117

                        
                        
याजुष हिरण्यश्राद्ध प्रयोग विषयसूचिका Hiranya Shraaddha 1. श्राद्धप्रयोगः 2. श्राद्ध सङ्कल्पः 3. श्राद्ध स्थले प्रधान कर्मारम्भः 4. वैश्वदेवार्चनम् 5. पितृस्थानेअर्चनम् 6. विष्णुस्थाने अर्चनम् 7. भोजनविधिः 8. धारदत्तम् 9. पितृ-पितामह-प्रपितामह-पिण्ड प्रदानम् 10. पिण्डपूजा 11. पिण्डनमस्कारः 12. आशीर्वचनम् 13. श्राद्धाङ्ग तिलतर्पणम् 1. याजुष हिरण्य श्राद्ध प्रयोगः श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः।श्री गुरुभ्यो नमः। • स्नात्वा, धौतवासा विधिव.दाचम्य, दीपाराधनं कृत्वा, • पवित्रवन्त इति द्वाभ्यां पवित्रं धृत्वा।।  पवित्रवन्त परि वाज.मासते। पितैषां प्रत्नो अभिरक्षति व्रतम्। मह.स्समुद्रँ वरुण.स्तिरोदधे। धीरा इच्छेकु.र्द्धरुणे.ष्वारभम्।  पवित्र.न्ते विततं ब्रह्मणस्पते। प्रभु.र्गात्राणि पर्येषि विश्वतः। अतप्ततनू.र्न तदामो अश्नुते। शृतास इद्वहन्त. स्तथ्समाशत।।  त्रिराचामेत्। द्वि परिमृज्य, सकृ.दुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति, शिर.श्चक्षुषी नासिके श्रोत्रे।। • प्राणानायम्य . . .  ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्। ओं तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। श्री गोविन्द गोविन्द गोविन्द, श्री महाविष्णो.राज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः ..., अयने, .... ऋतौ,... मासे, ... पक्षे, ... तिथौ, ... वासरे, श्री विष्णु नक्षत्रे श्री विष्णुयोगे श्री विष्णुकरणे, एवंगुण.विशेषण विशिष्टायां .. अस्यां पुण्यतिथौ। >>(प्राचीनावीती) अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक.मृताहाख्य श्राद्धं (द्वितीयमासा/नुमासिकाख्य/ महालयश्राद्धम्) हिरण्यविधिना/ पिष्टेन हविषा,युष्मदनुज्ञया-सदैवम्-अद्य >> (सव्यम्) -• करिष्ये।। (भोक्तृ प्रतिवचनम्) कुरुष्व ।। • काले अधिकारसिद्ध्यर्थं यथाशक्ति सम्भवत्, परिषत् प्रायश्चित्तं करिष्ये।। (भोक्तृ प्रतिवचनम्) कुरुष्व।। (तिल.दर्भ.हिरण्याक्षतान् गृहीत्वा, प्रदक्षिणत्रयं कृत्वा।) • समस्त.सम्पत्समवाप्ति.हेतव.-स्समुत्थितापत्कुल. धूमकेतवः। अपार संसार समुद्रसेतवः- पुनन्तु मां ब्राह्मण पादपांसवः।। • आपद्घन.ध्वान्त. सहस्रभानव.-स्समीहितार्थार्पण.कामधेनवः। समस्ततीर्थाम्बु.पवित्रमूर्तयो- रक्षन्तु मां ब्राह्मण पादपांसवः।। • आधिव्याधिहरं नॄणां- मृत्यु.दारिद्र्यनाशनम्। श्रीपुष्टि.कीर्तिदं वन्दे- विप्रश्री.पादपङ्कजम्।। • विप्रौघ दर्शनात्सद्यः- क्षीयन्ते पापराशयः। वन्दना.न्मङ्गलावाप्ति-रर्चना.दच्युतं पदम्।। • नमो ब्रह्मण्य.देवाय- गोब्राह्मण.हिताय च। जगद्धिताय कृष्णाय- गोविन्दाय नमोनमः।। • त्रिः प्रदक्षिणीकृत्य। तत्पुरतो हिरण्यं निधाय , ब्राह्मणान् नमस्कृत्य  यावती.र्वै देवता.स्ता.स्सर्वा वेदविदि ब्राह्मणे वसन्ति तस्मा.द्ब्राह्मणेभ्यो वेदविद्भ्यो दिवेदिवे नमस्कुर्या.न्नाश्लील.ङ्कीर्तये.देता एव देवता प्रीणाति।। >>>>(प्राचीनावीती) • अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्नश्राद्ध प्रतिनिधि हिरण्यश्राद्धं/ पिष्टपिण्डश्राद्धं कर्तुं, मुख्यकालो भूत्वा, मम अधिकार सम्पदस्त्विति भवन्तो ब्रुवन्तु।। (प्रति वचनम्) कर्तुमधिकार.सम्पदस्तु। • कालश्च (- कर्ता)। मुख्यकालोस्तु।(- इति भोक्तारौ वदेताम्)।। • पाकादीनां (- कर्ता)। पवित्रतास्तु (-प्रतिवचनम्)।। • सर्वे पाकाः (- कर्ता)। शुचयो भवन्तु (-प्रतिवचनम्)।। • देवताभ्यः पितृभ्यश्च- महायोगिभ्य एव च। नम.स्स्वधायै.स्स्वाहायै- नित्यमेव नमो नमः।। • ईशानः पितृरूपेण- महादेवो महेश्वरः। प्रीयतां भगवा.नीशः- परमात्मा सदाशिवः।।  ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्।  ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।  ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। (त्रिः) • तिथि.र्विष्णु.स्तथा वारो- नक्षत्रं विष्णु.रेव च। योगश्च करणं चैव सर्वं विष्णुमयं जगत्।। 2) श्राद्ध सङ्कल्पः • श्री गोविन्द गोविन्द गोविन्द ॐॐॐ अद्य पूर्वोक्त-एवंगुणविशेषण.विशिष्टायां .. अस्यां पुण्यतिथौ। >>>>(प्राचीनावीती) • अस्मत् पितुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्यश्राद्धे/ पिष्टपिण्डश्राद्धे, पितृ- पितामह प्रपितामहानां, .... गोत्राणां .... शर्मणां, वसुरुद्रादित्यरूपाणां, {अस्मत् मातुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्यश्राद्धे/ पिष्टपिण्डश्राद्धे, मातृ - पितामही - प्रपितामहीनां, . . . गोत्राणां . . . दानां, वसुरुद्रादित्य रूपाणाम्} >>(सव्यम्) पुरूरवार्द्रव.संज्ञिकानां विश्वेषां देवाना.ञ्च, >>>>(प्राचीनावीती) अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्य.श्राद्धं हिरण्येन/ पिष्टपिण्डहविषा, पार्वण विधानेन युष्मदनुज्ञया >> (सव्यम्)सदैवम् - अद्य करिष्ये।। • कुरुष्व (भोक्तृ प्रतिवचनम्)। >>>>(प्राचीनावीती) अस्मत् पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न. श्राद्ध प्रतिनिधि हिरण्यश्राद्धं/ पिष्टपिण्डश्राद्धं, भविष्यत्यत्र। अत्र भविष्यति (भोक्तृ प्रतिवचनम्)।। ------- ब्राह्मणाभावे वैश्वदेव- पितृ- विष्णुस्थानेषु कूर्चत्रयं संस्थाप्य, तत्र आवाहयेत्।। >> (सव्यम्) • वैश्वदेवस्थाने हस्तोदकं (गृहीत्वा) दत्त्वा। • पुरूरवार्द्रवसंज्ञिकानां विश्वेषां देवानां स्थाने- आहवनीयार्थे क्षणं धृत्वा, भवद्भिः क्षणः प्रसादः करणीयः (-कर्ता)। अस्तु करणीयः (-भोक्ता)। >>>>(प्राचीनावीती)अथ पितृ (मातृ) स्थाने - हस्तोदकं दत्त्वा।, • अस्मत् पितुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, पितृ - पितामह- प्रपितामहानाम्, .... गोत्राणाम्, .-.-. शर्मणां, वसुरुद्रादित्यरूपाणाम्, {अस्मत् मातुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्यश्राद्धे/ पिष्टपिण्डश्राद्धे, मातृ - पितामही - प्रपितामहीनां, . . . गोत्राणां . . . दानां, वसुरुद्रादित्य रूपाणाम्} • स्थाने आहवनीयार्थे क्षणं धृत्वा, भवद्भिः - क्षणः प्रसादः करणीयः। (-कर्ता)। अस्तु करणीयः (-भोक्ता)। • अक्रोधनै.श्शौचपरै.-स्सततं ब्रह्मवादिभिः। भवितव्यं भवद्भिश्च- मया च श्राद्धकर्मणि।। >>(सव्यम्)।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरण.पूर्वकम्। यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। (विष्णु.र्विष्णु र्विष्णुः)  3)श्राद्धस्थले प्रधान कर्मारम्भः • विश्वे देवाः प्राङ्मुखाः, पितर उदङ्मुखाः, विष्णुः प्राङ्मुखः, ईशान्यमुखः कर्ता चोपविशेयुः।(केचन शिष्टाचाराः, विष्णुस्थानीयमपि ब्राह्मणं प्राङ्मुखं निमन्त्रयन्ति) • सर्वे आचामन्ति। • 1) पुरूरवार्द्रव संज्ञिका विश्वेदेवाः।  भूर्भुवस्सुवः। स्वाहास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।। >>2) (प्राचीनावीती) - अस्मत्- पितृ- पितामह- प्रपितामहाः {मातृ- पितामही- प्रपितामह्यः}  भूर्भुवस्सुवः। स्वधास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।  सव्येन त्रिराचामेत् ।।। ।। >> (सव्येन) 3) • श्रीविष्णो -  भूर्भुवस्सुवः। स्वाहास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।। ----- • ओम्, ओम्, ओम्, अद्य पूर्वोक्तैवंगुण.विशिष्टाया.मस्यां पुण्यतिथौ  >>(प्राचीनावीती) अस्मत्पितुः (मातुः) प्रातिसाँवत्सरिक मृताहे, {अस्मत् मातुः प्राति साँवत्सरिक मृताहे} • भवदनुज्ञया प्रक्रान्तं, श्राद्धकर्म >> (सव्यम्) - करिष्ये। (प्रतिवचनं-) कुरुष्व।। >>(प्राचीनावीती)-  अपहता असुरा रक्षासि पिशाचा- ये क्षयन्ति पृथिवी.मनु। अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः।  उदीरता.मवर उत्परास उन्मध्यमा पितर.स्सोम्यासः। असुँ य ईयु.रवृका ऋतज्ञा.स्ते नोवन्तु पितरो हवेषु।। (इति भूमिं कूर्चेनावोक्ष्य, तूष्णीं खात्वा, उद्धृत्य, तिलान् विकिरेत्।) • तूष्णीं वर्तुलाकार मण्डल त्रयं कृत्वा, तेषु तिलदर्भा.न्निक्षिप्य।। >> (सव्यम्)- तूष्णीं वैश्वदेवस्थाने यवोदकेनावोक्ष्य। • तत्र चतुरश्र मण्डलद्वयङ्कृत्वा। मण्डलयो.र्यवदर्भान् निक्षिप्य।। • अपवित्रः पवित्रो वा सर्वावस्थां गतोपिवा।यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। (गायत्र्या अन्नादिपाक द्रव्याणि संप्रोक्ष्य)  ओं भूर्भुव.स्सुवः। तथ्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योन प्रचोदयात्। (आत्मानञ्च संप्रोक्ष्य) • श्राद्धार्थं संपादिताः इमे पदार्थाः, देशतः कालतश्चैव, श्राद्धयोग्या भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) श्राद्धयोग्या भवन्तु।। • श्राद्धकाले गयां ध्यात्वा- ध्यात्वा देवं जनार्दनम्। वस्वादींश्च पितॄन् ध्यात्वा- तत.श्श्राद्धं प्रवर्तये।। • (प्रतिवचनम्-) प्रवर्तय।। -----  4) वैश्वदेवार्चनम् • पुरूरवार्द्रव संज्ञिकानां विश्वेषां देवानाम् - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। वैश्वदेव-आवाहनम् -  ओं विश्वे देवास आगत शृणुता म इमं हवम्। एदं बर्‌हि.र्निषीदत।। • पुरूरवार्द्रव संज्ञिकान् विश्वान् देवान् भवत्सु- आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ओं विश्वे देवा.श्शृणुतेम हवं मे- ये अन्तरिक्षे य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा- आसद्यास्मिन्बर्‌हिषि मादयध्वम्। (इति मन्त्रेण नमस्कृत्य) • आगच्छन्तु महाभागा विश्वे देवा महाबलाः। एतात्र विहिता.श्श्राद्धे सावधाना भवन्तु मे।। (प्रतिवचनम्-) सावधाना.स्स्मः।  ओं अर्चत प्रार्चत- प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्तामिहोप ह्वये श्रियम्।। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। यथाभागशः, अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।  ओं आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • पुरूरवार्द्रवसंज्ञिका विश्वेदेवाः- इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)  ओं धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)  ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह जीवनञ्च दिशो दिश।। • पुरूरवार्द्रव संज्ञिका विश्वे देवाः। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।  ओं युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • पुरूरवार्द्रव संज्ञिका विश्वे देवाः। अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्,आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः। • (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः। • अर्चनं संपूर्णम्। • अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।। • युष्मदनुज्ञया पित्राद्यर्चनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।। --------- 5) पितृस्थाने अर्चनम् >>(प्राचीनावीती)(अस्मत्) पितृ- पितामह- प्रपितामहानां ... गोत्राणां ... शर्मणां, {अस्मत् - मातृ- पितामही- प्रपितामहीनां ... गोत्राणां, ... दानां} • वसुरुद्रादित्य रूपाणां, इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्।। (हस्तोदकं दत्त्वा) • (अस्मत्) पितुः (मातुः) प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे- क्षणः क्रियताम्। (प्रतिवचनम्-) ओं तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।। •(अस्मत्) पितृ- पितामह- प्रपितामहान् ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, {मातृ- पितामही- प्रपितामहीः ... गोत्राः, . ... दाः। वसुरुद्रादित्यरूपाः,} भवत्सु - आवाहयिष्ये। (प्रतिवचनम्-) आवाहय। ओं उशन्त.स्त्वा हवामह- उशन्त. स्समिधीमहि। उश.न्नुशत आ वह- पितॄन् हविषे अत्तवे।। ओं आयन्तु न पितर.स्सोम्यासो-ग्निष्वात्ता पथिभि.र्देवयानैः। अस्मिन् यज्ञे स्वधया मद.-न्त्वधि ब्रुवन्तु ते अवन्त्वस्मान्।। (इत्यावाह्य) • सावधाना भवन्तु मे। (प्रतिवचनम्-) सावधानास्स्मः। ओं अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चन्तु पुत्रका उत पुरन्न धृष्ण्वर्चत।। अर्चत प्रार्चत।। (इति तिलान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा-न्नित्यपुष्टाङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्ता.मिहोप ह्वये श्रियम्।। • (अस्मत्) पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • यथाभागशः - अमीवो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।  ओं आयनेते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि।। (पुष्पार्था इमे तिलाः)  ओं धूरसि धूर्व धूर्वन्त. न्धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। • पितृ- पितामह- प्रपितामहाः।{मातृ- पितामही- प्रपितामह्यः} • अयँ वो धूपः। (प्रतिवचनम्-) सुधूपः।। (सांकल्पिको वो धूपः)  ओं उद्दीप्यस्व जातवेदो-पघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह- जीवनञ्च दिशो दिश।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।।  ओं युवा सुवासा परिवीत आगा-थ्स उ श्रेया.न्भवति जायमानः। तन्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • अन्तप्रावरणार्थं- बहिप्रावरणार्थम्- आच्छादनार्थं- पवित्रार्थ- मलंकरणार्थम्- इदं वो वासः। (प्रतिवचनम्-) सुवासः।। • (तदभावे सतिला इमे कुशाः।) (प्रतिवचनम्-) सुकुशाः। अर्चनं संपूर्णम्। अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु।(प्रतिवचनम्-) अस्तु सङ्कल्प सिद्धिः। >>सव्यम्(पक्षे, विष्णुस्थानीयं ब्राह्मणञ्च वस्त्रादिभि स्संपूज्य) 6) विष्ण्वर्चनप्रकरणम्(वैकल्पिकम्) • श्रीविष्णोः - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। हस्तोदकं (गृहीत्वा) दत्त्वा। • विष्णोः स्थाने क्षणः क्रियतां। (प्रतिवचनम्-) ओं तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।  ओं अर्चत प्रार्चत- प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्तामिहोप ह्वये श्रियम्।। • श्रीविष्णो। अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।  ओं आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • श्रीविष्णो - इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)  ओं धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। • श्रीविष्णो। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)  ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह जीवनञ्च दिशो दिश।।• श्री विष्णो। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।  ओं युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • श्रीविष्णो- अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्,आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः। (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः। • अर्चनं संपूर्णम्। • अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।। • (युष्मदनुज्ञया) सर्वत्र मण्डलोद्वर्तनं पात्रासादनादिकञ्च करिष्ये। (प्रतिवचनम्-) कुरुष्व। • 7) भोजन विधिः ब्राह्मणाभावे, भोजनाभावे वा भोजनपात्रे भोजनप्रतिनिधि हिरण्यं/ पिष्टं वा निधाय, >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा। • वायव्यभाग.मादाय। (त्रिवारं पितृभोजनपात्रे पितृतीर्थेन निक्षिप्य)  स्वधेयं स्वधेयं स्वधेयम्।। (प्रतिवचनम्-) अस्तु स्वधा (3) (पुन.रभिघार्य। पुनर्हस्तोदकं दत्त्वा।) • आस्वधेति पात्रस्थ.मन्न.मभिमन्त्र्य  ओम्आस्वधेत्याश्रावयति। अस्तु स्वधेति प्रत्याश्रावयति। स्वधानम इति वषट्करोति। स्वधाकारोहि पितृणाम्।। >> (सव्यम्) वैश्वदेवस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।। >>विष्णुस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।। परिवेषण विधिः • अन्नञ्च पायसं भक्ष्यं घृतञ्च व्यञ्जनादिकम्।सूप.मन्ते प्रदातव्यं सर्वं स्या.द्दैवपूर्वकम्।। (भोजन पात्रेषु हिरण्यं/ पिष्टं वा निधाय, गायत्र्या प्रोक्ष्य।)  ओं भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। • वैश्वदेवस्थाने हस्तोदकं दत्त्वा।  देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।  इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वाहा श्री विष्णो हव्य प्रतिनिधि हिरण्यं/ पिष्ट रक्षस्व। • वैश्वदेव.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। इदँ वो हव्यं सपरिकरम्। • पुरूरवार्द्रव संज्ञिका विश्वेदेवा देवता, इदं हिरण्यं/ पिष्ट हव्यम्।ब्राह्मणस्त्वाहवनीयार्थे। दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • पुरूरवार्द्रव संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - इदमिदं .अन्नप्रतिनिधि हिरण्यं/ पिष्टम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं, • अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम। • गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।) • (प्रतिवचनम्-) गयायां दत्त.मस्तु।।  ओम्। ये देवा दिव्येकादश स्थ पृथिव्या.मध्येकादशस्थाफ्सुषदो महिनैकादशस्थ ते देवा यज्ञ.मिम.ञ्जुषध्वम्।। (इति नमस्कृत्य।) >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा।  देव सवितः प्रसुव।। (अप्रदक्षिणं परिषिच्य।) (भोजनपात्रं स्पृष्ट्वा)  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मि.न्लोके।।  इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वधा श्री विष्णो, कव्य रक्षस्व। पितृहस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • (अस्मत्) पितृ-पितामह-प्रपितामहाः। ... गोत्राः, ...शर्माणः, वसुरुद्रादित्य रूपाः। {मातृ- पितामही- प्रपितामह्यः।... गोत्राः, ..दाः, वसुरुद्रादित्यरूपाः।} • एतद्वः कव्यप्रतिनिधि हिरण्यं/ पिष्टं सपरिकरम्।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} देवता। इदं हिरण्यं/ पिष्टं कव्यम्। ब्राह्मण.स्त्वाहवनीयार्थे। • दत्तं दास्यमानञ्च, आतृप्तेस्ततत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। राजत.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • (अस्मत्) पितृ- पितामह- प्रपितामहेभ्यः ... गोत्रेभ्यः , ... शर्मभ्यः, वसुरुद्रादित्य रूपेभ्यः।। {मातृ- पितामही- प्रपितामहीभ्यः। ...गोत्राभ्यः, .. दाभ्यः, वसुरुद्रादित्यरूपाभ्यः।} • इदमिद.मन्नम्। अमृतस्वरूपम्। • आतृप्ते.र्दास्यमानं यथाभागं कव्यम्। • तत्सत्। स्वधा न मम। स्वधा नमम। >> (सव्यम्) • गयायां श्री विष्णुपादादि समस्त तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयायां दत्तमस्तु।।  ये चेह पितरो ये च नेह याश्च विद्म या उ चन प्रविद्म। अग्ने तान् वेत्थ यदि ते जातवेद.स्स्वधाभि.र्यज्ञ सुकृत.ञ्जुषस्व।। ----- (पक्षे - विष्णुस्थाने हस्तोदकं दत्त्वा, नमस्कृत्य)  ओं भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। • विष्णुस्थाने हस्तोदकं दत्त्वा,  देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।  इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वाहा श्री विष्णो हव्य रक्षस्व। • विष्णु.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • श्रीविष्णो। इदँ वो हव्यं सपरिकरम्। • श्रीविष्णु.र्देवता, इद.मन्नप्रतिनिधि हिरण्यं/ पिष्टं हव्यम्।ब्राह्मणस्त्वाहवनीयार्थे। •दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • श्रीविष्णवे- इदमिद.मन्नम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं, • अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम। • गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।) • (प्रतिवचनम्-) गयायां दत्त.मस्तु।।  ओम्। इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पासुरे।। (इति नमस्कृत्य।) -------- • सप्तव्याधा दशार्णेषु- मृगाः कालाञ्जने गिरौ।चक्रवाका.श्शरद्वीपे- हंसा.स्सरसि मानसे।। • ये स्म जाताः कुरुक्षेत्रे- ब्राह्मणा वेद पारगाः। प्रस्थिता दीर्घ.मध्वानं- यूयं तेभ्योवसीदत।। • अमूर्तानाञ्च मूर्तानां- पितॄणां दीप्ततेजसाम्।नमस्यामि सदा तेषां- ध्यायिनां योगचक्षुषाम्। • चतुर्भिश्च चतुर्भिश्च- द्वाभ्यां पञ्चभि.रेव च।हूयते च पुन.र्द्वाभ्यां- स मे विष्णुः प्रसीदतु।। • ब्रह्मार्पणं ब्रह्महविर्- ब्रह्माग्नौ ब्रह्मणा हुतम्।ब्रह्मैव तेन गन्तव्यं- ब्रह्मकर्म समाधिना।। • यज्ञेश्वरो यज्ञसमस्त.नेता- भोक्ताव्ययात्मा हरि.रीश्वरोत्र।तत्सन्निधाना.दपयान्तु सद्यो- रक्षांस्यशेषा.ण्यसुराश्च सर्वे।। • त्वां योगिन.श्चिन्तयन्ति- त्वाँ यजन्ति च यज्वनः।हव्यकव्यभु.गेक.स्त्वं पितृदेव.स्वरूपधृत्। • कर्ता क्रियाणां सस इज्यते क्रतु.-स्स एव तत्कर्मफलञ्च यच्च।स्रुगादि यत्साधन.मप्यशेषं हरे.र्नकिञ्चि.द्व्यतिरिक्त.मस्ति।। • गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्पतेः।गयाशीर्षे वटे चैव पितॄणां दत्त.मक्षयम्।। • देश- काल- पात्र- मन्त्र- तन्त्र- कर्म- कर्तृ- भोक्तृ- स्थल- हविर् द्रव्यादिषु, सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्तु। >> (निवीती)• ईशान- विष्णु- कमलासन- कार्तिकेय- वह्नित्रयार्क.रजनीश. गणेश्वराणाम्।सभ्यावसथ्य-दधि-कण्व- मतङ्गजानां, क्रौञ्चामरेन्द्र- कलशोद्भव- कश्यपानाम्।पादा. न्नमामि सततं पितृमुक्ति हेतून्।।• गय गय गय।।  8) ब्राह्मणभोजने धारादत्तम् >> (सव्यम्) ओं ओं ओं ... अस्यां पुण्यतिथौ >>(प्राचीनावीती) (अस्मत्) पितुः प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्य/ पिष्टश्राद्धे, • अस्मत् पितृ- पितामह- प्रपितामहान् ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, {मातृ- पितामही- प्रपितामहीः, ... गोत्राः ... दाः, वसुरुद्रादित्य रूपाः} >> (सव्यम्) पुरूरवार्द्रवसंज्ञिकान् विश्वान्देवाश्च, उद्दिश्य मया क्रियमाणेन, अनेन- >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्यश्राद्धेन/ पिष्ट श्राद्धेन, • वसुरुद्रादित्य रूपाणां, (अस्मत्) पितृ- पितामह- प्रपितामहानां ... गोत्राणां, ... शर्मणां, वसुरुद्रादित्य रूपाणां, एतेषाम् {(अस्मत्) मातृ- पितामही- प्रपितामहीनां, ... गोत्राणां ... दानां,वसुरुद्रादित्य रूपाणां, एतासाम्} • गयान्नश्राद्धेनेव, अक्षय्यतृप्ति.र्भूत्वा, पुनरावृत्ति.रहित- शाश्वत ब्रह्मलोकनिवास.सिद्धि.रस्त्विति भवन्तो ब्रुवन्तु। (सदर्भ यव तिलोदकं विसृजेत्।) • (प्रतिवचनम्-) पुनरावृत्ति.रहित शाश्वत.ब्रह्मलोक निवास सिद्धि.रस्तु। यथाकालं दत्तमस्तु। सर्वं सगुण.मस्तु।  नमो देवेभ्यः। स्वधा पितृभ्यः। नमो विष्णवे।। >>(सव्यम्) ओन्तद्ब्रह्म। ओन्तद्वायुः। ओन्तदात्मा। ओन्तथ्सत्यम्। ओन्तथ्सर्वम्। ओन्तत्पुरो.र्नमः। अन्त.श्चरति भूतेषु गुहायाँ विश्वमूर्तिषु। त्वँ यज्ञ.स्त्वँ वषट्कार स्त्वमिन्द्र.स्त्व रुद्र.स्त्वँ विष्णु.स्त्वं ब्रह्म त्वं प्रजापतिः। त्व.न्तदाप आपो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। ---- • कलौ कलिकृतान् दोषान्- द्रव्यदेहात्मसम्भवान्।सर्वान् हरति चित्तस्थो- भगवान् देवकीसुतः।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरणपूर्वकम्।यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। • मधु मधु मधु। (प्रतिवचनम्-) सर्वं मध्वस्तु। ओम् अक्ष.न्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्रते हरी।। • मया कृतं श्राद्ध प्रतिनिधि हिरण्यश्राद्धं/ पिष्टपिण्डश्राद्धंय पिष्टपिण्डश्राद्धं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्।।  9)पितृ-पितामह- प्रपितामह- पिण्ड प्रदानम्- • ओम् ओम् ओम् ... पुण्यतिथौ, >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) प्राति साँवत्सरिक मृताहाख्यान्न श्राद्ध प्रतिनिधि सतिलोदक हिरण्यं/ पिष्टपिण्डप्रदानं >> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • पिष्टं जलेन मिश्रयित्वा, पिण्डत्रयं कृत्वा, दक्षिणाभिमुखो गोमयेनानुलिप्य,  ओं अपां मेध्यं यज्ञिय सदेव शिव.मस्तु मे। आच्छेत्ता वो मा रिषं जीवानि शरद.श्शतम्। (इत्याच्छिनत्ति।) (इति पिण्डप्रदान स्थले तृणादिकं निरस्य) अप उपस्पृश्य, अद्भि.रवोक्ष्य।।  ओं अपहता असुरा रक्षासि पिशाचा वेदिषदः। (इति भूमि.मुल्लिख्य, अप उपस्पृश्य।)  शुन्धन्तां पितरः। शुन्धन्तां पितामहाः। शुन्धन्तां प्रपितामहाः।। {शुन्धन्तां मातरः। शुन्धन्तां पितामह्यः। शुन्धन्तां प्रपितामह्यः।।} (इति दर्भैः पुनः प्रोक्षति।)  ओम् आयन्तु पितरो मनोजवसः।  सकृदाच्छिन्नं बर्‌हि.रूर्णामृदु। स्योनं पितृभ्यस्त्वा भरा.म्यहम्।अस्मि‘2’न्थ्सीदन्तु मे पितर.स्सोम्याः। पितामहाः प्रपितामहाश्चानुगै. स्सह।। (दक्षिणाग्रान् दर्भानास्तीर्य।।)  मार्जयन्तां पितरः। मार्जयन्तां पितामहाः। मार्जयन्तां प्रपितामहाः।। {  मार्जयन्तां मातरः। मार्जयन्तां पितामह्यः। मार्जयन्तां प्रपितामह्यः।} इति तिलोदकं निनीय, • (सव्यम्) जान्वाच्य • 1) पितृपिण्डम् – एतत्ते तत, ... गोत्र, ... शर्मन्न्, वसुरूप ये च त्वा.मनु। • (अस्मत्) पित्रे, ... गोत्राय, ... शर्मणे, वसुरूपाय, • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्त.मस्तु।। 2. पितामहपिण्डम् – एतत्ते पितामह, ... गोत्र, ... शर्मन्न्, रुद्ररूप, ये च त्वा मनु। •(अस्मत्) पितामहाय, ... गोत्राय, ... शर्मणे, रुद्ररूपाय • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्तमस्तु।। 3. प्रपितामह पिण्डम् – एतत्ते प्रपितामह, ... गोत्र, ... शर्मन्न्, आदित्यरूप, ये च त्वा. मनु। • (अस्मत्) प्रपितामहाय, ... गोत्राय, ... शर्मणे, आदित्यरूपाय, • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्तमस्तु।। {•एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे, याश्च त्वा मनु। मात्रे, ... गोत्रायै, ... दायै, वसुरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।। •एतत्ते पितामहि, ... गोत्रे, ... दे, रुद्ररूपे, याश्च त्वा मनु। पितामह्यै, ... गोत्रायै, ... दायै, रुद्ररूपायै, याश्च त्वामनु गच्छन्ति, ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।। •एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे, याश्च त्वा मनु। प्रपितामह्यै, ... गोत्रायै, ... दायै, आदित्यरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।} ओम् यन्मे माता प्रममाद यच्चचाराननुव्रतम्। तन्मे रेतः पिता वृङ्क्तां माभु.रन्योवपद्यताम्।।  ओं पितृभ्य.स्स्वधाविभ्य.स्स्वधा नमः। पितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः। प्रपितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः।।  ओं अत्र पितरो यथाभागं मन्धध्वम्।  अक्ष.न्पितरोमीमदन्त पितरोतीतृपन्त पितरोमीमृजन्त पितरः।  ये समाना.स्समनसः। पितरो यमराज्ये। तेषाँ लोक.स्स्वधा नमः। यज्ञो देवेषु कल्पताम्।  ये सजाता.स्समनसः। जीवा जीवेषु मामकाः। तेषा श्री.र्मयि कल्पताम्। अस्मि.न्लोके शत समाः। >> (सव्यम्)  वीर.न्धत्त पितरः।पिण्डशेषमाघ्राय। आचम्य, >>प्राचीनवीती मार्जयन्तां मम पितरः। मार्जयन्तां मम पितामहाः। मार्जयन्तां मम प्रपितामहाः।। इति पिण्डेषु तिलोदकं निनीय। {मार्जयन्तां मम मातरः। मार्जयन्तां मम पितामह्यः। मार्जयन्तां मम प्रपितामह्यः।। इति पिण्डेषु तिलोदकं निनीय।} आञ्जनाभ्यञ्जने • घृताञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप आंक्ष्व। • एतत्ते पितामह ... गोत्र, ... शर्मन्न्, रुद्ररूप आंक्ष्व। • एतत्ते प्रपितामह ... गोत्र, ... शर्मन्न्, आदित्यरूप आंक्ष्व।। • अभ्यञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप अभ्यंक्ष्व। • एतत्ते पितामह ... गोत्र, ... शर्मन्न्, रुद्ररूप अभ्यंक्ष्व । • एतत्ते प्रपितामह ... गोत्र, ... शर्मन्न्, आदित्यरूप अभ्यंक्ष्व ।। {• एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे आंक्ष्व। • एतत्ते पितामहि, ... गोत्रे, ... दे, रुद्ररूपे आंक्ष्व। • एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे आंक्ष्व।। • एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे अभ्यंक्ष्व। • एतत्ते पितामहि , ... गोत्रे, ... दे, रुद्ररूपे अभ्यंक्ष्व।। • एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे अभ्यंक्ष्व} • आंक्ष्वाभ्यंक्ष्व पितरः। • अतोन्यत्पितरो मा योष्ट। पितामहा मा योष्ट। प्रपितामहा मा योष्ट। {• अतोन्यन्मातरो मायोष्ट। पितामह्यो मायोष्ट। प्रपितामह्यो मा योष्ट।} • एतानि वः पितरो वासासि। इति वाससो दशां छित्त्वा, पिण्डेषु निदधाति।।  ओम् ऊर्जं वहन्ती.रमृतं घृतं पयः कीलालं परिस्रुतम्। स्वधा स्थ तर्पयत मे पितॄन्।  तृप्यत तृप्यत तृप्यत। (तर्पणोदकपात्रं पिण्डाना.मुपरि निक्षिप्य।।)  10) पिण्डनमस्काराः >> (सव्यम्) नमस्कारा एते मन्त्राः।  ओं नमो व पितरो रसाय नमो व पितर.श्शुष्माय नमो व पितरो जीवाय नमो व पितर.स्स्वधायै नमो व पितरो मन्यवे नमो व पितरो घोराय, पितरो नमो वो- य एतस्मि.न्लोके स्थ- युष्मास्तेनु, येस्मिन्लोके मान्तेनु, य एतस्मिन्लोके स्थ यूय.न्तेषां वसिष्ठा भूयास्त, येस्मिन्लोकेह न्तेषां वसिष्ठो भूयासम्।।  गृहान्न पितरो दत्त। सदो व पितरो देष्म। (प्रार्थनम्)  ओं पुनर्न पितरो मनो ददातु दैव्यो जनः। जीवँ व्रात सचेमहि। >>(प्राचीनावीती)  उत्तिष्ठत पितर प्रेतशूरा यमस्य पन्था.मनवेता पुराणम्। धत्ता.दस्मासु द्रविणँ यच्च भद्रं प्रणो ब्रूता.द्भागधा.न्देवतासु। (इति पिण्डानुत्थाप्य पात्रे निदधाति।)  ओं परेत पितर.स्सोम्या- गम्भीरै पथिभि पूर्व्यैः। अथा पितॄ.न्थ्सुविदत्रा अपीत यमेन ये सधमादं मदन्ति।।  प्रवाहणीय.मृक्- इति प्रवाहयति।  मनो न्वाहुवामहे नाराशसेन स्तोमेन पितृणाञ्च मन्मभिः। आ न एतु मन पुन क्रत्वे दक्षाय जीवसे। • ज्योक्च सूर्यन्दृशे।। (अनेन आदित्यदर्शनम्) >> (सव्यम्)  11) पिण्डपूजा • .... अस्यां पुण्यतिथौ, कुलाभिवृद्ध्यर्थं, पिण्डपार्वण पूजां करिष्ये। • पिण्ड पितृदेवताभ्यो नमः। दर्भ-पत्र-कुश-तिल-यवाक्षतान् समर्पयामि। • ततः पिण्डनैवेद्यं कुर्यात्। यथाशक्ति दक्षिणां दद्यात्। • गय गय गय ।। • ... अद्य पूर्वोक्त एवंगुण विशेषण विशिष्टाया,मस्यां पुण्यतिथौ >>(प्राचीनावीती) अस्मत् पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्ध प्रतिनिधि हिरण्य/ पिष्टपिण्डश्राद्धे,अस्मत् - पितृ- पितामह- प्रपितामहान्, ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, एतान् {अस्मत् - मातृ- पितामही- प्रपितामहीः, ... गोत्राः, ... दाः, वसुरुद्रादित्य रूपाः, एताः • उद्दिश्य, मया दत्ताः पिण्डाः, गया पिण्डसदृशा भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयापिण्ड सदृशा भवन्तु।। >> (सव्यम्) पिण्डान् सर्वे बन्धवो नमस्कुर्युः। (लौकिको नमस्कारः)। • पिण्डानुद्वासयिष्ये। (प्रतिवचनम्-) उद्वासय।। >>(प्राचीनावीती) पिण्डानुद्वास्य,तान् पिण्डान् गोभ्यो दद्यात्, अफ्सु वा प्रक्षिपेत्, अग्नौ वा दह्यात्। >> (सव्यम्) - अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका।पुरी द्वारावतीचैव सप्तैता मोक्षदायिकाः।। • अहं काशीं गमिष्यामि तत्रैव निवसा.म्यहम्।इति ब्रुवाण.स्सततं काशीवासफलं लभेत्।। • शमीपत्र प्रमाणेन पिण्डं दद्या.द्गयाशिरे।उद्धरेत् सप्त गोत्राणां कुल.मेकोत्तरं शतम्।। • पिण्डस्थाने शान्ति.रस्तु। पुष्टि.रस्तु। तुष्टि.रस्तु। वृद्धि.रस्तु। अविघ्न.मस्तु। आयुष्य.मस्तु। आरोग्य.मस्तु। (इति कूर्चेन प्रोक्ष्य) • स्वस्ति शोभनम्। स्वस्थाने वासः। • वैश्वदेवस्थाने हस्तोदकं चतुर्वारं दत्त्वा।। >>(प्राचीनावीती) पितृस्थाने हस्तोदकं षड्वारं दत्त्वा।। >> (सव्यम्) विष्णुस्थाने हस्तोदकं चतुर्वारं दत्त्वा।।  देवाः पितरः। वैश्वदेव प्रसादोस्तु।। >>(प्राचीनावीती) पितरो देवाः। • पितृ- पितामह- प्रपितामह.प्रसादोस्तु।। (मातृ- पितामही- प्रपितामही प्रसादोस्तु।।) • देव.पितृप्रसादेन, अस्मद्गोत्रं वर्धताम्। • (प्रतिवचनम्-) स्वस्ति वर्धतां गोत्रम्। • देवाश्च पितरः - स्वस्तीति ब्रूत। • (प्रतिवचनम्- ) ब्रूहि स्वस्ति।। (ततःपादप्रक्षालनस्थले न्यक्पात्र.मुत्तानं करोति) • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः - मया दत्तं श्राद्ध.मन्नम्, अक्षय्योदक.मस्त्विति ब्रूत। (प्रतिवचनम्- ) अस्त्वक्षय्योदकम्।। >>(प्राचीनावीती) • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • मया दत्तं श्राद्ध.मन्नम्-अक्षय्योदक.मस्त्विति ब्रूत। • (प्रतिवचनम्-) अस्त्वक्षय्योदकम्।। >> (सव्यम्) स्वाहां वाचयिष्ये। (प्रतिवचनम्- ) वाच्यताम्।।  ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः। अन्तर्‌हृदा मनसा पूयमानाः।  घृतस्य धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्।  तस्मि.न्थ्सुपर्णो मधुकृ.त्कुलायी भज.न्नास्ते मधु देवताभ्यः। तस्यासते हरय.स्सप्त तीरे स्वधा.न्दुहाना अमृतस्य धाराम्।। (कूर्चग्रन्थिं विस्रस्य) >>(प्राचीनावीती) पितृभ्यः, पितामहेभ्यः, प्रपितामहेभ्य.स्स्वधोच्यताम्। {मातृभ्यः, पितामहीभ्यः, प्रपितामहीभ्य स्स्वधोच्यताम्।} • अस्तु स्वधा। (इति भूमौ जलं सिञ्चति।) • दक्षिणादानम्, रजतदानम् >> (सव्यम्) संपद्यन्तां संपद्यन्ताम्। प्रीयन्तां विश्वे देवाः।। • पितॄणां वल्लभं यस्मा.- द्धरे कस्य शिवस्य च।रजतं पातु न.स्तस्मा - द्दुख.संसार.सागरात्।। • उपस्थितेभ्यो ब्राह्मणेभ्यो दक्षिणाः पान्तु। (प्रतिवचनम्-) पान्तु दक्षिणाः।  ओम् वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मध्व पिबत मादयध्वं तृप्ता यात पथिभि र्देवयानैः।। >>(प्राचीनावीती) उत्तिष्ठत पितरः। (इति पितॄ.नुत्थापयति।) >> (सव्यम्) अनूत्तिष्ठन्तु विश्वे देवाः। (विष्णुना सह)।  ओम् आमा वाजस्य प्रसवो जगम्या.दा द्यावापृथिवी विश्वशम्भू। आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्।। इति प्रदक्षिणीकृत्य।।  12) आशीर्वचनम् कर्तृ वचनम् - भोक्तृ वचनम् • दातारो नोभि वर्धन्ताम् - दातारो वोभिवर्धन्ताम्।। • वेदा,स्सन्ततिरेव नः। - वेदा.स्सन्तति रेव वः।। • श्रद्धा च नो मा व्यगमत्। - श्रद्धा च वो मा व्यगमत्।। • बहुदेयञ्च नोस्तु। - बहुदेयञ्च वोस्तु।। • अन्नञ्च नो बहु भवेत्। - अन्नञ्च वो बहु भवेत्।। • अतिथीश्च लभेमहि। - अतिथीश्च लभध्वम्।। • याचितारश्च न.स्सन्तु। - याचितारश्च व.स्सन्तु।। • मा च याचिष्म कञ्चन। - माच याचिढ्वं कञ्चन।।  ओं सत्या एता आशिषस्सन्तु। -------  ओम्स्वादुषसद पितरो वयोधा कृच्छ्रेश्रित.श्शक्तीवन्तो गभीराः।चित्रसेना इषुबला अमृध्रा.-स्सतोवीरा उरवो व्रातसाहाः।  ब्राह्मणास पितर.स्सोम्यास.-श्शिवे नो द्यावापृथिवी अनेहसा। पूषा न पातु दुरिता.दृतावृधो- रक्षा माकि.र्नो अघशस ईशत।  ओम् इहैवस्तं मा वियोष्टं विश्व.मायु.र्व्यश्नुतम्। क्रीडन्तु पुत्रै. र्नप्तृभि.-र्मोदमानौ स्वे गृहे।  सर्वस्याप्त्यै सर्वस्य जित्यै सर्व.मेव तेनाप्नोति सर्व.ञ्जयति।।  ओं शतमानं भवति शतायु पुरुष श्शतेन्द्रिय. आयुष्येवेन्द्रिये प्रतितिष्ठति। • आयु प्रजान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्तु तथा राज्यं प्रीत्या नॄणां पितामहाः।। • अद्य मे सफलं जन्म भवत्पादाभिवन्दनात्।अद्य मे वंशजा.स्सर्वे याता वोनुग्रहा.द्दिवम्।। • पत्र-शाकादि-दानेन क्लेशिता यूय.मीदृशाः।तत्क्लेशजातं चित्तेषु विस्मृत्य क्षन्तु.मर्हथ।।सर्वं संपूर्णम्।। --------------- >>(प्राचीनावीती) मयाचरितं, (अस्मत्) - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्धीयम्, अग्नौकरण- ब्राह्मण भोजन- पिण्डप्रदानाख्यं कर्मत्रयं, यथोक्तंयथाशास्त्रीयंयथाकालं गयाश्राद्ध फलद.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) यथोक्त.मस्तु।  ओं कयान.श्चित्र आभुव.दूती सदावृध स्सखा। कया शचिष्ठया वृता।।  ओं वामदेवाय नमो ज्येष्ठाय नम.श्श्रेष्ठाय नमो रुद्राय नम कालाय नम कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम स्सर्वभूतदमनाय नमो मनोन्मनाय नमः।।  ओम्अष्टावष्टा. वन्येषु धिष्णियेषूपदधा.त्यष्टाशफा पशव पशू. नेवाव रुन्धे षण्मार्जालीये षड्वा ऋतव ऋतव खलु वै देवा पितर ऋतूनेव देवा.न्पितॄ. न्प्रीणाति।।  ओम् आगन्त पितर पितृमा.नहं युष्माभि र्भूयास सुप्रजसो मया यूयं भूयास्त। • आशीर्वचनम् - वंशाभिवृद्धिरस्तु। गोत्राभिवृद्धिरस्तु।अस्मिन्गृहे महालक्ष्म्यास्स्थैर्यसिद्धि.रस्तु।। • कर्ता - कूर्चरूपान् विप्रान् पवित्रञ्च विसृज्य, आचम्य -------  13) श्राद्धाङ्गतर्पणम् (परेद्युः श्राद्धाङ्ग.तिलतर्पणं कर्तव्यं भवति। केचित्तु सौकर्यार्थं सद्यस्काले कुर्वन्ति।) • आचम्य ... एवंगुण विशेषण विशिष्टायां पुण्यतिथौ, >>(प्राचीनावीती), अस्मत् - पितुः (मातुः) प्राति साँवत्सरिक मृताहाख्यान्न श्राद्धाङ्गत्वेन, परेहनि कर्तव्यं तिल तर्पणं, देश-काल-देहधर्म-वैपरीत्यशङ्कया सद्यः, >> (सव्यम्) करिष्ये।। (अन्यत् पवित्रं धृत्वा) >>(प्राचीनावीती) – दक्षिणाभिमुखो भूत्वा।। • (अस्मत्) पितरं ... गोत्रं ... शर्माणं, वसुरूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) पितामहं ... गोत्रं ... शर्माणं, रुद्ररूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) प्रपितामहं ... गोत्रं ... शर्माणं, आदित्यरूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। {• (अस्मत्) मातरं ... गोत्रां ... दां, वसुरूपां स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) पितामहीं ... गोत्रां ... दां, रुद्ररूपां, स्वधा नम स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) प्रपितामहीं ... गोत्रां ... दां, आदित्यरूपां, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि।} >>निवीती भूत्वा - • ये के चास्मत्कुले जाता- अपुत्रा गोत्रिणो मृताः।ते गृह्णन्तु मया दत्तं सूत्र .निष्पीडनोदकम्।। ( इति सूत्रं निष्पीड्य, तदुदुकं अपुत्रमृतकेभ्यो दद्यात्। • उपवीती पवित्रं विसृज्य, आचामेत्। • एतत्फलं श्री परमेश्वरार्पणमस्तु। समाप्तो याजुषहिरण्यश्राद्धप्रयोगः। ==00==