Already Registered? Login
• Ramayana Sundara Kanda (2448 Shlokas) सुन्दरकाण्डम् 4 सर्गः 1 सागरलङ्घनम् 4 सर्गः 2 निशागम प्रतीक्षा 40 सर्गः 3 लङ्काधिदेवता विजयः 50 सर्गः 4 लङ्कापुरी प्रवेशः 59 सर्गः 5 भवन विचयः 64 सर्गः 6 रावणगृहावेक्षणम् 71 सर्गः 7 पुष्पकदर्शनम् 79 सर्गः 8 पुष्पकानुवर्णनम् 83 सर्गः 9 सङ्कुलान्तःपुरम् 85 सर्गः 10 मन्दोदरीदर्शनम् 98 सर्गः 11 पानभूमिविचयः 107 सर्गः 12 हनूमद्विषादः 115 सर्गः 13 हनुमन्निर्वेदः 120 सर्गः 14 अशोकवनिका विचयः 132 सर्गः 15 सीतोपलम्भः 141 सर्गः 16 हनुमत् परितापः 151 सर्गः 17 राक्षसीपरिवारः 157 सर्गः 18 रावणागमनम् 162 सर्गः 19 कृच्छ्रगतसीतोपमाः 168 सर्गः 20 प्रणय प्रार्थना 172 सर्गः 21 रावणतृणीकरणम् 178 सर्गः 22 मासद्वयावधिकरणम् 184 सर्गः 23 राक्षसी प्ररोचनम् 192 सर्गः 24 राक्षसीनिर्भर्त्सनम् 196 सर्गः 25 सीतानिर्वेदः 204 सर्गः 26 प्राणत्यागसम्प्रधारणम् 207 सर्गः 27 त्रिजटा स्वप्नः 216 सर्गः 28 उद्बन्धन व्यवसायः 225 सर्गः 29 शुभनिमित्तानि 231 सर्गः 30 कृत्याकत्यविचिन्तनम् 233 सर्गः 31 रामवृत्तसंश्रवः 240 सर्गः 32 सीतावितर्कः 244 सर्गः 33 हनुमज्जानकीसंवादोपक्रमः 247 सर्गः 34 रावणशङ्कानिवारणम् 252 सर्गः 35 विश्वासोत्पादनम् 259 सर्गः 36 अङ्गुलीयक प्रदानम् 274 सर्गः 37 सीताप्रत्यायने अनौचित्यम् 283 सर्गः 38 वायसवृत्तान्त कथनम् 295 सर्गः 39 हनुमत्सन्देशः 307 सर्गः 40 हनुमत्प्रेषणम् 316 सर्गः 41 प्रमदावनभञ्जनम् 320 सर्गः 42 किङ्करनिषूदनम् 325 सर्गः 43 चैत्यप्रासाद दाहः 332 सर्गः 44 जम्बुमालि वधः 337 सर्गः 45 अमात्यपुत्रवधः 340 सर्गः 46 सेनापतिपञ्चक वधः 343 सर्गः 47 अक्षकुमार वधः 350 सर्गः 48 इन्द्रजिदभियोगः 361 सर्गः 49 रावणप्रभाव दर्शनम् 374 सर्गः 50 प्रहस्तप्रश्नः 377 सर्गः 51 हनूमदुपदेशः 380 सर्गः 52 दूतवधनिवारणम् 388 सर्गः 53 पावकशैत्यम् 394 सर्गः 54 लङ्कादाहः 401 सर्गः 55 हनुमद्विभ्रमः 411 सर्गः 56 प्रतिप्रयाणोत्पतनम् 418 सर्गः 57 प्रत्यागमनम् 424 सर्गः 58 वृत्तान्तानुकथनम् 433 सर्गः 59 अनन्तरकार्य प्ररोचनम् 460 सर्गः 60 अङ्गद जाम्बवत् संवादः 466 सर्गः 61 मधुवन प्रवेशः 467 सर्गः 62 दधिमुख खिलीकारः 472 सर्गः 63 सुग्रीवहर्षः 479 सर्गः 64 आगमनम् 484 सर्गः 65 चूडामणि प्रदानम् 491 सर्गः 66 सीताभाषित प्रश्नः 496 सर्गः 67 सीताभाषितानुवचनम् 498 सर्गः 68 समाश्वासान वचनानुवादः 505 सुन्दरकाण्डम् सर्गः 1 सागरलङ्घनम् • ततो रावणनीतायाः सीतायाः शत्रुकर्शनः। इयेष पदमन्वेष्टुं चारणाचरिते पथि।। • दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्र.शिरोग्रीवो गवांपति.रिवाबभौ।। • अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्।। • द्विजान् वित्रासयन् धीमा-नुरसा पादपान् हरन्। मृगांश्च सुबहू.न्निघ्नन् प्रवृद्ध इव केसरी।। • नीललोहितमांजिष्ठ-पत्रवर्णैः सितासितैः। स्वभावविहितै.श्चित्रै-र्धातुभिः समलङ्कृतम्। • कामरूपिभि.राविष्ट-मभीक्ष्णं सपरिच्छदैः। यक्षकिन्नर.गन्धर्वै-र्देवकल्पैश्च पन्नगैः।। • स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवर.स्तत्र ह्रदे नाग इवाबभौ।। • स सूर्याय महेन्द्राय पवनाय स्वयंभुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्।। • अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्।। • प्लवङ्गप्रवरै.र्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु।। • निष्प्रमाणशरीरः सन् लिलङ्घयिषु.रर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्।। • स चचालाचलश्चापि मुहूर्तं कपिपीडितः। तरूणां पुष्पिताग्राणां सर्वं पुष्प.मशातयत्।। • तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा।। • तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः।। • पीड्यमानस्तु बलिना महेन्द्र.स्तेन पर्वतः। रीती.र्निर्वर्तयामास काञ्चनाञ्जन.राजतीः।। • मुमोच च शिलाः शैलो- विशालाः समन.श्शिलाः। मध्यमेनार्चिषा जुष्टा धूमराजी.रिवानलः।। • गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि भूतानि विनेदु.र्विकृतैः स्वरैः।। • स महासत्त्व.सन्नादः शैलपीडा.निमित्तजः। पृथिवीं पूरयामास दिश.श्चोपवनानि च।। • शिरोभिः पृथुभिः सर्पा व्यक्त.स्वस्तिक.लक्षणैः। वमन्तः पावकं घोरं ददंशु.र्दशनैः शिलाः।। • ता.स्तदा सविषै.र्दष्टाः कुपितै.स्तै.र्महाशिलाः। जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा।। • यानि चौषधजालानि तस्मिन् जातानि पर्वते। विषघ्ना.न्यपि नागानां न शेकुः शमितुं विषम्।। भिद्यतेऽयं गिरि.र्भूतै-रिति मत्त्वा तपस्विनः। • त्रस्ता विद्याधरा.स्तस्मा.-दुत्पेतुः स्त्रीगणै.स्सह। पानभूमिगतं हित्वा हैम.मासवभाजनम्। • पात्राणि च महार्हाणि करकांश्च हिरण्मयान्। लेह्या.नुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्। • कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे। • हार.नूपुरकेयूर-पारिहार्यधराः स्त्रियः। विस्मिताः सस्मिता.स्तस्थु-राकाशे रमणैः सह।। • दर्शयन्तो महाविद्यां विद्याधर.महर्षयः। सहिता.स्तस्थु.राकाशे वीक्षाञ्चक्रुश्च पर्वतम्।। • शुश्रुवुश्च तदा शब्द-मृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे।। • एष पर्वतसङ्काशो हनुमान् मारुतात्मजः। तितीर्षति महावेग-स्समुद्रं मकरालयम्।। • रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तु.मिच्छति।। • इति विद्याधराः श्रुत्वा वच.स्तेषां महात्मनाम्। त.मप्रमेयं ददृशुः पर्वते वानरर्षभम्।। • दुधुवे च स रोमाणि चकम्पे चाचलोपमः। ननाद सुमहानादं सुमहा.निव तोयदः।। • आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभि.श्चितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्।। • तस्य लाङ्गूल.माविद्ध-मात्तवेगस्य पृष्ठतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः।। • बाहू संस्तम्भयामास महापरिघ.सन्निभौ। ससाद च कपिः कट्यां चरणौ सञ्चुकोच च।। • संहृत्य च भुजौ श्रीमां-स्तथैव च शिरोधराम्। तेज.स्सत्त्वं तथा वीर्य-माविवेश स वीर्यवान्।। • मार्ग.मालोकय.न्दूरा-दूर्ध्वं प्रणिहितेक्षणः। रुरोध हृदये प्राणा-नाकाश.मवलोकयन्।। • पद्भ्यां दृढ.मवस्थानं कृत्वा स कपिकुञ्जरः। निकुञ्च्य कर्णौ हनुमा-नुत्पतिष्यन् महाबलः। वानरान् वानरश्रेष्ठ इदं वचन.मब्रवीत्।। • यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः। गच्छे.त्तद्व.द्गमिष्यामि लङ्कां रावणपालिताम्।। • न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्। अनेनैव हि वेगेन गमिष्यामि सुरालयम्।। • यदि वा त्रिदिवे सीतां न द्रक्ष्या.म्यकृतश्रमः। बद्ध्वा राक्षसराजान-मानयिष्यामि रावणम्।। • सर्वथा कृतकार्योऽह-मेष्यामि सह सीतया। आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्।। • एव.मुक्त्वा तु हनुमा-न्वानरा.न्वानरोत्तमः। उत्पपाताथ वेगेन वेगवा.नविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः।। • समुत्पतति तस्मिंस्तु वेगा.त्ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः।। • स मत्तको यष्टिभकान् पादपान् पुष्पशालिनः। उद्वह.न्नूरुवेगेन जगाम विमलेऽम्बरे।। • ऊरुवेगोद्धता वृक्षा मुहूर्तं कपि.मन्वयुः। प्रस्थितं दीर्घ.मध्वानं स्वबन्धुमिव बान्धवाः।। • त.मूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मु.र्हनूमन्तं सैन्या इव महीपतिम्।। • सुपुष्पिताग्रै.र्बहुभिः पादपै.रन्वितः कपिः। हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः।। • सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये।। • स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः। शुशुभे मेघसङ्काशः खद्योतै.रिव पर्वतः।। • विमुक्ता.स्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः। अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा।। • लघुत्वेनोपपन्नं त-द्विचित्रं सागरेऽपतत्। द्रुमाणां विविधं पुष्पं कपिवायु.समीरितम्। ताराचितमिवाकाशं प्रबभौ स महार्णवः।। • पुष्पौघेणानुबद्धेन नानावर्णेन वानरः। बभौ मेघ इवाकाशे विद्युद्गण.विभूषितः।। • तस्य वेगसमाधूतैः पुष्पै.स्तोय.मदृश्यत। ताराभि.रभिरामाभि-रुदिताभि.रिवाम्बरम्।। • तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्रा.द्विनिष्क्रान्तौ पञ्चास्या.विव पन्नगौ।। • पिब.न्निव बभौ चापि सोर्मिमालं महार्णवम्। पिपासुरिव चाकाशं ददृशे स महाकपिः।। • तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशेते पर्वतस्था.विवानलौ।। • पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले। चक्षुषी सम्प्रकाशेते चन्द्रसूर्या.विवोदितौ।। • मुखं नासिकया तस्य ताम्रया ताम्र.माबभौ। सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम्।। • लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्।। • लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः।। • स्फिग्देशेनाभिताम्रेण रराज स महाकपिः। महता दारितेनेव गिरि.र्गैरिकधातुना।। • तस्य वानरसिंहस्य प्लवमानस्य सागरम्। कक्षान्तरगतो वायु-र्जीमूत इव गर्जति।। • खे यथा निपत.त्युल्का ह्युत्तरान्ता.द्विनिस्सृता। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः।। • पतत्पतङ्ग.सङ्काशो व्यायतः शुशुभे कपिः। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया।। • उपरिष्टा.च्छरीरेण छायया चावगाढया। सागरे मारुताविष्टा नौ.रिवासी.त्तदा कपिः।। • यं यं देशं समुद्रस्य जगाम स महाकपिः। स स तस्योरुवेगेन सोन्माद इव लक्ष्यते।। • सागरस्योर्मि.जालाना-मुरसा शैलवर्ष्मणाम्। अभिघ्नं.स्तु महावेगः पुप्लुवे स महाकपिः।। • कपिवातश्च बलवान् मेघवातश्च निस्सृतः। सागरं भीमनिर्घोषं कम्पयामासतु.र्भृशम्।। • विकर्ष.न्नूर्मिजालानि बृहन्ति लवणाम्भसि। पुप्लुवे कपिशार्दूलो विकिर.न्निव रोदसी।। • मेरुमन्दर.सङ्काशा-नुद्धतान् स महार्णवे। अत्यक्राम.न्महावेग-स्तरङ्गान् गणय.न्निव।। • तस्य वेगसमुद्धूतं जलं सजलदं तदा। अम्बरस्थं विबभ्राज शारदाभ्र.मिवाततम्।। • तिमि.नक्र.झषाः कूर्मा दृश्यन्ते विवृता.स्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्।। • प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः। व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे।। • दशयोजन.विस्तीर्णा त्रिंशद्योजन.मायता। छाया वानरसिंहस्य जले चारुतराभवत्।। • श्वेताभ्र.घनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया वितता लवणाम्भसि।। • शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवा.निव पर्वतः।। • येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः।। • आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा।। • पाण्डुरारुण.वर्णानि नीलमाञ्जिष्ठकानि च। कपिना कृष्यमाणानि महाभ्राणि चकाशिरे।। • प्रविश.न्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते।। • प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा। ववर्षुः पुष्पवर्षाणि देवगन्धर्व.दानवाः।। • तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम्। सिषेवे च तदा वायू- रामकार्यार्थसिद्धये।। • ऋषय.स्तुष्टुवु.श्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम्।। • नागाश्च तुष्टुवु.र्यक्षा रक्षांसि विबुधाः खगाः। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्।। • तस्मिन् प्लवग.शार्दूले प्लवमाने हनूमति। इक्ष्वाकु.कुलमानार्थी चिन्तयामास सागरः।। • साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमत:। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्।। • अह.मिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं नावसीदितु.मर्हति।। • तथा मया विधातव्यं विश्रमेत यथा कपिः। शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति।। • इति कृत्वा मतिं साध्वीं समुद्र.श्छन्न.मम्भसि। हिरण्यनाभं मैनाक-मुवाच गिरिसत्तमम्।। • त्वमिहासुरसंघानां पातालतल.वासिनाम्। देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः।। • त्व.मेषां जातवीर्याणां पुन.रेवो.त्पतिष्यताम्। पातालस्याप्रमेयस्य द्वार.मावृत्य तिष्ठसि।। • तिर्य.गूर्ध्व.मधश्चैव शक्ति.स्ते शैल वर्धितुम्। तस्मा.त्संचोदयामि त्वा-मुत्तिष्ठ गिरिसत्तम।। • स एष कपिशार्दूल-स्त्वा.मुपर्येति वीर्यवान्। हनुमा.न्रामकार्यार्थं भीमकर्मा ख.माप्लुतः।। • अस्य साह्यं मया कार्य-मिक्ष्वाकुकुल.वर्तिनः। मम हीक्ष्वाकवः पूज्याः परं पूज्यतमा.स्तव।। • कुरु साचिव्य.मस्माकं न नः कार्य.मतिक्रमेत्। कर्तव्य.मकृतं कार्यं सतां मन्यु.मुदीरयेत्।। • सलिला.दूर्ध्व.मुत्तिष्ठ तिष्ठ.त्वेष कपि.स्त्वयि। अस्माक.मतिथि.श्चैव पूज्यश्च प्लवतां वरः।। • चामीकर.महानाभ देवगन्धर्व.सेवित। हनुमां.स्त्वयि विश्रान्त-स्तत.श्शेषं गमिष्यति।। स एष कपिशार्दूल-स्त्वा.मुपर्येति वीर्यवान्।। • काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातु.मर्हसि।। • हिरण्यनाभो मैनाको निशम्य लवणाम्भसः। उत्पपात जला.त्तूर्णं महाद्रुम.लतायुतः।। • स सागरजलं भित्त्वा बभूवाभ्युत्थित.स्तदा। यथा जलधरं भित्त्वा दीप्तरश्मि.र्दिवाकरः।। • स महात्मा मुहूर्तेन सर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः। • शातकुम्भमयैः शृङ्गैः सकिन्नर.महोरगैः। आदित्योदय.सङ्काशै-रालिखद्भि.रिवाम्बरम्। • तप्त.जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसङ्काश-मभव.त्काञ्चनप्रभम्।। • जातरूपमयैः शृङ्गै-र्भ्राजमानैः स्वयंप्रभैः। आदित्यशत.सङ्काशः सोऽभव.द्गिरिसत्तमः।। • तमुत्थित.मसङ्गेन हनूमा.नग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽय.मिति निश्चितः।। • स त.मुच्छ्रित.मत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूत.मिव मारुतः।। • स तथा पातित.स्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य कपे.र्वेगं जहर्ष च ननन्द च।। • त.माकाशगतं वीर-माकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्य-मब्रवी.त्पर्वतः कपिम्। • मानुषं धारयन् रूप-मात्मनः शिखरे स्थितः।। • दुष्करं कृतवा.न्कर्म त्व.मिदं वानरोत्तम। निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्।। • राघवस्य कुले जातै-रुदधिः परिवर्धितः। स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः।। • कृते च प्रतिकर्तव्य-मेष धर्मः सनातनः। सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति।। • त्वन्निमित्त.मनेनाहं बहुमाना.त्प्रचोदितः। तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम्। • योजनानां शतं चापि कपिरेष समाप्लुतः। तव सानुषु विश्रान्तः शेषं प्रक्रमता.मिति। • तदिदं गन्धव.त्स्वादु कन्दमूलफलं बहु। तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि।। • अस्माक.मपि सम्बन्ध: कपिमुख्य त्वयास्ति वै। प्रख्यात.स्त्रिषु लोकेषु महागुण.परिग्रहः।। • वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज। तेषां मुख्यतमं मन्ये त्वा.महं कपिकुञ्जर।। • अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मं जिज्ञासमानेन किं पुन.स्त्वादृशो महान्।। • त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्र.स्तस्यैव वेगेन सदृशः कपिकुञ्जर।। • पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः। तस्मा.त्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्।। • पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। ते हि जग्मु.र्दिश.स्सर्वा गरुडानिलवेगिनः।। • तत.स्तेषु प्रयातेषु देवसङ्घा महर्षिभिः। भूतानि च भयं जग्मु-स्तेषां पतनशङ्कया।। • ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षां.श्चिच्छेद वज्रेण तत्र तत्र सहस्रशः।। • स मा.मुपगतः क्रुद्धो वज्र.मुद्यम्य देवराट्। ततोहं सहसा क्षिप्त-श्श्वसनेन महात्मना।। • अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्ष.समग्रश्च तव पित्राभिरक्षितः।। • ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः। त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः।। • अस्मि.न्नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्व.मर्हसि महाकपे।। • श्रमं मोक्षय पूजां च गृहाण कपिसत्तम। प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्।। • एव.मुक्तः कपिश्रेष्ठ-स्तं नगोत्तम.मब्रवीत्। प्रीतोऽस्मि कृत.मातिथ्यं मन्यु.रेषोऽपनीयताम्।। • त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्य.मिहान्तरे।। • इत्युक्त्वा पाणिना शैल.-मालभ्य हरिपुङ्गवः। जगामाकाश.माविश्य वीर्यवान् प्रहस.न्निव।। • स पर्वत.समुद्राभ्यां बहुमाना.दवेक्षितः। पूजित.श्चोपपन्नाभि-राशीर्भि.रनिलात्मजः।। • अथोर्ध्वं दूर.मुत्प्लुत्य हित्वा शैलमहार्णवौ। पितुः पन्थान.मास्थाय जगाम विमलेऽम्बरे।। • भूय.श्चोर्ध्वं गतिं प्राप्य गिरिं त.मवलोकयन्। वायुसूनु.र्निरालम्बे जगाम विमलेऽम्बरे।। • तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः।। • देवता.श्चाभवन् हृष्टा-स्तत्रस्था.स्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः।। • उवाच वचनं धीमान् परितोषा.त्सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वय.मेव शचीपतिः।। • हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्।। • साह्यं कृतं ते सुमह-द्विक्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भयस्य भये सति।। • रामस्यैष हितायैव याति दाशरथे.र्हरिः। सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया।। • ततः प्रहर्ष.मगम-द्विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्।। • स वै दत्तवरः शैलो बभूवावस्थित.स्तदा। हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम्।। • ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम्।। • अयं वातात्मजः श्रीमा-न्प्लवते सागरोपरि। हनुमा.न्नाम तस्य त्वं मुहूर्तं विघ्न.माचर।। • राक्षसं रूप.मास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम्।। • बल.मिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्य.त्युपायेन विषादं वा गमिष्यति।। • एव.मुक्ता तु सा देवी दैवतै.रभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः। • विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्त.-मावृत्येद.मुवाच ह।। • मम भक्षः प्रदिष्ट.स्त्व-मीश्वरै.र्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्।। • एव.मुक्तः सुरसया प्राञ्जलि.र्वानरर्षभः। प्रहृष्टवदनः श्रीमा-निदं वचन.मब्रवीत्।। • रामो दाशरथि.र्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।। • अन्यकार्य.विषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी।। • तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तु.मर्हसि रामस्य साह्यं विषयवासिनि।। • अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।। • एव.मुक्ता हनुमता सुरसा कामरूपिणी। अब्रवी.न्नातिवर्ते.न्मां कश्चि.देष वरो मम।। • तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्य.मब्रवीत्। बलं जिज्ञासमाना वै नागमाता हनूमतः।। • प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा। व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः।। • एव.मुक्तः सुरसया क्रुद्धो वानरपुङ्गवः। अब्रवी.त्कुरु वै वक्त्रं येन मां विषहिष्यसे।। • इत्युक्त्वा सुरसां क्रुद्धो दशयोजन.मायतः। दशयोजन.विस्तारो बभूव हनुमां.स्तदा।। • तं दृष्ट्वा मेघसङ्काशं दशयोजन.मायतम्। चकार सुरसा चास्यं विंशद्योजन.मायतम्।। • तान्दृष्ट्वा विस्तृतास्यान्तु वायुपुत्र.स्सुबुद्धिमान्। हनुमांस्तु ततः क्रुद्ध-स्त्रिंशद्योजन.मायतः। • चकार सुरसा वक्त्रं चत्वारिंश.त्तथोच्छ्रितम्। बभूव हनुमान् वीरः पञ्चाश.द्योजनोच्छ्रितः।। • चकार सुरसा वक्त्रं षष्टियोजन.मायतम्। तथैव हनुमान् वीरः सप्ततीयोजनोच्छ्रितः।। • चकार सुरसा वक्त्र-मशीतीयोजनायतम्। हनुमा.नचलप्रख्यो नवतीयोजनोच्छ्रितः।। चकार सुरसा वक्त्रं शतयोजन.मायतम्। • तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान्। दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्। सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः।। • सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमा.निदं वचन.मब्रवीत्।। • प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते। गमिष्ये यत्र वैदेही सत्यं चासीद्वर.स्तव।। • तं दृष्ट्वा वदना.न्मुक्तं चन्द्रं राहुमुखा.दिव। अब्रवी.त्सुरसा देवी स्वेन रूपेण वानरम्।। • अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानयस्व वैदेहीं राघवेण महात्मना।। • तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधु साध्विति भूतानि प्रशशंसु.स्तदा हरिम्।। • स सागर.मनाधृष्य-मभ्येत्य वरुणालयम्। जगामाकाश.माविश्य वेगेन गरुडोपमः।। • सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यै-रैरावत.निषेविते। • सिंहकुञ्जर.शार्दूल-पतगोरग.वाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते। • वज्राशनि.समाघातैः पावकै.रुपशोभिते। कृतपुण्यै.र्महाभागैः स्वर्गजिद्भि.रलङ्कृते। • वहता हव्य.मत्यर्थं सेविते चित्रभानुना। ग्रहनक्षत्र.चन्द्रार्क-तारागणविभूषिते। • महर्षिगण.गन्धर्व-नाग.यक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसु.निषेविते। • देवराज.गजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते। • बहुशः सेविते वीरै-र्विद्याधरगणै.र्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः।। • प्रदृश्यमानः सर्वत्र हनुमा.न्मारुतात्मजः। भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट्।। • प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी। मनसा चिन्तयामास प्रवृद्धा कामरूपिणी।। • अद्य दीर्घस्य कालस्य भविष्या.म्यह.माशिता। इदं हि मे मह.त्सत्त्वं चिरस्य वश.मागतम्।। • इति सञ्चिन्त्य मनसा छाया.मस्य समाक्षिपत्। छायायां गृह्यमाणायां चिन्तयामास वानरः।। • समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः। प्रतिलोमेन वातेन महानौ.रिव सागरे।। • तिर्यगूर्ध्व.मध.श्चैव वीक्षमाण.स्ततः कपिः। ददर्श स महत्सत्त्व.-मुत्थितं लवणाम्भसि।। • तद्धृष्ट्वा चिन्तयामास मारुति.र्विकृताननम्। कपिराजेन कथितं सत्त्व.मद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदं नात्र संशयः।। • स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमा.न्कपिः। व्यवर्धत महाकायः प्रावृषीव वलाहकः।। • तस्य सा काय.मुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालान्तर.सन्निभम्।। घनराजीव गर्जन्ती वानरं समभिद्रवत्। • स ददर्श तत.स्तस्या विवृतं सुमह.न्मुखम्। कायमात्रं च मेधावी मर्माणि च महाकपिः।। • स तस्या विवृते वक्त्रे वज्रसंहननः कपिः। संक्षिप्य मुहु.रात्मानं निष्पपात महाबलः।। • आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः। ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा।। • तत.स्तस्या नखै.स्तीक्ष्णै-र्मर्माण्युत्कृत्य वानरः। उत्पपाताथ वेगेन मनः सम्पातविक्रमः।। • तां तु दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य च। स कपिप्रवरो वेगा-द्ववृधे पुन.रात्मवान्।। हृतहृत् सा हनुमता पपात विधुराम्भसि। • तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्। भूता.न्याकाशचारीणि तमूचुः प्लवगोत्तमम्।। • भीम.मद्य कृतं कर्म महत्सत्त्वं त्वया हतम्। साधयार्थ.मभिप्रेत-मरिष्टं प्लवतां वर।। • यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव। धृति.र्दृष्टि.र्मति.र्दाक्ष्यं- स कर्मसु न सीदति।। • स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः। जगामाकाश.माविश्य पन्नगाशनव.त्कपिः।। • प्राप्तभूयिष्ठ.पारस्तु सर्वतः प्रतिलोकयन्। योजनानां शतस्यान्ते वनराजिं ददर्श सः।। • ददर्श च पत.न्नेव विविधद्रुमभूषितम्। द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च।। • सागरं सागरानूपं सागरानूपजा.न्द्रुमान्॥ सागरस्य च पत्नीनां मुखा.न्यपि विलोयकन् ॥ २११ ॥ • स महामेघसंकाशं समीक्ष्यात्मान.मात्मवान्॥ निरुन्धन्त.मिवाकाशं चकार मतिमा.न्मतिम्॥ २१२ ॥ • कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः। मयि कौतूहलं कुर्यु-रिति मेने महाकपिः ॥ २१३ ॥ • ततः शरीरं संक्षिप्य तन्महीधर.सन्निभम्। पुनः प्रकृति.मापेदे वीतमोह इवात्मवान् ॥ २१४ ॥ • तद्रूप.मतिसंक्षिप्य हनुमा.न्प्रकृतौ स्थितः॥ त्री.न्क्रमा.निव विक्रम्य बलिवीर्यहरो हरिः॥ • स चारुनानाविध.रूपधारी परं समासाद्य समुद्रतीरम्। परै.रशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः॥ २१६ ॥ • ततस्स लम्बस्य गिरे.स्समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालक.नालिकेरे महाद्रिकूट.प्रतिमो महात्मा ॥ २१७ ॥ • ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्य.मूर्ध्नि। कपिस्तु तस्मि.न्निपपात पर्वते विधूय रूपं व्यथय.न्मृगद्विजान् ॥ २१८ ॥ • स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मि.मालिनम्। निपत्य तीरे च महोदधे.स्तदा ददर्श लङ्का.ममरावतीमिव।। सर्गः 2 निशागम प्रतीक्षा • स सागर.मनाधृष्य-मतिक्रम्य महाबलः। त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह।। • ततः पादप.मुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टः स्थित.स्तत्र बभौ पुष्पमयो यथा।। • योजनानां शतं श्रीमां-स्तीर्त्वाप्युत्तम.विक्रमः। अनिश्श्वसन् कपिस्तत्र न ग्लानि.मधिगच्छति।। • शतान्यहं योजनानां क्रमेयं सुबहू.न्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्।। • स तु वीर्यवतां श्रेष्ठः प्लवता.मपि चोत्तमः। जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम्।। • शाद्वलानि च नीलानि गन्धवन्ति वनानि च। गण्डवन्ति च मध्येन जगाम नगवन्ति च।। • शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः।। • स तस्मि.न्नचले तिष्ठ-न्वना.न्युपवनानि च। स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः।। • सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्। प्रियालू.न्मुचुलिन्दांश्च कुटजान् केतका.नपि। • प्रियंङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदां.स्तथा। आसनान् कोविदारांश्च करवीरांश्च पुष्पितान्। • पुष्पभार.निबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूत.मस्तकान्। • हंसकारण्ड.वाकीर्णा वापीः पद्मोत्पला.युताः। आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्। • सन्ततान् विविधै.र्वृक्षैः सर्वर्तु.फलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः।। • समासाद्य च लक्ष्मीवान् लङ्कां रावण.पालिताम्। परिखाभिः सपद्माभिः सोत्पलाभि.रलङ्कृताम्। • सीतापहरणार्थेन रावणेन सुरक्षिताम्। समन्ता.द्विचरद्भिश्च राक्षसै.रुग्रधन्विभिः। • काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च ग्रहसंकाशैः शारदाम्बुद.सन्निभैः। • पाण्डुराभिः प्रतोलीभि-रुच्चाभि.रभिसंवृताम्। अट्टालक.शताकीर्णां पताकाध्वज.मालिनीम्। • तोरणैः काञ्चनै.र्दिव्यै-र्लतापङ्क्ति.विचित्रितैः। ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा।। • गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरै.र्भवनैः शुभैः। ददर्श स कपिश्रेष्ठः पुर.माकाशगं यथा।। • पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमाना.मिवाकाशे ददर्श हनुमान् पुरीम्।। • वप्रप्राकार.जघनां विपुलाम्बु.नवाम्बराम्। शतघ्नीशूल.केशान्ता-मट्टालक.वतंसकाम्। • मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा। द्वार.मुत्तर.मासाद्य चिन्तयामास वानरः।। • कैलासशिखर.प्रख्या-मालिखन्ती.मिवाम्बरम्। डीयमाना.मिवाकाश-मुच्छ्रितै.र्भवनोत्तमैः। • सम्पूर्णां राक्षसै.र्घोरै-र्नागै.र्भोगवती.मिव। अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा। • दंष्ट्रिभि.र्बहुभिः शूरैः शूलपट्टस.पाणिभिः। रक्षितां राक्षसै.र्घोरै-र्गुहा.माशीविषैरिव। • तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः।। • आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। न हि युद्धेन वै लङ्का शक्या जेतुं सुरै.रपि।। • इमां तु विषमां दुर्गां लङ्कां रावण.पालिताम्। प्राप्यापि स महाबाहुः किं करिष्यति राघवः।। • अवकाशो न सान्त्वस्य राक्षसे.ष्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते।। • चतुर्णा.मेव हि गति-र्वानराणां महात्मनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः।। • याव.ज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्।। • ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरिशृङ्गे स्थित.स्तस्मिन् रामस्याभ्युदये रतः।। • अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसै.र्गुप्ता क्रूरै.र्बलसमन्वितैः।। • उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकीं परिमार्गता।। • लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया। प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्।। • तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः।। • केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना।। • न विनश्ये.त्कथं कार्यं रामस्य विदितात्मनः। एका.मेकश्च वश्येयं रहिते जनकात्मजाम्।। • भूता.श्चार्था विपद्यन्ते देशकालविरोधिताः। विक्लबं दूत.मासाद्य तमः सूर्योदये यथा।। • अर्था.नर्थान्तरे बुद्धि-र्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।। • न विनश्ये.त्कथं कार्यं वैक्लब्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।। • मयि दृष्टे तु रक्षोभी- रामस्य विदितात्मनः। भवे.द्व्यर्थ.मिदं कार्यं रावणानर्थ.मिच्छतः।। • न हि शक्यं क्वचित् स्थातु.मविज्ञातेन राक्षसैः। अपि राक्षसरूपेण कि.मुतान्येन केनचित्।। • वायु.रप्यत्र नाज्ञात-श्चरे.दिति मतिर्मम। न ह्यस्त्यविदितं किञ्चि-द्राक्षसानां बलीयसाम्।। • इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाश.मुपयास्यामि भर्तु.रर्थश्च हीयते।। • तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः। लङ्का.मभिपतिष्यामि राघवस्यार्थसिद्धये।। • रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्। विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्।। • इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः।। • सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः। पृषदंशक.मात्रः सन् बभूवाद्भुतदर्शनः।। • प्रदोषकाले हनुमां-स्तूर्ण.मुत्प्लुत्य वीर्यवान्। प्रविवेश पुरीं रम्यां सुविभक्त.महापथाम्।। • प्रासादमाला.विततां स्तम्भैः काञ्चन.राजतैः। शातकुम्भमयै.र्जालै-र्गन्धर्व.नगरोपमाम्। • सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। तलैः स्फाटिकसंकीर्णैः कार्तस्वर.विभूषितैः।। • वैडूर्यमणि.चित्रैश्च मुक्ताजाल.विभूषितैः। तलैः शुशुभिरे तानि भवना.न्यत्र रक्षसाम्।। • काञ्चनानि च चित्राणि तोरणानि च रक्षसाम्। लङ्का.मुद्योतयामासुः सर्वतः समलङ्कृताम्।। • अचिन्त्या.मद्भुताकारां दृष्ट्वा लङ्कां महाकपिः। आसी.द्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः।। • स पाण्डुराविद्ध.विमान.मालिनीं महार्ह.जाम्बूनद.जालतोरणाम्। यशस्विनीं रावण.बाहुपालितां क्षपाचरै.र्भीमबलैः समावृताम्।। • चन्द्रोऽपि साचिव्य.मिवास्य कुर्वं-स्तारागणै.र्मध्यगतो विराजन्। ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मि:।। • शङ्खप्रभं क्षीरमृणालवर्ण-मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम्।। सर्गः 3 लङ्काधिदेवता विजयः • स लम्बशिखरे लम्बे लम्बतोयद.सन्निभे। सत्त्व.मास्थाय मेधावी हनुमान् मारुतात्मजः। • निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकानन.तोयाढ्यां पुरीं रावण.पालिताम्।। • शारदाम्बुधर.प्रख्यै-र्भवनै.रुपशोभिताम्। सागरोपम.निर्घोषां सागरानिल.सेविताम्। • सुपुष्टबल.सम्पुष्टां यथैव विटपावतीम्। चारुतोरण.निर्यूहां पाण्डुरद्वार.तोरणाम्। • भुजगाचरितां गुप्तां शुभां भोगवती.मिव। तां स विद्युद्घनाकीर्णां ज्योतिर्मार्ग.निषेविताम्। • मन्दमारुत.सञ्चारां यथेन्द्रस्यामरावतीम्। शातकुम्भेन महता प्राकारेणाभिसँवृताम्। • किङ्किणीजालघोषाभिः पताकाभि.रलङ्कृताम्। आसाद्य सहसा हृष्टः प्राकार.मभिपेदिवान्।। • विस्मयाविष्टहृदयः पुरी.मालोक्य सर्वतः। जाम्बूनदमयै.र्द्वारै-र्वैडूर्यकृत.वेदिकैः। • वज्रस्फटिक.मुक्ताभि-र्मणिकुट्टिम.भूषितैः। तप्तहाटक.निर्यूहै- राजतामल.पाण्डुरैः। • वैडूर्यकृत.सोपानैः स्फाटिकान्तर.पांसुभिः। चारु.संजवनोपेतैः खमिवोत्पतितैः शुभैः। • क्रौञ्चबर्हिण.सङ्घुष्टै- राजहंस निषेवितैः। तूर्याभरण.निर्घोषैः सर्वतः प्रतिनादिताम्। • वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः। खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः।। • तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम्। अनुत्तमा.मृद्धियुतां चिन्तयामास वीर्यवान्।। • नेय.मन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलै-रुद्यतायुध.धारिभिः।। • कुमुदाङ्गदयो.र्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवे.द्भूमि-र्मैन्द.द्विविदयो.रपि।। • विवस्वत.स्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य केतुमालस्य मम चैव गति.र्भवेत्।। • समीक्ष्य तु महाबाहू राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्त-मभवत् प्रीतिमान् कपिः।। • तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्। यन्त्रागारस्तनी.मृद्धां प्रमदामिव भूषिताम्। • तां नष्ट.तिमिरां दीप्तै-र्भास्वरैश्च महागृहैः। नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः।। • अथ सा हरिशार्दूलं प्रविशन्तं महाबलम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्।। • सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता। स्वय.मेवोत्थिता तत्र विकृतानन.दर्शना।। • पुरस्ता.त्कपिवर्यस्य वायुसूनो.रतिष्ठत। मुञ्चमाना महानाद-मब्रवी.त्पवनात्मजम्।। • कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत्तत्त्वं याव.त्प्राणा धरन्ति ते।। • न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया। रक्षिता रावणबलै-रभिगुप्ता समन्ततः।। • अथ ता.मब्रवी.द्वीरो हनुमा.नग्रतः स्थिताम्। कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि।। • का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि। किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा।। • हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्।। • अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरी.मिमाम्।। • न शक्या मा.मवज्ञाय प्रवेष्टुं नगरी त्वया। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया।। • अहं हि नगरी लङ्का स्वय.मेव प्लवङ्गम। सर्वतः परिरक्षामि ह्येतत्ते कथितं मया।। • लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवा.न्स हरिश्रेष्ठः स्थित.श्शैल इवापरः।। • स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः।। • द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकार.तोरणाम्। निर्विशङ्क.मिमं लोकं पश्यन्त्या.स्तव सांप्रतम्। इत्यर्थ.मिह संप्राप्तः परं कौतूहलं हि मे।। • वना.न्युपवनानीह लङ्कायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टु.मागमनं हि मे।। • तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। भूय एव पुन.र्वाक्यं बभाषे परुषाक्षरम्।। • मा.मनिर्जित्य दुर्बुद्धे राक्षसेश्वर.पालिताम्। न शक्य.मद्य ते द्रष्टुं पुरीयं वानराधम।। • ततः स कपिशार्दूल-स्ता.मुवाच निशाचरीम्। दृष्ट्वा पुरी.मिमां भद्रे पुन.र्यास्ये यथागतम्।। • ततः कृत्वा महानादं सा वै लङ्का भयावहम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता।। • ततः स कपिशार्दूलो लङ्कया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् पवनात्मजः।। • ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनां हनुमान् क्रोधमूर्छितः। • स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः।। • सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृतानन.दर्शना।। • ततस्तु हनुमान् प्राज्ञ-स्तां दृष्ट्वा विनिपातिताम्। कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्।। • ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्। उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम्।। • प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः।। • अहं तु नगरी लङ्का स्वय.मेव प्लवङ्गम। निर्जिताहं त्वया वीर विक्रमेण महाबल।। • इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर। स्वयंभुवा पुरा दत्तं वरदानं यथा मम।। • यदा त्वां वानरः कश्चि-द्विक्रमा.द्वश.मानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भय.मागतम्।। • स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्। स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः।। • सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः। रक्षसां चैव सर्वेषां विनाशः समुपागतः।। • तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि।। • प्रविश्य शापोपहतां हरीश्वर-श्शुभां पुरीं राक्षसमुख्य.पालिताम्। यदृच्छया त्वं जनकात्मजां सतीं- विमार्ग सर्वत्र गतो यथासुखम्।। सर्गः 4 लङ्कापुरी प्रवेशः • स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्। विक्रमेण महातेजा हनुमान् कपिसत्तमः। अद्वारेण महाबाहुः प्राकार.मभिपुप्लुवे।। • प्रविश्य नगरीं लङ्कां कपिराज.हितंकरः। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि।। • प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः। स महापथ.मास्थाय मुक्तापुष्प.विराजितम्। ततस्तु तां पुरीं लङ्कां रम्या.मभिययौ कपिः।। • हसितोत्कृष्ट.निनदै-स्तूर्यघोष.पुरस्सरैः। वज्राङ्कुश.निकाशैश्च वज्रजाल.विभूषितैः। गृहमेघैः पुरी रम्या बभासे द्यौ.रिवाम्बुदैः।। • प्रजज्वाल ततो लङ्का रक्षोगणगृहैः शुभैः। सिताभ्रसदृशै.श्चित्रैः पद्म.स्वस्तिक.संस्थितैः। वर्धमानगृहै.श्चापि सर्वतः सुविभूषिता।। • तां चित्रमाल्याभरणां कपिराज.हितङ्करः। राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च।। • भवना.द्भवनं गच्छन् ददर्श पवनात्मजः। विविधाकृतिरूपाणि भवनानि ततस्ततः।। • शुश्राव मधुरं गीतं त्रिस्थान.स्वरभूषितम्। स्त्रीणां मदसमृद्धानां दिवि चाप्सरसा.मिव।। • शुश्राव काञ्चीनिनदं नूपुराणां च निस्स्वनम्। सोपाननिनदां.श्चैव भवनेषु महात्मनाम्। आस्फोटित.निनादांश्च क्ष्वेलितांश्च ततस्ततः।। • शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै। स्वाध्याय.निरतांश्चैव यातुधानान् ददर्श सः। रावणस्तव.संयुक्तान् गर्जतो राक्षसा.नपि।। • राजमार्गं समावृत्य स्थितं रक्षोबलं महत्। ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्।। • दीक्षितान् जटिलान् मुण्डा-न्गोजिनाम्बर.वाससः। दर्भमुष्टिप्रहरणा-नग्निकुण्डायुधां.स्तथा। • कूटमुद्गर.पाणींश्च दण्डायुध.धरानपि। एकाक्षा.नेककर्णांश्च लम्बोदर.पयोधरान्। • करालान् भुग्नवक्त्रांश्च विकटान् वामनां.स्तथा। धन्विनः खड्गिन.श्चैव शतघ्नीमुसलायुधान्। • परिघोत्तमहस्तांश्च विचित्र.कवचोज्ज्वलान्। नातिस्थूलान्नातिकृशा-न्नातिदीर्घातिह्रस्वकान्। • नातिगौरा.न्नातिकृष्णा-न्नातिकुब्जा.न्न वामनान्। • विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः। ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्।। • शक्तिवृक्षायुधांश्चैव पट्टिसाशनि.धारिणः। क्षेपणीपाश.हस्तांश्च ददर्श स महाकपिः। • स्रग्विण.स्त्वनुलिप्तांश्च वराभरण.भूषितान्। • नानावेष.समायुक्तान् यथास्वैरगतान् बहून्। तीक्ष्णशूलधरां.श्चैव वज्रिणश्च महाबलान्।। • शतसाहस्र.मव्यग्र-मारक्षं मध्यमं कपिः। रक्षोधिपति.निर्दिष्टं ददर्शान्तःपुराग्रतः।। • स तदा तद्गृहं दृष्ट्वा महाहाटक.तोरणम्। राक्षसेन्द्रस्य विख्यात-मद्रिमूर्ध्नि प्रतिष्ठितम्। • पुण्डरीकावतंसाभिः परिखाभि.रलङ्कृतम्। प्राकारावृत.मत्यन्तं ददर्श स महाकपिः।। • त्रिविष्टप.निभं दिव्यं दिव्यनाद.निनादितम्। वाजिहेषित.सङ्घुष्टं नादितं भूषणै.स्तथा। • रथैर्यानै.र्विमानैश्च तथा हयगजैः शुभैः। वारणैश्च चतुर्दन्तैः श्वेताभ्र.निचयोपमैः। • भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः। रक्षितं सुमहावीर्यै-र्यातुधानैः सहस्रशः। राक्षसाधिपते.र्गुप्त-माविवेश महाकपिः।। • सहेम.जाम्बूनद.चक्रवालं महार्ह.मुक्तामणि.भूषितान्तम्। परार्थ्यकालागरु.चन्दनाक्तं स रावणान्तःपुर.माविवेश।। सर्गः 5 भवन विचयः • ततः स मध्यंगत.मंशुमन्तं- ज्योत्स्नावितानं मह.दुद्वमन्तम्। ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्।। • लोकस्य पापानि विनाशयन्तं- महोदधिं चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं- ददर्श शीतांशु.मथाभियान्तम्।। • या भाति लक्ष्मी.र्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था।। • हंसो यथा राजत.पञ्जरस्थः- सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरस्थः चन्द्रोऽपि बभ्राज तथाम्बरस्थः।। • स्थितः ककुद्मानिव तीक्ष्णशृङ्गो- महाचलः श्वेत इवोच्चशृङ्गः। हस्तीव जाम्बूनद.बद्धशृङ्गो- रराज चन्द्रः परिपूर्णशृङ्गः।। • विनष्टशीताम्बु.तुषारपङ्को महाग्रहग्राह.विनष्टपङ्कः। प्रकाशलक्ष्म्याश्रय.निर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः।। • शिलातलं प्राप्य यथा मृगेन्द्रो- महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र- स्तथाप्रकाशो विरराज चन्द्रः।। • प्रकाशचन्द्रोदय.नष्टदोषः- प्रवृत्तरक्षः पिशिताशदोषः। रामाभिरामेरित.चित्तदोषः- स्वर्गप्रकाशो भगवान् प्रदोषः।। • तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः- स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचरा.श्चापि तथा प्रवृत्ता: विहर्तु.मत्यद्भुत.रौद्रवृत्ताः।। • मत्तप्रमत्तानि समाकुलानि रथाश्व.भद्रासन.सङ्कुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि।। • परस्परं चाधिक.माक्षिपन्ति- भुजांश्च पीना.नधिकं क्षिपन्ति। मत्तप्रलापा.नधिकं क्षिपन्ति- मत्तानि चान्योन्य.मधिक्षिपन्ति।। • रक्षांसि वक्षांसि च विक्षिपन्ति- गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति- दृढानि चापानि च विक्षिपन्ति।। • ददर्श कान्ताश्च समालभन्त्य.-स्तथा परा.स्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिश्श्वसन्त्यः।। • महागजैश्चापि तथा नदद्भि:- सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिशिश्वसद्भिः ह्रदो भुजङ्गैरिव निश्श्वसद्भिः।। • बुद्धिप्रधानान् रुचिराभिधानान्- संश्रद्धधानान् जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान्- ददर्श तस्यां पुरि यातुधानान्।। • ननन्द दृष्ट्वा स च तान् सुरूपा-न्नानागुणा.नात्मगुणानुरूपान्। विद्योतमाना.न्स तदानुरूपान् ददर्श कांश्चिच्च पुन.र्विरूपान्।। • ततो वरार्हाः सुविशुद्धभावा-स्तेषां स्त्रिय.स्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा- ददर्श तारा इव सुप्रभावाः।। • श्रिया ज्वलन्ती.स्त्रपयोपगूढा- निशीथकाले रमणोपगूढाः। ददर्श काश्चि.त्प्रमदोपगूढा- यथा विहङ्गाः कुसुमोपगूढाः।। • अन्याः पुन.र्हर्म्यतलोपविष्टा-स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः प्रिया धर्मपरा निविष्टा- ददर्श धीमान् मदनाभिविष्टाः।। • अप्रावृताः काञ्चन.राजिवर्णाः काश्चित्परार्थ्या.स्तपनीयवर्णाः। पुनश्च काश्चि.च्छशलक्ष्म.वर्णाः- कान्तप्रहीणा रुचिराङ्गवर्णाः।। • ततः प्रियान् प्राप्य मनोभिरामाः- सुप्रीतियुक्ताः प्रसमीक्ष्यरामाः। गृहेषु हृष्टाः परमाभिरामा- हरिप्रवीरः स ददर्श रामाः।। • चन्द्रप्रकाशाश्च हि वक्त्रमालाः- वक्राक्षि.पक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः।। • न त्वेव सीतां परमाभिजातां- पथि स्थिते राजकुले प्रजाताम्। लतां प्रफुल्लामिव साधु जातां- ददर्श तन्वीं मनसाभिजाताम्।। • सनातने वर्त्मनि सन्निविष्टां- रामेक्षणां तां मदनाभिविष्टाम्। भर्तु.र्मनश्श्रीम.दनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्।। • उष्णार्दितां सानुसृतास्रकण्ठीं- पुरा वरार्होत्तम.निष्ककण्ठीम्। सुजातपक्ष्मा.मभिरक्तकण्ठीं वनेऽप्रवृत्तामिव नीलकण्ठीम्।। • अव्यक्तरेखामिव चन्द्ररेखां- पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम्।। • सीता.मपश्य.न्मनुजेश्वरस्य- रामस्य पत्नीं वदतां वरस्य। बभूव दुःखाभिहत.श्चिरस्य- प्लवङ्गमो मन्द इवाचिरस्य।। सर्गः 6 रावणगृहावेक्षणम् • स निकामं विमानेषु- निषण्णः कामरूपधृत्। विचचार पुन.र्लङ्कां लाघवेन समन्वितः।। • आससादाथ लक्ष्मीवा-न्राक्षसेन्द्र.निवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसँवृतम्।। • रक्षितं राक्षसै.र्घोरै-स्सिंहै.रिव मह.द्वनम्। समीक्षमाणो भवनं चकाशे कपिकुञ्जरः।। • रूप्यकोपहितै.श्चित्रै-स्तोरणै.र्हेमभूषितैः। विचित्राभिश्च कक्ष्याभि-र्द्वारैश्च रुचिरै.र्वृतम्।। • गजास्थितै.र्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थित.मसंहार्यै-र्हयै.स्स्यन्दन.यायिभिः।। • सिंहव्याघ्र.तनुत्राणै-र्दान्त.काञ्चनराजतैः। घोषवद्भि.र्विचित्रैश्च सदा विचरितं रथैः।। • बहुरत्न.समाकीर्णं परार्थ्यासन.भाजनम्। महारथ.समावासं महारथ.महास्वनम्।। • दृश्यैश्च परमोदारै-स्तै.स्तैश्च मृगपक्षिभिः। विविधै. र्बहुसाहस्रैः परिपूर्णं समन्ततः।। • विनीतै.रन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः।। • मुदित.प्रमदारत्नं राक्षसेन्द्र.निवेशनम्। वराभरण.संह्रादैः समुद्रस्वन.निस्वनम्।। • तद्राजगुणसम्पन्नं मुख्यैश्चागरुचन्दनैः। महाजनैः समाकीर्णं सिंहैरिव महद्वनम्।। • भेरीमृदङ्गाभिरुतं शङ्खघोष.निनादितम्। नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा।। • समुद्रमिव गम्भीरं समुद्र.मिव निस्स्वनम्। महात्मनो मह.द्वेश्म महारत्न.परिच्छदम्। • महारत्न.समाकीर्णं ददर्श स महाकपिः।। विराजमानं वपुषा गजाश्वरथ.सङ्कुलम्। • लङ्काभरण.मित्येव सोऽमन्यत महाकपिः। चचार हनुमां.स्तत्र रावणस्य समीपतः।। • गृहा.द्गृहं राक्षसाना-मुद्यानानि च वानरः। वीक्षमाणोऽह्यसंत्रस्तः प्रासादांश्च चचार सः।। • अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। ततोऽन्य.त्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्।। • अथ मेघप्रतीकाशं कुम्भकर्ण.निवेशनम्। विभीषणस्य च तदा पुप्लुवे स महाकपिः।। • महोदरस्य च गृहं विरूपाक्षस्य चैव हि। विद्युज्जिह्वस्य भवनं विद्युन्माले.स्तथैव च। वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।। • शुकस्य च महातेजाः सारणस्य च धीमतः। तथा चेन्द्रजितो वेश्म जगाम हरियूथपः।। • जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः। रश्मिकेतोश्च भवनं सूर्यकेतो.स्तथैव च। वज्रकायस्य च तथा पुप्लुवे स महाकपिः।। • धूम्राक्षस्य च सम्पाते-र्भवनं मारुतात्मजः। विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च। • शुकनासस्य वक्रस्य शठस्य विकटस्य च। ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः। • युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः। विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च। कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।। • भवनं क्रममाणोऽसौ हनुमा.न्मारुतात्मजः। तेषु तेषु महार्हेषु भवनेषु महायशाः। • तेषा.मृद्धिमता.मृद्धिं ददर्श स महाकपिः।। • सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान् राक्षसेन्द्र.निवेशनम्।। • रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचर.न्हरिशार्दूलो राक्षसी.र्विकृतेक्षणाः। शूलमुद्गर.हस्ताश्च शक्तितोमर.धारिणी:।। • ददर्श विविधान् गुल्मान् तस्य रक्षःपते.र्गृहे। राक्षसांश्च महाकाया-न्नानाप्रहरणोद्यतान्।। • रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान्। कुलीनान् रूपसम्पन्नान् गजा.न्परगजारुजान्। • निष्ठितान् गजशिक्षया-मैरावतसमा.न्युधि। निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः। • क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्। मेघसन्तति.निर्घोषान् दुर्धर्षान् समरे परैः।। • सहस्रं वाहिनी.स्तत्र जाम्बूनद.परिष्कृताः। हेमजाल.परिच्छन्ना-स्तरुणादित्य.सन्निभाः। • ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।। • शिबिका विविधाकाराः- स कपि.र्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च। • क्रीडागृहाणि चान्यानि दारुपर्वतका.नपि। कामस्य गृहकं रम्यं दिवागृहकमेव च। • ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।। • स मन्दरगिरिप्रख्यं मयूरस्था.नसङ्कुलम्। ध्वजयष्टिभि.राकीर्णं ददर्श भवनोत्तमम्। • अनेकरत्न.सङ्कीर्णं निधिजालं समन्ततः। धीरनिष्ठित.कर्मान्तं गृहं भूतपतेरिव।। • अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च। विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः।। • जाम्बूनदमयान्येव शयना.न्यासनानि च। भाजनानि च मुख्यानि ददर्श हरियूथपः।। • मध्वासव.कृतक्लेदं मणिभाजन.सङ्कुलम्। मनोरम.मसंबाधं कुबेरभवनं यथा। • नूपुराणां च घोषेण काञ्चीनां निनदेन च। मृदङ्गताल.घोषैश्च घोषवद्भि.र्विनादितम्। • प्रासाद.सङ्घातयुतं स्त्रीरत्नशत.सङ्कुलम्। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहाम्।। सर्गः 7 पुष्पकदर्शनम् • स वेश्मजालं बलवान् ददर्श- व्यासक्त.वैडूर्य.सुवर्णजालम्। यथा महत् प्रावृषि मेघजालं- विद्यु.त्पिनद्धं सविहङ्गजालम्।। • निवेशनानां विविधाश्च शालाः- प्रधानशङ्खायुध.चापशालाः। मनोहराश्चापि पुन.र्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः।। • गृहाणि नानावसु.राजितानि- देवासुरै.श्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपि.र्ददर्श स्वबलार्जितानि।। • तानि प्रयत्नाभिसमाहितानि- मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि- ददर्श लङ्काधिपते.र्गृहाणि।। • ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं- गृहोत्तमं ह्यप्रतिरूपरूपम्।। • महीतले स्वर्गमिव प्रकीर्णं- श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं- गिरे.रिवाग्रं रजसावकीर्णम्।। • नारीप्रवेकै.रिव दीप्यमानं- तटिद्भि.रम्भोदव.दर्च्यमानम्। हंसप्रवेकैरिव वाह्यमानं- श्रिया युतं खे सुकृतां विमानम्।। • यथा नगाग्रं बहुधातुचित्रं- यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृत.मेघचित्रं- विमानरत्नं बहुरत्नचित्रम्।। • मही कृता पर्वतराजिपूर्णा- शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः- पुष्पं कृतं केसरपत्रपूर्णम्।। • कृतानि वेश्मानि च पाण्डुराणि- तथा सुपुष्पाण्यपि पुष्कराणि। पुनश्च पद्मानि सकेसराणि- धन्यानि चित्राणि तथा वनानि।। • पुष्पाह्वयं नाम.विराजमानं- रत्नप्रभाभिश्च विवर्धमानम्। वेश्मोत्तमाना.मपि चोच्यमानं महाकपि.स्तत्र महाविमानम्।। • कृताश्च वैडूर्यमया विहङ्गा- रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभि.र्भुजङ्गा- जात्यानुरूपा.स्तुरगाः शुभाङ्गाः।। • प्रवालजाम्बूनद.पुष्पपक्षाः- सलील.मावर्जित.जिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः- कृता विहङ्गाः सुमुखाः सुपक्षाः।। • नियुज्यमानास्तु गजाः सुहस्ताः- सकेसरा.श्चोत्पलपत्रहस्ताः। बभूव देवी च कृता सुहस्ता- लक्ष्मी.स्तथा पद्मिनि पद्महस्ता।। • इतीव तद्गृह.मभिगम्य शोभनम्- सविस्मयो नगमिव चारुशोभनम्। पुनश्च तत्परम.सुगन्धि सुन्दरम्- हिमात्यये नगमिव चारुकन्दरम्।। • ततः स तां कपि.रभिपत्य पूजितां- चरन् पुरीं दशमुखबाहु.पालिताम्। अदृश्य तां जनकसुतां सुपूजितां- सुदुःखितः पतिगुण.वेगवर्जिताम्।। • तत.स्तदा बहुविध.भावितात्मनः- कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभव.दतिदुःखितं मनः- सुचक्षुषः प्रविचरतो महात्मनः।। सर्गः 8 पुष्पकानुवर्णनम् • स तस्य मध्ये भवनस्य संस्थितं- मह.द्विमानं मणिवज्र.चित्रितम्। प्रतप्तजाम्बूनद.जालकृत्रिमं- ददर्श वीरः पवनात्मजः कपिः।। • तदप्रमेयाप्रतिकार.कृत्रिमं- कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गतं वायुपथ.प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्।। • न तत्र किञ्चि.न्न कृतं प्रयत्नतो- न तत्र किञ्चिन्न महार्ह.रत्नवत्। न ते विशेषा नियताः सुरेष्वपि- न तत्र किञ्चि.न्न महाविशेषवत्।। • तपः समाधान.पराक्रमार्जितं- मनः समाधान.विचारचारिणम्। अनेकसंस्थान.विशेषनिर्मितं ततस्तत.स्तुल्यविशेषदर्शनम्।। • मन.स्समाधाय तु शीघ्रगामिनं- दुरावरं मारुततुल्य.गामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां- यशस्विना.मग्र्य.मुदामिवालयम् ।। • विशेष.मालम्ब्य विशेषसंस्थितं- विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं- विचित्रकूटं शिखरं गिरेर्यथा।। • वहन्ति यं कुण्डलशोभितानना- महाशना व्योमचरा निशाचराः। विवृत्त.विध्वस्त.विशाललोचनाः- महाजवा भूतगणाः सहस्रशः।। • वसन्तपुष्पोत्कर.चारुदर्शनं- वसन्तमासा.दपि कान्तदर्शनम्। स पुष्पकं तत्र विमान.मुत्तमं- ददर्श त.द्वानरवीरसत्तमः।। सर्गः 9 सङ्कुलान्तःपुरम् • तस्यालय.वरिष्ठस्य मध्ये विपुल.मायतम्। ददर्श भवनश्रेष्ठं हनुमा.न्मारुतात्मजः।। • अर्धयोजन.विस्तीर्ण-मायतं योजनं हि तत्। भवनं राक्षसेन्द्रस्य बहुप्रासाद.सङ्कुलम्।। • मार्गमाणस्तु वैदेहीं सीता.मायतलोचनाम्। सर्वतः परिचक्राम हनूमा.नरिसूदनः।। • उत्तमं राक्षसावासं हनुमा.नवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्र.निवेशनम्। • चतुर्विषाणै.र्द्विरदै-स्त्रिविषाणै.स्तथैव च। परिक्षिप्त.मसम्बाधं रक्ष्यमाण.मुदायुधैः।। • राक्षसीभिश्च पत्नीभी- रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्याभि.रावृतम्। • तन्नक्र.मकराकीर्णं तिमिङ्गिल.झषाकुलम्। वायुवेग.समाधूतं पन्नगैरिव सागरम्।। • या हि वैश्रवणे लक्ष्मी-र्या चेन्द्रे हरिवाहने। सा रावणगृहे सर्वा नित्य.मेवानपायिनी।। • या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह।। • तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सु निर्मितम्। बहुनिर्यूह.सङ्कीर्णं ददर्श पवनात्मजः।। • ब्रह्मणोऽर्थे कृतं दिव्यं दिवि य.द्विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्न.विभूषितम्। • परेण तपसा लेभे यत्कुबेरः पितामहात्। कुबेर.मोजसा जित्वा लेभे त.द्राक्षसेश्वरः।। • ईहामृग.समायुक्तैः कार्तस्वर.हिरमण्मयैः। सुकृतै.राचितं स्तम्भैः प्रदीप्तमिव च श्रिया। • मेरुमन्दर.सङ्काशै-रुल्लिखद्भि.रिवाम्बरम्। कूटागारै.श्शुभाकारै-स्सर्वत.स्समलङ्कृतम्।। • ज्वलनार्क.प्रतीकाशं सुकृतं विश्वकर्मणा। हेमसोपान.संयुक्तं चारुप्रवर.वेदिकम्।। • जालवातायनै.र्युक्तं काञ्चनैः स्स्फाटिकैरपि। इन्द्रनीलमहानील-मणिप्रवर.वेदिकम्।। • विद्रुमेण विचित्रेण मणिभिश्च महाघनैः। निस्तुलाभिश्च मुक्ताभि-स्तलेनाभिविराजितम्।। • चन्दनेन च रक्तेन तपनीय.निभेन च। सुपुण्यगन्धिना युक्त-मादित्य.तरुणोपमम्।। • कूटागारै.र्वराकारै-र्विविधै.स्समलङ्कृतम्। विमानं पुष्पकं दिव्य.मारुरोह महाकपिः।। • तत्रस्थ.स्स तदा गन्धं पानभक्ष्यान्नसम्भवम्। दिव्यं सम्मूर्छितं जिघ्र-द्रूपवन्त.मिवानिलम्।। • स गन्धस्तं महासत्त्वं बन्धु.र्बन्धु.मिवोत्तमम्। इत एही.त्युवाचेव तत्र यत्र स रावणः।। • ततस्तां प्रस्थित.श्शालां ददर्श महतीं शुभाम्। रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्।। • मणिसोपान.विकृतां हेमजाल.विभूषिताम्। स्फाटिकै.रावृततलां दन्तान्तरित.रूपिकाम्।। • मुक्ताभिश्च प्रवालैश्च रूप्य.चामीकरै.रपि। विभूषितां मणिस्तम्भै-स्सुबहुस्तम्भ.भूषिताम्।। • नम्रै.रृजुभि.रत्युच्चै-स्समन्ता.त्सुविभूषितैः। स्तम्भै: पक्षै.रिवात्युच्चै-र्दिवं संप्रस्थितामिव।। • महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया। पृथिवीमिव विस्तीर्णां सराष्ट्रगृह.मालिनीम्।। • नादितां मत्तविहगै-र्दिव्यगन्धाधिवासिताम्। परार्ध्यास्तरणोपेतां रक्षोधिप.निषेविताम्।। • धूम्रा.मगरुधूपेन विमलां हंसपाण्डुराम्। चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्।। • मनस्संह्लाद.जननीं वर्णस्यापि प्रसादिनीम्। तां शोकनाशिनीं दिव्यां श्रियः सञ्जननी.मिव।। • इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभि.रुत्तमैः। तर्पयामास मातेव तदा रावणपालिता।। • स्वर्गोऽयं देवलोकोऽय-मिन्द्रस्येयं पुरी भवेत्। सिद्धि.र्वेयं परा हि स्या-दित्यमन्यत मारुतिः।। • प्रध्यायत इवापश्य-त्प्रदीपां.स्तत्र काञ्चनान्। धूर्तानिव महाधूतै-र्देवनेन पराजितान्।। • दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिर्भि.र्भूषणानां च प्रदीप्तेत्यभ्यमन्यत।। • ततोऽपश्य.त्कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेष.विभूषितम्।। • परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्। क्रीडित्वोपरतं रात्रौ सुष्वाप बलव.त्तदा।। • तत्प्रसुप्तं विरुरुचे निश्शब्दान्तर.भूषणम्। निश्शब्द.हंसभ्रमरं यथा पद्मवनं महत्।। • तासां संवृत.दन्तानि मीलिताक्षीणि मारुतिः। अपश्य.त्पद्मगन्धीनि वदनानि सुयोषिताम्।। • प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुन.स्संवृतपत्राणि रात्रा.विव बभु.स्तदा।। • इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः।। • इति चामन्यत श्रीमा-नुपपत्त्या महाकपिः। मेने हि गुणत.स्तानि समानि सलिलोद्भवैः।। • सा तस्य शुशुभे शाला ताभि.स्त्रीभि.र्विराजिता। शारदीव प्रसन्ना द्यौ-स्ताराभि.रभिशोभिता।। • स च ताभिः परिवृत-श्शुशुभे राक्षसाधिपः। यथा ह्युडुपति.श्श्रीमां-स्ताराभि.रभिसंवृतः।। • या.श्च्यवन्तेऽम्बरा.त्ताराः पुण्यशेष.समावृताः। इमा.स्ता.स्सङ्गताः कृत्स्ना- इति मेने हरि.स्तदा।। • ताराणा.मिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्ण.प्रसादाश्च विरेजु.स्तत्र योषिताम्।। • व्यावृत्त.गुरुपीनस्रक्-प्रकीर्णवर.भूषणाः। पानव्यायाम.कालेषु निद्रापहृतचेतसः।। • व्यावृत्त.तिलकाः काश्चि-त्काश्चि.दुद्भ्रन्त.नूपुराः। पार्श्वे गलित.हाराश्च काश्चि.त्परमयोषितः।। • मुक्ताहाराऽवृताश्चान्याः काश्चि.द्विस्रस्त.वाससः। व्याविद्ध.रशनादामाः किशोर्य इव वाहिताः।। • सुकुण्डल.धराश्चान्या विच्छिन्न.मृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने।। • चन्द्रांशु.किरणाभाश्च हाराः कासांचि.दुत्कटाः। हंसा इव बभु.स्सुप्ताः स्तनमध्येषु योषिताम्।। • अपरासां च वैडूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्।। • हंस.कारण्ड.वाकीर्णा-श्चक्रवाकोपशोभिताः। आपगा इव ता रेजु-र्जघनैः पुलिनैरिव।। • किङ्किणीजाल.सङ्कोशा-स्ता हैमविपुलाम्बुजाः। भावग्राहा यशस्तीराः- सुप्ता नद्य इवाऽऽबभुः।। • मृदुष्वङ्गेषु कासाञ्चि-त्कुचाग्रेषु च संस्थिताः। बभूर्वु.र्भूषणानीव शुभा भूषणराजयः।। • अंशुकान्ताश्च कासाञ्चि-न्मुखमारुत.कम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः।। • ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः। नानावर्ण.सुवर्णानां वक्त्रमूलेषु रेजिरे।। • ववल्गुश्चात्र कासांचि-त्कुण्डलानि शुभार्चिषाम्। मुखमारुत.संसर्गा-न्मन्दं मन्दं सुयोषिताम्।। • शर्करासव.गन्धैश्च प्रकृत्या सुरभिः सुखः। तासां वदन.निश्वास-स्सिषेवे रावणं तदा।। • रावणानन.शङ्काश्च काश्चि.द्रावणयोषितः। मुखानि स्म सपत्नीना.-मुपाजिघ्र.न्पुनः पुनः।। • अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रिय.मेवाऽचरं.स्तदा।। • बाहू.नुपनिधायान्याः पारिहार्य.विभूषितान्। अंशुकानि च रम्याणि प्रमदा.स्तत्र शिश्यिरे।। • अन्या वक्षसि चान्यस्या-स्तस्याः काचि.त्पुनर्भुजम्। अपरा त्वङ्क.मन्यस्या-स्तस्या.श्चाप्यपरा भुजौ।। • ऊरुपार्श्व.कटीपृष्ठ-मन्योन्यस्य समाश्रिताः। परस्पर.निविष्टाङ्ग्यो मदस्नेह.वशानुगाः।। • अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा।। • लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्य.मालाग्रथितं संसक्त.कुसुमोच्चयम्। • व्यतिवेष्टित.सुस्कन्ध-मन्योन्यभ्रमराकुलम्। आसी.द्वन.मिवोद्धूतं स्त्रीवनं रावणस्य तत्।। • उचिते.ष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्।। • रावणे सुखसंविष्टे ता.स्स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव।। • राजर्षि.पितृदैत्यानां गन्धर्वाणां च योषितः। राक्षसानां च याः कन्या-स्तस्य कामवशं गताः।। • युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चि.दागताः।। • न तत्र काचि.त्प्रमदा प्रसह्य-वीर्योपपन्नेन गुणेन लब्धा। न चान्यकामापि न चान्यपूर्वा- विना वरार्हां जनकात्मजां ताम्।। • न चाकुलीना न च हीनरूपा- नादक्षिणा नानुपचारयुक्ता। भार्याभवत्तस्य न हीनसत्त्वा- न चापि कान्तस्य न कामनीया।। • बभूव बुद्धिस्तु हरीश्वरस्य- यदीदृशी राघव.धर्मपत्नी। इमा यथा राक्षसराज.भार्याः- सुजात.मस्येति हि साधुबुद्धेः।। • पुनश्च सोऽचिन्तय.दार्तरूपो- ध्रुवं विशिष्टा गुणतो हि सीता। अथाय.मस्यां कृतवा.न्महात्मा- लङ्केश्वरः कष्ट.मनार्यकर्म।। सर्गः 10 मन्दोदरीदर्शनम् • तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्। • दान्तकाञ्चन.चित्राङ्गै-र्वैडूर्यैश्च वरासनैः। महार्हास्तरणोपेतै-रुपपन्नं महाधनैः।। • तस्य चैकतमे देशे सोऽग्य्रमाला.विभूषितम्। ददर्श पाण्डुरं छत्रं ताराधिपति.सन्निभम्।। • जातरूप.परिक्षिप्तं चित्रभानु.समप्रभम्। अशोकमाला.विततं ददर्श परमासनम्। • वालव्यजन.हस्ताभि-र्वीज्यमानं समन्ततः। गन्धैश्च विविधै.र्जुष्टं वरधूपेन धूपितम्। • परमास्तरणास्तीर्ण-माविकाजिन.संवृतम्। दामभि.र्वरमाल्यानां समन्ता.दुपशोभितम्।। • तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तम.कुण्डलम्। लोहिताक्षं महाबाहुं महारजत.वाससम्। • लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना। सन्ध्यारक्त.मिवाकाशे तोयदं सतटिद्गणम्। • वृत.माभरणै.र्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवन.गुल्माढ्यं प्रसुप्तमिव मन्दरम्। • क्रीडित्वोपरतं रात्रौ वराभरण.भूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्। • पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्।। • निश्श्वसन्तं यथा नागं रावणं वानरर्षभः। आसाद्य परमोद्विग्न-स्सोपासर्प.त्सुभीतवत्।। • अथारोहण.मासाद्य वेदिकाऽन्तर.माश्रितः। सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः।। • शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्।। • काञ्चनाङ्गद.बद्धौ च ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजा.विन्द्रध्वजोपमौ। • ऐरावत.विषाणाग्रै-रापीडन.कृतव्रणौ। वज्रोल्लिखित.पीनांसौ विष्णुचक्र.परिक्षतौ। • पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षण.नखाङ्गुष्ठौ स्वङ्गुलीतल.लक्षितौ। • संहतौ परिघाकारौ वृत्तौ करि.करोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षा.विवोरगौ। • शशक्षतज.कल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ। • उत्तमस्त्री.विमृदितौ गन्धोत्तम.निषेवितौ। यक्षपन्नग.गन्धर्व-देवदानव.राविणौ।। • ददर्श स कपि.स्तत्र बाहू शयन.संस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिता.विव।। • ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचल.सङ्काशः शृङ्गाभ्या.मिव मन्दरः।। • चूतपुन्नाग.सुरभि-र्वकुलोत्तम.संयुतः। मृष्टान्नरस.संयुक्तः पानगन्ध.पुरस्कृतः। • तस्य राक्षससिंहस्य निश्चक्राम महामुखात्। शयानस्य विनिश्श्वासः पूरय.न्निव तद्गृहम्।। • मुक्तामणि.विचित्रेण काञ्चनेन विराजितम्। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्। • रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायत.विशालेन वक्षसाऽभिविराजितम्। • पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तम.वाससा। • माषराशि.प्रतीकाशं निश्श्वसन्तं भुजङ्गवत्। गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्। • चतुर्भिः काञ्चनै.र्दीपै-र्दीप्यमान.चतुर्दिशम्। प्रकाशीकृत.सर्वाङ्गं मेघं विद्युद्गणै.रिव। • पादमूल.गताश्चापि ददर्श सुमहात्मनः। पत्नी: स प्रियभार्यस्य तस्य रक्षःपते.र्गृहे।। • शशिप्रकाश.वदना-श्चारुकुण्डल.भूषिताः। अम्लानमाल्याभरणा ददर्श हरियूथपः।। • नृत्तवादित्र.कुशला राक्षसेन्द्र.भुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे हरिः।। • वज्रवैडूर्य.गर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डला.न्यङ्गदानि च।। • तासां चन्द्रोपमै.र्वक्त्रै-श्शुभै.र्ललितकुण्डलैः। विरराज विमानं त-न्नभ.स्तारागणैरिव।। • मदव्यायाम.खिन्ना.स्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्ता.स्तनुमध्यमाः।। • अङ्गहारै.स्तथैवान्या कोमलै.र्नृत्तशालिनी। विन्यस्त.शुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी।। • काचि.द्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदी.प्रकीर्णेव नलिनी पोत.माश्रिता।। • अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला।। • पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी।। • काचि.द्वंशं परिष्वज्य सुप्ता कमललोचना। रहः प्रियतमं गृह्य सकामेव च कामिनी।। • विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी। निद्रावश.मनुप्राप्ता सह कान्तेव भामिनी।। • अन्या कनक.सङ्काशै-र्मृदुपीनै.र्मनोरमैः। मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना।। • भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी। पणवेव सहानिन्द्या सुप्ता मदकृतश्रमा।। • डिण्डिमं परिगृह्यान्या तथैवासक्त.डिण्डिमा। प्रसुप्ता तरुणं वत्स-मुपगूह्येव भामिनी।। • काचि.दाडम्बरं नारी भुजसंयोग.पीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता।। • कलशी.मपविध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता।। • पाणिभ्यां च कुचौ काचि-त्सुवर्ण.कलशोपमौ। उपगूह्याबला सुप्ता निद्राबल.पराजिता।। • अन्या कमलपत्राक्षी पूर्णेन्दु.सदृशानना। अन्या.मालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला।। • आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचै.स्सुप्ता कामिन्यः कामुकानिव।। • तासा.मेकान्त.विन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्ना-मपरां स कपिः स्त्रियम्।। • मुक्तामणि.समायुक्तै.-र्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव तत्-स्वश्रिया भवनोत्तमम्। • गौरीं कनकवर्णाभा-मिष्टा.मन्तःपुरेश्वरीम्। कपि.र्मन्दोदरीं तत्र शयानां चारुरूपिणीम्।। • स तां दृष्ट्वा महाबाहु-र्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवन.सम्पदा। हर्षेण महता युक्तो ननन्द हरियूथपः।। • आस्फोटयामास चुचुम्ब पुच्छं- ननन्द चिक्रीड जगौ जगाम। स्तम्भा.नरोह.न्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्।। सर्गः 11 पानभूमिविचयः • अवधूय च तां बुद्धिं बभूवावस्थित.स्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः।। • न रामेण वियुक्ता सा स्वप्तु.मर्हति भामिनी। न भोक्तुं वाप्यलङ्कर्तुं न पान.मुपसेवितुम्। • नान्यं नर.मुपस्थातुं सुराणा.मपि चेश्वरम्। न हि रामसमः कश्चि.-द्विद्यते त्रिदशेष्वपि। • अन्येय.मिति निश्चित्य पानभूमौ चचार सः।। • क्रीडितेनापराः क्लान्ता गीतेन च तथाऽपराः। नृत्तेन चापराः क्लान्ताः पानविप्रहता.स्तथा।। • मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः। तथास्तरण.मुख्येषु संविष्टाश्चापराः स्त्रियः।। • अङ्गनानां सहस्रेण भूषितेन विभूषणैः। रूपसल्लाप.शीलेन युक्तगीतार्थ.भाषिणा। • देशकालाभियुक्तेन युक्तवाक्याभिधायिना। रताभिरत.संसुप्तं ददर्श हरियूथपः।। • तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः।। • स राक्षसेन्द्रः शुशुभे ताभिः परिवृत.स्स्वयम्। करेणुभि.र्यथाऽरण्ये परिकीर्णो महाद्विपः।। • सर्वकामै.रुपेतां च पानभूमिं महात्मनः। ददर्श हरिशार्दूल-स्तस्य रक्षःपते.र्गृहे।। • मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः।। • रौक्मेषु च विशालेषु भाजने.ष्वर्धभक्षितान्। ददर्श हरिशार्दूलो मयूरान् कुक्कुटां.स्तथा।। वराह.वार्ध्राणसकान् दधि.सौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमा.नन्ववैक्षत।। • क्रकरा.न्विविधान् सिद्धां-श्चकोरा.नर्धभक्षितान्। महिषा.नेकशल्यांश्च छागांश्च कृतनिष्ठितान्। • लेह्या.नुच्चावचा.न्पेयान् भोज्यानि विविधानि च।। • तथाम्ल.लवणोत्तंसै-र्विविधै.राग.षाडवैः। हारनूपुर.केयूरै-रपविद्धै.र्महाधनैः। • पानभाजन.विक्षिप्तैः फलैश्च विविधै.रपि। कृत.पुष्पोपहारा भू-रधिकं पुष्यति श्रियम्।। • तत्र तत्र च विन्यस्तै: सुश्लिष्टै.श्शयनासनैः। पानभूमि.र्विना वह्निं प्रदीप्तेवोपलक्ष्यते।। • बहुप्रकारै.र्विविधै-र्वरसंस्कार.संस्कृतैः। मांसैः कुशलसम्पृक्तैः पानभूमिगतैः पृथक्।। • दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि। शर्करासवमाध्वीक-पुष्पासव.फलासवाः। वासचूर्णैश्च विविधै-र्मृष्टा.स्तै.स्तैः पृथक् पृथक्।। • सन्तता शुशुभे भूमि-र्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च विविधै-र्भाजनैः स्फाटिकै.रपि। जाम्बूनदमयै.श्चान्यैः करकै.रभिसंवृता।। • राजतेषु च कुम्भेषु जाम्बूनद.मयेषु च। पानश्रेष्ठं तदा भूरि कपि.स्तत्र ददर्श ह।। • सोऽपश्य.च्छातकुम्भानि सीधो.र्मणिमयानि च। राजतानि च पूर्णानि भाजनानि महाकपिः।। • क्वचि.दल्पावशेषाणि क्वचि.त्पीतानि सर्वशः। क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह।। • क्वचि.द्भक्ष्यांश्च विविधान् क्वचि.त्पानानि भागशः। क्वचिदन्नावशेषाणि पश्य.न्वै विचचार ह।। • क्वचि.त्प्रभिन्नैः करकैः क्वचि.दालोलितै.र्घटैः। क्वचि.त्संपृक्त.माल्यानि जलानि च फलानि च।। • शयना.न्यत्र नारीणां शुभ्राणि बहुधा पुनः। परस्परं समाश्लिष्य काश्चि.त्सुप्ता वराङ्गनाः।। • काश्चिच्च वस्त्र.मन्यस्या-स्स्वपन्त्याः परिधाय च। आहृत्य चाबलाः सुप्ता निद्राबल.पराजिताः।। • तासा.मुच्छ्वास.वातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्।। • चन्दनस्य च शीतस्य शीधो.र्मधुरसस्य च। विविधस्य च माल्यस्य धूपस्य विविधस्य च। बहुधा मारुत.स्तत्र गन्धं विविध.मुद्वहन्।। • रसानां चन्दनानां च धूपानां चैव मूर्छितः। प्रववौ सुरभि.र्गन्धो विमाने पुष्पके तदा।। • श्यामावदाता.स्तत्रान्याः काश्चि.त्कृष्णा वराङ्गनाः। काश्चित् काञ्चन.वर्णाङ्ग्यः प्रमदा राक्षसालये।। • तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्। पद्मिनीनां प्रसुप्तानां रूप.मासी.द्यथैव हि।। • एवं सर्व.मशेषेण रावणान्तःपुरं कपिः। ददर्श सुमहातेजा- न ददर्श च जानकीम्।। • निरीक्षमाणश्च तदा- ताः स्त्रियः स महाकपिः। जगाम महतीं चिन्तां धर्मसाध्वस.शङ्कितः।। • परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति।। • न हि मे परदाराणां दृष्टि.र्विषयवर्तिनी। अयं चात्र मया दृष्टः परदारा.परिग्रहः।। • तस्य प्रादुरभू.च्चिन्ता पुन.रन्या मनस्विनः। निश्चितैकान्त.चित्तस्य कार्यनिश्चय.दर्शिनी।। • कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न हि मे मनसः किञ्चि-द्वैकृत्य.मुपजायते।। • मनो हि हेतुः सर्वेषा-मिन्द्रियाणां प्रवर्तने। शुभाशुभा.स्ववस्थासु तच्च मे सुव्यवस्थितम्।। • नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे।। • यस्य सत्त्वस्य या योनि-स्तस्यां तत्परिमार्ग्यते। न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्।। • तदिदं मार्गितं ताव-च्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न तु जानकी।। • देवगन्धर्व.कन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमा-न्नैवापश्यत जानकीम्।। • ता.मपश्य.न्कपि.स्तत्र पश्यंश्चान्या परस्त्रियः। अपक्रम्य तदा वीरः प्रध्यातु.मुपचक्रमे।। • स भूयस्तु परं श्रीमान् मारुति.र्यत्न.मास्थितः। आपानभूमि.मुत्सृज्य तद्विचेतुं प्रचक्रमे।। सर्गः 12 हनूमद्विषादः • स तस्य मध्ये भवनस्य मारुति-र्लतागृहां.श्चित्रगृहा.न्निशागृहान्। जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्।। • स चिन्तयामास ततो महाकपिः- प्रिया.मपश्य.न्रघुनन्दनस्य ताम्। ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शन.मेति मैथिली।। • सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षण.तत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवे.दार्यपथे परे स्थिता।। • विरूपरूपा विकृता विवर्चसो- महानना दीर्घविरूपदर्शनाः। समीक्ष्य सा राक्षसराजयोषितो- भया.द्विनष्टा जनकेश्वरात्मजा।। • सीता.मदृष्ट्वा ह्यनवाप्य पौरुषं- विहृत्य कालं सह वानरै.श्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः- सुतीक्ष्णदण्डो बलवांश्च वानरः।। • दृष्ट.मन्तःपुरं सर्वं- दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः।। • किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः। गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः।। • अदृष्ट्वा किं प्रवक्ष्यामि ता.महं जनकात्मजाम्। ध्रुवं प्राय.मुपैष्यन्ति कालस्य व्यतिवर्तने।। • किं वा वक्ष्यति वृद्धश्च जाम्बवा.नङ्गदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः।। • अनिर्वेदः श्रियो मूल-मनिर्वेदः परं सुखम्। अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।। • करोति सफलं जन्तोः कर्म य.त्तत्करोति सः। तस्मा.दनिर्वेदकृतं यत्नं चेष्टेऽह.मुत्तमम्। भूय.स्ताव.द्विचेष्यामि देशा.न्रावणपालितान्।। • आपानशाला विचिता-स्तथा पुष्पगृहाणि च। चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च। निष्कुटान्तर.रथ्याश्च विमानानि च सर्वशः।। • इति सञ्चिन्त्य भूयोऽपि विचेतु.मुपचक्रमे। भूमीगृहां.श्चैत्यगृहान् गृहातिगृहकानपि।। • उत्पत.न्निष्पतंश्चापि तिष्ठ.न्गच्छन् पुनः पुनः। अपावृण्वंश्च द्वाराणि कवाटा.न्यवघाटयन्। प्रविश.न्निष्पतंश्चापि प्रपत.न्नुत्पत.न्नपि। सर्व.मप्यवकाशं स विचचार महाकपिः।। • चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते। रावणान्तःपुरे तस्मिन् यं कपि.र्न जगाम सः।। • प्राकारान्तर.रथ्याश्च वेदिका.श्चैत्यसंश्रयाः। दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम्।। • राक्षस्यो विविधाकारा विरूपा विकृता.स्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा।। • रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी।। • नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सीता सुमध्यमा।। • प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी।। • सोऽपश्यं.स्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद मुहु.र्धीमान् हनुमान् मारुतात्मजः।। • उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुत-श्चिन्तां पुन.रुपागमत्।। • अवतीर्य विमानाच्च हनुमान् मारुतात्मजः। चिन्ता.मुपजगामाथ शोकोपहत.चेतनः।। सर्गः 13 हनुमन्निर्वेदः • विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः। हनुमा.न्वेगवा.नासी-द्यथा विद्यु.द्घनान्तरे।। • सम्परिक्रम्य हनुमा-न्रावणस्य निवेशनात्। अदृष्ट्वा जानकीं सीता-मब्रवी.द्वचनं कपिः।। • भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्। न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्।। • पल्वलानि तटाकानि सरांसि सरित.स्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः। लोलिता वसुधा सर्वा न तु पश्यामि जानकीम्।। • इह सम्पातिना सीता रावणस्य निवेशने। आख्याता गृध्रराजेन न च पश्यामि ता.महम्।। • किं नु सीताऽथ वैदेही मैथिली जनकात्मजा। उपतिष्ठेत विवशा रावणं दुष्टचारिणम्।। • क्षिप्र.मुत्पततो मन्ये सीता.मादाय रक्षसः। बिभ्यतो रामबाणाना-मन्तरा पतिता भवेत्।। • अथवा ह्रियमाणायाः पथि सिद्धनिषेविते। मन्ये पतित.मार्याया हृदयं प्रेक्ष्य सागरम्।। • रावणस्योरुवेगेन भुजाभ्यां पीडितेन च। तया मन्ये विशालाक्ष्या त्यक्तं जीवित.मार्यया।। • उपर्युपरि वा नूनं सागरं क्रमत.स्तदा। विवेष्टमाना पतिता सागरे जनकात्मजा।। • अहो क्षुद्रेण वाऽनेन रक्षन्ती शील.मात्मनः। अबन्धु.र्भक्षिता सीता रावणेन तपस्विनी।। • अथवा राक्षसेन्द्रस्य पत्नीभि.रसितेक्षणा। अदुष्टा दुष्टभावाभि-र्भक्षिता सा भविष्यति।। • सम्पूर्णचन्द्रप्रतिमं पद्मपत्र.निभेक्षणम्। रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता।। • हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति।। • अथवा निहिता मन्ये रावणस्य निवेशने। नूनं लालप्यते सीता पञ्जरस्थेव शारिका।। • जनकस्य सुता सीता रामपत्नी सुमध्यमा। कथ.मुत्पलपत्राक्षी रावणस्य वशं व्रजेत्।। • विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्।। • निवेद्यमाने दोष.स्स्या-द्दोष.स्स्या.दनिवेदने। कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे।। • अस्मि.न्नेवंगते कार्ये प्राप्तकालं क्षमं च किम्। भवे.दिति मतं भूयो हनुमा.न्प्रव्यचारयत्।। • यदि सीता.मदृष्ट्वाऽहं वानरेन्द्रपुरी.मितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति।। • ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति। प्रवेश.श्चैव लङ्काया राक्षसानां च दर्शनम्।। • किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः। किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ।। • गत्वा तु यदि काकुत्स्थं वक्ष्यामि पर.मप्रियम्। न दृष्टेति मया सीता तत.स्तक्ष्यति जीवितम्।। • परुषं दारुणं क्रूरं तीक्ष्ण.मिन्द्रिय.तापनम्। न दृष्टेति मया सीता तत.स्तक्ष्यति जीवितम्। • सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति। तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगत.मानसम्। • भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः।। • विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति।। • पुत्रा.न्मृता.न्समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः।। • कृतज्ञ.स्सत्यसन्धश्च सुग्रीवः प्लवगाधिपः। रामं तथा गतं दृष्ट्वा तत.स्त्यक्ष्यति जीवितम्।। • दुर्मना व्यथिता दीना निरानन्दा तपस्विनी। पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्।। • वालिजेन तु दुःखेन पीडिता शोककर्शिता। पञ्चत्वं च गते राज्ञि ताराऽपि न भविष्यति।। • मातापित्रो.र्विनाशेन सुग्रीव.व्यसनेन च। कुमारोऽप्यङ्गदः कस्मा-द्धारयिष्यति जीवितम्।। • भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः। शिरां.स्यभिहनिष्यन्ति तलै.र्मुष्टिभि.रेव च।। • सान्त्वेनानुप्रदानेन मानेन च यशस्विना। लालिताः कपिराजेन प्राणां.स्त्यक्ष्यन्ति वानराः।। • न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडा.मनुभविष्यन्ति समेत्य कपिकुञ्जराः।। • सपुत्रदारा.स्सामात्या भर्तृव्यसन.पीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च।। • विष.मुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा। उपवास.मथो शस्त्रं प्रचरिष्यन्ति वानराः।। • घोर.मारोदनं मन्ये गते मयि भविष्यति। इक्ष्वाकुकुल.नाशश्च नाश.श्चैव वनौकसाम्।। • सोऽहं नैव गमिष्यामि किष्किन्धां नगरी.मितः। न च शक्ष्या.म्यहं द्रष्टुं सुग्रीवं मैथिलीं विना।। • मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ। आशया तौ धरिष्येते वानराश्च मनस्विनः।। • हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्। सागरानूपजे देशे बहुमूल.फलोदके।। • चितां कृत्वा प्रवेक्ष्यामि समिद्ध.मरणीसुतम्। उपविष्टस्य वा सम्य-ग्लिङ्गिनीं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च।। • इदं महर्षिभि.र्दृष्टं निर्याण.मिति मे मतिः। सम्य.गापः प्रवेक्ष्यामि न चे.त्पश्यामि जानकीम्।। • सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्रीयं मम सीता.मपश्यतः।। • तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि ता.मदृष्ट्वासितेक्षणाम्।। • यदीतः प्रतिगच्छामि सीता.मनधिगम्य ताम्। अङ्गद.स्सह तै.स्सर्वै.-र्वानरै.र्न भविष्यति।। • विनाशे बहवो दोषा जीवन् भद्राणि पश्यति। तस्मा.त्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः।। • एवं बहुविधं दुःखं मनसा धारय.न्मुहुः। नाध्यगच्छ.त्तदा पारं शोकस्य कपिकुञ्जरः।। • रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काम.मस्तु हृता सीता प्रत्याचीर्णं भविष्यति।। • अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपते.रिव।। • इति चिन्तां समापन्न-स्सीता.मनधिगम्य ताम्। ध्यानशोक.परीतात्मा चिन्तयामास वानरः।। • यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम्। ताव.देतां पुरीं लङ्कां विचिनोमि पुनः पुनः।। • सम्पातिवचना.च्चापि रामं यद्यानया.म्यहम्। अपश्यन् राघवो भार्यां निर्दहे.त्सर्ववानरान्।। • इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः।। • अशोकवनिका चेयं दृश्यते या महाद्रुमा। इमा.मधिगमिष्यामि न हीयं विचिता मया।। • वसू.न्रुद्रां.स्तथाऽदित्या-नश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः।। • जित्वा तु राक्षसान् सर्वा-निक्ष्वाकुकुल.नन्दिनीम्। सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने।। • स मुहूर्त.मिव ध्यात्वा चिन्तावग्रथितेन्द्रियः। उदतिष्ठ.न्महातेजा हनूमान् मारुतात्मजः।। • नमोऽस्तु रामाय सलक्ष्मणाय- देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्र.यमानिलेभ्यो- नमोऽस्तु चन्द्रार्क.मरुद्गणेभ्यः।। • स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः। दिश.स्सर्वा.स्समालोक्य ह्यशोकवनिकां प्रति।। • स गत्वा मनसा पूर्व-मशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः।। • ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कार.संस्कृता।। • रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवा.नपि सर्वात्मा नातिक्षोभं प्रवाति वै। संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च।। • सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणा.स्त्विह। ब्रह्मा स्वयंभू.र्भगवान् देवा.श्चैव दिशन्तु मे। सिद्धि.मग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्। • वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः शर्व एव च। • सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः।। • तदुन्नसं पाण्डुरदन्त.मव्रणं- शुचिस्मितं पद्मपलाश.लोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं- प्रसन्नताराधिप.तुल्यदर्शनम्।। • क्षुद्रेण पापेन नृशंसकर्मणा- सुदारुणालङ्कृत.वेषधारिणा। बलाभिभूता ह्यबला तपस्विनी- कथं नु मे दृष्टिपथेऽद्य सा भवेत्।। सर्गः 14 अशोकवनिका विचयः • स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः।। • स तु संहृष्ट.सर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रा.न्वसन्तादौ ददर्श विविधान् द्रुमान्। • साला.नशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालका.न्नागवृक्षां-श्चूता.न्कपिमुखा.नपि।। • अथाम्रवण.सञ्छन्नान् लताशत.समावृताम्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्।। • स प्रविश्य विचित्रां तां विहगै.रभिनादिताम्। राजतैः कांचनै.श्चैव पादपैः सर्वतो वृताम्। • विहगै.र्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्य.सङ्काशां ददर्श हनुमान् कपिः। • वृतां नानाविधै.र्वृक्षैः पुष्पोपग.फलोपगैः। कोकिलै.र्भृङ्गराजैश्च मत्तै.र्नित्य.निषेविताम्। • प्रहृष्टमनुजे काले मृगपक्षि.समाकुले। मत्तबर्हिण.सङ्घुष्टां नानाद्विज.गणायुताम्।। • मार्गमाणो वरारोहां राजपुत्री.मनिन्दिताम्। सुखप्रसुप्ता.न्विहगान् बोधयामास वानरः।। • उत्पतद्भि.र्द्विजगणैः पक्षैः साला.स्समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः।। • पुष्पावकीर्ण.श्शुशुभे हनुमान् मारुतात्मजः। अशोकवनिका.मध्ये यथा पुष्पमयो गिरिः।। • दिश.स्सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे।। • वृक्षेभ्यः पतितैः पुष्पै-रवकीर्णा पृथग्विदैः। रराज वसुधा तत्र प्रमदेव विभूषिता।। • तरस्विना ते तरव-स्तरसाभिप्रकम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिना तदा।। • निर्धूत.पत्रशिखराः शीर्णपुष्पफला द्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः।। • हनूमता वेगवता कम्पिता.स्ते नगोत्तमाः। पुष्पपर्णफला.न्याशु मुमुचुः पुष्पशालिनः।। • विहङ्गसङ्घै.र्हीना.स्ते स्कन्धमात्राश्रया द्रुमाः। बभूवु.रगमाः सर्वे मारुतेनेव निर्धुताः।। • निर्धूतकेशी युवति-र्यथा मृदितवर्णका। निष्पीत.शुभदन्तोष्ठी नखै.र्दन्तैश्च विक्षता। • तथा लाङ्गूल.हस्तैश्च चरणाभ्यां च मर्दिता। बभूवाशोकवनिका प्रभग्न.वरपादपा।। • महालतानां दामानि व्यधम.त्तरसा कपिः। यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः।। • स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च ददर्श विचर.न्कपिः।। • वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्है.र्मणिसोपानै-रुपपन्ना.स्तत.स्ततः। • मुक्ताप्रवाल.सिकताः स्फाटिकान्तर.कुट्टिमाः। काञ्चनै.स्तरुभि.श्चित्रै-स्तीरजै.रुपशोभिताः। • फुल्लपद्मोत्पल.वना-श्चक्रवाकोपकूजिताः। नत्यूह.रुत.संघुष्टा हंस.सारस.नादिताः। • दीर्घाभि.र्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपम.तोयाभि-श्शिवाभि.रुपसंस्कृताः। • लताशतै.रवतता-स्सन्तान.कुसुमावृताः। नानागुल्मावृतघनाः करवीर.कृतान्तराः।। • ततोऽम्बुधर.सङ्काशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्। • शिलागृहै.रवततं नानावृक्षैः समावृतम्। ददर्श हरिशार्दूलो रम्यं जगति पर्वतम्।। • ददर्श च नगा.त्तस्मा-न्नदीं निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम्। • जले निपतिताग्रैश्च पादपै.रुपशोभिताम्। वार्यमाणा.मिव क्रुद्धां प्रमदां प्रियबन्धुभिः। • पुनरावृत्त.तोयां च ददर्श स महाकपिः। प्रसन्ना.मिव कान्तस्य कान्तां पुन.रुपस्थिताम्।। • तस्या दूरा.त्स पद्मिन्यो नानाद्विजगणायुताः। ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः।। • कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवर.सोपानां मुक्तासिकत.शोभिताम्। • विविधै.र्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादै.स्सुमहद्भिश्च निर्मितै.र्विश्वकर्मणा। • काननैः कृत्रिमै.श्चापि सर्वतः समलङ्कृताम्।। • ये केचि.त्पादपा.स्तत्र पुष्पोपग.फलोपगाः। सच्छत्रा.स्सवितर्दीका-स्सर्वे सौवर्ण.वेदिकाः।। • लताप्रतानै.र्बहुभिः पर्णैश्च बहुभिर्वृताम्। काञ्चनीं शिंशुपा.मेकां ददर्श हरियूथपः। • वृतां हेममयीभिस्तु वेदिकाभि.स्समन्ततः।। • सोऽपश्य.द्भूमिभागांश्च गर्त.प्रस्रवणानि च। सुवर्णवृक्षा.नपरान् ददर्श शिखि.सन्निभान्।। • तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः। अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः।। • तां काञ्चनै.स्तरुगणै-र्मारुतेन च वीजिताम्। किङ्किणीशत.निर्घोषां दृष्ट्वा विस्मय.मागमत्।। • स पुष्पिताग्रां रुचिरां तरुणाङ्कुर.पल्लवाम्। ता.मारुह्य महाबाहु-श्शिंशुपां पर्णसंवृताम्।। • इतो द्रक्ष्यामि वैदेहीं रामदर्शन.लालसाम्। इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया।। • अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चम्पकै.श्चन्दनै.श्चापि वकुलैश्च विभूषिता।। • इयं च नलिनी रम्या द्विजसङ्घ.निषेविता। इमां सा राममहिषी नून.मेष्यति जानकी।। • सा रामा राममहिषी राघवस्य प्रिया सती। वनसञ्चार.कुशला नून.मेष्यति जानकी।। • अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा। वन.मेष्यति साऽर्येह रामचिन्तानुकर्शिता।। • रामशोकाभिसन्तप्ता सा देवी वामलोचना। वनवासे रता नित्य-मेष्यते वनचारिणी।। • वनेचराणां सततं नूनं स्पृहयते पुरा। रामस्य दयिता भार्या जनकस्य सुता सती।। • सन्ध्याकाल.मनाः श्यामा ध्रुव.मेष्यति जानकी। नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी।। • तस्या.श्चाप्यनुरूपेय-मशोकवनिका शुभा। शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता।। • यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति साऽवश्य-मिमां शिवजलां नदीम्।। • एवं तु मत्वा हनुमा.न्महात्मा- प्रतीक्षमाणो मनुजेन्द्रपत्नीम्। अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः।। सर्गः 15 सीतोपलम्भः • स वीक्षमाण.स्तत्रस्थो मार्गमाणश्च मैथिलीम्। अवेक्षमाणश्च महीं सर्वां ता.मन्ववैक्षत।। • सन्तान.कलताभिश्च पादपै.रुपशोभिताम्। दिव्यगन्ध.रसोपेतां सर्वत.स्समलङ्कृताम्। • तां स नन्दन.सङ्काशां मृगपक्षिभि.रावृताम्। हर्म्यप्रासाद.सम्बाधां कोकिलाकुल.निस्स्वनाम्। • काञ्चनोत्पल.पद्माभि-र्वापीभि.रुपशोभिताम्। बह्वासन.कुथोपेतां बहुभूमि.गृहायुताम्। • सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः। पुष्पिताना.मशोकानां श्रिया सूर्योदय.प्रभाम्। • प्रदीप्तामिव तत्रस्थो मारुति.स्समुदैक्षत। निष्पत्रशाखां विहगैः क्रियमाणा.मिवासकृत्। • विनिष्पतद्भिः शतश.श्चित्रैः पुष्पावतंसकैः। आमूल.पुष्पनिचितै-रशोकै.श्शोकनाशनैः। पुष्पभारातिभारैश्च स्पृशद्भि.रिव मेदिनीम्। कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः।। • स देशः प्रभया तेषां प्रदीप्त इव सर्वतः। पुन्नागा.स्सप्तपर्णाश्च चम्पकोद्दालका.स्तथा। विवृद्धमूला बहव-श्शोभन्ते स्म सुपुष्पिताः।। • शातकुम्भ.निभाः केचि-त्केचिदग्नि.शिखोपमाः। नीलाञ्जननिभाः केचि-त्तत्राशोका.स्सहस्रशः।। • नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा। अतिवृत्त.मिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्। द्वितीय.मिव चाकाशं पुष्पज्योति.र्गणायुतम्। पुष्परत्नशतै.श्चित्रं द्वितीयं सागरं यथा। सर्वर्तुपुष्पै.र्निचितं पादपै.र्मधुगन्धिभिः। नानानिनादै.रुद्यानं रम्यं मृगगणै.र्द्विजैः। अनेकगन्ध.प्रवहं पुण्यगन्धं मनोरमम्।। • शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्। अशोक.वनिकायां तु तस्यां वानरपुङ्गवः। स ददर्शाविदूरस्थं चैत्यप्रासाद.मुच्छ्रितम्। • मध्ये स्तम्भसहस्रेण स्थितं कैलास.पाण्डुरम्। प्रवालकृत.सोपानं तप्तकाञ्चन.वेदिकम्। • मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया। विमलं प्रांशुभावत्वा-दुल्लिखन्त.मिवाम्बरम्।। • ततो मलिनसंवीतां राक्षसीभि.स्समावृताम्। उपवास.कृशां दीनां निश्श्वसन्तीं पुनः पुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखा.मिवामलाम्।। • मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिखामिव विभावसोः।। • पीतेनैकेन संवीतां क्लिष्टेनोत्तम.वाससा। सपङ्का.मनलङ्कारां विपद्मामिव पद्मिनीम्।। • व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम्। ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्।। • अश्रुपूर्ण.मुखीं दीनां कृशा.मनशनेन च। शोकध्यान.परां दीनां नित्यं दुःख.परायणाम्।। • प्रियं जन.मपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगीं हीनां श्वगणाभिवृता.मिव।। • नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव। सुखार्हां दुःखसन्तप्तां व्यसनाना.मकोविदाम्।। • तां समीक्ष्य विशालाक्षी-मधिकं मलिनां कृशाम्। तर्कयामास सीतेति कारणै.रुपपादिभिः।। • ह्रियमाणा तदा तेन रक्षसा कामरूपिणा। यथारूपा हि दृष्टा वै तथारूपेय.मङ्गना।। • पूर्णचन्द्राननां सुभ्रूं चारुवृत्त.पयोधराम्। कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः। • तां नीलकेशीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम्। सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।। • इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभा.मिव। भूमौ सुतनु.मासीनां नियतामिव तापसीम्।। • निश्श्वासबहुलां भीरुं भुजगेन्द्र.वधूमिव। शोकजालेन महता विततेन न राजतीम्।। • संसक्तां धूमजालेन शिखामिव विभावसोः। तां स्मृती.मिव सन्दिग्धा-मृद्धिं निपतितामिव।। • विहतामिव च श्रद्धा-माशां प्रतिहतामिव। सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव।। • अभूतेनापवादेन कीर्तिं निपतितामिव। रामोपरोध.व्यथितां रक्षोहरण.कर्शिताम्।। • अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः। बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निश्श्वसन्तीं पुनः पुनः।। • मलपङ्कधरां दीनां मण्डनार्हा.ममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघै.रिवावृताम्।। • तस्य संदिदिहे बुद्धि-र्मुहुः सीतां निरीक्ष्य तु। आम्नायाना.मयोगेन विद्यां प्रशिथिला.मिव।। • दुःखेन बुबुधे सीतां हनुमा.ननलङ्कृताम्। संस्कारेण यथा हीनां वाच.मर्थान्तरं गताम्।। • तां समीक्षय विशालाक्षीं राजपुत्री.मनिन्दिताम्। तर्कयामास सीतेति कारणै.रुपपादिभिः।। • वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्। तान्याभरण.जालानि गात्रशोभी.न्यलक्षयत्। • सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविद्रुम.चित्राणि हस्ते.ष्वाभरणानि च। • श्यामानि चिरयुक्तत्वात्- तथा संस्थानवन्ति च।। • तान्यैवेतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्। तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः।। • पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः।। • भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च।। • इदं चिरगृहीतत्वा-द्वसनं क्लिष्टवत्तरम्। तथाऽपि नूनं तद्वर्णं तथा श्रीम.द्यथेतरत्।। • इयं कनक.वर्णाङ्गी रामस्य महिषी प्रिया। प्रणष्टापि सती याऽस्य मनसो न प्रणश्यति।। • इयं सा यत्कृते राम.श्चतुर्भिः परितप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च। • स्त्री प्रणष्टेति कारुण्या-दाश्रिते.त्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च।। • अस्या देव्या यथा रूप-मङ्गप्रत्यङ्ग.सौष्ठवम्। रामस्य च यथा रूपं तस्येय.मसितेक्षणा।। • अस्या देव्या मन.स्तस्मिं-स्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्त.मपि जीवति।। • दुष्करं कृतवा.न्रामो हीनो य.दनया प्रभुः। धारय.त्यात्मनो देहं न शोकेनावसीदति।। • दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्। सीतां विना महाबाहु-र्मुहूर्त.मपि जीवति।। • एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः। जगाम मनसा रामं प्रशशंस च तं प्रभुम्।। सर्गः 16 हनुमत् परितापः • प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः। गुणाभिरामं रामं च पुन.श्चिन्तापरोऽभवत्।। • स मुहूर्तमिव ध्यात्वा बाष्प.पर्याकुलेक्षणः। सीता.माश्रित्य तेजस्वी हनूमा.न्विललाप ह।। • मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः।। • रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे।। • तुल्यशील.वयोवृत्तां तुल्याभिजन.लक्षणाम्। राघवोऽर्हति वैदेहीं तं चेय.मसितेक्षणा।। • तां दृष्ट्वा नवहेमाभां लोककान्ता.मिव श्रियम्। जगाम मनसा रामं वचनं चेद.मब्रवीत्।। • अस्या हेतो.र्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः।। • विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः।। • चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरै.रग्निशिखोपमैः।। • खरश्च निहत.स्सङ्ख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना।। • ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम्।। • सागरश्च मया क्रान्त-श्श्रीमा.न्नदनदीपतिः। अस्या हेतो.र्विशालाक्ष्याः पुरी चेय.मवेक्षिता।। • यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्त.मित्येव मे मतिः।। • राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुया.त्कलाम्।। • इयं सा धर्मशीलस्य मैथिलस्य महात्मनः। सुता जनकराजस्य सीता भर्तृ.दृढव्रता। • उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुख.क्षते। पद्मरेणु.निभैः कीर्णा शुभैः केदार.पांसुभिः।। • विक्रान्तस्यार्यशीलस्य संयुगे.ष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी।। • धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवश.मागता।। • सर्वान् भोगा.न्परित्यज्य भर्तृस्नेहबला.त्कृता। अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्। • संतुष्टा फलमूलेन भर्तृ.शुश्रूषणे रता। या परां भजते प्रीतिं वनेऽपि भवने यथा। • सेयं कनक.वर्णाङ्गी नित्यं सुस्मित.भाषिणी। सहते यातना.मेता-मनर्थाना.मभागिनी।। • इमां तु शीलसम्पन्नां द्रष्टु.मर्हति राघवः। रावणेन प्रमथितां प्रपा.मिव पिपासितः।। • अस्या नूनं पुन.र्लाभा-द्राघवः प्रीति.मेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्।। • कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारय.त्यात्मनो देहं तत्समागम.काङ्क्षिणी।। • नैषा पश्यति राक्षस्यो नेमा.न्पुष्पफल.द्रुमान्। एकस्थहृदया नूनं राम.मेवानुपश्यति।। • भर्ता नाम परं नार्या भूषणं भूषणा.दपि। एषा तु रहिता तेन भूषणार्हा न शोभते।। • दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारय.त्यात्मनो देहं न दुःखेनावसीदति।। • इमा.मसितकेशान्तां शतपत्र.निभेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः।। • क्षतिक्षमा पुष्करसन्निभाक्षी- या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभि.र्विकृतेक्षणाभिः- संरक्ष्यते सम्प्रति वृक्षमूले।। • हिमहत.नलिनीव नष्टशोभा- व्यसन.परम्परया निपीड्यमाना। सहचर.रहितेव चक्रवाकी- जनकसुता कृपणां दशां प्रपन्ना।। • अस्या हि पुष्पावनताग्र.शाखाः- शोकं दृढं वै जनय.न्त्यशोकाः। हिम.व्यपायेन च शीतरश्मि- रभ्युत्थितो नैकसहस्ररश्मि:।। • इत्येव.मर्थं कपि.रन्ववेक्ष्य सीतेय.मित्येव निविष्टबुद्धि:। संश्रित्य तस्मि.न्निषसाद वृक्षे- बली हरीणा.मृषभ.स्तरस्वी।। सर्गः 17 राक्षसीपरिवारः • ततः कुमुदषण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभ.श्चन्द्रो हंसो नील.मिवोदकम्।। • साचिव्य.मिव कुर्वन् स- प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभि.श्शीतै-स्सिषेवे पवनात्मजम्।। • स ददर्श ततः सीतां पूर्णचन्द्र.निभाननाम्। शोकभारै.रिव न्यस्तां भारै.र्नाव.मिवाम्भसि।। • दिदृक्षमाणो वैदेहीं हनुमा.न्मारुतात्मजः। स ददर्शाविदूरस्था राक्षसी.र्घोरदर्शनाः। • एकाक्षी.मेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वास.नासिकाम्। • अतिकायोत्तमाङ्गीं च तनुदीर्घ.शिरोधराम्। ध्वस्तकेशीं तथाऽकेशीं केशकम्बल.धारिणीम्। • लम्बकर्ण.ललाटां च लम्बोदर.पयोधराम्। लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्। • ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम्।। • विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः। कालायस.महाशूल-कूट.मुद्गर.धारिणीः। • वराह.मृग.शार्दूल-महिषाज.शिवा.मुखीः। गजोष्ट्र.हय.पादीश्च निखात.शिरसोऽपराः। • एकहस्तैकपादाश्च खरकर्ण्य.श्वकर्णिकाः। गोकर्णी.र्हस्तिकर्णीश्च हरिकर्णी.स्तथापराः। • अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः। गज.सन्निभनासाश्च ललाटोच्छ्वास.नासिकाः। • हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्र.शिरोग्रीवा अतिमात्र.कुचोदरीः। • अतिमात्रास्य.नेत्राश्च दीर्घजिह्वा.नखा.स्तथा। अजामुखी.र्हस्तिमुखी-र्गोमुखी.स्सूकरीमुखीः। • हयोष्ट्रखर.वक्त्राश्च राक्षसी.र्घोरदर्शनाः। शूलमुद्गर.हस्ताश्च क्रोधनाः कलहप्रियाः।। • कराला धूम्रकेशीश्च राक्षसी.र्विकृताननाः। पिबन्ती: सततं पानं सदा मांस.सुराप्रियाः।। • मांस.शोणित.दिग्धाङ्गी-र्मांसशोणित.भोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षण.दर्शनाः।। • स्कन्धवन्त.मुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्री.मनिन्दिताम्। • लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्। निष्प्रभां शोकसन्तप्तां मलसङ्कुल.मूर्धजाम्। • क्षीणपुण्यां च्युतां भूमौ तारां निपतिता.मिव।। • चारित्र.व्यपदेशाढ्यां भर्तृदर्शन.दुर्गताम्। भूषणै.रुत्तमै.र्हीनां भर्तृवात्सल्य.भूषणाम्।। • राक्षसाधिप.संरुद्धां बन्धुभिश्च विना कृताम्। वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव।। • चन्द्ररेखां पयोदान्ते शारदाभ्रै.रिवावृताम्। क्लिष्टरूपा.मसंस्पर्शा-दयुक्तामिव वल्लकीम्।। • सीतां भर्तृवशे युक्ता.-मयुक्तां राक्षसीवशे। अशोकवनिका.मध्ये शोकसागर.माप्लुताम्। • ताभिः परिवृतां तत्र- सग्रहामिव रोहिणीम्। ददर्श हनुमान् देवीं लता.मकुसुमामिव।। • सा मलेन च दिग्धाङ्गी-वपुषा चाप्यलङ्कृता। मृणाली पङ्कदिग्धेव विभाति न विभाति च।। • मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशाबाक्षीं ददर्श हनुमान् कपिः। • तां देवीं दीनवदना-मदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीता.मसितलोचनाम्।। • तां दृष्ट्वा हनुमान् सीतां मृगशाब.निभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः। • दहन्तीमिव निश्श्वासै-र्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मि.मिवोत्थिताम्।। • तां क्षमां सुविभक्ताङ्गी विनाभरण.शोभिनीम्। प्रहर्ष.मतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्।। • हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमुचे हनुमां.स्तत्र नमश्चक्रे च राघवम्।। • नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शन.संहृष्टो हनुमान् संवृतोऽभवत्।। सर्गः 18 रावणागमनम् • तथा विप्रेक्ष्यमाणस्य वनं पुष्पित.पादपम्। विचिन्वतश्च वैदेहीं किंचि.च्छेषा निशाऽभवत्।। • षडङ्ग.वेदविदुषां क्रतुप्रवर.याजिनाम्। शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्।। • अथ मङ्गलवादित्र-शब्दैः श्रुतिमनोहरैः। प्राबुध्यत महाबाहु.र्दशग्रीवो महाबलः।। • विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान्। स्रस्तमाल्याम्बरधरो वैदेही.मन्वचिन्तयत्।। • भृशं नियुक्त.स्तस्यां च मदनेन मदोत्कटः। न स तं राक्षसः कामं शशाकात्मनि गूहितुम्।। • स सर्वाभरणै.र्युक्तो बिभ्र.च्छ्रिय.मनुत्तमाम्। तां नगै.र्बहुभि.र्जुष्टां सर्वपुष्प.फलोपगैः।। • वृतां पुष्करिणीभिश्च नानापुष्पोप.शोभिताम्। सदा मदैश्च विहगै-र्विचित्रां परमाद्भुताम्।। • ईहामृगैश्च विविधै-र्जुष्टां दृष्टिमनोहरैः। वीधीः संप्रेक्षमाणश्च मणिकाञ्चन.तोरणाः। • नानामृगगणाकीर्णां फलैः प्रपतितै.र्वृताम्। अशोकवनिका.मेव प्राविश.त्संततद्रुमाम्।। • अङ्गना.शतमात्रं तु तं व्रजन्त.मनुव्रजत्। महेन्द्रमिव पौलस्त्यं देवगन्धर्व.योषितः।। • दीपिकाः काञ्चनीः काश्चि.ज्जगृहु.स्तत्र योषितः। वालव्यजन.हस्ताश्च तालवृन्तानि चापराः।। • काञ्चनै.रपि भृङ्गारै-र्जह्रुः सलिल.मग्रतः। मण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः।। • काचि.द्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी। दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना।। • राजहंस.प्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्ड.मपरा गृहीत्वा पृष्ठतो ययौ।। • निद्रामद.परीताक्ष्यो रावणस्योत्तमाः स्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव।। • व्याविद्ध.हारकेयूराः समामृदित.वर्णकाः। समागलित.केशान्ता-स्सस्वेदवदना.स्तथा। • घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टाङ्ग.कुसुमा-स्सुमाल्याकुल.मूर्धजाः। • प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रिया भार्या.स्त.मन्वयुः।। • स च कामपराधीन: पति.स्तासां महाबलः। सीतासक्तमना मन्दो मदाञ्चितगति.र्बभौ।। • ततः काञ्चीनिनादं च नूपुराणां च निस्वनम्। शुश्राव परमस्त्रीणां स कपि.र्मारुतात्मजः।। • तं चाप्रतिम.कर्माण-मचिन्त्यबल.पौरुषम्। द्वारदेश.मनुप्राप्तं ददर्श हनुमान् कपिः।। • दीपिकाभि.रनेकाभिः समन्ता.दवभासितम्। गन्धतैलावसिक्ताभि-र्ध्रियमाणाभि.रग्रतः।। • कामदर्प.मदै.र्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कन्दर्प-मपविद्ध.शरासनम्।। • मथितामृतफेनाभ-मरजो.वस्त्र.मुत्तमम्। सलील.मनुकर्षन्तं विमुक्तं सक्त.मङ्गदे।। • तं पत्रविटपे लीनः पत्रपुष्प.घनावृतः। समीपमिव संक्रान्तं निध्यातु.मुपचक्रमे।। • अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः। रूपयौवन.सम्पन्ना रावणस्य वरस्त्रियः।। • ताभिः परिवृतो राजा सुरूपाभि.र्महायशाः। तन्मृगद्विज.सङ्घुष्टं प्रविष्टः प्रमदावनम्।। • क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः। • वृतः परमनारीभि-स्ताराभि.रिव चन्द्रमाः। तं ददर्श महातेजा-स्तेजोवन्तं महाकपिः।। • रावणोऽयं महाबाहु-रिति सञ्चिन्त्य वानरः। अवप्लुतो महातेजा हनुमा.न्मारुतात्मजः।। • स तथाप्युग्रतेजाः स-न्निर्धूत.स्तस्य तेजसा। पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत्।। • स ता.मसितकेशान्तां सुश्रोणीं संहतस्तनीम्। दिदृक्षु.रसितापाङ्गा-मुपावर्तत रावणः।। सर्गः 19 कृच्छ्रगतसीतोपमाः • तस्मि.न्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवन.सम्पन्नं भूषणोत्तम.भूषितम्। • ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा।। • आच्छाद्योदर.मूरुभ्यां बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी।। • दशग्रीव.स्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श सीतां दुःखार्तां नावं सन्ना.मिवार्णवे।। • असंवृताया.मासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखा.मिव वनस्पतेः।। • मलमण्डन.चित्राङ्गीं मण्डनार्हा.ममण्डिताम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च।। • समीपं राजसिंहस्य रामस्य विदितात्मनः। सङ्कल्पहय.संयुक्तै-र्यान्ती.मिव मनोरथैः।। • शुष्यन्तीं रुदती.मेकां ध्यानशोक.परायणाम्। दुःखस्यान्त.मपश्यन्तीं रामां राम.मनुव्रताम्।। • वेष्टमानां तथाऽविष्टां पन्नगेन्द्रवधू.मिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना।। • वृत्तशीलकुले जाता-माचारवति धार्मिके। पुनस्संस्कार.मापन्नां जातामिव च दुष्कुले।। • अभूतेनापवादेन कीर्तिं निपतितामिव। आम्नायाना.मयोगेन विद्यां प्रशिथिलामिव।। • सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। पूजामिव परिक्षीणा-माशां प्रतिहता.मिव।। • आयतीमिव विध्वस्ता-माज्ञां प्रतिहता.मिव। दीप्तामिव दिशं काले पूजा.मपहृता.मिव।। • पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव। प्रभामिव तमोध्वस्ता-मुपक्षीणा.मिवापगाम्।। • वेदीमिव परामृष्टां शान्ता.मग्निशिखा.मिव। पौर्णमासीमिव निशां राहुग्रस्तेन्दु.मण्डलाम्।। • उत्कृष्टपर्ण.कमलां वित्रासित.विहङ्गमाम्। हस्तिहस्त.परामृष्टा-माकुलां पद्मिनीमिव।। • पतिशोकातुरां शुष्कां नदीं विस्राविता.मिव। परया मृजया हीनां कृष्णपक्षनिशा.मिव।। • सुकुमारीं सुजाताङ्गीं रत्नगर्भ.गृहोचिताम्। तप्यमाना.मिवोष्णेन मृणाली.मचिरोद्धृताम्।। • गृहीता.मालितां स्तम्भे यूथपेन विनाकृताम्। निश्श्वसन्तीं सुदुःखार्तां गजराज.वधूमिव।। • एकया दीर्घया वेण्या शोभमाना.मयत्नतः। नीलया नीरदापाये वनराज्या महीमिव।। • उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीना-मल्पाहारां तपोधनाम्।। • आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीव.पराभवम्।। • समीक्षमाणां रुदती.मनिन्दितां- सुपक्ष्म.ताम्रायत.शुक्ललोचनाम्। अनुव्रतां राम.मतीव मैथिलीं- प्रलोभयामास वधाय रावणः।। सर्गः 20 प्रणय प्रार्थना • स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारै.र्मधुरै.र्वाक्यै-र्न्यदर्शयत रावणः।। • मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शन.मिवात्मानं भया.न्नेतुं त्व.मिच्छसि।। • कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये। सर्वाङ्ग.गुणसम्पन्ने सर्वलोक.मनोहरे।। • नेह केचि.न्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्।। • स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा।। • एवं चैत.दकामां तु न त्वां स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्।। • देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा।। • एकवेणी धराशय्या ध्यानं मलिन.मम्बरम्। अस्थानेऽप्युपवासश्च नैता.न्यौपयिकानि ते।। • विचित्राणि च माल्यानि चन्दना.न्यगरूणि च। विविधानि च वासांसि दिव्या.न्याभरणानि च। • महार्हाणि च पानानि शयना.न्यासनानि च। गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि।। • स्त्रीरत्न.मसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं नु स्या-स्त्व.मनर्हा सुविग्रहे।। • इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते। यदतीतं पुन.र्नैति स्रोतः शीघ्र.मपा.मिव।। • त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्। न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने।। • त्वां समासाद्य वैदेहि रूपयौवन.शालिनीम्। कः पुमा.नतिवर्तेत साक्षा.दपि पितामहः।। • यद्य.त्पश्यामि ते गात्रं शीतांशु.सदृशानने। तस्मिं.स्तस्मिन् पृथुश्रोणि चक्षु.र्मम निबध्यते।। • भव मैथिलि भार्या मे मोह.मेनं विसर्जय। बह्वीना.मुत्तमस्त्रीणा-माहृताना.मित.स्ततः। • सर्वासामेव भद्रं ते ममाग्रमहिषी भव।। • लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै। तानि मे भीरु सर्वाणि राज्यं चैत.दहं च ते।। • विजित्य पृथिवीं सर्वां नानानगर.मालिनीम्। जनकाय प्रदास्यामि तव हेतो.र्विलासिनि।। • नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमह.द्वीर्य-मप्रतिद्वन्द्व.माहवे।। • असकृ.त्संयुगे भग्ना मया विमृदित.ध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः।। • इच्छ मां क्रियता.मद्य प्रतिकर्म तवोत्तमम्। सप्रभा.ण्यवसज्यन्तां तवाङ्गे भूषणानि च। • साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा।। • प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। भुंक्ष्व भोगान् यथाकामं पिब भीरु रमस्व च।। • यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च। ललस्व मयि विस्रब्धा धृष्ट.माज्ञापयस्व च।। • मत्प्रसादा.ल्ललन्त्याश्च ललन्तां बान्धवा.स्तव। ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे।। • किं करिष्यसि रामेण सुभगे चीरवाससा। निक्षिप्त.विजयो रामो गतश्री.र्वनगोचरः। • व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा।। • न हि वैदेहि राम.स्त्वां द्रष्टुं वाप्युपलप्स्यते। पुरोबलाकै.रसितै-र्मेघै.र्ज्योत्स्ना.मिवावृताम्।। • न चापि मम हस्ता.त्त्वां प्राप्तु.मर्हति राघवः। हिरण्यकशिपुः कीर्ति-मिन्द्रहस्तगता.मिव।। • चारुस्मिते चारुदति- चारुनेत्रे विलासिनि। मनो हरसि मे भीरु- सुपर्णः पन्नगं यथा।। • क्लिष्टकौशेय.वसनां तन्वी.मप्यनलङ्कृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभा.म्यहम्।। • अन्तःपुर.निवासिन्यः स्त्रियः सर्वगुणान्विताः। यावन्त्यो मम सर्वासा-मैश्वर्यं कुरु जानकि।। • मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः। ता.स्त्वां परिचरिष्यन्ति श्रिय.मप्सरसो यथा। • यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च। तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्।। • न राम.स्तपसा देवि न बलेन न विक्रमैः। न धनेन मया तुल्य-स्तेजसा यशसापि वा।। • पिब विहर रमस्व भुङ्क्ष्व भोगान्- धननिचयं प्रदिशामि मेदिनीं च। मयि लल ललने यथासुखं त्वं- त्वयि च समेत्य ललन्तु बान्धवा.स्ते।। • कुसुमित.तरुजाल.सन्ततानि- भ्रमरयुतानि समुद्रतीरजानि। कनक.विमलहारभूषिताङ्गी- विहर मया सह भीरु काननानि।। सर्गः 21 रावणतृणीकरणम् • तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच शनै.र्वचः।। • दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता। तृण.मन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता।। • निवर्तय मनो मत्तः स्वजने क्रियतां मनः। न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत्।। • अकार्यं न मया कार्य-मेकपत्न्या विगर्हितम्। कुलं सम्प्राप्तया पुण्यं कुले महति जातया।। • एव.मुक्त्वा तु वैदेही रावणं तं यशस्विनी। राक्षसं पृष्ठतः कृत्वा भूयो वचन.मब्रवीत्।। • नाह.मौपयिकी भार्या परभार्या सती तव। साधु धर्म.मवेक्षस्व साधु साधुव्रतं चर।। • यथा तव तथान्येषां दारा रक्ष्या निशाचर। आत्मान.मुपमां कृत्वा स्वेषु दारेषु रम्यताम्।। • अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्।। • इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। तथाहि विपरीता ते बुद्धि.राचारवर्जिता। • वचो मिथ्याप्रणीतात्मा पथ्य.मुक्तं विचक्षणैः। राक्षसाना.मभावाय त्वं वा न प्रतिपद्यसे।। • अकृतात्मान.मासाद्य राजान.मनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च।। • तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला। अपराधा.त्तवैकस्य न चिरा.द्विनशिष्यति।। • स्वकृतै.र्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः।। • एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैत.द्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः।। • शक्या लोभयितुं नाह-मैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण प्रभा यथा।। • उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुज.मन्यस्य कस्य चित्।। • अह.मौपयिकी भार्या तस्यैव वसुधापतेः। व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः।। • साधु रावण रामेण मां समानय दुःखिताम्। वने वाशितया सार्धं करेण्वेव गजाधिपम्।। • मित्र.मौपयिकं कर्तुं रामः स्थानं परीप्सता। वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः।। • विदितः स हि धर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते- यदि जीवितु.मिच्छसि।। • प्रसादयस्व त्वं चैनं शरणागतवत्सलम्। मां चास्मै नियतो भूत्वा निर्यातयितु.मर्हसि।। • एवं हि ते भवे.त्स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण।। • वर्जये.द्वज्र.मुत्सृष्टं वर्जये.दन्तक.श्चिरम्। त्वद्विधं तु न सङ्क्रुद्धो लोकनाथः स राघवः। • रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतु.विसृष्टस्य निर्घोष.मशनेरिव।। • इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगा:। इषवो निपतिष्यन्ति रामलक्ष्मण.लक्षणाः। • रक्षांसि परिनिघ्नन्तः पुर्या.मस्यां समन्ततः। असंपातं करिष्यन्ति पतन्तः कङ्कवाससः।। • राक्षसेन्द्र.महासर्पान् स रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्।। • अपनेष्यति मां भर्ता त्वत्तः शीघ्र.मरिन्दमः। असुरेभ्यः श्रियं दीप्तां विष्णु.स्त्रिभि.रिव क्रमैः।। • जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृत.मेत.दसाधु वै।। • आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयो.र्भ्रात्रो-रपनीता त्वयाधम।। • न हि गन्ध.मुपाघ्राय रामलक्ष्मणयो.स्त्वया। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव।। • तस्य ते विग्रहे ताभ्यां युगग्रहण.मस्थिरम्। वृत्रस्येवेन्द्रबाहुभ्यां बाहो.रेकस्य विग्रहे।। • क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह। तोय.मल्प.मिवादित्यः प्राणा.नादास्यते शरैः।। • गिरिं कुबेरस्य गतोऽथ वा लयं- सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथे.र्न मोक्ष्यसे- महाद्रुमः कालहतोऽशनेरिव।। सर्गः 22 मासद्वयावधिकरणम् • सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्।। • यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूत.स्तथा तथा।। • सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतोऽमार्ग.मासाद्य हया.निव सुसारथिः।। • वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिं.स्त्वनुक्रोशः स्नेहश्च किल जायते।। • एतस्मा.त्कारणा.न्न त्वां घातयामि वरानने। वधार्हा.मवमानार्हां मिथ्या.प्रव्रजिते रताम्।। • परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्त-स्तव मैथिलि दारुणः।। • एव.मुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भ.संयुक्तः सीता.मुत्तर.मब्रवीत्।। • द्वौ मासौ रक्षितव्यौ मे योऽवधि.स्ते मया कृतः। ततः शयन.मारोह मम त्वं वरवर्णिनि।। • ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मा.मनिच्छतीम्। मम त्वां प्रातराशार्थ-मालभन्ते महानसे।। • तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्या.स्ता विषेदु.र्विकृतेक्षणाः।। • ओष्ठप्रकारै.रपरा वक्त्रनेत्रै.स्तथापराः। सीता.माश्वासयामासु-स्तर्जितां तेन रक्षसा।। • ताभि.राश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौण्डीर्य.गर्वितम्।। • नूनं न ते जनः कश्चि-दस्ति निश्श्रेयसे स्थित:। निवारयति यो न त्वां कर्मणोऽस्मा.द्विगर्हितात्।। • मां हि धर्मात्मनः पत्नीं- शचीमिव शचीपतेः। त्वदन्य.स्त्रिषु लोकेषु प्रार्थये.न्मनसापि कः।। • राक्षसाधम रामस्य भार्या.ममिततेजसः। उक्तवा.नसि यत्पापं क्व गत.स्तस्य मोक्ष्यसे।। • यथा दृप्तश्च मातङ्गः शशश्च सदृशो युधि। तथा मातङ्गव.द्राम.स्त्वं नीच: शशवत् स्मृतः।। • स त्वमिक्ष्वाकु.नाथं वै क्षिप.न्निह न लज्जसे। चक्षुषो.र्विषयं तस्य न ताव.दुपगच्छसि।। • इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले। क्षितौ न पतिते कस्मा-न्मा.मनार्य निरीक्षतः।। • तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च। कथं व्याहरतो मां ते- न जिह्वा व्यवशीर्यते।। • असन्देशा.त्तु रामस्य तपस.श्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा।। • नापहर्तु.महं शक्या त्वया रामस्य धीमतः। विधि.स्तव वधार्थाय विहितो नात्र संशयः।। • शूरेण धनद.भ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्मा.द्धि दारचौर्यं त्वया कृतम्।। • सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकी.मन्ववैक्षत।। • नीलजीमूत.सङ्काशो महाभुज.शिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्र.लोचनः।। • चलाग्र.मकुटप्रांशु-श्चित्रमाल्यानु.लेपनः। रक्तमाल्याम्बर.धर-तप्ताङ्गद.विभूषणः।। • श्रोणिसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पाद.नद्धेन भुजगेनेव मन्दरः।। • ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसङ्काशः शृङ्गाभ्या.मिव मन्दरः।। • तरुणादित्य.वर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लव.पुष्पाभ्या-मशोकाभ्या.मिवाचलः।। • स कल्पवृक्ष.प्रतिमो वसन्त इव मूर्तिमान्। श्मशान.चैत्यप्रतिमो भूषितोऽपि भयङ्करः।। • अवेक्षमाणो वैदेहीं कोपसंरक्त.लोचनः। उवाच रावणः सीतां भुजङ्ग इव निश्श्वसन्।। • अनयेनाभिसम्पन्न-मर्थहीन.मनुव्रते। नाशया.म्यह.मद्य त्वां सूर्यः सन्ध्या.मिवौजसा।। • इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। सन्दिदेश ततः सर्वा राक्षसी.र्घोरदर्शनाः।। • एकाक्षी.मेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णी.मकर्णिकाम्। • हस्तिपा.द्यश्वपाद्यौ च गोपादीं पादचूलिकाम्। एकाक्षी.मेकपादीं च पृथुपादी.मपादिकाम्। • अतिमात्र.शिरोग्रीवा-मतिमात्र.कुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वा.मजिह्विकाम्। • अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।। • यथा मद्वशगा सीता क्षिप्रं भवति जानकी। तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च।। • प्रतिलोमानुलोमैश्च साम.दानादि.भेदनैः। आवर्जयत वैदेहीं दण्डस्योद्यमनेन च।। • इति प्रति.समादिश्य राक्षसेन्द्रः पुनः पुनः। काम.मन्यु.परीतात्मा जानकीं पर्यतर्जयत्।। • उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी। परिष्वज्य दशग्रीव-मिदं वचन.मब्रवीत्।। • मया क्रीड महाराज सीतया किं तवानया। विवर्णया कृपणया मानुष्या राक्षसेश्वर।। • नून.मस्या महाराज न दिव्यान् भोगसत्तमान्। विदधा.त्यमरश्रेष्ठ-स्तव बाहुबलार्जितान्।। • अकामां कामयानस्य शरीर.मुपतप्यते। इच्छन्तीं कामयानस्य प्रीति.र्भवति शोभना। • एव.मुक्तस्तु राक्षस्या समुत्क्षिप्त.स्ततो बली। प्रहस.न्मेघसङ्काशो राक्षस.स्स न्यवर्तत।। • प्रस्थितः स दशग्रीवः कम्पय.न्निव मेदिनीम्। ज्वलद्भास्कर.वर्णाभं प्रविवेश निवेशनम्।। • देवगन्धर्व.कन्याश्च नागकन्याश्च सर्वतः। परिवार्य दशग्रीवं विविशु.स्तं गृहोत्तमम्।। • स मैथिलीं धर्मपरा.मवस्थितां- प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः- स्वमेव वेश्म प्रविवेश भास्वरम्।। सर्गः 23 राक्षसीप्ररोचनम् • इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। सन्दिश्य च ततः सर्वा- राक्षसी.र्निर्जगाम ह।। • निष्क्रान्ते राक्षसेन्द्रे तु पुन.रन्तःपुरं गते। राक्षस्यो भीमरूपा.स्ताः सीतां समभिदुद्रुवुः।। • ततः सीता.मुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेही.मिद.मब्रुवन्।। • पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे।। • तत.स्त्वेकजटा नाम राक्षसी वाक्य.मब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्।। • प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः।। • पुलस्त्यस्य तु तेजस्वी महर्षि.र्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापति.समप्रभः।। • तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितु.मर्हसि। • मयोक्तं चारु.सर्वाङ्गि- वाक्यं किं नानुमन्यसे।। • ततो हरिजटा नाम राक्षसी वाक्य.मब्रवीत्। विवर्त्य नयने कोपा-न्मार्जार.सदृशेक्षणा।। • येन देवा.स्त्रयस्त्रिंश-द्देवराजश्च निर्जिताः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितु.मर्हसि।। • ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता। भर्त्सयन्ती तदा घोर.-मिदं वचन.मब्रवीत्।। • वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेषु निवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे।। • प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वा.मुपैष्यति रावणः।। • समृद्धं स्त्रीसहस्रेण नानारत्नोप.शोभितम्। अन्तःपुरं समुत्सृज्य त्वा.मुपैष्यति रावणः।। • अन्या तु विकटा नाम राक्षसी वाक्य.मब्रवीत्। असकृ.द्देवतायुद्धे नाग.गन्धर्व.दानवाः। निर्जिताः समरे येन स ते पार्श्व.मुपागतः।। • तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे।। • ततस्तु दुर्मुखी नाम राक्षसी वाक्य.मब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य च मारुतः। • न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि।। • पुष्पवृष्टिं च तरवो मुमुचु.र्यस्य वै भयात्। शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति। • तस्य नैरृतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि।। • साधु ते तत्त्वतो देवि कथितं साधु भामिनि। गृहाण सुस्मिते वाक्य-मन्यथा न भविष्यसि। सर्गः 24 राक्षसीनिर्भर्त्सनम् • ततः सीता.मुपागम्य राक्षस्यो विकृताननाः। परुषं परुषा नार्य ऊचु.स्तां वाक्य.मप्रियम्।। • किं त्व.मन्तःपुरे सीते सर्वभूत.मनोहरे। महार्ह.शयनोपेते न वास.मनुमन्यसे।। • मानुषी मानुषस्यैव भार्यात्वं बहुमन्यसे। प्रत्याहर मनो रामा-न्न त्वं जातु भविष्यसि।। • त्रैलोक्यवसु.भोक्तारं रावणं राक्षसेश्वरम्। भर्तार.मुपसङ्गम्य विहरस्व यथासुखम्।। • मानुषी मानुषं तं तु राम.मिच्छसि शोभने। राज्या.द्भ्रष्ट.मसिद्धार्थं विक्लबं त्व.मनिन्दिते।। • राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्या.मश्रुपूर्णाभ्या-मिदं वचन.मब्रवीत्।। • यदिदं लोकविद्विष्ट-मुदाहरथ सङ्गताः। नैत.न्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः।। • न मानुषी राक्षसस्य भार्या भवितु.मर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः।। • दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्य.मनुरक्तास्मि यथा सूर्यं सुवर्चला।। • यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा। • लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा। • सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पति.मनुव्रता। • तथाऽह.मिक्ष्वाकुवरं रामं पति.मनुव्रता।। • सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः। भर्त्सयन्ति स्म परुषै-र्वाक्यै रावणचोदिताः।। • अवलीनः स निर्वाक्यो हनूमान् शिंशुपाद्रुमे। सीतां सन्तर्जयन्ती.स्ता- राक्षसी.रशृणोत् कपिः।। • ता.मभिक्रम्य सङ्क्रुद्धा वेपमानां समन्ततः। भृशं संलिलिहु.र्दीप्तान् प्रलम्बान् दशनच्छदान्।। • ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वथान्। नेय.मर्हति भर्तारं रावणं राक्षसाधिपम्।। • सा भर्त्स्यमाना भीमाभी- राक्षसीभि.र्वरानना। सबाष्प.मपसर्पन्ती शिंशुपां ता.मुपागमत्।। • ततस्तां शिंशुपां सीता राक्षसीभिः समावृता। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता।। • तां कृशां दीनवदनां मलिनाम्बर.धारिणीम्। भर्त्सयाञ्चक्रिरे सीतां राक्षस्य.स्तां समन्ततः।। • तत.स्तां विनता नाम राक्षसी भीमदर्शना। अब्रवी.त्कुपिताकारा कराला निर्णतोदरी।। • सीते पर्याप्त.मेताव-द्भर्तुः स्नेहो निदर्शितः। सर्वत्रातिकृतं भद्रे व्यसनायोप.कल्पते ।। • परितुष्टास्मि भद्रं ते मानुष.स्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि।। • रावणं भज भर्तारं भर्तारं सर्व रक्षसाम्॥23|| विक्रान्तं रूपवन्तं च सुरेश.मिव वासवम्। • दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्॥ • मानुषं कृपणं रामं त्यक्त्वा, रावण.माश्रय। दिव्याङ्गरागा वैदेहि दिव्याभरण.भूषिता। अद्यप्रभृति सर्वेषां लोकाना.मीश्वरी भव।। • अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने। किं ते रामेण वैदेहि कृपणेन गतायुषा।। • एत.दुक्तं च मे वाक्यं यदि त्वं न करिष्यसि। अस्मि.न्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्।। • अन्या तु विकटा नाम लम्बमान.पयोधरा। अब्रवी.त्कुपिता सीतां मुष्टि.मुद्यम्य गर्जती।। • बहून्यप्रिय.रूपाणि वचनानि सुदुर्मते। अनुक्रोशा.न्मृदुत्वाच्च सोढानि तव मैथिलि।। • न च नः कुरुषे वाक्यं हितं काल.पुरस्कृतम्। आनीतासि समुद्रस्य पार.मन्यै.र्दुरासदम्। रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि।। • रावणस्य गृहे रुद्धा-मस्माभि.स्तु सुरक्षिताम्। न त्वां शक्तः परित्रातु.-मपि साक्षा.त्पुरन्दरः।। • कुरुष्व हितवादिन्या वचनं मम मैथिलि। अल.मश्रुप्रपातेन त्यज शोक.मनर्थकम्।। • भज प्रीतिं च हर्षं च त्यजैतां नित्यदैन्यताम्। सीते राक्षसराजेन सह क्रीड यथासुखम्।। • जानासि हि यथा भीरु स्त्रीणां यौवन.मध्रुवम्। याव.न्न ते व्यतिक्रामे-त्ताव.त्सुख.मवाप्नुहि।। • उद्यानानि च रम्याणि पर्वतोपवनानि च। सह राक्षसराजेन चर त्वं मदिरेक्षणे।। • स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि। रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।। • उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि। यदि मे व्याहृतं वाक्यं न यथाव.त्करिष्यसि।। • तत.श्चण्डोदरी नाम राक्षसी क्रोधमूर्छिता। भ्रामयन्ती मह.च्छूल-मिदं वचन.मब्रवीत्।। • इमां हरिणलोलाक्षीं त्रासोत्कम्पि.पयोधराम्। रावणेन हृतां दृष्ट्वा दौहृदो मे महा.नभूत्।। • यकृ.त्प्लीहमथोत्पीडं हृदयं च सबन्धनम्। आन्त्राण्यपि तथा शीर्षं खादेय.मिति मे मतिः।। • ततस्तु प्रघसा नाम राक्षसी वाक्य.मब्रवीत्। कण्ठ.मस्या नृशंसायाः पीडयाम किमास्यते।। • निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह। नात्र कश्चन संदेहः खादतेति स वक्ष्यति।। • तत.स्त्वजामुखी नाम राक्षसी वाक्य.मब्रवीत्। विशस्येमां ततः सर्वाः समान् कुरुत पिण्डकान्।। • विभजाम ततः सर्वा विवादो मे न रोचते। पेय.मानीयतां क्षिप्रं लेह्य.मुच्चावचं बहु।। • ततः शूर्पणखा नाम राक्षसी वाक्य.मब्रवीत्। अजामुख्या यदुक्तं हि तदेव मम रोचते।। • सुरा चानीयतां क्षिप्रं सर्वशोक.विनाशिनी। मानुषं मांस.मास्वाद्य नृत्यामोऽथ निकुम्भिलाम्।। • एवं संभर्त्स्यमाना सा- सीता सुरसुतोपमा। राक्षसीभिः सुघोराभि-र्धैर्य.मुत्सृज्य रोदिति।। सर्गः 25 सीतानिर्वेदः • अथ तासां वदन्तीनां परुषं दारुणं बहु। राक्षसीना.मसौम्यानां रुरोद जनकात्मजा।। • एवमुक्ता तु वैदेही राक्षसीभि.र्मनस्विनी। उवाच परम.त्रस्ता बाष्प.गद्गदया गिरा।। • न मानुषी राक्षसस्य भार्या भवितु.मर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः।। • सा राक्षसी.मध्यगता सीता सुरसुतोपमा। न शर्म लेभे दुःखार्ता रावणेन च तर्जिता।। • वेपते स्माधिकं सीता विशन्ती वाङ्ग.मात्मनः। वने यूथ.परिभ्रष्टा मृगी कोकै.रिवार्दिता।। • सा त्वशोकस्य विपुलां शाखा.मालम्ब्य पुष्पिताम्। चिन्तयामास शोकेन भर्तारं भग्नमानसा।। • सा स्नापयन्ती विपुलौ- स्तनौ नेत्रजलस्रवैः। चिन्तयन्ती न शोकस्य तदान्त.मधिगच्छति।। • सा वेपमाना पतिता प्रवाते कदली यथा। राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्।। • तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा। ददृशे कम्पिनी वेणी व्यालीव परिसर्पती।। • सा निश्श्वसन्ती दुःखार्ता शोकोपहतचेतना। आर्ता व्यसृज.दश्रूणि मैथिली विललाप च।। • हा रामेति च दुःखार्ता हा पुन.र्लक्ष्मणेति च। हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी।। • लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः। अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा। • यत्राहमेवं क्रूराभी- राक्षसीभि.रिहार्दिता। जीवामि हीना रामेण मुहूर्तमपि दुःखिता।। • एषाल्पपुण्या कृपणा विनशिष्या.म्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगै.रिवाहता।। • भर्तारं त.मपश्यन्ती राक्षसीवश.मागता। सीदामि खलु शोकेन कूलं तोयहतं यथा।। • तं पद्मदलपत्राक्षं सिंहविक्रान्त.गामिनम्। धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्।। • सर्वथा तेन हीनाया रामेण विदितात्मना। तीक्ष्णं विष.मिवास्वाद्य दुर्लभं मम जीवितम्।। • कीदृशं तु महापापं मया जन्मान्तरे कृतम्। येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्।। • जीवितं त्यक्तु.मिच्छामि शोकेन महता वृता। राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया।। • धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्। न शक्यं यत्परित्यक्तु-मात्मच्छन्देन जीवितम्।। सर्गः 26 प्राणत्याग.सम्प्रधारणम् • प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा। अधोगत.मुखी बाला विलप्तु.मुपचक्रमे।। • उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विवेष्टन्ती महीतले।। • राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याह-मानीता क्रोशती बलात्।। • राक्षसीवश.मापन्ना भर्त्स्यमाना सुदारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितु.मुत्सहे।। • न हि मे जीवितेनार्थो नैवार्थै.र्न च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्।। • अश्मसार.मिदं नून-मथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेनावशीर्यते।। • धिङ्मा.मनार्या.मसतीं याहं तेना विना कृता। मुहूर्त.मपि रक्षामि जीवितं पापजीविता।। • का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना। भर्तारं सागरान्ताया वसुधायाः प्रियंवदम्।। • भिद्यतां भक्ष्यतां वापि शरीरं विसृजा.म्यहम्। न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता।। • चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुन.रहं कामयेयं विगर्हितम्।। • प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितु.मिच्छति।। • छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन व.श्चिरम्।। • ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वृत्तो निरनुक्रोश-श्शङ्के मद्भाग्य.सङ्क्षयात्।। • राक्षसानां सहस्राणि जनस्थाने चतुर्दश। येनैकेन निरस्तानि स मां किं नाभिपद्यते।। • निरुद्धा रावणेनाह-मल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तु.माहवे।। • विराधो दण्डकारण्ये येन राक्षस.पुङ्गवः। रणे रामेण निहत-स्स मां किं नाभिपद्यते।। • कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति ।। • किन्नु तत्कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्या-मिष्टां नाभ्यवपद्यते।। • इहस्थां मां न जानीते शङ्के लक्ष्मण.पूर्वजः। जान.न्नपि हि तेजस्वी धर्षणं मर्षयिष्यति।। • हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः।। • कृतं कर्म मह.त्तेन मां तथाऽभ्यवपद्यता। तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा।। • यदि मा.मिह जानीया-द्वर्तमानां स राघवः। अद्य बाणै.रभिक्रुद्धः कुर्या.ल्लोक.मराक्षसम्।। • विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्।। • ततो निहत.नाथानां राक्षसीनां गृहे गृहे। यथाह.मेवं रुदती तथा भूयो न संशयः।। • अन्विष्य रक्षसां लङ्कां कुर्या.द्राम.स्सलक्ष्मणः। न हि ताभ्यां रिपु.र्दृष्टो मुहूर्त.मपि जीवति।। • चिताधूमाकुल.पथा गृध्रमण्डल.सङ्कुला। अचिरेण तु लङ्केयं श्मशान.सदृशी भवेत्।। • अचिरेणैव कालेन प्राप्स्या.म्येव मनोरथम्। दुष्प्रस्थानोऽय.माख्याति सर्वेषां वो विपर्ययम्।। • यादृशानीह दृश्यन्ते लङ्काया.मशुभानि वै। अचिरेणैव कालेन भविष्यति हतप्रभा।। • नूनं लङ्का हते पापे रावणे राक्षसाधमे। शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा।। • पुण्योत्सव.समुत्था च नष्टभर्त्री सराक्षसी। भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना।। • नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे। श्रोष्यामि न चिरा.देव दुःखार्ताना.मिह ध्वनिम्।। • सान्धकारा हतद्योता हतराक्षस.पुङ्गवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः।। • यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीया.द्वर्तमानां हि रावणस्य निवेशने। • अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्ट-स्तस्य कालोऽय.मागतः। • स च मे विहितो मृत्यु-रस्मिन् दुष्टे न वर्तते।। • अकार्यं ये न जानन्ति नैरृताः पापकारिणः। अधर्मा.त्तु महोत्पातो भविष्यति हि सांप्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः।। • ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्। रामं रक्तान्तनयन-मपश्यन्ती सुदुःखिता।। • यदि कश्चित् प्रदाता मे विषस्याद्य भवे.दिह। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना।। • नाजाना.ज्जीवतीं राम-स्स मां लक्ष्मण.पूर्वजः। जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम्।। • नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः। देवलोक.मितो यात-स्त्यक्त्वा देहं महीतले।। • धन्या देवा.स्सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये नाथं रामं राजीव.लोचनम्।। • अथवा न हि तस्यार्थो धर्मकामस्य धीमतः। मया रामस्य राजर्षे-र्भार्यया परमात्मनः।। • दृश्यमाने भवे.त्प्रीति-स्सौहृदं नास्त्यपश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति।। • किं नु मे न गुणाः केचि-त्किं वा भाग्यक्षयो मम। याहं सीदामि रामेण हीना मुख्येन भामिनी।। • श्रेयो मे जीविता.न्मर्तुं विहीनाया महा1त्मनः। रामा.दक्लिष्टचारित्रा-च्छूरा.च्छत्रुनिबर्हणात्।। • अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ। भ्रातरौ हि नरश्रेष्ठौ संवृतौ वनगोचरौ।। • अथवा राक्षसेन्द्रेण रावणेन दुरात्मना। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ।। • साऽह.मेवङ्गते काले मर्तु.मिच्छामि सर्वथा। न च मे विहितो मृत्यु-रस्मिन् दुःखेऽपि वर्तते।। • धन्याः खलु महात्मानो मुनय.स्त्यक्तकिल्बिषाः। जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये।। • प्रिया.न्न संभवे.द्दुःख-मप्रिया.दधिकं भयम्। ताभ्यां हि ये वियुज्यन्ते नम.स्तेषां महात्मनाम्।। • साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना। प्राणां.स्त्यक्ष्यामि पापस्य रावणस्य गता वशम्।। सर्गः 27 त्रिजटास्वप्नः • इत्युक्ता.स्सीतया घोरा राक्षस्यः क्रोधमूर्छिताः। काश्चि.ज्जग्मु.स्त.दाख्यातुं रावणस्य तरस्विनः।। • ततः सीता.मुपागम्य राक्षस्यो घोरदर्शनाः। पुनः परुष.मेकार्थ-मनर्थार्थ.मथाब्रुवन्।। • अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांस.मेत.द्यथासुखम्।। • सीतां ताभि.रनार्याभि-र्दृष्ट्वा सन्तर्जितां तदा। राक्षसी त्रिजटा वृद्धा शयाना वाक्य.मब्रवीत्।। • आत्मानं खादतानार्या- न सीतां भक्षयिष्यथ। जनकस्य सुता.मिष्टां स्नुषां दशरथस्य च।। • स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसाना.मभावाय भर्तु.रस्या भवाय च।। • एवमुक्ता.स्त्रिजटया राक्षस्यः क्रोधमूर्छिताः। सर्वा एवाब्रुव.न्भीता-स्त्रिजटां ता.मिदं वचः।। • कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखा.च्च्युतम्। उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्।। • गजदन्तमयीं दिव्यां शिबिका.मन्तरिक्षगाम्। युक्तां हंससहस्रेण स्वय.मास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः।। • स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतं पर्वत.मास्थिता।। • रामेण सङ्गता सीता भास्करेण प्रभा यथा। राघवश्च मया दृष्ट-श्चतुर्दष्ट्रं महागजम्। • आरूढ.श्शैलसङ्काशं चचार सहलक्ष्मणः।। • तत.स्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा। शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ।। • तत.स्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः। भर्त्रा परिगृहीतस्य जानकी स्कन्ध.माश्रिता।। • भर्तुरङ्का.त्समुत्पत्य ततः कमललोचना। चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती।। • तत.स्ताभ्यां कुमाराभ्या-मास्थित: स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः।। • पाण्डुरर्षभ.युक्तेन रथेनाष्टयुजा स्वयम्। इहोपयातः काकुत्स्थ-स्सीतया सह भार्यया।। • लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्। उत्तरां दिश.मालोक्य जगाम पुरुषोत्तमः।। • एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः। लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः।। • न हि रामो महातेजा-श्शक्यो जेतुं सुरासुरैः। राक्षसै.र्वापि चान्यै.र्वा स्वर्गः पापजनै.रिव।। • रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः। रक्तवासाः पिब.न्मत्तः करवीर.कृतस्रजः।। • विमाना.त्पुष्पका.दद्य रावणः पतितो भुवि। कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः।। • रथेन खरयुक्तेन रक्तमाल्यानुलेपनः। पिबं.स्तैलं हस.न्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।। • गर्दभेन ययौ शीघ्रं दक्षिणां दिश.मास्थितः। पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। • पतितोऽ वाक्छिरा रा भूमौ गर्दभा.द्भयमोहितः।। • सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः। उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलप.न्बहु। • दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्न.स्तत्र स रावणः।। • कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी। काली कर्दम.लिप्ताङ्गी दिशं याम्यां प्रकर्षति। • एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः। रावणस्य सुता.स्सर्वे दृष्टा.स्तैलसमुक्षिताः।। • वराहेण दशग्रीव-श्शिंशुमारेण चेन्द्रजित्। उष्ट्रेण कुम्भकर्णश्च प्रयाता दक्षिणां दिशम्।। • एक.स्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः। शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।। • शङ्खदुन्दुभि.निर्घोषै-र्नृत्तगीतै.रलङ्कृतः। आरुह्य शैलसङ्काशं मेघस्तनित.निस्स्वनम्। • चतुर्दन्तं गजं दिव्य.-मास्ते तत्र विभीषणः। चतुर्भि.स्सचिवैः सार्धं वैहायस.मुपस्थितः।। • समाजश्च मया दृष्टो गीतवादित्र.निस्स्वनः।। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्।। • लङ्का चेयं पुरी रम्या सवाजि.रथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुर.तोरणा।। • लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना। पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः।। • लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः। कुम्भकर्णादय.श्चेमे सर्वे राक्षसपुङ्गवाः। • रक्तं निवसनं गृह्य प्रविष्टा गोमय.ह्रदे।। • अपगच्छत नश्यध्वं सीता.माप्नोति राघवः। घातये.त्परमामर्षी युष्मा.न्सार्धं हि राक्षसैः।। • प्रियां बहुमतां भार्यां वनवास.मनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः।। • तदलं क्रूरवाक्यैश्च सान्त्व.मेवाभिधीयताम्। अभियाचाम वैदेही-मेत.द्धि मम रोचते।। • यस्या.मेवंविधः स्वप्नो दुःखितायां प्रदृश्यते। सा दुःखै.र्विविधै.र्मुक्ता प्रियं प्राप्नो.त्यनुत्तमम्।। • भर्त्सिता.मपि याचध्वं राक्षस्यः किं विवक्षया। राघवा.द्धि भयं घोरं राक्षसाना.मुपस्थितम्।। • प्रणिपात.प्रसन्ना हि मैथिली जनकात्मजा। अल.मेषा परित्रातुं राक्षस्यो महतो भयात्।। • अपि चास्या विशालाक्ष्या न किञ्चि.दुपलक्षये। विरूप.मपि चाङ्गेषु सुसूक्ष्म.मपि लक्षणम्।। • छायावैगुण्यमात्रं तु शङ्के दुःख.मुपस्थितम्। अदुःखार्हा.मिमां देवीं वैहायस.मुपस्थिताम्।। • अर्थसिद्धिं तु वैदेह्याः पश्या.म्यह.मुपस्थिताम्। राक्षसेन्द्र.विनाशं च विजयं राघवस्य च।। • निमित्तभूत.मेतत्तु श्रोतु.मस्या मह.त्प्रियम्। दृश्यते च स्फुर.च्चक्षुः पद्मपत्र.मिवायतम्।। • ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मा.देव वैदेह्या बाहु.रेकः प्रकम्पते।। • करेणुहस्त.प्रतिम-स्सव्य.श्चोरु.रनुत्तमः। वेपमानः सूचयति राघवं पुरतः स्थितम्।। • पक्षी च शाखानिलयं प्रविष्टः- पुनः पुनश्चोत्तम.सान्त्ववादी। सुस्वागतां वाच.मुदीरयानः- पुनः पुनश्चोदयतीव हृष्टः।। • (ततस्सा ह्रीमती बाला भर्तु.र्विजयहर्षिता। अवोच.द्यदि तत्तथ्यं भवेयं शरणं हि वः।।) सर्गः 28 उद्बन्धन व्यवसायः • सा राक्षसेन्द्रस्य वचो निशम्य- तद्रावणस्याप्रिय.मप्रियार्ता। सीता वितत्रास यथा वनान्ते- सिंहाभिपन्ना गजराजकन्या।। • सा राक्षसीमध्य.गता च भीरु- र्वाग्भि.र्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा- बालेव कन्या विललाप सीता।। • सत्यं बतेदं प्रवदन्ति लोके- नाकालमृत्यु.र्भवतीति सन्तः। यत्राह.मेवं परिभर्त्स्यमाना- जीवामि दीना क्षण.मप्यपुण्या।। • सुखा.द्विहीनं बहुदुःखपूर्ण-मिदं तु नूनं हृदयं स्थिरं मे। विशीर्यते यन्न सहस्रधाऽद्य- वज्राहतं शृङ्ग.मिवाचलस्य।। • नैवास्ति दोषो मम नून.मत्र- वध्याह.मस्याप्रियदर्शनस्य। भावं न चास्याह.मनुप्रदातु-मलं द्विजो मन्त्रमिवाद्विजाय।। • नूनं ममाङ्गा.न्यचिरा.दनार्यः- शस्त्रै.श्शितै.श्छेत्स्यति राक्षसेन्द्रः। तस्मि.न्ननागच्छति लोकनाथे गर्भस्थजन्तो.रिव शल्यकृन्तः।। • दुःखं बतेदं मम दुःखिताया- मासौ चिरायाधिगमिष्यतो द्वौ। बद्धस्य वध्यस्य तथा निशान्ते- राजापराधादिव तस्करस्य।। • हा राम हा लक्ष्मण हा सुमित्रे- हा राममातः सह मे जनन्या। एषा विपद्या.म्यह.मल्पभाग्या- महार्णवे नौ.रिव मूढवाता।। • तरस्विनौ धारयता मृगस्य- सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात्तौ- सिंहर्षभौ द्वाविव वैद्युतेन।। • नूनं स कालो मृगरूपधारी- मा.मल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रं विससर्ज मूढा- रामानुजं लक्ष्मणपूर्वजं च।। • हा राम सत्यव्रत दीर्घबाहो- हा पूर्णचन्द्र.प्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च- वध्यां न मां वेत्सि हि राक्षसानाम्।। • अनन्य.दैवत्व.मियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं- कृतं कृतघ्नेष्विव मानुषाणाम्।। • मोघो हि धर्म.श्चरितो मयायं- तथैकपत्नीत्व.मिदं निरर्थम्। या त्वां न पश्यामि कृशा विवर्णा- हीना त्वया सङ्गमने निराशा।। • पितु.र्निदेशं नियमेन कृत्वा- वना.न्निवृत्त.श्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभि-स्त्वं रंस्यसे वीतभयः कृतार्थः।। • अहं तु राम त्वयि जातकामा- चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपो व्रतञ्च- त्यक्ष्यामि धिग्जीवित.मल्पभाग्या।। • सा जीवितं क्षिप्र.महं त्यजेयं- विषेण शस्त्रेण शितेन वापि। विषस्य दाता न हि मेऽस्ति कश्चि-च्छस्त्रस्य वा वेश्मनि राक्षसस्य।। • इतीव देवी बहुधा विलप्य- सर्वात्मना राम.मनुस्मरन्ती। प्रवेपमाना परिशुष्कवक्त्रा- नगोत्तमं पुष्पित.माससाद।। • सा शोकतप्ता बहुधा विचिन्त्य- सीताऽथ वेण्युद्ग्रथनं गृहीत्वा। उद्बध्य वेण्युद्ग्रथनेन शीघ्र-महं गमिष्यामि यमस्य मूलम्।। • उपस्थिता सा मृदुसर्वगात्री- शाखां गृहीत्वाऽथ नगस्य तस्य। तस्या.स्तु रामं प्रविचिन्तयन्त्या- रामानुजं स्वं च कुलं शुभाङ्ग्या:।। शेकानिमित्तानि तथा बहूनि- धैर्यार्जितानि प्रवराणि लोके- प्रादु.र्निमित्तानि तदा बभूवुः पुरापि सिद्धा.न्युपलक्षितानि।। सर्गः 29 शुभनिमित्तानि • तथागतां तां व्यथिता.मनिन्दितां- व्यपेतहर्षां परिदीन.मानसाम्। शुभां निमित्तानि शुभानि भेजिरे- नरं श्रिया जुष्ट.मिवोपजीविनः।। • तस्याः शुभं वाम.मरालपक्ष्म- राजीवृतं कृष्णविशाल.शुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्।। • भुजश्च चार्वञ्चित.पीनवृत्तः- परार्थ्यकालागरु.चन्दनार्हः। अनुत्तमेनाध्युषितः प्रियेण- चिरेण वामः समवेपताऽशु।। • गजेन्द्रहस्त.प्रतिमश्च पीन-स्तयो.र्द्वयोः संहतयोः सुजातः। प्रस्पन्दमानः पुन.रूरु.रस्या रामं पुरस्तात् स्थित.माचचक्षे।। • शुभं पुन.र्हेमसमानवर्ण-मीषद्रजोध्वस्त.मिवामलाक्ष्याः। वास.स्स्थिताया श्शिखराग्रदत्याः किञ्चि.त्परिस्रंसत चारुगात्र्याः।। • एतै.र्निमित्तै.रपरैश्च सुभ्रूः- सम्बोधिता प्रागपि साधु सिद्धैः। वातातप.क्लान्तमिव प्रणष्टं- वर्षेण बीजं प्रतिसंजहर्ष।। • तस्याः पुन.र्बिम्बफलाधरोष्ठं- स्वक्षिभ्रुकेशान्त.मरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं- राहो.र्मुखा.च्चन्द्र इव प्रमुक्तः।। • सा वीतशोका व्यपनीततन्द्री- शान्तज्वरा हर्षविबुद्ध.सत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रि.रिवोदितेन।। सर्गः 30 कृत्याकत्य.विचिन्तनम् • हनुमा.नपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीताया.स्त्रिजटायाश्च राक्षसीनां च तर्जनम्।। • अवेक्षमाण.स्तां देवीं देवता.मिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः।। • यां कपीनां सहस्राणि सुबहू.न्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेय.मासादिता मया।। • चारेण तु सुयुक्तेन शत्रो.श्शक्ति.मवेक्षता। गूढेन चरता ताव-दवेक्षित.मिदं मया।। • राक्षसानां विशेषश्च पुरी चेय.मवेक्षिता। राक्षसाधिपते.रस्य प्रभावो रावणस्य च।। • युक्तं तस्याप्रमेयस्य सर्वसत्त्व.दयावतः। समाश्वासयितुं भार्यां पतिदर्शन.काङ्क्षिणीम्।। • अह.माश्वासया.म्येनां पूर्णचन्द्र.निभाननाम्। अदृष्टदुःखां दुःखार्तां दुःखस्यान्त.मगच्छतीम्।। • यद्यप्यह.मिमां देवीं शोकोपहत.चेतनाम्। अनाश्वास्य गमिष्यामि दोषव.द्गमनं भवेत्।। • गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राण.मविन्दन्ती जानकी जीवितं त्यजेत्।। • मया च स महाबाहुः पूर्णचन्द्र.निभाननः। समाश्यासयितुं न्याय्य-स्सीतादर्शन.लालसः।। • निशाचरीणां प्रत्यक्ष.-मनर्हं चाभिभाषितम्। कथ.न्नु खलु कर्तव्य-मिदं कृच्छ्रगतो ह्यहम्।। • अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्।। • रामश्च यदि पृच्छे.न्मां किं मां सीताब्रवी.द्वचः। कि.महं तं प्रति ब्रूया-मसंभाष्य सुमध्यमाम्।। • सीतासन्देश.रहितं मा.मित.स्त्वरयाऽगतम्। निर्दहे.दपि काकुत्स्थः-क्रुद्ध.स्तीव्रेण चक्षुषा।। • यदि चोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थ.मागमनं तस्य ससैन्यस्य भविष्यति।। • अन्तरं त्वह.मासाद्य राक्षसीना.मिह स्थितः। शनै.राश्वासयिष्यामि सन्ताप.बहुला.मिमाम्।। • अहं त्वतितनु.श्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषी.मिह संस्कृताम्।। • यदि वाचं प्रदास्यामि द्विजाति.रिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति। • वानरस्य विशेषेण कथं स्या.दभिभाषणम्।। • अवश्य.मेव वक्तव्यं मानुषं वाक्य.मर्थवत्। मया सान्त्वयितुं शक्या नान्यथेय.मनिन्दिता।। • सेय.मालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभि.स्त्रासिता पूर्वं भूय.स्त्रासं गमिष्यति।। • ततो जातपरित्रासा शब्दं कुर्या.न्मनस्विनी। जानना मां विशालाक्षी रावणं कामरूपिणम्।। • सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेया.दन्तकोपम:।। • ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्यु.र्यत्नं यथाबलम्।। • गृह्य शाखाः प्रशाखाश्च स्कन्धां.श्चोत्तम.शाखिनाम्। दृष्ट्वा विपरिधावन्तं भवेयु.र्भयशङ्किताः।। • मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयु.र्विकृताननाः।। • ततः कुर्यु.स्समाह्वानं राक्षस्यो रक्षसा.मपि। राक्षसेन्द्र.नियुक्तानां राक्षसेन्द्र.निवेशने।। • ते शूलशक्ति.निस्त्रिंश-विविधायुधपाणयः। आपतेयु.र्विमर्देऽस्मि-न्वेगेनोद्वेग.कारणात्।। • समृद्ध.स्तैस्तु परितो विधमन् रक्षसां बलम्। शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः।। • मां वा गृह्णीयु.राप्लुत्य बहव.श्शीघ्रकारिणः। स्या.दियं चागृहीतार्था मम च ग्रहणं भवेत्।। • हिंसाभिरुचयो हिंस्यु-रिमां वा जनकात्मजाम्। विपन्नं स्या.त्ततः कार्यं रामसुग्रीवयो.रिदम्।। • उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी।। • विशस्ते वा गृहीते वा रक्षोभि.र्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने।। • विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजन.विस्तीर्णं लङ्घयेत महोदधिम्।। • कामं हन्तुं समर्थोऽस्मि सहस्रा.ण्यपि रक्षसाम्। न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः।। • असत्यानि च युद्धानि संशयो मे न रोचते। कश्च निस्संशयं कार्यं कुर्या.त्प्राज्ञः ससंशयम्।। • प्राणत्यागश्च वैदेह्या भवे.दनभिभाषणे। एष दोषो महा.न्हि स्या-न्मम सीताभिभाषणे।। • भूता.श्चार्था विनश्यन्ति देशकाल.विरोधिताः। विक्लबं दूत.मासाद्य तमः सूर्योदये यथा।। • अर्थानर्थान्तरे बुद्धि-र्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।। • न विनश्ये.त्कथं कार्यं वैक्लब्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।। • कथं नु खलु वाक्यं मे शृणुया.न्नोद्विजेत वा। इति सञ्चिन्त्य हनुमां-श्चकार मतिमा.न्मतिम्।। • राम.मक्लिष्टकर्माणं सुबन्धु.मनुकीर्तयन्। नैना.मुद्वेजयिष्यामि तद्बन्धुगत.मानसाम्।। • इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्। • श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा हीयं तथा सर्वं समादधे।। • इति स बहुविधं महानुभावो- जगतिपतेः प्रमदा.मवेक्षमाणः। मधुर.मवितथं जगाद वाक्यं- द्रुमविटपान्तर.मास्थितो हनूमान्।। सर्गः 31 रामवृत्तसंश्रवः • एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह।। • राजा दशरथो नाम रथकुञ्जर.वाजिमान्। पुण्यशीलो महाकीर्ति-रिक्ष्वाकूणां महायशाः।। • राजर्षीणां गुणश्रेष्ठ-स्तपसा चर्षिभि.स्समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले।। • अहिंसारति.रक्षुद्रो घृणी सत्यपराक्रमः। मुख्य.श्चेक्ष्वाकु.वंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः।। • पार्थिव.व्यञ्जनै.र्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुत.स्सुखद.स्सुखी।। • तस्य पुत्रः प्रियो ज्येष्ठ-स्ताराधिप.निभाननः। रामो नाम विशेषज्ञः श्रेष्ठ.स्सर्वधनुष्मताम्।। • रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परन्तपः।। • तस्य सत्याभिसन्धस्य वृद्धस्य वचना.त्पितुः। सभार्य.स्सह च भ्रात्रा वीरः प्रव्राजितो वनम्।। • तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहता.श्शूरा बहवः कामरूपिणः।। • जनस्थान.वधं श्रुत्वा हतौ च खरदूषणौ। तत.स्त्वमर्षापहृता जानकी रावणेन तु। वञ्चयित्वा वने रामं मृगरूपेण मायया।। • स मार्गमाण.स्तां देवीं राम.स्सीता.मनिन्दिताम्। आससाद वने मित्रं सुग्रीवं नाम वानरम्।। • तत.स्स वालिनं हत्वा रामः परपुरञ्जयः। प्रायच्छ.त्कपिराज्यं तत्- सुग्रीवाय महाबलः।। • सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः। दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः।। • अहं सम्पातिवचना-च्छतयोजन.मायतम्। अस्या हेतो.र्विशालाक्ष्याः सागरं वेगवा.न्प्लुतः।। • यथारूपां यथावर्णां यथालक्ष्मीञ्च निश्चिताम्। अश्रौषं राघवस्याहं सेय.मासादिता मया।। • विररामैव.मुक्त्वासौ वाचं वानर.पुङ्गवः। जानकी चापि तच्छ्रुत्वा परं विस्मय.मागता।। • तत.स्सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरु-श्शिंशुपावृक्ष.मैक्षत।। • निशम्य सीतावचनं कपेश्च- दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम- सर्वात्मना राम.मनुस्मरन्ती ।। • सा तिर्य.गूर्ध्वं च तथाप्यधस्ता-न्निरीक्षमाणा त.मचिन्त्यबुद्धिम्। ददर्श पिङ्गाधिपते.रमात्यं- वातात्मजं सूर्य.मिवोदयस्थम्।। सर्गः 32 सीतावितर्कः • तत.श्शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घात.पिङ्गलम्।। • सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्त.चामीकरेक्षणम्।। • मैथिली चिन्तयामास विस्मयं परमं गता। अहो भीम.मिदं रूपं वानरस्य दुरासदम्। दुर्निरीक्ष.मिति ज्ञात्वा पुन.रेव मुमोह सा।। • विललाप भृशं सीता करुणं भयमोहिता। रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी। रुरोद बहुधा सीता मन्दं मन्दस्वरा सती।। • सा तं दृष्ट्वा हरिश्रेष्ठं विनीतव.दुपस्थितम्। मैथिली चिन्तयामास स्वप्नोऽय.मिति भामिनी।। • सा वीक्षमाणा पृथुभुग्नवक्त्रं- शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिङ्गाधिपते.रमात्यं- वातात्मजं बुद्धिमतां वरिष्ठम्।। • सा तं समीक्ष्यैव भृशं विसंज्ञा- गतासुकल्पेन बभूव सीता। चिरेण संज्ञां प्रतिलभ्य भूयो- विचिन्तयामास विशालनेत्रा।। • स्वप्ने मयाऽयं विकृतोऽद्य दृष्ट-श्शाखामृग.श्शास्त्रगणै.र्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय- तथा पितुर्मे जनकस्य राज्ञः।। • स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा- शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतोऽस्मि हीना- तेनेन्दुपूर्ण.प्रतिमाननेन।। • रामेति रामेति सदैव बुद्ध्या- विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपां च कथां तदर्थ-मेवं प्रपश्यामि तथा शृणोमि।। • अहं हि तस्याद्य मनोभवेन- सम्पीडिता तद्गत.सर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि।। • मनोरथ.स्स्यादिति चिन्तयामि- तथापि बुद्ध्या च वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं- सुव्यक्तरूपश्च वद.त्ययं माम्।। • नमोऽस्तु वाचस्पतये सवज्रिणे- स्वयंभुवे चैव हुताशनाय च। अनेन चोक्तं यदिदं ममाग्रतो- वनौकसा तच्च तथास्तु नान्यथा।। सर्गः 33 हनुमज्जानकी.संवादोपक्रमः • सोऽवतीर्य द्रुमा.त्तस्मा-द्विद्रुम.प्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च। • ता.मब्रवी.न्महातेजा हनूमा.न्मारुतात्मजः। शिरस्यञ्जलि.माधाय सीतां मधुरया गिरा।। • का नु पद्मपलाशाक्षि क्लिष्टकौशेय.वासिनि। द्रुमस्य शाखा.मालम्ब्य तिष्ठसि त्व.मनिन्दिते।। • किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीक.पलाशाभ्यां विप्रकीर्ण.मिवोदकम्।। • सुराणा.मसुराणां वा नागगन्धर्व.रक्षसाम्। यक्षाणां किन्नराणां वा का त्वं भवसि शोभने।। • का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां हि वरारोहे देवता प्रतिभासि मे।। • किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्व.गुणान्विता।। • का त्वं भवसि कल्याणि त्व.मनिन्दित.लोचने। कोपाद्वा यदि वा मोहा-द्भर्तार.मसितेक्षणे। वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती।। • को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्मा.ल्लोका.दमुं लोकं गतं त्व.मनुशोचसि।। • रोदना.दतिनिश्श्वासा-द्भूमिसंस्पर्शना.दपि। न त्वां देवी.महं मन्ये राज्ञ.स्संज्ञावधारणात्।। • व्यञ्जनानि च ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता।। • रावणेन जनस्थाना-द्बला.दपहृता यदि। सीता त्व.मसि भद्रं ते त.न्ममाचक्ष्व पृच्छतः।। • यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्। तपसा चान्वितो वेष.-स्त्वं राममहिषी ध्रुवम्।। • सा तस्य वचनं श्रुत्वा रामकीर्तन.हर्षिता। उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्।। • पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्य.प्रतापिनः।। • दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः।। • समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषा.न्भोगा-न्सर्वकाम.समृद्धिनी।। • तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकु.नन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे।। • तस्मि.न्सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकयी नाम भर्तारं देवी वचन.मब्रवीत्।। • न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते।। • यत्त.दुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः।। • स राजा सत्यवा.ग्देव्या वरदान.मनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूर.मप्रियम्।। • ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुद.न्राज्य.मयाचत।। • स पितु.र्वचनं श्रीमा-नभिषेका.त्परं प्रियम्। मनसा पूर्व.मासाद्य वाचा प्रतिगृहीतवान्।। • दद्यान्न प्रतिगृह्णीया.-न्न ब्रूया.त्किञ्चि.दप्रियम्। अपि जीवितहेतो.र्वा राम.स्सत्यपराक्रमः।। • स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्।। • साहं तस्याग्रत.स्तूर्णं प्रस्थिता वनचारिणी। न हि मे तेन हीनाया वास.स्स्वर्गेऽपि रोचते।। • प्रागेव तु महाभाग-स्सौमित्रि.र्मित्रनन्दनः। पूर्वजस्यानुयात्रार्थे द्रुमचीरै.रलङ्कृतः।। • ते वयं भर्तु.रादेशं बहुमान्य दृढव्रताः। प्रविष्टा.स्स्म पुरादृष्टं वनं गम्भीरदर्शनम्।। • वसतो दण्डकारण्ये तस्याह.ममितौजसः। रक्षसाऽपहृता भार्या रावणेन दुरात्मना।। • द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां तत.स्तक्ष्यामि जीवितम्।। सर्गः 34 रावणशङ्का.निवारणम् • तस्या.स्तद्वचनं श्रुत्वा हनुमा.न्हरिपुङ्गवः। दुःखा.द्दुःखाभिभूताया-स्सान्त्व.मुत्तर.मब्रवीत्।। • अहं रामस्य सन्देशा-द्देवि दूत.स्तवागतः। वैदेहि कुशली राम.स्त्वां च कौशल.मब्रवीत्।। • यो ब्राह्म.मस्त्रं वेदांश्च वेद वेदविदांवरः। स त्वां दाशरथी रामो देवि कौशल.मब्रवीत्।। • लक्ष्मणश्च महातेजा भर्तु.स्तेऽनुचरः प्रियः। कृतवा.ञ्छोकसन्तप्त-श्शिरसा तेऽभिवादनम्।। • सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रीतिसंहृष्ट.सर्वाङ्गी हनुमन्त.मथाब्रवीत्।। • कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्त.मानन्दो नरं वर्षशता.दपि।। • तया समागते तस्मि-न्प्रीति.रुत्पादिताऽद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः।। • तस्या.स्तद्वचनं श्रुत्वा हनुमा.न्हरियूथपः। सीताया.श्शोकदीनाया-स्समीप.मुपचक्रमे।। • यथा यथा समीपं स हनुमा.नुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते।। • अहो धि.ग्दुष्कृत.मिदं कथितं हि य.दस्य मे। रूपान्तर.मुपागम्य स एवायं हि रावणः।। • ता.मशोकस्य शाखां सा विमुक्त्वा शोककर्शिता। तस्या.मेवानवद्याङ्गी धरण्यां समुपाविशत्।। • हनुमा.नपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्। अवन्दत महाबाहु-स्तत.स्तां जनकात्मजाम्। सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत।। • तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना। अब्रवी.द्दीर्घ.मुच्छ्वस्य वानरं मधुरस्वरा।। • मायां प्रविष्टो मायावी यदि त्वं रावण.स्स्वयम्। उत्पादयसि मे भूय-स्सन्तापं तन्न शोभनम्।। • स्वं परित्यज्य रूपं यः परिव्राजक.रूपधृत्। जनस्थाने मया दृष्ट.-स्त्वं स एवासि रावणः।। • उपवासकृशां दीनां कामरूप निशाचर। सन्तापयसि मां भूय-स्सन्तप्तां तन्न शोभनम्।। • अथवा नैत.देवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीति-रुत्पन्ना तव दर्शनात्।। • यदि रामस्य दूत.स्त्व-मागतो भद्र.मस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ- प्रिया रामकथा हि मे।। • गुणा.न्रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः।। • अहो स्वप्नस्य सुखता याह.मेवं चिराहृता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्।। • स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी।। • नाहं स्वप्न.मिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्त.श्चाभ्युदयो मम।। • किन्नु स्या.चित्तमोहोऽयं भवे.द्वातगति.स्त्वियम्। उन्मादजो विकारो वा स्या.दियं मृगतृष्णिका।। • अथवा नाय.मुन्मादो मोहोऽप्युन्माद.लक्षणः। सम्बुध्ये चाह.मात्मान-मिमं चापि वनौकसम्।। • इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वा-न्मेने तं राक्षसाधिपम्।। • एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा।। • सीताया.श्चिन्तितं बुद्ध्वा हनुमा.न्मारुतात्मजः। श्रोत्रानुकूलै.र्वचनै-स्तदा तां संप्रहर्षयत्।। • आदित्य इव तेजस्वी लोककान्त.श्शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णु.र्महायशाः।। • सत्यवादी मधुरवा-ग्देवो वाचस्पति.र्यथा। रूपवा.न्सुभग.श्श्रीमान् कन्दर्प इव मूर्तिमान्।। • स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः। बाहुच्छाया.मवष्टब्धो यस्य लोको महात्मनः।। • अपकृष्याश्रमपदा-न्मृगरूपेण राघवम्। शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्।। • न चिरा.द्रावणं संख्ये यो वधिष्यति वीर्यवान्। रोषप्रमुक्तै.रिषुभि-र्ज्वलद्भि.रिव पावकैः। • तेनाहं प्रेषितो दूत-स्त्वत्सकाश.मिहागतः। त्वद्वियोगेन दुःखार्त-स्स त्वां कौशल.मब्रवीत्।। • लक्ष्मणश्च महातेजा-स्सुमित्रानन्दवर्धनः। अभिवाद्य महाबाहु.-स्स त्वां कौशल.मब्रवीत्।। • रामस्य च सखा देवि सुग्रीवो नाम वानरः। राजा वानरमुख्यानां स त्वां कौशल.मब्रवीत्।। • नित्यं स्मरति राम.स्त्वां ससुग्रीव.स्सलक्ष्मणः। दिष्ट्या जीवसि वैदेहि राक्षसीवश.मागता।। • न चिरा.द्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्। मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्।। • अहं सुग्रीवसचिवो हनुमा.न्नाम वानरः। प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्।। • कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः। त्वां द्रष्टु.मुपयातोऽहं समाश्रित्य पराक्रमम्।। • नाह.मस्मि तथा देवि यथा मा.मवगच्छसि। विशङ्का त्यज्यता.मेषा श्रद्धत्स्व वदतो मम।। सर्गः 35 विश्वासोत्पादनम् • तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्व-मिदं मधुरया गिरा।। • क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथ.मासी.त्समागमः।। • यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर। तानि भूय.स्समाचक्ष्व न मां शोक.स्समाविशेत्।। • कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे।। • एव.मुक्त.स्तु वैदेह्या हनुमा.न्मारुतात्मजः। ततो रामं यथातत्त्व-माख्यातु.मुपचक्रमे।। • जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च।। • यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदत.श्शृणु तानि मे।। • रामः कमलपत्राक्ष-स्सर्वसत्त्व.मनोहरः। रूपदाक्षिण्य.सम्पन्नः प्रसूतो जनकात्मजे।। • तेजसादित्य.सङ्काशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः।। • रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः।। • रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः।। • अर्चिष्मा.नर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूना.मुपकारज्ञः प्रचारज्ञश्च कर्मणाम्।। • राजविद्या.विनीतश्च ब्राह्मणाना.मुपासिता। श्रुतवा.ञ्छीलसम्पन्नो विनीतश्च परन्तपः।। • यजुर्वेद.विनीतश्च वेदविद्भि.स्सुपूजितः। धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः।। • विपुलांसो महाबाहुः कम्बुग्रीव.श्शुभाननः। गूढजत्रु.स्सुताम्राक्षो रामो देवि जनै.श्श्रुतः।। • दुन्दुभिस्वन.निर्घोष-स्स्निग्धवर्णः प्रतापवान्। सम.स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः।। • त्रिस्थिर.स्त्रिप्रलम्बश्च त्रिसम.स्त्रिषु चोन्नतः। त्रिताम्र.स्त्रिषु च स्निग्धो गम्भीर.स्त्रिषु नित्यशः।। • त्रिवलीवां.स्त्र्यवनत-श्चतुर्व्यङ्ग.स्त्रिशीर्षवान्। चतुष्कल.श्चतुर्लेख-श्चतुष्किष्कु.श्चतुस्समः।। • चतुर्दशसमद्वन्द्व-श्चतुर्दंष्ट्र.श्चतुर्गतिः। महोष्ठहनु.नासश्च पञ्चस्निग्धोऽष्टवंशवान्।। • दशपद्मो दशबृह-त्त्रिभि.र्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनु-स्त्रिभि.र्व्याप्नोति राघवः।। • सत्यधर्मपर.श्श्रीमान् सङ्ग्रहानुग्रहे रतः। देशकालविभागज्ञ-स्सर्वलोकप्रियंवदः।। • भ्राता च तस्य द्वैमात्र-स्सौमित्रि.रपराजितः। अनुरागेण रूपेण गुणै.श्चैव तथाविधः।। • ता.वुभौ नरशार्दूलौ त्वद्दर्शन.समुत्सुकौ। विचिन्वन्तौ महीं कृत्स्ना-मस्माभि.रभिसङ्गतौ।। • त्वा.मेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्। ददर्शतु.र्मृगपतिं पूर्वजेनावरोपितम्। • ऋश्यमूकस्य पृष्ठे तु बहुपादप.सङ्कुले। भ्रातु.र्भयार्त.मासीनं सुग्रीवं प्रियदर्शनम्।। • वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्। परिचर्यामहे राज्या-त्पूर्वजेनावरोपितम्।। • ततस्तौ चीरवसनौ धनुःप्रवर.पाणिनौ। ऋश्यमूकस्य शैलस्य रम्यं देश.मुपागतौ।। • स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः। अवप्लुतो गिरे.स्तस्य शिखरं भयमोहितः।। • तत.स्स शिखरे तस्मि-न्वानरेन्द्रो व्यवस्थितः। तयो.स्समीपं मा.मेव प्रेषयामास सत्वरम्।। • ता.वहं पुरुषव्याघ्रौ सुग्रीववचना.त्प्रभू। रूपलक्षण.सम्पन्नौ कृताञ्जलि.रुपस्थितः।। • तौ परिज्ञात.तत्त्वार्थौ मया प्रीति.समन्वितौ। पृष्ठ.मारोप्य तं देशं प्रापितौ पुरुषर्षभौ।। • निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने। तयो.रन्योन्य.सल्लापा-द्भृशं प्रीति.रजायत।। • ततस्तौ प्रीति.सम्पन्नौ हरीश्वर.नरेश्वरौ। परस्परकृताश्वासौ कथया पूर्ववृत्तया।। • तत.स्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः। स्त्रीहेतो.र्वालिना भ्रात्रा निरस्त.मुरुतेजसा।। • तत.स्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः। लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्।। • स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः। तदासी.न्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्।। • तत.स्त्वद्गात्र.शोभीनि रक्षसा ह्रियमाणया। यान्याभरण.जालानि पातितानि महीतले। तानि सर्वाणि रामाय आनीय हरियूथपाः।। • संहृष्टा दर्शयामासु-र्गतिं तु न विदु.स्तव। तानि रामाय दत्तानि मयैवोपहृतानि च।। • स्वनव.न्त्यवकीर्णानि तस्मि.न्विगतचेतसि।। • तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव। तेन देवप्रकाशेन देवेन परिदेवितम्।। • पश्यत.स्तानि रुदत-स्ताम्यतश्च पुनः पुनः। प्रादीपय.न्दाशरथे-स्तानि शोकहुताशनम्।। • शयितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधै.र्वाक्यैः कृच्छ्रा.दुत्थापितः पुनः।। • तानि दृष्ट्वा महाबाहु-र्दर्शयित्वा मुहुर्मुहुः। राघव.स्सह सौमित्रि-स्सुग्रीवे स न्यवेदयत्।। • स तवादर्शना.दार्ये राघवः परितप्यते। महता ज्वलता नित्य-मग्निनेवाग्निपर्वतः।। • त्वत्कृते त.मनिद्रा च शोक.श्चिन्ता च राघवम्। तापयन्ति महात्मान-मग्न्यगार.मिवाग्नयः।। • तवादर्शनशोकेन राघवः प्रविचाल्यते। महता भूमिकम्पेन महा.निव शिलोच्चयः।। • काननानि सुरम्याणि नदीः प्रस्रवणानि च। चर.न्न रति.माप्नोति त्वा.मपश्य.न्नृपात्मजे।। • स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे।। • सहितौ राम.सुग्रीवा-वुभा.वकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं तथा।। • तत.स्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः।। • ततो निहत्य तरसा रामो वालिन.माहवे। सर्वर्क्ष.हरिसङ्घानां सुग्रीव.मकरो.त्पतिम्।। • रामसुग्रीवयो.रैक्यं देव्येवं समजायत। हनुमन्तं च मां विद्धि तयो.र्दूत.मिहागतम्।। • स्वराज्यं प्राप्य सुग्रीव.स्समानीय हरीश्वरान्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्।। • आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा। अद्रिराज.प्रतीकाशा-स्सर्वतः प्रस्थिता महीम्।। • तत.स्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वय.मन्ये च वानराः।। • अङ्गदो नाम लक्ष्मीवा-न्वालिसूनु.र्महाबलः। प्रस्थितः कपिशार्दूल-स्त्रिभाग.बलसंवृतः।। • तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीताना-महोरात्रगणा गताः।। • ते वयं कार्यनैराश्या-त्कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणां.स्त्यक्तुं व्यवस्थिताः।। • विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणां.स्त्यक्तुं समुद्यताः।। • दृष्ट्वा प्रायोपविष्टांश्च सर्वा.न्वानरपुङ्गवान्। भृशं शोकार्णवे मग्नः पर्यदेवय.दङ्गदः।। • तव नाशं च वैदेहि वालिनश्च वधं तथा। प्रायोपवेश.मस्माकं मरणं च जटायुषः।। • तेषां न.स्स्वामिसन्देशा-न्निराशानां मुमूर्षताम्। कार्यहेतो.रिवायात-श्शकुनि.र्वीर्यवा.न्महान्।। • गृध्रराजस्य सोदर्यः सम्पाति.र्नाम गृध्रराट्। श्रुत्वा भ्रातृवधं कोपा-दिदं वचन.मब्रवीत्।। • यवीया.न्केन मे भ्राता हतः क्व च निपातितः। एत.दाख्यातु.मिच्छामि भवद्भि.र्वानरोत्तमाः।। • अङ्गदोऽकथय.त्तस्य जनस्थाने मह.द्वधम्। रक्षसा भीमरूपेण त्वा.मुद्दिश्य यथातथम्।। • जटायुषो वधं श्रुत्वा दुःखित.स्सोऽरुणात्मजः। त्वां शशंस वरारोहे वसन्तीं रावणालये।। • तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्। अङ्गदप्रमुखा.स्तूर्णं तत.स्सम्प्रस्थिता वयम्।। • विन्ध्या.दुत्थाय सम्प्राप्ता-स्सागरस्यान्त.मुत्तरम्। त्वद्दर्शन.कृतोत्साहा- हृष्टा.स्तुष्टाः प्लवङ्गमाः।। • अङ्गदप्रमुखा.स्सर्वे वेलोपान्त.मुपस्थिताः। चिन्तां जग्मुः पुनर्भीता-स्त्वद्दर्शन.समुत्सुकाः।। • अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः। व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः।। • लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला। रावणश्च मया दृष्ट-स्त्वं च शोकपरिप्लुता।। • एत.त्ते सर्व.माख्यातं यथावृत्त.मनन्दिते। अभिभाषस्व मां देवि दूतो दाशरथे.रहम्।। • तं मां रामकृतोद्योगं त्वन्निमित्त.मिहागतम्। सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्।। • कुशली तव काकुत्स्थ-स्सर्वशस्त्रभृतां वरः। गुरो.राराधने युक्तो लक्ष्मणश्च सुलक्षणः।। • तस्य वीर्यवतो देवि भर्तु.स्तव हिते रतः। अह.मेक.स्तु सम्प्राप्त-स्सुग्रीववचना.दिह।। • मयेय.मसहायेन चरता कामरूपिणा। दक्षिणा दिगनुक्रान्ता त्वन्मार्ग.विचयैषिणा।। • दिष्ट्याहं हरिसैन्यानां त्वन्नाश.मनुशोचताम्। अपनेष्यामि सन्तापं तवाभिगम.शंसनात्।। • दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम्। प्राप्स्या.म्यह.मिदं दिष्ट्या त्वद्दर्शनकृतं यशः।। • राघवश्च महावीर्यः क्षिप्रं त्वा.मभिपत्स्यते। समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्।। • माल्यवा.न्नाम वैदेहि गिरीणा.मुत्तमो गिरिः। ततो गच्छति गोकर्णं पर्वतं केसरी हरिः।। • स च देवर्षिभि.र्दिष्टः पिता मम महाकपिः। तीर्थे नदीपतेः पुण्ये शम्बसादन.मुद्धरत्।। • तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनुमा.निति विख्यातो लोके स्वेनैव कर्मणा।। • विश्वासार्थं तु वैदेहि भर्तु.रुक्ता मया गुणाः। अचिरा.द्राघवो देवि त्वा.मितो नयिताऽनघे।। • एवं विश्वासिता सीता हेतुभि.श्शोककर्शिता। उपपन्नै.रभिज्ञानै.र्दूतं त.मवगच्छति।। • अतुलं च गता हर्षं प्रहर्षेण च जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्।। • चारु तद्वदनं तस्या-स्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।। • हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमां.स्ता-मुत्तरं प्रियदर्शनाम्।। • एतत्ते सर्व.माख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतिया.म्यहम्।। • हतेऽसुरे संयति शम्बसादने- कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि- प्रभावत.स्तत्प्रतिमश्च वानरः।। सर्गः 36 अङ्गुलीयक प्रदानम् • भूय एव महातेजा हनुमा.न्पवनात्मजः। अब्रवी.त्प्रश्रितं वाक्यं सीताप्रत्यय.कारणात्।। • वानरोऽहं महाभागे दूतो रामस्य धीमतः। रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्।। • प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि।। • गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्। भर्तार.मिव सम्प्राप्ता जानकी मुदिताऽभवत्।। • चारु तद्वदनं तस्या-स्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।। • तत.स्सा ह्रीमती बाला भर्तृसन्देश.हर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्।। • विक्रान्त.स्त्वं समर्थ.स्त्वं प्राज्ञ.स्त्वं वानरोत्तम। येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्।। • शतयोजन.विस्तीर्ण-स्सागरो मकरालयः। विक्रम.श्लाघनीयेन क्रमता गोष्पदीकृतः।। • न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ। यस्य ते नास्ति सन्त्रासो रावणा.न्नापि सम्भ्रमः।। • अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्। यद्यसि प्रेषित.स्तेन रामेण विदितात्मना।। • प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्। पराक्रम.मविज्ञाय मत्सकाशं विशेषतः।। • दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः। लक्ष्मणश्च महातेजा-स्सुमित्रानन्दवर्धनः।। • कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्। महीं दहति कोपेन युगान्ताग्नि.रिवोत्थितः।। • अथवा शक्तिमन्तौ तौ सुराणा.मपि निग्रहे। ममैव तु न दुःखाना-मस्ति मन्ये विपर्ययः।। • कच्चि.न्न व्यथितो रामः कच्चि.न्न परितप्यते। उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः।। • कच्चि.न्न दीन.स्सम्भ्रान्तः कार्येषु न च मुह्यति। कच्चि.त्पुरुषकार्याणि कुरुते नृपते.स्सुतः।। • द्विविधं त्रिविधोपाय-मुपाय.मपि सेवते। विजिगीषु.स्सुहृ.त्कच्चि-न्मित्रेषु च परन्तपः।। • कच्चि.न्मित्राणि लभते मित्रैश्चाप्यभिगम्यते। कच्चि.त्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः।। • कच्चि.दाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चि.त्पुरुषकारं च दैवं च प्रतिपद्यते।। • कच्चि.न्न विगतस्नेहः प्रवासा.न्मयि राघवः। कच्चि.न्मां व्यसना.दस्मा-न्मोक्षयिष्यति वानर।। • सुखाना.मुचितो नित्य-मसुखाना.मनौचितः। दुःख.मुत्तर.मासाद्य कच्चि.द्रामो न सीदति।। • कौसल्याया.स्तथा कच्चि-त्सुमित्राया.स्तथैव च। अभीक्ष्णं श्रूयते कच्चि-त्कुशलं भरतस्य च।। • मन्निमित्तेन मानार्हः कच्चि.च्छोकेन राघवः। कच्चि.न्नान्यमना रामः कच्चि.न्मां तारयिष्यति।। • कच्चि.दक्षौहिणीं भीमां भरतो भ्रातृवत्सलः। ध्वजिनीं मन्त्रिभि.र्गुप्तां प्रेषयिष्यति मत्कृते।। • वानराधिपति.श्श्रीमा-न्सुग्रीवः कच्चि.देष्यति। मत्कृते हरिभि.र्वीरै-र्वृतो दन्तनखायुधैः।। • कच्चिच्च लक्ष्मण.श्शूर-स्सुमित्रानन्दवर्धनः। अस्त्रवि.च्छरजालेन राक्षसा.न्विधमिष्यति।। • रौद्रेण कच्चि.दस्त्रेण ज्वलता निहतं रणे। द्रक्ष्या.म्यल्पेन कालेन रावणं ससुहृज्जनम्।। • कच्चिन्न तद्धेमसमानवर्णं- तस्याननं पद्मसमानगन्धि। मया विना शुष्यति शोकदीनं- जलक्षये पद्म.मिवातपेन।। • धर्मापदेशा.त्त्यजतश्च राज्यं- मां चाप्यरण्यं नयतः पदातिम्। नासी.द्व्यथा यस्य न भी.र्न शोकः- कच्चि.त्स धैर्यं हृदये करोति।। • न चास्य माता न पिता च नान्यः- स्नेहा.द्विशिष्टोऽस्ति मया समो वा। ताव.त्त्वहं दूत जिजीविषेयं- यावत्प्रवृत्तिं शृणुयां प्रियस्य।। • इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थ.मुक्त्वा। श्रोतुं पुन.स्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा।। • सीताया वचनं श्रुत्वा मारुति.र्भीमविक्रमः। शिरस्यञ्जलि.माधाय वाक्य.मुत्तर.मब्रवीत्।। • न त्वा.मिहस्थां जानीते रामः कमललोचने। तेन त्वां नानय.त्याशु शची.मिव पुरन्दरः।। • श्रुत्वैव तु वचो मह्यं क्षिप्र.मेष्यति राघवः। चमूं प्रकर्ष.न्महतीं हर्यृक्ष.गणसङ्कुलाम्।। • विष्टम्भयित्वा बाणौघै-रक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्।। • तत्र यद्यन्तरा मृत्यु-र्यदि देवा.स्सहासुराः। स्थास्यन्ति पथि रामस्य स ता.नपि वधिष्यति।। • तवादर्शनजेनार्ये शोकेन स परिप्लुतः। न शर्म लभते राम-स्सिंहार्दित इव द्विपः।। • मलयेन च विन्ध्येन मेरुणा मन्दरेण च। दर्दुरेण च ते देवि शपे मूलफलेन च। • यथा सुनयनं वल्गु बिम्बोष्ठं चारु कुण्डलम्। मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्र.मिवोदितम्।। • क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतु.मिवासीनं नागराजस्य मूर्धनि।। • न मांसं राघवो भुङ्क्ते न चाऽपि मधु सेवते। वन्यं सुविहितं नित्यं भक्त.मश्नाति पञ्चमम्।। • नैव दंशा.न्न मशका-न्न कीटा.न्न सरीसृपान्। राघवोऽपनये.द्गात्रात्-त्वद्गतेनान्तरात्मना।। • नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्य.च्चिन्तयते किञ्चि-त्स तु कामवशं गतः।। • अनिद्र.स्सततं राम-स्सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहर.न्प्रतिबुध्यते।। • दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्य.त्सुमनोहरम्। बहुशो हा प्रियेत्येवं श्वसं.स्त्वा.मभिभाषते।। • स देवि नित्यं परितप्यमान-स्त्वा.मेव सीते.त्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः।। • सा रामसङ्कीर्तन.वीतशोका- रामस्य शोकेन समानशोका। शर.न्मुखे साम्बुद.शेषचन्द्रा- निशेव वैदेहसुता बभूव।। सर्गः 37 सीताप्रत्यायने अनौचित्यम् • सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना। हनुमन्त.मुवाचेदं धर्मार्थ.सहितं वचः।। • अमृतं विषसंसृष्टं त्वया वानर भाषितम्। यच्च नान्यमना रामो यच्च शोकपरायणः ।। • ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति।। • विधि.र्नून.मसंहार्यः प्राणिनां प्लवगोत्तम। सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान्।। • शोकस्यास्य कदा पारं- राघवोऽधिगमिष्यति। प्लवमानः परिश्रान्तो हतनौ.स्सागरे यथा।। • राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्। लङ्का.मुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः।। • स वाच्य.स्संत्वरस्वेति यावदेव न पूर्यते। अयं संवत्सरः काल-स्तावद्धि मम जीवितम्।। • वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम। रावणेन नृशंसेन समयो यः कृतो मम।। • विभीषणेन च भ्रात्रा मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्।। • मम प्रतिप्रदानं हि रावणस्य न रोचते। रावणं मार्गते संख्ये मृत्युः कालवशं गतम्।। • ज्येष्ठा कन्या नला नाम विभीषणसुता कपे। तया ममेद.माख्यातं मात्रा प्रहितया स्वयम्।। • असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा च मे शुद्ध-स्तस्मिंश्च बहवो गुणाः।। • उत्साहः पौरुषं सत्त्व-मानृशंस्यं कृतज्ञता। विक्रमश्च प्रभावश्च सन्ति वानर राघवे।। • चतुर्दश.सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः क.स्तस्य नोद्विजेत्।। • न स शक्य.स्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा।। • शरजालांशुमा.ञ्छूरः कपे रामदिवाकरः। शत्रुरक्षोमयं तोय-मुपशोषं नयिष्यति।। • इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम्। अश्रुसम्पूर्ण.नयना-मुवाच वचनं कपिः।। • श्रुत्वैव तु वचो मह्यं क्षिप्र.मेष्यति राघवः। चमूं प्रकर्ष.न्महतीं हर्यृक्ष.गणसङ्कुलाम्।। • अथवा मोचयिष्यामि त्वा.मद्यैव वरानने। अस्मा.द्दुःखा.दुपारोह मम पृष्ठ.मनिन्दिते।। • त्वां हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम्। शक्ति.रस्ति हि मे वोढुं लङ्का.मपि सरावणाम् ।। • अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि। प्रापयिष्यामि शक्राय हव्यं हुत.मिवानलः।। • द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्। व्यवसाय.समायुक्तं विष्णुं दैत्यवधे यथा।। • त्वद्दर्शन.कृतोत्साह-माश्रमस्थं महाबलम्। पुरन्दर.मिवासीनं नागराजस्य मूर्धनि।। • पृष्ठ.मारोह मे देवि मा विकाङ्क्षस्व शोभने। योग.मन्विच्छ रामेण शशाङ्केनेव रोहिणी।। • कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा। मत्पृष्ठ.मधिरुह्य त्वं तराकाश.महार्णवौ।। • न हि मे सम्प्रयातस्य त्वा.मितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ता-स्सर्वे लङ्कानिवासिनः।। • यथैवाह.मिह प्राप्त-स्तथैवाह.मसंशयः। यास्यामि पश्य वैदेहि त्वा.मुद्यम्य विहायसम्।। • मैथिली तु हरिश्रेष्ठा-च्छ्रुत्वा वचन.मद्भुतम्। हर्षविस्मित.सर्वाङ्गी हनुमन्त.मथाब्रवीत्।। • हनुम.न्दूर.मध्वानं कथं मां वोढु.मिच्छसि। तदेव खलु ते मन्ये कपित्वं हरियूथप।। • कथं वाल्पशरीर.स्त्वं मा.मितो नेतु.मिच्छसि। सकाशं मानवेन्द्रस्य भर्तु.र्मे प्लवगर्षभ।। • सीताया वचनं श्रुत्वा हनुमा.न्मारुतात्मजः। चिन्तयामास लक्ष्मीवा-न्नवं परिभवं कृतम्।। • न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा। तस्मा.त्पश्यतु वैदेही यद्रूपं मम कामतः।। • इति सञ्चिन्त्य हनुमां-स्तदा प्लवगसत्तमः। दर्शयामास वैदेह्या-स्स्वरूप.मरिमर्दनः।। • स तस्मा.त्पादपा.द्धीमा-नाप्लुत्य प्लवगर्षभः। ततो वर्धितु.मारेभे सीताप्रत्यय.कारणात्।। • मेरुमन्दर.सङ्काशो बभौ दीप्तानलप्रभः। अग्रतो व्यवतस्थे च सीताया वानरोत्तमः।। • हरिः पर्वतसङ्काश-स्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेही.मिद.मब्रवीत्।। • सपर्वत.वनोद्देशां साट्टप्राकार.तोरणाम्। लङ्का.मिमां सनाथां वा नयितुं शक्ति.रस्ति मे।। • तदवस्थाप्यतां बुद्धि-रलं देवि विकाङ्क्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्।। • तं दृष्ट्वा भीमसङ्काश-मुवाच जनकात्मजा। पद्मपत्र.विशालाक्षी मारुतस्यौरसं सुतम्।। • तव सत्त्वं बलं चैव विजानामि महाकपे। वायो.रिव गतिं चैव तेजश्चाग्ने.रिवाद्भुतम्।। • प्राकृतोऽन्यः कथं चेमां भूमि.मागन्तु.मर्हति। उदधे.रप्रमेयस्य पारं वानरपुङ्गव।। • जानामि गमने शक्तिं नयने चापि ते मम। अवश्यं सम्प्रधार्याशु कार्यसिद्धि.र्महात्मनः।। • अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ। वायुवेग.सवेगस्य वेगो मां मोहये.त्तव।। • अह.माकाश.मापन्ना ह्युपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठा-द्भया.द्वेगेव गच्छतः।। • पतिता सागरे चाहं तिमि-नक्र-झषाकुले। भवेय.माशु विवशा यादसा.मन्न.मुत्तमम्।। • न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन। कलत्रवति सन्देह-स्त्वय्यपि स्या.दसंशयः।। • ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयु.रादिष्टा रावणेन दुरात्मना।। • तैस्त्वं परिवृत.श्शूरै-श्शूलमुद्गर.पाणिभिः। भवे.स्त्वं संशयं प्राप्तो मया वीर कलत्रवान्।। • सायुधा बहवो व्योम्नि राक्षसा,स्त्वं निरायुधः। कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्।। • युध्यमानस्य रक्षोभि-स्तव तैः क्रूरकर्मभिः। प्रपतेयं हि ते पृष्ठा-द्भयार्ता कपिसत्तम।। • अथ रक्षांसि भीमानि महान्ति बलवन्ति च। कथञ्चि.त्सांपराये त्वां जयेयुः कपिसत्तम।। • अथवा युध्यमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः।। • मां वा हरेयु.स्त्व.द्धस्ता-द्विशसेयु.रथापि वा। अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ।। • अहं वापि विपद्येयं रक्षोभि.रभितर्जिता। त्वत्प्रयत्नो हरिश्रेष्ठ भवे.न्निष्फल एव तु।। • कामं त्व.मसि पर्याप्तो निहन्तुं सर्वराक्षसान्। राघवस्य यशो हीयेत्-त्वया शस्तै.स्तु राक्षसैः।। • अथवादाय रक्षांसि न्यसेयु.स्सँवृते हि माम्। यत्र ते नाभिजानीयु-र्हरयो नापि राघवौ।। • आरम्भस्तु मदर्थोऽयं तत.स्तव निरर्थकः। त्वया हि सह रामस्य महा.नागमने गुणः।। • मयि जीवित.मायत्तं राघवस्य महात्मनः। भ्रातॄणां च महाबाहो तव राजकुलस्य च।। • तौ निराशौ मदर्थं तु शोकसन्ताप.कर्शितौ। सह सर्वर्क्ष.हरिभि-स्त्यक्ष्यतः प्राणसङ्ग्रहम्।। • भर्तु.र्भक्तिं पुरस्कृत्य रामा.दन्यस्य वानर। न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव।। • यदहं गात्रसंस्पर्शं रावणस्य बला.द्गता। अनीशा किं करिष्यामि विनाथा विवशा सती।। • यदि रामो दशग्रीव.मिह त्वा मा.मितो गृह्य गच्छेत त.त्तस्य सदृशं भवेत्।। • श्रुता हि दृष्टाश्च मया पराक्रमा- महात्मन.स्तस्य रणावमर्दिनः। न देवगन्धर्व.भुजङ्गराक्षसा- भवन्ति रामेण समा हि संयुगे।। • समीक्ष्य तं संयति चित्रकार्मुकम्- महाबलं वासव.तुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं- दीप्तमिवानिलेरितम्।। • सलक्ष्मणं राघव.माजिमर्दनं- दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य.संयुगे- युगान्तसूर्य.प्रतिमं शरार्चिषम्।। • स मे हरिश्रेष्ठ सलक्ष्मणं पतिं- सयूथपं क्षिप्र.मिहोपपादय। चिराय रामं प्रति शोककर्शितां- कुरुष्व मां वानरमुख्य हर्षिताम्।। सर्गः 38 वायसवृत्तान्त कथनम् • तत.स्स कपिशार्दूल-स्तेन वाक्येन तोषितः। सीता.मुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः।। • युक्तरूपं त्वया देवि भाषितं शुभदर्शने। सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च।। • स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्। मा.मधिष्ठाय विस्तीर्णं शतयोजन.मायतम्।। • द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। रामा.दन्यस्य नार्हामि संस्पर्श.मिति जानकि। • एत.त्ते सदृशं देवि पत्न्या.स्तस्य महात्मनः। का ह्यन्या त्वा.मृते देवि ब्रूया.द्वचन.मीदृशम्।। • श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। चेष्टितं य.त्त्वया देवि भाषितं मम चाग्रतः।। • कारणै.र्बहुभि.र्देवि रामप्रिय.चिकीर्षया। स्नेहप्रस्कन्न.मनसा मयैत.त्समुदीरितम्।। • लङ्काया दुष्प्रवेशत्वा-द्दुस्तरत्वा.न्महोदधेः। सामर्थ्या.दात्मनश्चैव मयैत.त्समुदीरितम्।। • इच्छामि त्वां समानेतु.मद्यैव रघुबन्धुना। गुरुस्नेहेन भक्त्या च नान्यथैत.दुदाहृतम्।। • यदि नोत्सहसे यातुं मया सार्ध.मनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीया.द्राघवो हि यत्।। • एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्। • इदं श्रेष्ठ.मभिज्ञानं ब्रूया.स्त्वं तु मम प्रियम्।। • शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा। तापसाश्रमवासिन्याः प्राज्यमूल.फलोदके। • तस्मि.न्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः। तस्योपवन.षण्डेषु नानापुष्प.सुगन्धिषु। • विहृत्य सलिले क्लिन्ना तवाङ्के समुपाविशम्।। • ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्ट.मुद्यम्य वारयामि स्म वायसम्।। • दारय.न्स च मां काक-स्तत्रैव परिलीयते। न चाप्युपारम.न्मांसा-द्भक्षार्थी बलिभोजनः।। • उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि। स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम्।। • त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्षगृध्नेन काकेन दारिता त्वा.मुपागता।। • आसीनस्य च ते श्रान्ता पुन.रुत्सङ्ग.माविशम्। क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता।। • बाष्पपूर्ण.मुखी मन्दं चक्षुषी परिमार्जती। लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता।। • परिश्रमा.त्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम्। पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः।। • स तत्र पुन.रेवाथ वायस.स्समुपागमत्। तत.स्सुप्तप्रबुद्धां मां रामस्याङ्का.त्समुत्थिताम्। • वायस.स्सहसागम्य विददार स्तनान्तरे। पुनः पुन.रथोत्पत्य विददार स मां भृशम्।। • तत.स्समुक्षितो रामो मुक्तै.श्शोणितबिन्दुभिः। वायसेन तत.स्तेन बलव.त्क्लिश्यमानया। स मया बोधित.श्श्रीमा-न्सुखसुप्तः परन्तपः। • स मां दृष्ट्वा महाबाहु-र्वितुन्नां स्तनयो.स्तदा। आशीविष इव क्रुद्ध-श्श्वस.न्वाक्य.मभाषत।। • केन ते नागनासोरु विक्षतं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना।। • वीक्षमाण.स्तत.स्तं वै वायसं समुदैक्षत। नखै.स्सरुधिरै.स्तीक्ष्णै-र्मा.मेवाभिमुखं स्थितम्।। • पुत्त्रः किल स शक्रस्य वायसः पततां वरः। धरान्तरगत.श्शीघ्रं पवनस्य गतौ समः।। • तत.स्तस्मि.न्महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवा.न्क्रूरां मतिं मतिमतां वरः।। • स दर्भं संस्तरा.द्गृह्य ब्राह्मेणास्त्रेण योजयत्। स दीप्त इव कालाग्नि-र्जज्वालाभिमुखो द्विजम्।। • स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। तत.स्तं वायसं दर्भ-स्सोम्बरेऽनुजगाम ह।। • अनुसृष्ट.स्तदा काको जगाम विविधां गतिम्। लोककाम इमं लोकं सर्वं वै विचचार ह।। • स पित्रा च परित्यक्त-स्सुरैश्च समहर्षिभिः। त्रीन्लोका.न्सम्परिक्रम्य तमेव शरणं गतः।। • स तं निपतितं भूमौ शरण्य.श्शरणागतम्। वधार्ह.मपि काकुत्स्थ: कृपया पर्यपालयत्।। • ? • परिद्यूनं विषण्णं च स त.मायान्त.मब्रवीत्। मोघं कर्तुं न शक्यं तु ब्राह्म.मस्त्रं त.दुच्यताम्।। • हिनस्तु दक्षिणाक्षि त्व-च्छर इत्यथ सोऽब्रवीत्। तत.स्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। • दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः।। • स रामाय नमस्कृत्य राज्ञे दशरथाय च। विसृष्ट.स्तेन वीरेण प्रतिपेदे स्व.मालयम्।। • मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्। कस्मा.द्यो मां हरे त्वत्तः क्षमसे तं महीपते।। • स कुरुष्व महोत्साहः कृपां मयि नरर्षभ। त्वया नाथवती नाथ ह्यनाथा इव दृश्यते।। • आनृशंस्यं परो धर्म-स्त्वत्त एव मया श्रुतः। जानामि त्वां महावीर्यं महोत्साहं महाबलम्। • अपारपार.मक्षोभ्यं गाम्भीर्या-त्सागरोपमम्। भर्तारं ससमुद्राया धरण्या वासवोपमम्।। • एव.मस्त्रविदां श्रेष्ठ-स्सत्यवा.न्बलवा.नपि। किमर्थ.मस्त्रं रक्षस्सु न योजयसि राघव।। • न नागा नाऽपि गन्धर्वा नासुरा न मरुद्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमाधितुं।। • तस्य वीर्यवतः कश्चि-द्यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरै.स्तीक्ष्णै: क्षयं नयति राक्षसान्।। • भ्रातु.रादेश.मादाय लक्ष्मणो वा परन्तपः। कस्य हेतो.र्न मां वीरः परित्राति महाबलः।। • यदि तौ पुरुषव्याघ्रौ वाय्वग्नि.समतेजसौ। सुराणा.मपि दुर्धर्षौ किमर्थं मामुपेक्षतः।। • ममैव दुष्कृतं किञ्चि-न्मह.दस्ति न संशयः। समर्था.वपि तौ य.न्मां नावेक्षेते परन्तपौ।। • वैदेह्या वचनं श्रुत्वा करुणं साश्रु.भाषितम्। अथाब्रवी.न्महातेजा हनुमा.न्मारुतात्मजः।। • त्वच्छोक.विमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते।। • कथञ्चि.द्भवती दृष्टा न कालः परिदेवितुम्। इमं मुहूर्तं दुःखानां द्रक्ष्य.स्यन्त.मनिन्दिते।। • ता.वुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शन.कृतोत्साहौ लङ्कां भस्मीकरिष्यतः।। • हत्वा च समरे क्रूरं रावणं सहबान्धवम्। राघव.स्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति।। • ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः।। • इत्युक्तवति तस्मिं.स्तु सीता सुरसुतोपमा। उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम्।। • कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी। तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय।। • स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। ऐश्वर्यं च विशालायां पृथिव्या.मपि दुर्लभम्।। • पितरं मातरं चैव सम्मान्याभिप्रसाद्य च। अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।। • आनुकूल्येन धर्मात्मा त्यक्त्वा सुख.मनुत्तमम्। अनुगच्छति काकुत्स्थं भ्रातरं पालय.न्वने।। • सिंहस्कन्धो महाबाहु-र्मनस्वी प्रियदर्शनः। पितृव.द्वर्तते रामे मातृव.न्मां समाचरन्।। • ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः। वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता। • राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे।। • मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु ता.मुद्वहति वीर्यवान्।। • यं दृष्ट्वा राघवो नैव वृत्त.मार्य.मनुस्मरेत्। स ममार्थाय कुशलं वक्तव्यो वचना.न्मम।। • मृदु.र्नित्यं शुचि.र्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्। • त्व.मस्मि.न्कार्यनिर्योगे प्रमाणं हरिसत्तम।। राघव.स्त्वत्समारम्भा-न्मयि यत्नपरो भवेत्। • इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।। जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासा.न्न जीवेयं सत्येनाहं ब्रवीमि ते।। • रावणेनोपरुद्धां मां निकृत्या पापकर्मणा। त्रातु.मर्हसि वीर त्वं पाताला.दिव कौशिकीम्।। • ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ।। • प्रतिगृह्य ततो वीरो मणिरत्न.मनुत्तमम्। अङ्गुल्या योजयामास न ह्यस्य प्राभव.द्भुजः।। • मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः।। • हर्षेण महता युक्तः सीता.दर्शनजेन सः। हृदयेन गतो रामं शरीरेण तु विष्ठितः।। • मणिवर.मुपगृह्य तं महार्हं- जनकनृपात्मजया धृतं प्रभावात्। गिरिरिव पवनावधूत.मुक्तः- सुखितमनाः प्रतिसङ्क्रमं प्रपेदे।। सर्गः 39 हनुमत्सन्देशः • मणिं दत्त्वा ततः सीता हनूमन्त.मथाब्रवीत्। अभिज्ञान.मभिज्ञात-मेत.द्रामस्य तत्त्वतः।। • मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च।। • स भूय.स्त्वं समुत्साहे चोदितो हरिसत्तम। अस्मि.न्कार्यसमारम्भे प्रचिन्तय यदुत्तरम्।। • त्वमस्मि.न्कार्यनिर्योगे प्रमाणं हरिसत्तम। हनुम.न्यत्न.मास्थाय दुःखक्षयकरो भव। • तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत्।। • स तथेति प्रतिज्ञाय मारुति.र्भीमविक्रमः। शिरसा वन्द्य वैदेहीं गमनायोप.चक्रमे।। • ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्। बाष्पगद्गदया वाचा मैथिली वाक्यम.ब्रवीत्।। • कुशलं हनुम.न्ब्रूयाः सहितौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्। • ब्रूया.स्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्।। • यथा स च महाबाहु-र्मां तारयति राघवः। अस्मा.द्दुःखाम्बु.संरोधा-त्त्वं समाधातु.मर्हसि।। • जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्। तत्तथा हनुम.न्वाच्यं वाचा धर्म.मवाप्नुहि।। • नित्य.मुत्साह.युक्ताश्च वाच.श्श्रुत्वा त्वयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये।। • मत्सन्देशयुता वाच-स्त्वत्त.श्श्रुत्वा च राघवः। पराक्रमविधिं वीरो विधिव.त्संविधास्यति।। • सीताया वचनं श्रुत्वा हनुमा.न्मारुतात्मजः। शिरस्यञ्जलि.माधाय वाक्य.मुत्तर.मब्रवीत्।। • क्षिप्र.मेष्यति काकुत्स्थो हर्यृक्षप्रवरै.र्वृतः। यस्ते युधि विजित्यारी-ञ्चोकं व्यपनयिष्यति।। • न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा। य.स्तस्य क्षिपतो बाणा-न्स्थातु.मुत्सहतेऽग्रतः।। • अप्यर्क.मपि पर्जन्य-मपि वैवस्वतं यमम्। स हि सोढुं रणे शक्त-स्तव हेतो.र्विशेषतः।। • स हि सागरपर्यन्तां महीं शासितु.मीहते। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि।। • तस्य तद्वचनं श्रुत्वा सम्य.क्सत्यं सुभाषितम्। जानकी बहुमेनेऽथ वचनं चेद.मब्रवीत्।। • ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दा.दनुमानयत्।। • यदि वा मन्यसे वीर वसैकाह.मरिन्दम। कस्मिंश्चि.त्संवृते देशे विश्रान्तः श्वो गमिष्यसि।। • मम चे.दल्पभाग्याया-स्सान्निध्या.त्तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्।। • गते हि हरिशार्दूल पुन.रागमनाय तु। प्राणाना.मपि सन्देहो मम स्या.न्नात्र संशयः।। • तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखा.द्दुःख.परामृष्टां दीपय.न्निव वानर।। • अयं च वीर सन्देह-स्तिष्ठतीव ममाग्रतः। सुमहां.स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः।। • कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्ष.सैन्यानि तौ वा नरवरात्मजौ।। • त्रयाणा.मेव भूतानां सागरस्यास्य लङ्घने। शक्ति.स्स्या.द्वैनतेयस्य तव वा मारुतस्य वा।। • तदस्मि.न्कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं त्वं हि कार्यविदां वरः।। • काम.मस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्य.स्ते फलोदयः।। • बलै.स्समग्रै.र्यदि मां रावणं जित्य संयुगे। विजयी स्वपुरं याया-त्त.त्तस्य सदृशं भवेत्।। • शरै.स्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नये.द्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्।। • तद्यथा तस्य विक्रान्त-मनुरूपं महात्मनः। भवे.दाहव.शूरस्य तथा त्व.मुपपादय।। • तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमा.न्छेषं वाक्य.मुत्तर.मब्रवीत्।। • देवि हर्यृक्ष.सैन्याना-मीश्वरः प्लवतां वरः। सुग्रीव.स्सत्त्वसम्पन्न-स्तवार्थे कृतनिश्चयः।। • स वानर.सहस्राणां कोटीभि.रभिसंवृतः। क्षिप्र.मेष्यति वैदेहि राक्षसानां निबर्हणः।। • तस्य विक्रमसम्पन्ना-स्सत्त्ववन्तो महाबलाः। मन.स्सङ्कल्प.सम्पाता निदेशे हरयः स्थिताः।। • येषां नोपरि नाधस्ता-न्न तिर्य.क्सज्जते गतिः। न च कर्मसु सीदन्ति मह.त्स्वमिततेजसः।। • असकृ.त्तै.र्महोत्साहै-स्ससागर.धराधरा। प्रदक्षिणीकृता भूमि-र्वायुमार्गानुसारिभिः।। • मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चि-न्नास्ति सुग्रीवसन्निधौ।। • अहं ताव.दिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः।। • तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्का-मेष्यन्ति हरियूथपाः।। • मम पृष्ठगतौ तौ च चन्द्रसूर्या.विवोदितौ। त्वत्सकाशं महासत्त्वौ नृसिंहा.वागमिष्यतः।। • ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकै.र्विधमिष्यतः।। • सगणं रावणं हत्वा राघवो रघुनन्दनः। त्वा.मादाय वरारोहे स्वपुरीं प्रतियास्यति।। • त.दाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। न चिरा.द्द्रक्ष्यसे रामं प्रज्वलन्त.मिवानलम्।। • निहते राक्षसेन्द्रेऽस्मि-न्सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी।। • क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि। रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्।। • एव.माश्वास्य वैदेहीं हनुमा.न्मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीं पुन.रब्रवीत्।। • तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वार.मुपागतम्।। • नखदंष्ट्रायुधा.न्वीरा-न्सिंहशार्दूल.विक्रमान्। वानरा.न्वारणेन्द्राभा-न्क्षिप्रं द्रक्ष्यसि सङ्गतान्।। • शैलाम्बुद.निकाशानां लङ्का.मलय.सानुषु। नर्दतां कपिमुख्याना-मार्ये यूथा.न्यनेकशः।। • स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते राम-स्सिंहार्दित इव द्विपः।। • मा रुदो देवि शोकेन मा भू.त्ते मनसोऽप्रियम्। शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि।। • रामा.द्विशिष्टः कोऽन्योऽस्ति कश्चि.त्सौमित्रिणा समः। अग्निमारुत.कल्पौ तौ भ्रातरौ तव संश्रयौ।। • नास्मिं.श्चिरं वत्स्यसि देवि देशे- रक्षोगणै.रध्युषितेऽतिरौद्रे। न ते चिरा.दागमनं प्रियस्य क्षमस्व मत्सङ्गम.कालमात्रम्।। सर्गः 40 हनुमत्प्रेषणम् • श्रुत्वा तु वचनं तस्य वायुसूनो.र्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा।। • त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर। अर्धसञ्जात.सस्येव वृष्टिं प्राप्य वसुन्धरा।। • यथा तं पुरुषव्याघ्रं गात्रै.श्शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि।। • अभिज्ञानं च रामस्य दद्या हरिगणोत्तम। क्षिप्ता.मिषीकां काकस्य कोपा.देकाक्षि.शातनीम्।। • मन.श्शिलाया.स्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तु.मर्हसि।। • स वीर्यवा.न्कथं सीतां हृतां समनुमन्यसे। वसन्तीं रक्षसां मध्ये महेन्द्र.वरुणोपमः।। • एष चूडामणि.र्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वा.मिवानघ।। • एष निर्यातित.श्श्रीमा-न्मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा।। • असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसीनां सुघोराणां त्वत्कृते मर्षया.म्यहम्।। • धारयिष्यामि मासं तु जीवितं शत्रुसूदन। ऊर्ध्वं मासा.न्न जीविष्ये त्वया हीना नृपात्मज।। • घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विपद्यन्तं न जीवेय.महं क्षणम्।। • वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवी.न्महातेजा हनुमा.न्मारुतात्मजः।। • त्वच्छोक.विमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।। • कथञ्चि.द्भवती दृष्टा न कालः परिशोचितुम्। इमं मुहूर्तं दुःखाना-मन्तं द्रक्ष्यसि भामिनि।। • ता.वुभौ पुरुषव्याघ्रौ राजपुत्रा.वरिन्दमौ। त्वद्दर्शन.कृतोत्साहौ लङ्कां भस्मीकरिष्यतः।। • हत्वा च समरे क्रूरं रावणं सहबान्धवम्। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः।। • यत्तु रामो विजानीया-दभिज्ञान.मनिन्दिते। प्रीतिसञ्जननं तस्य भूय.स्त्वं दातु.मर्हसि।। • साब्रवी.द्दत्त.मेवेति मयाभिज्ञान.मुत्तमम्। एत.देव हि रामस्य दृष्ट्वा मत्केशभूषणम्। • श्रद्धेयं हनुम.न्वाक्यं तव वीर भविष्यति।। • स तं मणिवरं गृह्य श्रीमा.न्प्लवगसत्तमः। प्रणम्य शिरसा देवीं गमनायोप.चक्रमे।। • तमुत्पात.कृतोत्साह-मवेक्ष्य हरिपुङ्गवम्। वर्धमानं महावेग-मुवाच जनकात्मजा। • अश्रुपूर्ण.मुखी दीना बाष्प.गद्गदया गिरा।। • हनम.न्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ। • सुग्रीवं च सहामात्यं सर्वान् ब्रूया.ह्यनामयम्।। • यथा च स महाबाहु-र्मां तारयति राघवः। अस्मा.द्दुःखाम्बु.संरोधा-त्त्वं समाधातु.मर्हसि।। • इमं च तीव्रं मम शोकवेगं- रक्षोभि.रेभिः परिभर्त्सनं च। ब्रूया.स्तु रामस्य गत.स्समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर।। • स राजपुत्र्या प्रतिवेदितार्थः- कपिः कृतार्थः परिहृष्टचेताः। अल्पावशेषं प्रसमीक्ष्य कार्यं- दिशं ह्युदीचीं मनसा जगाम।। सर्गः 41 प्रमदावनभञ्जनम् • स च वाग्भिः प्रशस्ताभि-र्गमिष्य.न्पूजित.स्तया। तस्मा.द्देशा.दपक्रम्य चिन्तयामास वानरः।। • अल्पशेष.मिदं कार्यं दृष्टेय.मसितेक्षणा। त्रीनुपाया.नतिक्रम्य चतुर्थ इह विद्यते।। • न साम रक्षस्सु गुणाय कल्पते- न दान.मर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः- पराक्रम.स्त्वेव ममेह रोचते।। • न चास्य कार्यस्य पराक्रमा.दृते- विनिश्चयः कश्चि.दिहोपपद्यते। हतप्रवीरा हि रणे हि राक्षसाः- कथञ्चि.दीयु.र्यदिहाद्य मार्दवम्।। • कार्ये कर्मणि निर्दिष्टे यो बहू.न्यपि साधयेत्। पूर्वकार्याविरोधेन स कार्यं कर्तु.मर्हति।। • न ह्येक.स्साधको हेतु-स्स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने।। • इहैव ताव.त्कृतनिश्चयो ह्यहं- यदि व्रजेयं प्लवगेश्वरालयम्। परात्म.सम्मर्द.विशेष.तत्त्ववित्-ततः कृतं स्यान्मम भर्तृशासनम्।। • कथं नु खल्वद्य भवे.त्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारवत्-सम्मानये.न्मां च रणे दशाननः।। • तत.स्समासाद्य रणे दशाननं- समन्त्रिवर्गं सबल.प्रयायिनम्। हृदि स्थितं तस्य मतं बलं च वै- सुखेन मत्त्वाऽह.मितः पुनर्व्रजे।। • इद.मस्य नृशंसस्य नन्दनोपम.मुत्तमम्। वनं नेत्र.मनःकान्तं नानाद्रुम.लतायुतम्।। • इदं विध्वंसयिष्यामि शुष्कं वन.मिवानलः। अस्मि.न्भग्ने ततः कोपं करिष्यति दशाननः।। • ततो महत्साश्व.महारथद्विपं- बलं समादेक्ष्यति राक्षसाधिपः। त्रिशूल.कालायस.पट्टिसायुधं ततो मह.द्युद्ध.मिदं भविष्यति।। • अहं तु तैः संयति चण्डविक्रमै-स्समेत्य रक्षोभि.रसह्यविक्रमः। निहत्य तद्रावण.चोदितं बलं- सुखं गमिष्यामि कपीश्वरालयम्।। • ततो मारुतव.त्क्रुद्धो मारुति.र्भीमविक्रमः। ऊरुवेगेन महता द्रुमा.न्क्षेप्तु.मथारभत्।। • ततस्तु हनुमा.न्वीरो बभञ्ज प्रमदावनम्। मत्तद्विज.समाघुष्टं नानाद्रुम.लतायुतम्।। • तद्वनं मथितै.र्वृक्षै-र्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्।। • नानाशकुन्त.विरुतैः प्रभिन्नै.स्सलिलाशयैः। ताम्रैः किसलयैः क्लान्तै: क्लान्तद्रुम.लतायुतम्। • न बभौ तद्वनं तत्र दावानल.हतं यथा। व्याकुलावरणा रेजु-र्विह्वला इव ता लताः।। • लतागृहै.श्चित्रगृहैश्च नाशितै-र्महोरगै.र्व्यालमृगैश्च निर्धुतैः। शिलागृहै.रुन्मथितै.स्तथा गृहैः- प्रणष्टरूपं तदभू.न्मह.द्वनम्।। • सा विह्वलाऽशोकलता.प्रताना- वनस्थली शोकलता.प्रताना। जाता दशास्य.प्रमदावनस्य कपे.र्बलाद्धि प्रमदावनस्य।। • स तस्य कृत्वार्थपते.र्महाकपि-र्मह.द्व्यलीकं मनसो महात्मनः। युयुत्सु.रेको बहुभि.र्महाबलै-श्श्रिया ज्वलं.स्तोरण.मास्थितः कपिः।। सर्गः 42 किङ्करनिषूदनम् • ततः पक्षिनिनादेन वृक्षभङ्ग.स्वनेन च। बभूवु.स्त्रास.सम्भ्रान्ता-स्सर्वे लङ्का.निवासिनः।। • विद्रुताश्च भयत्रस्ता विनेदु.र्मृगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे।। • ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद्वनं ददृशु.र्भग्नं तं च वीरं महाकपिम्।। • स ता दृष्ट्वा महाबाहु-र्महासत्त्वो महाबलः। चकार सुमह.द्रूपं राक्षसीनां भयावहम्।। • तत.स्तं गिरिसङ्काश-मतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छु.र्जनकात्मजाम्।। • कोऽयं कस्य कुतो वायं किं निमित्त.मिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत।। • आचक्ष्व नो विशालाक्षि मा भू.त्ते सुभगे भयम्। संवाद.मसितापाङ्गे त्वया किं कृतवा.नयम्।। • अथाब्रवी.न्महासाध्वी सीता सर्वाङ्गसुन्दरी। रक्षसां भीमरूपाणां विज्ञाने मम का गतिः।। • यूय.मेवाभिजानीत योऽयं यद्वा करिष्यति। अहि.रेव ह्यहेः पादा-न्विजानाति न संशयः।। • अह.मप्यस्य भीतास्मि नैनं जानामि को न्वयं। वेद्मि राक्षस.मेवैनं कामरूपिण.मागतम्।। • वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः। स्थिताः काश्चि.द्गताः काश्चि.-द्रावणाय निवेदितुम्।। • रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीम-माख्यातु.मुपचक्रमुः।। • अशोकवनिका.मध्ये राज.न्भीमवपुः कपिः। सीतया कृतसंवाद-स्तिष्ठ.त्यमितविक्रमः।। • न च तं जानकी सीता हरिं हरिणलोचना। अस्माभि.र्बहुधा पृष्टा निवेदयितु.मिच्छति।। • वासवस्य भवे.द्दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषण.काङ्क्षया।। • तेन त्वद्भुत.रूपेण यत्त.त्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्।। • न तत्र कश्चि.दुद्देशो य.स्तेन न विनाशितः। यत्र सा जानकी सीता स तेन न विनाशितः।। • जानकी.रक्षणार्थं वा श्रमा.द्वा नोपलभ्यते। अथवा क.श्श्रम.स्तस्य सैव तेनाभिरक्षिता।। • चारुपल्लव.पुष्पाढ्यं यं सीता स्वय.मास्थिता। प्रवृद्ध.श्शिंशुपावृक्ष-स्स च तेनाभिरक्षितः।। • तस्योग्ररूपस्योग्र त्वं दण्ड.माज्ञातु.मर्हसि। सीता सम्भाषिता येन- तद्वनं च विनाशितम्।। • मनः परिगृहीतां तां तव रक्षोगणेश्वर। क.स्सीता.मभिभाषेत यो न स्या.त्त्यक्तजीवितः।। • राक्षसीनां वच.श्श्रुत्वा रावणो राक्षसेश्वरः। हुताग्निरिव जज्वाल कोप.संवर्तितेक्षणः।। • तस्य क्रुद्धस्य नेत्राभ्यां प्रापत.न्नश्रुबिन्दवः। दीप्ताभ्या.मिव दीपाभ्यां सार्चिष.स्स्नेहबिन्दवः।। • आत्मन.स्सदृशा.ञ्छूरा-न्किङ्करा.न्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः।। • तेषा.मशीति.साहस्रं किङ्कराणां तरस्विनाम्। निर्ययु.र्भवना.त्तस्मा-त्कूटमुद्गर.पाणयः। • महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनस.स्सर्वे हनुम.द्ग्रहणोद्यताः।। • ते कपीन्द्रं समासाद्य तोरणस्थ.मवस्थितम्। अभिपेतु.र्महावेगाः पतङ्गा इव पावकम्।। • ते गदाभि.र्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजघ्नु.र्वानरश्रेष्ठं शरै.श्चादित्यसन्निभैः।। • मुद्गरैः पट्टिशै.श्शूलैः प्रास.तोमर.शक्तिभिः। परिवार्य हनूमन्तं सहसा तस्थु.रग्रतः।। • हनुमा.नपि तेजस्वी श्रीमा.न्पर्वतसन्निभः। क्षिता.वाविध्य लाङ्गूलं ननाद च महास्वनम्।। • स भूत्वा सुमहाकायो हनुमा.न्मारुतात्मजः। धृष्ट.मास्फोटयामास लङ्कां शब्देन पूरयन्।। • तस्यास्फोटित.शब्देन महता सानुनादिना। पेतु.र्विहङ्गा गगना-दुच्चै.श्चेद.मघोषयत्।। • जय.त्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः।। • दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमा.ञ्छत्रुसैन्यानां निहन्ता मारुतात्मजः।। • न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभि.स्तु प्रहरतः पादपैश्च सहस्रशः।। • अर्दयित्वा पुरीं लङ्का-मभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।। • तस्य सन्नाद.शब्देन तेऽभव.न्भयशङ्किताः। ददृशुश्च हनूमन्तं सन्ध्या.मेघ.मिवोन्नतम्।। • स्वामिसन्देश.निश्शङ्का-स्तत.स्ते राक्षसाः कपिम्। चित्रैः प्रहरणै.र्भीमै.-रभिपेतु.स्ततस्ततः।। • स तैः परिवृत.श्शूरै-स्सर्वत.स्सुमहाबलः। आससादाऽयसं भीमं परिघं तोरणाश्रितम्।। • स तं परिघ.मादाय जघान रजनीचरान्। स पन्नग.मिवादाय स्फुरन्तं विनतासुतः। • विचचाराम्बरे वीरः परिगृह्य च मारुतिः।। • स हत्वा राक्षसा.न्वीरा-न्किङ्करा.न्मारुतात्मजः। युद्धाकाङ्क्षी पुन.र्वीर-स्तोरणं समुपाश्रितः।। • तत.स्तस्मा.द्भया.न्मुक्ताः कतिचि.त्तत्र राक्षसाः। निहता.न्किङ्करा.न्सर्वा-न्रावणाय न्यवेदयन्।। • स राक्षसानां निहतं मह.द्बलं- निशम्य राजा परिवृत्त.लोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्।। सर्गः 43 चैत्यप्रासाद दाहः • तत.स्स किङ्करा.न्हत्वा हनुमा.न्ध्यान.मास्थितः। वनं भग्नं मया चैत्य-प्रासादो न विनाशितः। • तस्मा.त्प्रासाद.मप्येवं भीमं विध्वंसया.म्यहं। इति सञ्चिन्त्य मनसा हनुमा.न्दर्शय.न्बलम्। • चैत्यप्रासाद.माप्लुत्य मेरुशृङ्ग.मिवोन्नतम्। आरुरोह कपिश्रेष्ठो हनुमा.न्मारुतात्मजः।। • आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः।। • संप्रधृष्य च दुर्धर्षं चैत्यप्रासाद.मुत्तमम्। हनुमा.न्प्रज्वल.न्लक्ष्म्या पारियात्रोपमोऽभवत्।। • स भूत्वा सुमहाकायः प्रभावा.न्मारुतात्मजः। धृष्ट.मास्फोटयामास लङ्कां शब्देन पूरयन्।। • तस्यास्फोटित.शब्देन महता श्रोत्रघातिना। पेतु.र्विहङ्गमा.स्तत्र चैत्यपालाश्च मोहिताः।। • अस्त्रवि.ज्जयतां रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः।। • दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमा.ञ्छत्रुसैन्यानां निहन्ता मारुतात्मजः।। • न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः।। • अर्दयित्वा पुरीं लङ्का-मभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।। • एव.मुक्त्वा विमानस्थ-श्चैत्यस्था.न्हरियूथपः। ननाद भीमनिर्ह्रादो रक्षसां जनय.न्भयम्।। • तेन शब्देन महता चैत्यपाला.श्शतं ययुः। गृहीत्वा विविधा.नस्त्रा-न्प्रासा.न्खड्गा.न्परश्वथान्। • विसृजन्तो महाकाया मारुतिं पर्यवारयन्।। • ते गदाभि.र्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजघ्नु.र्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।। • आवर्त इव गङ्गाया-स्तोयस्य विपुलो महान्। परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।। • ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः। प्रासादस्य महा.न्तस्य स्तम्बं हेमपरिष्कृतम्। • उत्पाटयित्वा वेगेन हनुमा.न्पवनात्मजः। ततस्तं भ्रामयामास शतधारं महाबलः।। • तत्र चाग्नि.स्समभव.-त्प्रासाद.श्चाप्यदह्यत। दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। • स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्। अन्तरिक्षे स्थित.श्श्रीमा-निदं वचन.मब्रवीत्।। • मादृशानां सहस्राणि विसृष्टानि महात्मनाम्। बलिनां वानरेन्द्राणां सुग्रीव.वशवर्तिनाम्। अटन्ति वसुधां कृत्स्नां वय.मन्ये च वानराः।। • दशनाग.बलाः केचि-त्केचि.द्दशगुणोत्तराः। केचि.न्नागसहस्रस्य बभूवु.स्तुल्यविक्रमाः।। • सन्ति चौघबलाः केचि-त्केचि.द्वायुबलोपमाः। अप्रमेयबलाश्चान्ये तत्रास.न्हरियूथपाः।। • ईदृग्विधैस्तु हरिभि-र्वृतो दन्तनखायुधैः। शतै.श्शतसहस्रैश्च कोटीभि.रयुतै.रपि। आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः।। • नेय.मस्ति पुरी लङ्का न यूयं न च रावणः। यस्मा.दिक्ष्वाकुनाथेन बद्धं वैरं महात्मना।। सर्गः 44 जम्बुमालि वधः • सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली। जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः। • रक्तमाल्याम्बरधर-स्स्रग्वी रुचिरकुण्डलः। महा.न्विवृत्तनयन-श्चण्ड.स्समरदुर्जयः। • धनु.श्शक्रधनुः प्रख्यं मह.द्रुचिरसायकम्। विष्फारयाणो वेगेन वज्राशनि.समस्वनम्।। • तस्य विष्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत।। • रथेन खरयुक्तेन त.मागत.मुदीक्ष्य सः। हनुमा.न्वेगसम्पन्नो जहर्ष च ननाद च।। • तं तोरण.विटङ्कस्थं हनुमन्तं महाकपिम्। जम्बुमाली महाबाहु-र्विव्याध निशितै.श्शरैः।। • अर्धचन्द्रेण वदने शिर.स्येकेन कर्णिना। बाह्वो.र्विव्याध नाराचै-र्दशभि.स्तं कपीश्वरम्।। • तस्य त.च्छुशुभे ताम्रं शरेणाभिहतं मुखम्। शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना।। • त.त्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्। यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः।। • चुकोप बाणाभिहतो राक्षसस्य महाकपिः। ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्।। • तरसा तां समुत्पाट्य चिक्षेप बलव.द्बली। तां शरै.र्दशभिः क्रुद्ध-स्ताडयामास राक्षसः।। • विपन्नं कर्म त.द्दृष्ट्वा हनुमां.श्चण्डविक्रमः। सालं विपुल.मुत्पाट्य भ्रामयामास वीर्यवान्।। • भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्। चिक्षेप सुबहू.न्बाणा-न्जम्बुमाली महाबलः।। • सालं चतुर्भि.श्चिच्छेद वानरं पञ्चभि.र्भुजे। उर.स्येकेन बाणेन दशभिस्तु स्तनान्तरे।। • स शरैः पूरिततनुः क्रोधेन महता वृतः। तमेव परिघं गृह्य भ्रामयामास वेगितः।। • अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः। परिघं पातयामास जम्बुमाले.र्महोरसि।। • तस्य चैव शिरो नास्ति न बाहू न च जानुनी। न धनु.र्न रथो नाश्वा-स्तत्रादृश्यन्त नेषवः।। • स हत.स्सहसा तेन जम्बुमाली महाबलः। पपात निहतो भूमौ चूर्णिताङ्गविभूषणः।। • जम्बुमालिं च निहतं किङ्करांश्च महाबलान्। चुक्रोध रावण.श्श्रुत्वा कोपसंरक्त.लोचनः।। • स रोषसंवर्तित.ताम्रलोचनः- प्रहस्तपुत्त्रे निहते महाबले। अमात्यपुत्त्रा.नतिवीर्यविक्रमान्- समादिदेशाशु निशाचरेश्वरः।। सर्गः 45 अमात्यपुत्रवधः • ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिण.स्सुताः। निर्ययु.र्भवना.त्तस्मा-त्सप्तसप्तार्चि.वर्चसः। • महाबल.परीवारा धनुष्मन्तो महाबलाः। कृतास्त्रास्त्रविदां श्रेष्ठाः परस्पर.जयैषिणः। • हेमजाल.परिक्षिप्तै-र्ध्वजवद्भिः पताकिभिः। तोयदस्वन.निर्घोषै-र्वाजियुक्तै.र्महारथैः। • तप्तकाञ्चन.चित्राणि चापा.न्यमितविक्रमाः। विस्फारयन्त.स्संहृष्टा-स्तटित्वन्त इवाम्बुदाः।। • जनन्य.स्तु तत.स्तेषां विदित्वा किङ्करा.न्हतान्। बभूवु.श्शोकसम्भ्रान्ता-स्सबान्धव.सुहृज्जनाः।। • ते परस्पर.सङ्घर्षा-त्तप्तकाञ्चनभूषणाः। अभिपेतु.र्हनूमन्तं तोरणस्थ.मवस्थितम्।। • सृजन्तो बाणवृष्टिं ते रथगर्जित.निस्स्वनाः। वृष्टिमन्त इवाम्भोदा विचेरु.र्नैऋताम्बुदाः।। • अवकीर्ण.स्तत.स्ताभि-र्हनुमा.ञ्छरवृष्टिभिः। अभव.त्संवृताकार-श्शैलराडिव वृष्टिभिः।। • स शरा.न्मोघयामास तेषा.माशुचरः कपिः। रथवेगं च वीराणां विचर.न्विमलेऽम्बरे।। • स तैः क्रीड.न्धनुष्मद्भि-र्व्योम्नि वीरः प्रकाशते। धनुष्मद्भि.र्यथा मेघै.र्मारुतः प्रभु.रम्बरे।। • स कृत्वा निनदं घोरं त्रासयं.स्तां महाचमूम्। चकार हनुमा.न्वेगं तेषु रक्षस्सु वीर्यवान्।। • तलेनाभ्यहन.त्कांश्चि-त्पादैः कांश्चि.त्परन्तपः। मुष्टिनाभ्यहन.त्कांश्चि-न्नखैः कांश्चि.द्व्यदारयत्।। • प्रममाथोरसा कांश्चि-दूरुभ्या.मपरा.न्कपिः। केचि.त्तस्य निनादेन तत्रैव पतिता भुवि।। • तत.स्तेष्ववसन्नेषु भूमौ निपतितेषु च। तत्सैन्य.मगम.त्सर्वं दिशो दश भयार्दितम्।। • विनेदु.र्विस्वरं नागा निपेतु.र्भुवि वाजिनः। भग्ननीड.ध्वजच्छत्रै-र्भूश्च कीर्णाऽभव.द्रथैः।। • स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वरै.र्लङ्का ननाद विकृतं तदा।। • स ता.न्प्रवृद्धा.न्विनिहत्य राक्षसान्- महाबल.श्चण्डपराक्रमः कपिः। युयुत्सु.रन्यैः पुनरेव राक्षसै-स्तमेव वीरोऽभिजगाम तोरणम्।। सर्गः 46 सेनापतिपञ्चक वधः • हता.न्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना। रावण.स्संवृताकार-श्चकार मति.मुत्तमाम्।। • स विरूपाक्ष.यूपाक्षौ दुर्धरं चैव राक्षसम्। प्रघसं भासकर्णं च पञ्चसेनाग्र.नायकान्। • सन्दिदेश दशग्रीवो वीरा.न्नयविशारदान्। हनुम.द्ग्रहण.व्यग्रा-न्वायुवेगसमा.न्युधि।। • यात सेनाग्रगा.स्सर्वे महाबल.परिग्रहाः। सवाजिरथ.मातङ्गा-स्स कपि.श्शास्यता.मिति।। • यत्नैश्च खलु भाव्यं स्या-त्त.मासाद्य वनालयम्। कर्म चापि समाधेयं देशकालाविरोधिनम्।। • न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्। सर्वथा तन्महद्भूतं महाबल.परिग्रहम्।। • भवे.दिन्द्रेण वा सृष्ट-मस्मदर्थं तपोबलात्। सनागयक्ष.गन्धर्वा देवासुर.महर्षयः। • युष्माभि.स्सहितै.स्सर्वै-र्मया सह विनिर्जिताः। तै.रवश्यं विधातव्यं व्यलीकं किञ्चि.देव नः। • तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम्। नावमान्यो भवद्भिश्च हरि.र्धीरपराक्रमः।। • दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः। वाली च सहसुग्रीवो जाम्बवांश्च महाबलः।। • नील.स्सेनापतिश्चैव ये चान्ये द्विविदादयः। नैवं तेषां गति.र्भीमा न तेजो न पराक्रमः। • न मति.र्न बलोत्साहौ न रूप.परिकल्पनम्।। • मह.त्सत्त्व.मिदं ज्ञेयं कपिरूपं व्यवस्थितम्। प्रयत्नं मह.दास्थाय क्रियता.मस्य निग्रहः।। • कामं लोका.स्त्रय.स्सेन्द्रा-स्ससुरासुर.मानवाः। भवता.मग्रतः स्थातुं न पर्याप्ता रणाजिरे।। • तथापि तु नयज्ञेन जय.माकाङ्क्षता रणे। आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धि.र्हि चञ्चला।। • ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः। समुत्पेतु.र्महावेगा हुताश.समतेजसः। • रथै.र्मत्तैश्च मातङ्गै-र्वाजिभिश्च महाजवैः। शस्त्रैश्च विविधै.स्तीक्ष्णै-स्सर्वै.श्चोपचिता बलैः।। • तत.स्तं ददृशु.र्वीरा दीप्यमानं महाकपिम्। रश्मिमन्त.मिवोद्यन्तं स्वतेजोरश्मि.मालिनम्। तोरणस्थं महोत्साहं महासत्त्वं महाबलम्।। • महामतिं महावेगं महाकायं महाबलम्। तं समीक्ष्यैव ते सर्वे दिक्षु सर्वा.स्ववस्थिताः। तैस्तै: प्रहरणै.र्भीमै-रभिपेतु.स्तत.स्ततः।। • तस्य पञ्चायसा.स्तीक्ष्णा-श्शिताः पीतमुखा.श्शराः। शिरस्युत्पल.पत्राभा दुर्धरेण निपातिताः।। • स तैः पञ्चभि.राविद्ध-श्शरै.श्शिरसि वानरः। उत्पपात नदन् व्योम्नि दिशो दश विनादयन्।। • ततस्तु दुर्धरो वीर-स्सरथ.स्सज्य.कार्मुकः। किरन् शरशतै.स्तीक्ष्णै-रभिपेदे महाबलः।। • स कपि.र्वारयामास तं व्योम्नि शरवर्षिणम्। वृष्टिमन्तं पयोदान्ते पयोद.मिव मारुतः।। • अर्ध्यमान.स्तत.स्तेन दुर्धरेणानिलात्मजः। चकार कदनं भूयो व्यवर्धत च वेगवान्।। • स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युद्राशि.र्गिरा.विव।। • ततस्स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्। विहाय न्यपत.द्भूमौ दुर्धर.स्त्यक्तजीवितः।। • तं विरूपाक्ष.यूपाक्षौ दृष्ट्वा निपतितं भुवि। सञ्जातरोषौ दुर्धर्षा-वुत्पेततु.ररिन्दमौ।। • स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे। मुद्गराभ्यां महाबाहु-र्वक्षस्यभिहतः कपिः।। • तयो.र्वेगवतो.र्वेगं विनिहत्य महाबलः। निपपात पुन.र्भूमौ सुपर्णसम.विक्रमः।। • स सालवृक्ष.मासाद्य तमुत्पाट्य च वानरः। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः।। • तत.स्तां.स्त्री.न्हता-न्ज्ञात्वा वानरेण तरस्विना। अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्। भासकर्णश्च सङ्क्रुद्ध-श्शूल.मादाय वीर्यवान्।। • एकतः कपिशार्दूलं यशस्विन.मवस्थितम्। पट्टिसेन शिताग्रेण प्रघसः प्रत्ययोधयत्। भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्।। • स ताभ्यां विक्षतै.र्गात्रै-रसृग्दिग्ध.तनूरुहः। अभव.द्वानरः क्रुद्धो बालसूर्य.समप्रभः।। • समुत्पाट्य गिरे.श्शृङ्गं समृग.व्यालपादपम्। जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः।। • तत.स्तेष्ववसन्नेषु सेनापतिषु पञ्चसु। बलं तदवशेषं च नाशयामास वानरः।। • अश्वै.रश्वान् गजै.र्नागान् योधै.र्योधान् रथै रथान्। स कपि.र्नाशयामास सहस्राक्ष इवासुरान्।। • हतै.र्नागैश्च तुरगै-र्भग्नाक्षैश्च महारथैः। हतैश्च राक्षसै.र्भूमी- रुद्धमार्गा समन्ततः।। • ततः कपि.स्ता.न्ध्वजिनीपतीन् रणे- निहत्य वीरा.न्सबला.न्सवाहनान्। समीक्ष्य वीरः परिगृह्य तोरणं- कृतक्षणः काल इव प्रजाक्षये।। सर्गः 47 अक्षकुमार वधः • सेनापती.न्पञ्च स तु प्रमापितान्- हनूमता सानुचरा.न्सवाहनान्। समीक्ष्य राजा समरोद्धतोन्मुखं कुमार.मक्षं प्रसमैक्षताग्रतः।। • स तस्य दृष्ट्यर्पण.सम्प्रचोदितः- प्रतापवा.न्काञ्चनचित्र.कार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यै.र्हविषेव पावकः।। • ततो महद्बाल.दिवाकरप्रभं- प्रतप्त.जाम्बूनदजाल.सन्ततम्। रथं समास्थाय ययौ स वीर्यवा.-न्महाहरिं तं प्रति नैरृतर्षभः।। • तत.स्तप.स्सङ्ग्रहसञ्चयार्जितं- प्रतप्तजाम्बूनद.जालशोभितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्।। • सुरासुराधृष्य.मसङ्गचारिणं- रविप्रभं व्योमचरं समाहितम्। सतूण.मष्टासि.निबद्धबन्धुरं यथाक्रमावेशित.शक्तितोमरम्।। • विराजमानं प्रतिपूर्ण.वस्तुना सहेम.दाम्ना शशिसूर्य.वर्चसा। दिवाकराभं रथ.मास्थित.स्तत-स्स निर्जगामामर.तुल्यविक्रमः।। • स पूरय.न्खं च महीं च साचलां- तुरङ्ग.मातङ्ग.महारथस्वनैः। बलै.स्समेतै.स्स हि तोरणस्थितं- समर्थ.मासीन.मुपागम.त्कपिम्।। • स तं समासाद्य हरिं हरीक्षणो- युगान्तकालाग्नि.मिव प्रजाक्षये। अवस्थितं विस्मित.जातसम्भ्रम-स्समैक्षताक्षो बहुमान.चक्षुषा।। • स तस्य वेगं च कपे.र्महात्मनः पराक्रमं- चारिषु पार्थिवात्मजः। विचारय.न्स्वं च बलं महाबलो- हिमक्षये सूर्य इवाभिवर्धते।। • स जातमन्युः प्रसमीक्ष्य विक्रमं- स्थिरं स्थिर.स्सँयति दुर्निवारणम्। समाहितात्मा हनुमन्त.माहवे- प्रचोदयामास शरै.स्त्रिभि श्शितैः।। • ततः कपिं तं प्रसमीक्ष्य गर्वितं- जितश्रमं शत्रुपराजयोर्जितम्। अवैक्षताक्ष.स्समुदीर्ण.मानस-स्सबाणपाणिः प्रगृहीत.कार्मुकः।। • स हेमनिष्काङ्गद.चारुकुण्डल- स्समाससादाशुपराक्रमः कपिम्। तयो.र्बभूवाप्रतिम.स्समागम-स्सुरासुराणा.मपि सम्भ्रमप्रदः।। • ररास भूमि.र्न तताप भानुमा.-न्ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीक्ष्य संयुगं- ननाद च द्यौ.रुदधिश्च चुक्षुभे।। • तत.स्स वीर.स्सुमुखान् पतत्रिण-स्सुवर्णपुङ्खा.न्सविषा.निवोरगान्। समाधिसँयोग.विमोक्ष.तत्त्ववि-च्छरा.नथ त्री.न्कपि.मूर्ध्न्यपातयत्।। • स तै श्शरै.र्मूर्ध्नि समं निपातितैः- क्षर.न्नसृग्दिग्ध.विवृत्तलोचनः। नवोदितादित्यनिभ. श्शरांशुमान् व्यराजतादित्य इवांशुमालिकः।। • तत.स्स पिङ्गाधिप.मन्त्रिसत्तमः- समीक्ष्य तं राजवरात्मजं रणे। उदग्र.चित्रायुध.चित्रकार्मुकं- जहर्ष चापूर्यत चाहवोन्मुखः।। • स मन्दराग्रस्थ इवांशुमालिको- विवृद्धकोपो बलवीर्यसंयुतः। कुमार.मक्षं सबलं सवाहनं ददाह- नेत्राग्निमरीचिभि.स्तदा।। • तत.स्स बाणासन.चित्रकार्मुक-श्शरप्रवर्षो युधि राक्षसाम्बुदः। शरा.न्मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे।। • ततः कपि.स्तं रणचण्डविक्रमं- विवृद्धतेजो.बलवीर्यसंयुतम्। कुमार.मक्षं प्रसमीक्ष्य संयुगे- ननाद हर्षाद् घनतुल्य.विक्रमः।। • स बालभावा.द्युधि वीर्यदर्पितः- प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं कपिं रणे- गजो महाकूपमिवावृतं तृणैः।। • स तेन बाणैः प्रसभं निपातितै-श्चकार नादं घननाद.निस्स्वनः। समुत्पपाताशु नभ.स्स मारुति¬-र्भुजोरुविक्षेपण.घोरदर्शनः।। • समुत्पतन्तं समभिद्रव.द्बली- स राक्षसानां प्रवरः प्रतापवान्। रथी रथिश्रेष्ठतमः किर.ञ्छरैः पयोधर.श्शैल.मिवाश्मवृष्टिभिः।। • स ताञ्छरां.स्तस्य हरि.र्विमोक्षयं-श्चचार वीरः पथि वायुसेविते। शरान्तरे मारुतव.द्विनिष्पत-न्मनोजव.स्सँयति चण्डविक्रमः।। • तमात्त.बाणासन.माहवोन्मुखं- ख.मास्तृणन्तं विशिखै.श्शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा- जगाम चिन्तां च स मारुतात्मजः।। • तत.श्शरै.र्भिन्नभुजान्तरः कपिः- कुमारवीरेण महात्मना नदन्। महाभुजः कर्मविशेष.तत्त्ववि- द्विचिन्तयामास रणे पराक्रमम्।। • अबालव.द्बालदिवाकरप्रभः- करो.त्ययं कर्म मह.न्महाबलः। न चास्य सर्वाहव.कर्मशोभिनः- प्रमापणे मे मति.रत्र जायते।। • अयं महात्मा च महांश्च वीर्यत- स्समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदया.दयं- सनागयक्षै.र्मुनिभिश्च पूजितः।। • पराक्रमोत्साह.विवृद्धमानस-स्समीक्षते मां प्रमुखाग्रतःस्थितः। पराक्रमो ह्यस्य मनांसि कम्पये-त्सुरासुराणा.मपि शीघ्रगामिनः।। • न खल्वयं नाभिभवे.दुपेक्षितः- पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं त्वेव ममाद्य रोचते- न वर्धमानोऽग्नि.रुपेक्षितुं क्षमः।। • इति प्रवेगं तु परस्य चिन्तय-न्स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबल.स्तदा- मतिं च चक्रेऽस्य वधे महाकपिः।। • स तस्य ता.नष्टहया.न्महाजवान्- समाहिता.न्भारसहा.न्विवर्तने। जघान वीरः पथि वायुसेविते- तलप्रहारैः पवनात्मजः कपिः।। • तत.स्तलेनाभिहतो महारथ-स्स तस्य पिङ्गाधिप.मन्त्रि.निर्जितः। प्रभग्ननीडः परिमुक्त.कूबरः पपात भूमौ हतवाजि.रम्बरात्।। • स तं परित्यज्य महारथो रथं- सकार्मुकः खड्गधरः ख.मुत्पतन्। तपोऽभियोगा.दृषि.रुग्रवीर्यवा-न्विहाय देहं मरुता.मिवालयम्। • ततः कपि.स्तं विचरन्त.मम्बरे- पतत्रिराजानिल.सिद्धसेविते। समेत्य तं मारुततुल्यविक्रमः- क्रमेण जग्राह स पादयो.र्दृढम्।। • स तं समाविध्य सहस्रशः कपि-र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगा.त्पितृतुल्यविक्रमो- महीतले सँयति वानरोत्तमः।। • स भग्नबाहूरु.कटीशिरोधरः- क्षर.न्नसृ.ङ्निर्मथितास्थिलोचनः। सम्भग्नसन्धि: प्रविकीर्ण.बन्धनो- हतः क्षितौ वायुसुतेन राक्षसः।। • महाकपि.र्भूमितले निपीड्य तं- चकार रक्षोधिपते.र्मह.द्भयम्। महर्षिभि.श्चक्रचरै.र्महाव्रतै- स्समेत्य भूतैश्च सयक्षपन्नगैः। • सुरैश्च सेन्द्रै.र्भृशजात.विस्मयै-र्हते कुमारे स कपि.र्निरीक्षितः।। • निहत्य तं वज्रिसुतोपमप्रभं कुमार.मक्षं क्षतजोपमेक्षणम्। तमेव वीरोऽभिजगाम तोरणं- कृतक्षणः काल इव प्रजाक्षये।। सर्गः 48 इन्द्रजिदभियोगः • ततस्तु रक्षोधिपति.र्महात्मा- हनूमताक्षे निहते कुमारे। मन.स्समाधाय सदेवकल्पं समादिदेशेन्द्रजितं सरोषः।। • त्वमस्त्रवि.च्छस्त्रविदां वरिष्ठ-स्सुरासुराणा.मपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधन.सञ्चितास्त्रः।। • तवास्त्रबल.मासाद्य- ससुराः समरुद्गणाः। न शेकु.स्समरे स्थातुं- सुरेश्वर.समाश्रिताः।। • न कश्चि.त्त्रिषु लोकेषु संयुगेन गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। • देशकाल.विभागज्ञ-स्त्वमेव मतिसत्तमः।। • न तेऽस्त्यशक्यं समरेषु कर्मणा- न तेऽस्त्यकार्यं मतिपूर्व.मन्त्रणे। न सोऽस्ति कश्चि.त्त्रिषु सङ्ग्रहेषु वै- न वेद य.स्तेऽस्त्रबलं बलं च ते।। • ममानुरूपं तपसो बलं च ते- पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे- मनश्श्रमं गच्छति निश्चितार्थम्।। • निहताः किङ्करा.स्सर्वे- जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः। बलानि सुसमृद्धानि साश्वनाग.रथानि च। • सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः। न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन।। • इदं हि दृष्ट्वा मतिम.न्महद्बलं- कपेः प्रभावं च पराक्रमं च। त्व.मात्मनश्चापि समीक्ष्य सारं- कुरुष्व वेगं स्वबलानुरूपम्।। • बलावमर्द.स्त्वयि सन्निकृष्टे- यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च- समारभस्वास्त्रविदां वरिष्ठ।। • न वीरसेना गणशो ~च्यवन्ति- न वज्र.मादाय विशालसारम्। न मारुतस्यास्य गतेः प्रमाणं- न चाग्निकल्पः करणेन हन्तुम्।। • तमेव.मर्थं प्रसमीक्ष्य सम्यक्- स्वकर्म.साम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं- व्रजाक्षतं कर्म समारभस्व।। • न खल्वियं मति.श्श्रेष्ठा- यत्त्वां सम्प्रेषया.म्यहम्। इयं च राजधर्माणां क्षत्रियस्य मति.र्मता।। • नानाशस्त्रेषु सङ्ग्रामे वैशारद्य.मरिन्दम। अवश्य.मेव बोद्धव्यं काम्यश्च विजयो रणे।। • ततः पितु.स्तद्वचनं निशम्य- प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तार.मदीनसत्त्वो- रणाय वीरः प्रतिपन्नबुद्धिः।। • ततस्तै स्स्वगणै.रिष्टै-रिन्द्रजित् प्रतिपूजितः। युद्धोद्धतः कृतोत्साह-स्सङ्ग्रामं प्रत्यपद्यत।। • श्रीमा.न्पद्मपलाशाक्षो राक्षसाधिपते.स्सुतः। निर्जगाम महातेजा-स्समुद्र इव पर्वसु।। • स पक्षिराजोपम.तुल्यवेगै-र्व्याळै.श्चतुर्भिः सिततीक्ष्णदंष्ट्रैः। रथं समायुक्त.मसह्यवेगं- समारुरोहेन्द्रजि.दिन्द्रकल्पः।। • स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनुमा.न्यत्र सोऽभवत्।। • स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्।। • सुमह.च्चाप.मादाय शितशल्यांश्च सायकान्। हनुमन्त.मभिप्रेत्य जगाम रणपण्डितः।। • तस्मिं.स्ततः सँयति जातहर्षे- रणाय निर्गच्छति चापपाणौ। दिशश्च सर्वाः कलुषा बभूवु-र्मृगाश्च रौद्रा बहुधा विनेदुः।। • समागता.स्तत्र तु नागयक्षा- महर्षय.श्चक्रचराश्च सिद्धाः। नभ.स्समावृत्य च पक्षिसङ्घा- विनेदु.रुच्चैः परमप्रहृष्टाः।। • आयान्तं सरथं दृष्ट्वा तूर्ण.मिन्द्रजितं कपिः। विननाद महानादं व्यवर्धत च वेगवान्।। • इन्द्रजि.त्तु रथं दिव्य-मास्थित.श्चित्रकार्मुकः। धनु.र्विष्फारयामास तटि.दूर्जितनिस्स्वनम्।। • तत.स्समेता.वतितीक्ष्णवेगौ- महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोधिपते.स्तनूजः- सुरासुरेन्द्रा.विव बद्धवैरौ।। • स तस्य वीरस्य महारथस्य- धनुष्मतः संयति सम्मतस्य। शरप्रवेगं व्यहन.त्प्रवृद्ध-श्चचार मार्गे पितु.रप्रमेये।। • तत.श्शरा.नायत.तीक्ष्णशल्यान्- सुपत्रिणः काञ्चनचित्र.पुङ्खान्। मुमोच वीरः परवीरहन्ता- सुसन्नतान् वज्रनिपात.वेगान्।। • ततस्तु तत्स्यन्दन.निस्स्वनं च- मृदङ्गभेरी.पटहस्वनं च। विकृष्यमाणस्य च- कार्मुकस्य निशम्य घोषं पुन.रुत्पपात।। • शराणा.मन्तरेष्वाशु व्यवर्तत महाकपिः। हरि.स्तस्याभिलक्ष्यस्य मोघय.न्लक्ष्यसंग्रहम्।। • शराणा.मग्रत.स्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमा-नुत्पपातानिलात्मजः।। • तावुभौ वेगसम्पन्नौ रणकर्म.विशारदौ। सर्वभूत.मनोग्राहि चक्रतु.र्युद्ध.मुत्तमम्।। • हनूमतो वेद न राक्षसोऽन्तरं- न मारुति.स्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः- समेत्य तौ देवसमान.विक्रमौ।। • ततस्तु लक्ष्ये स विहन्यमाने- शरेष्वमोघेषु च संपतत्सु। जगाम चिन्तां महतीं महात्मा- समाधिसँयोग.समाहितात्मा।। • ततो मतिं राक्षसराजसूनु-श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपे.स्समीक्ष्य- कथं निगच्छेदि.ति निग्रहार्थम्।। • ततः पैतामहं वीरः- सोऽस्त्र.मस्त्रविदां वरः। सन्दधे सुमहत्तेजाः तं हरिप्रवरं प्रति।। • अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहु-र्मारुतात्मज.मिन्द्रजित्।। • तेन बद्ध.स्ततोऽस्त्रेण राक्षसेन स वानरः। अभव.न्निर्विचेष्टश्च पपात स महीतले ।। • ततोऽथ बुद्ध्वा स तदस्त्रबन्धं- प्रभोः प्रभावा.द्विगतात्मवेगः। पितामहानुग्रह.मात्मनश्च- विचिन्तयामास हरिप्रवीरः।। • तत स्स्वायम्भुवै.र्मन्त्रै-र्ब्रह्मास्त्र.मभिमन्त्रितम्। हनुमां.श्चिन्तयामास वरदानं पितामहात्।। • न मेऽस्त्रबन्धस्य च शक्ति.रस्ति- विमोक्षणे लोकगुरोः प्रभावात्। इत्येव मत्वा विहितोऽस्त्रबन्धो- मयात्मयोने.रनुवर्तितव्यः।। • स वीर्य.मस्त्रस्य कपिर्विचार्य पितामहानुग्रह.मात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञा.मनुवर्तते स्म।। • अस्त्रेणापि हि बद्धस्य- भयं मम न जायते। पितामह.महेन्द्राभ्यां रक्षितस्यानिलेन च।। • ग्रहणे चापि रक्षोभि-र्मह.न्मे गुणदर्शनम्। राक्षसेन्द्रेण संवाद-स्तस्मा.द्गृह्णन्तु मां परे।। • स निश्चितार्थः परवीरहन्ता- समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतै.र्निगृह्य- ननाद तैस्तैः परिभर्त्स्यमानः।। • तत.स्तं राक्षसा दृष्ट्वा निर्विचेष्ट.मरिन्दमम्। बबन्धु.श्शणवल्कैश्च द्रुमचीरैश्च संहतैः।। • स रोचयामास परैश्च बन्धनं- प्रसह्य वीरै.रभिनिग्रहं च। कौतूहला.न्मां यदि राक्षसेन्द्रो- द्रष्टुं व्यवस्ये.दिति निश्चितार्थः।। • स बद्ध.स्तेन वल्केन- विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्ध.मनुवर्तते।। • अथेन्द्रजित्तु द्रुमचीरबद्धं- विचार्य वीरः कपिसत्तमं तम्। विमुक्त.मस्त्रेण जगाम चिन्तां- नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम्।। • अहो महत्कर्म कृतं निरर्थकं- न राक्षसै.र्मन्त्रगति.र्विमृष्टा। पुनश्च मन्त्रे विहतेऽस्त्र.मन्य-त्प्रवर्तते संशयिता.स्स्म सर्वे।। • अस्त्रेण हनुमा.न्मुक्तो नात्मान.मवबुध्यत। कृष्यमाणस्तु रक्षोभि स्तौश्च बन्धै.र्निपीडितः।। • हन्यमान.स्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः।। • अथेन्द्रजि.त्तं प्रसमीक्ष्य मुक्त-मस्त्रेण बद्धं द्रुमचीरसूत्रैः। न्यदर्शय.त्तत्र महाबलं तं- हरिप्रवीरं सगणाय राज्ञे।। • तं मत्तमिव मातङ्गं- बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्।। • कोऽयं कस्य कुतो वात्र- किं कार्यं को व्यपाश्रयः। इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः।। • हन्यतां दह्यतां वापि भक्ष्यता.मिति चापरे। राक्षसा.स्तत्र सङ्क्रुद्धा: परस्पर.मथाब्रुवन्।। • अतीत्य मार्गं सहसा महात्मा- स तत्र रक्षोधिप.पादमूले। ददर्श राज्ञः परिचार.वृद्धान् गृहं महारत्न.विभूषितं च।। • स ददर्श महातेजा- रावणः कपिसत्तमम्। रक्षोभि.र्विकृताकारैः कृष्यमाण.मित.स्ततः।। • राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबल.समायुक्तं तपन्त.मिव भास्करम्।। • सरोषसँवर्तित.ताम्रदृष्टि-र्दशानन.स्तं कपि.मन्ववेक्ष्य। अथोपविष्टान् कुलशील.वृद्धान्- समादिश.त्तं प्रति मन्त्रिमुख्यान्।। • यथाक्रमं तै.स्स कपि.र्विपृष्टः- कार्यार्थ.मर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य- दूतः सकाशा.दह.मागतोऽस्मि।। सर्गः 49 रावणप्रभाव दर्शनम् • तत.स्स कर्मणा तस्य विस्मितो भीमविक्रमः। हनुमा.न्रोष.ताम्राक्षो रक्षोधिप.मवैक्षत।। • भ्राजमानं महार्हेण काञ्चनेन विराजता। मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम्।। • वज्रसँयोग.सँयुक्तै-र्महार्हमणि.विग्रहैः। हैमै.राभरणै.श्चित्रै-र्मनसेव प्रकल्पितैः।। • महार्ह.क्षौम.सँवीतं रक्तचन्दन.रूषितम्। स्वनुलिप्तं विचित्राभि-र्विविधाभिश्च भक्तिभिः।। • विचित्रै.र्दर्शनीयैश्च रक्ताक्षै.र्भीमदर्शनैः। दीप्ततीक्ष्ण.महादंष्ट्रैः प्रलम्ब.दशनच्छदैः। • शिरोभि.र्दशभि.र्वीरं भ्राजमानं महौजसम्। नानाव्याल.समाकीर्णै-श्शिखरै.रिव मन्दरम्।। • नीलाञ्जन.चयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबलाक.मिवाम्बुदम्।। • बाहुभि.र्बद्धकेयूरै-श्चन्दनोत्तम.रूषितैः। भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षै.रिवोरगैः।। • महति स्फाटिके चित्रे रत्नसँयोग.संस्कृते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने।। • अलङ्कृताभि.रत्यर्थं प्रमदाभिः समन्ततः। वालव्यजन.हस्ताभि-रारा.त्समुपसेवितम्।। • दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभि.र्मन्त्रतत्त्वज्ञै-र्निकुम्भेन च मन्त्रिणा। • सुखोपविष्टं रक्षोभि-श्चतुर्भि.र्बलदर्पितैः। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः।। • मन्त्रिभि.र्मन्त्रतत्त्वज्ञै-रन्यैश्च शुभबुद्धिभिः। अन्वास्यमानं रक्षोभिः सुरै.रिव सुरेश्वरम्।। • अपश्य.द्राक्षसपतिं हनुमा.नतितेजसम्। विष्ठितं मेरुशिखरे सतोयमिव तोयदम्।। • स तै.स्सम्पीड्यमानोऽपि रक्षोभि.र्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोधिप.मवैक्षत।। • भ्राजमानं ततो दृष्ट्वा हनुमा.न्राक्षसेश्वरम्। मनसा चिन्तयामास तेजसा तस्य मोहितः।। • अहो रूप.महो धैर्य-महो सत्त्व.महो द्युतिः। अहो राक्षसराजस्य सर्वलक्षण.युक्तता।। • यद्यधर्मो न बलवान् स्या.दयं राक्षसेश्वरः। स्या.दयं सुरलोकस्य सशक्रस्यापि रक्षिता।। • अस्य क्रूरै.र्नृशंसैश्च कर्मभि.र्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्मा-ल्लोका.स्सामरदानवाः। • अयं ह्युत्सहते क्रुद्धः कर्तु.मेकार्णवं जगत्।। • इति चिन्तां बहुविधा-मकरो.न्मतिमान् हरिः। दृष्ट्वा राक्षसराजस्य प्रभाव.ममितौजसः।। सर्गः 50 प्रहस्तप्रश्नः • तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरत.स्स्थितम्। कोपेन महताऽविष्टो रावणो लोकरावणः। शङ्काहतात्मा दध्यौ स- कपीन्द्रं तेजसावृतम्।। • किमेष भगवा.न्नन्दी भवे.त्साक्षा.दिहागतः। येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा। • सोऽयं वानरमूर्ति.स्स्या-त्किं स्वि.द्बाणो महाऽसुरः।। • स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्त.मुवाचेदं वचोऽविपुल.मर्थवत्।। • दुरात्मा पृच्छ्यता.मेष कुतः किं वात्र कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने।। • मत्पुरी.मप्रधृष्यां वा-गमने किं प्रयोजनम्। आयोधने वा किं कार्यं पृच्छ्यता.मेष दुर्मतिः।। • रावणस्य वच.श्श्रुत्वा प्रहस्तो वाक्य.मब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे।। • यदि ताव.त्त्व.मिन्द्रेण प्रेषितो रावणालयम्। तत्त्व.माख्याहि मा भू.त्ते- भयं वानर मोक्ष्यसे।। • यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चाररूप.मिदं कृत्वा प्रविष्टो नः पुरी.मिमाम्।। विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा। • न हि ते वानरं तेजो रूपमात्रं तु वानरम्। तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे।। • अनृतं वदत.श्चापि दुर्लभं तव जीवितम्। अथवा यन्निमित्त.स्ते प्रवेशो रावणालये।। • एव.मुक्तो हरिश्रेष्ठ.स्तदा रक्षोगणेश्वरम्। अब्रवी.न्नास्मि शक्रस्य यमस्य वरुणस्य वा। • धनदेन न मे सख्यं विष्णुना नास्मि चोदितः। जाति.रेव मम त्वेषा वानरोऽह.मिहागतः।। • दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया।। वनं राक्षसराजस्य दर्शनार्थे विनाशितम्। • तत.स्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः। रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे।। • अस्त्रपाशै.र्न शक्योऽहं बद्धुं देवासुरै.रपि। पितामहा.देष वरो ममाप्येषोऽभ्युपागतः।। • राजानं द्रष्टुकामेन मयास्त्र.मनुवर्तितम्। विमुक्तो ह्यह.मस्त्रेण राक्षसै.स्त्वभिपीडितः। केनचि.द्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम्।। • दूतोऽह.मिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्य.मिदं प्रभो।। सर्गः 51 हनूमदुपदेशः • तं समीक्ष्य महासत्त्वं सत्त्ववा.न्हरिसत्तमः। वाक्य.मर्थव.दव्यग्र-स्त.मुवाच दशाननम्।। • अहं सुग्रीवसन्देशा.दिह प्राप्त.स्तवालयम्। राक्षसेन्द्र हरीश.स्त्वां भ्राता कुशल.म.ब्रवीत्।। • भ्रातु.श्शृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थोपहितं वाक्य-मिह चामुत्र च क्षमम्।। • राजा दशरथो नाम रथकुञ्जर.वाजिमान्। पितेव बन्धु.र्लोकस्य सुरेश्वर.समद्युतिः।। • ज्येष्ठ.स्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः। पितु.र्निदेशा.न्निष्क्रान्तः प्रविष्टो दण्डकावनम्। • लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया। रामो नाम महातेजा धर्म्यं पन्थान.मास्थितः।। • तस्य भार्या वने नष्टा सीता पति.मनुव्रता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः।। • स मार्गमाण.स्तां देवीं राजपुत्रः सहानुजः। ऋश्यमूक.मनुप्राप्त: सुग्रीवेण समागतः।। • तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्। सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्।। • तत.स्तेन मृधे हत्वा राजपुत्रेण वालिनम्। सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः।। • त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। रामेण निहत.स्सङ्ख्ये शरेणैकेन वानरः।। • स सीतामार्गणे व्यग्र-स्सुग्रीवः सत्यसङ्गरः। हरीन् सम्प्रेषयामास दिश.स्सर्वा हरीश्वरः।। • तां हरीणां सहस्राणि शतानि नियुतानि च। दिक्षु सर्वासु मार्गन्ते ह्यध.श्चोपरि चाम्बरे।। • वैनतेयसमाः केचि-त्केचि.त्तत्रानिलोपमाः। असङ्गगत.यश.श्शीघ्रा हरिवीरा महाबलाः।। • अहं तु हनुमा.न्नाम मारुतस्यौरस.स्सुतः। सीतायास्तु कृते तूर्णं शतयोजन.मायतम्। • समुद्रं लङ्घयित्वैव तां दिदृक्षु.रिहागतः।। • भ्रमता च मया दृष्टा गृहे ते जनकात्मजा। तद्भवान् दृष्ट.धर्मार्थ-स्तपःकृत.परिग्रहः। परदारान् महाप्राज्ञ नोपरोद्धुं त्व.मर्हसि।। • न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः।। • कश्च लक्ष्मण.मुक्तानां रामकोपानुवर्तिनाम्। शराणा.मग्रतः स्थातुं शक्तो देवासुरे.ष्वपि।। • न चापि त्रिषु लोकेषु राज.न्विद्येत कश्चन। राघवस्य व्यलीकं यः- कृत्वा सुख.मवाप्नुयात्।। • तत् त्रिकालहितं वाक्यं- धर्म्य.मर्थानुबन्धि च। मन्यस्व नरदेवाय जानकी प्रतिदीयताम्।। • दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः।। • लक्षितेयं मया सीता तथा शोक.परायणा। गृह्य यां नाभिजानासि पञ्चास्या.मिव पन्नगीम्।। • नेयं जरयितुं शक्या सासुरै.रमरै.रपि। विषसंसृष्ट.मत्यर्थं भुक्त.मन्न.मिवौजसा ।। • तपस्सन्ताप.लब्ध.स्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य- आत्मप्राणपरिग्रहः।। • अवध्यतां तपोभि.र्यां भवान् समनुपश्यति। आत्मनः सासुरै.र्देवै-र्हेतु.स्तत्राप्ययं महान्।। • सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः। न दानवो न गन्धर्वो न यक्षो न च पन्नगः। • तस्मा.त्प्राणपरित्राणं कथं राज.न्करिष्यसि।। • न तु धर्मोपसंहार-मधर्मफल.संहितम्। तदेव फल.मन्वेति धर्मश्चाधर्मनाशन:।। • प्राप्तं धर्मफलं ताव-द्भवता नात्र संशयः। फल.मस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे।। • जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा। रामसुग्रीव.सख्यं च बुध्यस्व हित.मात्मनः।। • कामं खल्वह.मप्येक-स्सवाजिरथ.कुञ्जराम्। लङ्कां नाशयितुं शक्त-स्तस्यैष तु न निश्चयः।। • रामेण हि प्रतिज्ञातं हर्यृक्ष.गणसन्निधौ। उत्सादन.ममित्राणां सीता यैस्तु प्रधर्षिता।। • अपकुर्वन् हि रामस्य साक्षा.दपि पुरन्दरः। न सुखं प्राप्नुया-दन्यः किं पुन.स्त्वद्विधो जनः।। • यां सीते.त्यभिजानासि येयं तिष्ठति ते वशे। कालरात्रीति तां विद्धि सर्वलङ्का.विनाशिनीम्।। • तदलं कालपाशेन सीताविग्रह.रूपिणा। स्वयं स्कन्धावसक्तेन क्षेम.मात्मनि चिन्त्यताम्।। • सीताया.स्तेजसा दग्धां रामकोप.प्रपीडिताम्। दह्यमाना.मिमां पश्य पुरीं साट्ट.प्रतोलिकाम्।। • स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान् हितान्। भोगा.न्दारांश्च लङ्कां च मा विनाश.मुपानय।। • सत्यं राक्षस.राजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः।। • सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान्। पुन.रेव तथा स्रष्टुं शक्तो रामो महायशाः।। • देवासुर.नरेन्द्रेषु यक्षरक्षो.गणेषु च। विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च। सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः। • सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः। यो रामं प्रतियुध्येत विष्णुतुल्य.पराक्रमम्।। • सर्वलोकेश्वरस्यैवं कृत्वा विप्रिय.मुत्तमम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्।। • देवाश्च दैत्याश्च निशाचरेन्द्र- गन्धर्व.विद्याधर.नागयक्षाः। रामस्य लोकत्रय.नायकस्य- स्थातुं न शक्ता.स्समरेषु सर्वे।। • ब्रह्मा स्वयम्भू.श्चतुराननो वा- रुद्र.स्त्रिणेत्र.स्त्रिपुरान्तको वा। इन्द्रो महेन्द्र.स्सुरनायको वा- त्रातुं न शक्ता युधि रामवध्यम्।। • स सौष्ठवोपेत.मदीनवादिनः- कपे.र्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्त.लोचनः- समादिश.त्तस्य वधं महाकपेः।। सर्गः 52 दूतवधनिवारणम् • तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापय.द्वधं तस्य रावणः क्रोधमूर्छितः।। • वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नानुमेने विभीषणः।। • तं रक्षोधिपतिं क्रुद्धं तच्च कार्य.मुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः।। • निश्चितार्थ.स्तत.स्साम्ना पूज्यं शत्रुजि.दग्रजम्। उवाच हित.मत्यर्थं वाक्यं वाक्यविशारदः।। • क्षमस्व रोषं त्यज राक्षसेन्द्र- प्रसीद मद्वाक्य.मिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा- दूतस्य सन्तो वसुधाधिपेन्द्राः।। • राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपे.रस्य प्रमापणम्।। • धर्मज्ञश्च कृतज्ञश्च राजधर्म.विशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्।। • गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणः। तत. श्शास्त्रविपश्चि.त्त्वं श्रम एव हि केवलम्।। • तस्मा.त्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्।। • विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। रोषेण महताविष्टो वाक्य.मुत्तर.मब्रवीत्।। • न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मा.देनं वधिष्यामि वानरं पापचारिणम्।। • अधर्ममूलं बहुदोषयुक्त-मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं- विभीषणो बुद्धिमतां वरिष्ठः।। • प्रसीद लङ्केश्वर राक्षसेन्द्र- धर्मार्थयुक्तं वचनं शृणुष्व। दूता.नवध्यान् समयेषु राजन्- सर्वेषु सर्वत्र वदन्ति सन्तः।। • असंशयं शत्रु.रयं प्रवृद्धः- कृतं ह्यनेनाप्रिय.मप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो- दूतस्य दृष्टा बहवो हि दण्डाः।। • वैरूप्य.मङ्गेषु कशाभिघातो- मौण्ड्यं तथा लक्षण.सन्निपातः। एतान् हि दूते प्रवदन्ति दण्डान्- वधस्तु दूतस्य न नः श्रुतोऽस्ति।। • कथं च धर्मार्थविनीतबुद्धिः- परावरप्रत्यय.निश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत्- कोपं नियच्छन्ति हि सत्त्ववन्तः।। • न धर्मवादे न च लोकवृत्ते- न शास्त्रबुद्धि.ग्रहणेषु चापि। विद्येत कश्चि.त्तव वीर तुल्य- स्त्वंह्युत्तम.स्सर्वसुरासुराणाम्।। • न चाप्यस्य कपे.र्घाते कञ्चि.त्पश्या.म्यहं गुणम्। तेष्वयं पात्यतां दण्डो यै.रयं प्रेषितः कपिः।। • साधुर्वा यदि वाऽसाधुः परै.रेष समर्पितः। ब्रुवन् परार्थं परवा-.न्न दूतो वध.मर्हति।। • अपि चास्मिन् हते राज-न्नान्यं पश्यामि खेचरम्। इह यः पुन.रागच्छे-त्परं पारं महोदधेः।। • तस्मा.न्नास्य वधे यत्नः कार्यः परपुरञ्जय। भवान् सेन्द्रेषु देवेषु यत्न.मास्थातु.मर्हति।। • अस्मि.न्विनष्टे न हि वीर.मन्यं- पश्यामि य.स्तौ वरराजपुत्रौ। युद्धाय युद्धप्रिय.दुर्विनीता-वुद्योजये.द्धीर्घपथावरुद्धौ।। • पराक्रमोत्साह.मनस्विनां च- सुरासुराणा.मपि दुर्जयेन। त्वया मनोनन्दन नैर्ऋतानां युद्धायति.र्नाशयतुं न युक्ता।। • हिताश्च शूराश्च समाहिताश्च- कुलेषु जाताश्च महागुणेषु। मनस्विन.श्शस्त्रभृतां वरिष्ठाः- कोट्यग्रत.स्ते सुभृताश्च योधाः।। • तदेकदेशेन बलस्य ताव-त्केचि.त्तवादेशकृतोऽभियान्तु। तौ राजपुत्रौ विनिगृह्य मूढौ- परेषु ते भावयितुं प्रभावम्।। • निशाचराणा.मधिपोऽनुजस्य- विभीषणस्योत्तम.वाक्य.मिष्टम्। जग्राह बुद्ध्या सुरलोकशत्रु-र्महाबलो राक्षसराज.मुख्यः।। सर्गः 53 पावकशैत्यम् • तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकाल.हितं वाक्यं भ्रातु.रुत्तर.मब्रवीत्।। • सम्य.गुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधा.दन्यः क्रियता.मस्य निग्रहः।। • कपीनां किल लाङ्गूल-मिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु।। • ततः पश्य.न्त्विमं दीन-मङ्गवैरूप्य.कर्शितम्। समित्रज्ञातय.स्सर्वे बान्धवाः ससुहृज्जनाः। • आज्ञापय.द्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्।। • तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः। वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः।। • सँवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्क.मिन्धन.मासाद्य वनेष्विव हुताशनः।। • तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन्। लाङ्गूलेन प्रदीप्तेन राक्षसां.स्ता.नपातयत्। रोषामर्ष.परीतात्मा बालसूर्यसमाननः।। • लाङ्गूलं सम्प्रदीप्तं तु द्रष्टुं तस्य हनूमतः। सहस्त्री.बालवृद्धाश्च जग्मुः प्रीता निशाचराः।। • स भूयः सङ्गतैः क्रूरै-र्राक्षसै.र्हरिसत्तमः। निबद्धः कृतवा.न्वीर-स्तत्कालसदृशीं मतिम्।। • कामं खलु न मे शक्ता- निबद्धस्यापि राक्षसाः। छित्त्वा पाशान् समुत्पत्य- हन्या.मह.मिमा.न्पुनः।। • यदि भर्तु.र्हितार्थाय- चरन्तं भर्तृशासनात्। बध्न.न्त्येते दुरात्मनो न तु मे निष्कृतिः कृता।। • सर्वेषा.मेव पर्याप्तो राक्षसाना.महं युधि। किन्तु रामस्य प्रीत्यर्थं विषहिष्येऽह.मीदृशम्। • लङ्का चारयितव्या वै पुन.रेव भवे.दिति।। • रात्रौ न हि सुदृष्टा मे दुर्गकर्म.विधानतः। अवश्य.मेव द्रष्टव्या मया लङ्का निशाक्षये।। • कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च। पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनस.श्श्रमः।। • ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्। परिगृह्य ययु.र्हृष्टा राक्षसाः कपिकुञ्जरम्।। • शङ्खभेरी.निनादै.स्तं घोषयन्तः स्वकर्मभिः। राक्षसाः क्रूरकर्माण-श्चारयन्ति स्म तां पुरीम्।। • अन्वीयमानो रक्षोभि-र्ययौ सुख.मरिन्दमः। हनुमां.श्चारयामास राक्षसानां महापुरीम्।। • अथापश्य.द्विमानानि विचित्राणि महाकपिः। संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्।। • वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि च। तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्। • गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः।। • चत्वरेषु चतुष्केषु राजमार्गे तथैव च। घोषयन्ति कपिं सर्वे चारी क इति राक्षसाः।। • स्त्रीबालवृद्धाः निर्जग्मु-स्तत्र तत्र कुतूहलात्। तं प्रदीपित.लाङ्गूलं हनुमन्तं दिदृक्षवः।। • दीप्यमाने तत.स्तत्र लाङ्गूलाग्रे हनूमतः। राक्षस्य.स्ता विरूपाक्ष्य- श्शंसु.र्देव्या.स्तदप्रियम्।। • य.स्त्वया कृतसंवाद-स्सीते ताम्रमुखः कपिः। लाङ्गूलेन प्रदीप्तेन स एष परिणीयते।। • श्रुत्वा तद्वचनं क्रूर-मात्मापहरणोपमम्। वैदेही शोकसन्तप्ता हुताशन.मुपागमत्।। • मङ्गलाभिमुखी तस्य सा तदाऽसी.न्महाकपेः। उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्।। • यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः।। • यदि किञ्चि.दनुक्रोश-स्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतो भव हनूमतः।। • यदि मां वृत्तसम्पन्नां तत्समागम.लालसाम्। स विजानाति धर्मात्मा शीतो भव हनूमतः।। • यदि मां तारये.दार्य-स्सुग्रीवः सत्यसङ्गरः। अस्मा.द्दुःखाम्बुसंरोधा-च्छीतो भव हनूमतः।। • ततस्तीक्ष्णार्चि.रव्यग्रः प्रदक्षिण.शिखोऽनलः। जज्वाल मृगशाबाक्ष्या-श्शंस.न्निव शिवं कपेः।। • हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिल.शीतलः।। • दह्यमाने च लाङ्गूले चिन्तयामास वानरः। प्रदीप्तोऽग्नि.रयं कस्मा-न्न मां दहति सर्वतः।। • दृश्यते च महाज्वालः करोति न च मे रुजम्। शिशिरस्येव सङ्घातो लाङ्गूलाग्रे प्रतिष्ठितः।। • अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया। रामप्रभावा.दाश्चर्यं पर्वत.स्सरितां पतौ।। • यदि ताव.त्समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रम.स्तादृक्-कि.मग्नि.र्न करिष्यति।। • सीताया.श्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः।। • भूय.स्स चिन्तयामास मुहूर्तं कपिकुञ्जरः। उत्पपाताथ वेगेन ननाद च महाकपिः।। • पुरद्वारं तत.श्श्रीमान् शैलशृङ्ग.मिवोन्नतम्। विभक्त.रक्षस्सम्बाध-माससादानिलात्मजः।। • स भूत्वा शैलसङ्काशः क्षणेन पुन.रात्मवान्। ह्रस्वतां परमां प्राप्तो बन्धना.न्यवशातयत्।। • विमुक्तश्चाभव.छ्रीमान् पुनः पर्वतसन्निभः। वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्।। • स तं गृह्य महाबाहुः कालायस.परिष्कृतम्। रक्षिण.स्तान् पुन.स्सर्वा-न्सूदयामास मारुतिः।। • स ता.न्निहत्वा रणचण्डविक्रम- स्समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूल.कृतार्चिमाली- प्रकाशतादित्य इवार्चिमाली।। सर्गः 54 लङ्कादाहः • वीक्षमाण.स्ततो लङ्कां कपिः कृतमनोरथः। वर्धमान.समुत्साहः कार्यशेष.मचिन्तयत्।। • किन्नु खल्ववशिष्टं मे कर्तव्य.मिह साम्प्रतम्। यदेषां रक्षसां भूयः सन्तापजननं भवेत्।। • वनं ताव.त्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपित-श्शेषं दुर्गविनाशनम्। • दुर्गे विनाशिते कर्म भवे.त्सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्या.त्सफलश्श्रमः।। • यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य सन्तर्पणं न्याय्यं कर्तु.मेभि.र्गृहोत्तमैः।। • ततः प्रदीप्तलाङ्गूल-स्सविद्यु.दिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः।। • गृहा.द्गृहं राक्षसाना-मुद्यानानि च वानरः। वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः।। • अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र स निक्षिप्य श्वसनेन समो बली। • ततोऽन्य.त्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमा.नग्निं कालानल.शिखोपमम्।। • वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः। शुकस्य च महातेजा-स्सारणस्य च धीमतः।। • तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमाले.स्सुमालेश्च ददाह भवनं ततः।। • रश्मिकेतोश्च भवनं सूर्यशत्रो.स्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः। • युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च। करालस्य पिशाचस्य शोणिताक्षस्य चैव हि। • कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि। यज्ञशत्रोश्च भवनं ब्रह्मशत्रो.स्तथैव च। • नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः।। • तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहे.ष्वृद्धिमता.मृद्धिं ददाह स महाकपिः।। • सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्।। • तत.स्तस्मि.न्गृहे मुख्ये नानारत्न.विभूषिते। मेरुमन्दर.सङ्काशे सर्वमङ्गल.शोभिते। • प्रदीप्त.मग्नि.मुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमा.न्वीरो युगान्त.जलदो यथा।। • श्वसनेन च संयोगा-दतिवेगो महाबलः। कालाग्नि.रिव जज्वाल प्रावर्धत हुताशनः।। • प्रदीप्त.मग्निं पवन-स्तेषु वेश्म.स्वचारयत्। अभू.च्छ्वसनसंयोगा-दतिवेगो हुताशनः।। • तानि काञ्चनजालानि मुक्तामणिमयानि च। भवना.न्यवशीर्यन्त रत्नवन्ति महान्ति च।। • तानि भग्नविमानानि निपेतुर्वसुधातले। भवानानीव सिद्धानां अम्बरात् पुण्यसङ्क्षये।। • संजज्ञे तुमुल.श्शब्दो राक्षसानां प्रधावताम्। स्वगृहस्य परित्राणे भग्नोत्साहोर्जित.श्रियाम्। नून.मेषोऽग्नि.रायातः कपिरूपेण हा इति।। • क्रन्दन्त्य.स्सहसा पेतुः स्तनन्धयधराः स्त्रियः। काश्चि.दग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः। पतन्त्यो रेजिरेऽभ्रेभ्य-स्सौदामिन्य इवाम्बरात्।। • वज्रविद्रुम.वैडूर्य-मुक्तारजत.संहितान्। विचित्रा.न्भवना.द्धातून् स्यन्दमाना.न्ददर्श सः।। • नाग्नि.स्तृप्यति काष्ठानां तृणानां च यथा तथा। हनूमान् राक्षसेन्द्राणां विशस्तानां न तृप्यति।। • क्वचि.त्किंशुक.सङ्काशाः क्वचि.च्छाल्मलि.सन्निभाः। क्वचि.त्कुङ्कुम.सङ्काशा-श्शिखा वह्ने.श्चकाशिरे।। • हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं त-द्रुद्रेण त्रिपुरं यथा।। • तत.स्तु लङ्कापुरपर्वताग्रे- समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो- हनूमता वेगवता विसृष्टः।। • युगान्तकालानल.तुल्यवेग-स्समारुतोऽग्नि.र्ववृधे दिविस्पृक्। विधूमरश्मि.र्भवनेषु सक्तो रक्ष.श्शरीराज्य.समर्पितार्चिः।। • आदित्यकोटी.सदृश.स्सुतेजा- लङ्कां समस्तां परिवार्य तिष्ठन्। शब्दै.रनेकै.रशनि.प्ररूढै-र्भिन्द.न्निवाण्डं प्रबभौ महाग्निः।। • तत्राम्बरा.दग्नि.रतिप्रवृद्धो- रूक्षप्रभः किंशुक.पुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः।। • वज्री महेन्द्र.स्त्रिदशेश्वरो वा- साक्षा.द्यमो वा वरुणोऽनिलो वा। रुद्रोऽग्नि.रर्को धनदश्च सोमो न वानरोऽयं स्वय.मेव कालः।। • किं ब्रह्मण.स्सर्वपितामहस्य- सर्वस्य धातु.श्चतुराननस्य। इहागतो वानररूप.धारी रक्षोपसंहारकरः प्रकोपः।। • किं वैष्णवं वा कपिरूप.मेत्य- रक्षोविनाशाय परं सुतेजः। अनन्त.मव्यक्त.मचिन्त्य.मेकं- स्वमायया साम्प्रत.मागतं वा।। • इत्येव.मूचु.र्बहवो विशिष्टा- रक्षोगणा.स्तत्र समेत्य सर्वे। सप्राणिसङ्घां सगृहां सवृक्षां- दग्धां पुरीं तां सहसा समीक्ष्य।। • ततस्तु लङ्का सहसा प्रदग्धा- सराक्षसा साश्वरथा सनागा। सपक्षिसङ्घा समृगा सवृक्षा- रुरोद दीना तुमुलं सशब्दम्।। • हा तात हा पुत्रक कान्त मित्र- हा जीवितं भोगयुतं सुपुण्यम्। रक्षोभि.रेवं बहुधा ब्रुवद्भि-श्शब्दः कृतो घोरतर.स्सुभीमः।। • हुताशन.ज्वाल.समावृता सा- हतप्रवीरा परिवृत्त.योधा। हनूमतः क्रोधबलाभिभूता- बभूव शापोपहतेव लङ्का।। • स सम्भ्रम.त्रस्त.विषण्ण.राक्षसां- समुज्ज्वल.ज्ज्वाल.हुताशनाङ्किताम्। ददर्श लङ्कां हनुमा.न्महामनाः- स्वयम्भुकोपोपहता.मिवावनिम्।। • भङ्क्त्वा वनं पादपरत्न.सङ्कुलं- हत्वा तु रक्षांसि महान्ति संयुगे। दग्ध्वा पुरीं तां गृहरत्न.मालिनीं- तस्थौ हनूमा.न्पवनात्मजः कपिः।। • त्रिकूट.शृङ्गाग्रतले विचित्रे- प्रतिष्ठितो वानरराजसिंहः। प्रदीप्त.लाङ्गूल.कृतार्चिमाली- व्यराजतादित्य इवांशुमाली।। • स राक्षसां.स्ता.न्सुबहूंश्च हत्वा- वनं च भङ्क्त्वा बहुपादपं तत्। विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा।। • ततस्तु तं वानरवीर.मुख्यं- महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं- प्रतुष्टुवु.र्देवगणाश्च सर्वे।। • भङ्क्त्वा वनं महातेजा- हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं रम्यां- रराज स महाकपिः।। • तत्र देवा.स्सगन्धर्वा-स्सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः।। • तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम्। कालाग्नि.रिति सञ्चिन्त्य सर्वभूतानि तत्रसुः।। • देवाश्च सर्वे मुनिपुङ्गवाश्च- गन्धर्वविद्याधर.नागयक्षाः। भूतानि सर्वाणि महान्ति तत्र- जग्मुः परां प्रीति.मतुल्यरूपाम्।। सर्गः 55 हनुमद्विभ्रमः • लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः। निर्वापयामास तदा समुद्रे हरिसत्तमः। • सन्दीप्यमानां विध्वस्तां त्रस्त.रक्षोगणां पुरीम्। अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः।। • तस्याभू.त्सुमहां.स्त्रासः- कुत्सा चात्म.न्यजायत। लङ्कां प्रदहता कर्म किंस्वि.त्कृत.मिदं मया।। • धन्या.स्ते पुरुषश्रेष्ठा ये बुद्ध्या कोप.मुत्थितम्। निरुन्धन्ति महात्मानो दीप्त.मग्नि.मिवाम्भसा।। • क्रुद्धः पापं न कुर्या.त्कः क्रुद्धो हन्या.द्गुरू.नपि। क्रुद्धः परुषया वाचा नर.स्साधू.नधिक्षिपेत्।। • वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्य.मस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्।। • य.स्समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरग.स्त्वचं जीर्णां स वै पुरुष उच्यते।। • धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्। अचिन्तयित्वा तां सीता-मग्निदं स्वामिघातुकम्।। • यदि दग्धा त्वियं लङ्का- नून.मार्याऽपि जानकी। दग्धा तेन मया भर्तु-र्हितं कार्य.मजानता।। • यदर्थ.मय.मारम्भ-स्तत्कार्य.मवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता।। • ईषत्कार्य.मिदं कार्यं कृत.मासी.न्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः।। • विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते। लङ्कायां कश्चि.दुद्देश-स्सर्वा भस्मीकृता पुरी।। • यदि तद्विहतं कार्यं मम प्रज्ञा.विपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते।। • किमग्नौ निपता.म्यद्य आहोस्वि.द्बडबामुखे। शरीर.माहो सत्त्वानां दद्मि सागर.वासिनाम्।। • कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्व.घातिना।। • मया खलु तदेवेदं रोषदोषा.त्प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्व.मनवस्थितम्।। • धिगस्तु राजसं भाव-मनीश.मनवस्थितम्। ईश्वरेणापि यद्रागा-न्मया सीता न रक्षिता।। • विनष्टायां तु सीतायां ता.वुभौ विनशिष्यतः। तयो.र्विनाशे सुग्रीवः सबन्धु.र्विनशिष्यति।। • एत.देव वच.श्श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्।। • इक्ष्वाकुवंशे धर्मिष्ठे गते नाश.मसंशयम्। भविष्यन्ति प्रजा.स्सर्वा-श्शोकसन्ताप.पीडिताः।। • तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः। रोषदोष.परीतात्मा व्यक्तं लोकविनाशनः।। • इति चिन्तयत.स्तस्य निमित्ता.न्युपपेदिरे। पूर्व.मप्युपलब्धानि साक्षा.त्पुन.रचिन्तयत्।। • अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्नि.रग्नौ प्रवर्तते।। • न हि धर्मात्मन.स्तस्य भार्या.ममिततेजसः। स्वचारित्राभिगुप्तां तां स्प्रष्टु.मर्हति पावकः।। • नूनं रामप्रभावेण वैदेह्या.स्सुकृतेन च। यन्मां दहनकर्मायं नादह.द्धव्यवाहनः।। • त्रयाणां भरतादीनां भ्रातॄणां देवता च या। रामस्य च मनः कान्ता सा कथं विनशिष्यति।। • यद्वा दहनकर्मायं सर्वत्र प्रभु.रव्ययः। न मे दहति लाङ्गूलं कथ.मार्यां प्रधक्ष्यति।। • पुन.श्चाचिन्तय.त्तत्र हनुमा.न्विस्मित.स्तदा। हिरण्यनाभस्य गिरे-र्जलमध्ये प्रदर्शनम्।। • तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। अपि सा निर्दहे.दग्निं न ता.मग्निः प्रधक्ष्यति।। • स तथा चिन्तयं.स्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमा.न्वाक्यं चारणानां महात्मनाम्।। • अहो खलु कृतं कर्म दुष्करं हि हनूमता। अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि।। • प्रपलायितरक्षः स्त्री-बालवृद्ध.समाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः। ।। • दग्धेयं नगरी सर्वा साट्टप्राकार.तोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः।। • इति शुश्राव हनुमान् वाचं ता.ममृतोपमाम्। बभूव चास्य मनसो- हर्ष.स्तत्कालसम्भवः।। • स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमा-नभव.त्प्रीतमानसः।। • ततः कपिः प्राप्तमनोरथार्थ-स्ता.मक्षतां राजसुतां विदित्वा। प्रत्यक्षत.स्तां पुन.रेव दृष्ट्वा- प्रतिप्रयाणाय मतिं चकार।। सर्गः 56 प्रतिप्रयाणोत्पतनम् • ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम्। अभिवाद्याब्रवी.द्दिष्ट्या पश्यामि त्वा.मिहाक्षताम्।। • तत.स्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं हनुमन्त.मभाषत।। • काम.मस्य त्व.मेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्य.स्ते बलोदयः।। • शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नये.द्यदि काकुत्स्थ-स्त.त्तस्य सदृशं भवेत्।। • तद्यथा तस्य विक्रान्त-मनुरूपं महात्मनः। भव.त्याहव.शूरस्य तथा त्व.मुपपादय।। • तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमां.स्तस्या वाक्य.मुत्तर.मब्रवीत्।। • क्षिप्र.मेष्यति काकुत्स्थो हर्यृक्षप्रवरै.र्वृतः। यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति।। • एव.माश्वास्य वैदेहीं हनुमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेही.मभ्यवादयत्।। • तत.स्स कपिशार्दूलः स्वामि.सन्दर्शनोत्सुकः। आरुरोह गिरिश्रेष्ठ-मरिष्ट.मरिमर्दनः।। • तुङ्गपद्मक.जुष्टाभि-र्नीलाभि.र्वनराजिभिः। सोत्तरीय.मिवाम्भोदैः शृंगान्तर.विलम्बिभिः।। • बोध्यमान.मिव प्रीत्या दिवाकरकरै.श्शुभैः। उन्मिषन्त.मिवोद्धूतै-र्लोचनै.रिव धातुभिः।। • तोयौघ.निस्स्वनै.र्मन्द्रैः प्राधीतमिव पर्वतम्। प्रगीतमिव विस्पष्टै-र्नानाप्रस्रवण.स्वनैः।। • देवदारुभि.रत्युच्चै-रूर्ध्वबाहु.मिव स्थितम्। प्रपात.जलनिर्घोषैः प्राकृष्ट.मिव सर्वतः।। • वेपमान.मिव श्यामैः कम्पमानै.श्शरद्वनैः। वेणुभि.र्मारुतोद्धूतैः कूजन्तमिव कीचकैः।। • निश्श्वसन्त.मिवामर्षा-द्घोरै.राशीविषोत्तमैः। नीहारकृत.गम्भीरै-र्ध्यायन्तमिव गह्वरैः।। • मेघपादनिभैः पादैः प्रक्रान्त.मिव सर्वतः। जृम्भमाण.मिवाकाशे शिखरै.रभ्रमालिभिः।। • कूटैश्च बहुधा कीर्णै-श्शोभितं बहुकन्दरैः। सालतालाश्वकर्णैश्च वंशैश्च बहुभि.र्वृतम्।। • लतावितानै.र्विततैः पुष्पवद्भि.रलङ्कृतम्। नानामृग.गणाकीर्णं धातुनिष्यन्द.भूषितम्।। • बहुप्रस्रवणोपेतं शिलासञ्चय.सङ्कटम्। महर्षियक्ष.गन्धर्व-किन्नरोरग.सेवितम्।। • लतापादप.सङ्घातं सिंहाध्युषित.कन्दरम्। व्याघ्रसङ्घ.समाकीर्णं स्वादुमूल.फलद्रुमम्।। • त.मारुरोह हनुमान् पर्वतं पवनात्मजः। रामदर्शन.शीघ्रेण प्रहर्षेणाभिचोदितः।। • तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु। सघोषा.स्समशीर्यन्त शिला.श्चूर्णीकृता.स्ततः।। • स त.मारुह्य शैलेन्द्रं व्यवर्धत महाकपिः। दक्षिणा.दुत्तरं पारं प्रार्थयन् लवणाम्भसः।। • अधिरुह्य ततो वीरः पर्वतं पवनात्मजः। ददर्श सागरं भीमं मीनोरग.निषेवितम्।। • स मारुत इवाकाशं मारुतस्यात्मसम्भवः। प्रपेदे हरिशार्दूलो दक्षिणा.दुत्तरां दिशम्।। • स तदा पीडित.स्तेन कपिना पर्वतोत्तमः। ररास सह तै.र्भूतैः प्रविश.न्वसुधातलम्। • कम्पमानैश्च शिखरैः पतद्भि.रपि च द्रुमैः।। • तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः। निपेतु.र्भूतले रुग्णा-श्शक्रायुधहता इव।। • कन्दरान्तर.संस्थानां पीडितानां महौजसाम्। सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे।। • त्रस्त.व्यावृत्त.वसना व्याकुलीकृतभूषणाः। विद्याधर्यः समुत्पेतु-स्सहसा धरणीधरात्।। • अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः। निपीडित.शिरोग्रीवा व्यचेष्टन्त महाहयः।। • किन्नरोरग.गन्धर्व-यक्ष.विद्याधरा.स्तदा। पीडितं तं नगवरं त्यक्त्वा गगन.मास्थिता:।। • स च भूमिधरः श्रीमा-न्बलिना तेन पीडितः। सवृक्ष.शिखरोदग्रः प्रविवेश रसातलम्।। • दशयोजन.विस्तार-स्त्रिंश.द्योजन.मुच्छ्रितः। धरण्यां समतां यातः स बभूव धराधरः।। • स लिलङ्घयिषु.र्भीमं सलीलं लवणार्णवम्। कल्लोलास्फाल.वेलान्त-मुत्पपात नभो हरिः।। सर्गः 57 प्रत्यागमनम् • स चन्द्रकुमुदं रम्यं सार्क.कारण्डवं शुभम्। तिष्यश्रवण.कादम्ब-मभ्रशैवाल.शाद्वलम्। • पुनर्वसु.महामीनं लोहिताङ्ग.महाग्रहम्। ऐरावत.महाद्वीपं स्वातीहंस.विलोलितम्। • वातसङ्घात.जातोर्मि-चन्द्रांशु.शिशिराम्बुमत्। भुजङ्गयक्ष.गन्धर्व-प्रबुद्ध.कमलोत्पलम्। • हनुमा.न्मारुतगति-र्महानौरिव सागरम्। अपार.मपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। • ग्रसमान इवाकाशं ताराधिप.मिवोल्लिखन्। हर.न्निव सनक्षत्रं गगनं सार्कमण्डलम्। • मारुतस्यात्मजः श्रीमा-न्कपि.र्व्योमचरो महान्। हनुमा.न्मेघजालानि विकर्षन्निव गच्छति।। • पाण्डुरारुण.वर्णानि नील.माञ्जिष्ठकानि च। हरितारुण.वर्णानि महाभ्राणि चकाशिरे।। • प्रविश.न्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते।। • विविधाभ्रघनापन्न-गोचरो धवलाम्बरः। दृश्यादृश्यतनु.र्वीर-स्तदा चन्द्रायतेऽम्बरे।। • तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः। दारय.न्मेघबृन्दानि निष्पतंश्च पुनः पुनः। नद.न्नादेन महता मेघस्वन.महास्वनः।। • प्रवरा.न्राक्षसान् हत्वा नाम विश्राव्य चात्मनः। आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्। • अर्दयित्वा बलं घोरं वैदेही.मभिवाद्य च। आजगाम महातेजाः पुन.र्मध्येन सागरम्।। • पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्। ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः।। • स किञ्चि.दनुसम्प्राप्तः समालोक्य महागिरिम्। महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः।। • स पूरयामास कपि-र्दिशो दश समन्ततः। नद.न्नादेन महता मेघस्वन.महास्वनः।। • स तं देश.मनुप्राप्तः सुहृ.द्दर्शन.लालसः। ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत्।। • तस्य नानद्यमानस्य सुपर्ण.चरिते पथि। फलतीवास्य घोषेण गगनं सार्कमण्डलम्।। • ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः। पूर्वं संविष्ठिता.श्शूरा वायुपुत्र.दिदृक्षवः। • महतो वात.नुन्नस्य तोयदस्येव गर्जितम्। शुश्रुवु.स्ते तदा घोष-मूरुवेगं हनूमतः।। • ते दीनमनस.स्सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्य.निनदोपमम्।। • निशम्य नदतो नादं वानरा.स्ते समन्ततः। बभूवु.रुत्सुका.स्सर्वे सुहृ.द्दर्शनकाङ्क्षिणः।। • जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्ट.मानसः। उपामन्त्र्य हरीन् सर्वा-निदं वचन.मब्रवीत्।। • सर्वथा कृतकार्योऽसौ हनुमा.न्नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्।। • तस्य बाहूरुवेगं च निनादं च महात्मनः। निशम्य हरयो हृष्टाः समुत्पेतु.स्तत.स्ततः।। • ते नगाग्रा.न्नगाग्राणि शिखरा.च्छिखराणि च। प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः।। • ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः। वासांसीव प्रशाखाश्च समाविध्यन्त वानराः।। • गिरिगह्वर.संलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनुमा.न्मारुतात्मजः।। • तमभ्रघन.सङ्काश-मापतन्तं महाकपिम्। दृष्ट्वा ते वानरा.स्सर्वे तस्थुः प्राञ्जलय.स्तदा।। • ततस्तु वेगवां.स्तस्य- गिरे.र्गिरिनिभः कपिः। निपपात महेन्द्रस्य शिखरे पादपाकुले।। • हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे। छिन्नपक्ष इवाऽकाशा-त्पपात धरणीधरः।। • तत.स्ते प्रीतमनस-स्सर्वे वानरपुङ्गवाः। हनुमन्तं महात्मानं परिवार्योप.तस्थिरे। • परिवार्य च ते सर्वे परां प्रीति.मुपागताः।। • प्रहृष्टवदना.स्सर्वे त.मरोग.मुपागतम्। उपायनानि चादाय मूलानि च फलानि च। • प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्।। • हनुमांस्तु गुरून् वृद्धा-न्जाम्बव.त्प्रमुखां.स्तदा। कुमार.मङ्गदं चैव सोऽवन्दत महाकपिः।। • स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा सीतेति विक्रान्त-स्सङ्क्षेपेण न्यवेदयत्।। • निषसाद च हस्तेन गृहीत्वा वालिन.स्सुतम्। रमणीये वनोद्देशे महेन्द्रस्य गिरे.स्तदा।। • हनुमा.नब्रवी.द्धृष्ट-स्तदा ता.न्वानरर्षभान्। अशोकवनिका.संस्था दृष्टा सा जनकात्मजा। • रक्षमाणा सुघोराभी- राक्षसीभि.रनिन्दिता। एकवेणीधरा बाला रामदर्शन.लालसा। उपवास.परिश्रान्ता जटिला मलिना कृशा।। • ततो दृष्टेति वचनं महार्थ.ममृतोपमम्। निशम्य मारुते.स्सर्वे मुदिता वानरा भवन्।। • क्ष्वेल.न्त्यन्ये नद.न्त्यन्ये गर्ज.न्त्यन्ये महाबलाः। चक्रुः किलकिला.मन्ये प्रतिगर्जन्ति चापरे।। • केचि.दुच्छ्रित.लाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः। आयताञ्चित.दीर्घाणि लाङ्गूलानि प्रविव्यधुः।। • अपरे च हनूमन्तं वानरा वारणोपमम्। आप्लुत्य गिरिशृङ्गेभ्य.-स्संस्पृशन्ति स्म हर्षिताः।। • उक्तवाक्यं हनूमन्त-मङ्गद.स्त.मथाब्रवीत्। सर्वेषां हरिवीराणां मध्ये वचन.मुत्तमम्।। • सत्त्वे वीर्ये न ते कश्चि-त्समो वानर विद्यते। य.दवप्लुत्य विस्तीर्णं सागरं पुन.रागतः।। • अहो स्वामिनि ते भक्ति-रहो वीर्य.महो धृतिः। दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी। • दिष्ट्या त्यक्ष्यति काकुत्स्थ-श्शोकं सीता.वियोगजम्।। • ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः। परिवार्य प्रमुदिता भेजिरे विपुला.श्शिलाः।। • श्रोतुकामा.स्समुद्रस्य लङ्घनं वानरोत्तमाः। दर्शनं चापि लङ्काया-स्सीताया रावणस्य च। तस्थुः प्राञ्जलय.स्सर्वे हनूम.द्वचनोन्मुखाः।। • तस्थौ तत्राङ्गदः श्रीमान् वानरै.र्बहुभि.र्वृतः। उपास्यमानो विबुधै-र्दिवि देवपति.र्यथा।। • हनूमता कीर्तिमता यशस्विना- तथाङ्गदेनाङ्गद.बद्ध.बाहुना। मुदा तदाऽध्यासित.मुन्नतं मह-न्महीधराग्रं ज्वलितं श्रियाभवत्।। सर्गः 58 वृत्तान्तानुकथनम् • तत.स्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुम.त्प्रमुखाः प्रीतिं हरयो जग्मु.रुत्तमाम्।। • तं ततः प्रीति.संहृष्टः प्रीतिमन्तं महाकपिम्। जाम्बवा.न्कार्यवृत्तान्त-मपृच्छ.दनिलात्मजम्।। • कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते। तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः।। • तत्त्वत.स्सर्व.मेत.न्नः प्रब्रूहि त्वं महाकपे। श्रुतार्था.श्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्।। • यश्चार्थ.स्तत्त्र वक्तव्यो गतै.रस्माभि.रात्मवान्। रक्षितव्यं च य.त्तत्र तद्भवा.न्व्याकरोतु नः।। • स नियुक्त.स्तत.स्तेन सम्प्रहृष्ट.तनूरुहः। प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत।। • प्रत्यक्ष.मेव भवतां महेन्द्राग्रा.त्ख.माप्लुतः। उदधे.र्दक्षिणं पारं काङ्क्षमाण.स्समाहितः।। • गच्छतश्च हि मे घोरं विघ्नरूप.मिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्।। • स्थितं पन्थान.मावृत्य मेने विघ्नं च तं नगम्। उपसङ्गम्य तं दिव्यं काञ्चनं नग.सत्तमम्। कृता मे मनसा बुद्धि-र्भेत्तव्योऽयं मयेति च।। • प्रहतं च मया तस्य लाङ्गूलेन महागिरेः। शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा।। • व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः। पुत्त्रेति मधुरां वाणीं मनः प्रह्लादय.न्निव।। • पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः। मैनाक.मिति विख्यातं निवसन्तं महोदधौ।। • पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः। छन्दतः पृथिवीं चेरु-र्बाधमानाः समन्ततः।। • श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः। चिच्छेद भगवान् पक्षा-न्वज्रेणैषां सहस्रशः।। • अहं तु मोक्षित.स्तस्मा-त्तव पित्रा महात्मना। मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे।। • रामस्य च मया साह्ये वर्तितव्य.मरिन्दम। रामो धर्मभृतां श्रेष्ठो महेन्द्र.समविक्रमः।। • एतच्छ्रुत्वा वच.स्तस्य मैनाकस्य महात्मनः। कार्य.मावेद्य तु गिरे-रुद्यतं च मनो मम। तेन चाह-मनुज्ञातो मैनाकेन महात्मना।। • स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता। शरीरेण महाशैलः शैलेन च महोदधौ।। • उत्तमं जव.मास्थाय शेषं पन्थान.मास्थितः। ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि।। • ततः पश्या.म्यहं देवीं सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं मा.मभाषत।। • मम भक्षः प्रदिष्ट.स्त्व-ममरै.र्हरिसत्तम। अत.स्त्वां भक्षयिष्यामि विहित.स्त्वं चिरस्य मे।। • एव.मुक्त.स्सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेद.मुदीरयम्।। • रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः।। • तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्या.स्सकाशं दूतोऽहं गमिष्ये रामशासनात्।। • कर्तु.मर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।। • एव.मुक्ता मया सा तु सुरसा कामरूपिणी। अब्रवी.न्नातिवर्तेत कश्चि.देष वरो मम।। • एव.मुक्त.स्सुरसया दशयोजन.मायतः। ततोर्धगुण.विस्तारो बभूवाहं क्षणेन तु।। • मत्प्रमाणानुरूपं च व्यादितं च मुखं तया। तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः। तस्मि.न्मुहूर्ते च पुन-र्बभूवाङ्गुष्ठमात्रकः।। • अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्। अब्रवी.त्सुरसा देवी स्वेन रूपेण मां पुनः।। • अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना। सुखी भव महाबाहो प्रीताऽस्मि तव वानर।। • ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः। ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।। • छाया मे निगृहीता च न च पश्यामि किंचन। सोऽहं विहतवेगस्तु दिशो दश विलोकयन्। न किञ्चि.त्तत्र पश्यामि येन मेऽपहृता गतिः।। • ततो मे बुद्धि.रुत्पन्ना किं नाम गगने मम। ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते।। • अधोभागे न मे दृष्टि-श्शोचता पातिता मया। ततोऽद्राक्ष.महं भीमां राक्षसीं सलिलेशयाम्।। • प्रहस्य च महानाद-मुक्तोऽहं भीमया तया। अवस्थित.मसम्भ्रान्त-मिदं वाक्य.मशोभनम्।। • क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः। भक्षः प्रीणय मे देहं चिर.माहार.वर्जितम्।। • बाढ.मित्येव तां वाणीं प्रत्यगृह्णा.महं ततः। आस्यप्रमाणा.दधिकं तस्याः काय.मपूरयम्।। • तस्या.श्चास्यं मह.द्भीमं वर्धते मम भक्षणे। न च मां साधु बुबुधे मम वा विकृतं कृतम्।। • ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्। तस्या हृदय.मादाय प्रपतामि नभस्स्थलम्।। • सा विसृष्टभुजा भीमा पपात लवणाम्भसि। मया पर्वतसङ्काशा निकृत्त.हृदया सती।। • शृणोमि खगतानां च सिद्धानां चारणै.स्सह। राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता।। • तां हत्वा पुन.रेवाहं कृत्य.मात्ययिकं स्मरन्। गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्। दक्षिणं तीर.मुदधे.-र्लङ्का यत्र च सा पुरी।। • अस्तं दिनकरे याते रक्षसां निलयं पुरम्। प्रविष्टोऽह.मविज्ञातो रक्षोभि.र्भीमविक्रमैः। • तत्र प्रविशत.श्चापि कल्पान्तघन.सन्निभा। अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः।। • जिघांसन्तीं तत.स्तां तु ज्वलदग्नि.शिरोरुहाम्। सव्यमुष्टि.प्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः।। • अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते। यस्मा.त्तस्मा.द्विजेतासि सर्वरक्षां.स्यशेषतः।। • तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्। रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्।। • शोचता च मया दृष्टं प्राकारेण समावृतम्। काञ्चनेन विकृष्टेन गृहोपवन.मुत्तमम्।। • स प्राकार.मवप्लुत्य पश्यामि बहुपादपम्। अशोकवनिका.मध्ये शिंशुपापादपो महान्। त.मारुह्य च पश्यामि काञ्चनं कदलीवनम्।। • अदूरे शिंशुपावृक्षा-त्पश्यामि वरवर्णिनीम्। श्यामां कमलपत्राक्षी-मुपवासकृशाननाम्। • तदेकवास.स्संवीतां रजोध्वस्त.शिरोरुहाम्। शोकसन्ताप.दीनाङ्गीं सीतां भर्तृहिते स्थिताम्। • राक्षसीभि.र्विरूपाभिः क्रूराभि.रभिसंवृताम्। मांसशोणित.भक्षाभि-र्व्याघ्रीभि.र्हरिणीमिव।। • सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः। एकवेणीधरा दीना भर्तृचिन्ता.परायणा।। • भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणा.द्विनिवृत्तार्था मर्तव्य.कृतनिश्चया।। • कथञ्चि.न्मृगशाबाक्षी तूर्णमासादिता मया। तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्। तत्रैव शिंशुपावृक्षे पश्य.न्नह.मवस्थितः।। • ततो हलहलाशब्दं काञ्चीनूपुर.मिश्रितम्। शृणो.म्यधिक.गम्भीरं रावणस्य निवेशने।। • ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्। अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः।। • ततो रावणदाराश्च रावणश्च महाबलः। तं देशं समनु.प्राप्ता यत्र सीताऽभवत् स्थिता।। • तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्। सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च।। • वित्रस्तां परमोद्विग्नां वीक्षमाणां तत.स्ततः। त्राणं किञ्चि.दपश्यन्तीं वेपमानां तपस्विनीम्। ता.मुवाच दशग्रीव-स्सीतां परम.दुःखिताम्। अवाक्छिराः प्रपतितो बहुमन्यस्व मा.मिति।। • यदि चेत्त्वं तु दर्पा.न्मां नाभिनन्दसि गर्विते। द्वौ मासा.वन्तरं सीते पास्यामि रुधिरं तव।। • एत.च्छ्रुत्वा वच.स्तस्य रावणस्य दुरात्मनः। उवाच परमक्रुद्धा सीता वचन.मुत्तमम्।। • राक्षसाधम रामस्य भार्या.ममिततेजसः। इक्ष्वाकुकुल.नाथस्य स्नुषां दशरथस्य च। अवाच्यं वदतो जिह्वा कथं न पतिता तव।। • किञ्चि.द्वीर्यं तवानार्य यो मां भर्तु.रसन्निधौ। अपहृत्यागतः पाप तेनादृष्टो महात्मना।। • न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे। यज्ञीय.स्सत्यवादी च रणश्लाघी च राघवः।। • जानक्या परुषं वाक्य-मेव.मुक्तो दशाननः। जज्वाल सहसा कोपा-च्चितास्थ इव पावकः।। • विवृत्य नयने क्रूरे मुष्टि.मुद्यम्य दक्षिणम्। मैथिलीं हन्तु.मारब्धः स्त्रीभि.र्हाहाकृतं तदा।। • स्त्रीणां मध्या.त्समुत्पत्य तस्य भार्या दुरात्मनः। वरा मन्दोदरी नाम तया स प्रतिषेधितः।। • उक्तश्च मधुरां वाणीं तया स मदनार्दितः। सीतया तव किं कार्यं महेन्द्रसम.विक्रमः।। • देवगन्धर्व.कन्याभि-र्यक्षकन्याभि.रेव च। सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि।। • तत.स्ताभि.स्समेताभि-र्नारीभि.स्स महाबलः। प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः।। • याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः। सीतां निर्भर्त्सयामासु-र्वाक्यैः क्रूरैः सुदारुणैः।। • तृणव.द्भाषितं तासां गणयामास जानकी। गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्।। • वृथागर्जित.निश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसु.स्ताः सीताध्यवसितं महत्।। • तत.स्ता.स्सहिता-स्सर्वा निहताशा निरुद्यमाः। परिक्षिप्य समन्ता.त्तां निद्रावश.मुपागताः।। • तासु चैव प्रसुप्तासु सीता भर्तृहिते रता। विलप्य करुणं दीना प्रशुशोच सुदुःखिता।। • तासां मध्या.त्समुत्थाय त्रिजटा वाक्य.मब्रवीत्। आत्मानं खादत क्षिप्रं न सीता विनशिष्यति। जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च।। • स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। रक्षसां च विनाशाय भर्तु.रस्या जयाय च।। • अल.मस्मा.त्परित्रातुं राघवा.द्राक्षसीगणम्। अभियाचाम वैदेही-मेतद्धि मम रोचते।। • यस्या ह्येवंविध.स्स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखै.र्विविधै.र्मुक्ता सुख.माप्नो.त्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।। • अलमेषा परित्रातुं राक्षस्यो महतो भयात्।। • तत.स्सा ह्रीमती बाला भर्तु.र्विजयहर्षिता। अवोच.द्यदि तत्तथ्यं भवेयं शरणं हि वः।। • तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्। चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः।। • सम्भाषणार्थं च मया जानक्या.श्चिन्तितो विधिः। इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः।। • श्रुत्वा तु गदितां वाचं राजर्षिगण.पूजिताम्। प्रत्यभाषत मां देवी बाष्पैः पिहित.लोचना।। • क.स्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव। का च रामेण ते प्रीति-स्त.न्मे शंसितु.मर्हसि।। • तस्या.स्त.द्वचनं श्रुत्वा ह्यह.मप्यब्रवं वचः। देवि रामस्य भर्तु.स्ते सहायो भीमविक्रमः। सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः।। • तस्य मां विद्धि भृत्यं त्वं हनुमन्त.मिहागतम्। भर्त्राहं प्रेषित.स्तुभ्यं रामेणाक्लिष्टकर्मणा।। • इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। अङ्गुलीय.मभिज्ञान-मदा.त्तुभ्यं यशस्विनि।। • तदिच्छामि त्वयाज्ञप्तं देवि किं करवा.ण्यहम्। रामलक्ष्मणयोः पार्श्वं नयामि त्वां कि.मुत्तरम्।। • एत.च्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी। आह रावण.मुत्साद्य राघवो मां नय.त्विति।। • प्रणम्य शिरसा देवीं मह.मार्या.मनिन्दिताम्। राघवस्य मनोह्लाद-मभिज्ञान.मयाचिषम्।। • अथ मा.मब्रवी.त्सीता गृह्यता.मय.मुत्तमः। मणि.र्येन महाबाहू राम.स्त्वां बहुमन्यते।। • इत्युक्त्वा तु वरारोहा मणिप्रवर.मद्भुतम्। प्रायच्छ.त्परमोद्विग्ना वाचा मां सन्दिदेश ह।। • तत.स्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राम-मिहाभ्युद्गत.मानसः।। • उत्तरं पुन.रेवेदं निश्चित्य मनसा तया। हनुमन् मम वृत्तान्तं वक्तु.मर्हसि राघवे।। • यथा श्रुत्वैव न चिरा-त्ता.वुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरा-वुपेयातां तथा कुरु।। • यद्यन्यथा भवे.देत-द्द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साह.मनाथवत्।। • तच्छ्रुत्वा करुणं वाक्यं क्रोधो मा.मभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेष.मनन्तरम्।। • ततोऽवर्धत मे काय.-स्तदा पर्वतसन्निभः। युद्धकाङ्क्षी वनं तच्च विनाशयितु.मारभे।। • तद्भग्नं वनषण्डं तु भ्रान्त.त्रस्त.मृगद्विजम्। प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः।। • मां च दृष्ट्वा वने तस्मिन् समागम्य तत.स्ततः। ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे।। • राजन् वन.मिदं दुर्गं तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्यं महाबल।। • दुर्बुद्धे.स्तस्य राजेन्द्र तव विप्रिय.कारिणः। वध.माज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्।। • तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृश.दुर्जयाः। राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः।। • तेषा.मशीति.साहस्रं शूलमुद्गर.पाणिनाम्। मया तस्मि.न्वनोद्देशे परिघेण निषूदितम्।। • तेषां तु हतशेषा ये- ते गत्वा लघुविक्रमाः। निहतं च मह.त्सैन्यं रावणायाचचक्षिरे।। • ततो मे बुद्धि.रुत्पन्ना चैत्यप्रासाद.माक्रमम्। तत्रस्था.न्राक्षसान् हत्वा शतं स्तम्भेन वै पुनः। ललामभूतो लङ्काया-स्स वै विध्वंसितो मया।। • ततः प्रहस्तस्य सुतं- जम्बुमालिन.मादिशत् । राक्षसै.र्बहुभिः सार्धं घोररूपै.र्भयानकैः ।। • तं महाबल.सम्पन्नं राक्षसं रणकोविदम्। परिघेणातिघोरेण सूदयामि सहानुगम्।। • तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्त्रा.न्महाबलान्। पदातिबलसम्पन्नान् प्रेषयामास रावणः।। • परिघेणैव तान् सर्वा-न्नयामि यमसादनम्। मन्त्रिपुत्त्रा.न्हता.न्छ्रुत्वा समरेऽलघुविक्रमान्। पञ्च सेनाग्रगा.च्छ्रूरा-न्प्रेषयामास रावणः।। • ता.नहं सहसैन्या.न्वै सर्वा.नेवाभ्यसूदयम्। ततः पुन.र्दशग्रीवः पुत्र.मक्षं महाबलम्। • बहुभी. राक्षसै.स्सार्धं प्रेषयामास रावणः।। • तं तु मन्दोदरीपुत्त्रं कुमारं रणपण्डितम्। सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्। • चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्।। • तमक्ष.मागतं भग्नं निशम्य स दशाननः। तत इन्द्रजितं नाम द्वितीयं रावण.स्सुतम्। व्यादिदेश सुसंक्रुद्धो बलिनम् युद्ध.दुर्मदम्।। • तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्। नष्टौजसं रणे कृत्वा परं हर्ष.मुपागमम्।। • महतापि महाबाहुः प्रत्ययेन महाबलः। प्रेषितो रावणेनैव सह वीरै.र्मदोत्कटैः।। • सोऽविषह्यं हि मां बुद्ध्वा- स्वं बलं चावमर्दितम्। ब्राह्मेणास्त्रेण स तु मां- प्राबध्ना.च्चातिवेगितः।। • रज्जुभि.श्चाभिबध्नन्ति ततो मां तत्र राक्षसाः। रावणस्य समीपं च गृहीत्वा मा.मुपानयन्।। • दृष्ट्वा सम्भाषित.श्चाहं रावणेन दुरात्मना। पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्।। • तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्। अस्याहं दर्शनाकाङ्क्षी प्राप्त.स्त्वद्भवनं विभो। मारुतस्यौरसः पुत्रो वानरो हनुमा.नहम्।। • रामदूतं च मां विद्धि सुग्रीव.सचिवं कपिम्। सोऽहं दूत्येन रामस्य त्वत्सकाश.मिहागतः।। • सुग्रीवश्च महातेजा-स्स त्वां कुशल.मब्रवीत्। धर्मार्थकाम.सहितं हितं पथ्य.मुवाच च।। • वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे। राघवो रणविक्रान्तो मित्त्रत्वं समुपागतः।। • तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता। तत्र साहाय्य.मस्माकं कार्यं सर्वात्मना त्वया।। • मया च कथितं तस्मै वालिनश्च वधं प्रति। तत्र साहाय्य.हेतो.र्मे समयं कर्तु.मर्हसि।। • वालिना हृतराज्येन सुग्रीवेण महाप्रभुः। चक्रेऽग्नि.साक्षिकं सख्यं राघव.स्सहलक्ष्मणः।। • तेन वालिन.मुत्पाट्य शरेणैकेन सँयुगे। वानराणां महाराजः कृत.स्स प्लवतां प्रभुः।। • तस्य साहाय्य.मस्माभिः कार्यं सर्वात्मना त्विह। तेन प्रस्थापित.स्तुभ्यं समीप.मिह धर्मतः।। • क्षिप्र.मानीयतां सीता दीयतां राघवाय च। याव.न्न हरयो वीरा विधमन्ति बलं तव।। • वानराणां प्रभावो हि न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः।। • इति वानरराज.स्त्वा-माहे.त्यभिहितो मया। मा.मैक्षत ततः क्रुद्ध-श्चक्षुषा प्रदह.न्निव।। • तेन वध्योऽह.माज्ञप्तो रक्षसा रौद्रकर्मणा। मत्प्रभाव.मविज्ञाय रावणेन दुरात्मना।। • ततो विभीषणो नाम तस्य भ्राता महामतिः। तेन राक्षस.राजोऽसौ याचितो मम कारणात्।। • नैवं राक्षस.शार्दूल त्यज्यता.मेष निश्चयः। राजशास्त्र.व्यपेतो हि मार्गः संसेव्यते त्वया।। • दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस। दूतेन वेदितव्यं च यथार्थं हितवादिना।। • सुमह.त्यपराधेऽपि दूतस्यातुलविक्रमः। विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः।। • विभीषणेनैव.मुक्तो रावण.स्सन्दिदेश तान्। राक्षसा.नेत.देवास्य लाङ्गूलं दह्यता.मिति।। • तत.स्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः। वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः।। • राक्षसाः सिद्ध.सन्नाहा-स्तत.स्ते चण्डविक्रमाः। तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः। बद्धस्य बहुभिः पाशै-र्यन्त्रितस्य च राक्षसैः।। • तत.स्ते राक्षसा.श्शूरा बद्धं मा.मग्निसँवृतम्। अघोषय.न्राजमार्गे नगरद्वार.मागताः।। • ततोऽहं सुमह.द्रूपं संक्षिप्य पुन.रात्मनः। विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षां.स्यसूदयम्।। • तत.स्तन्नगर.द्वारं वेगेनाप्लुतवा.नहम्। पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्। दहा.म्यह.मसंभ्रान्तो युगान्ताग्निरिव प्रजाः।। • विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायां कश्चि.दुद्देशः सर्वा भस्मीकृता पुरी।। • दहता च मया लङ्कां दग्धा सीता न संशयः। रामस्य हि मह.त्कार्यं मयेदं वितथीकृतम्।। • इति शोक.समाविष्ट-श्चिन्ता.मह.मुपागतः। अथाहं वाच.मश्रौषं चारणानां शुभाक्षराम्। जानकी न च दग्धेति विस्मयोदन्त.भाषिणाम्।। • ततो मे बुद्धि.रुत्पन्ना श्रुत्वा ता.मद्भुतां गिरम्। अदग्धा जानकी.त्येवं निमित्तै.श्चोपलक्षिता।। • दीप्यमाने तु लाङ्गूले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वाता.स्सुरभि.गन्धिनः।। • तै.र्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च सिद्धार्थै-रभवं हृष्टमानसः।। • पुन.र्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः। ततः पर्वत.मासाद्य तत्रारिष्ट.महं पुनः। • प्रतिप्लवन.मारेभे युष्मद्दर्शन.काङ्क्षया।। • ततः पवनचन्द्रार्क-सिद्धगन्धर्व.सेवितम्। पन्थान.मह.माक्रम्य भवतो दृष्टवा.निह।। • राघवस्य प्रभावेण भवतां चैव तेजसा। सुग्रीवस्य च कार्यार्थं मया सर्व.मनुष्ठितम्।। • एत.त्सर्वं मया तत्र यथाव.दुपपादितम्। अत्र यन्न कृतं शेषं तत्सर्वं क्रियता.मिति।। सर्गः 59 अनन्तरकार्य प्ररोचनम् • एत.दाख्याय तत्सर्वं हनुमा.न्मारुतात्मजः। भूय.स्समुपचक्राम वचनं वक्तु.मुत्तरम्।। • सफलो राघवोद्योग-स्सुग्रीवस्य च सम्भ्रमः। शील.मासाद्य सीताया मम च प्रवणं मनः।। • [आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः।] तपसा धारये.ल्लोकान् क्रुद्धो वा निर्दहे.दपि । सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः । • तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्। न तदग्निशिखा कुर्या-त्संस्पृष्टा पाणिना सती। • जनकस्यात्मजा कुर्या-द्यत्क्रोध.कलुषीकृता।। • जाम्बव.त्प्रमुखान् सर्वा-ननुज्ञाप्य महाहरीन्। अस्मि.न्नेवंगते कार्ये भवतां च निवेदिते।। • न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ। अह.मेकोऽपि पर्याप्तः सराक्षस.गणां पुरीम्।। • तां लङ्कां तपसा हन्तुं रावणं च महाबलम्।। • किं पुन.स्सहितो वीरै-र्बलवद्भिः कृतात्मभिः। कृतास्त्रैः प्लवगै.श्शूरै-र्भवद्भि.विजयैषिभिः।। • अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्। सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि।। • ब्राह्म.मैन्द्रं च रौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि सँयुगे। • ता.न्यहं विधमिष्यामि हनिष्यामि च राक्षसान्।। • भवता.मभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टि.र्निरन्तरा। देवा.नपि रणे हन्या-त्किं पुन.स्ता.न्निशाचरान्।। • सागरोऽप्यतिया.द्वेलां- मन्दरः प्रचले.दपि। न जाम्बवन्तं समरे कम्पये.दरिवाहिनी।। • सर्वराक्षस.सङ्घानां राक्षसा ये च पूर्वकाः। अल.मेको विनाशाय वीरो वालिसुतः कपिः।। • पनसस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुन.र्युधि राक्षसाः।। • सदेवासुर.यक्षेषु गन्धर्वोरग.पक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा।। • अश्विपुत्रौ महाभागा-वेतौ प्लवग.सत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे।। • पितामह.वरोत्सेका-त्परमं दर्प.मास्थितौ। अमृतप्राशिना.वेतौ सर्ववानर.सत्तमौ।। • अश्विनो.र्माननार्थं हि सर्वलोक.पितामहः। सर्वावध्यत्व.मतुल-मनयो.र्दत्तवा.न्पुरा।। • वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्। सुराणा.ममृतं वीरौ पीतवन्तौ प्लवङ्गमौ।। • एता.वेव हि सङ्क्रुद्धौ सवाजिरथ.कुञ्जराम्। लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः।। • मयैव निहता लङ्का दग्धा भस्मीकृता पुनः। राजमार्गेषु सर्वत्र नाम विश्रावितं मया।। • जय.त्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः। • अहं कोसलराजस्य दासः पवनसम्भवः। हनुमा.निति सर्वत्र नाम विश्रावितं मया।। • अशोकवनिका.मध्ये रावणस्य दुरात्मनः। अधस्ता.च्छिंशुपा.वृक्षे साध्वी करुण.मास्थिता। • राक्षसीभिः परिवृता शोकसंताप.कर्शिता। मेघलेखा.परिवृता चन्द्रलेखेव निष्प्रभा। अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।। • पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी। अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा। अनन्यचित्ता रामे च पौलोमीव पुरन्दरे।। • तदेकवास.स्संवीता रजोध्वस्ता तथैव च। शोकसन्ताप.दीनाङ्गी सीता भर्तृहिते रता।। • सा मया राक्षसीमध्ये तर्ज्यमाना मुहु.र्मुहुः। राक्षसीभि.र्विरूपाभि-र्दृष्टा हि प्रमदावने। • एकवेणीधरा दीना भर्तृचिन्ता.परायणा। अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद्विनिवृत्तार्था मर्तव्य.कृतनिश्चया।। • कथञ्चि.न्मृगशाबाक्षी विश्वास.मुपपादिता। ततः संभाषिता चैव सर्व.मर्थं च दर्शिता। रामसुग्रीव.सख्यं च श्रुत्वा प्रीति.मुपागता।। • नियतः समुदाचारो भक्ति.र्भर्तरि चोत्तमा। यन्न हन्ति दशग्रीवं स महात्मा कृतागसम्।। • निमित्तमात्रं रामस्तु वधे तस्य भविष्यति। सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता। • प्रतिप.त्पाठशीलस्य विद्येव तनुतां गता।। • एव.मास्ते महाभागा सीता शोकपरायणा। यदत्र प्रतिकर्तव्यं तत्सर्व.मुपपाद्यताम्।। सर्गः 60 अङ्गद जाम्बवत् संवादः • तस्य तद्वचनं श्रुत्वा वालिसूनु.रभाषत। अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः। • समीपं गन्तु.मस्माभी- राघवस्य महात्मनः।। • दृष्टा देवी न चानीता इति तत्र निवेदनम्। अयुक्त.मिव पश्यामि भवद्भिः ख्यातविक्रमैः।। • न हि नः प्लवने कश्चि-न्नापि कश्चि.त्पराक्रमे। तुल्य.स्सामरदैत्येषु लोकेषु हरिसत्तमाः।। • तेष्वेवं हतवीरेषु राक्षसेषु हनूमता। कि.मन्य.दत्र कर्तव्यं गृहीत्वा याम जानकीम्।। • त.मेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः। उवाच परम.प्रीतो वाक्य.मर्थव.दर्थवित्।। • न ताव.देषा मतिरक्षमा नो- यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मति.र्निविष्टा- तथा भवान् पश्यतु कार्यसिद्धिम्।। सर्गः 61 मधुवन प्रवेशः • ततो जाम्बवतो वाक्य-मगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः।। • प्रीतिमन्त.स्ततः सर्वे वायुपुत्र.परस्पराः। महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः। • मेरुमन्दर.सङ्काशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः। • सभाज्यमानं भूतै.स्त-मात्मवन्तं महाबलम्। हनूमन्तं महावेगं वहन्त इव दृष्टिभिः। • राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः सर्वसिद्धिभि.रुन्नताः। • प्रियाख्यानोन्मुखाः सर्वे- सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे- निश्चितार्था मनस्स्विनः।। • प्लवमानाः ख.माप्लुत्य ततस्ते काननौकसः। नन्दनोपम.मासेदु-र्वनं द्रुमलता.युतम्।। • यत्त.न्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूत.मनोहरम्।। • य.द्रक्षति महावीर्य-स्सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः।। • ते तद्वन.मुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनः कान्ततमं महत्।। • तत.स्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्। कुमार.मभ्ययाचन्त मधूनि मधुपिङ्गलाः।। • ततः कुमार.स्तान् वृद्धान् जाम्बव.त्प्रमुखान् कपीन्। अनुमान्य ददौ तेषां विसर्गं मधुभक्षणे।। • तत.श्चानुमता.स्सर्वे सम्प्रहृष्टा वनौकसः। मुदिताः प्रेरिता.श्चापि प्रनृत्यन्तोऽभवं.स्तदा।। • गायन्ति केचि.त्प्रणमन्ति केचि.-न्नृत्यन्ति केचि.त्प्रहसन्ति केचित्। पतन्ति केचि.द्विचरन्ति केचि.-त्प्लवन्ति केचि.त्प्रलपन्ति केचित्।। • परस्परं केचि.दुपाश्रयन्ते- परस्परं केचि.दुपाक्रमन्ते। परस्परं केचि.दुपब्रुवन्ते- परस्परं केचि.दुपारमन्ते।। • द्रुमा.द्द्रुमं केचि.दभिद्रवन्ते- क्षितौ नगाग्रा.न्निपतन्ति केचित्। महीतला.त्केचि.दुदीर्णवेगा- महाद्रुमाग्रा.ण्यभिसम्पतन्ति।। • गायन्त.मन्यः प्रहस.न्नुपैति- हसन्त.मन्यः प्ररुद.न्नुपैति। रुदन्त.मन्यः प्रणुद.न्नुपैति- नुदन्त.मन्यः प्रणद.न्नुपैति।। • समाकुलं तत्कपिसैन्य.मासी-न्मधुप्रपानोत्कट.सत्त्वचेष्टम्। न चात्र कश्चिन्न बभूव मत्तो- न चात्र कश्चिन्न बभूव तृप्तः।। • ततो वनं तत्परिभक्ष्यमाणं- द्रुमांश्च विध्वंसित.पत्रपुष्पान्। समीक्ष्य कोपा.द्धधिवक्रनामा- निवारयामास कपिः कपीं.स्तान्।। • स तैः प्रवृद्धैः परिभर्त्स्यमानो- वनस्य गोप्ता हरिवीरवृद्धः। चकार भूयो मति.मुग्रतेजा- वनस्य रक्षां प्रति वानरेभ्यः।। • उवाच कांश्चि.त्परुषाणि धृष्ट-मसक्त.मन्यांश्च तलै.र्जघान। समेत्य कैश्चि.त्कलहं चकार- तथैव साम्नोपजगाम कांश्चित्।। • स तै.र्मदा.त्संपरिवार्य वाक्यै-र्बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षित.स्त्यक्तभयै.स्समेत्य- प्रकृष्यते चाप्यनवेक्ष्य दोषम्।। • नखै.स्तुदन्तो दशनै.र्दशन्त-स्तलैश्च पादैश्च समापयन्तः। मदा.त्कपिं तं कपय.स्समग्रा- महावनं निर्विषयं च चक्रुः।। सर्गः 62 दधिमुख खिलीकारः • ता.नुवाच हरिश्रेष्ठो हनुमा.न्वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः। अह.मावारयिष्यामि युष्माकं परिपन्थिनः।। • श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः। प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु।। • अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया। अकार्य.मपि कर्तव्यं किमङ्ग पुन.रीदृशम्।। • अङ्गदस्य मुखा.च्छ्रुत्वा वचनं वानरर्षभाः। साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन्।। • पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्। जग्मु.र्मधुवनं यत्र नदीवेगा इव द्रुमम्।। • ते प्रविष्टा मधुवनं पाला.नाक्रम्य वीर्यतः। अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपु.स्सर्वे मधु तदा रसव.त्फल.माददुः।। • उत्पत्य च तत.स्सर्वे वनपालान् समागतान्। ताडयन्ति स्म शतश-स्सक्तान्मधुवने तदा।। • मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति सहिता.स्सर्वे निघ्नन्ति स्म तथापरे।। • केचि.त्पीत्वा प्रविध्यन्ति मधूनि मधुपिङ्गलाः। मधूच्छिष्टेन केचिच्च जग्मु.रन्योन्य.मुत्कटाः।। • अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः। अत्यर्थं च मदग्लानाः पर्णा.न्यास्तीर्य शेरते।। • उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्। क्षिपन्ति च तथान्योन्यं स्खलन्ति च तथाऽपरे।। • केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्। हरयो मधुना मत्ताः केचि.त्सुप्ता महीतले।। • कृत्वा केचि.द्धस.न्त्यन्ये- केचि.त्कुर्वन्ति चेतरत्। कृत्वा केचि.द्वद.न्त्यन्ये- केचि.द्बुध्यन्ति चेतरत्।। • येऽप्यत्र मधुपाला.स्स्युः- प्रेष्या दधिमुखस्य तु। तेऽपि तै.र्वानरै.र्भीमैः प्रतिषिद्धा दिशो गताः।। • जानुभि.स्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः। अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः।। • हनूमता दत्तवरै-र्हतं मधुवनं बलात्। वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः।। • ततो दधिमुखः क्रुद्धो वनप.स्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्।। • इहागच्छत गच्छामो वानरान् बलदर्पितान्। बलेन वारयिष्यामो मधु भक्षयतो वयम्।। • श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुन.र्वीरा मधुवनं तेनैव सहसा ययुः।। • मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्। समभ्यधाव.द्वेगेन ते च सर्वे प्लवङ्गमाः।। • ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः। गृहीत्वाभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः।। • ते स्वामिवचनं वीरा हृदये.ष्ववसज्य तत्। त्वरया ह्यभ्यधावन्त सालताल.शिलायुधाः।। • वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्। अभ्यक्रामं.स्ततो वीराः पाला.स्तत्र सहस्रशः।। • अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुम.त्प्रमुखा.स्तदा।। • तं सवृक्षं महाबाहु-मापतन्तं महाबलम्। आर्यकं प्राहर.त्तत्र बाहुभ्यां कुपितोऽङ्गदः।। • मदान्धश्च न वेदैन-मार्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगव.द्वसुधातले।। • स भग्नबाहूरुभुजो विह्वल.श्शोणितोक्षितः। मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः।। • स समाश्वस्य सहसा सङ्क्रुद्धो राजमातुलः। वानरा.न्वारयामास दण्डेन मधुमोहितान्।। • स कथञ्चि.द्विमुक्त.स्स्तै-र्वानरै.र्वानरर्षभः। उवाचैकान्त.माश्रित्य भृत्यान् स्वान् समुपागतान्।। • एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति।। • सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्।। • इष्टं मधुवनं ह्येत-त्पार्थिवस्य महात्मनः। पितृपैतामहं दिव्यं देवै.रपि दुरासदम्।। • स वानरा.निमान् सर्वान्- मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीव.स्ससुहृ.ज्जनान्।। • वध्या ह्येते दुरात्मानो नृपाज्ञा.परिभाविनः। अमर्षप्रभवो रोष-स्सफलो नो भविष्यति।। • एव.मुक्त्वा दधिमुखो वनपाला.न्महाबलः। जगाम सहसोत्पत्य वनपालै.स्समन्वितः।। • निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशु.सुतो धीमान् सुग्रीवो यत्र वानरः।। • रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीव.मेव च। समप्रतिष्ठां जगती-माकाशा.न्निपपात ह।। • सन्निपत्य महावीर्य-स्सर्वै.स्तैः परिवारितः। हरि.र्दधिमुखः पालैः पालानां परमेश्वरः। • स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्।। सर्गः 63 सुग्रीवहर्षः • ततो मूर्ध्ना निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्य.मेत.दुवाच ह।। • उत्तिष्ठोत्तिष्ठ कस्मा.त्त्वं पादयोः पतितो मम। अभयं ते भवे.द्वीर सर्व.मेवाभिधीयताम्।। • स तु विश्वासित.स्तेन सुग्रीवेण महात्मना। उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्।। • नैवर्क्षरजसा राज-न्न त्वया नापि वालिना। वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः।। • एभिः प्रधर्षिता.श्चैव वानरा वनरक्षिभिः। मधू.न्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च।। • शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुवो वै दर्शयन्ति हि।। • इमे हि संरब्धतरा-स्तथा तै.स्सम्प्रधर्षिताः। वारयन्तो वना.त्तस्मा-त्क्रुद्धै.र्वानरपुङ्गवैः।। • तत.स्तै.र्बहुभि.र्वीरै-र्वानरै.र्वानरर्षभ। संरक्तनयनैः क्रोधा-द्धरयः प्रविचालिताः।। • पाणिभि.र्निहताः केचि-त्केचि.ज्जानुभि.राहताः। प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः।। • एव.मेते हता.श्शूरा-स्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते।। • एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्। अपृच्छ.त्तं महाप्राज्ञो लक्ष्मणः परवीरहा।। • किमयं वानरो राजन् वनपः प्रत्युपस्थितः। कं चार्थ.मभिनिर्दिश्य दुःखितो वाक्य.मब्रवीत्।। • एवमुक्त.स्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः।। • आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः। अङ्गद.प्रमुखै.र्वीरै-र्भक्षितं मधु वानरैः। विचित्य दक्षिणा.माशा-मागतै.र्हरिपुङ्गवैः।। • नैषा.मकृत.कृत्याना-मीदृश.स्स्या.दुपक्रमः। आगतैश्च प्रमथितं यथा मधुवनं हि तैः। धर्षितं च वनं कृत्स्न-मुपयुक्तं च वानरैः।। • वनं यदाऽभिपन्ना.स्ते साधितं कर्म वानरैः। दृष्टा देवी न सन्देहो न चान्येन हनूमता।। • न ह्यन्य.स्साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धि.र्मति.श्चैव तस्मि.न्वानरपुङ्गवे। व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्।। • जाम्बवा.न्यत्र नेता स्या.दङ्गदश्च महाबलः। हनुमांश्चाप्यधिष्ठाता न तस्य गति.रन्यथा।। • अङ्गदप्रमुखै.र्वीरै-र्हतं मधुवनं किल। वारयन्तश्च सहिता.स्तथा जानुभि.राहताः।। • एतदर्थ.मयं प्राप्तो वक्तुं मधुरवा.गिह। नाम्ना दधिमुखो नाम हरिः प्रख्यात.विक्रमः।। • दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः। अभिगम्य तथा सर्वे पिबन्ति मधु वानराः।। • न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ। वनं दत्तवरं दिव्यं धर्षयेयु.र्वनौकसः।। • ततः प्रहृष्टो धर्मात्मा लक्ष्मण.स्सहराघवः। श्रुत्वा कर्णसुखां वाणीं सुग्रीववदना.च्च्युताम्। • प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः।। • श्रुत्वा दधिमुखस्येदं सुग्रीव.स्सम्प्रहृष्य च। वनपालं पुन.र्वाक्यं सुग्रीवः प्रत्यभाषत।। • प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः। मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्।। • इच्छामि शीघ्रं हनुम.त्प्रधानान्- शाखामृगां.स्तान् मृगराजदर्पान्। द्रष्टुं कृतार्थान् सह राघवाभ्यां- श्रोतुं च सीताधिगमे प्रयत्नम्।। • प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ- दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा- बाह्वो.रासन्नां सोऽतिमात्रं ननन्द।। सर्गः 64 आगमनम् • सुग्रीवेणैव.मुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्।। • स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरै-र्दिव.मेवोत्पपात ह।। • स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः। निपत्य गगना.द्भूमौ तद्वनं प्रविवेश ह। • स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदा.नुत्थिता.न्सर्वान् मेहमाना.न्मधूदकम्।। • स ता.नुपागम.द्वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्ण-मिदं हृष्टव.दङ्गदम्।। • सौम्य रोषो न कर्तव्यो यदेत.त्परिवारितम्। अज्ञाना.द्रक्षिभिः क्रोधा-द्भवन्तः प्रतिषेधिताः।। • युवराज.स्त्व.मीशश्च वनस्यास्य महाबल। मौर्ख्या.त्पूर्वं कृतो दोष-स्तं भवान् क्षन्तु.मर्हति।। • आख्यातं हि मया गत्वा पितृव्यस्य तवानघ। इहोपयातं सर्वेषा-मेतेषां वनचारिणाम्।। • स त्वदागमनं श्रुत्वा सहैभि.र्हरियूथपैः। प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्।। • प्रहृष्टो मां पितृव्य.स्ते सुग्रीवो वानरेश्वरः। शीघ्रं प्रेषय सर्वां.स्ता-निति होवाच पार्थिवः।। • श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्ण.मङ्गदः। अब्रवी.त्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः।। • शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः। तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः।। • पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः।। • सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवा.नहम्।। • नाज्ञापयितु.मीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया।। • ब्रुवत.श्चाङ्गदस्यैवं श्रुत्वा वचन.मव्ययम्। प्रहृष्टमनसो वाक्य-मिद.मूचु.र्वनौकसः।। • एवं वक्ष्यति को राजन् प्रभु.स्स.न्वानरर्षभ। ऐश्वर्यमद.मत्तो हि सर्वोऽह.मिति मन्यते।। • तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नति.र्हि तवाख्याति भविष्य.च्छुभयोग्यताम्।। • सर्वे वय.मपि प्राप्ता-स्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पति.रव्ययः ।। • त्वया ह्यनुक्तै.र्हरिभि-र्नैव शक्यं पदा.त्पदम्। क्वचि.द्गन्तुं हरिश्रेष्ठ ब्रूमः सत्य.मिदं तु ते।। • एवं तु वदतां तेषा-मङ्गदः प्रत्युवाच ह। बाढं गच्छाम इत्युक्त्वा ख.मुत्पेतु.र्महाबलाः।। • उत्पतन्त.मनूत्पेतु-स्सर्वे ते हरियूथपाः। कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः।। • तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः। विनदन्तो महानादं घना वातेरिता यथा।। • अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः। उवाच शोकोपहतं रामं कमल.लोचनम्।। • समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः। नागन्तु.मिह शक्यं तै-रतीते समये हि नः।। • न मत्सकाश.मागच्छेत्-कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः।। • यद्यप्यकृत.कृत्याना-मीदृश.स्स्या.दुपक्रमः। भवे.त्स दीनवदनो भ्रान्तविप्लुत.मानसः।। • पितृपैतामहं चैत-त्पूर्वकै.रभिरक्षितम्। न मे मधुवनं हन्या.-दहृष्टः प्लवगेश्वरः। • कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत।। • दृष्टा देवी न सन्देहो न चान्येन हनूमता। न ह्यन्यः कर्मणो हेतु.-स्साधनेऽस्य हनूमतः।। • हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम। व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्।। • जाम्बवा.न्यत्र नेता स्या-दङ्गदश्च बलेश्वरः। हनुमां.श्चाप्यधिष्ठाता न तस्य गति.रन्यथा।। • मा भू.श्चिन्ता.समायुक्त-स्सम्प्र.त्यमितविक्रमः। ततः किलकिला.शब्दं शुश्रावासन्न.मम्बरे। • हनुमत्कर्म.दृप्तानां नर्दतां काननौकसाम्। किष्किन्धा.मुपयातानां सिद्धिं कथयतामिव।। • तत.श्श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताञ्चित.लाङ्गूल-स्सोऽभव.द्धृष्टमानसः।। • आजग्मु.स्तेऽपि हरयो रामदर्शन.काङ्क्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्।। • तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतु.र्हरिराजस्य समीपे राघवस्य च।। • हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियता.मक्षतां देवीं राघवाय न्यवेदयत्।। • [दृष्टा देवीति हनुम-द्वदना.दमृतोपमम्। आकर्ण्य वचनं रामो- हर्ष.माप सलक्ष्मणः।।] • निश्चितार्थं तत.स्तस्मिन् सुग्रीवं पवनात्मजे। लक्ष्मणः प्रीतिमान् प्रीतं बहुमाना.दवैक्षत।। • प्रीत्या च रममाणोऽथ राघवः परवीरहा। बहुमानेन महता हनुमन्त.मवैक्षत। सर्गः 65 चूडामणि प्रदानम् • ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्। • युवराजं पुरस्कृत्य सुग्रीव.मभिवाद्य च। प्रवृत्ति.मथ सीतायाः प्रवक्तु.मुपचक्रमुः।। • रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यश्चायं समयः कृतः। एत.दाख्यान्ति ते सर्वे हरयो रामसन्निधौ।। • वैदेही.मक्षतां श्रुत्वा राम.स्तूत्तर.मब्रवीत्। क्व सीता वर्तते देवी कथं च मयि वर्तते। • एत.न्मे सर्व.माख्यात वैदेहीं प्रति वानराः।। • रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्त.कोविदम्।। • श्रुत्वा तु वचनं तेषां हनुमा.न्मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति। उवाच वाक्यं वाक्यज्ञ.-स्सीताया दर्शनं यथा।। • समुद्रं लङ्घयित्वाहं शतयोजन.मायतम्। अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया।। • तत्र लङ्केति नगरी रावणस्य दुरात्मनः। दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे।। • तत्र दृष्टा मया सीता रावणान्तःपुरे सती। सन्न्यस्य त्वयि जीवन्ती- रामा राम मनोरथम्।। • दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः। राक्षसीभि.र्विरूपाभी- रक्षिता प्रमदावने।। • दुःख.मासाद्यते देवी तथाऽदुःखोचिता सती। रावणान्तःपुरे रुद्धा राक्षसीभि.स्सुरक्षिता। • एकवेणीधरा दीना त्वयि चिन्तापरायणा। • अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणा.द्विनिवृत्तार्था मर्तव्य.कृतनिश्चया। • देवी कथञ्चि.त्काकुत्स्थ त्वन्मना मार्गिता मया।। • इक्ष्वाकुवंश.विख्यातिं शनैः कीर्तयतानघ। सा मया नरशार्दूल विश्वास.मुपपादिता।। • तत.स्सम्भाषिता देवी सर्व.मर्थं च दर्शिता। रामसुग्रीव.सख्यं च श्रुत्वा प्रीति.मुपागता। नियत.स्समुदाचारो भक्ति.श्चास्या.स्तथा त्वयि।। • एवं मया महाभागा दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ।। • अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव।। • विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया। अखिलेनेह यद्धृष्ट-मिति मा.माह जानकी।। • अयं चास्मै प्रदातव्यो यत्ना.त्सुपरिरक्षितः। ब्रुवता वचना.न्येवं सुग्रीवस्योप.शृण्वतः।। • एष चूडामणि.श्श्रीमान् मया सुपरिरक्षितः। मनश्शिलाया.स्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तु.मर्हसि।। • एष निर्यातित.श्श्रीमा-न्मया ते वारि सम्भवः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वा.मिवानघ।। • जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासा.न्न जीवेयं रक्षसां वश.मागता।। • इति मा.मब्रवी.त्सीता कृशाङ्गी धर्मचारिणी। रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ल.लोचना।। • एत.देव मयाख्यातं सर्वं राघव यद्यथा। सर्वथा सागरजले संतारः प्रविधीयताम्।। • तौ जाताश्वासौ राजपुत्रौ विदित्वा- तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्व.मेवानुपूर्व्याद्-वाचा सम्पूर्णं वायुपुत्त्र.श्शशंस।। सर्गः 66 सीताभाषित प्रश्नः • एव.मुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः।। • तं तु दृष्ट्वा मणिश्रेष्ठं राघव.श्शोककर्शितः। नेत्राभ्या.मश्रुपूर्णाभ्यां सुग्रीव.मिद.मब्रवीत्।। • यथैव धेनु.स्स्रवति स्नेहा.द्वत्सस्य वत्सला। तथा ममापि हृदयं मणिरत्नस्य दर्शनात्।। • मणिरत्न.मिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथा बद्ध-मधिकं मूर्ध्नि शोभते।। • अयं हि जलसम्भूतो मणि.स्सज्जनपूजितः। यज्ञे परम.तुष्टेन दत्त.श्शक्रेण धीमता।। • इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्। अद्यास्म्यवगत.स्सौम्य वैदेहस्य तथा विभोः।। • अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अस्याद्य दर्शनेनाहं प्राप्तां ता.मिव चिन्तये।। • कि.माह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। पिपासु.मिव तोयेन सिञ्चन्ती वाक्यवारिणा।। • इत.स्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेही.मागतं विना।। • चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं सौम्य न जीवेयं विना ता.मसितेक्षणाम्।। • नय मा.मपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षण.मपि प्रवृत्ति.मुपलभ्य च।। • कथं सा मम सुश्रोणी भीरुभीरु.स्सती सदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्।। • शारद.स्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतं वदनं तस्या न विराजति राक्षसैः।। • कि.माह सीता हनुमं-स्तत्त्वतः कथयाद्य मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा।। • मधुरा मधुरालापा कि.माह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे।। सर्गः 67 सीताभाषितानुवचनम् • एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे।। • इद.मुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्त.मभिज्ञानं चित्रकूटे यथातथम्।। • सुखसुप्ता त्वया सार्धं जानकी पूर्व.मुत्थिता। वायस.स्सहसोत्पत्य विददार स्तनान्तरे।। • पर्यायेण च सुप्त.स्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथाम्।। • पुनः पुन.रुपागम्य विरराद भृशं किल। तत.स्त्वं बोधित.स्तस्याः शोणितेन समुक्षितः।। • वायसेन च तेनैव सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परन्तप।। • तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धो निश्वस.न्नभ्यभाषथाः।। • नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना।। • निरीक्षमाण.स्सहसा वायसं समवैक्षथाः। नखै. स्सरुधिरै.स्तीक्ष्णै-स्ता.मेवाभिमुखं स्थितम्।। • सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरचर.श्शीघ्रं पवनस्य गतौ समः।। • तत.स्तस्मि.न्महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर।। • स दर्भं संस्तरा.द्गृह्य ब्रह्मास्त्रेण ह्ययोजयः। स दीप्त इव कालाग्नि-र्जज्वालाभिमुखः खगम्।। • क्षिप्तवां.स्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति। तत.स्तु वायसं दीप्त-स्स दर्भोऽनुजगाम ह।। • स पित्रा च परित्यक्त-स्सुरैश्च समहर्षिभिः। त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति।। • पुनरेवागत.स्त्रस्त-स्त्व.त्सकाश.मरिन्दम। स तं निपतितं भूमौ शरण्य.श्शरणागतम्। • वधार्ह.मपि काकुत्स्थ कृपया पर्यपालयः।। • मोघ.मस्त्रं न शक्यं तु कर्तु.मित्येव राघव। भवां.स्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।। • राम त्वां स नमस्कृत्य राज्ञे दशरथाय च। विसृष्टस्तु तदा काक प्रतिपेदे स्व.मालयम्।। • एव.मस्त्रविदां श्रेष्ठ-स्सत्त्ववान् शीलवा.नपि। किमर्थ.मस्त्रं रक्षस्सु न योजयति राघवः।। • न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः। न च सर्वे रणे शक्ता रामं प्रतिसमासितुम्।। • तस्य वीर्यवतः कश्चि-द्यद्यस्ति मयि सम्भ्रमः। क्षिप्रं सुनिशितै.र्बाणै-र्हन्यतां युधि रावणः।। • भ्रातु.रादेश.माज्ञाय लक्ष्मणो वा परन्तपः। स किमर्थं नरवरो न मां रक्षति राघवः।। • शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्नि.समतेजसौ। सुराणा.मपि दुर्धर्षौ किमर्थं मा.मुपेक्षतः।। • ममैव दुष्कृतं किञ्चि-न्मह.दस्ति न संशयः। समर्थौ सहितौ यन्मां नावेक्षेते परन्तपौ।। • वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। पुन.रप्यह.मार्यां ता-मिदं वचन.मब्रवम्।। • त्वच्छोक.विमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।। • कथञ्चि.द्भवती दृष्टा न कालः परिशोचितुम्। अस्मि.न्मुहूर्ते दुःखाना-मन्तं द्रक्ष्यसि भामिनि।। • ता.वुभौ नरशार्दूलौ राजपुत्रा.वनिन्दितौ। त्वद्दर्शन.कृतोत्साहौ लङ्कां भस्मीकरिष्यतः।। • हत्वा च समरे रौद्रं रावणं सह बान्धवम्। राघव.स्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम्।। • यत्तु रामो विजानीया-दभिज्ञान.मनिन्दिते। प्रीतिसञ्जननं तस्य प्रदातुं त्व.मिहार्हसि।। • साभिवीक्ष्य दिश.स्सर्वा वेण्युद्ग्रथित.मुत्तमम्। मुक्त्वा वस्त्रा.द्ददौ मह्यं मणि.मेतं महाबल।। • प्रतिगृह्य मणिं दिव्यं तव हेतो. रघूद्वह। शिरसा तां प्रणम्यार्या-मह.मागमने त्वरे।। • गमने च कृतोत्साह-मवेक्ष्य वरवर्णिनी। विवर्धमानं च हि मा-मुवाच जनकात्मजा।। • अश्रुपूर्णमुखी दीना बाष्पसन्दिग्ध.भाषिणी। ममोत्पतन.सम्भ्रान्ता शोकवेग.समाहता।। • हनुमन् सिंहसंकाशा-वुभौ तौ रामलक्ष्मणौ। सुग्रीवञ्च सहामात्यं सर्वान् ब्रूया ह्यनामयम्।। • यथा च स महाबाहु-र्मां तारयति राघवः। अस्मा.द्दुःखाम्बुसंरोधा-त्त्वं समाधातु.मर्हसि।। • इमं च तीव्रं मम शोकवेगं- रक्षोभि.रेभिः परिभर्त्सनं च। ब्रूया.स्तु रामस्य गत.स्समीपम्- शिवश्च तेऽध्वास्तु हरिप्रवीर।। • एत.त्तवार्या नृपराजसिंह- सीता वचः प्राह विषादपूर्वम्। एतच्च बुद्ध्वा गदितं मया त्वं- श्रद्धत्स्व सीतां कुशलां समग्राम्।। सर्गः 68 समाश्वासान वचनानुवादः • अथाह.मुत्तरं देव्या पुनरुक्त.स्ससम्भ्रमम्। तव स्नेहा.न्नरव्याघ्र सौहार्दा.दनुमान्य वै।। • एवं बहुविधं वाच्यो रामो दाशरथि.स्त्वया। यथा मा.माप्नुया.च्छीघ्रं हत्वा रावण.माहवे।। • यदि वा मन्यसे वीर वसैकाह.मरिन्दम। कस्मिं.श्चित्संवृते देशे विक्रान्त.श्श्वो गमिष्यसि।। • मम चाप्यल्पभाग्याया-स्सान्निध्या.त्तव वीर्यवन्। अस्य शोकविपाकस्य मुहूर्तं स्या.द्विमोक्षणम्।। • गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणाना.मपि सन्देहो मम स्या.न्नात्र संशयः।। • तवादर्शनज.श्शोको भूयो मां परितापयेत्। दुःखा.द्दुःखपराभूतां दुर्गतां दुःखभागिनीम्।। • अयं च वीर सन्देह-स्तिष्ठतीव ममाग्रतः। सुमहां.स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर।। • कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्ष.सैन्यानि तौ वा नरवरात्मजौ।। • त्रयाणा.मेव भूतानां सागरस्यास्य लङ्घने। शक्ति.स्स्या.द्वैनतेयस्य तव वा मारुतस्य वा।। • तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं ब्रूहि कार्यविदां वर।। • काम.मस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्य.स्ते बलोदयः।। • बलै.स्समग्रै.र्यदि मां हत्वा रावण.माहवे। विजयी स्वां पुरीं रामो नये.त्तत् स्या.द्यशस्करम्।। • यथाऽहं तस्य वीरस्य वना.दुपधिना हृता। रक्षसा तद्भया.देव तथा नार्हति राघवः।। • बलै.स्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः। मां नये.द्यदि काकुत्स्थ-स्तत् तस्य सदृशं भवेत्।। • तद्यथा तस्य विक्रान्त-मनुरूपं महात्मनः। भवे.दाहव.शूरस्य तथा त्व.मुपपादय।। • तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं तत.श्शेषं वाक्य.मुत्तर.मब्रवम्।। • देवि हर्यृक्षसैन्याना-मीश्वरः प्लवतां वरः। सुग्रीव.स्सत्त्वसम्पन्न-स्तवार्थे कृतनिश्चयः।। • तस्य विक्रमसम्पन्ना-स्सत्त्ववन्तो महाबलाः। मन.स्सङ्कल्प.सम्पाता निदेशे हरयः स्थिताः।। • येषां नोपरि नाधस्ता-न्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति मह.त्स्वमिततेजसः ।। • असकृ.त्तै.र्महाभागै-र्वानरै.र्बलदर्पितैः। प्रदक्षिणीकृता भूमि-र्वायुमार्गानुसारिभिः।। • मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चि-न्नास्ति सुग्रीव.सन्निधौ।। • अहं ताव.दिह प्राप्तः किं पुनस्ते महाबलाः। न हि प्रकृष्टाः प्रेष्यन्ते- प्रेष्यन्ते हीतरे जनाः।। • तदलं परितापेन देवि मन्यु.र्व्यपैतु ते। एकोत्पातेन ते लङ्का-मेष्यन्ति हरियूथपाः।। • मम पृष्ठगतौ तौ च चन्द्रसूर्या.विवोदितौ। त्वत्सकाशं महाभागे नृसिंहा.वागमिष्यतः।। • अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वार.मुपस्थितम्।। • नखदंष्ट्रायुधान् वीरान् सिंहशार्दूल.विक्रमान्। वानरा.न्वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान्। • शैलाम्बुद.निकाशानां लङ्का.मलय.सानुषु। नर्दतां कपिमुख्याना-मचिरा.च्छ्रोष्यसि स्वनम्।। • निवृत्त.वनवासं च त्वया सार्ध.मरिन्दमम्। अभिषिक्त.मयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्।। • ततो मया वाग्भि.रदीनभाषिणा- शिवाभि.रिष्टाभि.रभिप्रसादिता। जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता।। ==00==