100

                        
                        
ऋग्वेद होमविधिः आश्वलायनीयः अग्निमुख प्रयोगः अग्निमुखप्रयोगविषये - आश्वलायन गृह्यसूत्रवाक्यानि।। (तृतीयः खण्डः) 1. त्रयः पाकयज्ञाः २ 2. हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः ३ .... 1. अथ खलु यत्र क्व च होष्यन्त्स्यात्, इषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखाः, उदगायतां, पश्चात्प्रागायते, नानान्तयोस्तिस्रो मध्ये, तदभ्युक्ष्याग्निं प्रतिष्ठाप्य, अन्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थन्तूष्णीं पर्युक्षणम् १ 2. पवित्राभ्यामाज्यस्योत्पवनम् २ 3. अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वा अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम् ३ 4. कृताकृतमाज्यहोमेषु परिस्तरणम् ४ 5. तथाज्यभागौ पाकयज्ञेषु ५ 6. ब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम् ६ 7. अमुष्मै स्वाहेति जुहुयात् ७ 8. अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मेत्यनादेशे ८ 9. एकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः ९ 10. तदेषाभियज्ञगाथा गीयते। पाकयज्ञान्समासाद्यैकाज्यानेकबर्हिषः। एकस्विष्टकृतः कुर्यान्नानापि सति दैवते १०।। अथ अग्निमुख प्रयोगः पवित्रवन्त इत्यनयोः ब्रह्माबृहस्पतिर्जगती। पवित्रधारणे विनियोगः।  पवित्रवन्त परि वाच. मासते- पि.तैषां प्रत्नो अभि रक्षति व्रतम्। मह. स्समुद्रँ वरुण. स्तिरो दधे- धीराˆ इ.च्छेकु. र्धरुणे.ष्वारभम्।।  सहस्रधारेव ते समस्वर.-न्दिवो नाके मधुजिह्वाˆ असश्चतः। अस्य स्पशो न नि मिषन्ति भूर्णय- पदेपदे पाशिन. स्सन्ति सेतवः।। आभ्यां पवित्रे धृत्वा, देशकालौ सङ्कीर्त्य। • ... श्रीपरमेश्वर प्रीत्यर्थं ... कर्म करिष्ये। • तदङ्गहोमं कर्तुं उपलेपनाद्यग्निप्रतिष्ठापनं करिष्ये।। •शुद्धदेशे किञ्चिदुच्छ्रयीकृतां समीकृतां चतुर्दिक्षु इषुप्रमाणां तदधिकप्रमाणां वा भूमिं गोमयेन प्रदक्षिणमुपल्प्य, मङ्गलार्थं रङ्गवल्ल्यादिभिरलङ्कृत्य, तन्मध्यदेशापेक्षया पश्चिमभागे यज्ञियशकलमूलेन उदगायतां प्रादेशमात्रामेकां रेखामालिख्य, तस्याः दक्षिणोत्तरयोरन्तरयोः प्रागायते प्रादेशमात्रे द्वे रेखे लिखित्वा। तयोर्मध्ये दक्षिणत आरभ्य, परस्परमसंसृष्टाः प्रागायताः प्रादेशमात्रास्तिस्रो रेखा लिखित्वा। 3 6 5 4 2 1 स्थण्डिलमद्भिरभ्युक्ष्य, शकलमाग्नेय्यां निरस्य, पाणिं प्रक्षाल्य, वाग्यमनं कुर्यात्। (तत उक्तप्रकारेण कर्मविशेषमवगम्य अग्निविशेषः प्रतिष्ठापनीयः)। अस्मिन् कर्मणि (प्रायश्चित्तकर्मणि- विटप/ पौष्टिक कर्मणि - बलवर्धन/ संस्कारकर्मणि) नामाग्निप्रतिष्ठापनं करिष्ये। सौवर्ण-राजत-ताम्र-धात्वादिलेपित नवशरावाद्यन्यतमपात्रे श्रोत्रियागार-स्वगृहान्यतरस्थं प्रदीप्तबहुलाङ्गारमयं हविर्भुजं प्रक्षिप्य, तथाविधपात्रान्तरेणापिधायानीतम्। समस्तव्याहृतेः प्रजापतिः-प्रजापतिर्-बृहती।  ओं भूर्भुवस्स्वः। अनेनात्माभिमुखं पाणिभ्यां षट्सु रेखासु प्रतिष्ठाप्य, अग्न्यानयनपात्रयोरक्षतोदकं निषिच्य, पात्रद्वयमेकीकृत्य, समन्त्रमावाहयेत्। तत्र मन्त्रौ। • एह्यग्न इत्यस्य गौतमोग्निस्त्रिष्टुप्। जुष्टो दमूना इत्यस्य वसुश्रुतोग्निस्त्रिष्टुप्। अग्न्यावहने विनियोगः।  ए.ह्यग्न इह होता नि¤षीदा-दब्ध. स्सु पुरˆएता भवा नः। अवता.न्त्वा रोदसी~ विश्वमिन्वे~- यजा महे सौमनसाय देवान्।। जुष्टो दमूनाˆ अतिथि. र्दुरोण- इम.न्नो यज्ञ.मुप याहि विद्वान्। विश्वाˆ अग्ने अभियुजो विहत्या- शत्रूयता. मा भरा भोजनानि।। अग्ने अच्छावदेतस्य, अग्निस्तापसोग्निरनुष्टुप्, अग्नेस्स्वाभिमुखीकरणे विनियोगः। अग्ने अच्छा व.देह न- प्रत्य.ङ्न. स्सुमनाˆ भव। प्र नो यच्छ विश.स्पते- धनदाˆ असि न.स्त्वम्।। अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम्। सुवर्णवर्णमनलं समिद्धं विश्वोतमुखम्।। अग्नौ प्रोक्षितेन्धनानि निक्षिप्य। इन्धानो अग्निमित्यस्य गृत्समदो ब्रह्मणस्पतिर्जगती, इन्धनप्रक्षेपणे विनियोगः।। • इन्धानो अग्निँ वनव.द्वनुष्यत- कृतब्रह्मा शूशुव.द्रातहव्यˆ इत्। जातेन जात.मति सˆ प्र सर्सृते- यँयँ युज.ङ्कृणुते ब्रह्मण.स्पतिः।। इति वेणुधमन्यादिना प्रबोध्य, प्रज्वलिताग्निमेवं ध्यायेत्। चत्वारि शृङ्गा वामदेवो जातवेदा अग्निस्त्रिष्टुप्, अग्निमूर्तिध्याने विनियोगः। •  चत्वारि शृङ्गा त्रयो अस्य पादा- द्वे~ शीर्षे~ सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति- महो देवो मर्त्या आ विवेश।। हे अग्ने प्राङ्मुखो देव प्रत्यङ्मुखस्सन् मम अभिमुखो भव, सुमुखो भव, सुप्रसन्नो भव, यथोक्तजिह्वया हविर्गृहाण। एष हि देव प्रदिशोनु सर्वा पूर्वो हि जातस्स उ गर्भे अन्तः। स विजायमानस्स जनिष्यमाण प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः।। स्मृतिश्च • ॐ सप्तहस्त श्चतुशृङ्ग स्सप्त जिह्वो द्विशीर्‌षकः। त्रिपात्प्रसन्न वदन स्सखासीन श्शुचिस्मितः।। • ॐ स्वाहान्तु दक्षिणे पार्श्वे देवीँ वामे स्वधान्तथा। बिभ्र द्दक्षिण हस्तैस्तु शक्ति मन्नं स्रुचं स्रुवम्।। • ॐ तोमरँ व्यजनँ वामै र्घृत पात्रन्तु धारयन्न्। मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।। • ॐ धूमध्वजं लोहिताक्षं सप्तार्चि स्सर्वकामदम्। आत्माभिमुख मासीन मेवं ध्याये द्धुताशनम्।। इत्येवं ध्यात्वा -अन्वाधानं कुर्यात्।। अन्वाधानम् पुनर्देशकालकथनपूर्वकम् .... श्रीपरमेश्वरप्रीत्यर्थम्, अस्मिन् प्रकृते कर्मणि देवतापरिग्रहार्थम् अन्वाधानं करिष्ये। समिद्द्वयं पाणिनादाय, अस्मिन्नन्महितेग्नौ प्रजापतिं प्रजापतिञ्चाघारावाज्येन अग्नीषोमौ चक्षुषी आज्येन अमुक प्रधान देवताः ------ 1. शेषेण स्विष्टकृतम्, इध्मसन्नहनेन रुद्रम्, अयसमग्निं- देवान् - विष्णुं - अग्निं- वायुं- सूर्यं - प्रजापतिञ्चाज्येन 2. ज्ञाताज्ञातकृतदोषनिर्हरणार्थम् अग्निं द्विवारमाज्येन 3. न्यूनातिरिक्त प्रायश्चित्तार्थम् अग्निं सकृदाज्येन 4. विपर्यासप्रायश्चित्तार्थं मरुतश्चाज्येन 5. पूर्णाहुत्यर्थम् अपः समुद्रादूर्मिरिति सूक्तेन 6. अवशिष्टहोमे अग्निं त्रिवारमाज्येन 7. विश्वान् देवान् संस्रावेण --- अत्र अङ्गदेवताः प्रधानदेवताः प्रायश्चित्तदेवतास्सर्वास्सन्निहितास्सन्तु। एवं साङ्गेन कर्मणा सद्यो यक्ष्ये। • भूर्भुवस्स्व1(अ)स्स्वाहा। प्रजापतय इदं न मम। परिस्तरणादि पात्रासादनान्तम् अग्नेस्सकाशादष्टाङ्गुलपरिमिते देशे समन्तात् सोदकेन पाणिना त्रिः परिमृज्य पूर्वमुपरिनिहितान् दीर्घान् षोडश दर्भानादाय, प्राच्यामुदगग्रैः, दक्षिणस्यां प्रागग्रैः, प्रतीच्यामुदगग्रैः, उत्तरस्यां प्रागग्रैः - प्रादेशमात्रैर्बाहुमात्रैर्वा अग्नि परिस्तृणीयात्। पूर्वपश्चिमपरिस्तरणमूलयोरुपरि दक्षिणपरिस्तरणम्, उदक्परिस्तरण.मुदगग्रयोरधस्तात् - एवं परिस्तीर्य, ब्रह्मासनार्थमग्नेर्दक्षिणतः अष्टाविंशतिदर्भान्, पात्रासादनार्थमग्नेरुत्तरतः कांश्चिद्दर्भान् प्रागग्रानास्तीर्य, अग्नेरपराजितां दिशमारभ्य त्रिरम्भसा परिषिच्य, पात्रासादनं कुर्यात्, तत्रायं क्रमः।। 1. चरुस्थालीप्रौक्षण्यौ, दर्वीस्रुवौ, चमसमाज्यपात्रे, इध्माबर्हिषी चेति - सिद्धान्नहोमे 2. प्रौक्षणीस्रुवौ, चमसमाज्यपात्रे, इध्माबर्हिषी चेति - केवलाज्यहोमे (स्रुवशब्देन स्रुक्स्रुवौ गृह्येते) 3. उलूखलमुसले, कृष्णाजिनशूर्पे, चरुस्थालीप्रौक्षण्यौ, दर्वीस्रुवौ, चमसमाज्यपात्रे, इध्माबर्हिषी चेति - चरुकरणे प्रोक्षणीमुत्तानीं कृत्वा, स्थौल्येन च समे प्रादेशमात्रे पवित्रे कृत्वा, तत्पात्रोपरि निधाय, शुद्धाभिरद्भिः पूरयित्वा, अङ्गुष्ठानामिकाभ्यां ते पवित्रे उदगग्रे असंसृष्टे गृहीत्वा, प्राचीस्त्रिरुत्पूय, ते पवित्रे गृहीत्वा, तत्पात्रोपर्यन्ये निधाय, पात्राणि पवित्राभ्यां संस्पृश्य, इध्मं बर्हिश्च विस्रस्य, उत्तानेन हस्तेन सर्वाणि पात्राणि पवित्राभ्यां त्रिः प्रोक्ष्य प्रणीतापात्रमग्नेः प्रत्यङ्निधाय, तत्पवित्रे तत्र निधाय, उत्पूताभिरद्भिः पूरयित्वा, गन्धपुष्पाक्षतान्निधाय तत्र स्थितं यथोक्तलक्षणं ब्राह्मणम् - अस्मिन् प्रकृते कर्मणि .... ब्रह्माणं त्वां वृणे। (प्रतिवचनम्- ) वृतोस्मि, यथाज्ञानतः करिष्यामि - इत्युक्त्वा। आचम्य, अग्रेणाग्निं सव्यपादपुरस्सरं परीत्य, तत्र आसनार्थस्थितेष्वेकं दर्भम् अङ्गुष्ठानामिकाभ्यां गृहीत्वा • निरस्तः परावसुः। (इति नैरृत्यां निरस्य, अपस्सृष्ट्वा) • इदमहमर्वाग्वसोस्सदने सीदामि। (इति वामोरूपरि दक्षिणपादं संस्थाप्योपविश्य) • बृहस्पतिर्बह्मा- बह्मसदन आसिष्यते - बृहस्पते यज्ञं गोपाय - स यज्ञं पाहि - स यज्ञपतिं पाहि - स मां पाहि।। (इति जपित्वा, सर्वदा यज्ञामना एव वर्तेत) अथ कर्ता - ब्रह्मन्नपः प्रणेष्यामि। ब्रह्मा - (उपांशु) ओं भूर्भुवस्स्वः। बृहस्पतिप्रसूतः। (उच्चैः) ओं प्रणय। इत्युक्तः, नासिकान्तं तत्पात्रमुद्धृत्य, पूर्वस्थाने दर्भेष्वासाद्य, दर्भैः प्रच्छाद्य। ते पवित्रे चरुपात्रे निधाय। • चरुं गायत्र्या प्रोक्ष्य ततस्ते पवित्रे आज्यपात्रे निधाय, आज्यपात्रं स्वपुरतस्संस्थाप्य, आज्यमासिच्य, अग्नेरुत्तरतस्स्थितानङ्गारान् भस्मना सह, अग्नेः पश्चात्परिस्तरणाद्बहिर्निरूह्य, तेष्वाज्यपात्रं संस्थाप्य, ज्वलता दर्भोल्मुकमवज्वल्य, अङ्गुष्ठपर्वमात्रप्रक्षालितदर्भाग्रद्वयमाज्ये प्रत्यस्य, पुनस्तेनैव दर्भोल्मुकेन सिद्धचरुणा सह त्रिः पर्यग्नि कृत्वा, आज्यपात्रं भुवि कर्षन्निव उदगुद्वास्य, अङ्गारान् प्रत्यूह्य, तत्र स्थितमेवाज्यम् - सवितुष्ठ्वेति हिरण्यस्तूपस्सविता पुरउष्णिक् - आज्यस्योत्पवने विनियोगः। • सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः। इति सकृन्मन्त्रेण एकश्रुत्योच्चारितेन, द्विस्तूष्णीम् आज्यमुत्पूय, ते पवित्रे अद्भिः प्रोक्ष्य, अग्नौ प्रहरति। अग्नेः पश्चात् परिस्तरणाद्बहिः आत्मनोग्रे भुवं संप्रोक्ष्य, तत्र बर्हिस्सन्नहनीं उदगग्रां वितत्य, प्रागग्रमुदगग्रमविरलमास्तीर्य, आज्यस्थालीं तत्र निधाय, स्रुवादिसम्मार्जनं कुर्यात्। तत्र क्रमः- दक्षिणेन हस्तेन स्रुक्स्रुवौ गृहीत्वा, सव्येनाष्ट दर्भानादाय, सहैवाग्नौ प्रताप्य, स्रुचं निधाय। स्रुवस्य बिलं प्रागादि प्रागपवर्गं त्रिस्संमृज्य ततो दर्भाग्रैरभ्यात्मं बिलपृष्ठादाराभ्य, यावदुपरिष्टाद्बिलं तावत् त्रिस्संमृज्य ततो दर्भाणां मूलैः दण्डस्याधस्तादुपरिष्टात् त्रिसंमृज्य, प्रोक्ष्य- प्रताप्य- आज्यस्थाल्या उत्तरतः स्रुचास्पृष्टं निधाय, तैरेव दर्भैर्जुहूञ्च एवमेव त्रिस्संमृज्य, तान्दर्भानद्भिः प्रोक्ष्य, अग्नावनुप्रहरति।। अग्नेरलङ्कारः विश्वानि न इति मन्त्रत्रयस्य वसुश्रुतोग्निस्त्रिष्टुप् - अग्न्यर्चने विनियोगः। 1. विश्वानि नो दुर्गहा जातवेदः। (प्राच्याम्) 2. सिन्धुन्न नावा दुरिताति पर्‌षि। (आग्नेय्याम्) 3. अग्ने अत्रिवन्नमसा गृणानः। (दक्षिणस्याम्) 4. अस्माकं बोध्यविता तनूनाम्। (नैरृत्याम्) 5. यस्त्वा हृदा कीरिणा मन्यमानः। (प्रतीच्याम्) 6. अमर्त्यं मर्त्यो जोहवीमि। (वायव्याम्) 7. जातवेदो यशो अस्मासु धेहि। (उदीच्याम्) 8. प्रजाभिरग्ने अमृतत्वमश्याम्। (ऐशान्याम्) 9. यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवस्स्योनम्। अश्विनं स पुत्रिणँ वीरवन्तं गोमन्तं रयिन्नशते स्वस्ति।। (मध्ये) इति परिस्तरणाद्बहिः पुष्पाक्षतैरलङ्कृत्य, तत आत्मानं चालङ्कृत्य इध्माधानम् पाणिनेध्ममादाय, मूलमध्याग्रेष्विध्मं त्रिरभिघार्य, मूलमध्यमयोर्मध्यभागं गृहीत्वा, इध्ममलङ्कृत्य, स्वयमलङ्कृतो ब्रह्माणमलङ्कृत्य अयन्त इध्म इत्यस्य वामदेवो जातवेदा अग्निस्त्रिष्टुप् - इध्माधाने विनियोगः। • अयन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान्। प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा।। (अग्नये जातवेदस इदं न मम)। इध्माधानमुहूर्तस्सुमुहूर्तोस्तु। आघारौ • स्रुवेणाज्यं गृहीत्वा, अग्नेर्वायव्यकोणमारभ्य आग्नेयीपर्यन्तं मनसा प्रजापतय इति ध्यात्वा जुहोति। • पुनराज्यं गृहीत्वा, नैर्ऋतीमारभ्य ऐशानीपर्यन्तं मनसा प्रजापतय इति ध्यात्वा जुहोति। उभयत्र प्रजापतय इदं न मम। चक्षुषी • उत्तरपूर्वदेशे - अग्नये स्वाहा। (अग्नय इदं न मम) • दक्षिणे तत्समप्रदेशे - सोमाय स्वाहा। (सोमायेदं न मम) प्रधानाहुतयः • पक्वात्, सावित्र्या सर्वप्रायश्चित्तार्थं जुहुयात्। सावित्र्या विश्वामित्रस्सविता गायत्री। • यथोपदेशं प्रधानाहुतीः अन्वाधानसङ्कल्पमनतिक्रम्य जुहुयात्। स्विष्टकृत् यदस्येत्यस्य हिरण्यगर्भस्स्विष्टकृदतिधृतिः - अग्निस्स्विष्टकृद्धोमे विनियोगः। • यदस्य कर्मणोत्यरीरिचँ - यद्वा न्यूनमिहाकरम्। अग्निष्टत् स्विष्टकृद्विद्वान्त्सर्वं स्विष्टं सुहुतं करोतु मे। अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा। (अग्नये स्विष्टकृत इदं न मम) अनन्तरमग्नेरुत्तरतस्स्थिताम् इध्मबन्धररज्जुं विस्रस्य, प्रक्षाल्य, घृतेनाप्लाव्य, • पशुपतये रुद्राय स्वाहा। (रुद्राय पशुपतय इदं न मम)। प्रायश्चात्ताहुतयः अयाश्चाग्न इत्यस्य विमदोयाळग्निः पदपङ्क्तिः - प्रायश्चित्तार्थमाज्यहोमे विनियोगः • अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित् त्वमया असि । अयासा वयसा कृतोऽयासन् हव्यमूहिषेया नो धेहि भेषजं स्वाहा। (अयसेग्नय इदन्न मम) अतो देवा इति द्वयोः मेधातिथिर्विष्णुर्गायत्री - प्रायश्चित्तार्थमाज्यहोमे विनियोगः • अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्यास्सप्त धामभि.स्स्वाहा। (देवेभ्य इदन्न मम) • इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूळ्हमस्य पांसुरे स्वाहा।। (विष्णव इदन्न मम) • व्याहृतीनां व्यस्तानां विश्वामित्र- जमदग्नि- भरद्वाजाः ऋषयः, गायत्र्युष्णिगनुष्टुभश्छन्दांसि - अग्निवायुसूर्या देवता। समस्तव्याहृतेः प्रजापतिः- प्रजापतिर्-बृहती। प्रायश्चित्तार्थमाज्यहोमे विनियोगः • भूस्स्वाहा। (अग्नय इदन्न मम) • भुवस्स्वाहा। (वायव इदन्न मम) • स्व1(अ)स्स्वाहा।(सूर्यायेदन्न मम) • भूर्भुवस्स्व1(अ)स्स्वाहा। (प्रजापतय इदन्न मम) ब्रह्मणा कर्तव्यः प्रायश्चित्तहोमः ततो ब्रह्मा कर्तारं परीत्य, छन्दर्षिवर्जमयाश्चेति सप्ताज्याहुतीर्जुहोति। सर्वत्रोद्देशत्यागान् यजमान एव कुर्यात्। • अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित् त्वमया असि । अयासा वयसा कृतोऽयासन् हव्यमूहिषेया नो धेहि भेषजं स्वाहा। (अयसेग्नय इदन्न मम) • अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्यास्सप्त धामभि.स्स्वाहा। (देवेभ्य इदन्न मम) • इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूळ्हमस्य पांसुरे स्वाहा।। (विष्णव इदन्न मम) • भूस्स्वाहा। (अग्नय इदन्न मम) • भुवस्स्वाहा। (वायव इदन्न मम) • स्व1(अ)स्स्वाहा।(सूर्यायेदन्न मम) • भूर्भुवस्स्व1(अ)स्स्वाहा। (प्रजापतय इदन्न मम) अनाज्ञातादि होमाः अनाज्ञातमिति द्वयोः हिरण्यगर्भोग्निरनुष्टुप् - प्रायश्चित्तार्थमाज्यहोमे विनियोगः। • ओम् अनाज्ञातँ यदाज्ञातँ यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा। अग्नय इद न्न मम।। • ओम् पुरुषसम्मितो यज्ञो यज्ञ पुरुषसम्मितः। अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा। अग्नय इद न्न मम।। यत्पाकत्रेत्यस्य त्रितोग्नि.स्त्रिष्टुप् - न्यूनातिरिक्तपरिपूर्त्यर्थमाज्यहोमे विनियोगः। • ओम् यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अग्नि ष्टद्धोता क्रतुवि द्विजानन्यजिष्ठो देवा ऋतुशो यजाति स्वाहा। अग्नय इद न्न मम।। विपर्यासप्रायश्चित्तम् अस्मिन् प्रकृते कर्मणि मन्त्रविपर्यास - तन्त्रविपर्यास- द्रव्यविपर्यास- कालविपर्यास- स्वराक्षरपदलोपप्रायश्चित्तार्थं एकामाज्याहुतिं होष्यामि। • यद्वो देवा इत्यस्य अभितपामरुत्स्त्रिष्टुप् - आज्यहोमे विनिमियोगः। • यद्वो देवा श्चकृम जिह्वया गुरु- मनसो वा प्रयुती देवहेळनम्। अरावा यो नो अभि दुच्छुनायते- तस्मि न्तदेनो वसवो नि धेतन।। (मरुद्भ्यो देवेभ्य इदन्न मम) • सर्वप्रायश्चित्तार्थं - भूर्भुवस्स्व1(अ)स्स्वाहा। (प्रजापतय इदन्न मम) पूर्णाहुतिः ततो यजमानस्सर्वकर्मप्रपूरणीं भद्रद्रव्यदां पूर्णाहुतिं जुहुयात्। स्रुचमादाय, आज्येन समबिलं पूरयित्वा, तदुपरि स्रुवं न्यङ्मुखं कृत्वा, स्रुवाग्रे कुसुमाक्षतान् निधाय, स्रुक्स्रुवौ शङ्कमुद्रया गृहीत्वा, अग्नेर्वायव्यदेशे तिष्ठन्, स्रुवाग्रे न्यस्तलोचनः प्रसन्नात्मा सन्, यवमितपरिमितधारया सन्ततां पूर्णाहुतिं जुहोति। समुद्रादूर्मिरित्येकादशर्चस्य सूक्तस्य वामदेव आपो जगती, पूर्णाहुतिहोमे विनियोगः। 03.08.10 समुद्रा.दूर्मि. र्मधुमा उ.दार.-दुपांशुना स.ममृतत्व.मानट्। घृतस्य नाम गुह्यँ य.दस्ति- जिह्वा देवाना.ममृतस्य नाभिः।।  वयं नाम प्र ब्रवामा घृतस्या-स्मि.न्यज्ञे धारयामा नमोभिः। उप ब्रह्मा शृणव.च्छस्यमान.-ञ्चतुश्शृङ्गोवमी.द्गौरˆ एतत्।।  चत्वारि शृङ्गा त्रयो अस्य पादा- द्वे~ शीर्षे~ सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति- महो देवो मर्त्या आ विवेश।।  त्रिधा हितं पणिभि. र्गुह्यमान.-ङ्गवि देवासो घृत.म.न्वविन्दन्न्। इन्द्रˆ एकं सूर्यˆ एक.ञ्जजान- वेना.देकं स्वधया नि ¤ष्टतक्षुः।।  एताˆ अर्षन्ति हृद्या.त्समुद्रा.-च्छतव्रजाˆ रिपुणा नावचक्षे। घृतस्य धाराˆ अभि चाकशीमि- हिरण्ययो वेतसो मध्यˆ आसाम्।। 03.08.11 सम्य.क्स्रवन्ति सरितो न धेनाˆ- अन्त. र्हृदा मनसा पूयमानाः। एते अर्ष.न्त्यूर्मयो घृतस्य- मृगाˆइव क्षिपणो. रीषमाणाः।।  सिन्धोˆरिव प्राध्वने शूघनासो- वातप्रमिय पतयन्ति यह्वाः। घृतस्य धाराˆ अरुषो न वाजी- काष्ठाˆ भिन्द.न्नूर्मिभि पिन्वमानः।।  अभि प्रवन्त समनेव योषा- कल्याण्य1(अ). स्स्मयमानासो अग्निम्। घृतस्य धारा.स्समिधो नसन्त- ता जुषाणो हर्यति जातवेदाः।।  कन्याˆइव वहतु.मेतवा उ- अ.ञ्ज्यञ्जानाˆ अभि चाकशीमि। यत्र सोम.स्सूयते यत्र यज्ञो- घृतस्य धाराˆ अभि त.त्पवन्ते।।  अ.भ्यर्षत सुष्टुति.ङ्गव्य.माजि.-मस्मासु भद्रा द्रविणानि धत्त। इमँ यज्ञ.न्नयत देवता नो- घृतस्य धाराˆ मधुम.त्पवन्ते।।  धाम.न्ते विश्वं भुवन.मधि श्रित.-मन्त.’स्समुद्रे हृ.द्य1(अ)न्त. रायुषि। अपा.मनीके समिथे यˆ आभृत.-स्त.मश्याम मधुमन्त.न्त ऊर्मिम्।। (अद्भ्यो देवीभ्य इदं न मम) पूर्णाहुतिमुहूर्तस्सुमुहूर्तोस्तु। • विज्योतिषेत्यस्य जानोवृशोग्निस्त्रिष्टुप् - अवशिष्टहोमे विनियोगः। वि ज्योतिषा बृहता भा.त्यग्नि.-रावि. र्विश्वानि कृणुते महित्वा। प्रादेवी. र्माया.स्सहते दुरेवा.-श्शिशीते शृङ्गे~ रक्षसे विनिक्षे स्वाहा।। बृहता (अग्नय इदन्न मम) • अच्छा न इत्यस्य भरद्वाजोग्निरतिधृतिः - अवशिष्टहोमे विनियोगः।  अच्छा नो मित्रमहो देव देवा.-नग्ने वोच.स्सुमतिं रोदस्योः। वीहि स्वस्तिं सुक्षिति.न्दिवो नॄ.-न्द्विषो अंहांसि दुरिता तरेम- ता तरेम तवावसा तरेम स्वाहा।। (अग्नय इदन्न मम) • स्वाहाग्नय इत्यस्य वैश्वामित्रोग्निर्गायत्री - अवशिष्टहोमे विनियोगः। स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः। स्वाहा देवेभ्यो हविस्स्वाहा।। (अग्नय इदन्न मम) • स्रुक्स्रुवाभ्यां दक्षिणोत्तरगृहीताभ्यां विश्वेभ्यो देवेभ्य संस्रावभागेभ्यस्स्वाहा। (विश्वेभ्यो देवेभ्यस्संस्रावभागेभ्य इदन्न मम) चर्वाज्यपात्राद्युत्तरतो निधाय, अवभृथरूपं पापक्षयकरं पूर्णपात्रमार्जनं कुर्यात्। पूर्णमसीति मन्त्रेणाभिमन्त्र्य। पूर्णमसि पूर्णं मे भूयाः। सुपूर्णमसि सुपूर्णं मे भूयाः। सदसि सन्मे भूयाः। सर्वमसि सर्वं मे भूयाः। अक्षितिरसि मा मे क्षेष्ठाः। • आपो अस्मानिति देवश्रवा आपस्त्रिष्टुप्।इदमाप इत्यस्य सिन्धुद्वीप आपोनुष्टुप्। मार्जने विनियोगः। • आपो अस्मा न्मातर श्शुन्धयन्तु- घृतेन नो घृतप्व पुनन्तु। विश्वं हि रिप्रं प्रवहन्ति देवी- रुदिदाभ्य श्शुचिरा पूत एमि।। • इद माप प्र वहत- यत्किञ्च दुरितं मयि। यद्वाह मभिदुद्रोह- यद्वा शेप उतानृतम्।। • प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्। • दक्षिणस्यां दिशि मासाः पितरो मार्जयन्ताम्। • प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम्। • उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम्। • ऊर्ध्वायां दिशि यज्ञस्सँवत्सर प्रजापतिर्मार्जयताम्। • शान्तिरस्तु, तुष्टिरस्तु, पुष्टिरस्तु। • सुमित्र्या न आप ओषधयस्सन्तु। (अथ निर्ऋतिदेशे जलेन सिञ्चेत्)। • दुर्मित्रास्तस्मै भूयासुर्योस्मान्द्वेष्टि तं हन्मि। (अपस्सृष्ट्वा) • अथास्या उत्तानमञ्जलिमधस्ताद्योक्त्रस्य निधायात्मनश्च सव्यं पूर्णपात्रं निनयन्, वाचयेत्। पत्न्यभावे यजमानस्स्ववामपाणावेवं कुर्यात्। • माहं प्रजां परासिचँ या नस्सयावरीस्स्थन। समुद्रे वो निनयानि स्वं पाथो अपीथ। • अग्ने त्वन्न इति चतसृणां बन्धुस्सुबन्धुश्श्रुतबन्धुर्विप्रबन्धुश्च ऋषयः, द्विपदाविरळग्निः। अग्न्युपस्थाने विनियोगः। • अग्ने त्व.न्नो अन्तमˆ उत त्राता- शिवो भवा वरूथ्यः।। •  वसु. रग्नि. र्वसुश्रवाˆ- अच्छा नक्षि द्युमत्तमं रयि.न्दाः।। •  सˆ नो बोधि श्रुधी हव.-मुरुष्या णो अघायत.स्समस्मात्।। •  त.न्त्वा शोचिष्ठ दीदिव.-स्सुम्नाय नून.मीमहे सखिभ्यः।। • ओञ्च म इत्यस्य हिरण्यगर्भस्सारस्वतोग्निस्त्रिष्टुप्। अग्निप्रार्थने विनियोगः। ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्च । यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः। • स्वस्ति श्रद्धां मेधाम्... ततः कर्ता परिस्तरणानामुत्तरतो विसर्जनं कृत्वा, पर्युक्षणपरिसमूहने कृत्वा, हुतशिष्टमाज्यं निवेद्य, ब्रह्मादिभ्यो यथोक्तदक्षिणा दत्त्वा, दक्षिणाभावे हुतशिष्टमाज्यादिकं दक्षिणात्वेन दत्त्वा, • अग्ने नयेत्यष्टर्चस्यसूक्तस्य, अगस्त्योग्निस्रिष्टुप् - प्रदक्षिणनमस्कारे विनियोगः। • अग्ने नय सुपथा राये अस्मा.-न्विश्वानि देव वयुनानि विद्वान्। युयोध्य1(अ)स्म. ज्जुहुराण.मेनो- भूयिष्ठा.न्ते नमˆउक्तिँ विधेम।। •  अग्ने त्वं पारया नव्यो अस्मा.-न्त्स्वस्तिभि.रति दुर्गाणि विश्वा। पू.श्च पृथ्वी बहुला नˆ उर्वी- भवा तोकाय तनयाय शँ योः।। •  अग्ने त्व.मस्म.द्युयो.ध्यमीवाˆ- अनग्नित्राˆ अभ्यमन्त कृष्टीः। पुन. रस्मभ्यं सुविताय देव- क्षाँ विश्वेभि. रमृतेभि. र्यजत्र।। •  पाहि नो अग्ने पायुभि. रजस्रै.-रुत प्रिये सदन आ शुशुक्वान्। मा ते भय.ञ्जरितारँ यविष्ठ- नूनँ विद.न्मापरं सहस्वः।। •  मा नो अग्नेव सृजो अघाया-विष्यवे रिपवे दुच्छुनायै। मा दत्वते दशते मादते नो- मा रीषते सहसाव.न्परा दाः।। • 02.05.11 वि घ त्वावा ऋतजात यंस.-द्गृणानो अग्ने तन्वे3(ए) वरूथम्। विश्वा.द्रिरिक्षो. रुत वा निनित्सो.-रभिह्रुता.मसि हि देव विष्पट्।। •  त्व.न्ता अग्न उभया. न्वि विद्वा.-न्वेषि प्रपित्वे मनुषो यजत्र। अभिपित्वे मनवे शास्यो भू.-र्मर्मृजेन्यˆ उशिग्भि. र्नाक्रः।। •  अवोचाम निवचना.न्यस्मि-न्मानस्य सूनु. स्सहसाने अग्नौ। वयं सहस्र.मृषिभि.स्सनेम- विद्या.मेषँ वृजन.ञ्जीरदानुम्।। •  बोधा मे अस्य वचसो यविष्ठ- मंहिष्ठस्य प्रभृतस्य स्वधावः। पीयति त्वो अनु त्वो गृणाति- वन्दारु.स्ते तन्वँ वन्दे अग्ने।। • ॐ नमस्ते गार्‌हपत्याय नमस्ते दक्षिणाग्नये। नम आहवनीयाय महावेद्यै नमो नमः।। • ॐ काण्डद्वयोपपाद्याय कर्म ब्रह्म स्वरूपिणे। स्वर्गापवर्ग रूपाय यज्ञेशाय नमो नमः।। • ॐ यज्ञेशाच्युत गोविन्द माधवानन्त केशव। कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तुते।। • अनेन मया कृतेन होमेन भगवान् सर्वात्मकः यज्ञेश्वरस्सुप्रीणातु। एतत् फलं श्रीपरमेश्वरार्पणमस्तु। • तद्विष्णोरिति मन्त्रद्वयस्य मेधातिथिर्विष्णुर्गायत्री। यज्ञपरिपूर्त्यर्थं विष्णुस्मरणे विनियोगः। •  त.द्विष्णो परमं पदं- सदा पश्यन्ति सूरयः। दिवीव चक्षु. राततम्।। •  त.द्विप्रासो विपन्यवो- जागृवांस. स्समिन्धते। विष्णो. र्यत्परमं पदम्।। • मानस्तोक इति कुत्सो रुद्रो जगती - भस्मादाने विनियोगः। •  मा न.स्तोके तनये मा नˆ आयौ- मा नो गोषु मा नो अश्वेषु रीरिषः। वीरा.न्मा नो रुद्र भामितो वधी.-र्हविष्मन्त.स्सद.मि. त्त्वा हवामहे।। • बृहत्सामेत्यस्य नकुलइन्द्रस्त्रिष्टुप् - भस्मधारणे विनियोगः। • बृहत्साम क्षत्रभृद्वृद्धवृष्णियं त्रिष्टुभौजश्शुभितमुग्रवीरम्। इन्द्र स्तोमेन पञ्चदशेन मध्यमिदँ वातेन सगरेण रक्ष।। ... समाप्तः अग्निमुख प्रयोगः ==00==