74

                        
                        
श्री आञ्जनेय पूजा (सामान्यविधिः) श्री रामध्यानम् श्लो।। वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम्। अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परम् व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्।। ......... परमेश्वर प्रीत्यर्थं, मम बुद्धि बल यशो धैर्य निर्भयतारोग्य प्राप्त्यर्थं, दुस्स्वप्न दुर्निमित्त निवारणार्थं, चिन्तित सकल सन्मनोरथावाप्त्यर्थं, श्री आञ्जनेय स्वामिन मुद्दिश्य, श्री आञ्जनेय स्वामि प्रीतिं कामयमानः कल्पोक्त विधानेन श्री आञ्जनेय स्वामि पूजनं करिष्ये।। --- आञ्जनेय ध्यानम् श्लो।। अतुलित बलधामं स्वर्ण शैलाभ देहं दनुजवनकृशानुं ज्ञानिना मग्रगण्यम्। सकल गुण निधानं वानराणा मधीशं रघुपति प्रियभक्तं वातजातं नमामि।। ओं नमो हनुमते नमः ध्यायामि, ध्यानं समर्पयामि। --- आवाहनम् श्लो।। आगच्छ हनुमद्देव, सूर्यशिष्य महाबल। पूजा समाप्ति पर्यंतं, भव सन्निहितो मुदा।। ओं नमो हनुमते नमः। आवाहयामि आवाहनं समर्पयामि। --- आसनम् श्लो।। भीमाग्रज महाप्राज्ञ, त्वं ममाभिमुखो भव। श्रीरामसेवक श्रीमन् प्रसीद जगतां पते।। हे स्वामिन्, स्थिरो भव, वरदो भव, सुमुखो भव, सुप्रसन्नो भव, स्थिरासनं कुरु। --- आसनम् श्लो।। देवदेव जगन्नाथ केसरिप्रियनन्दन। रत्न सिंहासनं तुभ्यं. दास्यामि हनुत्र्पभो।। ओं नमो हनुमते नमः। नवरत्न खचित स्वर्णसिंहासनं समर्पयामि। --- पाद्यम् श्लो।। योगिध्येयांघ्रिपद्माय, जगतां पतये नमः। पाद्यं मयार्पितं देव, गृहाण पुरुषोत्तम।। ओं नमो हनुमते नमः। पादयोः पाद्यं समर्पयामि। --- अर्घ्यम् श्लो।। लक्ष्मण प्राण संरक्ष, सीताशोक विनाशन। गृहाणार्घ्यं मयादत्तं, अंजना प्रियनंदन।। ओं नमो हनुमते नमः। हस्तयोः अर्घ्यं समर्पयामि। --- आचमनम् श्लो।। वालाग्रसेतुबंधाय शतानन वधाय च। तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते।। ओं नमो हनुमते नमः। मुखे आचमनीयं समर्पयामि। --- मधुपर्कः श्लो।। अर्जुनध्वज संवास! दशानन मदापह! मधुपर्कं प्रदास्यामि, हनुमन् प्रतिगृह्यताम्।। ओं नमो हनुमते नमः। मधुपर्कं समर्पयामि। --- स्नानम् श्लो।। गंगादि सर्वतीर्थेभ्यः! समानीतैर्नवोदकैः। भवन्तं स्नापयिष्यामि कपिनायक गृह्यताम्।। ओं नमो हनुमते नमः। शुद्धोदक स्नानं समर्पयामि। --- वस्त्रम् श्लो।। पीतांबर मिदं तुभ्यं तप्तहाटक सन्निभं। दास्यामि वानर श्रेष्ठ संगृहाण नमोस्तुते।। श्लो।। उत्तरीयं तु दास्यामि संसारोत्तारकारण। कार्यसिद्ध्याञ्जनेय गृहाणैतत् स्तवतस्तव पादयोः।। ओं नमो हनुमते नमः। वस्त्रयुग्मं समर्पयामि। --- यज्ञोपवीतम् श्लो।। ब्रह्मसूत्रमिदं दिव्यं मुक्ता दामोपशोभितम्। स्वीकुरुष्वाञ्जनीपुत्र भक्त रक्षण तत्पर।। ओं नमो हनुमते नमः। यज्ञोपवीतं समर्पयामि। --- चन्दनम् श्लो।। कस्तूरी कुंकुमान्मिश्रं! कर्पूरागरुवासितम्। श्री चंदनं तु दास्यामि! गृह्यतां हनुमत्प्रभो।। ओं नमो हनुमते नमः। दिव्य श्री चंदनं समर्पयामि। --- आभरणम् श्लो।। भूषणानि महार्घाणि किरीट प्रमुखान्यहम्। तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक।। ओं नमो हनुमते नमः। आभरणानि समर्पयामि। --- पुष्पाणि श्लो।। सुगंधानि सुरूपाणि वन्यानि विविधानि च। चंपकादीनि पुष्पाणि कमलान्युत्पलानि च।। तुलसीदल.बिल्वानि मनसा कल्पितानि च। भक्त्या समर्पये तुभ्यं गृह्णीष्व कपिनायक।। ओं नमो हनुमते नमः। पुष्पाणि समर्पयामि। --- अक्षताः श्लो।। शालीया.नक्षतान् रम्यान् पद्मराग समप्रभान्। अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे।। ओं नमो हनुमते नमः अक्षतान् समर्पयामि। --- अथ अंगपूजा 1. मारुतये नमः - पादौ पूजयामि 2. सुग्रीव सखाय नमः - गुल्फौ पूजयामि 3. अंगद मित्रायनमः - जंघे पूजयामि 4. रामदासाय नमः - ऊरू पूजयामि 5. अक्षघ्नाय नमः - कटिं पूजयामि 6. लंकादहनाय नमः - वालं पूजयामि 7. संजीवन नगाहर्त्रे नमः - स्कंधौ पूजयामि 8. सौमित्रि प्राणदात्रे नमः - वक्षस्थलं पूजयामि 9. कुंठित दशकंठाय नमः - कण्ठं पूजयामि 10. रामाभिषेक कारिणे नमः - हस्तौ पूजयामि 11. मंत्ररचित रामायणाय नमः - वक्त्रं पूजयामि 12. प्रसन्नवदनाय नमः - वदनं पूजयामि 13. पिंगळनेत्राय नमः- नेत्रे पूजयामि 14. श्रुति पारायणाय नमः - श्रोत्रे पूजयामि 15. ऊर्ध्व पुंड्र धारिणे नमः - कपोलं पूजयामि 16. मणिकंठमालिकाय नमः - शिरः पूजयामि सर्वाभीष्ट प्रदाय नमः - सर्वाण्यंगानि पूजयामि --- अथ अष्टोत्तर शतनाम पूजा 1 ओं आंजनेयाय नमः 2 ओं महावीराय नमः 3 ओं हनुमते नमः 4 ओं मारुतात्मजाय नमः 5 ओं तत्वज्ञानप्रदाय नमः 6 ओं सीतादेवीमुद्राप्रदायकाय नमः 7 ओं अशोकवनिकाच्छेत्रे नमः 8 ओं सर्वमायाविभंजनाय नमः 9 ओं सर्वबंधविमोक्त्रे नमः 10 ओं रक्षोविध्वंसकारकाय नमः 11 ओं परविद्यापरीहाराय नमः 12 ओं परशौर्यविनाशाय नमः 13 ओं परमंत्रनिराकर्त्रे नमः 14 ओं परयंत्र प्रभेधकाय नमः 15 ओं सर्वग्रहविनाशिने नमः 16 ओं भीमसेन सहायकृते नमः 17 ओं सर्वदुःखहराय नमः 18 ओं सर्वलोकचारिणे नमः 19 ओं मनोजवाय नमः 20 ओं पारिजातद्रुमूलस्थाय नमः 21 ओं सर्वयंत्रात्मकाय नमः 22 ओं सर्वमंत्रस्वरूपिणे नमः 23 ओं सर्व यन्त्रात्मकाय नमः 24 ओं कपीश्वराय नमः 25 ओं महाकायाय नमः 26 ओं सर्वरोगहराय नमः 27 ओं प्रभवे नमः 28 ओं बलसिद्धिकराय नमः 29 ओं सर्वविद्यासंपत्प्रदायकाय नमः 30 ओं कपिसेनानायकाय नमः 31 ओं भविष्यच्चतुराननाय नमः 32 ओं कुमारब्रह्मचारिणे नमः 33 ओं रत्नकुंडलदीप्तिमते नमः 34 ओं संचलद्वालसन्नद्ध लंबमान शिखोज्वलाय नमः 35 ओं गंधर्वविद्यातत्वज्ञाय नमः 36 ओं महाबलपराक्रमाय नमः 37 ओं कारागृहविमोक्त्रे नमः 38 ओं शृंखलाबंधमोचकाय नमः 39 ओं सागरोत्तारकाय नमः 40 ओं प्राज्ञाय नमः 41 ओं रामदूताय नमः 42 ओं प्रतापवते नमः 43 ओं वानराय नमः 44 ओं केसरीसुताय नमः 45 ओं सीताशोकनिवारणाय नमः 46 ओं अंजनागर्भसंभूताय नमः 47 ओं बालार्कसदृशाननाय नमः 48 ओं विभीषण प्रियकराय नमः 49 ओं दशग्रीवकुलांतकाय नमः 50 ओं लक्ष्मणप्राणदात्रे नमः 51 ओं वज्रकायाय नमः 52 ओं महाद्युतये नमः 53 ओं चिरंजीविने नमः 54 ओं रामभक्ताय नमः 55 ओं दैत्यकार्यविघातकाय नमः 56 ओं अक्षहन्त्रे नमः 57 ओं कांचनाभाय नमः 58 ओं पंचवक्त्राय नमः 59 ओं महातपसे नमः 60 ओं लंखिणीभंजनाय नमः 61 ओं श्रीमते नमः 62 ओं सिंहिकाप्राणभंजनाय नमः 63 ओं गंधमादनशैलस्थाय नमः 64 ओं लंकापुरविदाहकाय नमः 65 ओं सुग्रीवसचिवाय नमः 66 ओं धीराय नमः 67 ओं शूराय नमः 68 ओं दैत्यकुलान्तकाय नमः 69 ओं सुरार्चिताय नमः 70 ओं महातेजाय नमः 71 ओं रामचूडामणिप्रदाय नमः 72 ओं कामरूपाय नमः 73 ओं पिंगळाक्षाय नमः 74 ओं वार्थिमैनाकपूजिताय नमः 75 ओं कबळीकृतमार्तांडमंडलाय नमः 76 ओं विजितेंद्रियाय नमः 77 ओं रामसुग्रीवसंधात्रे नमः 78 ओं महारावणमर्दनाय नमः 79 ओं स्फटिकाभाय नमः 80 ओं वागधीशाय नमः 81 ओं नवव्याकृतिपंडिताय नमः 82 ओं चतुर्भाहवे नमः 83 ओं दीनबंधवे नमः 84 ओं महात्मने नमः 85 ओं भक्तवत्सलाय नमः 86 ओं संजीवनगाहर्त्रे नमः 87 ओं शुचये नमः 88 ओं वाग्मिने नमः 89 ओं दृढव्रताय नमः 90 ओं कालनेमिप्रमथनाय नमः 91 ओं हरिमर्कटमर्कटाय नमः 92 ओं दांताय नमः 93 ओं शांताय नमः 94 ओं प्रसन्नात्मने नमः 95 ओं शतकंठमदापहृते नमः 96 ओं योगिने नमः 97 ओं रामकथालोलाय नमः 98 ओं सीतान्वेषणपंडितायनमः 99 ओं वज्रदंष्ट्राय नमः 100 ओं वज्रनखाय नमः 101 ओं रुद्रवीर्यसमुद्भवाय नमः 102 ओं इंद्रजित्प्रपितामोघ ब्रह्मास्त्रविनिवारकाय नमः 103 ओं पार्थद्वजाग्रसंवासिने नमः 104 ओं शरपंजरभेदकाय नमः 105 ओं दशबाहवे नमः 106 ओं लोकपूज्याय नमः 107 ओं जांबवत्प्रीतिवर्थनाय नमः 108 ओं सीतासमेत श्रीरामपादसेवा धुरंधराय नमः इति श्री आंजनेयाष्टोत्तर शतनामार्चनं समर्पयामि। --- धूपः श्लो।। दशाङ्गं गुग्गुलं धूपं सुगन्धं च मनोहरम्। कपिलागम संयुक्तं धूपोयं प्रतिगृह्यताम्।। ओं नमो हनुमते नमः। धूपमाघ्रापयामि। दीपः श्लो।। घृतवर्ति समायुक्त मारार्तिकमिदं शुभम्। दीपं दास्यामि भगवन् कपिनायक गृह्यताम्।। ओं नमो हनुमते नमः। दीपं दर्शयामि। धूप दीपानंतरं आचमनीयं समर्पयामि। --- नैवेद्यम् श्लो।। नारिकेळं च कदली फल मोदक संयुतम्। नैवेद्य मंजनीपुत्र प्रीत्यै तुभ्यं ददाम्यहम्।। ओं नमो हनुमते नमः। नैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि। हस्तौ प्रक्षाळयामि, पादौ प्रक्षाळयामि, शुद्धाचमनीयं समर्पयामि। --- ताम्बूलम् श्लो।। पूगीफल समायुक्तं नागवल्लीदलैर्युतम्। मुक्ताचूर्ण समायुक्तं तंबूलं हनुमन् ददे।। ओं नमो हनुमते नमः। ताम्बूलं समर्पयामि। --- नीराजनम् श्लो।। घृताक्तवर्तबिश्चैव कर्पूरैः कपिनायकम्। नीराजयामि देवेशं हनूमन्तं महाबलम्।। ओं नमो हनुमते नमः। नीराजनं समर्पयामि। नीराजनानंतरं आचमनीयं समर्पयामि। --- मन्त्रपुष्पम् श्लो।। अंजनानंदनं वीरं जानकी शोकनाशनं। कपीश.मक्षहन्तारं वन्दे लङ्काभयङ्करम्।। ओं ओं नमो हनुमते नमः। सुवर्ण दिव्य मंत्रपुष्पं समर्पयामि। --- प्रदक्षिणम् श्लो।। नादबिन्दु कलातीतं उत्पत्तिस्थिति.वर्जितम्। प्रदक्षिणैश्च तं वन्दे हनूमंतं महेश्वरम्।। ओं नमो हनुमते नमः। आत्म प्रदक्षिण नमस्कारान् समर्पयामि। प्रार्थनम् श्लो।। गोष्पदीकृत वाराशिं मशकीकृत राक्षसम्। रामायण महामालारत्नं वंदेनिलात्मजम्।। उल्लंघ्य सिन्धो.स्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलि.राञ्जनेयम्।। आञ्जनेय मति पाटलाननं काञ्चनाद्रि कमनीय विग्रहम्। पारिजाततरु.मूलवासिनं भावयामि पवमान.नन्दनम्।। यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम्। बाष्पवारि.परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्।। मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शिरसा नमामि।। सर्वारिष्ट निवारकं शुभकरं पिङ्गाक्ष.मक्षापहम् सीतान्वेषण.तत्परं कपिवरं कोटीन्दुसूर्यप्रभम्। लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितम् देवेन्द्रादि.समस्तदेव.विनुतं काकुत्स्थदूतं भजे।। बुद्धि.र्बलं यशो.धैर्यं निर्भयत्व.मरोगता। अजाड्यं वाक्पटुत्वं च हनूमत्.स्मरणाद्.भवेत्।। ओं नमो हनुमते नमः। प्रार्थनं समर्पयामि। --- प्रार्थनम् यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु। न्यूनं संपूर्णतां याति सद्यो वन्दे कपीश्वरम्।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं समीरज। यत्पूजितं मयादेव परिपूर्णं तदस्तुते।। अनया ध्यानावाहनादि षोडशोपचार.पूजया च भगवान् सर्वात्मकः श्री आञ्जनेयस्वामी सुप्रीत.स्सुप्रसन्नो वरदो भवतु। एतत्फलं सर्वं श्रीपरमेश्वरार्पणमस्तु। ==00==