पनसो गजः। अर्कश्चातिबलः पार्श्व-मेकं तस्याभिरक्षति 34।। >> सुषेणो जाम्बवांश्चैव ऋक्षै.र्बहुभि. रावृतः। सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः 35।। >> तेषां सेनापति र्वीरो नीलो वानरपुङ्गवः। सम्पतन् पततांश्रेष्ठ-स्तद्बलं पर्यपालयत् 36।। >> दरीमुखः प्रजङ्घश्च रम्भोथ रभसः कपिः। सर्वतश्च ययु र्वीरा-स्त्वरयन्तः प्लवङ्गमान् 37।। >> एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः। अपश्यंस्तेगिरिश्रेष्ठं सह्यं द्रुमलतायुतम्। सरांसि च सुफुल्लानि तटाकानि वनानि च 38।। >> रामस्य शासनम् ज्ञात्वा भीम कोपस्य भीतवत्। वर्जय न्नगराभ्याशां-स्तथा जानपदा नपि 39।। >> सागरौघ निभं भीमम् तद्वानरबलं महत्। उत्ससर्प महाघोषं भीमवेग इवार्णवः 40।। >> तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः। तूर्ण मापुप्लुवु.स्सर्वे सदश्वा इव चोदिताः 41।। >> कपिभ्या मुह्यमानौ तौ शुशुभाते नरर्षभौ। महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ 42।। >> ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् 43। तमङ्गदगतो रामं लक्ष्मण.श्शुभया गिरा। उवाच प्रतिपूर्णार्थ.-स्स्मृतिमान् प्रतिभानवान् 44।। >> हृता मवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्। समृद्धार्थ.स्समृद्धार्था.-मयोध्यां प्रतियास्यसि 45।। >> महान्ति च निमित्तानि दिवि भूमौ च राघव। शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये 46।। >> अनु वाति शुभो वायु.-स्सेनां मृदुहित.स्सुखः। पूर्णवल्गुस्वरा.श्चेमे प्रवदन्ति मृगद्विजाः 47।। >> प्रसन्नाश्च दिश.स्सर्वा विमलश्च दिवाकरः। उशनाश्च प्रसन्नार्चि-रनु त्वा भार्गवो गतः 48।। >> ब्रह्मराशि.र्विशुद्धश्च शुद्धाश्च परमर्षयः। अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् 49।। >> त्रिशङ्कु.र्विमलो भाति राजर्षि.स्सपुरोहितः। पितामहवरोस्माक.-मिक्ष्वाकूणां महात्मनाम् 50।। >> विमले च प्रकाशेते विशाखे निरुपद्रवे। नक्षत्रं पर मस्माक.मिक्ष्वाकूणां महात्मनाम् 51।। >> नैरृतं नैरृतानां च नक्षत्र.मभिपद्यते। मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना 52।। >> सर्वं चैत द्विनाशाय राक्षसाना मुपस्थितम्। काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् 53।। >> प्रसन्ना.स्सुरसाश्चापो वनानि फलवन्ति च। प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः 54।। >> व्यूढानि कपिसैन्यानि प्रकाशन्तेधिकं प्रभो। देवाना मिव सैन्यानि सङ्ग्रामे तारकामये 55।। >> एव.मार्य समीक्ष्यैतान् प्रीतो भवितु मर्हसि। इति भ्रातर.माश्वास्य हृष्ट.स्सौमित्रि रब्रवीत् 56।। >> अथावृत्य महीं कृत्स्नां जगाम महती चमूः। ऋक्षवानर.शार्दूलै-र्नखदंष्ट्रायुधै र्वृता 57।। >> कराग्रैश्चरणाग्रैश्च वानरै.रुद्धतं रजः। भीम मन्तर्दधे लोकं निवार्य सवितुः प्रभाम् 58।। >> स पर्वत वनाकाशां- दक्षिणां हरि वाहिनी। छादयन्ती ययौ भीमा- द्यामिवाम्बुद सन्ततिः 59।। >> उत्तरन्त्यां च सेनायां सन्ततं बहु योजनम्। नदीस्रोतांसि सर्वाणि सस्यन्दु.र्विपरीतवत् 60।। >> सरांसि विमलाम्भांसि द्रुमकीर्णांश्च पर्वतान्। समान् भूमि प्रदेशांश्च वनानि फलवन्ति च। मध्येन च समन्ताश्च तिर्यक्चाधश्च साविशत् 61।। >> समावृत्य महीं कृत्स्नां जगाम महती चमूः 62।। >> ते हृष्टमानसस्सर्वे जग्मु र्मारुत रंहसः। हरयो राघवस्यार्थे समारोपित विक्रमाः 63।। >> हर्ष वीर्य बलोद्रेकान् दर्शयन्तः परस्परम्। यौवनोत्सुकजा न्दर्पान् विविधां.श्चक्रु.रध्वनि 64।। >> तत्र केचि.द्द्रुतं जग्मु रुत्पेतुश्च तथापरे। केचि त्किलकिलां चक्रु र्वानरा वन गोचराः 65।। >> प्रास्फोटयंश्च पुच्छानि सन्निजघ्नुःपदा न्यपि। भुजा न्विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे 66।। >> आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः। महानादा न्विमुञ्चन्ति क्ष्वेला मन्ये प्रचक्रिरे 67।। >> ऊरु वेगैश्च ममृदु-र्लता जालान् अनेकशः। जृम्भमाणाश्च विक्रान्ता विचिक्रीडु.श्शिलाद्रुमैः 68।। >> शतैश्शत सहस्रैश्च कोटिभिश्च सहस्रशः। वानराणां तु घोराणां- श्रीमत्परिवृता मही 69।। >> सा स्म याति दिवारात्रं महती हरिवाहिनी। हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता 70। वानरा.स्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः। मुमोक्षयिषव.स्सीतां मुहूर्तं क्वापि नासत 71।। >> ततः पादपसम्बाधं नानामृगसमायुतम्। सह्यपर्वत.मासेदु. र्मलयं च महीधरम् 72।। >> काननानि विचित्राणि नदीप्रस्रवणानि च। पश्य.न्नति ययौ राम.स्सह्यस्य मलयस्य च 73।। >> वकुलां.स्तिलकां.श्चूतान् अशोकान् सिन्धुवारकान्। करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवङ्गमाः 74।। >> अङ्कोलांश्च करञ्जांश्च प्लक्ष न्यग्रोध तिन्दुकान्। जम्बूकामलका न्नीपान् भञ्जन्ति स्म प्लवङ्गमाः 75।। >> प्रस्तरेषु च रम्येषु विविधाः कानन द्कुमाः। वायु वेग प्रचलिताः पुष्पै रवकिरन्ति तान् 76।। >> मारुत सुखसंस्पर्शो वाति चन्दन शीतलः। षट्पदै.रनुकूजद्भि र्वनेषु मधु गन्धिषु 77।। >> अधिकं शैलराजस्तु धातुभि.स्सुविभूषितः 78।। >> धातुभ्यः प्रसृतो रेणु-र्वायुवेग विघट्टितः। सुमह.द्वानरा नीकं छादयामास पर्वतः 79।। >> गिरि प्रस्थेषु रम्येषु सर्वत.स्सम्प्रपुष्पिताः। केतक्य.स्सिन्धुवाराश्च वासन्तस्य मनोरमाः 80। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः। चिरिबिल्वा मधूकाश्च वकुलाः प्रियका.स्तथा 81।। >> स्फूर्जका.स्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः 82।। >> मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा। धवा.श्शाल्मलयश्चैव रक्ताः कुरवका.स्तथा 83।। >> हिन्ताला.स्तिनिशाश्चैव चूर्णका नीपकास्तथा। नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा। प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः 84।। >> वाप्य.स्तस्मिन् गिरौ शीताः पल्वलानि तथैव च। चक्रवाकानुचरिताः कारण्डव निषेविताः 85।। >> प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराह मृग सेविताः। ऋक्षै.स्तरक्षुभिस्सिंहै-श्शार्दूलैश्च भयावहैः 86।। >> व्यालैश्च बहुभि र्भीमैस्सेव्यमानास्समन्ततः। पद्मैस्सौगन्धिकैः फुल्लै कुमुदै.श्चोत्पलैस्तथा 87।। >> वारिजै.र्विविधैः पुष्पै रम्यास्तत्र जलाशयाः। तस्य सानुषु कूजन्ति नाना द्विजगणा.स्तथा 88।। >> स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः। अन्योन्यं प्लावयन्तिस्म शैल .मारुह्य वानराः 89।। >> फलान्यमृतगन्धीनि मूलानि कुसुमानि च। बुभुजु र्वानरा.स्तत्र पादपानां मदोत्कटाः 90। द्रोणमात्रप्रमाणानि लम्बमानानि वानराः। ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः 91।। >> पादपा.नवभञ्जन्तो विकर्षन्तस्तथा लताः। विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः 92।। >> वृक्षेभ्योन्ये तु कपयो नर्दन्तो मधुदर्पिताः। अन्ये वृक्षान् प्रपद्यन्ते प्रपत.न्त्यपि चापरे 93।। >> बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः। यथा कमल.केदारैः पक्वैरिव वसुन्धरा 94।। >> महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः। अध्यारोह.न्महाबाहु.श्शिखरं द्रुमभूषितम् 95।। >> तत.श्शिखर मारुह्य रामो दशरथात्मजः। कूर्ममीन.समाकीर्ण.-मपश्य.त्सलिलाशयम् 96।। >> ते सह्यं समतिक्रम्य मलयं च महागिरिम्। आसेदु.रानुपूर्व्येण समुद्रं भीम.निस्स्वनम् 97।। >> अवरुह्य जगा.माशु वेलावन.मनुत्तमम्। रामो रमयतां श्रेष्ठ.-स्ससुग्रीव.स्सलक्ष्मणः 98।। >> अथ धौतोपलतलां तोयौघै.स्सहसोत्थितैः। वेला .मासाद्य विपुलां रामो वचन मब्रवीत् 99।। >> एते वय मनुप्राप्ता.-स्सुग्रीव वरुणालयम्। इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता।। 100।। >> अतः परमतीरोयं सागर.स्सरितां पतिः। न चाय मनुपायेन शक्य.स्तरितु मर्णवः।। 101।। >> त दिहैव निवेशोस्तु मन्त्रः प्रस्तूयता.मिह। यथेदं वानरबलं परं पार मवाप्नुयात्।। 102।। >> इतीव स महाबाहु.-स्सीताहरणकर्शितः। राम.स्सागर .मासाद्य वास.माज्ञापय त्तदा।। 103।। >> सर्वा.स्सेना निवेश्यन्तां वेलायां हरि पुङ्गव। सम्प्राप्तो मन्त्रकालो न.-स्सागरस्येह लङ्घने।। 104।। >> स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्। गच्छन्तु वानरा.श्शूरा ज्ञेयं छन्नं भयं च नः।। 105।। >> रामस्य वचनं श्रुत्वा सुग्रीव.स्सहलक्ष्मणः। सेनां न्यवेशय त्तीरे सागरस्य द्रुमायुते।। 106।। >> विरराज समीपस्थं सागरस्य तु त द्बलम्। मधुपाण्डुजल.श्श्रीमान् द्वितीय इव सागरः।। 107।। >> वेलावन.मुपागम्य ततस्ते हरिपुङ्गवाः। विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः।। 108।। >> तेषां निविशमाणानां सैन्यसन्नाह निस्स्वनः। अन्तर्धाय महानाद- मर्णवस्य प्रशुश्रुवे।। 109।। >> सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता। त्रेधा निविष्टा महती रामस्यार्थपराभवत्।। 110।। >> सा महार्णव .मासाद्य हृष्टा वानरवाहिनी। वायुवेग.समाधूतं पश्यमाना महार्णवम्।। 111।। >> दूर पार मसम्बाधं रक्षोगणनिषेवितम्। पश्यन्तो वरुणावासं निषेदु.र्हरियूथपाः।। 112।। >> चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये। हसन्त.मिव फेनौघै-र्नृत्यन्त.मिव चोर्मिभिः।। 113।। >> चन्द्रोदय समुद्धूतं प्रतिचन्द्रसमाकुलम्। (पिनष्टीव तरङ्गाग्रै-रर्णवः फेन चन्दनम्। तदादाय करै.रिन्दु- र्लिम्पतीव दिगङ्गनाः)। चण्डानिलमहाग्राहैः- कीर्णं तिमितिमिङ्गिलैः।। 114।। >> दीप्तै.र्भोगै. रिवाकीर्णं भुजङ्गै र्वरुणालयम्। अवगाढं महासत्त्वै र्नानाशैलसमाकुलम्। सुदुर्गं दुर्गमार्गन्त- मगाध. मसुरालयम्।। 115।। >> मकरै.र्नागभोगैश्च विगाढा वातलोलिताः। उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः।। 116।। >> अग्निचूर्ण मिवाविद्धं भास्कराम्बु.महोरगम्। सुरारिविषयं घोरं पाताल विषमं सदा।। 117।। >> सागरं चाम्बर प्रख्य-मम्बरं सागरोपमम्। सागरं चाम्बरं चेति निर्विशेष. मदृश्यत।। 11 8।। >> सम्पृक्तं नभसाप्यम्भ.-स्सम्पृक्तं च नभोम्भसा। तादृग्रूपेस्म दृश्येते तारा रत्नसमाकुले।। 119।। >> समुत्पतित.मेघस्य वीचीमालाकुलस्य च। विशेषो न द्वयो रासी-त्सागरस्याम्बरस्य च।। 120। अन्योन्य .माहता.स्सक्ता.-स्सस्वनु र्भीम निस्स्वनाः। ऊर्मय.स्सिन्धुराजस्य महाभेर्य इवाहवे।। 121।। >> रत्नौघजल सन्नादं विषक्त.मिव वायुना। उत्पतन्त मिव क्रुद्धं यादोगण.समाकुलम्।। 122।। >> ददृशुस्ते महात्मानो वाताहत.जलाशयम्। अनिलोद्धूत माकाशे प्रवल्गन्त.मिवोर्मिभिः।। 123।। >> ततो विस्मय मापन्ना- ददृशु.र्हरयस्तदा। भ्रान्तोर्मिजल सन्नादं प्रलोलमिव सागरम्।। 124।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्थस्सर्गः। • युद्धकाण्डे सर्गः 5 रामविप्रलम्भः सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता। सागरस्योत्तरे तीरे साधु सेना निवेशिता।। 1।। >> मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ। विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् 2।। >> निविष्टायां तु सेनायां तीरे नदनदीपतेः। पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचन मब्रवीत् 3।। >> शोकश्च किल कालेन गच्छता ह्यपगच्छति। मम चापश्यतः कान्ता मह न्यहनि वर्धते 4।। >> न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च। एतदेवानुशोचामि वयोस्या ह्यतिवर्तते 5।। >> वाहि वात यतः कान्ता तांस्पृष्ट्वा मा मपिस्पृश। त्वयि मे गात्रसंस्पर्श-श्चन्द्रे दृष्टिसमागमः 6।। >> त न्मे दहति गात्राणि विषं पीत मिवाशये। हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् 7।। >> तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा। रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना 8।। >> अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना। कथञ्चित् प्रज्वलन् काम-स्समासुप्तं जले दहेत् 9।। >> बह्वेतत् कामयानस्य शक्यमेतेन जीवितुम्। यदहं सा च वामोरु-रेकां धरणि.माश्रितौ।। 10।। >> केदारस्येव केदार.-स्सोदकस्य निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्।। 11।। >> कदा नु खलु सुश्श्रोणीं शतपत्रायतेक्षणाम्। विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीता मिवश्रियम्।। 12।। >> कदा नु चारु बिम्बोष्ठं तस्याः पद्ममिवाननम्। ईषदुन्नम्य पास्यामि रसायन मिवातुरः।। 13।। >> तस्यास्तु संहतौ पीनौस्तनौ ताल फलोपमौ। कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यथः।। 14।। >> सा नून.मसितापाङ्गी रक्षोमध्यगता सती। मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति।। 15।। >> कथं जनकराजस्य दुहिता सा मम प्रिया। राक्षसी मध्यगा शेते स्नुषा दशरथस्य च।। 16।। >> कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति। विधूय जलदा.न्नीलान् शशिरेखा शरत्स्विव।। 17।। >> स्वभावतनुका नूनम् शोकेनानशनेन च। भूय.स्तनुतरा सीता देशकाल.विपर्ययात्।। 18।। >> कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्। सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम्।। 19।। >> कदा शोक मिमम् घोरं मैथिली विप्रयोगजम्। सहसा विप्रमोक्ष्यामि वासश्शुक्लेतरं यथा 20।। >> कदा नु खलु मां साध्वी सीतामरसुतोपमा। सोत्कण्ठा कण्ठ.मालम्ब्य मोक्ष्यत्यानन्दजं जलम् 21।। >> कदा शोक मिमं घोरं मैथिली विप्रयोगजम्। सहसा विप्रमोक्ष्यामि वास.श्शुक्लेतरं यथा 22।। >> एवं विलपतस्तस्य तत्र रामस्य धीमतः। दिनक्षया.न्मन्दवपु र्भास्करोस्त.मुपागमत् 23।। >> आश्वासितो लक्ष्मणेन राम.स्सन्ध्या मुपासत। स्मर.न्कमलपत्राक्षीं सीतां शोकाकुलीकृतः 24।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चमस्सर्गः। • युद्धकाण्डे सर्गः 6 रावणमन्त्रणम् लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्। राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना। अब्रवी द्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः।। 1।। >> धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानरमात्रेण दृष्टा सीता च जानकी 2।। >> प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः। आविला च पुरी लङ्का सर्वा हनुमता कृता 3।। >> किं करिष्यामि भद्रं वः किं वा युक्त.मनन्तरम्। उच्यतां न.स्समर्थं य-त्कृतं च सुकृतं भवेत् 4।। >> मन्त्रमूलं हि विजयं प्राहु.रार्या मनस्विनः। तस्मा द्वै रोचये मन्त्रं रामं प्रति महाबलाः 5।। >> त्रिविधाः पुरुषा लोके उत्तमाधम.मध्यमाः। तेषां तु समवेतानां गुण दोषं वदाम्यहम् 6।। >> मन्त्रिभि र्हितसँयुक्तै.-स्समर्थै. र्मन्त्रनिर्णये। मित्रै र्वापि समानार्थै-र्बान्धवै रपि वा हितैः 7।। >> सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्। दैवे च कुरुते यत्नं त.माहुः पुरुषोत्तमम् 8।। >> एकोर्थं विमृशे.देको धर्मे प्रकुरुते मनः। एकः कार्याणि कुरुते त.माहु र्मध्यमं नरम् 9।। >> गुणदोषा.वनिश्चित्य त्यक्त्वा दैव.व्यपाश्रयम्। करिष्यामीति यः कार्य-मुपेक्षेत् स नराधमः।। 10।। >> यथेमे पुरुषा नित्य-मुत्तमाधम.मध्यमाः। एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः।। 11।। >> ऐकमत्य मुपागम्य शास्त्रदृष्टेन चक्षुषा। मन्त्रिणो यत्र निरता-स्त.माहु.र्मन्त्र मुत्तमम्।। 12।। >> बह्व्योपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये। पुन.र्यत्रैकतां प्राप्ता-स्स मन्त्रो मध्यम.स्स्मृतः।। 13।। >> अन्योन्य मति .मास्थाय यत्र सम्प्रति भाष्यते। न चैकमत्येश्रेयोस्ति मन्त्र.स्सोधम उच्यते।। 14।। >> तस्मात् सुमन्त्रितं साधु भवन्तो मतिसत्तमाः। कार्यं सम्प्रतिपद्यन्ता मेतत् कृत्यं मतं मम।। 15।। >> वानराणां हि वीराणां सहस्रैः परिवारितः। रामोभ्येति पुरीं लङ्का.मस्माक मुपरोधकः।। 16।। >> तरिष्यति च सुव्यक्तं राघव.स्सागरं सुखम्। तरसा युक्तरूपेण सानुज.स्सबलानुगः। समुद्र.मुच्छोषयति वीर्येणान्य.त्करोति वा।। 17।। >> अस्मि न्नेवङ्गते कार्ये विरुद्धे वानरै.स्सह। हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम।। 18।। >> श्रीमद्रामायणे युद्धकाण्डे षष्ठस्सर्गः। • युद्धकाण्डे सर्गः 7 सचिवोक्तिः इत्युक्ता राक्षसेन्द्रेण राक्षसा.स्ते महाबलाः। ऊचुः प्राञ्जलय.स्सर्वे रावणं राक्षसेश्वरम्। द्विषत् पक्ष.मविज्ञाय नीति बाह्या.स्त्वबुद्धयः।। 1।। >> अविज्ञायात्म पक्षं च राजानं भीषयन्ति हि। राजन् परिघशक्त्यृष्टि-शूलपट्टिशसङ्कुलम्। सुमह.न्नो बलं कस्मा द्विषादं भजते भवान् 2।। >> त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि । कैलासशिखरावासी यक्षै.र्बहुभि रावृतः। सुमह त्कदनं कृत्वा वश्यस्ते धनदः कृतः 3।। >> स महेश्वरसख्येन श्लाघमान.स्त्वया विभो। निर्जित.स्समरे रोषा-ल्लोकपालो महाबलः 4।। >> विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च। त्वया कैलासशिखरा-द्विमान.मिद. माहृतम् 5।। >> मयेन दानवेन्द्रेण त्वद्भयात् सख्य मिच्छता। दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव 6।। >> दानवेन्द्रो मधु.र्नाम वीर्योत्सिक्तो दुरासदः। विगृह्य वश .मानीतः कुम्भीनस्या.स्सुखावहः 7।। >> निर्जितास्ते महाबाहो नागा गत्वा रसातलम्। वासुकि.स्तक्षक.श्शङ्खो जटी च वश.माहृताः 8।। >> अक्षया बलवन्तश्च शूरा लब्धवराः पुनः। त्वया सँवत्सरं युद्ध्वा समरे दानवा विभो 9।। >> स्वबलं समुपाश्रित्य नीता वश.मरिन्दम। माया.श्चाधिगता.स्तत्र बहवो राक्षसाधिप।। 10।। >> निर्जितास्समरे रोषा-ल्लोकपाला महाबलाः। देवलोक मितो गत्वा शक्रश्चापि विनिर्जितः।। 11। शूराश्च बलवन्तश्च वरुणस्य सुता रणे। निर्जितास्ते महाबाहो चतुर्विध.बलानुगाः।। 12।। >> मृत्युदण्ड.महाग्राहं शाल्मलिद्वीपमण्डितम्। कालपाश महावीचिं यम किङ्कर पन्नगम्।। 13।। >> अवगाह्य त्वया राजन् यमस्य बलसागरम्। जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः। सुयुद्धेन च ते सर्वे लोका.स्तत्र विलोलिताः।। 14। क्षत्रियै.र्बहुभि र्वीरै.-श्शक्रतुल्यपराक्रमैः। आसी.द्वसुमती पूर्णा महद्भि रिव पादपैः।। 15। तेषां वीर्यगुणोत्साहै-र्न समो राघवो रणे। प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः।। 16। तिष्ठ वा किं महाराजश्रमेण तव वानरान्। अय.मेको महाबाहु-रिन्द्रजित् क्षपयिष्यति।। 17। अनेन हि महाराज माहेश्वर मनुत्तमम्। इष्ट्वा यज्ञं वरो लभ्धो लोके परम दुर्लभः।। 18। शक्ति तोमर मीनं च विनिकीर्णान्त्र शैवलम्। गज कच्छप सम्बाध-मश्व मण्डूक सङ्कुलम्।। 19। रुद्रादित्य महाग्राहं मरुद्वसु महोरगम्। रथाश्व गज तोयौघं पदाति पुलिनं महत् 20। अनेन हि समासाद्य देवानां बलसागरम्। गृहीतो दैवतपति र्लङ्कां चापि प्रवेशितः 21। पितामह नियोगाच्च मुक्त.श्शम्बर वृत्रहा। गत.स्त्रिविष्टपं राजन् सर्वदेव नमस्कृतः 22।। >> त मेव त्वं महाराज विसृजेन्द्रजितं सुतम्। याव द्वानर सेनां तां सरामां नयति क्षयम् 23। राज.न्नापदयुक्तेय-मागता प्राकृता ज्जनात्। हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् 24।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तमस्सर्गः। • युद्धकाण्डे सर्गः 8 प्रहस्तादिवचनम् ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः। अब्रवीत् प्राञ्जलि र्वाक्यं शूर.स्सेनापतिस्तदा।। 1।। >> देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं शक्ताः किं पुन र्वानरा रणे 2।। >> सर्वे प्रमत्ता विश्वस्ता वञ्चिता.स्स्म हनूमता। न हि मे जीवतो गच्छे-ज्जीवन् स वनगोचरः 3।। >> सर्वां सागरपर्यन्तां सशैलवन.काननाम्। करो म्यवानरां भूमि.माज्ञापयतु मां भवान् 4।। >> रक्षां चैव विधास्यामि वानरा.द्रजनीचर। नागमिष्यति ते दुःखं किञ्चि दात्मापराधजम् 5।। >> अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः। इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् 6।। >> अयं परिभवो भूयः पुरस्यान्तःपुरस्य च। श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् 7।। >> अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्। प्रविष्टान् सागरं भीम.-मम्बरं वा रसातलम् 8।। >> ततोब्रवीत् सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः। प्रगृह्य परिघं घोरं मांसशोणितरूषितम् 9।। >> किं वो हनुमता कार्यं कृपणेन दुरात्मना। रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे।। 10।। >> अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्। आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्।। 11।। >> इदं ममापरं वाक्यं शृणु राजन् यदीच्छसि। उपाय कुशलो ह्येव जये छ्चत्रू नतन्द्रितः।। 12।। >> काम.रूपधरा.श्शूरा-स्सुभीमा भीमदर्शनाः। राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः।। 13।। >> काकुस्थ मुपसङ्गम्य बिभ्रतो मानुषं वपुः। सर्वे ह्यसम्भ्रमा भूत्वा बृवन्तु रघुसत्तमम्। प्रेषिता भरतेन स्म भ्रात्रा तव यवीयसा।। 14।। >> तवागमन मुद्दिश्य कृत्य मात्ययिकं त्विति । स हि सेनां समुत्थाप्य क्षिप्र मेवोपयास्यति।। 15।। >> ततो वय मितस्तूर्णं शूल शक्ति गदा धराः। चाप.बाणासि.हस्ताश्च त्वरिता.स्तत्र याम ह।। 16।। >> आकाशे गण शस्थित्वा हत्वा तां हरि वाहिनीम्। अश्म.शस्त्र महावृष्ट्या प्रापयाम यम क्षयम्।। 17।। >> एवं चे दुपसर्पेता मनयं रामलक्ष्मणौ। अवश्य मपनीतेन जहता.मेव जीवितम्।। 18। कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्। अब्रवी.त्परमक्रुद्धो रावणं लोकरावणम्।। 19।। >> सर्वे भवन्त.स्तिष्ठन्तु महाराजेन सङ्गताः। अहमेको हनिष्यामि राघवं सहलक्ष्मणम्। सुग्रीवं च हनूमन्तं सर्वा.नेव च वानरान् 20।। >> ततो वज्रहनु.र्नाम राक्षसः पर्वतोपमः। क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्य.मब्रवीत् 21।। >> स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः। एकोहं भक्षयिष्यामि तान् सर्वान् हरियूथपान् 22।। >> स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम्। अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम्। अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् 23।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टमस्सर्गः। • युद्धकाण्डे सर्गः 9 विभीषणसमालोचनम् ततो निकुम्भो रभस.-स्सूर्यशत्रु र्महाबलः। सुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः।। 1।। >> अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। इन्द्रजिच्च महातेजा बलवान् रावणात्मजः 2।। >> प्रहस्तोथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः 3।। >> परिघान् पट्टसान् प्रासान् शक्तिशूल.परश्वधान्। चापानि च सबाणानि खड्गांश्च विपुलान् शितान् 4।। >> प्रगृह्य परमक्रुद्धा.-स्समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा 5।। >> अद्य रामं वधिष्याम.-स्सुग्रीवं च सलक्ष्मणम्। कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता 6।। >> तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः। अब्रवीत् प्राञ्जलि.र्वाक्यं पुनः प्रत्युपवेश्य तान् 7।। >> अप्युपायै.स्त्रिभि.स्तात योर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालां.स्तान् युक्तानाहु र्मनीषिणः 8।। >> प्रमत्ते ष्वभियुक्तेषु दैवेन प्रहतेषु च। विक्रमा.स्तात सिध्यन्ति परीक्ष्य विधिना कृताः 9।। >> अप्रमत्तं कथं तं तु विजिगीषुं बलेस्थितम्। जितरोषं दुराधर्षं प्रधर्षयितु मिच्छथ।। 10।। >> समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। कृतं हनुमता कर्म दुष्करं तर्कयेत वा।। 11।। >> बला.न्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसावज्ञा न कर्तव्या कथं चन।। 12।। >> किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थाना-द्यस्य भार्यां यशस्विनः।। 13।। >> खरो यद्यतिवृत्तस्तु रामेण निहतो रणे। अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्।। 14।। >> अयशस्य मनायुष्यं परदाराभिमर्शनम्। अर्थक्षयकरं घोरं पापस्य च पुनर्भवम्।। 15।। >> एतन्निमित्तं वैदेही भयम् न.स्सुमह द्भवेत्। आहृता सा परित्याज्या कलहार्थे कृते न किम्।। 16।। >> न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयता.मस्य मैथिली।। 17।। >> यावन्न सगजां साश्वां बहुरत्न.समाकुलाम्। पुरीं दारयते बाणै-र्दीयता.मस्य मैथिली।। 18।। >> यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्का तावत् सीता प्रदीयताम्।। 19।। >> विनश्येद्धि पुरी लङ्का शूरा.स्सर्वे च राक्षसाः। रामस्य दयिता पत्नी स्वयं न यदि दीयते 20।। >> प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम। हितं पथ्यं त्वहं ब्रूमि दीयता.मस्य मैथिली 21।। >> पुरा शरत्सूर्य.मरीचि सन्निभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः। सृज त्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली 22।। >> त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली 23।। >> विभीषण वचश्श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् 24।। >> श्रीमद्रामायणे युद्धकाण्डे नवमस्सर्गः। • युद्धकाण्डे सर्गः 10 विभीषणपथ्योपदेशः ततः प्रत्युषसि प्राप्ते प्राप्त.धर्मार्थ निश्चयः। राक्षसाधिपते र्वेश्म भीमकर्मा विभीषणः ।। 1।। >> शैलाग्रचयसङ्काशं शैलशृङ्ग मिवोन्नतम्। सुविभक्त महाकक्ष्यं महाजन परिग्रहं 2।। >> मतिमद्भि र्महामात्रै रनुरक्तै रधिष्ठितम्। राक्षसैश्चाप्त पर्याप्तै सर्वतः परिरक्षितम् 3।। >> मत्त मातङ्ग निश्श्वासै र्व्याकुलीकृत मारुतम्। शङ्ख घोष महाघोषं तूर्य नादानुनादितं 4।। >> प्रमदा जन सम्बाधं प्रजल्पित महापथम्। तप्त काञ्चन निर्यूहं भूषणोत्तम भूषितम् 5।। >> गन्धर्वाणा मिवावास मालयं मरुता मिव। रत्न सञ्चय सम्बाधं भवनम् भोगिना मिव 6।। >> तं महाभ्र मिवादित्य-स्तेजो.विस्तृतरश्मिमान्। अग्रजस्यालयं वीरःप्रविवेश महाद्युतिः 7।। >> पुण्यान् पुण्याहघोषांश्च वेदविद्भि रुदाहृतान्। शुश्राव स महातेजा भ्रातु.र्विजय संश्रितान् 8।। >> पूजितान् दधिपात्रैश्च सर्पिर्भि.स्सुमनोक्षतैः। मन्त्र वेदं विदो विप्रान् ददर्श सुमहाबलः 9।। >> स पूज्यमानो रक्षोभि-र्दीप्यमान.स्स्वतेजसा। आसनस्थं महाबाहु र्ववन्दे धनदानुजम्।। 10।। >> स राज दृष्टि सम्पन्न .मासनं हेम भूषितम्। जगाम समुदाचारं प्रयुज्याचार कोविदम्।। 11।। >> सरावणं महात्मानं विजने मन्त्रिसन्निधौ। उवाच हित मत्यर्थं वचनम् हेतु निश्चितम्।। 12।। >> प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थित क्रमः। देश कालार्थ सँवादी दृष्टलोक परावरः।। 13।। >> यदा प्रभृति वैदेही सम्प्राप्तेमां पुरी.मिमाम्। तदा प्रभृति दृश्यन्ते निमित्ता.न्यशुभानि नः।। 14।। >> सस्फुलिङ्ग.स्सधूमार्चि-स्सधूम.कलुषोदयः। मन्त्र सन्धुक्षितोप्यग्नि-र्न सम्य.गभिवर्धते।। 15।। >> अग्निष्ठेष्वग्नि शालासु तथा ब्रह्मस्थलीषु च। सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः।। 16।। >> गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः। दीन.मश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः।। 17।। >> खरोष्ट्राश्वतरा राजन् भिन्न रोमा.स्स्रवन्ति नः। नस्वभावेव तिष्ठन्ते विधानै रपि चिन्तिताः।। 18।। >> वायसा.स्सङ्घशः क्रूरा व्याहरन्ति समन्ततः। समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः।। 19।। >> गृध्राश्च परिलीयन्त पुरी.मुपरि पिण्डिताः। उपपन्नाश्च सन्ध्ये द्वे व्याहरं.त्यशिवं शिवाः 20।। >> क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः। श्रूयन्ते विपुला घोषा-स्सविस्फूर्ज धुनिस्वनाः 21।। >> तदेवं प्रस्तुते कार्ये प्रायश्चित्त मिदं क्षमम्। रोचते यदि वैदेही राघवाय प्रदीयतां 22।। >> इदं च यदि वा मोहाद्वा-लोभाद्वा व्याहृतं मया। तत्रापि च महाराज न दोषं कर्तु मर्हसि 23।। >> अयं च दोषस्सर्वस्य जनस्याप्युप लक्ष्यते। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च 24।। >> श्रावणे चास्य मन्त्रस्य निवृत्ता.स्सर्वमन्त्रिणः। अवश्यं च मया वाच्यं यद्दृष्टमपि वा श्रुतम्। सम्प्रधार्य यथा न्यायं तद्भवान् कर्तु मर्हति 25।। >> इति स्म मन्त्रिणां मध्ये भ्राता भ्रातर मूचिवान्। रावणं राक्षसश्रेष्ठं पथ्य.मेत.द्विभीषणः 26।। >> हितं महार्थं मृदु हेतु संहितं- व्यतीत कालायति सम्प्रति क्षमम्। निशम्य तद्वाक्य.मुपस्थित ज्वरः- प्रसङ्गवा. नुत्तर.मेत. दब्रवीत् 27।। >> भयं न पश्यामि कुतश्चि.दप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्। सुरै.स्सहेन्द्रै.रपि सङ्गतः कथं ममाग्रत.स्स्थास्यति लक्ष्मणाग्रजः 28।। >> इतीद.मुक्त्वा सुर सैन्य.नाशनो- महाबलस्सँयति चण्ड विक्रमः। दशाननो भ्रातर माप्त वादिनं विसर्जया मास तदा विभीषणं 29।। >> श्रीमद्रामायणे युद्धकाण्डे दशमस्सर्गः। • युद्धकाण्डे सर्गः 11 द्वितीयमन्त्राधिवेशः स बभूव कृशो राजा मैथिलीकाम.मोहितः। असंमानाच्च सुहृदां पापः पापेन कर्मणा।। 1।। >> अतीतसमये काले तस्मिन् वै युधि रावणः। अमात्यैश्च महद्भिश्च मन्त्रकाल. ममन्यत 2।। >> सहेमजाल विततं मणि विद्रुम भूषितम्। उपगम्य विनीताश्व-मारुरोह महारथं 3।। >> तमास्थाय रथश्रेष्ठं महामेघ समस्वनम्। प्रययौ राक्षसश्रेष्ठो दशग्रीव.स्सभां प्रति 4।। >> असिचर्मधरा योधा-स्सर्वायुधधरा.स्तथा। राक्षसा राक्षसेन्द्रस्य पुरत.स्सम्प्रतस्थिरे 5।। >> नाना विकृत वेषाश्च नाना भूषण भूषिताः। पार्श्वतः पृष्ठत.श्चैनं परिवार्य ययु.स्ततः 6।। >> रथैश्चातिरथा.श्शीघ्रं मत्तैश्च वर वारणैः। अनूत्पेतु र्दशग्रीव-माक्रीडद्भिश्च वाजिभिः 7।। >> गदा परिघ हस्ताश्च शक्ति तोमर पाणयः। परश्वथ धराश्चान्ये तथान्ये शूलपाणयः 8।। >> ततस्सूर्य सहस्राणां सञ्जज्ञे निस्वनो महान्। तुमुल.श्सङ्ख शब्दश्च सभां गच्छति रावणे 9।। >> स नेमिघोषेण महान्सहसाभिविनादयन्। राज मार्गश्रिया जुष्टं प्रतिपेदे महारथः।। 10।। >> विमलं चातपत्राणां प्रगृहीत मशोभत। पाण्डरं राक्षसेन्द्रस्य पूर्ण.स्ताराधिपो यथा।। 11।। >> हेममञ्जरिगर्भे च शुद्धस्फटिक विग्रहे। चामर व्यजने चास्य रेजतु.स्सव्यदक्षिणे।। 12।। >> तं कृताञ्जलय.स्सर्वे रथस्थं पृथिवीस्थिताः। राक्षसा राक्षसश्रेष्ठं शिरोभि.स्तं ववन्दिरे।। 13।। >> राक्षसै.स्तूयमान.स्सन् जयाशीर्भि ररिन्दमः। आससाद महातेजा-स्सभां सुविहितां शुभाम्।। 14।। >> सुवर्ण रजत.स्थूणां विशुद्धस्फटिकान्तराम्। विराजमानो वपुषा रुक्म पट्टोत्तरच्छदाम्।। 15।। >> तां पिशाच शतै ष्षड्भि-रभिगुप्तां सदा शुभाम्। प्रविवेश महातेजा-स्सुकृतां विश्वकर्मणा।। 16।। >> तस्यां तु वैदूर्य मयं प्रियकाजिन सँवृतम्। महत्सोपाश्रयं भेजे रावणः पर.मासनम्।। 17।। >> तत.श्शशासेश्वरव.-द्दूतान् लघु पराक्रमान्। समानयत मे क्षिप्रं मिहैतान् राक्षसा.निति । कृत्यमस्ति मह ज्जातं सामर्थ्य.मिह नो महत्।। 18।। >> राक्षसा.स्तद्वचश्श्रुत्वा लङ्कायां परिचक्रमुः।। 19।। >> अनुगेह मवस्थाय विहारशयनेषु च। उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् 20।। >> ते रथान् रुचिरा.नेके दृप्ता नेके पृधग्घयान्। नागा नन्येधिरुरुहु-र्जग्मुश्चैके पदातयः 21।। >> सा पुरी पर.माकीर्णा रथकुञ्जर वाजिभिः। सम्पतत्भि र्विरुरुचे गरुत्मद्भि.रिवाम्बरं 22।। >> ते वाहना व्यवस्थाप्य यानानि विविधानि च। सभां पद्भिः प्रविविशु-स्सिंहा गिरिगुहा मिव 23।। >> राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः। पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् 24।। >> ते समेत्य सभायां वै राक्षसा राजशासनात्। यथार्ह मुपतस्थु.स्ते रावणं राक्षसाधिपं 25।। >> मन्त्रिणश्च यथा मुख्या निश्चयार्थेषु पण्डिताः। अमात्याश्च गुणोपेता-स्सर्वज्ञा बुद्धिदर्शनाः। समेयुस्तत्र शतशः शूराश्च बहव.स्तदा 26।। >> सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै। रम्यायां राक्षसेन्द्रस्य समेयु.स्तत्र सङ्घशः 27।। >> राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे। ततो महात्मा विपुलं सुयुग्यं- वरं रथं हेम विचित्रिताङ्गम्। शुभं समास्थाय ययौ यशस्वी विभीषण.स्संसद. मग्रजस्य 28।। >> स पूर्वजायावरज.श्शशंस नामाथ पश्चा च्चरणौ ववन्दे। शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि 29।। >> सुवर्ण नाना मणि भूषणानां- स वाससां संसदि राक्षसानाम्। तेषां परार्थ्यागरु चन्दनानां -स्रजश्च गन्धाश्च वपुस्समन्तात् 30।। >> न चुक्रुशु. र्नानृत .माह कश्चित्- सभासदो नैव जजल्पु रुच्चैः। संसिद्धार्था.स्सर्व एवोग्रवीर्या- भर्तु.स्सर्वे ददृशु.श्चाननं ते 31।। >> स रावणश्शस्त्र भृतां मनस्विनां- महाबलानां समितौ मनस्वी। तस्यां सभायां प्रभया चकाशे- मध्ये वसूनामिव वज्रहस्तः 32।। >> श्रीमद्रामायणे युद्धकाण्डे एकादशस्सर्गः। • युद्धकाण्डे सर्गः 12 कुम्भकर्णमतिः स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः। प्रचोदयामास तदा प्रहस्तं वाहिनीपतिः।। 1।। >> सेनापते यथा ते स्युः कृतविद्या.श्चतुर्विधाः। योधा नधिकरक्षायां तथा व्यादेष्टु.मर्हसि 2।। >> स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्। विनिक्षिपत् बलं सर्वं बहि रन्तश्च मन्दिरे 3।। >> ततो विनिक्षिप्य बलं पृथङ्नगर गुप्तये। प्रहस्तः प्रमुखे राज्ञो विषसाद जगाद च 4।। >> निहितं बहिरन्तश्च बलं बलवतस्तव। कुरुष्वाविमनाः क्षिप्रं यदभिप्रेत मस्तु ते 5।। >> प्रहस्तस्य वच.श्श्रुत्वा राजा राज्यहिते रतः। सुखेप्सु.स्सुहृदां मध्ये व्याजहार स रावणः 6।। >> प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहितौ। धर्मकामार्थ कृच्च्रेषु यूय.मर्हथ वेदितुं 7।। >> सर्व कृत्यानि युष्माभि-स्समारब्धानि सर्वदा। मन्त्र कर्म नियुक्तानि न जातु विफलानि मे 8।। >> ससोम ग्रहनक्षत्रै-र्मरुद्भि रिव वासवः। भवद्भि. रह.मत्यर्थं वृत.श्श्रिय मवाप्नुयां 9।। >> अहं तु खलु सर्वा न्वस्समर्थयितु मुद्यतः। कुम्भकर्णस्य तु स्वप्ना-न्नेम.मर्थ. मचोदयम्।। 10।। >> अयं हि सुप्त.ष्षण्मासान् कुम्भकर्णो महाबलः। सर्वश शस्त्रभृतां मुख्य-स्स इदानीं समुत्थितः।। 11।। >> इयं च दण्डकारण्या-द्रामस्य महिषी प्रिया। रक्षोभि.श्चरिता. द्देशा दानीता जनकात्मजा।। 12।। >> सा मे न शय्या.मारोढु- मिच्छ. त्यलस गामिनी। त्रिषु लोकेषु चान्या मे न सीता सदृशी मता।। 13।। >> तनु मध्या पृथुश्रोणी शारदेन्दु निभानना। हेम बिम्ब निभा सौम्या मायेव मयनिर्मिता।। 14।। >> सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ। दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः। हुताग्नि रर्चि.सङ्काशा- मेनां सौरी मिव प्रभाम्।। 15। दृष्ट्वा सीतां विशालाक्षीं कामस्य वश मेयिवान्। उन्नसं वदनं वल्गु विपुलं चारुलोचनम्। पश्यं.स्तदावश.स्तस्याः कामस्य वश मेयिवान्।। 16।। >> क्रोध हर्ष समानेन दुर्वर्णकरणेन च। शोक सन्ताप नित्येन कामेव कलुषीकृतः।। 17।। >> सा तु सँवत्सरं कालं मा.मयाचत भामिनी। प्रतीक्षमाणा भर्तारं राम.मायतलोचना।। 18।। >> तन्मया चारु नेत्रायाः प्रतिज्ञातं वच.श्शुभः। श्रान्तोहं सततं कामा-द्यातो हय इवाध्वनि।। 19।। >> कथं सागर मक्षोभ्य मुत्तरन्ति वनौकसः। बहुसत्त्व.समाकीर्णं तौ वा दशरथात्मजौ 20।। >> अथ वा कपि नैकेन कृतं नः कदनं महत्। दुर्जेयाः कार्यगतयो ब्रूत यस्य यथामति 21।। >> मानुषान् मे भयं नास्ति तथापि तु विमृश्यताम्। तदा देवासुरे युद्धे युष्माभि.स्सहितो जयम् 22।। >> ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन्। परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ 23।। >> सीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् 24।। >> अदेया च यथा सीता वध्यौ दाशरथात्मजौ। भवद्भि.र्मन्त्र्यतां मन्त्र-स्सुनीतं चाभिधीयतां 25।। >> न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्। सागरं वानरै.स्तीर्त्वा निश्चयेन जयो मम 26।। >> तस्य कामपरीतस्य निशम्य परिदेवितम्। कुभकर्णः प्रचुक्रोध वचनं चेद मब्रवीत् 27।। >> यदा तु रामस्य सलक्ष्मणस्य- प्रसह्य सीता खलु सा इहाहृता। सकृत् समीक्ष्यैव सुनिश्चितं तदा। भजेत चित्तं यमु नेव यामुनम् 28।। >> सर्वमेत.न्महाराज कृत.मप्रतिमं तव। विधीयेत सहास्माभि-रादा.वेवास्य कर्मणः 29।। >> न्यायेन राज कार्याणि यः करोति दशानन। न स सन्तप्यते पश्चा-न्निश्चितार्थमति.र्नृपः 30।। >> अनपायेन कर्माणि विपरीतानि यानि च। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव 31।। >> यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति। पूर्वं चापरकार्याणि न स वेद नयानयौ 32।। >> चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्। छिद्र.मन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः 33।। >> त्वयेदं मह दारब्धं कार्य मप्रतिचिन्तितम्। दिष्ट्या त्वां नावधी.द्रामो विष.मिश्र. मिवामिषं 34।। >> तस्मा त्त्वया स.मारब्धं कर्म ह्यप्रतिमं परैः। अहं समीकरिष्यामि हत्वा शत्रूं.स्तवानघ 35।। >> यदि शक्र विवस्वन्तौ यदि पावकमारुतौ। ता वहं योधयिष्यामि कुबेरवरुणा.वपि 36।। >> गिरिमात्र शरीरस्य महापरिघ योधिनः। नर्दत.स्तीक्ष्णदंष्ट्रश्च बिभिया.द्वै पुरन्दरः 37।। >> पुनर्मां स द्वितीयेन शरेण निहनिष्यति। ततोहं तस्य पास्यामि रुधिरं काम.माश्वस 38।। >> वधेन वै दाशरथे.स्सुखावहं- जयं तवाहर्तु महं यतिष्ये। हत्वा च रामं सह लक्ष्मणेन- खादामि सर्वान् हरियूथमुख्यान् 39।। >> रामस्य कामं पिब चाग्र्य वारुणीं- कुरुष्व कार्याणि हितानि विज्वरः। मया तु रामे गमिते यमक्षयं- चिराय सीता वशगा भविष्यति 40। श्रीमद्रामायणे युद्धकाण्डे द्वादशस्सर्गः। • युद्धकाण्डे सर्गः13 महापार्श्ववचोभिनन्दनम् रावणं क्रुद्ध.माज्ञाय महापार्श्वो महाबलः। मुहूर्त. मनुसञ्चिन्त्य प्राञ्जलि.र्वाक्य. मब्रवीत्।। 1।। >> यः खल्वपि वनं प्राप्य मृग.व्याल. समाकुलम्। न पिब न्मधु सम्प्राप्तं स नरो बालिशो भवेत् 2।। >> ईश्वरस्येश्वरः कोस्ति तव शत्रुनिबर्हण। रमस्व सह वैदेह्या शत्रू.नाक्रम्य मूर्धसु 3।। >> बलात् कुक्कुटवृत्तेन वर्तस्व सुमहाबल। आक्रम्याक्रम्य सीतां वै तथा भुङ्क्ष्व रमस्व च 4।। >> लब्धकामस्य ते पश्चा-दागमिष्यति यद्भयम्। प्राप्त.मप्राप्त कालं वा सर्वं प्रति सहिष्यसि 5।। >> कुम्भकर्ण.स्सहास्माभि-रिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्र.मपि वज्रिणं 6।। >> उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्। समतिक्रम्य दण्डेन सिद्धि.मर्थेषु रोचय 7।। >> इह प्राप्तान् वयम् सर्वां-ञ्छत्रूंस्तव महाबल। वशे वस्त्रप्रतापेन करिष्यामो न संशयः 8।। >> एव.मुक्त.स्तदा राजा महापार्श्वेन रावणः। तस्य सम्पूजय.न्वाक्य-मिदं वचन.मब्रवीत् 9।। >> महापार्श्व निबोध त्वं रहस्यं किञ्चि दात्मनः। चिर वृत्तं तदाख्यास्ये यदवाप्तं मया पुरा।। 10।। >> पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्। चञ्चूर्यमाणा मद्राक्ष-माकाशेग्निशिखा.मिव।। 11।। >> सा प्रसह्य मया भुक्ता कृता विवसना ततः। स्वयम्भू भवनं प्राप्ता लोलिता नलिनी यथा।। 12।। >> तस्य तच्च तदा मन्ये ज्ञात मासी.न्महात्मनः। अथ सङ्कुपितो देवो मा मिदं वाक्य मब्रवीत्।। 13।। >> अद्य प्रभृति या मन्यां बला.न्नारीं गमिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः।। 14।। >> इत्यहं तस्य शापस्य भीतः प्रसभ.मेव ताम्। नारोपये बलात् सीतां वैदेहीं शयने शुभे।। 15।। >> सागरस्येव मे वेगो मारुतस्येव मे गतिः। नैत.द्दाशरथि.र्वेद ह्यासादयति तेन माम्।। 16।। >> यस्तु सिंह मिवासीनं सुप्तं गिरि गुहाशये। क्रुद्धं मृत्यु.मिवासीनं प्रबोधयितु मिच्छति।। 17।। >> न मत्तो निशितान् बाणान् द्विजिह्वा.निव पन्नगान्। रामः पश्यति सङ्ग्रामे तेन मा.मभिगच्छति।। 18।। >> क्षिप्रं वज्रोपमै-र्बाणै-श्शतधा कार्मुक.च्युतैः। राम.मादीपयिष्यामि उल्काभि.रिव कुञ्जरम्।। 19।। >> तच्चास्य बल .मादास्ये बलेन महता वृतः। उदये सविता काले नक्षत्राणा मिव प्रभां 20।। >> न वासवे नापि सहस्र चक्षुषा- युधास्मि शक्यो वरुणेन वा पुनः। मया त्वियं बाहुबलेन निर्जिता- पुरी पुरा वैश्रवणेन पालिता 21।। >> श्रीमद्रामायणे युद्धकाण्डे त्रयोदशस्सर्गः। • युद्धकाण्डे सर्गः 14 प्रहस्तविभीषणविवादः निशाचारेन्द्रस्य निशम्य वाक्यं- स कुम्भकर्णस्य च गर्जितानि। विभीषणो राक्षसराजमुख्य- मुवाच वाक्यं हित मर्थयुक्तम्।। 1।। >> वृतो हि बाह्यान्तर भोगराशिः- चिन्ताविषः सुस्मित तीक्ष्णदंष्ट्रः। पञ्चाङ्गुली पञ्च शिरोति कायः- सीता महाहिस्तव केन राजन् 2।। >> यावन्न लङ्कां समभिद्रवन्ति - वलीमुखाः पर्वत कूट मात्राः। दंष्ट्रायुधाश्चैव नखायुधाश्च- प्रदीयतां दाशरथाय मैथिली 3।। >> यावन्न गृह्णन्ति शिरांसि बाणा- रामेरिता राक्षस पुङ्गवानाम्। वज्रोपमा वायु समान वेगाः- प्रदीयतां दाशरथाय मैथिली 4।। >> भित्वा न तावत् प्रविशन्ति कायं- प्राणान्तिका.स्तेशनि तुल्य वेगाः। शिताश्शरा राघव विप्रमुक्ताः- प्रहस्त ते नैव विकत्थसे त्वं 5।। >> न कुम्भकर्णेन्द्रजितौ न राजा- तथा महापार्श्व महोदरौ वा। निकुम्भ कुम्भौ च तथातिकायः- स्थातुं न शक्या युधि राघवस्य 6।। >> जीवंस्तु रामस्य न मोक्ष्यसे त्वं- गुप्तः सवित्राप्यथवा मरुद्भिः । न वासवस्याङ्क गतो न मृत्योः- नभो न पाताल मनुप्रविष्टः 7।। >> निशम्य वाक्यं तु विभीषणस्य - ततः प्रहस्तो वचनम् बभाषे। न नो भयं विद्म न दैवतेभ्यो- न दानवेभ्योप्यथवा कुतश्चित् 8।। >> न यक्ष गन्धर्व महोरगेभ्यो- भयं न सङ्ख्ये पतगोत्तमेभ्यः। कथं नु रामा द्भविता भयं नो। नरेन्द्र पुत्रा त्समरे कदाचित् 9।। >> प्रहस्त वाक्यं त्वहितं निशम्य- विभीषणो राजहितानुकाङ्क्षी। ततो महात्मा वचनम् बभाषे। धर्मार्थ कामेषु निविष्ट बुद्धिः।। 10।। >> प्रहस्त राजा च महोदरश्च- त्वं कुम्भकर्णश्च यथार्थजातम्। ब्रवीथ रामं प्रति तन्न शक्यं - यथा गति.स्स्वर्ग मधर्म बुद्धिः।। 11।। >> वधस्तु रामस्य मया त्वया वा- प्रहस्त सर्वैरपि राक्षसैर्वा। कथं भवेदर्थ विशारदस्य। महार्णवं तर्तु.मिवाप्लवस्य।। 12।। >> धर्म प्रधानस्य महारथस्य - इक्ष्वाकु वंश प्रभवस्य राज्ञः। प्रहस्त देवाश्च तथाविधस्य- कृत्येषु शक्तस्य भवन्ति मूढाः।। 13।। >> तीक्ष्णा नता यत्तव कङ्कपत्रा- दुरासदा राघव विप्रमुक्ताः। भित्वा शरीरं प्रविशन्ति बाणाः- प्रहस्त ते नैव विकत्थसे त्वम्।। 14।। >> न रावणो नाति बलस्त्रिशीर्षो- न कुम्भकर्णोस्य सुतो निकुम्भः। न चेन्द्रजि.द्दाशरथिं प्रसोढुं- त्वं वा रणे शक्र समं समर्थाः।। 15।। >> देवान्तको वापि नरान्तको वा- तथातिकायोतिरथा महात्मा। अकम्पनश्चाद्रिसमान सारः- स्थातुं न शक्ता युधि राघवस्य।। 16।। >> अयं हि राजा व्यसनाभिभूतो- मित्रै.रमित्र प्रतिमै र्भवद्भिः। अन्वास्यते राक्षस नाशनाय- तीक्ष्णः प्रकृत्या ह्यसमीक्ष्य कारी।। 17।। >> अनन्त भोगेन सहस्र मूर्ध्ना- नागेन भीमेन महाबलेन। बला त्परिक्षिप्त मिमं भवन्तो- राजान.मुत्क्षिप्य विमोचयन्तु।। 18।। >> यावद्धि केश ग्रहणं सुहृद्भिः- समेत्य सर्वैः परिपूर्ण कामैः। न गृह्य राजा परिरक्षितव्यो- भूतै र्यथा भीम बलै र्गृहीतः।। 19।। >> संहारिणा राघव सागरेण- प्रच्छाद्यमान.स्तरसा भवद्भिः। युक्तस्स्वयं तारयितुं समेत्य- काकुस्थ पातालमुखे पतन् सः 20।। >> इदं पुरस्यास्य स राक्षसस्य- राज्ञश्च पथ्यं ससुहृज्जनस्य। सम्यग्घि वाक्यंस्वमतं ब्रवीमि- नरेन्द्रपुत्राय ददाम पत्नीं 21।। >> परस्य वीर्यं स्वबलं च बुद्ध्वा- स्थानं क्षयं चैव तथैव वृद्धिम्। तथास्व पक्षेप्यनुमृश्य बुद्ध्वा- वदेत् क्षमं स्वामिहितं च मन्त्री 21।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्दशस्सर्गः। • युद्धकाण्डे सर्गः 15 इन्द्रजि.द्विभीषणविवादः बृहस्पते.स्तुल्यमते. र्वचस्तं- निशम्य यत्नेन विभीषणस्य। ततो महात्मा वचनं बभाषे- तदिन्द्रजि. न्नैरृत योधमुख्यः।। 1।। >> किं नाम ते तात कनिष्ठ वाक्य-मनर्थकं चैव सुभीतवच्च। अस्मिन् कुले योपि भवे न्न जातः- सोपीदृशं नैव वदे.न्न कुर्यात् 2।। >> सत्त्वेन वीर्येण पराक्रमेण- शौर्येण धैर्येण च तेजसा च। एकः कुलेस्मिन् पुरुषो विमुक्तो- विभीषण.स्तात कनिष्ठ एषः 3।। >> किन्नाम तौ मानुष.राजपुत्रा- वस्माक.मेकेन हि राक्षसेन। सुप्राकृतेनापि रणे निहन्तुं- शक्यौ कुतो भीषयसे स्म भीरो 4।। >> त्रिलोकनाथो ननु देव राज-श्शक्रो मया भूमितले निविष्टः। भयार्दिता.श्चापि दिशः प्रपन्नाः- सर्वे तथा देवगणा.स्समग्राः 5। ऐरावतो विस्वर.मुन्नदन् स- निपातितो भूमि तले मया तु। विकृष्य दन्तौ तु मया प्रसह्य- वित्रासिता देव गणा.स्समग्राः 6।। >> सोहं सुराणा.मपि दर्पहन्ता- दैत्योत्तमाना मपि शोक दाता। कथं नरेन्द्रात्मजयो.र्न शक्तो- मनुष्ययोः प्राकृतयो.स्सुवीर्यः 7।। >> अथेन्द्रकल्पस्य दुरासदस्य- महौजस.त्त.द्वचनं निशम्य। ततो महार्थं वचनं बभाषे- विभीषण.श्शस्त्रभृतां वरिष्ठः 8।। >> न तात मन्त्रे तव निश्चयोस्ति- बालस्त्व मद्याप्यविपक्व बुद्धिः। तस्मा.त्त्वया ह्यात्म विनाशनाय। वचोर्थ हीनं बहु विप्रलप्तं 9।। >> पुत्र प्रवादेन तु रावणस्य- त्व.मिन्द्रजिन्मित्रमुखोसि शत्रुः। यस्येदृशं राघवतो विनाशं- निशम्य मोहा.दनुमन्यसे त्वम्।। 10।। >> त्व मेव वध्यश्च सुदुर्मतिश्च- स चापि वध्यो य इहानय त्वाम्। बालं दृढं साहसिकं च योद्य- प्रावेशयन् मन्त्रकृतां समीपम्।। 11।। >> मूढः प्रगल्भोविनयोपपन्नः- तीक्ष्णस्वभावोल्प मति र्दुरात्मा। मूर्खस्त्व मत्यन्त सुदुर्मतिश्च- त्व.मिन्द्रजि.त्बालतया ब्रवीषि।। 12।। >> को ब्रह्मदण्ड प्रतिम प्रकाशा- नर्चिष्मतः काल निकाशरूपान्। सहेत बाणान् यम दण्ड कल्पाः- समक्ष मुक्तान् युधि राघवेण।। 13।। >> धनानि रत्नानि विभूषणानि- वासांसि दिव्यानि मणींश्च चित्रान्। सीतां च रामाय निवेद्य देवीं- वसेम राज न्निह वीतशोकाः।। 14।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चदशस्सर्गः। • युद्धकाण्डे सर्गः 16 विभीषणाक्रोशः सुनिविष्टं हितं वाक्य-मुक्तवन्तं विभीषणम्। अब्रवीत् परुषं वाक्यं रावणः कालचोदितः।। 1।। >> वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा। न तु मित्रप्रवादेन सँवसे.च्छत्रुसेविना 2।। >> जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस। हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातय.स्सदा 3।। >> प्रधानं साधनं वैद्यं धर्मशीलं च राक्षस। ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च।। 4।। नित्य.मन्योन्यसंहृष्टा व्यसने.ष्वाततायिनः। प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः 5।। >> श्रूयन्ते हस्तिभि र्गीता.श्श्लोकाः पद्मवने क्वचित्। पाशहस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम 6।। >> नाग्नि.र्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोरा.स्स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः 7।। >> उपायमेते वक्ष्यन्ति ग्रहणेनात्र संशयः। कृत्स्ना.द्भयात् ज्ञातिभयं सुकष्टं विदितं च नः 8।। >> विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः। विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् 9।। >> ततो नेष्ट.मिदं सौम्य य.दहं लोकसत्कृतः। ऐश्वर्येणाभिजातश्च रिपूणां मूर्ध्न्यवस्थितः।। 10।। >> यथा पुष्करपर्णेषु पतिता.स्तोयबिन्दवः। नश्लेष मुपगच्छन्ति तथा नार्येषु सङ्गत0।। 11।। >> यथा मधुकर.स्तर्षा-द्रसं विन्द.न्न विद्यते। तथा त्वमपि तत्रैव तथा नार्येषु सौहृदम्।। 12।। >> यथा पूर्वं गजस्स्नात्वा गृह्य हस्तेन वै रजः। दूषय त्यात्मनो देहं-स्तथानार्येषु सौहृदम्।। 13।। >> यथा शरदि मेघानां सिञ्चता.मपि गर्जताम्। न भवत्यम्बु सङ्क्लेद-स्तथानार्येषु सौहृदम्।। 14।। >> अन्य.स्त्वेवँविधं ब्रूया-द्वाक्य.मेत. न्निशाचर। अस्मि.न्मुहूर्ते न भवे-त्त्वां तु धिक्कुल.पांसनम्।। 15।। >> इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणि.-श्चतुर्भि.स्सह राक्षसैः।। 16।। >> अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगत.श्श्रीमान् भ्रातरं राक्षसाधिपम्। स त्वं भ्रातासि मे राजन् ब्रूहि मां यद्य.दिच्छसि।। 17।। >> ज्येष्ठो मान्यः पितृ समो न च धर्म पथे स्थितः। इदं तु परुषं वाक्यं न क्षमा.म्यनृतं तव।। 18।। >> सुनीतं हित कामेन वाक्य.मुक्तं दशानन। न गृह्ण.न्त्यकृतात्मानः कालस्य वश.मागताः।। 19।। >> सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।। 20।। >> बद्धं कालस्य पाशेन सर्वभूतापहारिणा। न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा 21।। >> दीप्तपावकसङ्काशै.-श्शितैः काञ्चनभूषणैः। न त्वा.मिच्छा.म्यहं द्रष्टुं रामेण निहतं शरैः 22।। >> शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे। कालाभिपन्ना.स्सीदन्ति यथा वालुकसेतवः 23।। >> तन्मर्षयतु यच्चोक्तं गुरुत्वा.द्धित मिच्छता। आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् 24।। >> स्वस्ति तेस्तु गमिष्यामि सुखी भव मया विना 25।। >> नूनं न ते रावण कश्चिदस्ति- रक्षो निकायेषु सुहृत्सखा वा। हितोपदेशस्य स मन्त्रवक्ता- योवारयेत्त्वा स्वय मेव पापात् 26।। >> निवार्यमाणस्य मया हितैषिणा- न रोचते ते वचनं निशाचर। परीतकाला हि गतायुषो नरा- हितं न गृह्णन्ति सुहृद्भि.रीरितम् 27।। >> श्रीमद्रामायणे युद्धकाण्डे षोडशस्सर्गः। • युद्धकाण्डे सर्गः17 विभीषणशरणागतिनिवेदनम् इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः। आजगाम मुहूर्तेन यत्र राम.स्सलक्ष्मणः।। 1।। >> तं मेरुशिखराकारं दीप्ता.मिव शतह्रदाम्। गगनस्थं महीस्था.स्ते ददृशु.र्वानराधिपाः 2।। >> स हि मेघाचल प्रख्यो महेन्द्रसम. विक्रमः। सर्वायुधधरो वीरो दिव्याभरण भूषितः। ये चाप्यनुचरास्तस्य चत्वारो भीम विक्रमाः। तेपि सर्वायुधोपेता भूषणैश्चापि भूषिताः। त.मात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः। वानरै.स्सह दुर्धर्ष-श्चिन्तयामास बुद्धिमान् 3।। >> चिन्तयित्वा मुहूर्तं तु वानरां.स्ता.नुवाच ह। हनूम त्प्रमुखान् सर्वा-निदं वचन मुत्तमम् 4।। >> एष सर्वायुधोपेत-श्चतुर्भि.स्सह राक्षसैः। राक्षसोभ्येति पश्यध्व.-मस्मान् हन्तुं न संशयः 5।। >> सुग्रीवस्य वच.श्श्रुत्वा सर्वे ते वानरोत्तमाः। साला.नुद्यम्य शैलांश्च- इदं वचन मब्रुवन् 6।। >> शीघ्रं व्यादिश नो राजन् वधा यैषां दुरात्मनाम्। निपतन्तु हता.श्चैते धरण्या.मल्पतेजसः 7।। >> तेषां सम्भाषमाणाना.-मन्योन्यं स विभीषणः। उत्तरं तीर.मासाद्य खस्थ एव व्यतिष्ठत।। 8।। >> उवाच च महाप्राज्ञ.-स्स्वरेण महता महान्। सुग्रीवं तांश्च सम्प्रेक्ष्य सर्वान् वानरयूथपान् 9।। >> रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः। तस्याह.मनुजो भ्राता विभीषण इति श्रुतः।। 10।। >> तेन सीता जनस्थाना-द्धृता हत्वा जटायुषम्। रुद्धा च विवशा दीना राक्षसीभि.स्सुरक्षिता।। 11।। >> त.महं हेतुभि.र्वाक्यै-र्विविधैश्च न्यदर्शयम्। साधु निर्यात्यतां सीता रामायेति पुनः पुनः।। 12।। >> न च स प्रतिजग्राह रावणः कालचोदितः। उच्यमानो हितं वाक्यं विपरीत इवौषधम्।। 13।। सोहं परुषितस्तेन दासवच्चावमानितः। त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः।। 14।। >> सर्वलोक.शरण्याय राघवाय महात्मने। निवेदयत मां क्षिप्रं विभीषण.मुपस्थितम्।। 15।। >> एत त्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः। लक्ष्मणस्याग्रतो रामं संरब्ध.मिद.मब्रवीत्।। 16।। >> रावणस्यानुजो भ्राता विभीषण इति श्रुतः। चतुर्भि.स्सह रक्षोभि-र्भवन्तं शरणं गतः।। 17।। >> मन्त्रे व्यूहे नये चारे युक्तो भवितु.मर्हसि। वानराणां च भद्रं ते परेषां च परन्तप।। 18।। >> अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः। शूराश्च निकृतिज्ञाश्च तेषु जातु न विश्वसेत्।। 19।। >> प्रणिधी राक्षसेन्द्रस्य रावणस्य भवे.दयम्। अनुप्रविश्य सोस्मासु भेदं कुर्या.न्न संशयः 20।। >> अथ वा स्वय.मेवैष च्छिद्र .मासाद्य बुद्धिमान्। अनुप्रविश्य विश्वस्ते कदाचि.त्प्रहरे दपि 21।। >> मित्राटविबलं चैव मौलं भृत्यबलं तथा। सर्व.मेतद्बलं ग्राह्यं वर्जयित्वा द्विषद्बलं 22।। >> प्रकृत्या राक्षसेन्द्रस्य भ्रातामित्रस्य ते प्रभो। आगतश्च रिपोः साक्षात् कथ-मस्मिन् हि विश्वसेत् 23।। >> रावणेन प्रणिहितं त.मवेहि विभीषणम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर 24।। >> राक्षसो जिह्मया बुद्ध्या सन्दिष्टोय.मुपस्थितः। प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव 25।। >> प्रविष्ट.श्शत्रुसैन्यं हि प्राज्ञ.श्शत्रु.रतर्कितः। निहन्या.दन्तरं लब्ध्वा उलूक इव वायसान् 26।। >> वध्यता.मेष तीव्रेण दण्डेन सचिवै.स्सह। रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः 27।। >> एव.मुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः। वाक्यज्ञो वाक्य कुशलं ततो मौन.मुपागमत् 28।। >> सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः। समीपस्था.नुवाचेदं हनूम.त्प्रमुखान् हरीन् 29।। >> यदुक्तं कपिराजेन रावणावरजं प्रति। वाक्यं हेतुम.दत्यर्थं भवद्भि.रपि तच्छ्रुतम् 30।। >> सुहृदा ह्यर्थकृच्छ्रेषु युक्तं बुद्धिमता सता। समर्थेनापि सन्देष्टुं शाश्वतीं भूति.मिच्छता 31।। >> इत्येवं परिपृष्टा.स्ते स्वं स्वं मत.मतन्द्रिताः। सोपचारं तदा राम-मूचु.र्हितचिकीर्षवः 32।। >> अज्ञातं नास्ति ते किञ्चित् त्रिषु लोकेषु राघव। आत्मानं पूजयन् राम पृच्छ.स्यस्मान् सुहृत्तया 33।। >> त्वं हि सत्यव्रत.श्शूरो धार्मिको दृढविक्रमः। परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च 34।। >> तस्मा देकैकशस्तावृद्ब्रुवन्तु सचिवा.स्तव। हेतुतो मतिसम्पन्ना.स्समर्थाश्च पुनः पुनः 35।। >> इत्युक्ते राघवायाथ मतिमा.नङ्गदोग्रतः। विभीषण परीक्षार्थ.-मुवाच वचनं हरिः 36। शत्रो.स्सकाशात् सम्प्राप्त.-स्सर्वथा शङ्क्य एव हि। विश्वासयोग्य.स्सहसा न कर्तव्यो विभीषणः 37।। >> छादयित्वात्मभावं हि चरन्ति शठबुद्धयः। प्रहरन्ति च रन्ध्रेषु सोनर्थ.स्सुमहान् भवेत् 38।। >> अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह। गुणत.स्सङ्ग्रहं कुर्या-द्दोषतस्तु विसर्जयेत् 39।। >> यदि दोषो महां.स्तस्मिं-स्त्यज्यता.मविशङ्कितम्। गुणान् वापि बहून् ज्ञात्वा- सङ्ग्रहः क्रियतां नृप 40।। >> शरभस्त्वथ निश्चित्य सार्थं वचन.मब्रवीत्। क्षिप्र.मस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् 41।। >> प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना। परीक्ष्य च ततः कार्यो यथा न्याय्यं परिग्रहः 42।। >> जाम्बवां.स्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणव.द्दोषवर्जितम् 43।। >> बद्ध वैराच्च पापाच्च राक्षसेन्द्रा द्विभीषणः। अदेशकाले सम्प्राप्त.-स्सर्वथा शङ्क्यता मयम् 44।। >> ततो मैन्दस्तु सम्प्रेक्ष्य नयापनय.कोविदः। वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् 45।। >> वचनं नाम तस्यैष रावणस्य विभीषणः। पृच्छ्यतां मधुरेणायं शनै.र्नरवरेश्वर 46।। >> भाव.मस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि। यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ 47।। >> अथ संस्कार सम्पन्नो हनुमान् सचिवोत्तमः। उवाच वचनं श्लक्ष्ण.-मर्थव न्मधुरं लघु 48।। >> न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्। अतिशाययितुं शक्तो बृहस्पति.रपि ब्रुवन् 49।। >> न वादा.न्नापि सङ्घर्षा-न्नाधिक्या.न्न च कामतः। वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात् 50।। >> अर्थानर्थ निमित्तं हि यदुक्तं सचिवै.स्तव। तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते 51।। >> ऋते नियोगा.त्सामर्थ्य.-मवबोद्धुं न शक्यते। सहसा विनियोगो हि दोषवान् प्रतिभाति मे 52।। >> चारप्रणिहितं युक्तं यदुक्तं सचिवै.स्तव। अर्थस्यासम्भवा.त्तत्र कारणं नोपपद्यते 53।। >> अदेशकाल सम्प्राप्त इत्ययं य.द्विभीषणः। विवक्षा चात्र मेस्तीयं तां निबोध यथामति। स एष देशः कालश्च भवतीह यथा तथा 54।। >> पुरुषात् पुरुषं प्राप्य तथा दोषगुणा.वपि। दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि। युक्त.मागमनं तस्य सदृशं तस्य बुद्धितः 55।। >> अज्ञातरूपैः पुरुषै.-स्स राजन् पृच्छ्यता.मिति। यदुक्त.मत्र मे प्रेक्षा काचि.दस्ति समीक्षिता 56।। >> पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः। तत्र मित्रं प्रदुष्येत मिथ्यापृष्टं सुखागतम्।। 57।। >> अशक्य.स्सहसा राजन् भावो वेत्तुं परस्य वै। अन्त.स्स्वभावै र्गीतैस्तै-र्नैपुण्यं पश्यता भृशम् 58।। >> न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता। प्रसन्नं वदनं चापि तस्मा न्मे नास्ति संशयः 59।। >> अशङ्कितमति.स्स्वस्थो न शठः परिसर्पति। न चास्य दुष्टा वाक्चापि तस्मा.न्नास्तीह संशयः 60। आकार.श्छाद्यमानोपि न शक्यो विनिगूहितुम्। बलाद्धि विवृणो.त्येव भाव मन्तर्गतं नृणाम् 61।। >> देशकालोपपन्नं च कार्यं कार्यविदां वर। स्वफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् 62।। >> उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्। राज्यं प्रार्थयमानश्च बुद्धिपूर्व.मिहागतः 63।। >> एतावत्तु पुरस्कृत्य युज्यते त्वस्य सङ्ग्रहः। यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति। त्वं प्रमाणं तु शेषस्य- श्रुत्वा बुद्धिमतां वर।। 64।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तदशस्सर्गः। • युद्धकाण्डे सर्गः 18 विभीषणसङ्ग्रहनिर्णयः अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्ष.-श्श्रुतवा.नात्मनि स्थितम्।। 1।। >> ममापि तु विवक्षास्ति काचित् प्रति विभीषणम्। श्रुत.मिच्छामि तत्सर्वं भवद्भि.श्श्रेयसि स्थितैः 2।। >> मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन। दोषो यद्यपि तस्य स्यात् सता.मेत.दगर्हितम् 3।। >> सुग्रीव.स्त्वथ तद्वाक्य माभाष्य च विमृश्य च। ततः शुभतरं वाक्य-मुवाच हरि पुङ्गवः। सुदुष्टो वाप्यदुष्टो वा कि.मेष रजनीचरः 4।। >> ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् । को नाम स भवे.त्तस्य य.मेष न परित्यजेत्। वानराधिपते.र्वाक्यं श्रुत्वा सर्वा.नुदीक्ष्य च 5।। >> ईष.दुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः 6।। >> अनधीत्य च शास्त्राणि वृद्धा.ननुपसेव्य च। न शक्य.मीदृशं वक्तुं य.दुवाच हरीश्वरः 7।। >> अस्ति सूक्ष्मतरं किञ्चि-दत्र यत् प्रतिभाति मे। प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु 8।। >> अमित्रा सत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः। व्यसनेषु प्रहर्तार-स्तस्मा.दय.मिहागतः 9।। >> अपापा सत्कुलीनाश्च मानयन्ति स्वका.न्हितान्। एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः।। 10।। >> यस्तु दोष.स्त्वया प्रोक्तो ह्यादानेरिबलस्य च। तत्र ते कीर्तयिष्यामि यथाशास्त्र.मिदं शृणु।। 11।। >> न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः।। 12।। >> पण्डिता हि भविष्यन्ति तस्मा.द्ग्राह्यो विभीषणः।। 13।। >> अव्यग्राश्च प्रमृष्टाश्च न भविष्यन्ति सङ्गताः। प्रवादश्च महा.नेष ततोस्य भय.मागतम्। इति भेदं गमिष्यन्ति तस्मा.द्ग्राह्यो विभीषणः।। 14।। >> न सर्वे भ्रातर.स्तात भवन्ति भरतोपमाः। मद्विधा वा पितुः पुत्रा-स्सुहृदो वा भवद्विधाः।। 15।। >> एव.मुक्तस्तु रामेण सुग्रीव.स्सहलक्ष्मणः। उत्थायेदं महाप्राज्ञः प्रणतो वाक्य.मब्रवीत्।। 16।। >> रावणेन प्रणिहितं त.मवेहि विभीषण0। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर।। 17।। >> राक्षसो जिह्मया बुध्ध्या सन्दिष्टोय.मिहागतः। प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वानघ ।। 18।। >> लक्ष्मणे वा महाबाहो स वध्य.स्सचिवै.स्सह। रावणस्य सृशंसस्य भ्राता ह्येष विभीषणः।। 19।। >> एव.मुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौन.मुपागमत् 20।। >> सुग्रीवस्य तु तद्वाक्यं राम.श्श्रुत्वा विमृश्य च। तत.श्शुभतरं वाक्य-मुवाच हरिपुङ्गवं 21।। >> सुदुष्टो वाप्यदुष्टो वा कि.मेष रजनीचरः। सूक्ष्म मप्यहितं कर्तुं ममाशक्तः कथञ्चन 22।। >> पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान् हन्या-मिच्छन् हरिगणेश्वर 23।। >> श्रूयते हि कपोतेन शत्रु.श्शरण मागतः। अर्चितश्च यथा न्यायं स्वैश्च मांसै.र्निमन्त्रितः 24।। >> स हितं प्रतिजग्राह भार्या.हर्तार .मागतम्। कपोतो वानरश्रेष्ठ किं पुन.र्मद्विधो जनः 25।। >> ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा। शृणु गाथां पुरागीतां धर्मिष्ठां सत्यवादिनीं 26।। >> बद्धाञ्जलि पुटं दीनं याचन्तं शरणागतम्। न हन्या.दानृशंसार्थ.मपि शत्रुं परन्तप 27।। >> आर्तो वा यदि वा दृप्तः परेषां शरणागतः। अपि प्राणान् परित्यज्य रक्षितव्यः कृतात्मना 28।। >> न चे.द्भयाद्वा मोहाद्वा कामा.द्वापि न रक्षति। स्वया शक्त्या यथा सत्त्वं तत्पापं लोकगर्हितं 29।। >> विनष्टः पश्यत.स्तस्या-रक्षिण.श्शरणागतः। आदाय सुकृतं तस्य सर्वं गच्छे.दरक्षितः।। 30।। >> एवं दोषो महा-नत्र प्रपन्नाना. मरक्षणे। अस्वर्ग्यं चायशस्यं च बलवीर्य.विनाशनम् 31।। >> करिष्यामि यथार्थं तत्- कण्डो.र्वचन. मुत्तमम्। धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्या.त्तु फलोदयम् 32।। >> सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददा.म्येत द्व्रतं मम 33।। >> आनयैनं हरिश्रेष्ठ दत्त.मस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावण.स्स्वयम् 34।। >> रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः 35।। >> कि.मत्र चित्रं धर्मज्ञ लोकनाथ.शिखामणे। यत्त्व.मार्यं प्रभाषेथा.स्सत्त्ववान् सत्पथे स्थितः 36।। >> मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वत.स्सुपरीक्षितः 37।। >> तस्मात् क्षिप्रं सहास्माभि.स्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञ.-स्सखित्वं चाभ्युपैतु नः 38।। >> ततस्तु सुग्रीव वचो निशम्य त-द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम सङ्गमं- पतत्रि राजेन यथा पुरन्दरः।। 39।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टादशस्सर्गः। • युद्धकाण्डे सर्गः 19 समुद्रतरणोपायः राघवेणाभये दत्ते सन्नतो रावणानुजः। विभीषणो महाप्राज्ञो भूमिं समवलोकयन्।। 1।। >> खात्पपातावनीं हृष्टो भक्तै.रनुचरै.स्सह। स तु रामस्य धर्मात्मा निपपात विभीषणः।। >> पादयो.श्शरणान्वेषी चतुर्भि.स्सह राक्षसैः 2।। >> अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः। धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् 3।। >> अनुजो रावणस्याहं तेन चाप्यवमानितः। भवन्तं सर्वभूतानां शरण्यं शरणागतः 4।। >> परित्यक्ता मया लङ्का मित्राणि च धनानि च। भवद्गतं मे राज्यं च जीवितं च सुखानि च 5।। >> तस्य तद्वचनं श्रुत्वा रामो वचन.मब्रवीत्। वचसा सान्तयित्वैनं लोचनाभ्यां पिबन्निव 6।। >> आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् 7।। >> एव.मुक्त.स्तदा रक्षो रामेणाक्लिष्ट कर्मणा। रावणस्य बलं सर्व-माख्यातु.मुपचक्रमे 8।। >> अवध्य.स्सर्वभूतानां गन्धर्वासुर रक्षसाम्। राजपुत्र दशग्रीवो वरदाना.त्स्वयम्भुवः 9।। >> रावणोनन्तरो भ्राता मम ज्येष्ठस्य वीर्यवान्। कुम्भकर्णो महातेजा-श्शक्रप्रतिबलो युधि।। 10।। >> राम सेनापति.स्तस्य प्रहस्तो यदि वा श्रुतः। कैलासे येन सङ्ग्रामे माणिभद्रः पराजितः।। 11।। >> बद्ध.गोधाङ्गुलि.त्राण-स्त्ववध्यकवचो युधि। धनु.रादाय तिष्ठन् स- त्वदृश्यो भवतीन्द्रजित्।। 12।। >> सङ्ग्राम.समय.व्यूहे तर्पयित्वा हुताशनम्। अन्तर्धानगत.श्शत्रू-निन्द्रजि.द्धन्ति राघव।। 13।। >> महोदर महापार्श्वौ राक्षसश्चाप्यकम्पनः। अनीकस्थास्तु तस्यैते लोकपालसमा युधि।। 14।। >> दश कोटि सहस्राणि रक्षसां कामरूपिणाम्। मांस शोणित भक्षाणां लङ्कापुर.निवासिनाम्। स तैस्तु सहितो राजा लोकपाला. नयोधयत्।। 15।। >> सह देवैस्तु ते भग्ना रावणेन महात्मना।। 16।। >> विभीषण वच.श्श्रुत्वा रामो दृढपराक्रमः। अन्वीक्ष्य मनसा सर्व-मिदं वचन.मब्रवीत्।। 17।। >> यानि कर्मापदानानि रावणस्य विभीषण। आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्।। 18।। >> अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम्। राजानं त्वा करिष्यामि सत्य.मेत. द्ब्रवीमि ते।। 19।। >> रसातलं वा प्रविशे-त्पातालं वापि रावणः। पितामह सकाशं वा न मे जीवन् विमोक्ष्यते 20।। >> अहत्वा रावणं सङ्ख्ये सपुत्र.बलबान्धवम्। अयोध्यां न प्रवेक्ष्यामि त्रिभि.स्तै.र्भातृभि.श्शपे 21।। >> श्रुत्वा तु वचनं तस्य रामस्याक्लिष्ट कर्मणः। शिरसा वन्द्य धर्मात्मा वक्तु.मेवोप.चक्रमे 22।। >> राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे। करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् 23।। >> इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। अब्रवी.ल्लक्ष्मणं प्रीत.स्समुद्रा.ज्जल.मानय 24।। >> तेन चेमं महाप्राज्ञ.-मभिषिञ्च विभीषणम्। राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद 25।। >> एव.मुक्तस्तु सौमित्रि-रभ्यषिञ्च.द्विभीषणम्। मध्ये वानरमुख्यानां राजानं रामशासनात् 26।। >> तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशु.र्महात्मानं साधु साध्विति चाब्रुवन् 27।। >> अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्। कथं सागर.मक्षोभ्यं तराम वरुणालयम्। सैन्यैः परिवृता.स्सर्वे वानराणां महौजसां 28।। >> उपायं नाधिगच्छामो यथा नदनदीपतिम्। तराम तरसा सर्वे ससैन्या वरुणालयम् 29।। >> एव.मुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः। समुद्रं राघवो राजा शरणं गन्तु.मर्हति 30।। >> खानित.स्सगरेणाय.-मप्रमेयो महोदधिः। कर्तु.मर्हति रामस्य ज्ञात्वा कार्यं महोदधिः 31।। >> एवं विभीषणेनोक्तो राक्षसेन विपश्चिता। आजगामाथ सुग्रीवो यत्र रामस्सलक्ष्मणः 32।। >> तत.श्चाख्यातु. .मारेभे विभीषणवच.श्शुभम्। सुग्रीवो विपुल ग्रीव-स्सागरस्योपवेशनं 33।। >> प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत। स लक्ष्मणं महातेजा.-स्सुग्रीवं च हरीश्वरम् 34।। >> सत्क्रियार्थं क्रियादक्ष.-स्स्मितपूर्व मुवाच ह 35।। >> विभीषणस्य मन्त्रोयं मम लक्ष्मण रोचते। ब्रूहि त्वं सहसुग्रीव-स्तवापि यदि रोचते 36।। >> सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः। उभाभ्यां सम्प्रधार्यार्थं रोचते यत्त.दुच्यताम् 37।। >> एव.मुक्तौ तु तौ वीरा-वुभौ सुग्रीवलक्ष्मणौ। समुदाचार सँयुक्त.मिदं वचन मूचतुः 38।। >> किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। विभीषणेन यच्चोक्त.-मस्मिन् काले सुखावहम् 39।। >> अबद्ध्वा सागरे सेतुं- घोरेस्मिन् वरुणालये। लङ्कां नासादितुं शक्या सेन्द्रैरपि सुरासुरैः 40।। >> विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा समुद्रोयं नियुज्यताम्। यथा सैन्येन गच्छामः पुरी रावणपालितां 41।। >> एव.मुक्तः कुशास्तीर्णे तीरे नदनदीपतेः। सँविवेश तदा रामो वेद्यामिव हुताशनः 42।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन विंशस्सर्गः। • युद्धकाण्डे सर्गः 20 सुग्रीवभेदनोपायः ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। ददर्श राक्षसोभ्येत्य शार्दूलो नाम वीर्यवान्।। 1।। >> चारो राक्षसराजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्व.मव्यग्रं प्रतिगम्य स राक्षसः। प्रविश्य लङ्कां वेगेन रावणं वाक्य.मब्रवीत् 2।। >> एष वानर ऋक्षौघो लङ्कां समभिवर्तते। अगाथश्चाप्रमेयश्च द्वितीय इव सागरः 3।। >> पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ। उत्त.मायुध.सम्पन्नौ सीतायाः पद.मागतौ।। 4। एतौ सागर .मासाद्य सन्निविष्टौ महाद्युती। बल.माकाश मावृत्य सर्वतो दशयोजनम् 5।। >> तत्त्वभूतं महाराज क्षिप्रं वेदितु.मर्हसि। तव दूता महाराज क्षिप्र.मर्हन्त्यवेक्षितुं 6।। >> उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यतां 7।। >> शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः। उवाच सहसा व्यग्र-स्सम्प्रधार्यार्थ.मात्मनः। शुकं नाम तदा रक्षो-वाक्य.मर्थविदां वरं 8।। >> सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचना.न्मम। यथा सन्देश.मक्लीबं- श्लक्ष्णया परया गिरा 9।। >> त्वं वै महाराजकुलं प्रसूतो- महाबलश्चर्षरज.स्सुतश्च। न कश्चि.दर्थ.स्तव नास्त्यनर्थ-स्तथा हि मे भ्रातृसमो हरीश।। 10।। >> अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः। किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्।। 11।। >> न हीयं हरिभि.र्लङ्का शक्या प्राप्तुं कथञ्चन। देवैरपि सगन्धर्वैः किं पुन.र्नरवानरैः।। 12।। >> स तथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः। शुको विहङ्गमो भूत्वा तूर्ण.माप्लुत्य चाम्बरम्।। 13।। >> स गत्वा दूर.मध्वान-मुपर्युपरि सागरम्। संस्थितो ह्यम्बरे वाक्यं सुग्रीव.मिद मब्रवीत् । सर्व.मुक्तं यथादिष्टं रावणेन दुरात्मना।। 14। तं प्रापयन्तं वचनं तूर्ण.माप्लुत्य वानराः। प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः।। 15।। >> स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः। गगनाद् भूतले चाशु परिगृह्य निपातितः।। 16।। >> वानरैः पीड्यमानस्तु शुको वचन.मब्रवीत्। न दूतान् घ्नन्ति काकुस्थ वार्यन्तां साधु वानराः।। 17।। >> यस्तु हित्वा मतं भर्तु.-स्स्वमतं सम्प्रभाषते। अनुक्तवादी दूत.स्सन्- स दूतो वध.मर्हति।। 18।। >> शुकस्य वचनं श्रुत्वा राम.स्तत् परिदेवितम्। उवाच मा वधिष्टेति घ्नत.श्शाखामृगर्षभान्।। 19।। >> स च पत्रलघु.र्भूत्वा हरिभि.र्दर्शिते भये। अन्तरिक्षस्थितो भूत्वा पुन.र्वचन मब्रवीत् 20।। >> सुग्रीव सत्त्वसम्पन्न महाबल.पराक्रम। किं मया खलु वक्तव्यो रावणो लोकरावणः 21।। >> स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं दीन.मदीनवसत्त्वः।। >> न मेसि मित्रं न तथानुकम्प्यो- न चोपकर्तासि न मे प्रियोसि। अरिश्च रामस्य सहानुबन्धः- स मेसि वालीव वधार्हवध्यः 23।। >> निहन्म्यहं त्वां स सुतं स बन्धुं- स ज्ञाति वर्गं रजनीचरेश। लङ्कां च सर्वां महता बलेन- क्षिप्रं करिष्यामि समेत्य भस्म 24।। >> न मोक्ष्यसे रावण राघवस्य- सुरै.स्सहेन्द्रै.रपि मूढ गुप्तः। अन्तर्हित.स्सूर्य पथं गतो वा- तथैव पाताल मनुप्रविष्टः 25।। >> तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम्।? त्रातार.मनुपश्यामि न गन्धर्वं न चासुरम्। अवधीर्य जरावृद्ध मक्षमं किं जटायुषं 26।। >> किन्नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा। हृता सीता विशालाक्षी यां त्वं गृह्य न बुद्ध्यसे 27।। >> महाबलं महात्मानं दुर्धर्ष.ममरै रपि । न बुद्ध्यसे रघुश्रेष्ठं यस्ते प्राणा हरिष्यति 28।। >> ततोब्रवीत् वालिसुत-स्त्वङ्गदो हरिसत्तमः 29।। >> नायं दूतो महाराज चारिकः प्रतिभाति मे। तुलितं हि बलं सर्व-मनेनात्रैव तिष्ठता। गृह्यतां .मागम-ल्लङ्का.मेत द्धि मम रोचते।। 30।। >> ततो राज्ञा स.मादिष्टाः समुत्प्लुत्य वलीमुखाः। जगृहुश्च बबन्धुश्च विलपन्त.मनाथ वत् 31।। >> शुकस्तु वानरै.श्चण्डै-स्तत्र तै.स्सम्प्रपीडितः। व्याक्रोशत महात्मानं रामं दशरथात्मजम्। लुप्य तेमे बलात्पक्षौ भिद्येते च तथाक्षिणी 32।। >> यां च रात्रिं मरिष्यामि जाये रात्रिं च या.महम्। एतस्मि.न्नन्तरे काले यन्मया ह्यशुभं कृतं 33।। >> सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितं 34।। >> नाघातय त्तथा राम श्रुत्वा तत्परिदेवनम्। वानरा.नब्रवी.द्रामो मुच्यतां दूत आगतः 35।। >> श्रीमद्रामायणे युद्धकाण्डे विंशस्सर्गः। • युद्धकाण्डे सर्गः 21 समुद्रसङ्क्षोभः तत.स्सागरवेलायां दर्भा.नास्तीर्य राघवः। अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः।। 1।। >> बाहुं भुजगभोगाभ-मुपधायारि सूदनः। जातरूपमयै.श्चैव भूषणै.र्भूषितं पुरा।। 2।। >> वरकाञ्चन.केयूर मुक्ता प्रवर भूषणैः। भुजैः परमनारीणा-मभिमृष्ट. मनेकधा 3।। >> चन्दनागरुभिश्चैव पुरस्ता.दधिवासितम्। बाल सूर्य प्रतीकाशै-श्चन्दनै. रुपशोभितं 4।। >> शयने चोत्तमाङ्गेन सीताया.श्शोभितं पुरा। तक्षकस्येव सम्भोगं गङ्गाजल.निषेवितं 5।। >> सँयुगे युगसङ्काशं शत्रूणां शोक वर्धनं 6।। >> सुहृदानन्दनं दीर्घं सागरान्त. व्यपाश्रयम्। अस्यता च पुन.स्सव्यं ज्याघात विगत त्वचम् 7।। >> दक्षिणो दक्षिणं बाहुं महापरिघ.सन्निभम्। गो सहस्रप्रदातार-मुपधाय महद्भुजं 8।। >> अद्य मे मरणं नाथ तरणं सागरस्य वा। इति रामो मतिं कृत्वा महाबाहु. र्महोदधिम्। अधि शिश्ये स विधिव-त्प्रयतो नियतो मुनिः 9।। >> तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले। नियमा.दप्रमत्तस्य निशा.स्तिस्रोतिचक्रमुः।। 10।। >> स त्रिरात्रोषितस्तत्र न यज्ञो धर्मवत्सलः। उपासत तदा रामस्सागरं सरितां पतिम्।। 11।। >> न च दर्शयते मन्द-स्तदा रामस्य सागरः। प्रयतेनापि रामेण यथार्ह.मभिपूजितः।। 12।। >> समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः। समीपस्थ.मुवाचेदं लक्ष्मणं शुभलक्षणम्। अवलेप.स्समुद्रस्य न दर्शयति यत्स्वयम्।। 13।। >> पश्य ताव दनार्यस्य पूज्यमानस्य लक्ष्मण। ?? असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः।। 14।। >> आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्। सर्वत्रोत्सृष्टदण्डं च लोक.स्सत्कुरुते नरम्।। 15।। >> न साम्ना शक्यते कीर्ति-र्न साम्ना शक्यते यशः। प्राप्तुं लक्ष्मण लोकेस्मिन्- जयो वा रणमूर्धनि।। 16।। >> अद्य मद्बाणनिर्भिन्नै- र्मकरै.र्मकरालयम्। निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः।। 17।। >> महाभोगानि मत्स्यानां करिणां च करा.निह। भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण।। 18।। >> सशङ्ख.शुक्तिका जालं समीन.मकरं शरैः। अद्य युद्धेन महता समुद्रं परिशोषये।। 19।। >> क्षमया हि समायुक्तं मा.मयं मकरालयः। असमर्थं विजानाति धिक् क्षमा.मीदृशे जने 20।। >> न दर्शयति साम्ना मे सागरो रूप.मात्मनः 21।। >> चाप.मानय सौमित्रे शरां.श्चाशीविषोपमान्। सागरं शोषयिष्यामि पद्भ्यां यन्तु प्लवङ्गमाः। अद्याक्षोभ्य.मपि क्रुद्धः क्षोभयिष्यामि सागरम् 22।। >> वेलासु कृतमर्यादं सहसोर्मि.समाकुलम्। निर्मर्यादं करिष्यामि सायकै.र्वरुणालयम् 23।। >> महार्णवं क्षोभयिष्ये महादानव सङ्कुलं 24।। >> एव.मुक्त्वा धनुष्पाणिः- क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षो युगान्ताग्नि.रिव ज्वलन् 25।। >> सम्पीड्य च धनु.र्घोरं कम्पयित्वा शरै.र्जगत्। मुमोच विशिखा.नुग्रान् वज्राणीव शतक्रतुः 26।। >> ते ज्वलन्तो महावेगा-स्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् 27।। >> तोयवेग.स्समुद्रस्य सनक्र.मकरो महान्। सम्बभूव महाघोर.-स्समारुतरव.स्तदा 28।। >> महोर्मिमालावितत.श्शङ्ख शुक्तिसमाकुलः। सधूम.परिवृत्तोर्मि.-स्सहसासी न्महोदधिः 29।। >> व्यथिताः पन्नगा.श्चासन्- दीप्तास्या दीप्तलोचनाः। दानवाश्च महावीर्याः पातालतल.वासिनः 30।। >> ऊर्मय.स्सिन्धुराजस्य सनक्र.मकरा.स्तदा। विन्ध्यमन्दर.सङ्काशा.-स्समुत्पेतु.स्सहस्रशः 31।। >> आघूर्णित.तरङ्गौघ.-स्सम्भ्रान्तोरग.राक्षसः। उद्वर्तित महाग्राह.-स्सँवृत्त.स्सलिलाशयः 32।। >> ततस्तु तं राघव. मुग्र वेगं- प्रकर्षमाणं धनु.रप्रमेयम्। सौमित्रि रुत्पत्य समुच्छ्वसन्तं- मा.मेति चोक्त्वा धनु.राललम्बे 33।। >> एत द्विनापि ह्युदधे.स्तवाद्य - सम्पत्स्यते वीरतमस्य कार्यम्। भव द्विधाः कोप वशं न यान्ति- दीर्घं भवान् पश्यतु साधु वृत्तं 34।। >> अन्तर्हितैश्चैव तथान्तरिक्षे- ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च। शब्दः कृतः कष्टमिति ब्रुवद्भिः- मा मेति चोक्त्वा महता स्वरेण 35।। >> श्रीमद्रामायणे युद्धकाण्डे एक विंशस्सर्गः। • युद्धकाण्डे सर्गः 22 सेतुबन्धः अथोवाच रघुश्रेष्ठ-स्सागरं दारुणं वचः। अद्य त्वां शोषयिष्यामि सपातालं महार्णव।। 1।। >> शरनिर्दग्ध.तोयस्य परिशुष्कस्य सागर। मया शोषितसत्वस्य पांसु.रुत्पद्यते महान् 2।। >> मत्कार्मुक.विसृष्टेन शरवर्षेण सागर। पारं तेद्य गमिष्यन्ति पद्भि.रेव प्लवङ्गमाः 3।। >> विचिन्व.न्नाभि जानासि पौरुषं वापि विक्रमम्। दानवालय सन्तापं मत्तो नाधिगमिष्यसि 4।। >> ब्राह्मेणास्त्रेण सँयोज्य ब्रह्मदण्ड.निभं शरम्। सँयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः 5।। >> तस्मिन् विकृष्टे सहसा राघवेण शरासने। रोदसी सम्पफालेव पर्वताश्च चकम्पिरे 6।। >> तमश्च लोक.मावव्रे दिशश्च न चकाशिरे। परिचुक्षुभिरे चाशु सरांसि सरित.स्तथा 7।। >> तिर्यक्च सहनक्षत्रै-स्सङ्गतौ चन्द्रभास्करौ। भास्करांशुभि.रादीप्तं तमसा च समावृतं 8।। >> प्रचकाशे तदाकाश-मुल्काशत.विदीपितम्। अन्तरिक्षाच्च निर्घाता-निर्जग्मु. रतुलस्वनाः। पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः 9।। >> बभञ्ज च तदा वृक्षा जलदा.नुद्वह. न्निव। आरुजंश्चैव शैलाग्रान्- शिखराणि प्रभञ्जनः।। 10।। >> दिविस्पृशो महामेघा-स्ससङ्गता.स्समहास्वनाः। मुमुचु.र्वैद्युता.नग्नीं-स्ते महाशनय.स्तदा।। 11।। >> यानि भूतानि दृश्यानि चुकृशु.श्चाशने.स्समम्। अदृश्यानि च भूतानि मुमुचु.र्भैरवस्वनम्।। 12।। >> शिश्यिरे चापि भूतानि सन्त्रस्ता.न्युद्विजन्ति च। सम्प्रविव्यधिरे चापि न च पस्पन्दिरे भयात्।। 13।। >> सह भूतै.स्स तोयोर्मि-स्स.नाग.स्सहराक्षसः। सहसाभू त्ततो वेगा-द्भीमवेगो महोदधिः।। 14।। >> योजनं व्यतिचक्राम वेला.मन्यत्र सम्प्लवात्। तं तदा समतिक्रान्तं नातिचक्राम राघवः। समुद्धत ममित्रघ्नो रामो नदनदीपतिम्।। 15।। >> ततो मध्यात् समुद्रस्य सागर.स्स्वय.मुत्थितः। उदयन् हि महाशैला-न्मेरो.रिव दिवाकरः।। 16।। >> पन्नगै.स्सह दीप्तास्यै.-स्समुद्रः प्रत्यदृश्यत। स्निग्धवैदूर्य.सङ्काशो जाम्बूनद.विभूषितः।। 17।। >> रक्तमाल्याम्बरधरः पद्मपत्र.निभेक्षणः। सर्वपुष्पमयीं दिव्यां शिरसा धारय.न्स्रजम्।। 18।। >> जातरूपमयै.श्चैव तपनीय.विभूषितैः। आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः।। 19।। >> धातुभि.र्मण्डित.श्शैलो विविधै.र्हिमवा.निव। एकावली मध्य गतं तरलं पाटलप्रभं 20। विपुलेनोरसा बिभ्र,त्कौस्तुभस्य सहोदरम्। आघूर्णित तरङ्गौघः कालिकानिल.सङ्कुलः 21।। >> उद्वर्तित महाग्राह-स्सम्भ्रान्तोरगराक्षसः। देवतानां सुरूपाणां नानारूपाभि.रीश्वरः। गङ्गा.सिन्धु प्रधानाभि-रापगाभिः समावृतः। सागर.स्समुपक्रम्य पूर्व.मामन्त्र्य वीर्यवान्। अब्रवीत् प्राञ्जलि.र्वाक्यं राघवं शरपाणिनम् 22।। >> पृथिवी वायु.राकाश.-मापो ज्योतिश्च राघव। स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्ग.माश्रिताः 23।। >> तत्स्वभावो ममाप्येष य.दगाधोह. मप्लवः। विकारस्तु भवे.द्गाध एतत्ते प्रवदा. म्यहम् 24।। >> न कामा न्न च लोभाद्वा- न भयात् पार्थिवात्मज। ग्राहनक्राकुलजलं- स्तम्भयेयम् कथञ्चन 25।। >> विधास्ये राम येनापि विषहिष्ये ह्यहं तथा। ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति। हरीणां तरणे राम करिष्यामि यथास्थलम् 26।। >> तमब्रवीत् त्तदा राम उद्यतो हि नदीपते। अमोघोयं महाबाणः कस्मिन् देशे निपात्यतां 27।। >> रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्। महोदधि.र्महातेजा राघवं वाक्य.मब्रवीत् 28।। >> उत्तरेणावकाशोस्ति कश्चि.त्पुण्यतमो मम। द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् 29।। >> उग्रदर्शनकर्माणो बहव.स्तत्र दस्यवः। आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम 30। तैस्तु संस्पर्शनं पापैः न सहे पापकर्मभिः। अमोघः क्रियतां राम तत्र तेषु शरोत्तमः 31।। >> तस्य तद्वचनं श्रुत्वा सागरस्य स राघवः। मुमोच तं शरं दीप्तं वीर.स्सागरदर्शनात् 32।। >> तेन तन्मरुकान्तारं पृथिव्यां खलु विश्रुतम्। विपातित.श्शरो यत्र वज्राशनि.समप्रभः 33।। >> ननाद च तदा तत्र वसुधा शल्यपीडिता। तस्मा.त्तद्बाणपातेन- त्वपः कुक्षिष्वशोषयत् 34।। >> स बभूव तदा कूपो व्रण इत्यभिविश्रुतः। सततं चोत्थितं तोयं समुद्रस्येव दृश्यते। अवदारण.शब्दश्च दारुण.स्समपद्यत 35।। >> तस्मा.त्तद्बाणपातेन त्वपः कुक्षिष्वशोषयत्। विख्यातं त्रिषु लोकेषु मरुकान्तार.मेव तत् 36।। >> शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः। वरं तस्मै ददौ विद्वान् मरवेमरविक्रमः 37।। >> पशव्य.श्चाल्परोगश्च फलमूल.रसायुतः। बहुस्नेहो बहुक्षीर-स्सुगन्धि र्विविधौषधः 38।। >> एव मेतै.र्गुणै र्युक्तो बहुभि.स्सततं मरुः। रामस्य वरदानाच्च शिवः पन्था बभूव ह 39।। >> तस्मिन् दग्धे तदा कुक्षौ समुद्र.स्सरितां पतिः। राघवं सर्वशास्त्रज्ञ-मिदं वचन. मब्रवीत् 40।। >> अयं सौम्य नलो नाम- तनुजो विश्वकर्मणः। पित्रा दत्तवर.श्श्रीमान् प्रतिमो विश्वकर्मणः 41।। >> एष सेतुं महोत्साहः करोतु मयि वानरः। तमहं धारयिष्यामि तथा ह्येष यथा पिता 42।। >> एव.मुक्त्वोदधि.र्नष्ट.-स्समुत्थाय नलस्तदा। अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलः 43।। >> अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये। पितु.स्सामर्थ्य.मास्थाय तत्त्व.माह महोदधिः 44।। >> दण्ड एव परो लोके- पुरुषस्येति मे मतिः। दिक् क्षमा.मकृतज्ञेषु सान्त्व.दान मथापि वा 45।। >> अयं हि सागरो भीम-स्सेतुकर्म.दिदृक्षया। ददौ दण्ड भया.द्गाधं राघवाय महोदधिः 46।। >> मम मातु.र्वरो दत्तो मन्दरे विश्वकर्मणा। औरस.स्तस्य पुत्रोहं सदृशो विश्वकर्मणा 47।। >> स्मारितोप्यह.मेतेन तत्त्व.माह महोदधिः। न चाप्यह.मनुक्तो वै प्रब्रूया.मात्मनो गुणान् 48।। >> समर्थ.श्चाप्यहं सेतुं कर्तुं वै वरुणालये। काम.मद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः 49।। >> ततोतिसृष्टा रामेण सर्वतो हरियूथपाः। अभिपेतु.र्महारण्यं हृष्टा.श्शतसहस्रशः 50। ते नगा.न्नगसङ्काशा.-श्शाखामृग.गणर्षभाः। बभञ्जु.र्वानरास्तत्र प्रचकर्षुश्च सागरम् 51।। >> ते सालै.श्चाश्वकर्णैश्च धवै.र्वंशैश्च वानराः। कुटजै रर्जुनै.स्तालै-स्तिलकै.स्तिमिशै.रपि 52।। >> बिल्वकै.स्सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् 53।। >> समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः। इन्द्रकेतू.निवोद्यम्य प्रजह्रुर् हरय.स्तरून् 54।। >> तालान् दाडिमगुल्मांश्च नारिकेला.न्विभीतकान्। वकुलान् खदिरा.न्निम्बान् समाजह्रु.स्समन्ततः 55।। >> हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः। पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च 56।। >> प्रक्षिप्यमाणै.रचलै.-स्सहसा जल.मुद्धतम्। समुत्पतित.माकाश.-मपासर्पत् ततस्ततः 57।। >> समुद्रं क्षोभयामासुः वानराश्च समन्ततः। सूत्राण्यन्ये प्रगृह्णन्ति व्यायतां शतयोजनम् 58।। >> नलश्चक्रे महासेतुं मध्ये नदनदीपतेः। स तथा क्रियते सेतु र्वानरै.र्घोरकर्मभिः 59।। >> दण्डान्यन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे। वानरा शतश.स्तत्र रामस्याज्ञा पुरस्सराः 60। मेघाभैः पर्वताग्रैश्च तृणैः काष्ठै.र्बबन्धिरे। पुष्पिताग्रैश्च तरुभि-स्सेतुं बध्नन्ति वानराः 61।। >> पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च। दृश्यन्ते परिधावन्तो गृह्य वारणसन्निभाः 62।। >> शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम्। बभूव तुमुल.श्शब्द-स्तदा तस्मिन् महोदधौ 63।। >> कृतानि प्रथमेनाह्ना योजनानि चतुर्दश। प्रहृष्टै.र्गजसङ्काशै-स्त्वरमाणैः प्लवङ्गमैः 64।। >> द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः। कृतानि प्लवगै.स्तूर्णं भीमकायै.र्महाबलैः 65।। >> अह्ना तृतीयेन तथा योजनानि कृतानि तु। त्वरमाणै.र्महाकायै-रेक विंशति.रेव च 66।। >> चतुर्थेन तथा चाह्ना द्वाविंशति तथापि च। योजनानि महावेगैः कृतानि त्वरितै.स्तु तैः 67।। >> पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः। योजनानि त्रयो विंश-त्सुवेल.मधिकृत्य वै 68।। >> स वानरवरश्श्रीमान् विश्वकर्मा कृतो बली। बबन्ध सागरे सेतुं यथा चास्य पिता तथा 69।। >> स नलेन कृत.स्सेतु.-स्सागरे मकरालये। शुशुभे सुभग.श्श्रीमान्-स्वातीपथ इवाम्बरे 70।। >> ततो देवा.स्सगन्धर्वा.-स्सिद्धाश्च परमर्षयः। आगम्य गगने तस्थु-र्द्रष्टुकामा.स्तदद्भुतं 71।। >> दश योजन विस्तीर्णं शतयोजन .मायतम्। ददृशु.र्देव गन्धर्वा नलसेतुं सुदुष्करं 72।। >> आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः 73।। >> तदचिन्त्य.मसह्यं च अद्भुतं रोमहर्षणम्। ददृशु.स्सर्वभूतानि सागरे सेतुबन्धनम् 74।। >> तानि कोटिसहस्राणि वानराणां महौजसाम्। बध्नन्त.स्सागरे सेतुं जग्मुः पारं महोदधेः 75।। >> विशाल.स्सुकृत.श्श्रीमान् सुभूमि.स्सुसमाहितः। अशोभत महासेतु.-स्सीमन्त इव सागरे 76।। >> ततः पारे समुद्रस्य गदापाणि.र्विभीषणः। परेषा.मभिघातार्थ.-मतिष्ठत् सचिवै.स्सह 77।। >> सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्। हनुमन्तं त्व..मारोह अङ्गदं चापि लक्ष्मणः 78।। >> अयं हि विपुलो वीर सागरो मकरालयम्। वैहायसौ युवा.मेतौ वानरौ तारयिष्यतः 79।। >> अग्रत.स्तस्य सैन्यस्य श्रीमान् राम.स्सलक्ष्मणः। जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः।। 80।। >> अन्ये मध्येन गच्छन्ति पार्श्वतोन्ये प्लवङ्गमाः। सलिले प्रपत.न्त्यन्ये मार्ग.मन्ये न लेभिरे। केचि.द्वैहायसगता.-स्सुपर्णा इव पुप्लुवुः 81।। >> घोषेण महता तस्य सिन्धो.र्घोषं समुच्छ्रितम्। भीम.मन्तर्दधे भीमा तरन्ती हरिवाहिनी 82।। >> वानराणां हि सा तीर्णा वाहिनी नलसेतुना। तीरे निविविशे राज्ञा बहुमूल.फलोदके 83।। >> तदद्भुतं राघव कर्म दुष्करं- समीक्ष्य देवा.स्सह सिद्धचारणैः। उपेत्य रामं सहिता महर्षिभि-स्समभ्यषिञ्चन् सुशुभै र्जलैः पृथक् 84।। >> जयस्व शत्रून् नरदेव मेदिनीं- ससागरां पालय शाश्वती.स्समाः। इतीव रामं नरदेवसत्कृतं- शुभै.र्वचोभि. र्विविधै.रपूजयन्।। 85।। >> श्रीमद्रामायणे युद्धकाण्डे द्वा विंशस्सर्गः। • युद्धकाण्डे सर्गः 23 लङ्काभिषेणनम् निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मण.पूर्वजः। सौमित्रिं सम्परिष्वज्य इदं वचन. मब्रवीत्।। 1।। >> परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं सँविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण 2।। >> लोक क्षयकरं भीमं भयं पश्या.म्युपस्थितम्। निबर्हणं प्रवीराणा-मृक्षवानर.रक्षसां 3।। >> वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा। पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः 4।। >> मेघाः क्रव्याद.सङ्काशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः 5।। >> रक्तचन्दन.सङ्काशा सन्ध्या परमदारुणा। ज्वलतः प्रपतत्येत दादित्या.दग्निमण्डलं 6।। >> दीना दीनस्वराः क्रूरा-स्सर्वतो मृगपक्षिणः। प्रत्यादित्यं विनर्दन्ति जनयन्तो मह.द्भयम्। रजन्या मप्रकाशस्तु सन्तापयति चन्द्रमाः 7।। >> कृष्णरक्तांशु पर्यन्तो लोकक्षय इवोदितः। ह्रस्वो रूक्षोप्रशस्तश्च परिवेष.स्सुलोहितः 8।। >> आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते 9।। >> राजसा महता चापि नक्षत्राणि हतानि च। युगान्तमिव लोकानां पश्य शंसति लक्ष्मण।। 10।। >> काका.श्श्येना.स्तथा गृध्रा- नीचैः परिपतन्ति च। शिवा.श्चाप्यशिवा न्नादा-न्नदन्त.स्सुमहाभयाः।। 11।। >> शैलै.श्शूलैश्च खड्गैश्च विसृष्टैः कपिराक्षसैः। भविष्यत्यावृता भूमि-र्मांसशोणित.कर्दमा।। 12।। >> क्षिप्र.मद्यैव दुर्धर्षां पुरीं रावण पालिताम्। अभियाम जवेनैव सर्वतो हरिभि.र्वृताः ।। 13।। >> इत्येव मुक्त्वा धर्मात्मा धन्वी सङ्ग्राम हर्षणः। प्रतस्थे पुरतो रामो लङ्का.मभिमुखो विभुः।। 14।। >> सविभीषण सुग्रीवा-स्ततस्ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे।। 15।। >> राघवस्य प्रियार्थं तु धृतानां वीर्यशालिनाम्। हरीणां कर्मचेष्टाभि-स्तुतोष रघुनन्दनः।। 16।। >> श्रीमद्रामायणे युद्धकाण्डे त्रयोविंशस्सर्गः। • युद्धकाण्डे सर्गः 24 रावणप्रतिज्ञा सा वीरसमिती राज्ञा विरराज व्यवस्थिता। शशिना शुभनक्षत्रा पौर्णमासीव शारदी।। 1।। >> प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा। पीड्यमाना बलौघेन तेन सागरवर्चसा 2। ततः शुश्रुवु.राकृष्टं लङ्कायां काननौकसः। भेरीमृदङ्ग.सङ्घुष्टं तुमुलं रोमहर्षणं 3।। >> बभूवु.स्तेन घोषेण संहृष्टा हरियूथपाः। अमृष्यमाणा.स्तं घोषं विनेदु.र्घोषवत्तरं 4।। >> राक्षसास्तु प्लवङ्गानां शुश्रुवु.श्चापि गर्जितम्। नर्दता.मिव दृप्तानां मेघाना.मम्बरे स्वनम् 5।। >> दृष्ट्वा दाशरथि.र्लङ्कां चित्रध्वज.पताकिनीम्। जगाम मनसा सीतां दूयमानेन चेतसा 6।। >> अत्र सा मृगशाबाक्षी रावणेनोपरुद्यते। अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी 7।। >> दीर्घ.मुष्णं च निश्श्वस्य समुद्वीक्ष्य च लक्ष्मणम्। उवाच वचनं वीर.-स्तत्कालहित. मात्मनः 8।। >> आलिखन्ती.मिवाकाश मुत्थितां पश्य लक्ष्मण। मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा 9।। >> विमानै.बहुभि.र्लङ्का सङ्कीर्णा भुवि राजते। विष्णोः पद.मिवाकाशं छादितं पाण्डुरै.र्घनैः।। 10।। >> पुष्पितै.श्शोभिता लङ्का वनै.श्चैत्ररथोपमैः। नाना पतङ्गसङ्घुष्टैः फलपुष्पोपगै.श्शुभैः।। 11।। >> पश्य मत्तविहङ्गानि- प्रलीन भ्रमराणि च। कोकिलाकुल.खण्डानि दोधवीति शिवोनिलः। इति दाशरथी रामो लक्ष्मणं समभाषत।। 12।। >> बलं च तद्वै विभजन् शास्त्रदृष्टेन कर्मणा।। 13।। >> शशास कपि सेनाया बल.मादाय वीर्यवान्। अङ्गद.स्सह नीलेन तिष्ठे.दुरसि दुर्जयः।। 14।। >> तिष्ठे.द्वानरवाहिन्या वानरौघ समावृतः। आश्रित्य दक्षिणं पार्श्व मृषभो वानरर्षभः।। 15।। >> गन्धहस्तीव दुर्धर्ष-स्तरस्वी गन्धमादनः। तिष्ठे.द्वानर वाहिन्या-स्सव्यं पार्श्वं समाश्रितः।। 16।। >> मूर्ध्नि स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः। जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः।। 17।। >> जघनं कपिसेनायाः कपिराजोभिरक्षतु। पश्चार्थ मिव लोकस्य प्रचेता.स्तेजसा वृतः।। 18।। >> सुविभक्त.महाव्यूहा महावानर रक्षिता। अनीकिनी सा विबभौ यथा द्यौ.स्साभ्र.सम्प्लवा।। 19।। >> प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्। आसेदु.र्वानरा लङ्कां विमर्दयिषवो रणे 20।। >> शिखरै.र्विकिरा.मैनां लङ्कां मुष्टिभि.रेव वा। इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः 21।। >> ततो रामो महातेजा-स्सुग्रीव.मिद मब्रवीत्। सुविभक्तानि सैन्यानि शुक एष विमुच्यतां 22।। >> रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः। मोचयामास तं दूतं शुकं रामस्य शासनात् 23।। >> मोचितो राम वाक्येन वानरै.श्चाभिपीडितः। शुकः परमसन्त्रस्तो रक्षोधिप.मुपागमत् 24।। >> रावणः प्रहस.न्नेव शुकं वाक्य.मभाषत 25।। >> कि मिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे। कच्चिन्नानेक चित्तानां तेषां त्वं वश.मागतः 26।। >> ततस्स भय सँविग्न-स्तदा राज्ञाभिचोदितः। वचनं प्रत्युवाचेदं राक्षसाधिप.मुत्तमं 27।। >> सागरस्योत्तरे तीरे- ब्रुवं.स्ते वचनं तथा। यथा सन्देश मक्लिष्टं सान्त्वयं श्लक्ष्णया गिरा 28।। >> कृद्धै.स्तै रह मुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः। गृहीतोस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः 29।। >> नैव सम्भाषितुं शक्या-स्सम्प्रश्नोत्र न लभ्यते। प्रकृत्या कोपना.स्तीक्ष्णा वानरा राक्षसाधिप 30।। >> स च हन्ता विराधस्य कबन्धस्य खरस्य च। सुग्रीवसहितो राम.-स्सीतायाः पद.मागतः 31।। >> स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम्। एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः 32।। >> ऋक्षवानर.मुख्याना मनीकानि सहस्रशः। गिरिमेघ.निकाशानां छादयन्ति वसुन्धरां 33।। >> राक्षसानां बलौघस्य वानरेन्द्र.बलस्य च। नैतयो.र्विद्यते सन्धि-र्देवदानवयो. रिव 34।। >> पुर प्राकार.मायान्ति क्षिप्र.मेकतरं कुरु। सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयतां 35।। >> शुकस्य वचनं श्रुत्वा रावणो वाक्य.मब्रवीत्। रोषसंरक्त.नयनो निर्दह.न्निव चक्षुषा 36।। >> यदि मां प्रति युद्ध्येरन्- देव गन्धर्व दानवाः। नैव सीतां प्रयच्छामि सर्वलोक.भयादपि 37।। >> कदा समभिधावन्ति राघवं मामका.श्शराः। वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपं 38।। >> तदा तूणीशयै.र्दीप्तै र्गणशः कार्मुकच्युतै;। शरै.रादीपया.म्येन- मुल्काभि रिव कुञ्जरं 39।। >> तच्चास्य बल..मादास्ये बलेन महता वृतः। ज्योतिषा मिव सर्वेषां प्रभा मुद्यन् दिवाकरः 40।। >> सागरस्येव वेगो मे मारुतस्येव मे गतिः। न हि दाशरथि.र्वेद तेन मां योद्धु मिच्छति 41।। >> न मे तूणीशयान् बाणान् सविषा.निव पन्नगान्। रामं पश्यति सङ्ग्रामे तेन मां योद्धु.मिच्छति। न जानाति पुरा वीर्यं मम युद्धे स राघवः 42।। >> मम चापमयीं वीणां शरकोणैः प्रवादिताम्। ज्याशब्द.तुमुलं घोरा-मार्त.भीत.महास्वनां 43।। >> नाराचतल.सन्नादां तां ममाहितवाहिनीम्। अवगाह्य महारङ्गं वादयिष्या.म्यहं रणे 44।। >> न वासवेनापि सहस्र चक्षुषा- यथास्मि शक्यो वरुणेन वा स्वयम्। यमेन वा धर्षयितुं शराग्निना- महाहवे वैश्रवणेन वा पुनः 45।। >> श्रीमद्रामायणे युद्धकाण्डे चतुर्विंशस्सर्गः। • युद्धकाण्डे सर्गः 25 शुकसारणप्रेषणम् सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यौ रावण.श्श्रीमा-नब्रवी.च्छुकसारणौ।। 1।। >> समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्। अभूतपूर्वं रामेण सागरे सेतुबन्धनम् 2।। >> सागरे सेतुबन्धं तु न श्रद्दध्यां कथञ्चन। अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् 3।। >> भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ। परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः 4।। >> मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः। ये पूर्व.मभिवर्तन्ते ये च शूराः प्लवङ्गमाः 5।। >> स च सेतु.र्यथा बद्ध.-स्सागरे सलिलार्णवे। निवेशं यद्यथा तेषां-वानराणां महात्मनाम् 6।। >> रामस्य व्यवसायं च वीर्यं प्रहरणानि च। लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातु.मर्हथः 7।। >> कश्च सेनापति.स्तेषां वानराणां महौजसाम्। एतद् ज्ञात्वा यथातत्त्वं शीघ्र.मागन्तु. मर्हथः 8।। >> इति प्रतिस.मादिष्टौ राक्षसौ शुकसारणौ। हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् 9।। >> तत.स्तद्वानरं सैन्य-मचिन्त्यं रोमहर्षणम्। सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ।। 10।। >> संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च। समुद्रस्य च तीरेषु वनेषूपवनेषु च।। 11।। >> तरमाणं च तीर्णं च तर्तुकामं च सर्वशः। निविष्टं निविशच्चैव भीमनादं महाबलम्। तद्बलार्णव मक्षोभ्यं ददृशाते निशाचरौ।। 12।। >> तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः। आचचक्षेथ रामाय गृहीत्वा शुकसारणौ।। 13।। >> तस्येमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ। लङ्काया.स्समनुप्राप्तौ चारौ परपुरञ्जय।। 14।। >> तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा। कृताञ्जलिपुटौ भीतौ वचनं चेद.मूचतुः।। 15।। >> आवा.मिहागतौ सौम्य रावणप्रहिता.वुभौ। परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन।। 16।। >> तयो.स्तद्वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहस.न्वाक्यं सर्वभूतहिते रतः।। 17।। >> यदि दृष्टं बलं कृत्स्नं वयं वा सुपरीक्षिताः। यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्।। 18।। >> अथ किञ्चि.ददृष्टं वा भूय.स्तद्द्रष्टु.मर्हथः। विभीषणो वा कार्त्स्न्येन भूय.स्सन्दर्शयिष्यति।। 19।। >> न चेदं ग्रहणं प्राप्य भेत्तव्यं जीवितं प्रति। न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वध.मर्हथः 20।। >> पृच्छमानौ विमुञ्चैतौ चारौ रात्रिञ्चरा उभौ। शत्रुपक्षस्य सततं विभीषण विकर्षणौ 21।। >> प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः। वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम 22।। >> यद्बलं च स.माश्रित्य सीतां मे हृतवानसि। तद्दर्शय यथाकामं ससैन्य.स्सहबान्धवः 23।। >> श्वः कल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्। राक्षसं च बलं पश्य शरै.र्विध्वंसितं मया 24।। >> क्रोधं भीम.महं मोक्ष्ये बलं धारय रावण। श्वः कल्ये वज्रवान् वज्रं दानवेष्विव वासवः 25।। >> इति प्रतिस.मादिष्टौ राक्षसौ शुकसारणौ 26।। >> जयेति प्रतिनन्द्यैतौ राघवं धर्म वत्सलम्। आगम्य नगरीं लङ्का-मब्रूतां राक्षसाधिपम् 27। विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर। दृष्ट्वा धर्मात्मना मुक्तौ रामेणामित.तेजसा 28।। >> एकस्थानगता यत्र चत्वारः पुरुषर्षभाः। लोकपालोपमा.श्शूराः कृतास्त्रा दृढविक्रमाः 29।। >> रामो दाशरथि.श्श्रीमान् लक्ष्मणश्च विभीषणः। सुग्रीवश्च महातेजा महेन्द्रसम.विक्रमः 30।। >> एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्। उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः 31।। >> यादृशं तस्य रामस्य रूपं प्रहरणानि च। वधिष्यति पुरीं लङ्का-मेक.स्तिष्ठन्तु ते त्रयः 32।। >> रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सेन्द्रै.रपि सुरासुरैः 33।। >> व्यक्तस्सेतु.स्तथा बद्धो दश योजन विस्तृतः। शत योजन.मायाम-स्तीर्णा सेना च सागरम्। विविष्टो दक्षिणे तीरे- राम.स्स च नदीपतेः। तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते। प्रहृष्टरूपा ध्वजिनी वनौकसां- महात्मनां सम्प्रति योद्धु.मिच्छताम्। अलं विरोधेन शमो विधीयतां- प्रदीयतां दाशरथाय मैथिली 34।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चविंशस्सर्गः। • युद्धकाण्डे सर्गः 26 कपिबलावेक्षणम् तद्वचः पथ्य.मक्लीबं सारणेनाभिभाषितम्। निशम्य रावणो राजा प्रत्यभाषत सारणम्।। 1।। >> यदि मा.मभियुञ्जीरन् देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभया.दपि।। 2।। >> त्वं तु सौम्य परित्रस्तो हरिभि.र्निर्जितो भृशम्। प्रतिप्रदान.मद्यैव सीताया.स्साधु मन्यसे 3।। >> को हि नाम सपत्नो मां समरे जेतु.मर्हति 4।। >> इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः। आरुरोह तत.श्श्रीमान् प्रासादं हिमपाण्डुरम्। बहुताल.समुत्सेधं रावणोथ दिदृक्षया 5।। >> ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः। पश्यमान.स्समुद्रं च पर्वतांश्च वनानि च। ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः।। 6।। >> तदपार.मसङ्ख्येयं वानराणां महद्बलम्। आलोक्य रावणो राजा परिपप्रच्छ सारणम् 7।। >> एषां वानरमुख्यानां के शूराः के महाबलाः। के पूर्व.मधिवर्तन्ते महोत्साहा.स्समन्ततः 8।। >> केषां शृणोति सुग्रीवः के वा यूथपयूथपाः। सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवङ्गमाः।। 9।। >> सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः। आचचक्षेथ मुख्यज्ञो मुख्यां.स्तांस्तान् वनौकसः।। 10।। >> एष योभिमुखो लङ्कां नर्दं.स्तिष्ठति वानरः। यूथपानां सहस्राणां शतेन परिवारितः।। 11।। >> यस्य घोषेण महता सप्राकारा सतोरणा। लङ्का प्रावेपते सर्वा सशैलवन.कानना।। 12।। >> सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः। बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः।। 13।। >> बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्। लङ्का.मभिमुखः कोपा दभीक्ष्णं च विजृम्भते।। 14।। >> गिरिशृङ्ग.प्रतीकाशः पद्मकिञ्जल्क.सन्निभः। स्फोटय.त्यभिसंरब्धो लाङ्गूलं च पुनः पुनः।। 15।। >> यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश। एष वानरराजेन सुग्रीवेणाभिषेचितः।। 16।। >> यौवराज्येङ्गदो नाम त्वा.माह्वयति सँयुगे। वालिन.स्सदृशः पुत्रः सुग्रीवस्य सदाप्रियः।। 17।। >> राघवार्थे पराक्रान्त-श्शक्रार्थे वरुणो यथा।। 18।। >> एतस्य सा मति.स्सर्वा यद्दृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा।। 19।। >> बहूनि वानरेन्द्राणा.मेष यूथानि वीर्यवान्। परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः।। 20।। >> अनुवालिसुतस्यापि बलेन महता वृतः। वीर.स्तिष्ठति सङ्ग्रामे सेतुहेतु.रयं नलः 21।। >> ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च। उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः 22।। >> एते दुष्प्रसहा घोरा-श्चण्डा.श्चण्डपराक्रमाः। अष्टौ शतसहस्राणि दशकोटिशतानि च 23।। >> य एन.मनुगच्छन्ति वीरा.श्चन्दनवासिनः। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 24।। >> श्वेतो रजतसङ्काश-श्चपलो भीमविक्रमः। बुद्धिमान् वानरो वीर.स्त्रिषु लोकेषु विश्रुतः 25।। >> तूर्णं सुग्रीव.मागम्य पुनर्गच्छति वानरः। विभजन् वानरीं सेना.-मनीकानि प्रहर्षयन् 26।। >> यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्। नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः। तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः 27।। >> योसौ शतसहस्राणां सहस्रं परिकर्षति। यस्य वाला बहुव्यामा दीर्घा लाङ्गूल.माश्रिताः। ताम्राः पीता.स्सिता.श्श्वेताः प्रकीर्णा घोरकर्मणः।। 28।। >> अदीनो रोषण.श्चण्ड.-स्सङ्ग्राम.मभिकाङ्क्षति। एषोप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् 29।। >> यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः। निभृतः प्रेक्षते लङ्कां दिधक्ष.न्निव चक्षुषा 30।। >> विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्। राजा सतत.मध्यास्ते रम्भो नामैष यूथपः 31।। >> शतं शतसहस्राणां त्रिंशच्च हरियूथपाः। यमेते वानरा.श्शूरा-श्चण्डा.श्चण्डपराक्रमाः। परिवार्यानुगच्छन्ति लङ्कां मर्दितु.मोजसा 32।। >> यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः। न च सँविजते मृत्यो-र्न च युद्धा.द्विधावति 33।। >> प्रकम्पते च रोषणे तिर्यक्च पुन.रीक्षते। पश्य लाङ्गूल.मपि च क्ष्वेलते च महाबलः 34।। >> महा जवो वीतभयो रम्यं साल्वेयपर्वतम्। राजन् सतत.मध्यास्ते शरभो नाम यूथपः 35।। >> एतस्य बलिन.स्सर्वे विहारा नाम यूथपाः। राजा शतसहस्राणि चत्वारिंश.त्तथैव च 36।। >> यस्तु मेघ इवाकाशं महा.नावृत्य तिष्ठति। मध्ये वानरवीराणां सुराणा.मिव वासवः 37।। >> भेरीणा.मिव सन्नादो यस्यैष श्रूयते महान्। घोर.श्शाखामृगेन्द्राणां सङ्ग्राम.मभिकाङ्क्षताम् 38।। >> एष पर्वत.मध्यास्ते पारियात्र.मनुत्तमम्। युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः।। 39।। >> एनं शतसहस्राणां शतार्धं पर्युपासते। यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः 40।। >> यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्। स्थितां तीरे समुद्रस्य द्वितीय इव सागरः।। 41।। >> एष दर्दरसङ्काशो विनतो नाम यूथपः। पिबं.श्चरति पर्णासां नदीना.मुत्तमां नदीम् 42।। >> षष्टि.श्शतसहस्राणि बल.मस्य प्लवङ्गमाः 43।। >> त्वा.माह्वयति युद्धाय क्रथनो नाम यूथपः। विक्रान्ता बलवन्तश्च यथा यूथानि भागशः 44।। >> यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः। अवमत्य सदा सर्वा-न्वानरान् बलदर्पितान् 45।। >> गवयो नाम तेजस्वी त्वां क्रोधा.दभिवर्तते। एनं शतसहस्राणि सप्ततिः पर्युपासते 47।। >> एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। एते दुष्प्रसहा घोरा बलिनः कामरूपिणः 48।। >> यूथपा यूथपश्रेष्ठा येषां यूथानि भागशः।। 49।। >> श्रीमद्रामायणे युद्धकाण्डे षड्विंशस्सर्गः। • युद्धकाण्डे सर्गः 27 हरादिवानर पराक्रमाख्यानम् तांस्तु तेहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्। राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्।। 1।। >> स्निग्धा यस्य बहुश्यामा वाला लाङ्गूल.माश्रिताः। ताम्राः पीता.स्सिता.श्श्वेताः प्रकीर्णा घोरकर्मणः 2।। >> प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः। पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः।। 3।। >> यं पृष्ठतोनुगच्छन्ति शतशोथ सहस्रशः। द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः 4।। >> एष कोटिसहस्रेण वानराणां महौजसाम्। आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय।। >> यूथपा हरिराजस्य किङ्करा.स्समवस्थिताः 5।। >> नीलानिव महामेघां-स्तिष्ठतो यांस्तु पश्यसि। असिताञ्जन.सङ्काशान् युद्धे सत्यपराक्रमान् 6।। >> असङ्ख्येया.ननिर्देश्यान् परं पार.मिवोदधेः। पर्वतेषु च ये केचि-द्विषमेषु नदीषु च 7।। >> एते त्वा.मभिवर्तन्ते राज.न्नृक्षाः सुदारुणाः। एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः। पर्जन्य इव जीमूतै.-स्समन्तात् परिवारितः 8।। >> ऋक्षवन्तं गिरिश्रेष्ठ.-मध्यास्ते नर्मदां पिबन्। वानराणा.मधिपति-र्धूम्रो नामैष यूथपः 9।। >> यवीया.नस्य तु भ्राता पश्यैनं पर्वतोपमम्। भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः।। 10।। >> स एष जाम्बवान् नाम महायूथप.यूथपः। प्रशान्तो गुरुवर्ती च सम्प्रहारे.ष्वमर्षणः।। 11।। >> एतेन साह्यं सुमह-त्कृतं शक्रस्य धीमता। देवासुरे जाम्बवता लब्धाश्च बहवो वराः।। 12।। >> आरुह्य पर्वताग्रेभ्यो महाभ्रविपुला.श्शिलाः। मुञ्चन्ति विपुलाकारा-न्न मृत्यो.रुद्विजन्ति च।। 13।। >> राक्षसानां च सदृशाः पिशाचानां च लोमशाः। एतस्य सैन्या बहवो विचर.न्त्यग्नितेजसः।। 14।। >> यं त्वेन.मभिसंरब्धं प्लवमान.मिव स्थितम्। प्रेक्षन्ते वानरा.स्सर्वे स्थिता यूथपयूथपम्।। 15।। >> एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः। बलेन बलसम्पन्नो रम्भो नामैष यूथपः।। 16।। >> य.स्स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते। ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्।। 17।। >> यस्मान्न परमं रूपं चतुष्पादेषु विद्यते। श्रुत.स्सन्नादनो नाम वानराणां पितामहः।। 18।। >> येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता। पराजयश्च न प्राप्त.स्सोयं यूथपयूथपः।। 19।। >> यस्य विक्रममाणस्य शक्रस्येव पराक्रमः। एष गन्धर्वकन्याया-मुत्पन्नः कृष्णवर्त्मनः 20।। >> पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्।। 21।। >> यस्य वैश्रवणो राजा जम्बू.मुपनिषेवते। यो राजा पर्वतेन्द्राणां बहु किन्नरसेविनाम्। विहार सुखदो नित्यं भ्रातु.स्ते राक्षसाधिप।। 22।। >> तत्रैष वसति श्रीमान् बलवान् वानरर्षभः। युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः 23।। >> वृतः कोटिसहस्रेण हरीणां समुपस्थितः। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 24।। >> यो गङ्गा.मनु पर्येति त्रासयन् हस्तियूथपान्। हस्तिनां वानराणां च पूर्ववैर.मनुस्मरन् 25।। >> एष यूथपति.र्नेता गच्छन् गिरिगुहाशयः। गजान् योधयते वन्यान् गिरींश्चैव महीरुहान्।। 26।। >> हरीणां वाहिनीमुख्यो नदीं हैमवती.मनु। उशीरबीज.माश्रित्य पर्वतं मन्दरोपमम् 27।। >> रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्। एनं शतसहस्राणां सहस्र मनुवर्तते 28।। >> वीर्यविक्रम.दृप्तानां नर्दतां बलशालिनाम्। स एष नेता चैतेषां वानराणां महात्मनां 29।। >> स एष दुर्धरो राजन् प्रमाथी नाम यूथपः। वातेनेवोद्धतं मेघं यमेन.मनुपश्यसि 30।। >> अनीक.मपि संरब्धं वानराणां तरस्विनाम्। उद्धूत.मरुणाभासं पवनेन समन्ततः। विवर्तमानं बहुशो यत्रैत.द्बहुलं रजः 31।। >> एतेसितमुखा घोरा गोलाङ्गूला महाबलाः। शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् 32।। >> गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्। परिवार्याभिवर्तन्ते लङ्कां मर्दितु.मोजसा 33।। >> भ्रमराचरिता यत्र सर्वकाम.फलद्रुमाः। यं सूर्यस्तुल्यवर्णाभ.-मनुपर्येति पर्वतम् 34।। >> यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः। यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः।। 35।। >> सर्वकाम.फला वृक्षा-स्सदा फल समन्विताः। मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे 36।। >> तत्रैष रमते राजन् रम्ये काञ्चनपर्वते। मुख्यो वानरमुख्यानां केसरी नाम यूथपः 37।। >> षष्टि.र्गिरिसहस्राणां रम्याः काञ्चनपर्वताः। तेषां मध्ये गिरिवर-स्त्व.मिवानघ रक्षसाम् 38।। >> तत्रैते कपिला.श्श्वेता-स्ताम्रास्या मधुपिङ्गलाः। निवस.न्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा.नखायुधाः 39।। >> सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः। सर्वे वैश्वानरसमा ज्वलिताशीविषोपमाः ।। 40।। >> सुदीर्घाञ्चित.लाङ्गूला मत्तमातङ्ग.सन्निभाः। महापर्वतसङ्काशा महाजीमूत.निस्स्वनाः 41।। >> वृत्तपिङ्गल.रक्ताक्षा भीमभीमगति.स्वराः। मर्दयन्तीव ते सर्वे तस्थु.र्लङ्कां समेत्य ते 42।। >> एष चैषा.मधिपति-र्मध्ये तिष्ठति वीर्यवान्। जयार्थी नित्य.मादित्य मुपतिष्ठति बुद्धिमान् 43।। >> नाम्ना पृथिव्यां विख्यातो राजन् शतवलीति यः। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् 44।। >> विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः। रामप्रियार्थं प्राणानां दयां न कुरुते हरिः 45।। >> गजो गवाक्षो गवयो नलो नीलश्च वानरः। एकैक एव यूथानां कोटिभि.र्दशभि.र्वृतः 46।। >> तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः। न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः 47।। >> सर्वे महाराज महाप्रभावाः- सर्वे महाशैलनिकाश.कायाः। सर्वे समर्थाः पृथिवीं क्षणेन- कर्तुं प्रविध्वस्त.विकीर्ण.शैलाम् 48।। >> श्रीमद्रामायणे युद्धकाण्डे सप्त विंशस्सर्गः • युद्धकाण्डे सर्गः 28 मैन्दादिपराक्रमाख्यानम् सारणस्य वच.श्श्रुत्वा रावणं राक्षसाधिपम्। बल.मादिश्य तत्सर्वं शुको वाक्य.मथाब्रवीत्।। 1।। >> स्थितान् पश्यसि या.नेतान् मत्ता.निव महाद्विपान्। न्यग्रोधा.निव गाङ्गेयान् सालान् हैमवता.निव 2।। >> एते दुष्प्रसहा राजन् बलिनः कामरूपिणः। दैत्यदानव.सङ्काशा युद्धे देवपराक्रमाः 3।। >> एषां कोटिसहस्राणि नव पञ्च च सप्त च। तथा शङ्खसहस्राणि तथा बृन्दशतानि च 4। एते सुग्रीवसचिवाः किष्किन्धानिलया.स्सदा। हरयो देवगन्धर्वै-रुत्पन्नाः कामरूपिणः ।। 5।। >> यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ। मैन्दश्च द्विविद.श्चोभौ ताभ्यां नास्ति समो युधि।। 6।। >> ब्रह्मणा समनुज्ञाता-वमृतप्राशिना.वुभौ। आशंसेते युधा लङ्का-मेतौ मर्दितु.मोजसा।। 7।। >> या.वेता.वेतयोः पार्श्वे स्थितौ पर्वतसन्निभौ। सुमुखो दुर्मुखश्चैव मृत्युपुत्रौ पितु.स्समौ। प्रेक्षतौ नगरीं लङ्कां कोटिभि.र्दशभि.र्वृतौ 8। यं तु पश्यसि तिष्ठन्तं प्रभिन्न.मिव कुञ्जरम्। यो बलात् क्षोभयेत् क्रुद्ध.स्समुद्र.मपि वानरः।। 9।। >> एषोभिगन्ता लङ्काया वैदेह्या.स्तव च प्रभो। एनं पश्य पुरा दृष्टं वानरं पुन.रागतम्।। 10।। >> ज्येष्ठः केसरिणः पुत्रो वातात्मज इतिश्रुतः। हनूमा.निति विख्यातो लङ्घितो येन सागरः।। 11।। >> कामरूपी हरिश्रेष्ठो बलरूप.समन्वितः। अनिवार्यगति.श्चैव यथा सततगः प्रभुः।। 12।। >> उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः। त्रियोजन.सहस्रं तु अध्वान.मवतीर्य हि।। 13।। >> आदित्य.माहरिष्यामि न मे क्षुत् प्रतियास्यति।। 14।। >> इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः। अनाधृष्यतमं देव.मपि देवर्षिदानवैः।। 15।। >> अनासाद्यैव पतितो भास्करोदयने गिरौ। पतितस्य कपे.रस्य हनु.रेका शिलातले।। 16।। >> किञ्चि.द्भिन्ना दृढहनो-र्हनूमा.नेष तेन वै। सत्य.मागमयोगेन ममैष विदितो हरिः।। 17।। >> नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्। एष आशंसते लङ्का-मेको मर्दितु.मोजसा।। 18।। >> यश्चैषोनन्तर.श्शूर.-श्श्यामः पद्मनिभेक्षणः। इक्ष्वाकूणा.मतिरथो लोके विख्यातपौरुषः।। 19।। >> यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते। यो ब्राह्म मस्त्रं वेदांश्च वेद वेदविदां वरः 20।। >> यो भिन्द्या.द्गगनं बाणैः पर्वतां.श्चापि दारयेत्। यस्य मृत्यो रिव क्रोध.श्शक्रस्येव पराक्रमः 21।। >> यस्य भार्या जनस्थाना-त्सीता चापहृता त्वया। स एष राम.स्त्वां योद्धुं राजन् समभिवर्तते 22।। >> यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनद.प्रभः। विशालवक्षा.स्ताम्राक्षो नीलकुञ्चित.मूर्धजः 23।। >> एषोस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः। नये युद्धे च कुशल.-स्सर्वशास्त्रविशारदः 24।। >> अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली। रामस्य दक्षिणो बाहु-र्नित्यं प्राणो बहिश्चरः 25।। >> न ह्येष राघवस्यार्थे जीवितं परिरक्षति। एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् 26।। >> यस्तु सव्य.मसौ पक्षं रामस्याश्रित्य तिष्ठति। रक्षोगण.परिक्षिप्तो राजा ह्येष विभीषणः 27।। >> श्रीमता राजराजेन लङ्काया.मभिषेचितः। त्वा.मेव प्रतिसंरब्धो युद्धायैषोभिवर्तते 28।। >> यं तु पश्यसि तिष्ठन्तं मध्ये गिरि.मिवाचलम्। सर्वशाखा.मृगेन्द्राणां भर्तार.मपराजितम् 29।। >> तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च। यः कपी.नतिबभ्राज हिमवा.निव पर्वतान् 30।। >> किष्किन्धां य.स्समध्यास्ते गुहां सगहन.द्रुमाम्। दुर्गां पर्वतदुर्गस्थां प्रधानै.स्सह यूथपैः 31।। >> यस्यैषा काञ्चनी माला शोभते शतपुष्करा। कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता 32।। >> एतां च मालां तारां च कपिराज्यं च शाश्वतम्। सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ।। 33।। >> शतं शतसहस्राणां कोटि.माहु र्मनीषिणः। शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते 34।। >> शतं शङ्खसहस्राणां महाशङ्ख इतिस्मृतः। महा शङ्ख सहस्राणां शतं बृन्द मितिस्मृतं 35।। >> शतं बृन्द सहस्राणां महाबृन्द.मिति स्मृतम्। महाबृन्द.सहस्राणां शतं पद्म.मिति स्मृतं 36।। >> शतं पद्मसहस्राणां महापद्म.मिति स्मृतम्। महा पद्मसहस्राणां शतं खर्व.मिहोच्यते 37।। >> शतं खर्वसहस्राणां महाखर्व.मिति स्मृतम्। महा खर्वसहस्राणां समुद्र मभिधीयते।। 38।। >> शतं समुद्र साहस्र-मोघ इत्यभिधीयते। शत मोघसहस्राणां महौघ इति विश्रुतः 39।। >> एवं कोटिसहस्रेण शङ्खानां च शतेन च। महा शङ्ख सहस्रेण तथा बृन्दशतेन च 40।। >> महा पद्मसहस्रेण तथा पद्मशतेन च। महापद्मसहस्रेण तथा खर्वशतेन च 41।। >> समुद्रेण शतेनैव महौघेन तथैव च। एष कोटिमहौघेन समुद्रसदृशेन च 42।। >> विभीषणेन सचिवै- राक्षसैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थ.मभिवर्तते। महाबलवृतो नित्यं महाबलपराक्रमः 43।। >> इमां महाराज समीक्ष्य वाहिनी-मुपस्थितां प्रज्वलितग्रहोपमाम्। ततः प्रयत्नः परमो विधीयताम्। यथा जय.स्स्या-न्न परैः पराजयः।। 45।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टाविंशस्सर्गः। • युद्धकाण्डे सर्गः 29 शार्दूलादिचारप्रेषणम् शुकेन तु समाख्यातां-स्तान् दृष्ट्वा हरियूथपान्। समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम्।। 1।। >> लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम् 2।। >> गजं गवाक्षं गवयं मैन्दं द्विविद.मेव च। अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम्। हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्। सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्। किञ्चि.दाविग्नहृदयो जातक्रोधश्च रावणः। भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ।। 3।। >> अधोमुखौ तौ प्रणता वब्रवी.च्छुकसारणौ। रोषगद्गदया वाचा संरब्धः परुषं वचः।। 4।। >> न तावत् सदृशं नाम सचिवै.रुपजीविभिः। विप्रियं नृपते.र्वक्तुं निग्रहप्रग्रहे प्रभोः 5।। >> रिपूणां प्रतिकूलानां युद्धार्थ.मभिवर्तताम्। उभाभ्यां सदृशं नाम वक्तु.मप्रस्तवे स्तवम् 6।। >> आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद्राजशास्त्राणा.-मनुजीव्यं न गृह्यते। गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते 7।। >> ईदृशै.स्सचिवै.र्युक्तो मूर्खै.र्दिष्ट्या धरा.म्यहम् 8।। >> किं नु मृत्यो.र्भयं नास्ति वक्तुं मां परुषं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् 9।। >> अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः। राजदोष.परामृष्टा-स्तिष्ठन्ते नापराधिनः।। 10।। >> हन्या.महं त्विमौ पापौ शत्रुपक्ष.प्रशंसकौ। यदि पूर्वोपकारै.र्मे न क्रोधो मृदुतां व्रजेत्।। 11।। >> अपध्वंसत गच्छध्वं सन्निकर्षा.दितो मम। न हि वां हन्तु.मिच्छामि स्मर.न्नुपकृतानि वाम्। हता.वेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ।। 12।। >> एव मुक्तौ तु सव्रीडौ ता.वुभौ शुकसारणौ। रावणं जयशब्देन प्रतिनन्द्याभिनिस्सृतौ।। 13।। >> अब्रवी.त्तु दशग्रीव.-स्समीपस्थं महोदरम्। उपस्थापय शीघ्रं मे चारान् नीतिविशारदान्।। 14।। >> महोदरस्तथोक्तस्तु शीघ्र.माज्ञापय.च्चरान्।। 15।। >> ततश्चारा.स्सन्त्वरिताः प्राप्ताः पार्थिव.शासनात्। उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा।। 16।। >> तानब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः। चारान् प्रत्यायिता.न्छूरान् भक्तान् विगत.साध्वसान्।। 17।। >> इतो गच्छत रामस्य व्यवसायं परीक्षथ। मन्त्रेष्वभ्यन्तरा येस्य प्रीत्या तेन समागताः।। 18।। >> कथं स्वपिति जागर्ति किमन्यच्च करिष्यति। विज्ञाय निपुणं सर्व.-मागन्तव्य.मशेषतः।। 19।। >> चारेण विदित.श्शत्रुः पण्डितै.र्वसुधाधिपैः। युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते 20।। >> चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्। शार्दूल मग्रतः कृत्वा तत.श्चक्रुः प्रदक्षिणं 21।। >> तत.स्ते तं महात्मानं चारा राक्षससत्तमम्। कृत्वा प्रदक्षिणं जग्मु-र्यत्र राम.स्सलक्ष्मणः 22।। >> ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ। प्रच्छन्ना ददृशु.र्गत्वा ससुग्रीव.विभीषणौ। प्रेक्षमाणा.श्चमूं तां च बभूवु.र्भयविक्लबाः 23। ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः।। 24।। >> विभीषणेन तत्रस्था निगृहीता यदृच्छया। शार्दूलो ग्राहित.स्त्वेकः पापोय.मिति राक्षसः 25।। >> मोचित.स्सोपि रामेण वध्यमानः प्लवङ्गमैः। आनृशंस्येन रामस्य मोचिता राक्षसाः परे 26।। >> वानरै.रर्दितास्ते तु विक्रान्तै.र्लघुविक्रमैः। पुन.र्लङ्का.मनुप्राप्ता.श्श्वसन्तो नष्टचेतसः 27।। >> ततो दशग्रीव मुपस्थितास्तु ते- चारा बहिर्नित्यचरा निशाचराः। गिरे.स्सुवेलस्य समीपवासिनं- न्यवेदयन् भीमबलं महाबलाः।। 28।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 30 वानरबलसङ्ख्यानम् ततस्त.मक्षोभ्य बलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्।। 1।। >> चाराणां रावण.श्श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोभवत् किञ्चि-च्छार्दूलं वाक्य.मब्रवीत् 2।। >> अयथावच्च ते वर्णो- दीनश्चासि निशाचर। नासि कच्चि.दमित्राणां क्रुद्धानां वश.मागतः 3।। >> इति तेनानुशिष्टस्तु वाचं मन्द.मुदीरयत्। तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः। न ते चारयितुं शक्या राजन् वानरपुङ्गवाः 4।। >> विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः। नापि सम्भाषितुं शक्या.-स्सम्प्रश्नोत्र न लभ्यते।। 5।। >> सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः। प्रविष्टमात्रे ज्ञातोहं बले तस्मि.न्नचारिते।। 6।। >> बला.द्गृहीतो बहुभि.-र्बहुधास्मि विचालितः। जानुभि.र्मुष्टिभि.र्दन्तै.-स्तलै.श्चाभिहतो भृशम् 7।। >> परिणीतोस्मि हरिभि-र्बलवद्भि.रमर्षणैः। परिणीय च सर्वत्र नीतोहं रामसंसदम् 8।। >> रुधिरादिग्धसर्वाङ्गो विह्वल.श्चलितेन्द्रियः। हरिभि.र्वध्यमानश्च याचमानः कृताञ्जलिः 9।। >> राघवेण परित्रातो जीवामि ह यदृच्छया।। 10।। >> एष शैलै.श्शिलाभिश्च पूरयित्वा महार्णवम्। द्वार.माश्रित्य लङ्काया-राम.स्तिष्ठति सायुधः।। 11।। >> गरुडव्यूह.मास्थाय सर्वतो हरिभि.र्वृतः। मां विसृज्य महातेजा लङ्का.मेवाभिवर्तते।। 12।। >> पुरा प्राकार.मायाति क्षिप्र.मेकतरं कुरु। सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्।। 13।। >> मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः। शार्दूलं सुमह.द्वाक्य-मथोवाच स रावणः।। 14।। >> यदि मां प्रतियुध्येरन् देवगन्धर्व.दानवाः। नैव सीतां प्रदास्यामि सर्वलोकभया.दपि।। 15।। >> एव.मुक्त्वा महातेजा रावणः पुन.रब्रवीत्। चारिता भवता सेना केत्र शूराः प्लवङ्गमाः।। 16।। >> कीदृशा किम्प्रभावाश्च वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्व.माख्याहि राक्षस।। 17।। >> तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्। अवश्यं बलसङ्ख्यानं कर्तव्यं युद्ध.मिच्छता0।। 18।। >> अथैव.मुक्त.श्शार्दूलो रावणेनोत्तम.श्चरः। इदं वचन.मारेभे वक्तुं रावणसन्निधौ।। 19।। >> अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः। गद्गदस्याथ पुत्रोत्र जाम्बवा.निति विश्रुतः 20।। >> गद्गदस्यैव पुत्रोन्यो गुरुपुत्र.श्शतक्रतोः। कदनं यस्य पुत्रेण कृत.मेकेन रक्षसाम् 21।। >> सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्य.स्सो.मात्मजश्चात्र राजन् दधिमुखः कपिः।। 22।। >> सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्यु.र्वानररूपेण नूनं सृष्ट.स्स्वयम्भुवा।। 23।। >> पुत्रो हुतवहस्याथ नील.स्सेनापति.स्स्वयम्। अनिलस्य च पुत्रोत्र हनूमा.निति विश्रुतः 24।। >> नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविद.श्चोभौ बलिना.वश्विसम्भवौ 25।। >> पुत्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः। गजो गवाक्षो गवय.श्शरभो गन्धमादनः 26।। >> दश वानरकोट्यस्तु शूराणां युद्धकाङ्क्षिणाम्। श्रीमतां देवपुत्राणां शेषं नाख्यातु.मुत्सहे 27।। >> पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन खरश्च त्रिशिरा.स्तथा 28।। >> नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः 29।। >> वक्तुं न शक्तो रामस्य नरः कश्चि.द्गुणान् क्षितौ। जनस्थानगता येन यावन्तो राक्षसा हताः 30।। >> लक्ष्मणश्चात्र धर्मात्मा मातङ्गाना.मिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः 31 । श्वेतो ज्योतिर्मुख.श्चात्र भास्करस्यात्मसम्भवौ। वरुणस्य च पुत्रोन्यो हेमशैलः प्लवङ्गमः 32।। >> विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो बलवा.नत्र वसुपुत्र.स्सुदुर्धरः 33।। >> राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः 34।। >> इति सर्वं स.माख्यातं तवेदं वानरं बलम्। सुवेलेधिष्ठितं शैले शेषकार्ये भवान् गतिः 35।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 31 विद्युज्जिह्वमायाप्रयोगः ततस्त.मक्षोभ्यबलं लङ्कायां नृपते.श्चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्।। 1।। >> चाराणां रावण.श्श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोभवत् किञ्चित् सचिवां.श्चेद.मब्रवीत् 2।। >> मन्त्रिण.श्शीघ्र.मायान्तु सर्वे वै सुसमाहिताः। अयन्नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः 3।। >> तस्य तच्छासनं श्रुत्वा मन्त्रिणोभ्यागमन् द्रुतम्। तत.स्सम्मन्त्रयामास सचिवै राक्षसै.स्सह 4।। >> मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम्। विसर्जयित्वा सचिवान् प्रविवेश स्व.मालयम् 5।। >> ततो राक्षस.माहूय विद्युज्जिह्वं महाबलम्। मायाविदं महामायः प्राविश.द्यत्र मैथिली 6।। >> विद्युज्जिह्वं च मायाज्ञ.मब्रवी.द्राक्षसाधिपः। मोहयिष्यामहे सीतां मायया जनकात्मजाम्।। 7।। >> शिरो मायामयं गृह्य राघवस्य निशाचर। त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः 8।। >> एव.मुक्त.स्तथेत्याह विद्युज्जिह्वो निशाचरः। तस्य तुष्टोभवद् राजा प्रददौ च विभूषणम् 9।। >> अशोकवनिकायां तु प्रविवेश महाबलः। नैरृताना.मधिपति-स्सँविवेश महाबलः।। 10।। >> ततो दीना.मदैन्यार्हां ददर्श धनदानुजः। अधोमुखीं शोकपरा-मुपविष्टां महीतले।। 11।। >> भर्तारमेव ध्यायन्ती.-मशोकवनिकां गताम्। उपास्यमानां घोराभी-राक्षसीभि.रित.स्ततः।। 12।। >> राक्षसीभि र्वृतां सीतां पूर्ण चन्द्रनिभाननाम्। उत्पात.मेघजालाभि-श्चन्द्ररेखा.मिवावृताम्। भूषणै.रुत्तमैः कैश्चि.-न्मङ्गलार्थ.मलङ्कृता0। चरन्तीं मारुतोद्धूतां क्षिप्तां पुष्पलता.मिव। हर्षशोकान्तरे मग्नां विषादस्य विलक्षणा0। स्तिमिता.मिव गाम्भीर्या-न्नदीं भागीरथी.मिव) । उपसृत्य तत.स्सीतां प्रहर्षं नाम कीर्तयन्। इदं च वचनं धृष्ट-मुवाच जनकात्मजाम्।। 13।। >> सान्त्व्यमाना मया भद्रे य.मुपाश्रित्य वल्गसे। खरहन्ता स ते भर्ता राघव.स्समरे हतः।। 14।। >> छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया। व्यसनेनात्मन.स्सीते मम भार्या भविष्यसि।। 15।। >> विसृजेमां मतिं मूढे किं मृतेन करिष्यसि। भवस्व भद्रे भार्याणां सर्वासा.मीश्वरी मम।। 16।। >> अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि। शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा।। 17।। >> समायात.स्समुद्रान्तं मां हन्तुं किल राघवः। वानरेन्द्र.प्रणीतेन बलेन महता वृतः।। 18।। >> सन्निविष्ट.स्समुद्रस्य तीर.मासाद्य दक्षिणम्। बलेन महता रामो व्रजत्यस्तं दिवाकरे।। 19।। >> अथाध्वनि परिश्रान्त.-मर्धरात्रे स्थितं बलम्। सुख संसुप्त.मासाद्य चारितं प्रथमं चरैः 20।। >> तत् प्रहस्तप्रणीतेन बलेन महता मम। बल.मस्य हतं रात्रौ यत्र राम.स्सलक्ष्मणः 21।। >> पट्टसा.न्परिघा.न्खड्गां-श्चक्रा.न्दण्डा.न्महायसान्। बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् 22।। >> यष्टीश्च तोमरा.न्छक्ती-श्चक्राणि मुसलानि च। उद्यमोद्यम्य रक्षोभि-र्वानरेषु निपातिताः।। 23।। >> अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना। असक्तं कृतहस्तेन शिरश्छिन्नं महासिना।। 24।। >> विभीषण.स्समुत्पत्य निगृहीतो यदृच्छया। दिशः प्रव्राजित.स्सर्वै-र्लक्ष्मणः प्लवगै.स्सह 25।। >> सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः। निरस्त.हनुक.श्शेते हनूमान् राक्षसै.र्हतः 26।। >> जाम्बव.नथ जानुभ्या मुत्पत.न्निहतो युधि। पट्टसै.र्बहुभिश्छिन्नो निकृत्तः पादपो यथा 27।। >> मैन्दश्च द्विविद.श्चोभौ निहतौ वानरर्षभौ। निश्श्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ। असिना व्यायतौ छिन्नौ मध्ये रिपुनिषूदनौ 28।। >> अनुतिष्ठति मेदिन्यां पनसः पनसो यथा 29।। >> नाराचै.र्बहुभि.श्छिन्न.-श्शेते दर्यां दरीमुखः। कुमुदस्तु महातेजा निष्कूज.स्सायकै.र्हतः 30।। >> अङ्गदो बहुभि.श्छिन्न.-श्शरै.रासाद्य राक्षसैः। पतितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः 31।। >> हरयो मथिता नागै-रथजातै.स्तथापरे। शायिता मृदिता.श्चाश्वैः वायुवेगै.रिवाम्बुदाः 32।। >> प्रहृता.श्चापरे त्रस्ता हन्यमाना जघन्यतः। अभिद्रुतास्तु रक्षोभि.स्सिंहैरिव महाद्विपाः।। 33।। >> सागरे पतिताः केचित् केचि द्गगन.माश्रिताः। ऋक्षा वृक्षा.नुपारूढा वानरीं वृत्ति.माश्रिताः 34।। >> सागरस्य च तीरेषु शैलेषु च वनेषु च। पिङ्गलास्ते विरूपाक्षै-र्बहुभि.र्बहवो हताः 35।। >> एवं तव हतो भर्ता ससैन्यो मम सेनया। क्षतजार्द्रं रजोध्वस्त.-मिदं चास्याहृतं शिरः 36।। >> ततः परमदुर्धर्षो रावणो राक्षसेश्वरः। सीताया.मुपशृण्वन्त्यां राक्षसी.मिद.मब्रवीत् 37।। >> राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्व.मानय। येन तद्राघवशिर.-स्सङ्ग्रामा.त्स्वय.माहृतम् 38।। >> विद्युज्जिह्व.स्ततो गृह्य शिर.स्तत् सशरासनम्। प्रणामं शिरसा कृत्वा रावणस्याग्रत.स्स्थितः 39।। >> तमब्रवी.त्ततो राजा रावणो राक्षसं स्थितम्। विद्युज्जिह्वं महाजिह्वं समीप.परिवर्तिनम् 40।। >> अग्रतः कुरु सीताया.श्शीघ्रं दाशरथे.श्शिरः। अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु 41।। >> एवमुक्तं तु तद्रक्ष.-श्शिर.स्तत् प्रियदर्शनम्। उपनिक्षिप्य सीतायाः क्षिप्र मन्त.रधीयत 42।। >> रावण.श्चापि चिक्षेप भास्वरं कार्मुकं महत्। त्रिषु लोकेषु विख्यातं सीता.मिद.मुवाच ह 43।। >> इदं तत् तव रामस्य कार्मुकं ज्यासमन्वितम्। इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् 44।। >> स विद्युज्जिह्वेन सहैव तच्छिरो- धनुश्च भूमौ विनिकीर्य रावणः। विदेहराजस्य सुतां यशस्विनीं- ततोब्रवी.त्तां भव मे वशानुगा।। 45।। >> श्रीमद्रामायणे युद्धकाण्डे एक त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 32 सीताविलापः सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुक.मुत्तमम्। सुग्रीवप्रतिसंसर्ग.-माख्यातं च हनूमता।। 1।। >> नयने मुखवर्णं च भर्तु.स्तत् सदृशं मुखम्। केशान् केशान्तदेशं च तं च चूडामणिं शुभम् 2।। >> एतै.स्सर्वै.रभिज्ञानै-रभिज्ञाय सुदुःखिता। विजगर्हेथ कैकेयीं क्रोशन्ती कुररी यथा 3।। >> सकामा भव कैकेयि हतोयं कुलनन्दनः। कुल.मुत्सादितं सर्वं त्वया कलहशीलया 4।। >> आर्येण किं ते कैकेयि कृतं रामेण विप्रियम्। यद्गृहा.च्चीरवसन-स्तया प्रस्थापितो वनम् 5।। >> एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी। जगाम जगतीं बाला छिन्ना तु कदली यथा 6।। >> सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम्। त च्छिर.स्समुपाघ्राय विललापायतेक्षणा 7।। >> हा हतास्मि महाबाहो वीरव्रत.मनुव्रता। इमां ते पश्चिमावस्थां गतास्मि विधवा कृता 8।। >> प्रथमं मरणं नार्या भर्तु.र्वैगुण्य.मुच्यते। सुवृत्त.स्साधुवृत्ताया.-स्सँवृत्त.स्त्वं ममाग्रतः 9।। >> दुःखा द्दुःखं प्रपन्नाया मग्नाया.श्शोकसागरे। यो हि मा मुद्यत.स्त्रातुं सोसि त्वं विनिपातितः।। 10।। >> सा श्वश्रू.र्मम कौसल्या त्वया पुत्रेण राघव। वत्सेनेव यथा धेनु-र्विवत्सा वत्सला कृता।। 11।। >> आदिष्टं दीर्घ.मायु.स्ते यै.रचिन्त्यपराक्रम। अनृतं वचनं तेषा मल्पायुरसि राघव।। 12।। >> अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सत.स्तव। पच.त्येनं तथा कालो भूतानां प्रभवो ह्ययम्।। 13।। >> अदृष्टं मृत्यु.मापन्नः कस्मात् त्वं नयशास्त्रवित्। व्यसनाना.मुपायज्ञः कुशलो ह्यसि वर्जने।। 14।। >> तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया। कालरात्र्या मयाच्छिद्य हृतः कमललोचनः।। 15।। >> उपशेषे महाबाहो मां विहाय तपस्विनीम्। प्रिया.मिव समाश्लिष्य पृथिवीं पुरुषर्षभ।। 16।। >> अर्चितं सततं य.त्तद्- गन्धमाल्यै र्मया तव। इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम्।। 17।। >> पित्रा दशरथेन त्वं श्वशुरेण ममानघ। सर्वैश्च पितृभि.स्सार्धं नूनं स्वर्गे समागतः।। 18।। >> दिवि नक्षत्रभूत.स्त्वं महत् कर्म कृतं प्रियम्। पुण्यं राजर्षिवंशं त्व.-मात्मन.स्समुपेक्षसे।। 19।। >> किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे। बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम्।। 20।। >> संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया। स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् 21।। >> कस्मा.न्मा.मपहाय त्वं गतो गतिमतां वर। अस्मा.ल्लोका.दिमं लोकं त्यक्त्वा मामिह दुःखिताम् 22।। >> कल्याणै.रुचितं यत्तत् परिष्वक्तं मयैव तु। क्रव्यादै.स्तच्छरीरं ते नूनं विपरिकृष्यते 23।। >> अग्निष्टो.मादिभि.र्यज्ञै-रिष्टवा.नाप्तदक्षिणैः। अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे।। 24।। >> प्रव्रज्या.मुपपन्नानां त्रयाणा.मेक.मागतम्। परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा 25।। >> स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते। तव चाख्यास्यते नूनं निशायां राक्षसै.र्वधम् 26।। >> सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्। हृदयेनावदीर्णेन न भविष्यति राघव 27।। >> मम हेतो.रनार्याया अनघः पार्थिवात्मजः। राम.स्सागर.मुत्तीर्य सत्त्ववान् गोष्पदे हतः 28।। >> अहं दाशरथेनोढा मोहा.त्स्वकुलपांसनी। आर्यपुत्रस्य रामस्य भार्या मृत्यु.रजायत 29।। >> नून.मन्यां मया जातिं वारितं दान.मुत्तमम्। याह मद्येह शोचामि भार्या सर्वातिथे.रपि 30।। >> साधु पातय मां क्षिप्रं रामस्योपरि रावण। समानय पतिं पत्न्या कुरु कल्याण.मुत्तमम् 31।। >> शिरसा मे शिरश्चास्य कायं कायेन योजय। रावणानुगमिष्यामि गतिं भर्तु.र्महात्मनः 32।। >> मुहूर्त मपि नेच्छामि जीवितुं पापजीविता। श्रुतं मया वेदविदां ब्राह्मणानां पितु.र्गृहे। यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः। क्षमा यस्मिन् दम.स्त्याग.-स्सत्यं धर्मः कृतज्ञता। अहिंसा चैव भूतानां तमृते का गति.र्मम।। >> इति सा दुःखसन्तप्ता विललापायतेक्षणा। भर्तु.श्शिरो धनु.स्तत्र समीक्ष्य च पुनःपुनः 33।। >> एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तार मनीकस्थः कृताञ्जलिः।। 34।। >> विजयस्वार्यपुत्रेति सोभिवाद्य प्रसाद्य च। न्यवेदय.दनुप्राप्तं प्रहस्तं वाहिनीपतिम्। 35।। >> अमात्यै.स्सहित.स्सर्वैः प्रहस्त.स्समुपस्थितः। तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो 36।। >> नून.मस्ति महाराज राजभावात् क्षमान्वितम्। किञ्चि.दात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु।। 37। एत.च्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ 38।। >> स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्य.मात्मनः। सभां प्रविश्य विदधे विदित्वा राम विक्रमम्।। 39।। >> अन्तर्धानं तु तच्छीर्षं तच्च कार्मुक.मुत्तमम्। जगाम रावणस्यैव निर्याण.समनन्तरम् 40।। >> राक्षसेन्द्रस्तु तैस्सार्धं मन्त्रिभि.र्भीमविक्रमैः। समर्थयामास तदा रामकार्य.विनिश्चयम् 41।। >> अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः। अब्रवी.त्कालसदृशो रावणो राक्षसाधिपः 42।। >> शीघ्रं भेरीनिनादेन स्फुट.कोणाहतेन मे। समानयध्वं सैन्यानि वक्तव्यं च न कारणम् 43।। >> ततस्तथेति प्रतिगृह्य तद्वचो- बलाधिपास्ते मह.दात्मनो बलम्। समानयं.श्चैव समागतं च ते- न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि।। 44।। >> श्रीमद्रामायणे युद्धकाण्डे द्वा त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 33 सरमा समाश्वासनम् सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी। आससादाशु वैदेहीं प्रियां प्रणयिनी सखी0।। 1।। >> मोहितां राक्षसेन्द्रेण सीतां परमदुःखिता0। आश्वासयामास तदा सरमा मृदु भाषिणी 2।। >> सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया। रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता 3।। >> सा ददर्श तत.स्सीतां सरमा नष्टचेतनाम्। उपावृत्योत्थितां ध्वस्तां बडबा.मिव पांसुला0।। 4।। >> तां समाश्वासयामास सखीस्नेहेन सुव्रता 5।। >> समाश्वसिहि वैदेहि मा भू.त्ते मनसो व्यथा। उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया। सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् 6।। >> लीनया गगने शून्ये भय.मुत्सृज्य रावणात्। तव हेतो.र्विशालाक्षि न हि मे जीवितं प्रियम् 7।। >> स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः। तच्च मे विदितं सर्व.-मभिनिष्क्रम्य मैथिलि 8।। >> न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः। वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते 9।। >> न चैव वानरा हन्तुं शक्याः पादप.योधिनः। सुरा देवर्षभेणेव रामेण हि सुरक्षिताः।। 10।। >> दीर्घवृत्तभुज.श्श्रीमान् महोरस्कः प्रतापवान्। धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः।। 11।। >> विक्रान्तो रक्षिता नित्य-मात्मनश्च परस्य च। लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित्।। 12।। >> हन्ता परबलौघाना.-मचिन्त्यबल.पौरुषः। न हतो राघव.श्श्रीमान् सीते शत्रुनिबर्हणः।। 13।। >> अयुक्तबुद्धि.कृत्येन सर्वभूत.विरोधिना। इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि।। 14।। >> शोकस्ते विगत.स्सर्वः कल्याणं त्वा.मुपस्थितम्। ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु।। 15।। >> उत्तीर्य सागरं राम.-स्सह वानरसेनया। सन्निविष्ट.स्समुद्रस्य तीर.मासाद्य दक्षिणम्।। 16।। >> दृष्टो मे परिपूर्णार्थः काकुत्स्थ.स्सहलक्ष्मणः। सहितै.स्सागरान्तस्थै-र्बलै.स्तिष्ठति रक्षितः।। 17।। >> अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः। राघव.स्तीर्ण इत्येव प्रवृत्तिस्तै.रिहाहृता।। 18।। >> स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः। एष मन्त्रयते सर्वै.-स्सचिवै.स्सह रावणः।। 19।। >> इति ब्रुवाणा सरमा राक्षसी सीतया सह। सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् 20।। >> दण्ड.निर्घातवादिन्या.-श्श्रुत्वा भेर्या महास्वनम्। उवाच सरमा सीता.-मिदं मधुरभाषिणी 21।। >> सन्नाहजननी ह्येषा भैरवा भीरुभेरिका। भेरीनादं च गम्भीरं शृणु तोयद.निस्वनम् 22।। >> कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः। हृष्यन्ते तुरगा रूढाः प्रासहस्ता.स्सहस्रशः 23।। >> तत्र तत्र च सन्नद्धा.-स्सम्पतन्ति पदातयः। आपूर्यन्ते राजमार्गा.-स्सैन्यै.रद्भुतदर्शनैः। वेगवद्भि.र्नदद्भिश्च तोयौघै-रिव सागरः 24।। >> शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा। रथवाजि.गजानां च भूषितानां च रक्षसाम् 25।। >> प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्। वनं निर्दहतो घर्मे यथारूपं विभावसोः।। 26।। >> घण्टानां शृणु निर्घोषं रथानां शृणु निस्स्वनम्। हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा 27।। >> उद्यतायुध.हस्तानां राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसा.मेष तुमुलो रोमहर्षणः 28।। >> श्रीस्त्वां भजति शोकघ्नी रक्षसां भय.मागतम् 29।। >> रामः कमलपत्राक्षो दैत्याना.मिव वासवः। विनिर्जित्य जितक्रोध.-स्त्वा.मचिन्त्य.पराक्रमः। रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति 30।। >> विक्रमिष्यति रक्षस्सु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः 31।। >> आगतस्य हि रामस्य क्षिप्र.मङ्कगतां सतीम्। अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते 32।। >> अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने। समागम्य परिष्वक्ता तस्योरसि महोरसः 33।। >> अचिरा.न्मोक्ष्यते सीते देवि ते जघनं गताम्। धृता.मेतां बहून् मासान् वेणीं रामो महाबलः 34।। >> तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्र.मिवोदितम्। मोक्ष्यसे शोकजं वारि निर्मोक.मिव पन्नगी 35।। >> रावणं समरे हत्वा न चिरा.देव मैथिलि। त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम्।। 36।। >> समागता त्वं रामेण मोदिष्यसि महात्मना। सुवर्षेण समायुक्ता यथा सस्येन मेदिनी।। 37।। >> गिरिवर मभितोनुवर्तमानो- हय इव मण्डल.माशु यः करोति। त मिह शरण मभ्युपेहि देवि- दिवसकरं प्रभवो ह्ययं प्रजानाम्।। 38।। >> श्रीमद्रामायणे युद्धकाण्डे त्रयस्त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 34 रावणनिश्चयकथनम् अथ तां जातसन्तापां तेन वाक्येन मोहिताम्। सरमा ह्लादयामास पृथिवीं द्यौ.रिवाम्भसा।। 1।। >> तत.स्तस्या हितं सख्या-श्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा-स्मितपूर्वाभिभाषिणी 2।। >> उत्सहेय.महं गत्वा त्वद्वाक्य मसितेक्षणे। न हि मे क्रममाणाया निरालम्बे विहायसि 3।। >> समर्थो गति.मन्वेतुं पवनो गरुडोपि वा।। 4।। >> एवं ब्रुवाणां तां सीता सरमां पुन.रब्रवीत्। मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया 5।। >> समर्था गगनं गन्तु मपि वा त्वं रसातलम्। अवगच्छा.म्यकर्तव्यं कर्तव्यं ते मदन्तरे 6।। >> मत्प्रियं यदि कर्तव्यं यदि बुद्धि.स्स्थिरा तव। ज्ञातु.मिच्छामि त्वं गत्वा किं करोतीति रावणः।। 7।। >> स हि मायाबलः क्रूरो रावण.श्शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी 8।। >> सन्त्रासयति मां नित्यं भर्त्सापयति चासकृत्। राक्षसीभि.स्सुघोराभि-र्या मां रक्षन्ति नित्यशः।। 9।। >> उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम। तद्भया.च्चाह.मुद्विग्ना अशोकवनिकां गता।। 10।। >> या हि नाम कथा तस्य निश्चितं वापि य.द्भवेत्। निवेदयेथा.स्सर्वं तत्- परो मे स्या.दनुग्रहः।। 11।। >> सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी। उवाच वचनं तस्या.-स्स्पृशन्ती बाष्पविक्लबम्।। 12।। >> एष ते य.द्यभिप्राय-स्तस्मा.द्गच्छामि जानकि। गृह्य शत्रो.रभिप्राय-मुपावृत्तां च पश्य माम्।। 13।। >> एव.मुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः।। 14।। >> सा श्रुत्वा निश्चयम् तस्य निश्चयज्ञा दुरात्मनः। पुन.रेवागमत् क्षिप्र.-मशोकवनिकां तदा।। 15।। >> सा प्रविष्टा पुन.स्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वा.मेव भ्रष्टपद्मा.मिव श्रियम्।। 16।। >> तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वय.मासनम्।। 17।। >> इहासीना सुखं सर्व.-माख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः।। 18।। >> एव.मुक्ता तु सरमा सीतया वेपमानया। कथितं सर्व.माचष्टे रावणस्य समन्त्रिणः।। 19।। >> जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृह.द्वचः। अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः 20।। >> दीयता.मभिसत्कृत्य मनुजेन्द्राय मैथिली। निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् 21।। >> लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धे कः कुर्या.न्मानुषो भुवि 22।। >> एवं स मन्त्रिवृद्धेन मात्रा च बहुभाषितः। न त्वा.मुत्सहते मोक्तु-मर्थमर्थपरो यथा 23।। >> नोत्सह.त्यमृतो मोक्तुं युद्धे त्वा.मिति मैथिलि। सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते 24।। >> तदेषा निश्चिता बुद्धि-र्मृत्युलोभा.दुपस्थिता। भया.न्न शक्त.स्त्वां मोक्तु-मनिरस्त.स्तु सँयुगे। राक्षसानां च सर्वेषा-मात्मनश्च वधेन हि 25।। >> निहत्य रावणं सङ्ख्ये सर्वथा निशितै.श्शरैः। प्रतिनेष्यति राम.स्त्वा.-मयोध्या.मसितेक्षणे 26।। >> एतस्मि.न्नन्तरे शब्दो भेरी.शङ्ख.समाकुलः। श्रुतो वानर सैन्यानां कम्पयन् धरणीतलम् 27।। >> श्रुत्वा तु तं वानरसैन्यशब्दं- लङ्का गता राक्षसराजभृत्याः। नष्टौजसो दैन्यपरीतचेष्टाः- श्रेयो न पश्यन्ति नृपस्य दोषे।। 28।। >> श्रीमद्रामायणे युद्धकाण्डे चतुस्त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 35 माल्यवदुपदेशः तेन शङ्खविमिश्रेण भेरीशब्देन राघवः। उपयाति महाबाहू- रामः परपुरञ्जयः।। 1।। >> तं निनादं निशम्याथ रावणो राक्षसेश्वरः। मुहूर्तं ध्यान.मास्थाय सचिवा.नभ्युदैक्षत 2।। >> अथ तान् सचिवां.स्तत्र सर्वा.नाभाष्य रावणः। सभां सन्नादयन् सर्वा-मित्युवाच महाबलः।। >> जगत्सन्तापनः क्रूरो गर्हय.न्राक्षसेश्वरः।। 3।। >> तरणं सागरस्यापि विक्रमं बलसञ्चयम्। यदुक्तवन्तो रामस्य भवन्त.स्तन्मया श्रुतम् 4।। >> भवत.श्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्। तूष्णीका.नीक्षतोन्योन्यं विदित्वा रामविक्रमम्।। 5।। >> ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः। रावणस्य वच.श्श्रुत्वा मातुः पैतामहोब्रवीत्।। 6।। >> विद्यास्वभिविनीतो यो राजा राज.न्नयानुगः। स शास्ति चिर.मैश्वर्य.-मरींश्च कुरुते वशे 7।। >> सन्दधानो हि कालेन विगृह्णंश्चारिभि.स्सह। स्वपक्षवर्धनं कुर्वन् मह.दैश्वर्य.मश्नुते 8।। >> हीयमानेन कर्तव्यो राज्ञा सन्धि.स्समेन च। न शत्रु.मवमन्येत ज्यायान् कुर्वीत विग्रहम् 9।। >> तन्मह्यं रोचते सन्धि.स्सह रामेण रावण। यदर्थ मभियुक्ता.स्स्म सीता तस्मै प्रदीयताम्।। 10।। >> तस्य देवर्षय.स्सर्वे गन्धर्वाश्च जयैषिणः। विरोधं मा गम.स्तेन सन्धि.स्ते तेन रोचताम्।। 11।। >> असृज.द्भगवान् पक्षौ द्वावेव हि पितामहः। सुराणा.मसुराणां च धर्माधर्मौ तदाश्रयौ।। 12।। >> धर्मो हिश्रूयते पक्षो ह्यमराणां महात्मनाम्। अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण।। 13।। >> धर्मो वै ग्रसतेधर्मं ततः कृत.मभू.द्युगम्। अधर्मो ग्रसते धर्मं तत.स्तिष्यः प्रवर्तते।। 14।। >> तत्त्वया चरता लोकान् धर्मो विनिहतो महान्। अधर्मः प्रगृहीतश्च तेनास्म.द्बलिनः परे।। 15।। >> स प्रमादा.द्विवृद्ध.स्ते-धर्मोहिर्ग्रसते हि नः। विवर्धयति पक्षं च सुराणां सुरभावनः।। 16।। >> विषयेषु प्रसक्तेन यत्किञ्चि.त्कारिणा त्वया। ऋषीणा.मग्निकल्पाना-मुद्वेगो जनितो महान्।। 17।। >> तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः।। 18।। >> तपसा भावितात्मानो धर्मस्यानुग्रहे रताः। मुख्यै.र्यज्ञै.र्यज.न्त्येते नित्यं तैस्तै.र्द्विजातयः।। 19।। >> जुह्व.त्यग्नींश्च विधिव द्वेदां.श्चोच्चै.रधीयते। अभिभूय च रक्षांसि ब्रह्मघोषा.नुदैरयन् 20।। >> दिशोपि विद्रुता.स्सर्वा.-स्स्तनयित्नु.रिवोष्णगे। ऋषीणा.मग्निकल्पाना.-मग्निहोत्रसमुत्थितः 21।। >> आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश। तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः। चर्यमाणं तप.स्तीव्रं सन्तापयति राक्षसान् 22।। >> देवदानव.यक्षेभ्यो गृहीतश्च वरस्त्वया। मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः 23।। >> बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः 24।। >> उत्पाता.न्विविधा.न्दृष्ट्वा घोरा.न्बहुविधां.स्तथा। विनाश.मनुपश्यामि सर्वेषां रक्षसा.महम् 25।। >> खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः। शोणितेनाभिवर्षन्ति लङ्का.मुष्णेन सर्वतः 26।। >> रुदतां वाहनानां च प्रपत.न्त्यस्रबिन्दवः। ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा 27।। >> व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्। प्रविश्य लङ्का.मनिशं समवायांश्च कुर्वते 28।। >> कालिकाः पाण्डुरै.र्दन्तैः प्रहस.न्त्यग्रत.स्स्थिताः। स्त्रिय.स्स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च 29।। >> गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते। खरा गोषु प्रजायन्ते मूषिका नकुलै.स्सह 30।। >> मार्जारा द्वीपिभि.स्सार्धं सूकरा.श्शुनकै.स्सह। किन्नरा राक्षसै.श्चापि समेयु.र्मानुषै.स्सह 31।। >> पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः। राक्षसानां विनाशाय कपोता विचरन्ति च। चीकी कूचीति वाशन्त्य.-श्शारिका वेश्मसु स्थिताः 32।। >> पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः। पक्षिणश्च मृगा.स्सर्वे प्रत्यादित्यं रुदन्ति च 33।। >> करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः। कालो गृहाणि सर्वेषां काले कालेन्ववेक्षते 34।। >> एता.न्यन्यानि दुष्टानि निमित्ता.न्युत्पतन्ति च। विष्णुं मन्यामहे रामं मानुषं रूप.मास्थितम् 35।। >> न हि मानुषमात्रोसौ राघवो दृढविक्रमः। येन बद्ध.स्समुद्रस्य स सेतुः परमाद्भुतः 36।। >> कुरुष्व नरराजेन सन्धिं रामेण रावण। ज्ञात्वा प्रधार्य कार्याणि क्रियता मायतिक्षमम् 39।। >> इदं वचस्तत्र निगद्य माल्यवान्- परीक्ष्य रक्षोधिपते.र्मनः पुनः। अनुत्तमेषूत्तम.पौरुषो बली- बभूव तूष्णीं समवेक्ष्य रावणम्।। 20।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चत्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 36 पुरद्वाररक्षा तत्तु माल्यवतो वाक्यं हित.मुक्तं दशाननः। न मर्षयति दुष्टात्मा कालस्य वश.मागतः।। 1।। >> स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वश.मागतः। अमर्षात् परिवृत्ताक्षो माल्यवन्त.मथाब्रवीत् 2।। >> हितबुद्ध्या यदहितं वचः परुष.मुच्यते। परपक्षं प्रविश्यैव नैत.च्छ्रोत्रगतं मम 3।। >> मानुषं कृपणं राम-मेकं शाखामृगाश्रयम्। समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् 4।। >> रक्षसा.मीश्वरं मां च देवतानां भयङ्करम्। हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः 5।। >> वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः। त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा 6।। >> प्रभवन्तं पदस्थं हि परुषं कोभिधास्यति। पण्डित.श्शास्त्रतत्त्वज्ञो विना प्रोत्साहना.द्रिपोः 7।। >> आनीय च वना.त्सीतां पद्महीना.मिव श्रियम्। किमर्थं प्रतिदास्यामि राघवस्य भया.दहम् 8।। >> वृतं वानरकोटीभि.स्ससुग्रीवं सलक्ष्मणम्। पश्य कैश्चि.दहोभि.स्त्वं राघवं निहतं मया 9।। >> द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि सँयुगे। स कस्मा.द्रावणो युद्धे भय.माहारयिष्यति।। 10।। >> द्विधा भज्येय मप्येवं न नमेयं तु कस्य चित्। एष मे सहजो दोष.-स्स्वभावो दुरतिक्रमः।। 11।। >> यदि तावत् समुद्रे तु सेतु.र्बद्धो यदृच्छया। रामेण विस्मयः कोत्र येन ते भय.मागतम्।। 12।। >> स तु तीर्त्वार्णवं राम.स्सह वानरसेनया। प्रतिजानामि ते सत्यं न जीव.न्प्रतियास्यति।। 13।। >> एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत।। 14।। >> जयाशिषा च राजानं वर्धयित्वा यथोचितम्। माल्यवा.नभ्यनुज्ञातो जगाम स्वं निवेशनम्।। 15।। >> रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। लङ्काया.मतुलां गुप्तिं कारयामास राक्षसः।। 16।। >> स व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। दक्षिणस्यां महावीर्यौ महापार्श्व.महोदरौ।। 17।। >> पश्चिमाया.मथो द्वारि पुत्र.मिन्द्रजितं तथा। व्यादिदेश महामायं बहुभी राक्षसै.र्वृतम्।। 18।। >> उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। स्वयं चात्र भविष्यामि मन्त्रिण.स्ता.नुवाच ह।। 19।। >> रक्षसां तु विरूपाक्षं महावीर्यपराक्रमम्। मध्यमेस्थापय.द्गुल्मे बहुभि.स्सह राक्षसैः 20।। >> एवं विधानं लङ्कायां कृत्वा राक्षसपुङ्गवः। मेने कृतार्थ.मात्मानं कृतान्तवश.मागतः 21।। >> विसर्जयामास तत.स्स मन्त्रिणो- विधान.माज्ञाप्य पुरस्य पुष्कलम्। जयाशिषा मन्त्रगणेन पूजितो- विवेश सोन्तःपुर.मृद्धिम.न्महत् 22।। >> श्रीमद्रामायणे युद्धकाण्डेषट् त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 37 रामगुल्मविभागः नरवानरराजौ तौ स च वायुसुतः कपिः। जाम्बवा.नृक्षराजश्च राक्षसश्च विभीषणः।। 1।। >> अङ्गदो वालिपुत्रश्च सौमित्रि.श्शरभः कपिः। सुषेण.स्सहदायादो मैन्दो द्विविद एव च 2।। >> गजो गवाक्षः कुमुदो नलोथ पनस.स्तथा। अमित्रविषयं प्राप्ता.-स्समवेता.स्समर्थयन् 3।। >> इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। सासुरोरग.गन्धर्वै-रमरै.रपि दुर्जया 4।। >> कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं सन्निहितो ह्यत्र रावणो राक्षसाधिपः 5।। >> तथा तेषु ब्रुवाणेषु रावणावरजोब्रवीत्। वाक्य.मग्राम्यपदवत् पुष्कलार्थं विभीषणः 6।। >> अनल.श्शरभश्चैव सम्पातिः प्रघस.स्तथा। गत्वा लङ्कां ममामात्याः पुरीं पुन.रिहागताः 7।। >> भूत्वा शकुनय.स्सर्वे प्रविष्टाश्च रिपो.र्बलम्। विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः 8।। >> सँविधानं यथाहु.स्ते रावणस्य दुरात्मनः। राम तद्ब्रुवत.स्सर्वं यथातत्त्वेन मे शृणु 9।। >> पूर्वं प्रहस्त.स्सबलो द्वार.मासाद्य तिष्ठति। दक्षिणं च महावीर्यौ महापार्श्व.महोदरौ।। 10।। >> इन्द्रजित् पश्चिमद्वारं राक्षसै.र्बहुभि.र्वृतः। पट्टसासि.धनुष्मद्भि.-श्शूलमुद्गरपाणिभिः। नानाप्रहरणै.श्शूरै-रावृतो रावणात्मजः।। 11।। >> राक्षसानां सहस्रैस्तु बहुभि.श्शस्त्रपाणिभिः। युक्तः परमसँविग्नो राक्षसै.र्बहुभि.र्वृतः। उत्तरं नगरद्वारं रावण.स्स्वय मास्थितः।। 12।। >> विरूपाक्षस्तु महता शूलखड्ग.धनुष्मता। बलेन राक्षसै.स्सार्धं मध्यमं गुल्म.मास्थितः।। 13।। >> एता.नेवँविधान् गुल्मान् लङ्कायां समुदीक्ष्यते। मामका.स्सचिवा.स्सर्वे शीघ्रं पुन.रिहागताः।। 14।। >> गजानां च सहस्रं च रथाना.मयुतं पुरे। हयाना.मयुते द्वे च साग्रकोटी च रक्षसाम्।। 15।। >> विक्रान्ता बलवन्तश्च सँयुगे.ष्वाततायिनः। इष्टा राक्षसराजस्य नित्य.मेते निशाचराः।। 16।। >> एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते। परिवार.स्सहस्राणां सहस्र.मुपतिष्ठते।। 17।। >> एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः। एव.मुक्त्वा महाबाहो रीक्षसां.स्ता.नदर्शयत्। लङ्कायां सचिवै.स्सर्वां रामाय प्रत्यवेदयत्।। 18।। >> रामं कमलपत्राक्ष-मिद.मुत्तर.मब्रवीत्। रावणावरज.श्श्रीमान् रामप्रिय.चिकीर्षया।। 19।। >> कुबेरं तु यदा राम रावणः प्रत्ययुध्यत। षष्टि.श्शतसहस्राणि तदा निर्यान्ति राक्षसाः 20।। >> पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्। सदृशा योत्र दर्पेण रावणस्य दुरात्मनः 21।। >> अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये। समर्थो ह्यसि वीर्येण सुराणा.मपि निग्रहे 22।। >> तद्भवां.श्चतुरङ्गेण बलेन महता वृतः। व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् 23।। >> रावणावरजे वाक्य-मेवं ब्रुवति राघवः। शत्रूणां प्रतिघातार्थ.-मिदं वचन.मब्रवीत् 24।। >> पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः। प्रहस्तः प्रतियोद्धा स्या-द्वानरै.र्बहुभि.र्वृतः 25।। >> अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। दक्षिणे बाधतां द्वारे महापार्श्व.महोदरौ 26।। >> हनुमान् पश्चिमद्वारं निपीड्य पवनात्मजः। प्रविश.त्वप्रमेयात्मा बहुभिः कपिभि.र्वृतः 27।। >> दैत्यदानव.सङ्घाना.-मृषीणां च महात्मनाम्। विप्रकारप्रियः क्षुद्रो वरदान.बलान्वितः 28।। >> परिक्रामति य.स्सर्वान् लोकान् सन्तापय.न्प्रजाः। तस्याहं राक्षसेन्द्रस्य स्वय.मेव वधे धृतः 29।। >> उत्तरं नगर द्वार.महं सौमित्रिणा सह। निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः 30।। >> वानरेन्द्रश्च बलवा-नृक्षराजश्च जाम्बवान्। राक्षसेन्द्रानुज.श्चैव गुल्मे भवतु मध्यमः 31।। >> न चैव मानुषं रूपं कार्यं हरिभि.राहवे। एषा भवतु सञ्ज्ञा नो- युद्धेस्मिन् वानरे बले। वानरा एव न.श्चिह्नं स्वजनेस्मिन् भविष्यति 32।। >> वयं तु मानुषेणैव सप्त योत्स्यामहे परान्। अह.मेव सह भ्रात्रा लक्ष्मणेन महौजसा। आत्मना पञ्चम.श्चायं सखा मम विभीषणः 33।। >> स रामः कार्यसिद्ध्यर्थ-मेव.मुक्त्वा विभीषणम्। सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम् 34।। >> रमणीयतरं दृष्ट्वा सुवेलस्य गिरे.स्तटम्।। 35।। >> ततस्तु रामो महता बलेन- प्रच्छाद्य सर्वां पृथिवीं महात्मा। प्रहृष्टरूपोभिजगाम लङ्कां- कृत्वा मतिं सोरिवधे महात्मा।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे सप्त त्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 38 सुवेलारोहणम् जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः। स तु कृत्वा सुवेलस्य मति.मारोहणं प्रति। लक्ष्मणानुगतो राम.-स्सुग्रीव.मिद.मब्रवीत्।। 1।। >> विभीषणं च धर्मज्ञ.-मनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा 2। सुवेलं साधु शैलेन्द्र.-मिमं धातुशतै.श्चितम्। अध्यारोहामहे सर्वे वत्स्यामोत्र निशा.मिमाम् 3।। >> लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना 4।। >> येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन त.द्गर्हितं कृतम् 5।। >> तस्मिन् मे वर्धते रोषः कीर्तिते राक्षसाधमे। यस्यापराधान् नीचस्य वधं द्रक्ष्यामि रक्षसाम् 6।। >> एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति 7।। >> एवं संमन्त्रय.न्नेव सक्रोधो रावणं प्रति। राम.स्सुवेलं वासाय चित्रसानु.मुपारुहत् 8।। >> पृष्ठतो लक्ष्मणश्चैन.-मन्वगच्छत् समाहितः। सशरं चाप.मुद्यम्य सुमह.द्विक्रमे रतः। तमन्वरोहत् सुग्रीव.स्सामात्य.स्सविभीषणः 9।। >> हनूमा.नङ्गदो नीलो मैन्दो द्विविद एव च। गजो गवाक्षो गवय.-श्शरभो गन्धमादनः।। 10।। >> पनसः कुमुदश्चैव हरो रम्भश्च यूथपः। जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः।। 11।। >> दुर्मुखश्च महातेजा-स्तथा शतवलिः कपिः। एते चान्ये च बहवो वानरा.श्शीघ्रगामिनः।। 12।। >> ते वायुवेगप्रवणा-स्तं गिरिं गिरिचारिणः। अध्यारोहन्त शतश.स्सुवेलं यत्र राघवः।। 13।। >> ते त्वदीर्घेण कालेन गिरि.मारुह्य सर्वतः। ददृशु.श्शिखरे तस्य विषक्ता.मिव खे पुरीम्।। 14।। >> तां शुभां प्रवरद्वारां प्राकार.परिशोभिताम्। लङ्कां राक्षससम्पूर्णां ददृशु.र्हरियूथपाः।। 15।। >> प्राकारचय.संस्थैश्च तथा नीलै.र्निशाचरैः। ददृशुस्ते हरिश्रेष्ठाः प्राकार.मपरं कृतम्।। 16।। >> ते दृष्ट्वा वानरा.स्सर्वे राक्षसा.न्युद्धकाङ्क्षिणः। मुमुचु.र्विपुलान् नादां-स्तत्र रामस्य पश्यतः।। 17।। >> ततोस्त.मगमत् सूर्य.-स्सन्ध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते।। 18।। >> तत.स्स रामो हरिवाहिनी पतिर्- विभीषणेन प्रतिनन्द्य सत्कृतः। सलक्ष्मणो यूथपयूथसँवृत- स्सुवेलपृष्ठे न्यवस.द्यथासुखम्।। 19।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टात्रिंशस्सर्गः। • युद्धकाण्डे सर्गः 39 लङ्कादर्शनम् तां रात्रि.मुषिता.स्तत्र सुवेले हरिपुङ्गवाः। लङ्कायां ददृशु.र्वीरा वना.न्युपवनानि च।। 1।। >> समसौम्यानि रम्याणि विशाला.न्यायतानि च। दृष्टिरम्याणि ते दृष्ट्वा बभूवु.र्जातविस्मयाः 2।। >> चम्पकाशोक पुन्नाग-सालताल.समाकुला। तमालवन.सञ्छन्ना नागमाला.समावृता 3।। >> हिन्तालै.रर्जुनै.र्नीपै.-स्सप्तपर्णैश्च पुष्पितैः। तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः 4।। >> शुशुभे पुष्पिताग्रैश्च लतापरिगतै.र्द्रुमैः। लङ्का बहुविधै.र्दिव्यै-र्यथेन्द्रस्यामरावती 5।। >> विचित्रकुसुमोपेतै- रक्तकोमलपल्लवैः। शाद्वलैश्च तथा नीलै-श्चित्राभि. र्वनराजिभिः 6।। >> गन्धाढ्या.न्यभिरम्याणि पुष्पाणि च फलानि च। धारय.न्त्यगमा.स्तत्र भूषणानीव मानवाः।। 7।। >> त.च्चैत्ररथ.सङ्काशं मनोज्ञं नन्दनोपमम्। वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् 8।। >> नत्यूहको यष्टिबकै-र्नृत्यमानैश्च बर्हिभिः। रुतं परभृतानां च शुश्रुवे वननिर्झरे 9।। >> नित्यमत्त.विहङ्गानि भ्रमराचरितानि च। कोकिलाकुलषण्डानि विहङ्गाभिरुतानि च।। 10।। >> भृङ्गराजाभिगीतानि भ्रमरै.स्सेवितानि च। कोणालक.विघुष्टानि सारसाभिरुतानि च।। 11।। >> विविशुस्ते तत.स्तानि वना.न्युपवनानि च। हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः।। 12।। >> तेषां प्रविशतां तत्र वानराणां महौजसाम्। पुष्पसंसर्ग.सुरभि-र्ववौ घ्राणसुखोनिलः।। 13।। >> अन्ये तु हरिवीराणां यूथा.न्निष्क्रम्य यूथपाः। सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्।। 14।। >> वित्रासयन्तो विहगां-स्त्रासयन्तो मृगद्विपान्। कम्पयन्तश्च तां लङ्कां नादै.स्स्ते नदतां वराः। कुर्वन्त.स्ते महावेगा महीं चरणपीडिताम्।। 15।। >> रजश्च सहसैवोर्ध्वं जगाम चरणोत्थित0।। 16।। >> ऋक्षा.स्सिंहा वराहाश्च महिषा वारणा मृगाः। तेन शब्देन वित्रस्ता जग्मु.र्भीता दिशो दश।। 17।। >> शिखरं तत् त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्। समन्तात् पुष्पसञ्छन्नं महारजत.सन्निभम्।। 18।। >> शतयोजनविस्तीर्णं विमलं चारुदर्शनम्। श्लक्ष्णं श्रीमन्मह.च्चैव दुष्प्रापं शकुनै.रपि। मनसापि दुरारोहं किं पुनः कर्मणा जनैः।। 19।। >> निविष्टा तत्र शिखरे लङ्का रावणपालिता। शतयोजन.विस्तीर्णा त्रिंशद्योजन.मायता 20।। >> सा पुरी गोपुरै.रुच्चैः पाण्डुराम्बुद सन्निभैः। काञ्चनेन च सालेन राजतेन च शोभिता 21।। >> प्रासादैश्च विमानैश्च लङ्का परमभूषिता। घनै.रिवातपापाये मध्यमं वैष्णवं पदम् 22।। >> यस्यां स्तम्भसहस्रेण प्रासाद.स्समलङ्कृतः। कैलासशिखराकारो दृश्यते ख.मिवोल्लिखन्।। 23।। >> चैत्य.स्स राक्षसेन्द्रस्य बभूव पुरभूषणम्। शतेन रक्षसां नित्यं य.स्समग्रेण रक्ष्यते 24।। >> मनोज्ञां काननवतीं पर्वतै.रुपशोभिताम्। नानाधातु.विचित्रैश्च उद्यानै.रुपशोभितां 25।। >> नानाविहग.सङ्घुष्टां नानामृग.निषेविताम्। नानाकानन.सन्तानां नानाराक्षस.सेवितां 26। तां समृद्धां समृद्धार्थां लक्ष्मीवान् लक्ष्मणाग्रजः। रावणस्य पुरीं रामो ददर्श सह वानरैः।। 27।। >> तां महागृह सम्बाधां दृष्ट्वा लक्ष्म पूर्वजः। नगरी.ममरप्रख्यो विस्मयं प्राप वीर्यवान् 28। तां रत्नपूर्णां बहुसँविधानां- प्रासादमालाभि. रलङ्कृतां च। पुरीं महायन्त्र.कवाटमुख्यां- ददर्श रामो महता बलेन 29।। >> श्रीमद्रामायणे युद्धकाण्डे एकोन चत्वारिंश.स्सर्गः। • युद्धकाण्डे सर्गः 40 रावणसुग्रीवनियुद्धम् ततो राम.स्सुवेलाग्रं योजन.द्वय मण्डलम्। आरुरोह ससुग्रीवो हरियूथप.सँवृतः।। 1।। >> स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन्। त्रिकूटशिखरे रम्ये निर्मितं विश्वकर्मणा। ददर्श लङ्कां सुन्यस्तां रम्यकानन.शोभितां 2।। >> तस्यां गोपुर.शृङ्गस्थं राक्षसेन्द्रं दुरासदम्। श्वेतचामर.पर्यन्तं विजयच्छत्र.शोभितं 3।। >> रक्तचन्दन.सँलिप्तं रत्नाभरण.भूषितं । नीलजीमूत.सङ्काशं हेमसञ्छादिताम्बरं 4।। >> ऐरावत.विषाणाग्रै-रुत्कृष्ट.किण.वक्षसम्। शशलोहित.रागेण सँवीतं रक्तवाससा 5।। >> सन्ध्यातपेन सँवीतं मेघराशि.मिवाम्बरे 6।। >> पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः। दर्शना.द्राक्षसेन्द्रस्य सुग्रीव.स्सहसोत्थितः 7।। >> क्रोधवेगेन सँयुक्त-स्सत्वेन बलेन च। अचलाग्रा.दथोत्थाय पुप्लुवे गोपुरस्थले 8।। >> स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना। तृणीकृत्य च तद्रक्षः सोब्रवीत् परुषं वचः 9।। >> लोकनाथस्य रामस्य सखा दासोस्मि राक्षस। न मया मोक्ष्यसेद्य त्वं पार्थिवेन्द्रस्य तेजसा।। 10।। >> इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि। आकृष्य मकुटं चित्रं पातयित्वापत.द्भुवि।। 11।। >> समीक्ष्य तूर्ण.मायान्त-माबभाषे निशाचरः। सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि।। 12।। >> इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्या.माक्षिप.त्तले । कन्दुव.त्ससमुत्थाय बाहुभ्या माक्षिप.द्धरिः।। 13।। >> परस्परंस्वेद विदग्ध गात्रौ- परस्परं शोणितदिग्ध.देहौ। परस्परं श्लिष्ट निरुद्ध चेष्टौ- परस्परं शाल्मलिकिंशुकौ यथा।। 14।। >> मुष्टिप्रहारैश्च तल प्रहारै- ररत्निघातैश्च कराग्रघातैः। तौ चक्रतु र्युद्ध मसह्य रूपं- महाबलौ वानरराक्षसेन्द्रौ।। 15।। >> कृत्वा नियुद्धं भृश.मुग्रवेगौ- कालं चिरं गोपुरवेदि.मध्ये। उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ- पादक्रमा.द्गोपुरवेदिलग्नौ । अन्योन्य माविध्य विलग्नदेहौ तौ पेततु.स्सालनिखात.मध्ये।। 16।। >> उत्पेततु.र्भूतल. मस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिश्श्वसन्तौ। आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रै.-स्सँयोजयामासतु. राहवे तौ 17।। >> संरम्भशिक्षा.बल सम्प्रयुक्तौ सुचेरतुः सम्प्रति यद्ध मार्गैः। शार्दूलसिंहा विव जात दर्पौ- गजेन्द्रपोता.विव सम्प्रयुक्तौ।। 18।। >> संहत्य चापीड्य च ता वुरोभ्यां । निपेततुर्वै युगपत् धरण्याम्। उद्यम्य चान्योन्य.मधि क्षिपन्तौ सञ्चङ्क्रमाते बहुयुद्धमार्गैः ।। 19।। >> व्यायामशिक्षा.बल.सम्प्रयुक्तौ- क्लमं न तौ जग्मतु.राशु वीरौ। बाहूत्तमै. र्वारण वारणाभैर्- निवारयन्तौ वर वारणाभौ।। 20।। >> चिरेण कालेन तु सम्प्रयुक्तौ- सञ्चेरतु.र्मण्डलमार्ग .माशु 21।। >> तौ परस्पर मासाद्य- यत्ता.वन्योन्यसूदने। मार्जारा.विव भक्षार्थे वितस्थाते मुहुर्मुहुः 22।। >> मण्डलानि विचित्राणि स्थानानि विविधानि च। गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च 23।। >> तिरश्चीन गतान्येव तथा वक्रगतानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम्।। 24।। >> अभिद्रवण.माप्लाव.-मास्थानं च सविग्रहम्। परावृत्त.मपावृत्त-मवद्रुत.मवप्लुतं 25।। >> उपन्यस्त.मपन्यस्तं- युद्धमार्ग.विशारदौ। तौ सञ्चेरतु.रन्योन्यं वानरेन्द्रश्च रावणः 26।। >> एतस्मि.न्नन्तरे रक्षो मायाबल.मथात्मन। आरब्धु.मुपसम्पेदे ज्ञात्वा तं वानराधिपः 27।। >> उत्पपात तदाकाशं जितकाशी जितक्लमः। रावण स्सस्थित एवात्र हरिराजेन वञ्चितः 28।। >> अथ हरिवरनाथः प्राप्य सङ्ग्रामकीर्तिं- निशिचरपति.माजौ योजयित्वा श्रमेण। गगन.मति विशालं लङ्घयित्वार्क सूनुर्- हरिवर.गणमध्ये रामपार्श्वं जगाम 29।। >> इति सवितृसूनु.स्तत्र तत्कर्म कृत्वा- पवनगति.रनीकं प्राविशत् सम्प्रहृष्टः। रघुवर.नृपसूनो.र्वर्धयन् युद्धहर्षं- तरुमृगगण.मुख्यैः पूज्यमानो हरीन्द्रः।। 30।। >> श्रीमद्रामायणे युद्धकाण्डे चत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 41 अङ्गददूत्यम् अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः। सुग्रीवं सम्परिष्वज्य तदा वचन.मब्रवीत्।। 1।। >> असम्मन्त्र्य मया सार्थं तदिदं साहसं कृतम्। एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः 2।। >> संशये स्थाप्य मां चेदं बलं च सविभीषणम्। कष्टं कृतमिदं वीर साहसं साहसप्रिय 3।। >> इदानीं मा कृथा वीर एवँविध.मचिन्तितम्। त्वयि किञ्चि.त्समापन्ने किं कार्यं सीतया मम 4।। >> भरतेन महाबाहो लक्ष्मणेन यवीयसा। शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः 5।। >> त्वयि चानागते पूर्व-मिति मे निश्चिता मतिः। जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम 6।। >> हत्वाहं रावणं युद्धे सपुत्रबल.वाहनम्। अभिषिच्य च लङ्कायां विभीषण.मथापि च 7।। >> भरते राज्य.मावेश्य त्यक्षे देहं महाबल 8।। >> तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत । तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्। मर्षयामि कथं वीर जानन् पौरुष.मात्मनः 9।। >> इत्येवँवादिनं वीर-मभिनन्द्य स राघवः। लक्ष्मणं लक्ष्मिसम्पन्न.-मिदं वचन.मब्रवीत्।। 10।। >> परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं सँविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण।। 11।। >> लोकक्षयकरं भीमं भयं पश्या.म्युपस्थितम्। निबर्हणं प्रवीराणा.-मृक्षवानर.रक्षसाम्।। 12।। >> वाताश्च परुषा वान्ति कम्पते च वसुन्धरा। पर्वताग्राणि कम्पन्ते पतन्ति धरणीरुहाः।। 13।। >> मेघाः क्रव्याद.सङ्काशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः।। 14।। >> रक्तचन्दन.सङ्काशा सन्ध्या परमदारुणा। ज्वलच्च निपतत्येत.-दादित्या.दग्निमण्डलम्।। 15।। >> आदित्य.मभिवाश्यन्ति जनयन्तो मह.द्भयम्। दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः।। 16।। >> रजन्या मप्रकाशश्च सन्तापयति चन्द्रमाः। कृष्णरक्तांशु.पर्यन्तो यथा लोकस्य सङ्क्षये।। 17।। >> ह्रस्वो रूक्षोप्रशस्तश्च परिवेष.स्सुलोहितः।। 18।। >> आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते। दृश्यन्ते न यथावच्च नक्षत्रा.ण्यभिवर्तते। युगान्त.मिव लोकस्य पश्य लक्ष्मण शंसति।। 19।। >> काका.श्श्येना.स्तथा गृध्रा नीचैः परिपतन्ति च। शिवा.श्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः।। 20।। >> क्षिप्र.मद्य दुराधर्षां लङ्कां रावणपालिताम्। अभियाम जवेनैव सर्वतो हरिभि.र्वृताः 21।। >> इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः। तस्मा.दवातर च्छीघ्रं पर्वताग्रा.न्महाबलः 22।। >> अवतीर्य तु धर्मात्मा तस्मा.च्छैलात् स राघवः। परैः परमदुर्धर्षं ददर्श बल.मात्मनः 23।। >> सन्नह्य तु ससुग्रीवः कपिराजबलं महत्। कालज्ञो राघवः काले सँयुगायाभ्यचोदयत् 24।। >> ततः काले महाबाहु-र्बलेन महता वृतः। प्रस्थितः पुरतो धन्वी लङ्का-मभिमुखः पुरीम् 25।। >> तं विभीषण सुग्रीवौ हनूमान् जाम्बवान् नलः। ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयु.स्तदा 26।। >> ततः पश्चात् सुमहती पृतनर्क्षक्षवनौकसाम्। (पृतना ऋक्षवनौकसाम्) प्रच्छाद्य महतीं भूमि.-मनुयाति स्म राघवम् 27।। >> शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुञ्जरप्रख्या वानराः परवारणाः 28।। >> तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ। रावणस्य पुरीं लङ्का-मासेदतु. ररिन्दमौ 29।। >> पताका मालिनीं रम्या मुद्यानवन.शोभिताम्। चित्रवप्रां सुदुष्प्रापा-मुच्चैःप्राकार.तोरणाम् 30।। >> तां सुरै.रपि दुर्धर्षां रामवाक्य.प्रचोदिताः। यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः 31।। >> लङ्काया.स्तूत्तरद्वारं शैलशृङ्ग.मिवोन्नतम्। राम.स्सहानुजो धन्वी जुगोप च रुरोध च।। 32।। >> लङ्का.मुपनिविष्टश्च रामो दशरथात्मजः। लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्। उत्तरद्वार.मासाद्य यत्र तिष्ठति रावणः 33।। >> नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्। रावणाधिष्ठितं भीमं वरुणेनेव सागरम् 34।। >> सायुधै राक्षसै.र्भीमै- रभिगुप्तं समन्ततः। लघूनां त्रासजननं पाताल.मिव दानवैः 35।। >> विन्यस्तानि च योधानां बहूनि विविधानि च। ददर्शायुधजालानि तथैव कवचानि च।। 36।। >> पूर्वं तु द्वार.मासाद्य नीलो हरिचमूपतिः। अतिष्ठ.त्सह मैन्देन द्विविदेन च वीर्यवान् 37।। >> अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः। ऋषभेण गवाक्षेण गजेन गवयेन च।। 38।। >> हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः। प्रमाथि.प्रघसाभ्यां च वीरै.रन्यैश्च सङ्गतः।। 39।। >> मध्यमे च स्वयं गुल्मे सुग्रीव.स्समतिष्ठत। सह सर्वै.र्हरिश्रेष्ठै.स्सुपर्णश्वसनोपमैः 40।। >> वानराणां तु षट्त्रिंशत्-कोट्यः प्रख्यातयूथपाः। निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः 41।। >> शासनेन तु रामस्य लक्ष्मण.स्सविभीषणः। द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् 42।। >> पश्चिमेन तु रामस्य सुग्रीव.स्सह जाम्बवान्। अदूरा.न्मध्यमे गुल्मे तस्थौ बहुबलानुगः 43।। >> ते तु वानरशार्दूला.-श्शार्दूला इव दंष्ट्रिणः। गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे।। 44।। >> सर्वे विकृतलाङ्गूला.-स्सर्वे दंष्ट्रानखायुधाः। सर्वे विकृतचित्राङ्गा-स्सर्वे च विकृताननाः 45।। >> दशनागबलाः केचित्- केचिद्दश.गुणोत्तराः। केचि.न्नागसहस्रस्य बभूवु.स्तुल्यविक्रमाः 46।। >> सन्ति चौघबलाः केचित्- केचिच्छत.गुणोत्तराः। अप्रमेयबला.श्चान्ये तत्रासन् हरियूथपाः 47।। >> अद्भुतश्च विचित्रश्च तेषा.मासी.त्समागमः। तत्र वानरसैन्यानां शलभाना.मिवोद्यमः 48।। >> परिपूर्ण.मिवाकाशं सञ्छन्नेव च मेदिनी। लङ्का.मुपनिविष्टैश्च सम्पतद्भिश्च वानरैः 49।। >> शतं शतसहस्राणां पृथगृक्ष.वनौकसाम्। लङ्काद्वारा.ण्युपाजग्मु.-रन्ये योद्धुं समन्ततः 50।। >> आवृत.स्स गिरि.स्सर्वै-स्तै.स्समन्तात् प्लवङ्गमैः। अयुतानां सहस्रं च पुरीं ता.मभ्यवर्तत 51।। >> वानरै.र्बलवद्भिश्च बभूव द्रुमपाणिभिः। सँवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना 52।। >> राक्षसा विस्मयं जग्मु.-स्सहसाभिनिपीडिताः। वानरै.र्मेघसङ्काशै.-श्शक्रतुल्यपराक्रमैः 53।। >> महा.न्छब्दोभवत् तत्र बलौघस्याभिवर्ततः। सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः 54।। >> तेन शब्देन महता सप्राकारा सतोरणा। लङ्का प्रचलिता सर्वा सशैलवन.कानना 55।। >> रामलक्ष्मण.गुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वै.रपि सुरासुरैः 56।। >> राघव.स्सन्निवेश्यैवं सैन्यं स्वं रक्षसां वधे 57।। >> सम्मन्त्र्य मन्त्रिभि.स्सार्धं निश्चित्य च पुनः पुनः। आनन्तर्य.मभिप्रेप्सुः क्रमयोगार्थ.तत्त्ववित् 58।। >> विभीषणस्यानुमते राजधर्म.मनुस्मरन्। अङ्गदं वालितनयं समाहूयेद.मब्रवीत् 59।। >> गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचना.त्कपे। लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः 60। भ्रष्टश्रीक.गतैश्वर्य-मुमूर्षा नष्टचेतनः। ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा 61।। >> नागाना.मथ यक्षाणां राज्ञां च रजनीचर। यच्च पापं कृतं मोहा-दवलिप्तेन राक्षस।। 62।। >> नून.मद्य गतो दर्प.-स्स्वयम्भू वरदानजः। यस्य दण्डधर.स्तेहं दाराहरण.कर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः 63।। >> पदवीं देवतानां च महर्षीणां च राक्षस। राजर्षीणां च सर्वेषां गमिष्यसि मया हतः 64।। >> बलेन येन वै सीतां मायया राक्षसाधम। मा.मतिक्रामयित्वा त्वं हृतवां.स्तद्विदर्शय।। 65।। >> अराक्षस.मिमं लोकं कर्तास्मि निशितै.श्शरैः। न चे.च्छरण.मभ्येषि मा.मुपादाय मैथिलीम् 66।। >> धर्मात्मा रक्षसां श्रेष्ठ.- स्सम्प्राप्तोयम् विभीषणः। लङ्कैश्वर्यं ध्रुवं श्रीमा-नयं प्राप्नो.त्यकण्टकम् 67।। >> न हि राज्य.मधर्मेण भोक्तुं क्षण.मपि त्वया। शक्यं मूर्खसहायेन पापेनाविदितात्मना 68।। >> युध्यस्व वा धृतिं कृत्वा शौर्य.मालम्ब्य राक्षस। मच्छरै.स्त्वं रणे शान्त-स्ततः पूतो भविष्यसि।। 69।। >> यद्याविशसि लोकां.स्त्रीन् पक्षिभूतो मनोजवः। मम चक्षुष्पथं प्राप्य न जीव.न्प्रतियास्यसि 70। ब्रवीमि त्वां हितं वाक्यं क्रियता.मौर्ध्वदैहिकम्। सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्।। 71।। >> इत्युक्त.स्स तु तारेयो रामेणाक्लिष्टकर्मणा। जगामाकाश.माविश्य मूर्तिमा.निव हव्यवाट् 72।। >> सोतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्। ददर्शासीन.मव्यग्रं रावणं सचिवै.स्सह 73।। >> तत.स्तस्याविदूरेण निपत्य हरिपुङ्गवः। दीप्ताग्निसदृश.स्तस्था-वङ्गदः कनकाङ्गदः 74।। >> त.द्राम वचनं सर्व-मन्यूनाधिक.मुत्तमम्। सामात्यं श्रावयामास निवेद्यात्मान.मात्मना 75।। >> दूतोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। वालिपुत्रोङ्गदो नाम यदि ते श्रोत्र.मागतः 76।। >> आह त्वां राघवो रामः कौसल्यानन्दवर्धनः। निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषो भव 77।। >> हन्तास्मि त्वां सहामात्यं सपुत्रज्ञाति.बान्धवम्। निरुद्विग्ना.स्त्रयो लोका भविष्यन्ति हते त्वयि 78।। >> देवदानव.यक्षाणां गन्धर्वोरग.रक्षसाम्। शत्रु.मद्योद्धरिष्यामि त्वा.मृषीणां च कण्टकम् 79।। >> विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि। न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि 80। इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे। अमर्ष वश.मापन्नो निशाचर.गणेश्वरः 81।। >> ततस्स रोषताम्राक्ष.-श्शशास सचिवां.स्तदा। गृह्यता.मेष दुर्मेधा वध्यता.मिति चासकृत् 82।। >> रावणस्य वच.श्श्रुत्वा दीप्ताग्निसमतेजसः। जगृहु.स्तं ततो घोरा-श्चत्वारो रजनीचराः 83।। >> ग्राहयामास तारेय-स्स्वयमात्मान. मात्मना। बलं दर्शयितुं वीरो यातुधानगणे तदा 84।। >> स ता.न्बाहु द्वये सक्ता.नादाय पतगा निव। प्रासादं शैलसङ्काश-मुत्पपाताङ्ग.दस्तदा 85।। >> तेन्तरिक्षा.द्विनिर्धूता-स्तस्य वेगेन राक्षसाः। भुमौ निपतिता.स्सर्वे राक्षसेन्द्रस्य पश्यतः 86।। >> ततः प्रासादशिखरं शैलशृङ्ग.मिवोन्नतम्। ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् 87।। >> तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः। पुरा हिमवत.श्शृङ्गं वज्रिणेव विदारितं 88।। >> भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः। विनद्य सुमहानाद-मुत्पपात विहायसं 89।। >> व्यथय.न्राक्षसा.न्सर्वा-न्हर्षयंश्चापि वानरान्। स वानराणां मध्ये तु- रामपार्श्व.मुपागतः 90। रावणस्तु परं चक्रे क्रोधं प्रासाद.धर्षणात्। विनाशं चात्मनः पश्यन् निश्वास.परमोभवत् 91।। >> रामस्तु बहुभि.र्हृष्टै-र्निनदद्भिः प्लवङ्गमैः। वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत 92।। >> सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः। बहुभि.स्सँवृत.स्तत्र वानरैः कामरूपिभिः 93।। >> चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः। पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः 94।। >> तेषा.मक्षौहिणिशतं समवेक्ष्य वनौकसाम्। लङ्का.मुपनिविष्टानां सागरं चातिवर्तताम् 95।। >> राक्षसा विस्मयं जग्मु-स्त्रासं जग्मु.स्तथापरे। अपरे समरोद्धर्षा-द्धर्ष.मेव प्रपेदिरे 96।। >> कृत्स्नं हि कपिभि.र्व्याप्तं प्राकारपरिघान्तरम्। ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्। हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः।। 97।। >> तस्मिन् महाभीषणके प्रवृत्ते- कोलाहले राक्षसराजधान्याम्। प्रगृह्य रक्षांसि महायुधानि- युगान्तवाता इव सँविचेरुः।। 98।। >> श्रीमद्रामायणे युद्धकाण्डे एकचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 42 युद्धारम्भः ततस्ते राक्षसा.स्तत्र गत्वा रावणमन्दिरम्। न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः।। 1।। >> रुद्धां तां नगरीं श्रुत्वा जातक्रोधो निशाचरः। विधानं द्विगुणं श्रुत्वा प्रासादं सोध्यरोहत 2।। >> स ददर्शावृतां लङ्कां सशैलवन.काननाम्। असङ्ख्येयै र्हरिगणै.स्सर्वतो युद्धकाङ्क्षिभिः 3।। >> स दृष्ट्वा वानरै.स्सर्वां वसुधां कबलीकृताम्। कथं क्षपयितव्या.स्स्युरिति चिन्तापरोभवत् 4।। >> स चिन्तयित्वा सुचिरं धैर्य.मालम्ब्य रावणः। राघवं हरियूथांश्च ददर्शायतलोचनः 5।। >> राघव.स्सह सैन्येन मुदितो नाम पुप्लुवे। लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसै.र्वृतां 6।। >> दृष्ट्वा दाशरथि.र्लङ्कां चित्रध्वज.पताकिनीम्। जगाम सहसा सीतां दूयमानेन चेतसा 7।। >> अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा। पीड्यते शोक.सन्तप्ता कृशा स्थण्डिल.शायिनी 8।। >> पीड्यमानां स धर्मात्मा वैदेही.मनुचिन्तयन्। क्षिप्र.माज्ञापयामास वानरान् द्विषतां वधे।। 9।। >> एव.मुक्ते तु वचने रामेणाक्लिष्टकर्मणा। सङ्घर्षमाणाः प्लवगा-स्सिंहनादै. रनादयन्।। 10।। >> शिखरै.र्विकिरामैनां लङ्कां मुष्टिभि.रेव वा। इति स्म दधिरे सर्वे मनांसि हरियूथपाः।। 11।। >> उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च। तरूं.श्चोत्पाट्य विविधां-स्तिष्ठन्ति हरियूथपाः।। 12।। >> प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः। राघव.प्रियकामार्थं लङ्का.मारुरुहु.स्तदा।। 13।। >> ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः। लङ्का.मेवाभ्यवर्तन्त सालताल.शिलायुधाः।। 14।। >> ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः। प्राकाराग्राणि चोच्चानि ममन्थु.स्तोरणानि च।। 15।। >> परिघाः पूरयन्ति स्म प्रसन्न.सलिलायुताः। पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः।। 16।। >> तत.स्सहस्रयूथाश्च कोटीयूथाश्च वानराः। कोटीशतयूथा.श्चान्ये लङ्का.मारुरुहु.स्तदा।। 17।। >> काञ्चनानि प्रमथ्नन्त-स्तोरणानि प्लवङ्गमाः। कैलासशिखराभाणि गोपुराणि प्रमथ्य च।। 18।। >> आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। लङ्कां ता.मभिधावन्त महावारण.सन्निभाः।। 19।। >> जय.त्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः 20।। >> इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः 21।। >> वीरबाहु.स्सुबाहुश्च नलश्च वनगोचरः। निपीड्योपनिविष्टा.स्ते प्राकारं हरियूथपाः। एतस्मि.न्नन्तरे चक्रु.स्स्कन्धावार.निवेशनम् 22।। >> पूर्वद्वारं तु कुमुदः कोटीभि.र्दशभि.र्वृतः। आवृत्य बलवां.स्तस्थौ हरिभि.र्जितकाशिभिः 23।। >> साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः। पनसश्च महाबाहु-र्वानरै.र्बहुभि.र्वृतः 24।। >> दक्षिणद्वार.मागम्य वीर.श्शतवलिः कपिः। आवृत्य बलवां.स्तस्थौ विंशत्या कोटिभि.र्वृतः 25।। >> सुषेणः पश्चिमद्वारं गत.स्तारापिता हरिः। आवृत्य बलवां.स्तस्थौ षष्टिकोटीभि.रावृतः 26।। >> उत्तरद्वार.मासाद्य राम.स्सौमित्रिणा सह। आवृत्य बलवां.स्तस्थौ सुग्रीवश्च हरीश्वरः 27।। >> गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः। वृतः कोट्या महावीर्य-स्तस्थौ रामस्य पार्वतः 28।। >> ऋक्षाणां भीमवेगानां धूम्र.श्शत्रुनिबर्हणः। वृतः कोट्या महावीर्य-स्तस्थौ रामस्य पार्श्वतः 29।। >> सन्नद्धस्तु महावीर्यो गदापाणि.र्विभीषणः। वृतो यस्तै.स्तु सचिवै-स्तस्थौ तत्र महाबलः 30।। >> गजो गवाक्षो गवय.श्शरभो गन्धमादनः। समन्तात् परिधावन्तो ररक्षु.र्हरिवाहिनीम् 31।। >> ततः कोपपरीतात्मा रावणो राक्षसेश्वरः। निर्याणं सर्वसैन्यानां द्रुत.माज्ञापय त्तदा 32।। >> एत.च्छ्रुत्वा ततो वाक्यं रावणस्य मुखोद्गतम्। सहसा भीम निर्घोष-मुद्घुष्टं रजनीचरैः 33।। >> ततः प्रचोदिता भेर्य-श्चन्द्र.पाण्डर.पुष्कराः। हेमकोणाहता भीमा राक्षसानां समन्ततः ।। 34।। >> विनेदुश्च महाघोषा-श्शङ्खा.श्शतसहस्रशः। राक्षसानां सुघोराणां मुख.मारुत.पूरिताः।। 35।। >> ते बभु.श्शुभ नीलाङ्गा-स्सशङ्खा रजनीचराः। विद्युन्मण्डल.सन्नद्धा-स्सबलाका इवाम्बुदाः 36।। >> निष्पतन्ति तत.स्सैन्या हृष्टा रावणचोदिताः। समये पूर्यमाणस्य वेगा इव महोदधेः 37।। >> ततो वानरसैन्येन मुक्तो नाद.स्समन्ततः। मलयः पूरितो येन ससानुप्रस्थ.कन्दरः 38।। >> शङ्खदुन्दुभि.सङ्घुष्ट-स्सिंहनाद.स्तरस्विनाम्। पृथिवीं चान्तरिक्षं च सागरं चैव नादयन्।। 39।। >> गजानां बृंहितै.स्सार्धं हयानां हेषितै.रपि। रथानां नेमिघोषैश्च रक्षसां वदनस्वनः 40।। >> एतस्मि.न्नन्तरे घोर.-स्सङ्ग्राम.स्समवर्तत। रक्षसां वानराणां च यथा देवासुरे पुरा।। 41।। >> ते गदाभिः प्रदीप्ताभि.-श्शक्ति.शूलपरश्वधैः। निजघ्नु.र्वानरान् घोराः- कथयन्त.स्स्वविक्रमान् 42।। >> वानराश्च महावीर्या राक्षसान् जघ्नु.राहवे। जय.त्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीव इति शब्दो महा.नभूत् 43।। >> राजन् जय जयेत्युक्त्वा- स्वस्वनाम कथां ततः। तथा वृक्षै.र्महाकायाः पर्वताग्रैश्च वानराः। निजघ्नु.स्तानि रक्षांसि नखै.र्दन्तैश्च वेगिताः।। 44।। >> राक्षसा.स्त्वपरे भीमाः प्राकारस्था महीगतान्। भिन्दिपालैश्च खड्गैश्च शूलै.श्चैव व्यदारयन् 45।। >> वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः। राक्षसान् पातयामासु.-स्समाप्लुत्य प्लवङ्गमाः।। 46।। >> स सम्प्रहार.स्तुमुलो मांसशोणित.कर्दमः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः 47।। >> श्रीमद्रामायणे युद्धकाण्डे द्विचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 43 द्वन्द्वयुद्धम् युध्यतां तु तत.स्तेषां वानराणां महात्मनाम्। रक्षसां सम्बभूवाथ बलकोप.स्सुदारुणः।। 1।। >> ते हयैः काञ्चनापीडै-र्ध्वजै.श्चाग्निशिखोपमैः। रथै.श्चादित्यसङ्काशैः कवचैश्च मनोरमैः 2।। >> निर्ययू राक्षसव्याघ्रा- नादयन्तो दिशो दश। राक्षसा भीमकर्माणो रावणस्य जयैषिणः।। 3।। >> वानराणा.मपि चमू-र्महती जय.मिच्छताम्। अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् 4।। >> एतस्मि.न्नन्तरे तेषा.-मन्योन्य.मभिधावताम्। रक्षसां वानराणां च द्वन्द्वयुद्ध.मवर्तत 5।। >> अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः। अयुध्यत महातेजा-स्त्र्यम्बकेण यथान्तकः 6।। >> प्रजङ्घेन च सम्पाति-र्नित्यं दुर्मर्षणो रणे। जम्बुमालिन.मारब्धो हनूमा.नपि वानरः 7।। >> सङ्गत.स्सुमहाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः 8।। >> तपनेन गज.स्सार्धं राक्षसेन महाबलः। निकुम्भेन महातेजा नीलोपि समयुध्यत 9।। >> वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः। सङ्गत.स्समरे श्रीमान् विरूपाक्षेण लक्ष्मणः।। 10।। >> अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः।। 11।। >> वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ।। 12।। >> वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः। समरे तीक्ष्णवेगेन नलेन समयुध्यत।। 13।। >> धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः। स विद्युन्मालिना सार्ध.मयुध्यत महाकपिः।। 14।। >> वानरा.श्चापरे भीमा राक्षसै.रपरै.स्सह। द्वन्द्वं समीयु.र्बहुधा युद्धाय बहुभि.स्सह।। 15।। >> तत्रासीत् सुमहद् युद्धं तुमुलं रोमहर्षणम्। रक्षसां वानराणां च वीराणां जय.मिच्छताम्।। 16।। >> हरिराक्षस.देहेभ्यः प्रसृताः केश.शाद्वलाः। शरीरसङ्घाटवहाः प्रसुस्रु.श्शोणितापगाः।। 17।। >> आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्य.विदारणम्।। 18।। >> तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्। जघान समरे श्रीमा-नङ्गदो वेगवान् कपिः।। 19।। >> सम्पातिस्तु त्रिभि.र्बाणैः प्रजङ्घेन समाहतः। निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि 20।। >> जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः। बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे 21।। >> तस्य तं रथ.मास्थाय हनुमा.न्मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा 22।। >> भिन्नगात्र.श्शरै.स्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा। ग्रसन्त.मिव सैन्यानि प्रघसं वानराधिपः 23।। >> सुग्रीव.स्सप्तपर्णेन निर्बिभेद जघान च 24।। >> प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्। निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः। अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदु.श्शरैः 25।। >> तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरैः। क्रुद्ध.श्चतुर्भि.श्चिच्छेद घोरै.रग्निशिखोपमैः 26।। >> वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे। पपात सरथ.स्साश्वः पुराट्ट इव भूतले 27।। >> निकुम्भस्तु रणे नीलं नीलाञ्जनचय.प्रभम्। निर्बिभेद शरै.स्तीक्ष्णैः करै.र्मेघ.मिवांशुमान् 28।। >> पुन.श्शरशतेनाथ क्षिप्रहस्तो निशाचरः। बिभेद समरे नीलं निकुम्भः प्रजहास च 29।। >> तस्यैव रथचक्रेण नीलो विष्णु.रिवाहवे। शिर.श्चिच्छेद समरे निकुम्भस्य च सारथेः 30। वज्राशनिसम.स्पर्शो द्विविदोप्यशनिप्रभम्। शरै.रशनिसङ्काशै.-स्स विव्याधाशनिप्रभः 31।। >> स शरै.रतिविद्धाङ्गो द्विविदः क्रोध.मूर्छितः। सालेन सरथं साश्वं निजघानाशनिप्रभम् 32।। >> नदन् प्रतपनो घोरो नलं सोप्यन्वधावत। नलः प्रतपनस्याशु पातयामास चक्षुषी। विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः। सुषेणं ताडयामास ननाद च मुहुर्मुहुः 33।। >> तं रथस्थ.मथो दृष्ट्वा सुषेणो वानरोत्तमः। गिरिशृङ्गेण महता रथ.माशु न्यपातयत् 34।। >> लाघवेन तु सँयुक्तो विद्युन्माली निशाचरः। अपक्रम्य रथा.त्तूर्णं गदापाणिः क्षितौ स्थितः 35।। >> ततः क्रोधसमाविष्ट.-स्सुषेणो हरिपुङ्गवः। शिलां सुमहतीं गृह्य निशाचर.मभिद्रवत् 36।। >> त.मापतन्तं गदया विद्युन्माली निशाचरः। वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् 37।। >> गदाप्रहारं तं घोर.-मचिन्त्य.प्लवगोत्तमः। तां शिलां पातयामास तस्योरसि महामृधे 38।। >> शिलाप्रहाराभिहतो विद्युन्माली निशाचरः। निष्पिष्टहृदयो भूमौ गतासु.र्निपपात ह 39।। >> एवं तै.र्वानरै.श्शूरै.-श्शूरा.स्ते रजनीचराः। द्वन्द्वे विमृदिता.स्तत्र दैत्या इव दिवौकसैः 40।। >> भग्नैः खड्गै.र्गदाभिश्च शक्तितोमर.पट्टसैः। अपविद्धैश्च भिन्नैश्च रथै.-स्साङ्ग्रामिकै.र्हयैः 41।। >> निहतैः कुञ्जरै.र्मत्तै-स्तथा वानरराक्षसैः। चक्राक्ष.युगदण्डैश्च भग्नै.र्धरणिसंश्रितैः। बभूवायोधनं घोरं गोमायु.गणसङ्कुलम् 42।। >> कबन्धानि समुत्पेतु.-र्दिक्षु वानररक्षसाम्। विमर्दे तुमुले तस्मिन् देवासुर.रणोपमे 43।। >> विदार्यमाणा हरिपुङ्गवै.स्तदा- निशाचरा.श्शोणितदिग्ध.गात्राः। पुन.स्सुयुद्धं तरसा समास्थिता- दिवाकरस्यास्तमयाभिकाङ्क्षिणः 44।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 44 निशायुद्धम् युध्यता.मेव तेषां तु तदा वानररक्षसाम्। रवि.रस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी।। 1।। >> अन्योन्यं बद्धवैराणां घोराणां जय.मिच्छताम्। सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् 2।। >> राक्षसोसीति हरयो हरि.श्चासीति राक्षसाः। अन्योन्यं समरे जघ्नु-स्तस्मिं.स्तमसि दारुणे 3।। >> जहि दारय चैहीति कथं विद्रवसीति च। एवं सुतुमुल.श्शब्द-स्तस्मिं.स्तमसि शुश्रुवे।। 4।। >> कालाः काञ्चनसन्नाहा-स्तस्मिं.स्तमसि राक्षसाः। सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव।। 5।। >> तस्मिं.स्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः। परिपेतु.र्महावेगा भक्षयन्तः प्लवङ्गमान् 6।। >> ते हयान् काञ्चनापीडान् ध्वजां.श्चाग्निशिखोपमान्। आप्लुत्य दशनै.स्तीक्ष्णै-र्भीमकोपा व्यदारयन्।। 7।। >> वानरा बलिनो युद्धे-क्षोभयन् राक्षसीचमूम्। कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान्। चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः 8।। >> लक्ष्मणश्चापि रामश्च शरै.राशीविषोमपैः। दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः।। 9।। >> तुरङ्गखुर.विध्वस्तं रथनेमि.समुद्धतम्। रुरोध कर्णनेत्राणि युध्यतां धरणीरजः।। 10।। >> वर्तमाने तथा घोरे सङ्ग्रामे रोमहर्षणे। रुधिरोदा महावेगा नद्य.स्तत्र प्रसुस्रुवुः।। 11।। >> ततो भेरीमृदङ्गानां पणवानां च निस्वनः। शङ्ख.वेणुस्वनोन्मिश्र.-स्सम्बभूवाद्भुतोपमः।। 12।। >> हतानां स्तनमानानां राक्षसानां च निस्वनः। शस्तानां वानराणां च सम्बभूवातिदारुणः।। 13।। >> हतै.र्वानरवीरैश्च शक्तिशूल.परश्वथैः। निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः।। 14।। >> शस्त्रपुष्पोपहारा च तत्रासी.द्युद्धमेदिनी। दुर्ज्ञेया दुर्निवेशा च शोणितास्राव.कर्दमा।। 15।। >> सा बभूव निशा घोरा हरिराक्षसहारिणी। कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा।। 16।। >> तत.स्ते राक्षसा.स्तत्र तस्मिं.स्तमसि दारुणे। राम.मेवाभ्यवर्तन्त संहृष्टा.श्शरवृष्टिभिः।। 17।। >> तेषा.मापततां शब्दः क्रुद्धाना.मभिगर्जताम्। उद्वर्त इव सप्तानां समुद्राणा.मभू.त्स्वनः।। 18।। >> तेषां राम.श्शरैः षड्भि.-ष्षड् जघान निशाचरान्। निमेषान्तरमात्रेण शितै.रग्निशिखोपमः।। 19।। >> यमशत्रुश्च दुर्धर्षो महापार्श्व.महोदरौ। वज्रदंष्ट्रो महाकाय.-स्तौ चोभौ शुकसारणौ 20।। >> ते तु रामेण बाणौघै-स्सर्वमर्मसु ताडिताः। युद्धा.दपसृता.स्तत्र सावशेषायुषोभवन् 21।। >> ततः काञ्चनचित्राङ्गै-श्शरै.रग्निशिखोपमैः। दिश.श्चकार विमलाः प्रदिशश्च महाबलः।। 22।। >> रामनामाङ्कितै.र्बाणै-र्व्याप्तं तद्रणमण्डलम्। ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः। तेपि नष्टा.स्समासाद्य पतङ्गा इव पावकम्।। 23।। >> सुवर्णपुङ्खै.र्विशिखै.-स्सम्पतद्भि.स्सहस्रशः। बभूव रजनी चित्रा खद्योतै.रिव शारदी 24।। >> राक्षसानां च निनदै.र्हरीणां चापि निस्वनैः। सा बभूव निशा घोरा भूयो घोरतरा तदा 25।। >> तेन शब्देन महता प्रवृद्धेन समन्ततः। त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः।। 26।। >> गोलाङ्गूल.महाकाया-स्तमसा तुल्यवर्चसः। सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् 27।। >> अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः। रावणिं निजघानाशु सारथिं च हया.नपि।। 28।। >> वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे 29।। >> इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः। अङ्गदेन महाकाय-स्तत्रैवान्त.रधीयत 30।। >> तत्कर्म वालिपुत्रस्य सर्वे देवा.स्सहर्षिभिः। तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ 31।। >> प्रभावं सर्वभूतानि विदु.रिन्द्रजितो युधि। अदृश्य. स्सर्वभूतानां योभव द्युधि दुर्जयः। तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम्।। 32।। >> ततः प्रहृष्टाः कपय-स्ससुग्रीव.विभीषणाः। साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम्।। 33।। >> इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा। सँयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्। एतस्मि.न्नन्तरे रामो वानरान् वाक्य.मब्रवीत् 34।। >> सर्वे भवन्त.स्तिष्ठन्तः कपिराजेन सङ्गताः।। 35।। >> स ब्रह्मणा दत्त वर-स्त्रैलोक्यं बाधते भृशम्। भवता मर्थसिद्ध्यर्थं कालेन स स.मागतः। अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः 36।। >> सोन्तर्धानगतः पापो रावणी रणकर्कशः। अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः 37।। >> स रामं लक्ष्मणं चैव घोरै.र्नागमयै.श्शरैः। बिभेद समरे क्रुद्ध.-स्सर्वगात्रेषु राक्षसः 38।। >> मायया सँवृत.स्तत्र मोहयन् राघवौ युधि। अदृश्य.स्सर्व भूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ 39।। >> तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषै.श्शरैः। सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः।। 40।। >> प्रकाशरूपस्तु यदा न शक्त-स्तौ बाधितुं राक्षसराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम- बबन्ध तौ राजसुतौ महात्मा।। 41।। >> श्रीमद्रामायणे युद्धकाण्डे चतुश्चत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 45 नागपाशबन्धः स तस्य गति.मन्विच्छन् राजपुत्रः प्रतापवान्। दिदेशातिबलो रामो दशवानर.यूथपान्।। 1।। >> द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् 2।। >> विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्। ऋषभं चर्षभस्कन्ध.-मादिदेश परन्तपः 3।। >> ते सम्प्रहृष्टा हरयो भीमा.नुद्यम्य पादपान्। आकाशं विविशु.स्सर्वे मार्गमाणा दिशो दश 4।। >> तेषां वेगवतां वेग.-मिषुभिर् वेगवत्तरैः। अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः।। 5।। >> तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः। अन्धकारे न ददृशु-र्मेघै.स्सूर्य.मिवावृतम् 6।। >> रामलक्ष्मणयो.रेव सर्वदेहभिद.श्शरान्। भृश.मावेशयामास रावणि.स्समितिञ्जयः 7।। >> निरन्तर.शरीरौ तु भ्रातरौ रामलक्ष्मणौ। क्रुद्धेनेन्द्रजिता वीरौ पन्नगै.श्शरतां गतैः 8।। >> तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु। ता.वुभौ च प्रकाशेते पुष्पिता.विव किंशुकौ।। 9।। >> ततः पर्यन्त.रक्ताक्षो भिन्नाञ्जनचयोपमः। रावणि.र्भ्रातरौ वाक्य-मन्तर्धानगतोब्रवीत्।। 10।। >> युध्यमान.मनालक्ष्यं शक्रोपि त्रिदशेश्वरः। द्रष्टु.मासादितुं वापि न शक्तः किं पुन.र्युवाम्।। 11।। >> प्रावृता.विषुजालेन राघवौ कङ्कपत्रिणा। एष रोषपरीतात्मा नयामि यमसादनम्।। 12।। >> एव.मुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ। निर्बिभेद शितै.र्बाणैः प्रजहर्ष ननाद च।। 13।। >> भिन्नाञ्जनचय.श्यामो विस्फार्य विपुलं धनुः। भूयो भूय.श्शरान् घोरान् विससर्ज महामृधे।। 14।। >> ततो मर्मसु मर्मज्ञो मज्जयन् निशिता.न्छरान्। रामलक्ष्मणयो.र्वीरो ननाद च मुहु.र्मुहुः।। 15।। >> बद्धौ तु शरबन्धेन ता.वुभौ रणमूर्धनि। निमेषान्तरमात्रेण न शेकतु.रुदीक्षितुम्।। 16।। >> ततो विभिन्नसर्वाङ्गौ शरशल्याचिता.वुभौ। ध्वजा.विव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ।। 17।। >> तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ। निपेततु.र्महेष्वासौ जगत्यां जगतीपती।। 18।। >> तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ। शरवेष्टित.सर्वाङ्गा.-वार्तौ परमपीडितौ।। 19।। >> न ह्यविद्धं तयो.र्गात्रं बभूवाङ्गुल.मन्तरम्। नानिर्भिन्नं न चास्तब्ध-माकराग्रा.दजिह्मगैः 20।। >> तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा। असृक् सुस्रुवतु.स्तीव्रं जलं प्रस्रवणा.विव 21।। >> पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः। क्रोधा.दिन्द्रजिता येन पुरा शक्रो विनिर्जितः।। 22।। >> रुक्मपुङ्खैः प्रसन्नाग्रै-रधोगतिभि. राशुगैः। नाराचै.रर्धनाराचै-र्भल्लै.रञ्जलिकै.रपि। विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरै.स्तथा 23।। >> स वीरशयने शिश्ये विज्य.मादाय कार्मुकम्। भिन्नमुष्टि.परीणाहं त्रिणतं रुक्मभूषितम् 24।। >> बाणपातान्तरे रामं पतितं पुरुषर्षभम्। स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेभवत् 25।। >> रामं कमलपत्राक्षं शरबन्ध परिक्षतम्। शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले।। 26।। >> हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः 27।। >> बद्धौ तु वीरौ पतितौ शयानौ- तौ वानरा.स्सम्परिवार्य तस्थुः। समागता वायुसुतप्रमुख्या- विषाद.मार्ताः परमं च जग्मुः।। 28।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 46 सुग्रीवाद्यनुशोकः ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः। ददृशु.स्सन्ततौ बाणै.-र्भ्रातरौ रामलक्ष्मणौ।। 1।। >> वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे। आजगामाथ तं देशं ससुग्रीवो विभीषणः।। 2।। >> नील.द्विविद.मैन्दाश्च सुषेण.सुमुखाङ्गदाः। तूर्णं हनुमता सार्ध.-मन्वशोचन्त राघवौ 3।। >> निश्चेष्टौ मन्दनिश्श्वासौ शोणितौघ.परिप्लुतौ। शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः 4।। >> निश्श्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ। रुधिरस्राव.दिग्धाङ्गौ तापनीया.विव ध्वजौ 5।। >> तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ। यूथपै.स्तैः परिवृतौ बाष्पव्याकुल.लोचनैः।। 6।। >> राघवौ पतितौ दृष्ट्वा शरजाल.समावृतौ। बभूवु.र्व्यथिता.स्सर्वे वानरा.स्सविभीषणाः 7।। >> अन्तरिक्षं निरीक्षन्तो दिश.स्सर्वाश्च वानराः। न चैनं मायया छन्नं ददृशू रावणिं रणे।। 8।। >> तं तु माया प्रतिच्छन्नं माययैव विभीषणः। वीक्षमाणो ददर्शाथ भ्रातुः पुत्र.मवस्थितम् 9।। >> त.मप्रतिमकर्माण.-मप्रतिद्वन्द्व.माहवे। ददर्शान्तर्हितं वीरं वरदाना.द्विभीषणः। तेजसा यशसा चैव विक्रमेण च सँयुतम्।। 10।। >> इन्द्रजि.त्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च। उवाच परमप्रीतो हर्षयन् सर्वनैरृतान्।। 11।। >> दूषणस्य च हन्तारौ खरस्य च महाबलौ। सादितौ मामकै.र्बाणैर्- भ्रातरौ रामलक्ष्मणौ।। 12।। >> नेमौ मोक्षयितुं शक्या-वेतस्मा.दिषुबन्धनात्। सर्वै.रपि समागम्य सर्षिसङ्घै.स्सुरासुरैः।। 13।। >> यत्कृते चिन्तयानस्य शोकार्तस्य पितु.र्मम। अस्पृष्ट्वा शयनं गात्रै-स्त्रियामा याति शर्वरी।। 14।। >> कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला। सोयं मूलहरोनर्थ.-स्सर्वेषां निहतो मया।। 15।। >> रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम्। विक्रमा निष्फला.स्सर्वे यथा शरदि तोयदाः।। 16।। >> एव.मुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः। यूथपा.नपि तान् सर्वां-स्ताडयामास रावणिः।। 17।। >> नीलं नवभि.राहत्य मैन्दं च द्विविदं तथा। त्रिभि.स्त्रिभि.रमित्रघ्न-स्तताप प्रवरेषुभिः।। 18।। >> जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि। हनूमतो वेगवतो विससर्ज शरान् दश।। 19।। >> गवाक्षं शरभं चैव द्वा.वप्यमिततेजसौ। द्वाभ्यां द्वाभ्यां महावेगो- विव्याध युधि रावणिः 20।। >> गोलाङ्गूलेश्वरं चैव वालिपुत्र.मथाङ्गदम्। विव्याध बहुभि.र्बाणै-स्त्वरमाणोथ रावणिः।। 21।। >> तान् वानरवरान् भित्वा शरै.रग्निशिखोपमैः। ननाद बलवां.स्तत्र महासत्त्व.स्स रावणिः 22।। >> ता.नर्दयित्वा बाणौघै-स्त्रासयित्वा च वानरान्। प्रजहास महाबाहु-र्वचनं चेद.मब्रवीत् 23।। >> शरबन्धेन घोरेण मया बद्धौ चमूमुखे। सहितौ भ्रातरा.वेतौ निशामयत राक्षसाः।। 24।। >> एव.मुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः। परं विस्मय.माजग्मुः कर्मणा तेन तोषिताः 25।। >> विनेदुश्च महानादान् सर्वे ते जलदोपमाः। हतो राम इति ज्ञात्वा रावणिं समपूजयन् 26।। >> निष्पन्दौ तु तदा दृष्ट्वा ता.वुभौ रामलक्ष्मणौ। वसुधायां निरुच्छ्वासौ हता.वित्यन्वमन्यत 27।। >> हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः। प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् 28।। >> रामलक्ष्मणयो.र्दृष्ट्वा शरीरे सायकै.श्चिते। सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भय.माविशत्।। 29।। >> तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः 30।। >> सबाष्पवदनं दीनं शोकव्याकुल.लोचनम्। अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्।। 31।। >> एवम्प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः। सशेष.भाग्यतास्माकं यदि वीर भविष्यति 32।। >> मोह.मेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ। पर्यवस्थापयात्मान.-मनाथं मां च वानर।। 33।। >> सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्। एव.मुक्त्वा तत.स्तस्य जलक्लिन्नेन पाणिना। 34।। >> सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः। तत.स्सलिल.मादाय विद्यया परिजप्य च।। 35।। >> सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः। प्रमृज्य वदनं तस्य कपिराजस्य धीमतः 36।। >> अब्रवी.त्कालसम्प्राप्त-मसम्भ्रम.मिदं वचः। न कालः कपिराजेन्द्र वैक्लब्य.मनुवर्तितुम्। अतिस्नेहोप्यकालेस्मिन् मरणायोपपद्यते 37।। >> तस्मा.दुत्सृज्य वैक्लब्यं सर्वकार्य.विनाशनम्। हितं रामपुरोगाणां सैन्याना.मनुचिन्त्यताम्।। 38।। >> अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः। लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नोप्यपनेष्यतः 39।। >> नैतत् किञ्चन रामस्य न च रामो मुमूर्षति। न ह्येनं हास्यते लक्ष्मी-र्दुर्लभा या गतायुषाम् 40।। >> तस्मा.दाश्वासयात्मानं बलं चाश्वासय स्वकम्। यावत्कार्याणि सैन्यानि पुन.स्संस्थापया.म्यहम् 41।। >> एते हि फुल्लनयना-स्त्रासा.दागतसाध्वसाः। कर्णे कर्णे प्रकथिता हरयो हरिपुङ्गव।। 42।। >> मां तु दृष्ट्वा प्रधावन्त.-मनीकं सम्प्रहर्षितुम्। त्यजन्तु हरय.स्त्रासं भुक्तपूर्वा.मिव स्रजम् 43।। >> समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः। विद्रुतं वानरानीकं तत् स.माश्वासय.त्पुनः 44।। >> इन्द्रजित्तु महामाय.-स्सर्वसैन्य.समावृतः। विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्।। 45।। >> तत्र रावण.मासीन.-मभिवाद्य कृताञ्जलिः। आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ।। 46।। >> उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे। रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ। उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः।। 47।। >> पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत्। यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ।। 48।। >> स हर्षवेगानुगतान्तरात्मा- श्रुत्वा वच.स्तस्य महारथस्य। जहौ ज्वरं दाशरथे.स्समुत्थितं- प्रहृष्य वाचाभिननन्द पुत्रम्।। 49।। >> श्रीमद्रामायणे युद्धकाण्डे षट्चत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 47 नागबद्ध रामलक्ष्मण प्रदर्शनम् प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे। राघवं परिवार्यार्ता- ररक्षु.र्वानरर्षभाः।। 1।। >> हनूमा.नङ्गदो नील.-स्सुषेणः कुमुदो नलः। गजो गवाक्षो गवय.-श्शरभो गन्धमादनः। जाम्बवा.नृषभ.स्स्कन्धो रम्भ.श्शतवलिः पृथुः 2।। >> व्यूढानीकाश्च यत्ताश्च द्रुमा.नादाय सर्वतः 3।। >> वीक्षमाणा दिश.स्सर्वा-स्तिर्य.गूर्ध्वं च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे 4।। >> रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्। आजुहाव तत.स्सीता-रक्षणी राक्षसी.स्तदा। राक्षस्य.स्त्रिजटा चापि शासनात् तमुपस्थिताः 5।। >> ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः 6।। >> हता.विन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे।। 7। यदाश्रया.दवष्टब्धो नेयं मा.मुपतिष्ठति। सोस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि 8।। >> निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली। मा.मुपस्थास्यते सीता सर्वाभरणभूषिता।। 9।। >> अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्। अवेक्ष्य विनिवृत्ताशा नान्यां गति.मपश्यती।। 10।। >> निरपेक्षा विशालाक्षी मा.मुपस्थास्यते स्वयम्। तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः।। 11।। >> राक्षस्य.स्ता.स्तथेत्युक्त्वा प्रजग्मु.र्यत्र पुष्पकम्। ततः पुष्पक.मादाय राक्षस्यो रावणाज्ञया।। 12।। >> अशोकवनिकास्थां तां मैथिलीं समुपानयन्। ता.मादाय तु राक्षस्यो भर्तृशोक.पराजिताम्।। 13।। >> सीता.मारोपयामासु-र्विमानं पुष्पकं तदा। ततः पुष्पक.मारोप्य सीतां त्रिजटया सह।। 14।। >> जग्मु.र्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ। रावणोकारय.ल्लङ्कां पताकाध्वज.मालिनीम्।। 15।। >> प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः। राघवो लक्ष्मणश्चैव हता.विन्द्रजिता रणे।। 16।। >> विमानेनापि सीता तु गत्वा त्रिजटया सह। ददर्श वानराणां तु सर्वं सैन्यं निपातितम्।। 17।। >> प्रहृष्टमनस.श्चापि ददर्श पिशिताशनान्। वानरांश्चापि दुःखार्तान् रामलक्ष्मण.पार्श्वतः।। 18।। >> तत.स्सीता ददर्शोभौ शयानौ शरतल्पयोः। लक्ष्मणं चैव रामं च विसञ्ज्ञौ शरपीडितौ।। 19।। >> विध्वस्तकवचौ वीरौ विप्रविद्ध.शरासनौ। सायकै.श्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ 20।। >> तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ। शयानौ पुण्डरीकाक्षौ कुमारा.विव पावकी।। 21।। >> शरतल्पगतौ वीरौ तथोभौ तौ नरर्षभौ। दुःखार्ता सुभृशं सीता करुणं विललाप ह।। 22।। >> भर्तार.मनवद्याङ्गी लक्ष्मणं चासितेक्षणा। प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा 23। सा बाष्पशोकाभिहता समीक्ष्य- तौ भ्रातरौ देवसम.प्रभावौ। वितर्कयन्ती निधनं तयो.स्सा- दुःखान्विता वाक्य.मिदं जगाद।। 24।। >> श्रीमद्रामायणे युद्धकाण्डे सप्तचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 48 सीताश्वासनम् भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्। विललाप भृशं सीता करुणं शोककर्शिता।। 1।। >> ऊचु.र्लक्षणिनो ये मां पुत्रिण्यविधवेति च। तेस्य सर्वे हते रामे-ज्ञानिनोनृतवादिनः 2।। >> यज्वनो महिषीं ये मा-मूचुः पत्नीं च सत्रिणः। तेद्य सर्वे हते रामे-ज्ञानिनोनृतवादिनः 3।। >> वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः। तेद्य सर्वे हते रामे-ज्ञानिनोनृतवादिनः 4।। >> ऊचु.स्संश्रवणे ये मां द्विजाः कार्तान्तिका.श्शुभाम्। तेद्य सर्वे हते रामे-ज्ञानिनोनृतवादिनः 5।। >> इमानि खलु पद्मानि पादयो.र्यैः किल स्त्रियः। अधिराज्येभिषिच्यन्ते नरेन्द्रैः पतिभि.स्सह 6।। >> वैधव्यं यान्ति यै.र्नार्यो-लक्षणै. र्भाग्यदुर्लभाः। नात्मन.स्तानि पश्यामि पश्यन्ती हतलक्षणा।। 7।। >> सत्यानीमानि पद्मानि स्त्रीणा.मुक्तानि लक्षणे। तान्यद्य निहते रामे वितथानि भवन्ति मे।। 8।। >> केशा.स्सूक्ष्मा.स्समा नीला भ्रुवौ चासङ्गते मम। वृत्ते चारोमशे जङ्घे दन्ता.श्चाविरला मम 9।। >> शङ्खे नेत्रे करौ पादौ गुल्फा ऊरू च मे चितौ। अनुवृत्ता नखा.स्स्निग्धा.-स्समाश्चाङ्गुलयो मम।। 10।। >> स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ। मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्का च मे चिताः।। 11।। >> मम वर्णो मणिनिभो मृदू.न्यङ्गरुहाणि च। प्रतिष्ठितां द्वादशभि-र्मा.मूचु.श्शुभलक्षणाम्।। 12।। >> समग्रयव.मच्छिद्रं पाणिपादं च वर्णवत्। मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः।। 13।। >> अधिराज्येभिषेको मे ब्राह्मणैः पतिना सह। कृतान्तकुशलै.रुक्तं तत्सर्वं वितथीकृतम्।। 14।। >> शोधयित्वा जनस्थानं प्रवृत्ति.मुपलभ्य च। तीर्त्वा सागर.मक्षोभ्यं भ्रातरौ गोष्पदे हतौ।। 15।। >> ननु वारुण .माग्नेय-मैन्द्रं वायव्य.मेव च। अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्।। 16।। >> अदृश्यमानेन रणे मायया वासवोपमौ। मम नाथा.वनाथाया निहतौ रामलक्ष्मणौ।। 17।। >> न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः। जीवन् प्रतिनिवर्तेत यद्यपि स्या.न्मनोजवः।। 18।। >> न कालस्यातिभारोस्ति कृतान्तश्च सुदुर्जयः। यत्र राम.स्सह भ्रात्रा शेते युधि निपातितः।। 19।। >> न शोचामि तथा रामं लक्ष्मणं च महाबलम्। नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम् 20।। >> सानुचिन्तयते नित्यं समाप्तव्रत.मागतम्। कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम्। परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् 21।। >> मा विषादं कृथा देवि भर्तायं तव जीवति 22।। >> कारणानि च वक्ष्यामि महान्ति सदृशानि च। यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ 23।। >> न हि कोपपरीतानि हर्ष.पर्युत्सुकानि च। भवन्ति युधि योधानां मुखानि निहते पतौ 24।। >> इदं विमानं वैदेहि पुष्पकं नाम नामतः। दिव्यं त्वां धारये.न्नैवं यद्येतौ गतजीवितौ।। 25।। >> हतवीरप्रधाना हि हतोत्साहा निरुद्यमा। सेना भ्रमति सङ्ख्येषु हतकर्णेव नौ.र्जले 26।। >> इयं पुन.रसम्भ्रान्ता निरुद्विग्ना तरस्विनी। सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे।। 27।। >> सा त्वं भव सुविस्रब्धा अनुमानै.स्सुखोदयैः। अहतौ पश्य काकुत्स्थौ स्नेहा.देत.द्ब्रवीमि ते 28।। >> अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। चारित्रसुख.शीलत्वात् प्रविष्टासि मनो मम 29।। >> नेमौ शक्यौ रणे जेतुं सेन्द्रै.रपि सुरासुरैः। एतयो.राननं दृष्ट्वा मया चावेदितं तव।। >> इदं च सुमह.च्चिह्नं शनैः पश्यस्व मैथिली 30।। >> निस्सञ्ज्ञा.वप्युभा.वेतौ नैव लक्ष्मी.र्वियुज्यते। प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्। दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्।। 31।। >> त्यज शोकं च दुःखं च मोहं च जनकात्मजे। रामलक्ष्मणयो.रर्थे नाद्य शक्य.मजीवितुम् 32।। >> श्रुत्वा तु वचनं तस्या.-स्सीता सुरसुतोपमा। कृताञ्जलि.रुवाचेद-मेव.मस्त्विति मैथिली 33।। >> विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम्। दीना त्रिजटया सीता लङ्का.मेव प्रवेशिता 34।। >> तत.स्त्रिजटया सार्धं पुष्पका.दवरुह्य सा। अशोकवनिकामेव राक्षसीभिः प्रवेशिता।। 35।। >> प्रविश्य सीता बहुवृक्षषण्डां- तां राक्षसेन्द्रस्य विहारभूमिम्। सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ- परं विषादं समुपाजगाम।। 36।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टाचत्वारिंशस्सर्गः। • युद्धकाण्डे सर्गः 49 रामनिर्वेदः घोरेण शरबन्धेन बद्धौ दशरथात्मजौ। निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ।। 1।। >> सर्वे ते वानरश्रेष्ठा.-स्ससुग्रीवा महाबलाः। परिवार्य महात्मानौ तस्थु.श्शोकपरिप्लुताः 2।। >> एतस्मि.न्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्। स्थिरत्वात् सत्त्वयोगाच्च शरै.स्सन्दानितोपि सन् 3।। >> ततो दृष्ट्वा सरुधिरं विषण्णं गाढ.मर्पितम्। भ्रातरं दीनवदनं पर्यदेवय.दातुरः 4।। >> किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा। शयानं योद्य पश्यामि भ्रातरं युधि निर्जितम् 5।। >> शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता। न लक्ष्मणसमो भ्राता सचिव.स्साम्परायिकः।। 6।। >> परित्यक्ष्या.म्यहं प्राणान् वानराणां तु पश्यताम्। यदि पञ्चत्व.मापन्न.-स्सुमित्रानन्दवर्धनः 7।। >> किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्। कथ.मम्बां सुमित्रां च पुत्रदर्शन.लालसाम् 8।। >> विवत्सां वेपमानां च क्रोशन्तीं कुररी.मिव। कथ.माश्वासयिष्यामि यदि यास्यामि तं विना। कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् 9।। >> मया सह वनं यातो विना तेनागतः पुनः। उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया।। 10।। >> इहैव देहं त्यक्ष्यामि न हि जीवितु.मुत्सहे।। 11।। >> धिङ्मां दुष्कृतकर्माण-मनार्यं यत्कृते ह्यसौ। लक्ष्मणः पतित.श्शेते शरतल्पे गतासुवत्।। 12।। >> त्वं नित्यं सुविषण्णं मा-.माश्वासयसि लक्ष्मण। गतासु.र्नाद्य शक्नोषि मा.मार्त.मभिभाषितुम्।। 13।। >> येनाद्य निहता युद्धे राक्षसा विनिपातिताः। तस्या.मेव क्षितौ वीर.स्स शेते निहतः परैः।। 14।। >> शयान.श्शरतल्पेस्मिन्- स्वशोणित.परिप्लुतः। शरजालै.श्चितो भाति भास्करोस्त.मिव व्रजन्।। 15।। >> बाणाभिहत.मर्मत्वा-न्न शक्नोत्यभिवीक्षितुम्। रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते।। 16।। >> यथैव मां वनं यान्त-मनुयातो महाद्युतिः। अह.मप्यनुयास्यामि तथैवैनं यमक्षयम्।। 18।। >> इष्टबन्धुजनो नित्यं मां च नित्य.मनुव्रतः। इमा.मद्य गतोवस्थां ममानार्यस्य दुर्णयैः।। 19।। >> सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे। परुषं विप्रियं वापि श्रावितं न कदाचन 20।। >> विससर्जैकवेगेन पञ्च बाणशतानि यः। इष्वस्त्रेष्वधिक.स्तस्मात् कार्तवीर्याच्च लक्ष्मणः।। 21।। >> अस्त्रै.रस्त्राणि यो हन्या-च्छक्रस्यापि महात्मनः। सोय.मुर्व्यां हत.श्शेते महार्हशयनोचितः 22।। >> तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः। यन्मया न कृतो राजा राक्षसानां विभीषणः 23।। >> अस्मि.न्मुहूर्ते सुग्रीव प्रतियातु.मितोर्हसि। मत्वा हीनं मया राजन् रावणोभिद्रवे.द्बली 24।। >> अङ्गदं तु पुरस्कृत्य ससैन्य.स्ससुहृज्जनः। सागरं तर सुग्रीव नीलेन च नलेन च।। 25।। >> कृतं हनुमता कार्यं यदन्यै.र्दुष्करं रणे। ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च 26।। >> अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च। युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम्।। 27।। >> गवयेन गवाक्षेण शरभेण गजेन च। अन्यैश्च हरिभि.र्युद्धं मदर्थे त्यक्तजीवितैः। न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः।। 28।। >> यत्तु शक्यं वयस्येन सुहृदा वा परन्तप। कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा।। 29।। >> मित्र कार्यं कृत.मिदं भवद्भि.र्वानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं गन्तु.मर्हथ 30।। >> शुश्रुवु.स्तस्य ते सर्वे वानराः परिदेवनम्। वर्तयाञ्चक्रु. रश्रूणि नेत्रैः कृष्णेतरेक्षणाः।। 31।। >> तत.स्सर्वाण्यनीकानि स्थापयित्वा विभीषणः। आजगाम गदापाणि-स्त्वरितो यत्र राघवः 32।। >> तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जन.चयोपमम्। वानरा दुद्रुवु.स्सर्वे मन्यमानास्तु रावणिम्।। 33।। >> निश्चेष्टौ विगतज्ञानौ रणरेणु.समुत्थितौ। शयनौ शरतल्पस्थौ द्रष्टु.माया.द्विभीषणः। तं राक्षसेन्द्रात्मज शङ्कया ते- निपातितौ राजसुतौ च दृष्ट्वा। विभीषणं विव्यधिरे च दृष्ट्वा- मेघा यथा वायुहताः प्लवङ्गाः।। >> श्रीमद्रामायणे युद्धकाण्डे एकोनपञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 50 नागपाशविमोक्षणम् अथोवाच महातेजा हरिराजो महाबलः। कि.मियं व्यथिता सेना मूढवातेव नौ.र्जले।। 1।। >> सुग्रीवस्य वच.श्श्रुत्वा वालिपुत्रोङ्गदोब्रवीत्। न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् 2।। >> शरजालाचितौ वीरा-वुभौ दशरथात्मजौ। शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ।। 3।। >> अथाब्रवी.द्वानरेन्द्र.-स्सुग्रीवः पुत्र.मङ्गदम्। नानिमित्त.मिदं मन्ये भवितव्यं भयेन तु 4।। >> विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः। प्रपलायन्ति हरय-स्त्रासा.दुत्फुल्ललोचनाः 5।। >> अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः। विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च 6।। >> एतस्मि.न्नन्तरे वीरो गदापाणि.र्विभीषणः। सुग्रीवं वर्धयामास राघवं च निरैक्षत।। 7।। >> विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्। ऋक्षराजं समीपस्थं जाम्बवन्त.मुवाच ह 8।। >> विभीषणोयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः। विद्रवन्ति परित्रस्ता रावणात्मज.शङ्कया 9।। >> शीघ्र.मेतान् सुवित्रस्तान् बहुधा विप्रधावितान्। पर्यवस्थापयाख्याहि विभीषण. मुपस्थितम्।। 10।। >> सुग्रीवेणैव.मुक्तस्तु जाम्बवा.नृक्षपार्थिवः। वानरान् सान्त्वयामास सन्निवर्त्य प्रधावतः।। 11।। >> ते निवृत्ताः पुन.स्सर्वे वानरा.स्त्यक्तसम्भ्रमाः। ऋक्षराजवच.श्श्रुत्वा तं च दृष्ट्वा विभीषणम्।। 12।। >> विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरै.श्चितम्। लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः।। 13।। >> जलक्लिन्नेन हस्तेन तयो.र्नेत्रे प्रमृज्य च। शोकसम्पीडितमना रुरोद विललाप च।। 14।। >> इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसँयुगौ। इमा.मवस्थां गमितौ राक्षसैः कूटयोधिभिः।। 15।। >> भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना। राक्षस्या जिह्मया बुद्ध्या छलिता.वृजुविक्रमौ।। 16।। >> शरै.रिमा.वलं विद्धौ रुधिरेण समुक्षितौ। वसुधाया.मिमौ सुप्तौ दृश्येते शल्यका.विव।। 17।। >> ययो.र्वीर्य.मुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया। ता.वुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ।। 18।। >> जीव.न्नद्य विपन्नोस्मि नष्टराज्य.मनोरथः। प्राप्तप्रतिज्ञश्च रिपु.-स्सकामो रावणः कृतः।। 19।। >> एवं विलपमानं तं परिष्वज्य विभीषणम्। सुग्रीव.स्सत्त्वसम्पन्नो हरिराजोब्रवी.दिदम् 20।। >> राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः। रावण.स्सह पुत्रेण स राज्यं नेह लप्स्यते 21।। >> न रुजा पीडिता.वेता-वुभौ राघवलक्ष्मणौ। त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे 22।। >> त.मेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसम्। सुषेणं श्वशुरं पार्श्वे सुग्रीव.स्त.मुवाच ह 23।। >> सहशूरै.र्हरिगणै-र्लब्धसञ्ज्ञा.वरिन्दमौ। गच्छ त्वं भ्रातरौ गृह्य- किष्किन्धां रामलक्ष्मणौ।। 24।। >> अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्। मैथिली.मानयिष्यामि शक्रो नष्टा.मिव श्रियम् 25।। >> श्रुत्वैत.द्वानरेन्द्रस्य सुषेणो वाक्य.मब्रवीत् 26।। >> दैवासुरं महायुद्ध-मनुभूतं सुदारुणम्। तदा स्म दानवा देवा-श्शरसंस्पर्श.कोविदाः। निजघ्नु.श्शस्त्रविदुष-श्छादयन्तो मुहु.र्मुहुः 27।। >> तानार्तान् नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः। विद्याभि.र्मन्त्रयुक्ताभि-रोषधीभि.श्चिकित्सति।। 28।। >> तान्यौषधा.न्यानयितुं क्षीरोदं यान्तु सागरम्। जवेन वानरा.श्शीघ्रं सम्पाति.पनसादयः। हरयस्तु विजानन्ति पार्वती ते महौषधी।। 29।। >> सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् 30।। >> चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे। अमृतं यत्र मथितं तत्र ते परमौषधी। ते तत्र निहिते देवैः पर्वते परमौषधी 31।। >> अयं वायुसुतो राजन् हनूमां.स्तत्र गच्छतु 32।। >> एतस्मि.न्नन्तरे वायु-र्मेघांश्चापि सविद्युतः। पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् 33।। >> महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः। निपेतु.र्भग्नविटपा.-स्समूला लवणाम्भसि 34।। >> अभवन् पन्नगा.स्त्रस्ता भोगिन.स्तत्रवासिनः। शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् 35।। >> ततो मुहूर्ता.द्गरुडं वैनतेयं महाबलम्। वानरा ददृशु.स्सर्वे ज्वलन्त.मिव पावकम्।। 36।। >> त.मागत.मभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः। यै.स्तौ सत्पुरुषौ बद्धौ शरभूतै.र्महाबलौ 37।। >> तत.स्सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च। विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे।। 38।। >> वैनतेयेन संस्पृष्टा-स्तयो.स्संरुरुहु.र्व्रणाः। सुवर्णे च तनू स्निग्धे तयो.राशु बभूवतुः।। 39।। >> तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः। प्रदर्शनं च बुद्धिश्च- स्मृतिश्च द्विगुणं तयोः 40।। >> ता.वुत्थाप्य महावीर्यौ गरुडो वासवोपमौ। उभौ तौ सस्वजे हृष्टौ राम.श्चैन. मुवाच ह 41।। >> भवत्प्रसादा.द्व्यसनं रावणिप्रभवं महत्। आवा.मिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ।।। 42।। >> यथा तातं दशरथं यथाजं च पितामहम्। तथा भवन्त.मासाद्य हृदयं मे प्रसीदति 43।। >> को भवान् रूपसम्पन्नो दिव्यस्र.गनुलेपनः। वसानो विरजे वस्त्रे दिव्याभरणभूषितः 44।। >> तमुवाच महातेजा वैनतेयो महाबलः। पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः 45।। >> अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः। गरुत्मानिह सम्प्राप्तो युवयो.स्साह्यकारणात्।। 46।। >> असुरा वा महावीर्या दानवा वा महाबलाः। सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्।। 47।। >> नेमं मोक्षयितुं शक्ता.-श्शरबन्धं सुदारुणम्। मायाबला.दिन्द्रजिता निर्मितं क्रूरकर्मणा 48।। >> एते नागाः काद्रवेया-स्तीक्ष्णदंष्ट्राविषोल्बणाः। रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः 49।। >> सभाग्य.श्चासि धर्मज्ञ राम सत्यपराक्रम। लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना 50। इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोह.मागतः। सहसा युवयो.स्स्नेहात् सखित्व.मनुपालयन् 51।। >> मोक्षितौ च महाघोरा-दस्मात् सायकबन्धनात्। अप्रमादश्च कर्तव्यो युवाभ्यां नित्य.मेव हि 52।। >> प्रकृत्या राक्षसा.स्सर्वे सङ्ग्रामे कूटयोधिनः। शूराणां शुद्धभावानां भवता.मार्जवं बलम्।। 53।। >> तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे। एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः 54।। >> एव.मुक्त्वा ततो रामं सुपर्ण.स्सुमहाबलः। परिष्वज्य सुहृत्स्निग्ध.-माप्रष्टु.मुपचक्रमे 55।। >> सखे राघव धर्मज्ञ रिपूणा.मपि वत्सल। अभ्यनुज्ञातु.मिच्छामि गमिष्यामि यथागतम् 56।। >> न च कौतूहलं कार्यं सखित्वं प्रति राघव। कृतकर्मा रणे वीर सखित्व.मनुवेत्स्यसि 57।। >> बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः। रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे 58।। >> इत्येव.मुक्त्वा वचनं सुपर्ण.श्शीघ्रविक्रमः। रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् 59।। >> प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्। जगामाकाश.माविश्य सुपर्णः पवनो यथा 60। विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः। सिंहनादां.स्तदा नेदु-र्लाङ्गूलं दुधुवु.स्तथा 61।। >> ततो भेरी.स्समाजघ्नु-र्मृदङ्गांश्च व्यनादयन्। दध्मु.श्शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् 62।। >> आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः। द्रुमा.नुत्पाट्य विविधां-स्तस्थु.श्शतसहस्रशः 63।। >> विसृजन्तो महानादां-स्त्रासयन्तो निशाचरान्। लङ्काद्वारा.ण्युपाजग्मु-र्योद्धुकामाः प्लवङ्गमाः 64।। >> ततस्तु भीम.स्तुमुलो निनादो- बभूव शाखामृग.यूथपानाम्। क्षये निदाघस्य यथा घनानां- नाद.स्सुभीमो नदतां निशीथे।। 65।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 51 धूम्राक्षाभिषेणनम् तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्। नर्दतां राक्षसै.स्सार्धं तदा शुश्राव रावणः।। 1।। >> स्निग्धगम्भीर.निर्घोषं श्रुत्वा स निनदं भृशम्। सचिवानां तत.स्तेषां मध्ये वचन.मब्रवीत् 2।। >> यथासौ सम्प्रहृष्टानां वानराणां समुत्थितः। बहूनां सुमहा.न्नादो मेघाना.मिव गर्जताम् 3।। >> व्यक्तं सुमहती प्रीति-रेतेषां नात्र संशयः 4।। >> तथा हि विपुलैः नादै-श्चुक्षुभे वरुणालयः 5।। >> तौ तु बद्धौ शरै.स्तीक्ष्णै-र्भ्रातरौ रामलक्ष्मणौ। अयं च सुमहा.न्नाद.-श्शङ्कां जनयतीव मे 6।। >> एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः। उवाच नैरृतां.स्तत्र समीप.परिवर्तिनः 7।। >> ज्ञायतां तूर्ण.मेतेषां सर्वेषां वनचारिणाम्। शोककाले समुत्पन्ने हर्षकारण.मुत्थितम् 8।। >> तथोक्ता.स्तेन सम्भ्रान्ताः प्राकार मधिरुह्य ते। ददृशुः पालितां सेनां सुग्रीवेण महात्मना 9।। >> तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ। समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः।। 10।। >> सन्त्रस्तहृदया.स्सर्वे प्राकारा.दवरुह्य ते। विषण्णवदना.स्सर्वे राक्षसेन्द्र.मुपस्थिताः।। 11।। >> तदप्रियं दीनमुखा रावणस्य निशाचराः। कृत्स्नं निवेदयामासुर्- यथाव.द्वाक्यकोविदाः।। 12।। >> यौ ता.विन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ। निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ।। 13।। >> विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे। पाशा.निव गजौ छित्त्वा गजेन्द्रसम.विक्रमौ।। 14।। >> तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः। चिन्ताशोक.समाक्रान्तो विषण्णवदनोब्रवीत्।। 15।। >> घोरै.र्दत्तवरै.र्बद्धौ शरै.राशीविषोपमैः। अमोघै.स्सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि।। 16।। >> तदस्त्रबन्ध.मासाद्य यदि मुक्तौ रिपू मम। संशयस्थ.मिदं सर्व.-मनुपश्या.म्यहं बलम्।। 17।। >> निष्फलाः खलु सँवृत्ता.-श्शरा वासुकितेजसः। आदत्तं यैस्तु सङ्ग्रामे रिपूणां मम जीवितम्।। 18।। >> एव.मुक्त्वा तु सङ्क्रुद्धो निश्वस.न्नुरगो यथा। अब्रवी.द्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्।। 19।। >> बलेन महता युक्तो रक्षसां भीम विक्रमः। त्वं वधायाभिनिर्याहि रामस्य सह वानरैः 20।। >> एव.मुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता। कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् 21।। >> अभिनिष्क्रम्य तद्द्वारं बलाध्यक्ष.मुवाच ह। त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः 22।। >> धूम्राक्षस्य वच.श्श्रुत्वा बलाध्यक्षो बलानुगः। बल.मुद्योजयामास रावणस्याज्ञया द्रुतम् 23।। >> ते बद्धघण्टा बलिनो घोररूपा निशाचराः। विगर्जमाना.स्संहृष्टा धूम्राक्षं पर्यवारयन्।। 24।। >> विविधायुध.हस्ताश्च शूलमुद्गरपाणयः 25।। >> गदाभिः पट्टसै.र्दण्डै-रायसैर् मुसलैर् भृशम् 26।। >> परिघै.र्भिन्दिपालैश्च भल्लैः प्रासैः परश्वथैः। निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा 27।। >> रथैः कवचिन.स्त्वन्ये ध्वजैश्च समलङ्कृतैः। सुवर्णजाल.विहितैः खरैश्च विविधाननैः 28।। >> हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः। निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः।। 29।। >> वृकसिंहमुखै.र्युक्तं खरैः कनकभूषणैः। आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः 30।। >> स निर्यातो महावीर्यो धूम्राक्षो राक्षसै.र्वृतः। प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः 31।। >> रथप्रवर.मास्थाय खरयुक्तं खरस्वनम् 32।। >> प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्। अन्तरिक्षगताः क्रूरा.श्शकुनाः प्रत्यवारयन्।। 33।। >> रथशीर्षे महाभीमो गृध्रश्च निपपात ह। ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः 34।। >> रुधिरार्द्रो महान्छ्वेतः कबन्धः पतितो भुवि। विस्वरं चोत्सृजन् नादं धूम्राक्षस्य समीपतः।। 35।। >> ववर्ष रुधिरं देव.-स्सञ्चचाल च मेदिनी 36।। >> प्रतिलोमं ववौ वायु-र्निर्घात.समनिस्वनः। तिमिरौघावृता.स्तत्र दिशश्च न चकाशिरे।। 37।। >> स तूत्पातां.स्ततो दृष्ट्वा राक्षसानां भयावहान्। प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोभवत्।। 38।। >> मुमुहू राक्षसा.स्सर्वे धूम्राक्षस्य पुरस्सराः 39।। >> तत.स्सुभीमो बहुभि.र्निशाचरैर्- वृतोभिनिष्क्रम्य रणोत्सुको बली। ददर्श तां राघवबाहु.पालितां- समुद्रकल्पां बहुवानरीं चमूम्।। 40।। >> श्रीमद्रामायणे युद्धकाण्डे एकपञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 52 धूम्राक्षवधः धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्। विनेदु.र्वानरा.स्सर्वे प्रहृष्टा युद्धकाङ्क्षिणः।। 1।। >> तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम्। अन्योन्यं पादपै.र्घोरै-र्निघ्नतां शूलमुद्गरैः 2।। >> घोरैश्च परिघै.श्चित्रै-स्त्रिशूलैश्चापि संहतैः। राक्षसै.र्वानरा घोरा विनिकृत्ता.स्समन्ततः 3।। >> वानरै. राक्षसा.श्चापि द्रुमै.र्भूमौ समीकृताः। राक्षसा.श्चापि सङ्क्रुद्धा वानरान् निशितै.श्शरैः।। 4।। >> विव्यधु.र्घोरसङ्काशैः कङ्कपत्रै.रजिह्मगैः। ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः।। 5। घोरैश्च परिघै.श्चित्रै-स्त्रिशूलैश्चापि संशितैः। विदार्यमाणा रक्षोभि.र्वानरा.स्ते महाबलाः।। 6।। >> अमर्षा.ज्जनितोद्धर्षा-श्चक्रुः कर्माण्यभीतवत्। शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्न.देहिनः 7।। >> जगृहुस्ते द्रुमां.स्तत्र शिलाश्च हरियूथपाः। ते भीमवेगा हरयो नर्दमाना.स्ततस्ततः 8।। >> ममन्थू राक्षसान् भीमान् नामानि च बभाषिरे। तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् 9।। >> शिलाभि.र्विविधाभिश्च बहुशाखैश्च पादपैः। राक्षसा मथिताः केचि-द्वानरै.र्जितकाशिभिः।। 10।। >> ववमू रुधिरं केचि.-न्मुखै रुधिरभोजनाः। पार्श्वेषु दारिताः केचित् केचि.द्राशीकृता द्रुमैः।। 11।। >> शिलाभि.श्चूर्णिताः केचित् केचि.द्दन्तै.र्विदारिताः। ध्वजै.र्विमथितै.र्भग्नैः खरैश्च विनिपातितैः।। 12।। >> रथै.र्विध्वंसितै.श्चापि पतितै रजनीचरैः। गजेन्द्रैः पर्वताकारैः- पर्वताग्रै.र्वनौकसाम्।। 13।। >> मथितै.र्वाजिभिः कीर्णं सारोहै.र्वसुधातलम्। वानरै.र्भीम विक्रान्तै.-राप्लुत्याप्लुत्य वेगितैः।। 14।। >> राक्षसाः करजै.स्तीक्ष्णैर् मुखेषु विनिकर्तिताः। विवर्णवदना भूयो विप्रकीर्ण.शिरोरुहाः।। 15।। >> मूढा.श्शोणितगन्धेन निपेतु.र्धरणीतले। अन्ये परम सङ्क्रुद्धा राक्षसा भीम.निस्स्वनाः।। 16।। >> तलै.रेवाभिधावन्ति वज्रस्पर्शसमै.र्हरीन्। वानरै.रापतन्त.स्ते वेगिता वेगवत्तमैः।। 17।। >> मुष्टिभि.श्चरणै.र्दन्तैः पादपै.श्चावपोथिताः। वानरै.र्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः।। 18।। >> सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः। क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्।। 19।। >> प्रासैः प्रमथिताः केचि-द्वानरा.श्शोणितस्रवाः। मुद्गरै.राहताः केचित् पतिता धरणीतले 20।। >> परिघै.र्मथिताः केचिद्-भिन्दिपालै.र्विदारिताः। पट्टसै.राहताः केचि-द्विह्वलन्तो गतासवः 21।। >> केचि.द्विनिहता.श्शूलै-रुधिरार्द्रा वनौकसः। केचि.द्विद्राविता नष्टा.-स्सङ्क्रुद्धै. राक्षसै.र्युधि।। 22।। >> विभिन्नहृदयाः केचि-देकपार्श्वेन दारिताः। विदारिता.स्त्रिशूलैश्च केचि.दान्त्रै.र्विनिस्सृताः 23।। >> तत् सुभीमं महद् युद्धं- हरिराक्षस.सङ्कुलम्। प्रबभौ शब्द बहुलं शिलापादप.सङ्कुलम् 24।। >> धनुर्ज्या.तन्त्रिमधुरं हिक्का.ताल.समन्वितम्। मन्द्रस्तनित.सङ्गीतं युद्ध.गान्धर्व.माबभौ 25।। >> धूम्राक्षस्तु धनुष्पाणि-र्वानरान् रणमूर्धनि। हसन् विद्रावयामास दिश.स्ता.न्छरवृष्टिभिः 26।। >> धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः। अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्।। 27।। >> क्रोधा.द्द्विगुण.ताम्राक्षः पितृतुल्यपराक्रमः। शिलां तां पातयामास धूम्राक्षस्य रथं प्रति।। 28।। >> आपतन्तीं शिलां दृष्ट्वा गदा.मुद्यम्य सम्भ्रमात्। रथा.दाप्लुत्य वेगेन वसुधायां व्यतिष्ठत।। 29।। >> सा प्रमथ्य रथं तस्य निपपात शिलाभुवि। सचक्र.कूबरं साश्वं सध्वजं सशरासनम् 30।। >> स भङ्क्त्वा तु रथं तस्य हनूमा.न्मारुतात्मजः। रक्षसां कदनं चक्रे सस्कन्ध.विटपै.र्द्रुमैः 31।। >> विभिन्नशिरसो भूत्वा राक्षसा.श्शोणितोक्षिताः। द्रुमैः प्रमथिता.श्चान्ये निपेतु र्धरणीतले 32।। >> विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः। गिरे.श्शिखर.मादाय धूम्राक्ष.मभिदुद्रुवे।। 33।। >> त.मापतन्तं धूम्राक्षो गदा.मुद्यम्य वीर्यवान्। विनर्दमान.स्सहसा हनूमन्त.मभिद्रवत् 34।। >> ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्। पातयामास धूम्राक्षो मस्तके तु हनूमतः 35।। >> ताडित.स्स तया तत्र गदया भीमरूपया। स कपि.र्मारुतबल.स्तं प्रहार.मचिन्तयन् 36।। >> धूम्राक्षस्य शिरोमध्ये गिरिशृङ्ग.मपातयत्। स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः 37।। >> पपात सहसा भूमौ विकीर्ण इव पर्वतः। धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः। त्रस्ताः प्रविविशु.र्लङ्कां वध्यमानाः प्लवङ्गमैः 38।। >> स तु पवनसुतो निहत्य शत्रुं- क्षतजवहा.स्सरितश्च सन्निकीर्य। रिपुवध.जनितश्रमो महात्मा- मुद.मगम.त्कपिभिश्च पूज्यमानः ।। 39।। >> श्रीमद्रामायणे युद्धकाण्डे द्विपञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 53 वज्रदंष्ट्रयुद्धम् धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः। क्रोधेन महताविष्टो निश्वस.न्नुरगो यथा।। 1।। >> दीर्घ.मुष्णं विनिश्श्वस्य क्रोधेन कलुषीकृतः। अब्रवी.द्राक्षसं घोरं वज्रदंष्ट्रं महाबलम्।। 2।। >> गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरै.स्सह 3।। >> तथे.त्युक्त्वा द्रुततरं मायावी राक्षसेश्वरम्। निर्जगाम बलै.स्सार्धं बहुभिः परिवारितः 4।। >> नागै.रश्वैः खरै.रुष्ट्रै-स्सँयुक्त.स्सुसमाहितः। पताकाध्वज.चित्रैश्च रथैश्च समलङ्कृतः 5।। >> ततो विचित्र.केयूर-मकुटैश्च विभूषितः। तनुत्राणि च संरुध्य सधनु.र्निर्ययौ द्रुतं 6।। >> पताकालङ्कृतं दीप्तं तप्तकाञ्चन.भूषणम्। रथं प्रदक्षिणं कृत्वा समारोह.च्चमूपतिः 7।। >> यष्टिभि.स्तोमरै.श्चित्रै-श्शूलैश्च मुसलै.रपि । भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टसै.रपि।। 8।। >> खड्गै.श्चक्रै.र्गदाभिश्च निशितैश्च परश्वथैः। पदातयश्च निर्यान्ति विविधा.श्शस्त्रपाणयः ।। 9।। >> विचित्रवासस.स्सर्वे दीप्ता राक्षसपुङ्गवाः। गजा मदोत्कटा.श्शूरा-श्चलन्त इव पर्वताः।। 10।। >> ते युद्धकुशलै रूढा-स्तोमराङ्कुश.पाणिभिः। अन्ये लक्षण.सँयुक्ता-श्शूरा रूढा महाबलाः।। 11।। >> तद्राक्षस.बलं घोरं विप्रस्थित.मशोभत। प्रावृट्काले यथा मेघा नर्दमाना.स्सविद्युतः।। 12।। >> निस्सृता दक्षिणद्वारा-दङ्गदो यत्र यूथपः। तेषां निष्क्रममाणाना-मशुभं समजायत।। 13।। >> आकाशा.द्विघना.त्तीव्रा उल्का.श्चाभ्यपतं.स्तथा। वमन्त्यः पावकज्वाला-श्शिवा घोरं ववाशिरे।। 14।। >> व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा। समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः।। 15।। >> एता.नौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः। धैर्य.मालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः।। 16।। >> तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः। प्रणेदु.स्सुमहानादा पूरयंश्च दिशो दश।। 17।। >> ततः प्रवृत्तं तुमुलं हरीणां राक्षसै.स्सह। घोराणां भीमरूपाणा-मन्योन्यवध.काङ्क्षिणाम्।। 18।। >> निष्पतन्तो महोत्साहो भिन्न.देहशिरोधराः। रुधिरोक्षित.सर्वाङ्गा-न्यपतन् जगतीतले।। 19।। >> केचि.दन्योन्य.मासाद्य शूराः परिघपाणयः। चिक्षिपु.र्विविधं शस्त्रं समरे.ष्वनिवर्तिनः।। 20।। >> द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः। श्रूयते सुमहां.स्तत्र घोरो हृदयभेदनः।। 21।। >> रथनेमिस्वन.स्तत्र धनुषश्चापि निस्वनः। शङ्खभेरी.मृदङ्गानां बभूव तुमुलस्वनः 22।। >> किञ्चि.दस्त्राणि संसृज्य बाहुयुद्ध.मकुर्वत। तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमै.रपि 23।। >> जानुभिश्च हताः केचि-द्भिन्नदेहाश्च राक्षसाः। शिलाभि.श्चूर्णिताः केचि-द्वानरै.र्युद्धदुर्मदैः 24।। >> वज्रदंष्ट्रो भृशं बाणै- रणे वित्रासयन् हरीन्। चचार लोकसंहारे पाशहस्त इवान्तकः।। 25।। >> बलवन्तोस्त्रविदुषो नानाप्रहरणा रणे। जघ्नु.र्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः 26।। >> निघ्नतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे। क्रोधेन द्विगुणाविष्ट-स्सँवर्तक इवानलः।। 27।। >> तान् राक्षसगणान् सर्वान् वृक्ष.मुद्यम्य वीर्यवान्। अङ्गदः क्रोधताम्राक्ष-स्सिंहः क्षुद्रमृगा.निव 28।। >> चकार कदनं घोरं शक्रतुल्य.पराक्रमः। अङ्गदाभिहता.स्तत्र राक्षसा भीमविक्रमाः 29।। >> विभिन्नशिरसः पेतु.-र्विकृत्ता इव पादपाः। रथै.रश्वै.र्ध्वजै.श्चित्रै-श्शरीरै.र्हरिरक्षसाम्।। 30।। >> रुधिरेण च सञ्छन्ना भूमि.र्भयकरी तदा। हारकेयूर.वस्त्रैश्च शस्त्रैश्च समलङ्कृता। भूमि.र्भाति रणे तत्र शारदीव यथा निशा 31।। >> अङ्गदस्य च वेगेन तद्राक्षस बलं महत्। प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा।। 32।। >> श्रीमद्रामायणे युद्धकाण्डे त्रिपञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 54 वज्रदंष्ट्रवधः बलस्य च निघातेन अङ्गदस्य जयेन च। राक्षसः क्रोध.माविष्टो वज्रदंष्ट्रो महाबलः।। 1।। >> स विस्फार्य धनु.र्घोरं शक्राशनि.समस्वनम्। वानराणा.मनीकानि प्राकिर.च्चरवृष्टिभिः 2।। >> राक्षसा.श्चापि मुख्यास्ते रथेषु समवस्थिताः। नानाप्रहरणा.श्शूराः प्रायुध्यन्त तदा रणे 3। वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः। अयुध्यन्त शिलाहस्ता-स्समवेता.स्समन्ततः 4।। >> तत्रायुध.सहस्राणि तस्मि.न्नायोधने भृशम्। राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा 5।। >> वानराश्चापि रक्षस्सु गिरिवृक्षान् महाशिलाः। प्रवीराः पातयामासु-र्मत्तवारण.सन्निभाः।। 6।। >> शूराणां युध्यमानानां समरे.ष्वनिवर्तिनाम्। तद्राक्षस.गणानां च सुयुद्धं समवर्तत।। 7।। >> प्रभिन्नशिरसः केचि.-च्छिन्नैः पादैश्च बाहुभिः। शस्त्रै.रर्पितदेहास्तु रुधिरेण समुक्षिताः 8। हरयो राक्षसाश्चैव शेरते गां समाश्रिताः। कङ्कगृध्रबलै.राढ्या गोमायुगण.सङ्कुलाः 9।। >> कबन्धानि समुत्पेतु-र्भीरूणां भीषणानि वै। भुज.पाणि.शिरश्छिन्ना-श्छिन्नकायाश्च भूतले।। 10।। >> वानरा राक्षसा.श्चापि निपेतु.स्तत्र वै रणे। ततो वानरसैन्येन हन्यमानं निशाचरम्।। 11।। >> प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः। राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः।। 12।। >> दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्। प्रविवेश धनुष्पाणि-स्त्रासयन् हरिवाहिनीम्।। 13।। >> शरै.र्विदारयामास कङ्कपत्रै. रजिह्मगैः। बिभेद वानरां.स्तत्र सप्ताष्टौ नव पञ्च च।। 14।। >> विव्याध परमं क्रुद्धो वज्रदंष्ट्रः प्रतापवान्। त्रस्ता.स्सर्वे हरिगणा.-श्शरै.स्सङ्कृत्त.कन्धराः।। 15।। >> अङ्गदं सम्प्रधावन्ति प्रजापति.मिव प्रजाः। ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुत.स्तदा।। 16।। >> क्रोधेन वज्रदंष्ट्रं त.-मुदीक्षन्त.मुदैक्षत। वज्रदंष्ट्रोङ्गद.श्चोभौ सङ्गतौ हरिराक्षसौ।। 17।। >> चेरतुः परमक्रुद्धौ हरिमत्तगजा.विव। तत.श्शरसहस्रेण वालिपुत्रं महाबलः।। 18।। >> जघान मर्मदेशेषु मातङ्ग.मिव तोमरैः। रुधिरोक्षित.सर्वाङ्गो वालिसूनु.र्महाबलः।। 19।। >> चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः। दृष्ट्वा पतन्तं तं वृक्ष-मसम्भ्रान्तश्च राक्षसः 20।। >> चिच्छेद बहुधा सोपि निकृत्तः पतितो भुवि। तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः 21।। >> प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च। समापतन्तं तं दृष्ट्वा रथा.दाप्लुत्य वीर्यवान् 22।। >> गदापाणि.रसम्भ्रान्तः पृतिव्यां समतिष्ठत। साङ्गदेन गदा क्षिप्ता गत्वा तु रणमूर्धनि।। 23।। >> सचक्रकूबरं साश्वं प्रममाथ रथं तदा। ततोन्यं गिरि.माक्षिप्य विमलं द्रुमभूषितं 24।। >> वज्रदंष्ट्रस्य शिरसि पातयामास सोङ्गदः। अभव.च्छोणितोद्गारी वज्रदंष्ट्र.स्समूर्छितः 25।। >> मुहूर्त.मभव.न्मूढो गदा.मालिङ्ग्य निश्वसन्। स लब्धसञ्ज्ञो गदया वालिपुत्र.मवस्थितं 26।। >> जघान परमक्रुद्धो वक्षोदेशे निशाचरः। गदां त्यक्त्वा तत.स्तत्र मुष्टियुद्ध. मवर्तत 27।। >> अन्योन्यं जघ्नतु.स्तत्र ता उभौ हरिराक्षसौ। रुधिरोद्गारितौ तौ तैः प्रहारै.र्जनितश्रमौ 28।। >> बभूवतु.स्सुविक्रान्ता-वङ्गारकबुधा.विव। ततः परम.तेजस्वी अङ्गदः कपिकुञ्जरः 29।। >> उत्पाट्य वृक्षं स्थितवान् बहुपुष्प.फलाञ्चितः। जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्।। 30।। >> किङ्किणीजाल.सञ्छन्नं चर्मणा च परिष्कृतम्। विचित्रां.श्चेरतु.र्मार्गान् रुषितौ कपिराक्षसौ 31।। >> जघ्नतुश्च तथान्योन्यं निर्दयं जयकाङ्क्षिणौ। व्रणै.स्सास्रै. रशोभेतां पुष्पिताविव किंशुकौ 32।। >> युद्ध्यमानौ परिश्रान्तौ जानुभ्या.मवनीं गतौ। निमेषान्तर.मात्रेण अङ्गदः कपिकुञ्जरः 33।। >> उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः। निर्मलेन सुधौतेन खड्गेनास्य मह.च्छिरः 34।। >> जघान वज्रदंष्ट्रस्य वालिसूनु.र्महाबलः। रुधिरोक्षित.गात्रस्य बभूव पतितं द्विधा।। 35।। >> सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः। वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः।। 36।। >> त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमैः। विषण्णवदना दीना ह्रिया किञ्चि.दवाङ्मुखाः।। 37।। >> निहत्य तं वज्रधरप्रभाव-स्स वालिसूनुः कपिसैन्य.मध्ये। जगाम हर्षं महितो महाबलः- सहस्रनेत्र.स्त्रिदशै. रिवावृतः।। 38।। >> श्रीमद्रामायणे युद्धकाण्डे चतुः पञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 55 अकम्पनयुद्धम् वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः। बलाध्यक्ष.मुवाचेदं कृताञ्जलि. मुपस्थितम्।। 1। शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः। अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्र.कोविदम् 2।। >> एष शास्ता च गोप्ता च नेता च युधि सम्मतः। भूतिकामश्च मे नित्यं नित्यं च समरप्रियः 3।। >> एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्। वानरांश्चापरान् घोरान् हनिष्यति परन्तपः 4।। >> परिगृह्य स ता.माज्ञां रावणस्य महाबलः। बलं सन्त्वरयामास तदा लघुपराक्रमः 5।। >> ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः। निष्पेतू राक्षसा मुख्या बलाध्यक्ष.प्रचोदिताः 6।। >> रथ.मास्थाय विपुलं तप्तकाञ्चन.कुण्डलः। मेघाभो मेघ वर्णश्च मेघस्वन.महास्वनः 7।। >> राक्षसै.स्सँवृतो घोरै-स्तदा निर्या.त्यकम्पनः। न हि कम्पयितुं शक्य.-स्सुरै.रपि महामृधे 8।। >> अकम्पन.स्तत.स्तेषा.-मादित्य इव तेजसा। तस्य निर्धावमानस्य संरब्धस्य युयुत्सया 9।। >> अकस्मा.द्दैन्य.मागच्छ-द्धयानां रथवाहिनाम्। व्यस्फुरन् नयनं चास्य सव्यं युद्धाभिनन्दिनः।। 10।। >> विवर्णो मुखवर्णश्च गद्गद.श्चाभवत्स्वरः। अभवत् सुदिने चापि दुर्दिने रूक्ष.मारुतम्।। 11।। >> ऊचुः खगा मृगा.स्सर्वे वाचः क्रूरा भयावहाः। स सिंहोपचितस्कन्ध.-श्शार्दूलसम.विक्रमः।। 12।। >> तानुत्पाता.नचिन्त्यैव निर्जगाम रणाजिरम्। तदा निर्गच्छत.स्तस्य रक्षस.स्सह राक्षसैः।। 13।। >> बभूव सुमहान् नादः क्षोभय.न्निव सागरम्। तेन शब्देन वित्रस्ता वानराणां महाचमूः।। 14।। >> द्रुमशैल.प्रहरणा योद्धुं समवतिष्ठत। तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम्।। 15।। >> रामरावणयो.रर्थे समभित्यक्त.जीविनाम्। सर्वे ह्यतिबला.श्शूरा.-स्सर्वे पर्वतसन्निभाः।। 16।। >> हरयो राक्षसाश्चैव परस्पर जिघांसवः। तेषां विनर्दतां शब्द.-स्सँयुगेतितरस्विनाम्।। 17।। >> शुश्रुवे सुमहान् क्रोधा-दन्योन्य.मभिगर्जताम्। रज.श्चारुणवर्णाभं सुभीम.मभव.द्भृशम्।। 18।। >> उद्धूतं हरिरक्षोभि.-स्संरुरोध दिशो दश। अन्योन्यं रजसा तेन कौशेयोद्धूत.पाण्डुना।। 19।। >> सँवृतानि च भूतानि ददृशु.र्न रणाजिरे। न ध्वजो न पताका वा वर्म वा तुरगोपि वा 20।। >> आयुधं स्यन्दनं वापि ददृशे तेन रेणुना। शब्दश्च सुमहां.स्तेषां नर्दता. मभिधावताम् 21।। >> श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे। हरी.नेव सुसङ्क्रुद्धा हरयो जघ्नु.राहवे 22।। >> राक्षसा.श्चापि रक्षांसि निजघ्नु.स्तिमिरे तदा। परांश्चैव विनिघ्नन्त.-स्स्वांश्च वानरराक्षसाः 23।। >> रुधिरार्द्रं तदा चक्रु-र्महीं पङ्कानुलेपनाम्। ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः।। 24।। >> शरीरशव.सङ्कीर्णा बभूव च वसुन्धरा। द्रुमशक्ति.शिलाप्रासै-र्गदा.परिघ.तोमरैः 25।। >> हरयो राक्षसा.स्तूर्णं जघ्नु.रन्योन्य.मोजसा। बाहुभिः परिघाकारै-र्युध्यन्तः पर्वतोपमाः 26।। >> हरयो भीमकर्माणो राक्षसान् जघ्नु.राहवे। राक्षसा.श्चापि सङ्क्रुद्धाः प्रासतोमर.पाणयः 27।। >> कपी.न्निजघ्निरे तत्र शस्त्रैः परमदारुणैः। अकम्पन.स्सुसङ्क्रुद्धो राक्षसानां चमूपतिः।। 28।। >> संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्। हरयस्त्वपि रक्षांसि महाद्रुम.महाश्मभिः 29।। >> विदारय.न्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः। एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः।। 30।। >> मैन्दश्च परमक्रुद्धा-श्चक्रु. र्वेग मनुत्तमम्। ते तु वृक्षै.र्महावेगा राक्षसानां चमूमुखे।। 31।। >> कदनं सुमह.च्चक्रु- र्लीलया हरियूथपाः। ममन्थू राक्षसान् सर्वे वानरा गणशो भृशं 32।। >> श्रीमद्रामायणे युद्धकाण्डे पञ्चपञ्चाश.स्सर्गः। • युद्धकाण्डे सर्गः 56 अकम्पनवधः तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः। क्रोध.माहारयामास युधि तीव्र.मकम्पनः।। 1।। >> क्रोधमूर्छित.रूपस्तु धून्वन् परमकार्मुकम्। दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्य.मब्रवीत् 2।। >> तत्रैव तावत् त्वरितं रथं प्रापय सारथे। एतेत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे 3।। >> एतेत्र बलवन्तो हि भीमकायाश्च वानराः। द्रुमशैल.प्रहरणा-स्तिष्ठन्ति प्रमुखे मम 4।। >> एतान् निहन्तु.मिच्छामि समरश्लाघिनो ह्यहम्। एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम्।। 5।। >> ततः प्रजवनाश्वेन रथेन रथिनां वरः। हरी.नभ्यहनत् क्रोधा-च्छरजालै.रकम्पनः।। 6।। >> न स्थातुं वानरा.श्शेकुः किं पुन.र्योद्धु.माहवे। अकम्पनशरै.र्भग्ना.- स्सर्व एव प्रदुद्रुवुः 7।। >> ता.न्मृत्युवश.मापन्ना-नकम्पनवशं गतान्। समीक्ष्य हनुमान् ज्ञाती-नुपतस्थे महाबलः।। 8।। >> तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः। समेत्य समरे वीरा.-स्संहृष्टाः पर्यवारयन् 9।। >> अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः। बभूवु.र्बलवन्तो हि बलवन्तं समाश्रिताः।। 10।। >> अकम्पनस्तु शैलाभं हनूमन्त.मवस्थितम्। महेन्द्र इव धाराभि.-श्शरै रभिववर्ष ह।। 11।। >> अचिन्तयित्वा बाणौघा-न्छरीरे पतिता.न्छितान्। अकम्पन.वधार्थाय मनो दध्रे महाबलः।। 12।। >> स प्रहस्य महातेजा हनूमान् मारुतात्मजः। अभिदुद्राव तद्रक्षः- कम्पय.न्निव मेदिनीम्।। 13।। >> तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा। बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः।। 14।। >> आत्मान.मप्रहरणं ज्ञात्वा क्रोधसमन्वितः। शैल.मुत्पाटयामास वेगेन हरिपुङ्गवः।। 15।। >> तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः। विनद्य सुमहानादं भ्रामयामास वीर्यवान्।। 16।। >> तत.स्त.मभिदुद्राव राक्षसेन्द्र.मकम्पनम्। यथा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः।। 17।। >> अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्। दूरा.देव महाबाणै-रर्धचन्द्रै.र्व्यदारयत्।। 18।। >> तत् पर्वताग्र.माकाशे रक्षोबाण.विदारितम्। विशीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः।। 19।। >> सोश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः। तूर्ण.मुत्पाटयामास महागिरि.मिवोच्छ्रितम् 20।। >> तं गृहीत्वा महास्कन्धं सोश्वकर्णं महाद्युतिः। प्रहस्य परया प्रीत्या भ्रामयामास सँयुगे।। 21।। >> प्रधाव.न्नूरुवेगेन प्रभञ्जं.स्तरसा द्रुमान्। हनूमान् परमक्रुद्ध.-श्चरणै.र्दारयत् क्षितिम् 22।। >> गजांश्च सगजारोहान् सरथान् रथिन.स्तथा। जघान हनुमान् धीमान् राक्षसांश्च पदातिगान्।। 23।। >> त.मन्तक.मिव क्रुद्धं समरे प्राणहारिणम्। हनूमन्त.मभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः 24।। >> त.मापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम्। ददर्शाकम्पनो वीर-श्चुक्रोध च ननाद च 25।। >> स चतुर्दशभि र्बाणै.-श्शितै.र्देहविदारणैः। निर्बिभेद हनूमन्तं महावीर्य.मकम्पनः 26।। >> स तथा प्रतिविद्धस्तु बह्वीभि.श्शरवृष्टिभिः। हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् 27।। >> विरराज महाकायो महावीर्यो महामनाः। पुष्पिताशोक सङ्काशो विधूम इव पावकः 28।। >> ततोन्यं वृक्ष.मुत्पाट्य कृत्वा वेग.मनुत्तमम्। शिरस्यभिजघानाशु राक्षसेन्द्र.मकम्पनम् 29।। >> स वृक्षेण हत.स्तेन सक्रोधेन महात्मना। राक्षसो वानरेन्द्रेण पपात च ममार च 30।। >> तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्र.मकम्पनम्। व्यथिता राक्षसा.स्सर्वे क्षितिकम्प इव द्रुमाः 31।। >> त्यक्तप्रहरणा.स्सर्वे राक्षसास्ते पराजिताः। लङ्का.मभिययु.स्त्रस्ता वानरै.स्तै रभिद्रुताः।। 32।। >> ते मुक्तकेशा.स्सम्भ्रान्ता भग्नमानाः पराजिताः। स्रव.च्छ्रमजलै. रङ्गै.-श्श्वसन्तो विप्रदुद्रुवुः 33।। >> अन्योन्यं प्रममन्थु.स्ते विविशु.र्नगरं भयात्। पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहु.र्मुहुः 34।। >> तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः। समेत्य हरय.स्सर्वे हनूमन्त.मपूजयन् 35।। >> सोपि प्रहृष्ट.स्तान् सर्वान् हरीन् प्रत्यभिपूजयत्। हनूमान् सत्त्वसम्पन्नो यथार्ह.मनुकूलतः 36।। >> विनेदुश्च यथा प्राणं हरयो जितकाशिनः। चकर्षुश्च पुन.स्तत्र सप्राणा.नपि राक्षसान् 37।। >> स वीरशोभा मभजन् महाकपि-स्समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीम.ममित्रनाशनं- यथैव विष्णु.र्बलिनं चमूमुखे।। 38।। >> अपूजयन् देवगणा.स्तदा कपिं- स्वयं च रामोतिबलश्च लक्ष्मणः। तथैव सुग्रीवमुखाः प्लवङ्गमा- विभीषणश्चैव महाबलस्तथा।। 39।। >> श्रीमद्रामायणे युद्धकाण्डे षट्पञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 57 प्रहस्तयुद्धम् अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। किञ्चि.द्दीनमुखश्चापि सचिवां.स्ता.नुदैक्षत।। 1।। >> स तु ध्यात्वा मुहूर्तं तु मन्त्रिभि.स्सँविचार्य च। ततस्तु रावणः पूर्व-दिवसे राक्षसाधिपः 2।। >> पुरीं परिययौ लङ्कां सर्वान् गुल्मा.नवेक्षितुम्। तां राक्षसगणै.र्गुप्तां गुल्मै.र्बहुभि.रावृताम्।। 3।। >> ददर्श नगरीं लङ्कां पताकाध्वज.मालिनीम्। रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः 4।। >> उवाचामर्षतः काले प्रहस्तं युद्धकोविदम्। पुरस्योपनिविष्टस्य सहसा पीडितस्य च।। 5।। >> नान्यं युद्धा.त्प्रपश्यामि मोक्षं युद्धविशारद। अहं वा कुम्भकर्णो वा त्वं वा सेनापति.र्मम।। 6।। >> इन्द्रजि.द्वा निकुम्भो वा वहेयु.र्भार. मीदृशम्। स त्वं बल.मित.श्शीघ्र.-मादाय परिगृह्य च 7।। >> विजयायाभिनिर्याहि यत्र सर्वे वनौकसः। निर्याणा.देव ते नूनं चपला हरिवाहिनी 8।। >> नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति। चपला ह्यविनीताश्च चलचित्ताश्च वानराः।। 9।। >> न सहिष्यन्ति ते नादं सिंहनाद.मिव द्विपाः। विद्रुते च बले तस्मिन् राम.स्सौमित्रिणा सह।। 10।। >> अवशस्ते निरालम्बः प्रहस्त वश.मेष्यति। आपत्संशयिता श्रेयो नात्र निस्संशयीकृता।। 11।। >> प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम्। रावणेनैव मुक्तस्तु प्रहस्तो वाहिनीपतिः।। 12।। >> राक्षसेन्द्र.मुवाचेद-मसुरेन्द्र.मिवोशनाः। राजन् मन्त्रितपूर्वं नः कुशलै.स्सह मन्त्रिभिः।। 13।। >> विवादश्चापि नो वृत्त.-स्समवेक्ष्य परस्परम्। प्रदानेन तु सीताया.-श्श्रेयो व्यवसितं मया।। 14।। >> अप्रदाने पुन.र्युद्धं दृष्ट.मेतत् तथैव नः। सोहं दानैश्च मानैश्च सततं पूजित.स्त्वया।। 15।। >> सान्त्वैश्च विविधैः काले- किन्न कुर्यां प्रियं तव। न हि मे जीवितं रक्ष्यं पुत्रदार.धनानि वा।। 16।। >> त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि। एव.मुक्त्वा तु भर्तारं रावणं वाहिनीपतिः।। 17।। >> उवाचेदं बलाध्यक्षान् प्रहस्तः पुरत.स्स्थितान्। समानयत मे शीघ्रं राक्षसानां मह.द्बलम्।। 18। मद्बाणाशनिवेगेन हतानां तु रणाजिरे। अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम्।। 19।। >> इत्युक्ता.स्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः। बल.मुद्योजयामासु-स्तस्मिन् राक्षसमन्दिरे।। 20।। >> सा बभूव मुहूर्तेन तिग्म.नानाविधायुधैः। लङ्का राक्षसवीरै.स्तै-र्गजै.रिव समाकुला 21।। >> हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्। आज्यगन्ध.प्रतिवह.-स्सुरभि.र्मारुतो ववौ 22।। >> स्रजश्च विविधाकारा जगृहु.स्त्वभिमन्त्रिताः। सङ्ग्रामसज्जा.स्संहृष्टा धारय.न्राक्षसा.स्तदा।। 23।। >> सधनुष्काः कवचिनो वेगा.दाप्लुत्य राक्षसाः। रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् 24।। >> अथामन्त्र्य च राजानं भेरी.माहत्य भैरवाम्। आरुरोह रथं दिव्यं प्रहस्त.स्सज्जकल्पितम् ।। 25।। >> हयै.र्महाजवै.र्युक्तं सम्य.क्सूत.सुसँयुतम्। महाजलद.निर्घोषं साक्षा.च्चन्द्रार्क.भास्वरम्।। 26।। >> उरगध्वज.दुर्धर्षं सुवरूथं स्ववस्करम्। सुवर्णजाल.सँयुक्तं प्रहसन्त.मिव श्रिया।। 27।। >> ततस्तं रथ.मास्थाय रावणार्पितशासनः। लङ्काया निर्ययौ तूर्णं बलेन महतावृतः।। 28।। >> ततो दुन्दुभिनिर्घोषः पर्जन्य.निनदोपमः। वादित्राणां च निनदः पूरय.न्निव सागरं 29।। >> शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्त.स्स्वरान् घोरान् राक्षसा जग्मु.रग्रतः 30।। >> भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः। नरान्तकः कुम्भहनु-र्महानाद.स्समुन्नतः 31।। >> प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्। व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ।। 32।। >> गजयूथ.निकाशेन बलेन महतावृतः। सागरप्रतिमौघेन वृत.स्तेन बलेन सः।। 33।। >> प्रहस्तो निर्ययौ तूर्णं कालान्तक.यमोपमः। तस्य निर्याणघोषेण राक्षसानां च नर्दताम् 34।। >> लङ्कायां सर्वभूतानि विनेदु.र्विकृतै.स्स्वरैः। व्यभ्र.माकाश.माविश्य मांसशोणित.भोजनाः 35।। >> मण्डला.न्यपसव्यानि खगा.श्चक्रू रथं प्रति। वमन्त्यः पावकज्वाला.-श्शिवा घोरा ववाशिरे 36।। >> अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ। अन्योन्य.मभिसंरब्धा ग्रहाश्च न चकाशिरे 37।। >> मेघाश्च खर.निर्घोषा रथस्योपरि रक्षसः। ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् 38।। >> केतुमूर्धनि गृध्रोस्य निलीनो दक्षिणामुखः। तुद.न्नुभयतः पार्श्वं समग्रा.महरत् प्रभां 39।। >> सारथे.र्बहुश.श्चास्य सङ्ग्राम. मवगाहतः। प्रतोदो न्यपत.द्धस्तात् सूतस्य हयसादिनः 40।। >> निर्याणश्रीश्च यास्यासी-द्भास्वरा च सुदुर्लभा। सा ननाश मुहूर्तेन समे च स्खलिता हयाः।। 41।। >> प्रहस्तं त्वभिनिर्यान्तं प्रख्यात.बलपौरुषम्। युधि नानाप्रहरणा कपिसेनाभ्यवर्तत।। 42।। >> अथ घोष.स्सुतुमुलो हरीणां समजायत। वृक्षा.नारुजतां चैव गुर्वी.रागृह्णतां शिलाः 43।। >> नदतां राक्षसानां च वानराणां च गर्जताम्। उभे प्रमुदिते सैन्ये रक्षोगण.वनौकसाम् 44।। >> वेगितानां समर्थाना-मन्योन्यवध.काङ्क्षिणाम्। परस्परं चाह्वयतां निनाद.श्श्रूयते महान् 45।। >> ततः प्रहस्तः कपिराजवाहिनी.-मभिप्रतस्थे विजयाय दुर्मतिः। विवृद्धवेगां च विवेश तां चमूं- यथा मुमूर्षु.श्शलभो विभावसुम्।। 46।। >> श्रीमद्रामायणे युद्धकाण्डे सप्त पञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 58 प्रहस्तवधः ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। उवाच सस्मितं रामो विभीषण.मरिन्दमः।। 1।। >> क एष सुमहाकायो बलेन महतावृतः। आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरं 2।। >> राघवस्य वच.श्श्रुत्वा प्रत्युवाच विभीषणः। एष सेनापति.स्तस्य प्रहस्तो नाम राक्षसः 3।। >> लङ्कायां राक्षसेन्द्रस्य त्रिभागबल.सँवृतः। वीर्यवा.नस्त्रवि.च्छूरः प्रख्यातश्च पराक्रमे 4।। >> ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। गर्जन्तं सुमहाकायं राक्षसै.रभिसँवृतम् 5।। >> ददर्श महती सेना वानराणां बलीयसाम्। अतिसञ्जातरोषाणां प्रहस्त.मभिगर्जताम्।। 6।। >> खड्गशक्त्यृ ष्टिबाणाश्च शूलानि मुसलानि च। गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः 7।। >> धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्। प्रगृहीता न्यशोभन्त वानरा.नभिधावताम् 8।। >> जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः। शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः 9।। >> तेषा मन्योन्य.मासाद्य सङ्ग्राम.स्सुमहा.नभूत्। बहूना.मश्मवृष्टिं च शरवृष्टिं च वर्षताम्।। 10।। >> बहवो राक्षसा युद्धे बहू.न्वानरयूथपान्। वानरा राक्षसां.श्चापि निजघ्नु.र्बहवो बहून्।। 11।। >> शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः। परिघै.राहताः केचित् केचि.च्छिन्नाः परश्वधैः।। 12।। >> निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले। विभिन्नहृदयाः केचि-दिषुसन्धान.सन्दिताः।। 13।। >> केचि.द्द्विधाकृताः खड्गै.-स्स्फुरन्तः पतिता भुवि। वानरा राक्षसै.श्शूलैः पार्श्वतश्च विदारिताः।। 14।। >> वानरै.श्चापि सङ्क्रुद्धै राक्षसौघा.स्समन्ततः। पादपै.र्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले।। 15।। >> वज्रस्पर्शतलै.र्हस्तै.-र्मुष्टिभिश्च हता भृशम्। वम.न्छोणित.मास्येभ्यो विशीर्ण.दशनेक्षणाः।। 16।। >> आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम्। बभूव तुमुल.श्शब्दो हरीणां रक्षसां युधि।। 17।। >> वानरा राक्षसाः क्रुद्धा वीरमार्ग.मनुव्रताः। विवृत्तनयनाः क्रूरा-श्चक्रुः कर्माण्यभीतवत्।। 18।। >> नरान्तकः कुम्भहनु-र्महानाद.स्समुन्नतः। एते प्रहस्तसचिवा.-स्सर्वे जघ्नु.र्वनौकसः।। 19।। >> तेषा.मापततां शीघ्रं निघ्नतां चापि वानरान्। द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्।। 20।। >> दुर्मुखः पुन.रुत्पाट्य कपि.स्स विपुलद्रुमम्। राक्षसं क्षिप्रहस्तस्तु समुन्नत.मपोथयत् 21।। >> जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम्। पातयामास तेजस्वी महानादस्य वक्षसि 22।। >> अथ कुम्भहनु.स्तत्र तारेणासाद्य वीर्यवान्। वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजय.द्रणे 23।। >> अमृष्यमाण.स्तत् कर्म प्रहस्तो रथ.मास्थितः। चकार कदनं घोरं धनुष्पाणि.र्वनौकसाम् 24।। >> आवर्त इव सञ्जज्ञे उभयो.स्सेनयो.स्तदा। क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः 25।। >> महता हि शरौघेण प्रहस्तो युद्धकोविदः। अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे 26।। >> वानराणां शरीरैश्च राक्षसानां च मेदिनी। बभूव निचिता घोरा पतितै.रिव पर्वतैः 27।। >> सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते। सञ्छन्ना माधवे मासि पलाशै.रिव पुष्पितैः 28।। >> हतवीरौघ.वप्रां तु भग्नायुध.महाद्रुमाम्। शोणितौघ.महातोयां यमसागर.गामिनीम् 29।। >> यकृत्प्लीह.महापङ्कां विनिकीर्णान्त्र.शैवलाम्। भिन्नकाय.शिरोमीना.-मङ्गावयव.शाद्वलाम् 30।। >> गृध्रहंस.गणाकीर्णां कङ्क.सारस.सेविताम्। मेदःफेन.समाकीर्णा.-मार्त.स्तनित.निस्वनाम् 31।। >> तां कापुरुष.दुस्तारां युद्धभूमिमयीं नदीम्। नदीमिव घनापाये हंस.सारस.सेविताम् 32।। >> राक्षसाः कपिमुख्याश्च तेरु.स्तां दुस्तरां नदीम्। यथा पद्मरजो ध्वस्तां नलिनीं गजयूथपाः 33।। >> तत.स्सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्। ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान्।। 34।। >> उद्धूत इव वायुः खं मह.दभ्रबलं बलात्। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः।। 35।। >> रथेनादित्यवर्णेन नील.मेवाभिदुद्रुवे । स धनु.र्धन्विनां श्रेष्ठो विकृष्य परमाहवे।। 36।। >> नीलाय विसृज.द्बाणान् प्रहस्तो वाहिनीपतिः। ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः 37।। >> महीं जग्मु.र्महावेगा-रुषिता इव पन्नगाः। नील.श्शरै. रभिहतो निशितै.र्ज्वलनोपमैः।। 38।। >> स तं परमदुर्धर्ष-मापतन्तं महाकपिः। प्रहस्तं ताडयामास वृक्ष.मुत्पाट्य वीर्यवान्।। 39।। >> स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः। ववर्ष शरवर्षाणि प्लवगानां चमूपतौ।। 40।। >> तस्य बाणगणान् घोरान् राक्षसस्य महाबलः। अपारयन् वारयितुं प्रत्यगृह्णा.न्निमीलितः 41।। >> यथैव गोवृषो वर्षं शारदं शीघ्र.मागतम्। एव.मेव प्रहस्तस्य शरवर्षं दुरासदम् 42।। >> निमीलिताक्ष.स्सहसा नील.स्सेहे सुदारुणम्। रोषित.श्शरवर्षेण सालेन महता महान् 43।। >> प्रजघान हयान् नीलः प्रहस्तस्य मनोजवान्। तत.स्स चाप. मुद्गृह्य प्रहस्तस्य महाबलः 44।। >> बभञ्ज तरसा नीलो ननाद च पुनः पुनः। विधनु.स्तु कृत.स्तेन प्रहस्तो वाहिनीपतिः।। 45। प्रगृह्य मुसलं घोरं स्यन्दना.दवपुप्लुवे। ता.वुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ 46।। >> स्थितौ क्षतज.दिग्धाङ्गौ प्रभिन्ना.विव कुञ्जरौ। उल्लिखन्तौ सुतीक्ष्णाभि-र्दंष्ट्राभि.रितरेतरम् 47।। >> सिंहशार्दूल.सदृशौ सिंहशार्दूल.चेष्टितौ। विक्रान्त.विजयौ वीरौ समरे.ष्वनिवर्तिनौ 48।। >> काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयो.स्समौ। आजघान तदा नीलं ललाटे मुसलेन सः 49।। >> प्रहस्तः पर.मायत्त-स्तस्य सुस्राव शोणितम्। तत.श्शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम्।। 50।। >> प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः। त.मचिन्त्यप्रहारं स प्रगृह्य मुसलं महत्।। 51।। >> अभिदुद्राव बलिनं बली नीलं प्लवङ्गमम्। त.मुग्रवेगं संरब्ध.-मापतन्तं महाकपिः 52।। >> तत.स्सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम्। तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः 53।। >> प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्ण.मपातयत्। सा तेन कपिमुख्येन विमुक्ता महती शिला 54।। >> बिभेद बहुधा घोरा प्रहस्तस्य शिर.स्तदा। स गतासु.र्गतश्रीको गतसत्त्वो गतेन्द्रियः 55।। >> पपात सहसा भूमौ छिन्नमूल इव द्रुमः। विभिन्नशिरस.स्तस्य बहु सुस्राव शोणितम् 56।। >> शरीरा.दपि सुस्राव गिरेः प्रस्रवणं यथा। हते प्रहस्ते नीलेन तदकम्प्यं मह.द्बलम् 57।। >> रक्षसा.मप्रहृष्टानां लङ्का.मभिजगाम ह। न शेकु.स्समवस्थातुं निहते वाहिनीपतौ 58।। >> सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा। हते तस्मिं.श्चमूमुख्ये राक्षसा.स्ते निरुद्यमाः 59।। >> रक्षःपतिगृहं गत्वा ध्यानमूकत्व.मागताः। प्राप्ता.श्शोकार्णवं तीव्रं निस्सञ्ज्ञा इव तेभवन्।। 60। ततस्तु नीलो विजयी महाबलः- प्रशस्यमान.स्स्वकृतेन कर्मणा। समेत्य रामेण सलक्ष्मणेन- प्रहृष्टरूपस्तु बभूव यूथपः।। 61।। >> श्रीमद्रामायणे युद्धकाण्डे अष्टापञ्चाशस्सर्गः। • युद्धकाण्डे सर्गः 59 रावणाभिषेणनम् तस्मिन् हते राक्षससैन्यपाले- प्लवङ्गमाना.मृषभेण युद्धे। भीमायुधं सागरतुल्यवेगं- प्रदुद्रुवे राक्षसराजसैन्यम्।। 1।। >> गत्वा तु रक्षोधिपते.श्शशंसु-स्सेनापतिं पावकसूनुशस्तम्। तच्चापि तेषां वचनं निशम्य- रक्षोधिपः क्रोधवशं जगाम।। 2।। >> सङ्ख्ये प्रहस्तं निहतं निशम्य- शोकार्दितः क्रोधपरीतचेताः। उवाच तान् नैरृतयोध.मुख्या-निन्द्रो यथा चामरयोध.मुख्यान्।। 3।। >> नावज्ञा रिपवे कार्या यै.रिन्द्रबलसूदनः। सूदित.स्सैन्यपालो मे सानुयात्र.स्सकुञ्जरः 4।। >> सोहं रिपुविनाशाय विजयायाविचारयन्। स्वय.मेव गमिष्यामि रणशीर्षं तदद्भुतम्।। 5।। >> अद्य तद्वानरानीकं रामं च सहलक्ष्मणम्। निर्दहिष्यामि बाणौघै- र्वनं दीप्तै.रिवाग्निभिः।। 6।। >> अद्य सन्तर्पयिष्यामि पृथिवीं कपिशोणितैः। रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम्।। >> स एव.मुक्त्वा ज्वलनप्रकाशं- रथं तुरङ्गोत्तम.राजियुक्तम्। प्रकाशमानं वपुषा ज्वलन्तं- स.मारुरोहामरराजशत्रुः।। 7।। >> सशङ्ख.भेरी.पटह. प्रणादै-रास्फोटित क्ष्वेलित.सिंहनादैः। पुण्यै.स्स्तवैश्चाप्यभिपूज्यमान-स्तदा ययौ राक्षसराजमुख्यः।। 8।। >> स शैल.जीमूतनिकाश.रूपैर्- मांसाशनैः पावकदीप्त.नेत्रैः। बभौ वृतो राक्षसराज.मुख्यैर्-भूतै.र्वृतो रुद्र इवासुरेशः।। 9।। >> ततो नगर्या.स्सहसा महौजा- निष्क्रम्य तद्वानर. सैन्य.मुग्रम्। महार्णवाभ्र.स्तनितं ददर्श- समुद्यतं पादपशैल.हस्तम्।। 10।। >> तद्राक्षसानीक.मतिप्रचण्ड.-मालोक्य रामो भुजगेन्द्रबाहुः। विभीषणं शस्त्रभृतां वरिष्ठ-मुवाच सेनानुगतः पृथुश्रीः।। 11।। >> नानापताका.ध्वज.शस्त्रजुष्टं- प्रासासिशूलायुधचक्र.जुष्टम्। सैन्यं नगेन्द्रोपम.नागजुष्टं- कस्येद.मक्षोभ्य मभीरुजुष्टम्।। 12।। >> ततस्तु रामस्य निशम्य वाक्यं- विभीषण.श्शक्रसमानवीर्यः। शशंस रामस्य बलप्रवेकं- महात्मनां राक्षसपुङ्गवानाम्।। 13।। >> योसौ गजस्कन्धगतो महात्मा- नवोदितार्कोपम.ताम्रवक्त्रः। प्रकम्पयन् नागशिरोभ्युपैति- ह्यकम्पनं त्वेन.मवेहि राजन्।। 14।। >> योसौ रथस्थो मृगराज.केतुर्- धून्वन् धनु.श्शक्रधनुःप्रकाशम्। करीव भात्युग्रविवृत्तदंष्ट्र- स्स इन्द्रजिन्नाम वरप्रधानः।। 15।। >> यश्चैष विन्ध्यास्त.महेन्द्रकल्पो- धन्वी रथस्थोतिरथोतिवीर्यः। विस्फारयंश्चाप.मतुल्यमानं नाम्नातिकायोतिविवृद्धकायः।। 16।। >> योसौ नवार्कोदित.ताम्रचक्षु-रारुह्य घण्टानिनद.प्रणादम्। गजं खरं गर्जति वै महात्मा- महोदरो नाम स एष वीरः।। 17।। >> योसौ हयं काञ्चनचित्रभाण्ड-मारुह्य सन्ध्याभ्र.गिरिप्रकाशम्। प्रासं समुद्यम्य मरीचिनद्धं- पिशाच एषोशनितुल्यवेगः।। 18।। >> यश्चैष शूलं निशितं प्रगृह्य- विद्युत्प्रभं किङ्करवज्र.वेगम्। वृषेन्द्र.मास्थाय गिरिप्रकाश-मायाति सोसौ त्रिशिरा यशस्वी।। 19।। >> असौ च जीमूतनिकाश.रूपः- कुम्भः पृथुव्यूढ.सुजातवक्षाः। समाहितः पन्नगराज.केतुर्- विस्फारयन् भाति धनुर् विधून्वन्।। 20।। >> यश्चैष जाम्बूनद.वज्रजुष्टं- दीप्तं सधूमं परिघं प्रगृह्य। आयाति रक्षोबल.केतुभूत-स्सोसौ निकुम्भोद्भुत.घोरकर्मा।। 21।। >> यश्चैष चापासिशरौघ.जुष्टं- पताकिनं पावकदीप्त.रूपम्। रथं समास्थाय विभात्युदग्रो- नरान्तकोसौ नगशृङ्गयोधी।। 22।। >> यश्चैष नानाविध.घोररूपैर्- व्याघ्रोष्ट्र.नागेन्द्र.मृगाश्ववक्त्रैः। भूतै.र्वृतो भाति विवृत्तनेत्रै-स्सोसौ सुराणा.मपि दर्पहन्ता।। 23।। >> यत्रैत.दिन्द्रप्रतिमं विभाति- छत्त्रं सितं सूक्ष्म शलाक मग्र्यम्। अत्रैष रक्षोधिपति.र्महात्मा- भूतै.र्वृतो रुद्र इवावभाति।। 24।। >> असौ किरीटी चलकुण्डलास्यो- नागेन्द्र.विन्ध्योपम.भीमकायः। महेन्द्र.वैवस्वत.दर्पहन्ता- रक्षोधिप.स्सूर्य इवावभाति।। 25।। >> प्रत्युवाच ततो रामो विभीषण.मरिन्दमम्। अहो दीप्तो महातेजा रावणो राक्षसेश्वरः।। 26।। >> आदित्य इव दुष्प्रेक्ष्यो रश्मिभि.र्भाति रावणः। सुव्यक्तं लक्षये ह्यस्य रूपं तेज.स्समावृतम्।। 27।। >> देवदानव.वीराणां वपु.र्नैवँविधं भवेत्। यादृशं राक्षसेन्द्रस्य वपु.रेतत् प्रकाशते 28।। >> सर्वे पर्वतसङ्काशा.-स्सर्वे पर्वतयोधिनः। सर्वे दीप्तायुधधरा योधा.श्चास्य महौजसः।। 29।। >> भाति राक्षसराजोसौ प्रदीप्तै.र्भीमविक्रमैः। भूतैः परिवृत.स्तीक्ष्णै-र्देहवद्भि.रिवान्तकः।। 30।। >> दिष्ट्याय.मद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरण.सम्भवं 31।। >> एव.मुक्त्वा ततो रामो धनु.रादाय वीर्यवान्। लक्ष्मणानुचर.स्तस्थौ समुद्धृत्य शरोत्तमम्।। 32।। >> तत.स्स रक्षोधिपति.र्महात्मा- रक्षांसि तान्याह महाबलानि। द्वारेषु चर्यागृहगोपुरेषु- सुनिर्वृता.स्तिष्ठत निर्विशङ्काः।। 33।। >> इहागतं मां सहितं भवद्भिर्- वनौकस.श्छिद्र.मिदं विदित्वा। शून्यां पुरीं दुष्प्रसहां प्रमथ्य- प्रधर्षयेयु.स्सहसा समेताः।। 34।। >> विसर्जयित्वा सहसा तत.स्तान्- गतेषु रक्षस्सु यथानियोगम्। व्यदारय.द्वानरसागरौघं- महाझषः पर्णमिवार्णवौघम्।। 35।। >> त.मापतन्तं सहसा समीक्ष्य- दीप्तेषु चापं युधि राक्षसेन्द्रम्। महत् समुत्पाट्य महीधराग्रं- दुद्राव रक्षोधिपतिं हरीशः।। 36।। >> तच्छैलशृङ्गं बहुवृक्षसानुं- प्रगृह्य चिक्षेप निशाचराय। त.मापतन्तं सहसा समीक्ष्य- बिभेद बाणै.स्तपनीयपुङ्खैः।। 37।। >> तस्मिन् प्रवृद्धोत्तम.सानुवृक्षे- शृङ्गे विकीर्णे पतिते पृथिव्याम्। महाहिकल्पं शर.मन्तकाभं- समाददे राक्षसलोकनाथः।। 38।। >> स तं गृहीत्वानिल.तुल्यवेगं- सविस्फुलिङ्ग. ज्वलनप्रकाशम्। बाणं महेन्द्राशनितुल्यवेगं- चिक्षेप सुग्रीववधाय रुष्टः।। 39।। >> स सायको रावणबाहुमुक्त.-श्शक्राशनिप्रख्यवपु.श्शिताग्रः। सुग्रीव.मासाद्य बिभेद वेगात्- गुहेरिता क्रौञ्च मिवोग्रशक्तिः।। 40।। >> स सायकार्तो विपरीतचेताः- कूजन् पृथिव्यां निपपात वीरः। तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं- नेदुः प्रहृष्टा युधि यातुधानाः।। 41।। >> ततो गवाक्षो गवय.स्सुदंष्ट्र-स्तथर्षभो ज्योतिमुखो नलश्च। शैलान् समुद्यम्य विवृद्धकायाः- प्रदुद्रुवु.स्तं प्रति राक्षसेन्द्रम्।। 42।। >> तेषां प्रहारान् स चकार मेघान्- रक्षोधिपो बाणगणै.श्शिताग्रैः। तान् वानरेन्द्रा.नपि बाणजालैर्- बिभेद जाम्बूनद.चित्रपुङ्खैः 43।। >> ते वानरेन्द्रा.स्त्रिदशारिबाणैर्- भिन्ना निपेतु.र्भुवि भीमरूपाः। ततस्तु तद्वानर सैन्य.मुग्रं- प्रच्छादयामास स बाणजालैः।। 44।। >> ते वध्यमानाः पतिताः प्रवीरा- नानद्यमाना भयशल्यविद्धाः। शाखामृगा रावणसायकार्ता- जग्मु.श्शरण्यं शरणं स्म रामम्।। 45।। >> ततो महात्मा स धनु.र्धनुष्मा-नादाय राम.स्सहसा जगाम। तं लक्ष्मणः प्राञ्जलि.रभ्युपेत्य- उवाच वाक्यं परमार्थयुक्तम्।। 46।। >> काम.मार्य.स्सुपर्याप्तो वधायास्य दुरात्मनः। विधमिष्या.म्यहं नीच.-मनुजानीहि मां प्रभो।। 47।। >> त.मब्रवी.न्महातेजा राम.स्सत्यपराक्रमः। गच्छ यत्नपरश्चापि भव लक्ष्मणसँयुगे।। 48।। >> रावणो हि महावीर्यो रणेद्भुतपराक्रमः। त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः 49।। >> तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय। चक्षुषा धनुषा यत्ना-द्रक्षात्मानं समाहितः।। 50।। >> राघवस्य वच.श्श्रुत्वा सम्परिष्वज्य पूज्य च। अभिवाद्य ततो रामं ययौ सौमित्रि.राहवम् 51।। >> स रावणं वारणहस्त.बाहुर्- ददर्श दीप्तोद्यत.भीमचापम्। प्रच्छादयन्तं शरवृष्टि जालै-स्तान् वानरान् भिन्नविकीर्ण.देहान्।। 52।। >> त.मालोक्य महातेजा हनूमा.न्मारुतात्मजः। निवार्य शरजालानि प्रदुद्राव स रावणम् 53।। >> रथं तस्य समासाद्य भुज.मुद्यम्य दक्षिणम्। त्रासय.न्रावणं धीमान् हनूमान् वाक्य.मब्रवीत्।। 54।। >> देवदानव.गन्धर्वैर् यक्षैश्च सह राक्षसैः। अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम्।। 55।। >> एष मे दक्षिणो बाहुः पञ्चशाख.स्समुद्यतः। विधमिष्यति ते देहा-द्भूतात्मानं चिरोषितम् 56।। >> श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः। संरक्तनयनः क्रोधा- दिदं वचन. मब्रवीत्।। 57।। >> क्षिप्रं प्रहर निश्शङ्कं- स्थिरां कीर्ति.मवाप्नुहि। तत.स्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर।। 58।। >> रावणस्य वच.श्श्रुत्वा वायुसूनु. र्वचोब्रवीत्। प्रहृतं हि मया पूर्व.-मक्षं स्मर सुतं तव।। 59।। >> एव.मुक्तो महातेजा रावणो राक्षसेश्वरः। आजघानानिलसुतं तलेनोरसि वीर्यवान्।। 60। स तलाभिहत.स्तेन चचाल च मुहु.र्मुहुः। स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः 61।। >> आजघानाभिसङ्क्रुद्ध-स्तलेनैवामरद्विषम्। तत.स्तलेनाभिहतो वानरेण महात्मना। 62।। >> दशग्रीव.स्समाधूतो यथा भूमिचलेचलः। सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम्।। 63।। >> ऋषयो वानरा.स्सिद्धा नेदु. र्देवा.स्सहासुरैः। अथाश्वास्य महातेजा रावणो वाक्य.मब्रवीत् 64।। >> साधु वानर वीर्येण श्लाघनीयोसि मे रिपुः। रावणेनैव.मुक्तस्तु मारुति.र्वाक्य.मब्रवीत्।। 65।। >> धि.गस्तु मम वीर्येण यस्त्वं जीवसि रावण। सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे।। 66।। >> तत.स्त्वां मामिका मुष्टि-र्नयिष्यामि यथाक्षयम्। ततो मारुतिवाक्येन क्रोध.स्तस्य तदाज्वलत् 67।। >> संरक्तनयनो यत्ना-न्मुष्टि.मुद्यम्य दक्षिणम्। पातयामास वेगेन वानरोरसि वीर्यवान्।। 68।। >> हनूमान् वक्षसि व्यूढे सञ्चचाल हतः पुनः। विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम्।। 69।। >> रथेनातिरथ.श्शीघ्रं नीलं प्रति समभ्यगात्। राक्षसाना.मधिपति.-र्दशग्रीवः प्रतापवान्।। 70। पन्नगप्रतिमै.र्भीमैः परमर्माभिभेदिभिः। शरै.रादीपयामास नीलं हरिचमूपतिम्।। 71।। >> स शरौघ.समायस्तो नीलः कपि.चमूपतिः। करेणैकेन शैलाग्रं रक्षोधिपतयेसृजत् 72।। >> हनूमा.नपि तेजस्वी समाश्वस्तो महामनाः। विप्रेक्षमाणो युद्धेप्सु.-स्सरोष.मिद. मब्रवीत् 73।। >> नीलेन सह सँयुक्तं रावणं राक्षसेश्वरम्। अन्येन युध्यमानस्य न युक्त.मभिधावनम् 74।। >> रावणोपि महातेजा-स्तच्छृङ्गं सप्तभि.श्शरैः। आजघान सुतीक्ष्णाग्रै-स्त.द्विकीर्णं पपात ह।। 75।। >> त.द्विकीर्णं गिरे.श्शृङ्गं दृष्ट्वा हरिचमूपतिः। कालाग्नि.रिव जज्वाल क्रोधेन परवीरहा।। 76।। >> सोश्वकर्णा.न्धवान् सालां-श्चूतांश्चापि सुपुष्पितान्। अन्यांश्च विविधा.न्वृक्षा न्नील.श्चिक्षेप सँयुगे 77।। >> स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः। अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम्। 78।। >> अभिवृष्ट.श्शरौघेण मेघेनेव महाचलः। ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह 79।। >> पावकात्मज.मालोक्य ध्वजाग्रे समवस्थितम्। जज्वाल रावणः क्रोधा-त्ततो नीलो ननाद च।। 80। ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्। लक्ष्मणोथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः।। 81।। >> रावणोपि महातेजाः कपिलाघव.विस्मितः। अस्त्र.माहारयामास दीप्त.माग्नेय.मद्भुतम् 82।। >> ततस्ते चुक्रुशु.र्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः। नीललाघव.सम्भ्रान्तं दृष्ट्वा रावण.माहवे 83।। >> वानराणां च नादेन संरब्धो रावण.स्तदा। सम्भ्रमाविष्ट.हृदयो न किञ्चित् प्रत्यपद्यत 84।। >> आग्नेयेनाथ सँयुक्तं गृहीत्वा रावण.श्शरम्। ध्वजशीर्षस्थितं नील-मुदैक्षत निशाचरः 85।। >> ततोब्रवी.न्महातेजा रावणो राक्षसेश्वरः। कपे लाघवयुक्तोसि मायया परयानया।। 86।। >> जीवितं खलु रक्षस्व यदि शक्नोषि वानर। तानि तान्यात्मरूपाणि सृजसे त्व.मनेकशः 87।। >> तथापि त्वां मया मुक्त.-स्सायकोस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविता.द्भ्रंशयिष्यति 88।। >> एव.मुक्त्वा महाबाहू- रावणो राक्षसेश्वरः। सन्धाय बाण मस्त्रेण चमूपति. मताडयत् 89।। >> सोस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्यमान.स्सहसा निपपात महीतले 90। पितृमाहात्म्य.सँयोगा-दात्मन.श्चापि तेजसा। जानुभ्या.मपत.द्भूमौ न च प्राणै.र्व्ययुज्यत 91।। >> विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः। रथेनाम्बुदनादेन सौमित्रि.मभिदुद्रुवे 92।। >> आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन्। धनु.र्विस्फारयामास कम्पय.न्निव मेदिनीं 93। त.माह सौमित्रि.रदीनसत्त्वो- विस्फारयन्तं धनु.रप्रमेयम्। अभ्येहि मामेव निशाचरेन्द्र- न वानरां.स्त्वं प्रति योद्धु.मर्हसि।। 94।। >> स तस्य वाक्यं परिपूर्णघोषं- ज्याशब्द.मुग्रं च निशम्य राजा। आसाद्य सौमित्रि.मवस्थितं तं- कोपान्वितं वाक्य. मुवाच रक्षः।। 95।। >> दिष्ट्यासि मे राघव दृष्टिमार्गं- प्राप्तोन्तगामी विपरीतबुद्धिः। अस्मिन् क्षणे यास्यसि मृत्युदेशं- संसाद्यमानो मम बाणजालैः।। 96।। >> त.माह सौमित्रि.रविस्मयानो- गर्जन्त.मुद्वृत्त.सिताग्रदंष्ट्रम्। राजन् न गर्जन्ति महाप्रभावा- विकत्थसे पापकृतां वरिष्ठ।। 97। जानामि वीर्यं तव राक्षसेन्द्र- बलं प्रतापं च पराक्रमं च। अवस्थितोहं शरचाप.पाणि-रागच्छ किं मोघविकत्थनेन।। 98।। >> स एव.मुक्तः कुपित.स्ससर्ज- रक्षोधिप.स्सप्तशरान् सुपुङ्खान्। तान् लक्ष्मणः काञ्चन चित्रपुङ्खै-श्चिच्छेद बाणै.र्निशिताग्रधारैः।। 99।। >> तान् प्रेक्षमाण.स्सहसा निकृत्तान्- निकृत्तभोगा.निव पन्नगेन्द्रान्। लङ्केश्वरः क्रोधवशं जगाम- ससर्ज चान्यान् निशितान् पृषत्कान्।। 1ं0।। >> स बाणवर्षं तु ववर्ष तीव्रं- रामानुजः कार्मुकसम्प्रयुक्तम्। क्षुरार्धचन्द्रोत्तम.कर्णिभल्लै- श्शरांश्च चिच्छेद न चुक्षुभे च।। 1ं1।। >> स बाणजाला.न्यथ तानि तानि- मोघानि पश्यं.स्त्रि त्रिदशारि.राजः। विसिष्मिये लक्ष्मणलाघवेन- पुनश्च बाणा.न्निशितान् मुमोच।। 102।। >> स लक्ष्मणश्चाशु शरा.न्छिताग्रान्- महेन्द्रवज्राशनि.तुल्यवेगान्। सन्धाय चापे ज्वलनप्रकाशान्- ससर्ज रक्षोधिपते.र्वधाय।। 103।। >> स तान् प्रचिच्छेद हि राक्षसेन्द्र-श्छित्त्वा च तान् लक्ष्मण.माजघान। शरेण कालाग्निसमप्रभेण- स्वयम्भुदत्तेन ललाटदेशे।। 104।। >> स लक्ष्मणो रावणसायकार्त-श्चचाल चापं शिथिलं प्रगृह्य। पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्रा-च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः।। 105।। >> निकृत्तचापं त्रिभि.राजघान- बाणै.स्तदा दाशरथि.श्शिताग्रैः। स सायकार्तो विचचाल राजा- कृच्छ्राच्च सञ्ज्ञां पुन. राससाद।। 106। स कृत्तचाप.श्शरताडितश्च- स्वेदार्द्रगात्रो रुधिरावसिक्तः। जग्राह शक्तिं समुदग्रशक्ति-स्स्वयम्भुदत्तां युधि देवशत्रुः।। 107।। >> स तां विधूमानल.सन्निकाशां- वित्रासिनीं वानरवाहिनीनाम्। चिक्षेप शक्तिं तरसा ज्वलन्तीं- सौमित्रये राक्षसराष्ट्रनाथः।। 108।। >> ता.मापतन्तीं भरतानुजोस्त्रैर्- जघान बाणैश्च हुताग्निकल्पैः। तथापि सा तस्य विवेश शक्तिर्- भुजान्तरं दाशरथे.र्विशालम्।। 109।। >> स शक्तिमान्छक्ति समाहत.स्सन्- मुहुः प्रजज्ज्वाल रघुप्रवीरः। तं विह्वलन्तं सहसाभ्युपेत्य- जग्राह राजा तरसा भुजाभ्याम्।। 110।। >> हिमवान् मन्थरो मेरु.-स्त्रैलोक्यं वा सहामरैः। शक्यं भुजाभ्या.मुद्धर्तुं न शक्यो भरतानुजः।। 111।। >> शक्त्या ब्राह्म्यापि सौमित्रि.-स्ताडितस्तु.स्तनान्तरे। विष्णो.रचिन्त्यं स्वं भाग-मात्मानं प्रत्यनुस्मरत्।। 112।। >> ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः। तं पीडयित्वा बाहुभ्या-मप्रभु.र्लङ्घनेभवत्।। 113।। >> अथैनं वैष्णवं भागं मानुषं देह.मास्थितम्। अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत्।। 114।। >> आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना। तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः।। 115।। >> जानुभ्या.मपत.द्भूमौ चचाल च पपात च। आस्यै.स्सनेत्रश्रवणै-र्ववाम रुधिरं बहु।। 116।। >> विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत्। विसञ्ज्ञो मूर्छित.श्चासी-न्न च स्थानं स.मालभत्।। 117।। >> विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्। ऋषयो वानरा.स्सर्वे नेदु.र्देवा.स्सवासवाः।। 11 8।। >> हनूमा.नपि तेजस्वी लक्ष्मणं रावणार्दितम्। अनय.द्राघवाभ्याशं बाहुभ्यां परिगृह्य तम्।। 119।। >> वायुसूनो.स्सुहृत्त्वेन भक्त्या परमया च सः। शत्रूणा.मप्रकम्प्योपि लघुत्व.मगम.त्कपेः।। 120। तं समुत्सृज्य सा शक्ति.-स्सौमित्रिं युधि दुर्जयम्। रावणस्य रथे तस्मि.न्स्थानं पुन.रुपागता।। 121।। >> आश्वस्तश्च विशल्यश्च लक्ष्मण.श्शत्रुसूदनः। विष्णो.र्भाग.ममीमांस्य-मात्मानं प्रत्यनुस्मरन्।। 122।। >> रावणोपि महातेजाः प्राप्य सञ्ज्ञां महाहवे। आददे निशितान् बाणान् जग्राह च मह.द्धनुः।। 123।। >> निपातित.महावीरां वानराणां महाचमूम्। राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत्।। 124।। >> अथैन.मुपसङ्गम्य हनूमान् वाक्य.मब्रवीत्। मम पृष्ठं स.मारुह्य राक्षसं शास्तु.मर्हसि।। 125।। >> विष्णु.र्यथा गरुत्मन्तं बलवन्तं समाहितः।। >> तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्।। 126।। >> आरुरोह महाशूरो हनूमन्तं महाकपिम्। रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः।। 127।। >> त.मालोक्य महातेजाः प्रदुद्राव स राघवः। वैरोचन.मिव क्रुद्धो विष्णु.रभ्युद्यतायुधः।। 128।। >> ज्याशब्द.मकरोत् तीव्रं वज्रनिष्पेष.निस्वनम्। गिरा गम्भीरया रामो राक्षसेन्द्र.मुवाच ह।। 129।। >> तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रिय.मीदृशम्। क्व नु राक्षसशार्दूल गतो मोक्ष.मवाप्स्यसि।। 130।। >> यदीन्द्रवैवस्वत भास्करान् वा- स्वयम्भु.वैश्वानर.शङ्करान् वा। गमिष्यसि त्वं दश वा दिशो वा- तथापि मे नाद्य गतो विमोक्ष्यसे।। 131।। >> यश्चैव शक्त्याभिहत.स्त्वयाद्य- इच्छन् विषादं सहसाभ्युपेतः। स एष रक्षोगणराज मृत्यु-स्सपुत्रदारस्य तवाद्य युद्धे।। 132।। >> एतेन चात्यद्भुत.दर्शनानि- शरै.र्जनस्थान.कृतालयानि। चतुर्दशा.नात्त.वरायुधानि- रक्षस्सहस्राणि निषूदितानि।। 133।। >> राघवस्य वच.श्श्रुत्वा राक्षसेन्द्रो महाकपिम्। वायुपुत्रं महावीर्यं वहन्तं राघवं रणे। आजघान शरै.स्तीक्ष्णैः कालानल.शिखोपमैः।। 134। राक्षसेनाहवे तस्य ताडितस्यापि सायकैः। स्वभावतेजोयुक्तस्य भूय.स्तेजो व्यवर्धत।। 135।। >> ततो रामो महातेजा रावणेन कृतव्रणम्। दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वश.मेयिवान्।। 136।। >> तस्याभिसङ्क्रम्य रथं सचक्रं- साश्वध्वज.च्छत्र.महापताकम्। ससारथिं साशनि.शूलखड्गं- रामः प्रचिच्छेद शरै.स्सुपुङ्खैः।। 137।। >> अथेन्द्रशत्रुं तरसा जघान- बाणेन वज्राशनि.सन्निभेन। भुजान्तरे व्यूढसुजातरूपे- वज्रेण मेरुं भगवा.निवेन्द्रः।। 138।। >> यो वज्रपाताशनि.सन्निपातान्- न चुक्षुभे नापि चचाल राजा। स रामबाणाभिहतो भृशार्त-श्चचाल चापं च मुमोच वीरः।। 139।। >> तं विह्वलन्तं प्रसमीक्ष्य राम-स्समाददे दीप्त मथार्धचन्द्रम्। तेनार्कवर्णं सहसा किरीटं- चिच्छेद रक्षोधिपते.र्महात्मा।। 140। तं निर्विषाशीविष.सन्निकाशं- शान्तार्चिषं सूर्य मिवाप्रकाशम्। गतश्रियं कृत्तकिरीटकूट-मुवाच रामो युधि राक्षसेन्द्रम्।। 141।। >> कृतं त्वया कर्म महत् सुभीमं- हतप्रवीरश्च कृत.स्त्वयाहम्। तस्मात् परिश्रान्त इति व्यवस्य- न त्वं शरै.र्मृत्युवशं नयामि।। 142।। >> गच्छानुजानामि रणार्दित.स्त्वं- प्रविश्य रात्रिञ्चर राज लङ्काम्। आश्वास्य निर्याहि रथी च धन्वी- तदा बलं द्रक्ष्यसि मे रथस्थः।। 143।। >> स एव.मुक्तो हतदर्पहर्षो- निकृत्तचाप.स्सहताश्वसूतः। शरार्दितः कृत्तमहाकिरीटो- विवेश लङ्कां सहसा स राजा।। 145।। >> तस्मिन् प्रविष्टे रजनीचरेन्द्रे- महाबले दानवदेवशत्रौ। हरीन् विशल्यान् सहलक्ष्मणेन- चकार रामः परमाहवाग्रे।। 146।। >> तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ- सुरासुरा भूतगणा दिशश्च। ससागरा.स्सर्षिमहोरगाश्च- तथैव भूम्यम्बुचराश्च हृष्टाः।। 147।। >> श्रीमद्रामायणे युद्धकाण्डे एकोनषष्टितमस्सर्गः। ==00==