जैमिनीय न्यायमाला विस्तरः - विषयसूचिका पञ्चमो भागः (1,12 अध्यायौ) अन्तिमभागः
Part 5
एकादशाध्यायः
तन्त्रस्योपोद्घातो वर्णितः। 579
प्रथमे- आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणे सूत्राणि 1-4 579
द्वितीये- अङ्गानामैककार्याधिकरणे सूत्राणि 5- 10 580
तृतीये- दर्शपूर्णमासादिकाम्यकर्मणां सर्वाङ्गोपसंहाराधिकरणे सूत्राणि 11-19 581
चतुर्थे- काम्यकर्मणां भूयोऽभ्यासाधिकरणे सूत्राणि 20-26 582
पञ्चमे- अवघातादीनामातण्डुलनिर्वृत्तेरभ्यासाधिकरणे सूत्रम् 582
षष्ठे- अदृष्टफलस्यावघातादेः सकृदनुष्ठानाधिकरणे सूत्रम् 582
सप्तमे- प्रयाजादीनामङ्गानां सकृदनुष्ठानाधिकरणे सूत्राणि 29-37 583
अष्टमे- बहुवचनस्य त्रित्वपरत्वे कपिञ्जलाधिकरणे सूत्राणि 38-45 584
नवमे- 'उत्तरा दोहयति' इत्यत्र सर्वासां गवां दोहनाधिकरणे सूत्राणि 46-52 584
दशमे- आग्नेयादीनां प्रधानानां भेदेऽप्याघारादीनामङ्गानां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 53-66 586
एकादशे- कृष्णग्रीवयोः प्रथमतृतीययोर्भेदेन प्रदानाधिकरणे स्रत्राणि 67-70 587
तन्त्रावापौ संक्षेपेणोक्तौ। 587
प्रथमे- आग्नेयादीनां प्रधानानां तन्त्राधिकरणे सूत्रे 1-2 587
द्वितीये- अङ्गानामपि समदेशादिनियमाधिकरणे सूत्राणि 3-10 588
तृतीये- दर्शपूर्णमासेष्टिप्रभृतिषु संघभेदेनाङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 11-17 589
चतुर्थे- अध्वरकल्पायां त्रिषु संघेष्वङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 18-22 590
पञ्चमे- प्राजापत्यवसाहोमानां तन्त्रेणानुष्ठानाधिकरणे सूत्रम् 590
षष्ठे- ऐकादशिनगतवसाहोमस्य भेदेनानुष्ठानाधिकरणे सूत्रम् 591
सप्तमे- यूपैकादशिन्यां तन्त्रेण यूपाहुत्यनुष्ठानाधिकरणे सूत्राणि 25-27 591
अष्टमे- साङ्गस्यावभृथस्याप्स्वनुष्ठानाधिकरणे सूत्राणि 28-31 591
नवमे- वरुणप्रघासेष्वाग्नेयादीनां मारुत्या भेदेनानुष्ठानाधिकरणे सूत्राणि 33-41 592
दशमे- उत्तरदक्षिणविहारयोः कर्त्रभेदाधिकरणे सूत्राणि 42-46 593
एकादशे- उत्तरदक्षिणविहारयोः पत्नीसंयाजादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 47-48)। 593
द्वादशे- वाजपेये प्राजापत्यपश्वालम्भशेषस्य ब्रह्मसामकाल उत्कर्षाधिकरणे सूत्राणि 49-51 594
त्रयोदशे- अहीन उक्ष्णामुत्सर्गस्य कर्मशेषप्रतिषेधार्थताधिकरणे सूत्राणि 52-54 594
चतुर्दशे- दशपेयाभिषेचनीययोर्भेदेन प्रयोगाधिकरणे सूत्राणि 55-60 595
पञ्चदशे- वारुणीनिष्कासावभृथस्यार्थकर्मताधिकरणे सूत्राणि 61-63 596
षोडशे- प्रायणीयनिष्कास उदयनीयनिर्वापस्य संस्कारकर्मताधिकरणे सूत्राणि 64-66 597
एकादशाध्यायस्य तृतीयः पादः 597
तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्। 597
प्रथमे- वेद्याद्यङ्गानां प्रधानकालान्यकालकर्तव्यताधिकरणे सूत्रम् 597
द्वितीये- आधानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् । 598
तृतीये- अग्नीषोमीयादिषु यूपस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रे 3-4 598
चतुर्थे- यूपसंस्काराणां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 5-7 599
पञ्चमे- स्वरोस्तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 8-12 599
षष्ठे- अहर्गणे कृष्णविषाणाप्रासनस्यान्त्याहर्नियमाधिकरणे सूत्रे 13-14 600
सप्तमे- राजसूये नानाबीजेषु वाग्विसर्गस्य चरमकालनियमाधिकरणे सूत्रम् 600
अष्टमे- अग्नीषोमीये पौरोडाशिककाल एव वाग्विसर्गाधिकरणे सूत्रम् 601
नवमे- अग्निचयनेऽग्निविमोकस्य मतभेदे व्यवस्थाधिकरणे सूत्राणि 17-20 601
दशमे- उपसत्कालस्य सुब्रह्मण्याह्वानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् 602
एकादशे- सुत्याकालीनसुब्रह्मण्याह्वानस्य भेदेनानुष्ठानाधिकरणे सूत्राणि 22-32 602
द्वादशे- देशपात्रर्त्विजामन्यप्रयोगे पूर्वदेशाद्यादानस्यैच्छिकताधिकरणे सूत्रम् 603
त्रयोदशे- पात्राणां तन्त्रस्य नियमाधिकरणे सूत्राणि 34-42 604
चतुर्दशे- पात्राणामाधानमारभ्य धारणनियमाधिकरणे सूत्राणि 43-45 605
पञ्चदशे- सर्वसोमानामुपरिष्टात्प्राजापत्यप्रचाराधिकरणे सूत्राणि 46-52 605
षोडशे- सवनीयपुरोडाशे देवतोत्कर्षाधिकरणे सूत्रे 53-54 606
एकादशाध्यायस्य चतुर्थः पादः 607
तथैवावापः प्रपञ्चितः। 607
प्रथमे राजसूये सौमापौष्णादिकेऽङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 1-3 607
द्वितीये- राजसूये कर्तुस्तन्त्रताधिकरणे सूत्राणि 4-8 607
तृतीये- अवेष्टावङ्गानां भेदाधिकरणे सूत्राणि 9-11 608
चतुर्थे- पवमानेष्टिहविषां भेदेनानुष्ठानाधिकरणे सूत्राणि 12-15 609
पञ्चमे- द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहताधिकरणे सूत्राणि 16-23 609
षष्ठे- प्रधानैरपृथक्कालानामङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 24-27 610
सप्तमे- उपसत्काले सुब्रह्मण्याह्वानस्याविकारेण कर्तव्यताधिकरणे सूत्रे 28-29 611
अष्टमे- वाजपेये प्राजापत्येषु कुम्भ्यादीनां तन्त्रताधिकरणे सूत्रम् 611
नवमे- भिन्नदेवताकेष्वपि शूलादीनां तन्त्रताधिकरणे सूत्रे 31-32 612
दशमे- वसाकुम्भ्याऽपि तन्त्रताधिकरणे सूत्राणि 33-36 612
एकादशे- भिन्नजातिषु कुम्भ्यादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 37-38 612
द्वादशे- अश्वप्रतिग्रहेष्टौ प्रतिपुरोडाशं कपालभेदाधिकरणे सूत्राणि 39-41 613
त्रयोदशे- व्रीह्यवहननादौ प्रतिप्रहारं मन्त्रस्यानावृत्त्यधिकरणे सूत्रे 42-43 613
चतुर्दशे- नानाबीजेष्टौ प्रतिप्रहारं मन्त्रावृत्त्यधिकरणे सूत्रम् 614
पञ्चदशे- प्रतिनिर्वापादिमन्त्रावृत्त्यधिकरणे सूत्रे 45-46 614
षोडशे- वेदिप्रोक्षणे प्रत्यावृत्तिमन्त्रानावृत्त्यधिकरणे सूत्रे 47-48 614
सप्तदशे- कण्डूयनमन्त्रस्यानावृत्त्यधिकरणे सूत्रे 49-50 615
अष्टादशे- स्वप्नादिमन्त्रानावृत्त्यधिकरणे सूत्रम् 615
एकोनविंशे- दीक्षितस्य प्रयाणे मन्त्रानावृत्त्यधिकरणे- सूत्रम् 616
विंशे- उपरवमन्त्रस्यावृत्त्यधिकरणे सूत्रे 53-54 616
एकविंशे-हविष्कृदादिमन्त्राणामावृत्त्यधिकरणे सूत्राणि 55-57 616
पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः। 617
प्रथमे- अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणे सूत्राणि 1-6 618
द्वितीये- पुरोडाशे, आज्यभागयोः कर्तव्यताधिकरणे सूत्रम् 618
तृतीये- सोमे दार्शिकवेद्यकरणाधिकरणे सूत्रे 8-9 619
चतुर्थे- सौम्यचर्वादिहोमस्यैष्टिकपात्रैरनुष्ठानाधिकरणे सूत्रे 10-11 619
पञ्चमे- शामित्रे पशुपुरोडाशश्रपणाभावाधिकरणे सूत्रम् 619
षष्ठे- कौण्डपायिनामयनेऽग्निहोत्रद्रव्यस्य प्राजहिते श्रपणाधिकरणे सूत्रम् 620
सप्तमे-हविर्धानशकटान्यशकटेनौषधद्रव्यकपुरोडाशनिर्वापाधिकरणे सूत्राणि 14-16 620
अष्टमे- प्रायणीयादिषु दीक्षाजागरणस्याभावाधिकरणे सूत्रम् 621
नवमे- विहारभेदेन मन्त्रभेदाधिकरणे सूत्रम् 621
दशमे- दीक्षणीयादिष्वग्न्यन्वाधानस्याभावाधिकरणे सूत्रम् 621
एकादशे- दीक्षणीयादिषु व्रतोपायनाभावाधिकरणे सूत्राणि 20-23 622
द्वादशे- ऐष्टिकेष्वग्न्यन्वाधानाननुष्ठानाधिकरणे सूत्राणि 24-28 622
त्रयोदशे- ऐष्टिकेषु पत्नीसंनहनाननुष्ठानाधिकरणे सूत्रम् 623
चतुर्दशे- ऐष्टिकेष्वारण्यभोजनाभावाधिकरणे सूत्रम् 623
पञ्चदशे- ऐष्टिकेषु शेषभक्षानुष्ठानाधिकरणे सूत्रम् 623
षोडशे- ऐष्टिकेष्वन्वाहार्यदानाभावाधिकरणे सूत्रम् 650
सप्तदशे- ऐष्टिकेषु शेषभक्षस्य संस्कारार्थतया कर्तव्यत्वाधिकरणे सूत्रे 33-34 624
अष्टादशे- ऐष्टिकेषु होतुर्वरणसद्भावाधिकरणे सूत्राणि 35-41 624
एकोनविंशे- आतिथ्यायां बर्हिषः प्रतिकर्म प्रोक्षणाभावाधिकरणे सूत्रे 42-43 651
विंशे- आतिथ्यायां स्तरणमन्त्रावृत्त्यधिकरणे सूत्रम् 625
एकविंशे- बर्हिषो देशान्तरनयने संनहनहरणमन्त्रयोरप्रयोगाधिकरणे सूत्रे 45-46 652
द्वादशाध्यायस्य द्वितीयः पादः 653
सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः। 653
प्रथमे- विहाराग्नेर्वैदिककर्ममात्रार्थताधिकरणे सूत्राणि 1-7 653
द्वितीये- सवनीयपशौ पशुपुरोडाशस्य कर्तव्यताधिकरणे सूत्राणि 8-10 653
तृतीये- सवनीयपुरोडाशे हविष्कृदाह्वानस्याभावाधिकरणे सूत्रम् 654
चतुर्थे- तृतीयसवने हविष्कृदाह्वानस्यापुनरावृत्त्यधिकरणे सूत्रे 12-13 654
पञ्चमे- निशि यज्ञेऽमावास्यातन्त्रप्रयोगाधिकरणे सूत्राणि 14-18 655
षष्ठे- विकृतिष्वप्यारम्भणीयानुष्ठानाधिकरणे सूत्राणि 19-21 655
सप्तमे- प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठानाधिकरणे सूत्रम् 629
अष्टमे- तुल्यसंख्याकानां धर्मविरोधे प्रथमस्यैव धर्मानुष्ठानाधिकरणे सूत्रे 23-24 630
नवमे- अङ्गगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणे सूत्रम् 630
दशमे- परिधौ परिधियूपोभयधर्मानुष्ठानाधिकरणे सूत्रम् 630
एकादशे- परिधौ विरोधियूपधर्माननुष्ठानाधिकरणे सूत्राणि 27-29 631
द्वादशे- सवनीयपुरोडाशयोः पशोरेव तन्त्रिताधिकरणे सूत्राणि 30-32 631
त्रयोदशे- समानतन्त्रप्रकृतिविकृत्योर्विकृतितन्त्रानुष्ठानाधिकरणे सूत्रम् 632
चतुर्दशे- आग्रयणे प्रसूनबर्हिषामेव ग्रहणाधिकरणे सूत्रम् 632
पञ्चदशे- द्यावापृथिव्यादीनां सर्वेषामेव तन्त्रित्वाधिकरणे सूत्राणि 35-37 633
द्वादशाध्यायस्य तृतीयः पादः 661
त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्। 661
प्रथमे- अष्टरात्रे वत्सत्वगहतवाससोः समुच्चयाधिकरणे सूत्रे 1-2 661
द्वितीये- अनुनिर्वाप्यपुरोडाशानां पुरोडाशस्यैव तन्त्रित्वाधिकरणे सूत्राणि 3-8 661
तृतीये- भिन्नोपकारकाणां गुणानां समुच्चयाधिकरणे सूत्रम् 662
चतुर्थे- प्रयोजनैक्ये गुणानां विकल्पाधिकरणे सूत्राणि 10-15 662
पञ्चमे- वैगुण्यसमाधानार्थानां प्रायश्चित्तानां विकल्पाधिकरणे सूत्रम् 636
षष्ठे- नैमित्तिकप्रायश्चित्तानां समुच्चयाधिकरणे सूत्रम् 636
सप्तमे- कर्मकालेऽनध्यायेऽपि मन्त्राणां प्रयोगाधिकरणे सूत्रे 18-19 637
अष्टमे- कर्मणि प्रावचनस्वरेणैव मन्त्रोच्चारणाधिकरणे सूत्राणि 20-22 637
नवमे- ब्राह्मणोत्पन्नमन्त्रस्य भाषिकस्वरेणैवोच्चारणाधिकरणे सूत्रे 23-24 638
दशमे-मन्त्राणां पाठानन्तरमेव पदार्थानुष्ठानाधिकरणे सूत्रम् 638
एकादशे- वसोर्धारायां मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रे 26-27 638
द्वादशे- आघारेऽपि मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रम् 639
त्रयोदशे- एककार्यमन्त्राणां विकल्पाधिकरणे सूत्रम् 639
चतुर्दशे- संख्याविहितमन्त्राणां समुच्चयाधिकरणे सूत्रम् 640
पञ्चदशे- ब्राह्मणविहितमन्त्राणां विकल्पाधिकरणे सूत्राणि 31-35 640
षोडशे- हौत्राणां मन्त्राणां समुच्चयाधिकरणे सूत्राणि 36-38 641
द्वादशाध्यायस्य चतुर्थः पादः 669
ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्। 669
प्रथमे- जपस्तुत्याशीरभिधानानां समुच्चयाधिकरणे सूत्रे 1-2 669
द्वितीये- बार्हस्पत्ये द्विविधयाज्यानुवाक्ययोर्विकल्पाधिकरणे सूत्रे 3-4 669
तृतीये- सोमक्रयसाधनानामजादीनां समुच्चयाधिकरणे सूत्राणि 5-7 670
चतुर्थे- उपयजनादिप्रतिपत्तिकर्मणां समुच्चयाधिकरणे सूत्रम् 670
पञ्चमे-आधाने विविधसंख्याकानां दक्षिणानां विकल्पाधिकरणे सूत्रम् 670
षष्ठे- पशुगणेषु जाघनीनां विकल्पाधिकरणे सूत्राणि 10-16 644
सप्तमे- उखायां काम्येन नित्याग्नेर्विकाराधिकरणे सूत्राणि 17-25 672
अष्टमे-वैकारिकाग्नेराहवनीयत्वाभावाधिकरणे सूत्रे 26-28 672
नवमे- वैकारिकाग्नेराधानिकसंस्काराभावाधिकरणे सूत्रे- 28-29 646
दशमे- नित्यस्योख्यस्याग्नेरधारणाधिकरणे सूत्रे 30-31 646
एकादशे-- शुक्रस्पर्शादीनामेककर्तृकत्वाधिकरणे सूत्रम् 674
द्वादशे- अहीने शुक्रस्पर्शादौ यस्य कस्यचिद्यजमानस्य कर्तृत्वाधिकरणे सूत्रम् 647
त्रयोदशे- सत्रे शुक्रस्पर्शादौ गृहपतेरेव कर्तृत्वाधिकरणे सूत्रम् 647
चतुर्दशे- सत्रेऽञ्जनादिसंस्काराणां सर्वगामित्वाधिकरणे सूत्राणि 35-38 675
पञ्चदशे याजमानार्त्विज्ययोरार्त्विज्यस्यैव बलवत्त्वाधिकरणे सूत्राणि 39-41 648
षोडशे- ब्राह्मणस्यैवार्त्विज्याधिकरणे सूत्राणि 42-47 676
-----
अथैकादशाध्यायस्य प्रथमः पादः
तन्त्रस्योपोद्घातो वर्णितः।
बाधाबाधविचारेण प्रयोज्ये निश्चिते सति। प्रयोगस्य विचारोऽथ तन्त्ररूपो विचार्यते।। 1।।
अनेन दशमैकादशयोरध्याययोः पूर्वोत्तरभाव उपपादितः।। 1।।
प्रथमे- आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणे सूत्राणि 1-4
प्रयोजनाभिसंबन्धात्पृथक्सतां ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात्।। 1।।
शेषवद्वा प्रयोजनं प्रतिकर्म विभज्येत।। 2।।
अविधानात्तु नैवं स्यात्।। 3।।
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात्।। 4।।
एकादशाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-
षड्यागानां फलं स्वर्गः प्रत्येकं तन्त्रतोऽथवा। आद्यः पृथक्फलार्थित्वान्न संघस्य फलोक्तितः।। 2।।
''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति श्रुतं फलमाग्नेयादिभिः षड्भिर्यागैः प्रत्येकमभिसंबध्यते। कुतः- पृथगुत्पन्नतया परस्परनिरपेक्षाणां पृथगेव फलस्याकाङ्क्षितत्वात्। इति चेत्-
न। तत्समूहवाचिना दर्शपूर्णमासशब्देन व्यवहृत्य संघस्यैव फलसंबन्धनात्। तस्मात्- स्वर्गस्तेषां फलं तन्त्रेण। तन्यते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन, तदिदं तन्त्रम्। तद्यथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपस्तेषामुपकरोति, न त्वनुलेपनभोजनादिवत्प्रतिपुरुषमावृत्तिलक्षणमावापमपेक्षते। एवं स्वर्गस्तन्त्रेण फलम्।। 2।।
द्वितीये- अङ्गानामैककार्याधिकरणे सूत्राणि 5- 10
अङ्गानां तु शब्दभेदात्क्रतुवत्स्यात्फलान्यत्वम्।। 5।।
अर्थभेदस्तु तत्राथेहैकार्थ्यादैककर्म्यम्।। 6।।
शब्दभेदान्नेति चेत्।। 7।।
कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात्।। 8।।
कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु।। 9।।
आरम्भः शब्दपूर्वत्वात्।। 10।।
द्वितीयाधिकरणमारचयति-
कार्यभेदो न वाऽङ्गानां सौर्यचित्रादिवद्भिदा। करणैक्यात्तदेकत्वं द्वारभेदो बहुत्वतः।। 3।।
यानि प्रयाजाज्यभागाद्यङ्गानि, तेषां सर्वेषां करणं प्रत्युपकारभेदः स्यात्। कुतः- कार्यभेददर्शनात्। यथा- ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' ''चित्रया यजेत पशुकामः'' इत्यादिषु परस्परनैरपेक्ष्येण विहितानां सौर्यादीनां ब्रह्मवर्चसादिकार्यभेदः, तथा प्रयाजाज्यभागादीनां परस्परनिरपेक्षाणां करणोपकारा भिद्यन्ते। न च- अत्र पूर्वन्यायेन संघोपकारगमकं किंचिदस्ति। इति प्राप्ते-
ब्रूमः- करणाकाङ्क्षानुसारेण ह्यङ्गोपकारः कल्प्यः। करणं च स्वयमेकं सत्स्वशक्त्युद्बोधनलक्षण-मेकमेवोपकारमङ्गकृतमपेक्षते। अङ्गबहुत्वं तु द्वारकार्यभेदेनोपपद्यते। यथा तण्डुलकाष्ठस्थाल्यादीनां कारकाणां द्वारभेद एवौदननिष्पादनलक्षणं प्रधानकार्यमेकमेव। तद्वदत्र द्वारभेदेऽप्युपकार एक एव।। 3।।
तृतीये- दर्शपूर्णमासादिकाम्यकर्मणां सर्वाङ्गोपसंहाराधिकरणे सूत्राणि 11-19
एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत्स्यात्।। 11।।
फलाभावान्नेति चेत्।। 12।।
न कर्मसंयोगात्प्रयोजनमशब्ददोषं स्यात्।। 13।।
ऐकशब्द्यादिति चेत्।। 14।।
नार्थपृथक्त्वात्समत्वादगुणत्वम्।। 15।।
विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यवच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दार्थो निवीतवत्स्यात्सर्वप्रयोगे प्रवृत्तिः स्यात्।। 16।।
तथा कर्मोपदेशः स्यात्।। 17।।
क्रत्वन्तरेषु पुनर्वचनम्।। 18।।
उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्स्वदोहे यथाकामी प्रतीयेत।। 19।।
तृतीयाधिकरणमारचयति-
उपकारः स एकेन कैश्चिद्वा निखिलैरुत। आकाङ्क्षापूरणादाद्यः फलाधिक्याय मध्यमः।। 4।।
कपोतवद्यौगपद्ये त्यागहेतोरभावतः। संभूयकरणाकाङ्क्षां पूरयन्त्युपकारतः।। 5।।
योऽयं करणं प्रत्येक उपकारः पूर्वत्र निर्णीतः, स एकेनाङ्गेन सिध्यति। कारणस्याङ्गाकाङ्क्षायास्तावता पूरितत्वात्। यथा ग्रामगतैः सर्वैः कर्तव्यं करदानमेक एव राजकुलसमागतः करोति, कराकाङ्क्षा च तावता राज्ञो निवर्तते। तथाऽत्रापि द्रष्टव्यम्। यदि 'एतदङ्गमनुष्ठेयम्' इति विशेषनियामकं न स्यात्, तर्हि विकल्पोऽस्तु। इत्याद्यः पक्षः। यथा यावन्ति काम्यकर्माणि सौर्यचित्रादीन्यनुतिष्ठति तावत्फलं प्राप्नोति, तथा- अङ्गभूयस्त्वेन फलभूयस्त्वसंभवादिच्छया कानिचिदङ्गान्यनुष्ठेयानि। तैश्चातिशयवानेकः करणोपकारो जायते। इति मध्यमः पक्षः।
यथा जिघत्सया खले बीजभक्षणाय कपोतपङ्क्तिर्युगपत्पतति, तथा करणाकाङ्क्षां पूरयितुं सामर्थानि सर्वाण्यङ्गान्येकप्रयोगवचनपरिगृहीततया युगपत्प्राप्तानि तेषु केषांचित्परित्यागे हेतुर्नास्ति। तस्मात्- सर्वाण्यङ्गानि संभूयैकस्योपकारजननेन करणाकाङ्क्षां पूरयन्ति। इति सिद्धान्तः।
वार्तिककारस्तु पूर्वाधिकरणस्य वैयर्थ्यं मन्यमानोऽस्मिन्नेवाधिकरणेऽन्तर्भावयामास।
चतुर्थे- काम्यकर्मणां भूयोऽभ्यासाधिकरणे सूत्राणि 20-26
कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारम्भं फलानि स्युः।। 20।।
अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः।। 21।।
सकृत्तु स्यात्कृतार्थत्वादङ्गवत्।। 22।।
शब्दार्थश्च तथा लोके।। 23।।
अपि वा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद्विधिषु वचनानि स्युः।। 24।।
ऐकशब्द्यात्तथाऽङ्गेषु।। 25।।
लोके कर्मार्थलक्षणम्।। 26।।
चतुर्थाधिकरणमारचयति-
काम्यकर्मप्रयोगः किं सकृदेवासकृच्च वा। फलसिद्धेरादिमोऽन्त्यो भूयः स्वेच्छानुसारतः।। 6।।
चित्रादिकाम्यकर्म सकृदेव प्रयोक्तव्यम्। तावतैव पश्वादिफलसिद्धेः। यथा प्रयाजाद्यङ्गं सकृदेवानुष्ठीयते, तद्वत्। इति प्राप्ते-
ब्रूमः- विषमो दृष्टान्तः। करणस्याङ्गेषु सकृदेवाकाङ्क्षा। इह तु पुरुषः स्वर्गपश्वादीन्भूयो भूयः कामयते। ततस्तदनुसारेण प्रयोगावृत्तिः।। 6।।
पञ्चमे- अवघातादीनामातण्डुलनिर्वृत्तेरभ्यासाधिकरणे सूत्रम्
क्रियाणामर्थशेषत्वात्प्रत्यक्षोऽतस्तन्निवृत्त्याऽपवर्गः स्यात्।। 27।।
पञ्चमाधिकरणमारचयति-
अवघातः सकृन्नो वा सकृत्स्याद्विधिसिद्धितः। दृष्टा तण्डुलनिष्पत्तिस्तदन्तोऽभ्यस्यतामयम्।। 7।।
''व्रीहीनवहन्ति'' इत्यत्र सकृन्मुसलपातमात्रेण विधिप्रयुक्तस्यापूर्वस्य सिद्धेर्नास्त्यत्रावृतिः। इति चेत्-
न। तण्डुलनिष्पत्तेर्दृष्टप्रयोजनत्वेन तत्पर्यन्तस्याभ्यासस्याश्रुतस्यापि कल्पनयित्वात्। एवं तण्डुलपेषणादावपि द्रष्टव्यम्।। 7।।
षष्ठे- अदृष्टफलस्यावघातादेः सकृदनुष्ठानाधिकरणे सूत्रम्
धर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात्।। 28।।
षष्ठाधिकरणमारचयति-
सर्वौषधावघातः किमावर्त्यः सकृदेव वा। आवर्त्यः पूर्ववन्मैवं दृष्टार्थस्यात्र वर्जनात्।। 8।।
अग्निप्रकरणे श्रूयते ''औदुम्बरमुलूखलं सर्वौषधस्य पूरयित्वाऽवहन्ति, अथैतदुपदधाति'' इति। अत्रादृष्टमात्रस्य प्रयोजनत्वात्सकृदेवावघातः।। 8।।
सप्तमे- प्रयाजादीनामङ्गानां सकृदनुष्ठानाधिकरणे सूत्राणि 29-37
क्रतुवद्वाऽनुमानेनाभ्यासे फलभूमा स्यात्।। 29।।
सकृद्वा कारणैकत्वात्।। 30।।
परिमाणं चानियमे न स्यात्।। 31।।
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम्।। 32।।
अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजनमेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात्।। 33।।
पृथक्त्वाद्विधितः परिमाणं स्यात्।। 34।।
अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वस्य युगपच्छास्त्रादफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात्।। 35।।
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य।। 36।।
अनभ्यासस्तु वाच्यत्वात्।। 37।।
सप्तमाधिकरणमारचयति-
अङ्गेऽभ्यासो न वा भूम्नाऽभ्यासो नाङ्गे पृथक्फलम्। अङ्ग्यावृत्त्यैव भूमाऽतः प्रयोगेऽङ्गं सकृद्भवेत्।। 9।।
एकस्मिन्यागे प्रयाजाद्यङ्गं फलभूमार्थिनाऽभ्यसनीयम्। कारीर्यादेः काम्यस्य कर्मणोऽभ्यासेन फलभूयस्त्वदर्शनात्। इति चेत्-
न। अङ्गोपकृतस्य प्रधानस्य यत्फलम्, ततोऽतिरिक्तस्य कस्यचिदभावाद्यदि फलभूमानमर्थयेत, तदा साङ्गंप्रधानमावर्तनीयम्। न त्वङ्गमात्रावृत्त्या तत्सिध्यति।
ननु- उपकारभूयस्त्वमङ्गावृत्तिलक्षणं फलभूयस्त्वे पर्यवस्यति। यथा सस्यादिषु कर्षणावृत्तिकृतो भूयानुपकारः फलं वर्धयति, तद्वत्- इति चेत्-
न। तत्र दृष्टत्वात्। इह त्वदृष्ट उपकारः शास्त्रादेव बोध्यः। न च शास्त्रमुपकारभूयस्त्वायाङ्गावृत्तिं क्वचिद्ब्रूते। तस्मात्- एकस्मिन्प्रयोगे सकृदेव प्रयाजाद्यङ्गानुष्ठानम्।। 9।।
अष्टमे- बहुवचनस्य त्रित्वपरत्वे कपिञ्जलाधिकरणे सूत्राणि 38-45
बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्।। 38।।
दृष्टः प्रयोग इति चेत्।। 39।।
तथेह।। 40।।
भक्त्येति चेत्।। 41।।
तथेतरस्मिन्।। 42।।
प्रथमं वा नियम्येत कारणादतिक्रमः स्यात्।। 43।।
तथा चान्यार्थदर्शनम्।। 44।।
प्रकृत्या च पूर्ववत्तदासत्तेः।। 45।।
अष्टमाधिकरणमारचयति-
कपिञ्जलेषु त्रित्वाद्याः पाक्षिकास्त्रित्वमेव वा। आद्यो बहुत्वसाम्यान्न त्रित्वेनैव कृतत्वतः।। 10।।
अश्वमेधे ''वसन्ताय कपिञ्जलानालभते'' इति त्रित्वचतुष्ट्वादिसंख्यानां बहुत्वसाम्यादिच्छया या काचिद्बहुत्वसंख्या स्वीकार्या। इति चेत्-
न। त्रित्वेनैव शास्त्रस्य कृतत्वात्। यो हि चतुष्ट्वादिसंख्यामुपादत्ते, तेन न तदन्तर्भूतं वर्जयितुं शक्यम्। त्रित्वमुपाददानेन त्वनन्तर्भूतं चतुष्ट्वादिकं वर्जयितुं शक्यते। अतोऽवश्यंभावित्वेन प्रथमभावित्वेन लाघवेन च त्रित्व उपात्ते शास्त्रार्थसिद्धौ ततोऽधिकपक्षिहिंसायां प्रत्यवायात्। तस्मात्- त्रित्वमेवोपादेयम्।। 10।।
नवमे- 'उत्तरा दोहयति' इत्यत्र सर्वासां गवां दोहनाधिकरणे सूत्राणि 46-52
उत्तरासु न यावत्स्वमपूर्वत्वात्।। 46।।
यावत्स्वं वाऽन्यविधानेनानुवादः स्यात्।। 47।।
साकल्यविधानात्।। 48।।
बह्वर्थत्वाच्च।। 49।।
अग्निहोत्रे चाशेषवद्यवागूनियमः।। 50।।
तथा पयः प्रतिषेधः कुमाराणाम्।। 51।।
सर्वप्रापिणाऽपि लिङ्गेन संयुज्य देवताभिसंयोगात्।। 52।।
नवमाधिकरणमारचयति-
उत्तरास्तिस्त्र एव स्युर्यावत्स्वं वाऽत्र पूर्ववत्। तिस्त्र एव हविः कात्र्स्न्यापूर्वयोर्विधितोऽन्तिमः।। 11।।
सांनाय्यदोहं प्रकृत्य श्रूयते ''वाग्यतस्तिस्र दोहयित्वा विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयाति'' इति। तिसृभ्य उत्तरा गावो यजमानस्य यावत्य: सन्ति, तासां मध्ये कपिञ्जलन्यायेनोत्तरास्तिस्र एव गावो दोहनीया:। इपि प्राप्ते-
ब्रूमः- 'नास्यैतां रात्रिं पयसाऽग्निहोत्रं जुहुयात्, कुमाराश्च न पयो लभेरन्' इति विद्यमानस्य पयसो हविष्ट्वं विधीयते। न च- अत्र कुमाराणां पयसो निषेधः। तथा सति दृष्टार्थत्वपरित्यागेनादृष्टार्थत्वं कल्प्येत, 'कुमाराश्च न' इत्येवं चशब्दश्चापिशब्दार्थवाची प्रयुज्यमानस्तदा व्यर्थः स्यात्। किंच ''बहु दुग्धीन्द्राय देवेभ्यो हविः'' इति मन्त्रे हविषां बाहुल्यं प्रतीयते। तेन प्राप्तं सर्वोत्तरादोहनमनूद्यापूर्वमनन्वारम्भणमत्र विधीयते। तस्मात्-विधेयकपिञ्जलवैषम्याद्धविर्बाहुल्यार्थं सर्वा उत्तरा दोहनीयाः।। 11।।
दशमे- आग्नेयादीनां प्रधानानां भेदेऽप्याघारादीनामङ्गानां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 53-66
प्रधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात्।। 53।।
क्रमकोपश्च यौगपद्ये स्यात्।। 54।।
तुल्यानां तु यौगपद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात्।। 56।।
ऐकार्थ्यादव्यवायः स्यात्।। 56।।
तथा चान्यार्थदर्शनं कामुकायनः।। 57।।
तन्न्यायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात्।। 58।।
असंस्पृष्टोऽपि तादर्थ्यात्।। 59।।
विभवाद्वा प्रदीपवत्।। 60।।
अर्थात्तु लोके विधिः प्रतिप्रधानं स्यात्।। 61।।
सकृदिज्या कामुकायनः परिमाणविरोधात्।। 62।।
विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात्।। 63।।
विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः।। 64।।
क्वचिद्विधानान्नेति चेत्।। 65।।
न विधेश्चोदितत्वात्।। 66।।
दशमधिकरणमारचयति-
प्रत्यङ्गि कार्याण्यङ्गानि तन्त्रेणोताङ्गिनो यतः। एकैकस्योपकार्यत्वं तस्मात्प्रत्यङ्ग्यनुष्ठितिः।। 12।।
विधानवदनुष्ठानं सकृदेवोपकारकम् । तद्देशकालकर्तॄणामेकत्वान्नर्तकादिवत्।। 13।।
पौर्णमास्यां त्रीण्याग्नेयादीन्यङ्गीनि प्रयाजाज्यभागैरुपकार्याणि। तेष्वेकैकस्याङ्गिन उपकारापेक्षित्वात्प्रतिप्रधानमङ्गानि पृथगनुष्ठेयानि। इपि प्राप्ते-
ब्रूमः- यथा ''समिधो यजति'' इत्यादिविधानं सकृदेव प्रवृत्तम् न त्वाग्नेयादित्रयोद्देशेन पृथक्प्रवर्तते। तथाऽनुष्ठानमपि सकृदेव प्रवर्तते। प्रवृत्तं सत्रयाणामुपकाराकाङ्क्षां पूरयति। यथा बहूनां पुरतो नृत्यन्नर्तकः सर्वेषां सुखं युगपन्निर्वर्तयति, तद्वत्। तस्मात्- आग्नेयादिषु देशकालकर्तॄणामेकत्वादङ्गानां तन्त्रेणानुष्ठानम्।। 12।।।। 13।।
एकादशे- कृष्णग्रीवयोः प्रथमतृतीययोर्भेदेन प्रदानाधिकरणे स्रत्राणि 67-70
व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम्।। 67।।
भेदस्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिः प्रदानकालत्वात्।। 68।।
तथा चान्यार्थदर्शनम्।। 69।।
विधिरिति चेन्न वर्तमानापदेशात्।। 70।।
एकादशाधिकरणमारचयति-
कृष्णग्रीवद्वये तन्त्रं पृथग्वा देवतैक्यत: । तन्त्रं सौम्यव्यवायेन कालभेदात्पृथग्भवेत्।। 14।।
काम्यपशुकाण्डे श्रूयते ''आग्नेयं कृष्णग्रीवमालभेत, सौम्यं बभ्रुम्, आग्नेयं कृष्णग्रीवं पुरोधायां स्पर्धमानः'' इति। अयमर्थः- 'ममैव पौरोहित्यमस्तु नान्यस्य' इत्येवं स्पर्धोपेतो यथोक्तवर्णोपेतं पशुत्रयमालभेत- इति। तत्र आद्यन्तयोः कृष्णग्रीवयोः पश्वोर्देवतैक्यात्तन्त्रेणानुष्ठानम्। इति चेत्-
न। सौम्यपशुना व्यवधाने सति कालैक्यासंभवेन तन्त्रासंभवात्। तस्मात्- आवापः।। 14।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य प्रथमः पादः।। 1।।
अत्र पादे- अधिकरणानि 11, सूत्राणि 77।
आदितः- अधिकरणानि 786, सूत्राणि 2299।
एकादशाध्यायस्य द्वितीयः पादः
तन्त्रावापौ संक्षेपेणोक्तौ।
प्रथमे- आग्नेयादीनां प्रधानानां तन्त्राधिकरणे सूत्रे 1-2
एकदेशकालकर्तृत्वं मुख्यानामेकशब्दोपदेशात्।। 1।।
अविधिश्चेत्कर्मणामभिसंबन्धः प्रतीयेत लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानं भावः स्यात्।। 2।।
द्वितीयपादस्य प्रथमाधिकरणमारचयति-
आग्नेयादिप्रधानस्य देशे काले च कर्तरि। भेदः स्यादथवा तन्त्रमङ्गत्वाद्द्रव्यदेववत्।। 1।।
उत्पत्तिविधिशेषत्वाद्भेदः स्यादेकशब्दतः। विधेः प्रयोगशेषत्वादभेदेन तु तन्त्रता।। 2।।
दर्शपूर्णमासयोर्देशकालकर्तारो विहिताः- ''समे दर्शपूर्णमासाभ्यां यजेत'' ''पौर्णमास्यां पौर्णमास्या यजेत'' ''अमावास्यायाममास्यया यजेत'' ''दर्शपूर्णमासयोश्चत्वार ऋत्विजः'' इति। एते देशकालकर्तारोऽङ्गत्वाद्द्रव्यदेवतावदुत्पत्तिविधिशेषाः सन्तः प्रधानेष्वाग्नेयादिषु प्रतिप्रधानं भिद्यन्ते। इति प्राप्ते-
ब्रूमः- ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इत्येकेन शब्देनाग्नेयादीनां पृथगुत्पन्नानामपि परस्परसहितानामेव फलसाधनत्वेन विधानादेकः प्रयोगो गम्यते। तमेकप्रयोगापादकमेकं दर्शपूर्णमासशब्दमुपजीव्य देशादिविधानाद्देशादयोऽपि प्रयोगशेषा एव, न तूत्पत्तिशेषाः। तस्मात्- एकस्मिन्प्रयोगे देशादीनां तन्त्रेण संबन्धः।। 1।। 2।।
द्वितीये- अङ्गानामपि समदेशादिनियमाधिकरणे सूत्राणि 3-10
अङ्गेषु च तदभावः प्रधानं प्रति निर्देशात्।। 3।।
यदि तु कर्मणो विधिसंबन्धः स्यादैकशब्द्यात्प्रधानार्थाभिसंयोगात्।। 4।।
तथा चान्यार्थदर्शनम्।। 5।।
श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात्कर्मणोऽश्रुतित्वाच्च।। 6।।
अङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरन्, तस्मात्स्यादेकदेशत्वम्।। 7।।
द्रव्यदेवतं तथेति चेत्।। 8।।
न चोदनाविधिशेषत्वान्नियमार्थो विशेषः।। 9।।
तेषु समवेतानां समवायात्तन्त्रमङ्गानि, भेदस्तु तद्भेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्, तथा चान्यार्थदर्शनम्।। 10।।
द्वितीयाधिकरणमारचयति-
अङ्गे ये केऽपि देशाद्याः किंवा ते देवतादिवत्। अनन्वयात्केऽपि मैवं प्रयोगेण परिग्रहात्।। 3।।
प्रयाजाद्यङ्गेषु ये केऽपि देशकालकर्तारः प्रतीष्टि कर्तव्याः। कुतः- अनन्वयात्। यथा प्रधानान्वितयोर्द्रव्यदेवतयोरङ्गेष्वन्वयो नास्ति, तथा देशादीनामपि। इति प्राप्ते-
ब्रूमः- प्रयोगशेषत्वं देशादीनाम्, न त्वाग्नेयादिविधिशेषत्वम्, इत्युक्तम्। प्रयोगेण च प्रधानवदङ्गान्यपि गृह्यन्ते। तस्मात्- य एव देशादयः प्रधानानाम्, त एवाङ्गानामपि।। 3।।
तृतीये- दर्शपूर्णमासेष्टिप्रभृतिषु संघभेदेनाङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 11-17
इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात्।। 11।।
कालभेदान्नेति चेत्।। 12।।
नैकदेशत्वात्पशुवत्।। 13।।
अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात्।। 14।।
तथा चान्यार्थदर्शनम्।। 15।।
तदावयवेषु स्यात्।। 16।।
पशौ तु चोदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात्।। 17।।
तृतीयाधिकरणमारचयति-
संघभेदे तन्त्रमङ्गं न वा, कर्मैक्यतोऽग्रिमः। न मुख्यकालभेदोक्त्या प्रयोगस्य पृथक्त्वतः।। 4।।
इष्टौ विद्यमानानां षण्णां यागानां द्वाववान्तरसंघौ- दर्शश्च पूर्णमासश्च। चातुर्मास्येषु चत्वारः संघाः- वैश्वदेववरुणप्रघाससाकमेधसुनासीरीयाः। एतादृशे विषये संघातानेकत्वेऽपि कर्मैक्यात्प्रयोगैक्ये साङ्गानां तन्त्रेणानुष्ठानं युक्तम्। न च पौर्णमास्यमावास्ययोः कालयोर्भेदेनाङ्गभेदः शङ्क्यः। पशुवदभेदोपपत्तेः। ''वपया प्रातःसवने प्रचरन्ति, पुरोडाशेन माध्यंदिने, अङ्गैस्तृतीयसवने'' इति वपापुरोडाशहृदयाद्यङ्गप्रचाराणां कालभेदेऽपि पश्वङ्गानां प्रयाजानां यथा नास्त्यावृत्तिः, तद्वदत्रापि। इति प्राप्ते-
ब्रूमः- नात्राङ्गतन्त्रं युक्तम्। कुतः- दर्शपूर्णमासकर्मण एकफलसाधनत्वेन स्वरूपत एकत्वेऽपि दर्शप्रयोगात्पूर्णमासप्रयोगस्य पृथक्त्वात्। तच्च पृथक्त्वं वाचनिकात्कालभेदादवगम्यते। पशुदृष्टान्तस्तु विषमः। नहि मुख्यस्य पशुयागस्य भेदोऽभिहितोऽस्ति। वपादीनां तु प्रयाजाद्यपेक्षया मुख्यत्वेऽप्यस्ति महद्वैषम्यम्। प्रयाजादिभ्यो वपादयो मुख्याः। तेभ्यो वपाद्यवयवेभ्योऽवयवी पशुर्मुख्यः। अत्रापि प्रयाजादिभ्य आग्नेयादयस्त्रयो मुख्याः। तेभ्योऽपि तेषां संघो दर्शो मुख्यः। तस्य च दर्शस्य कालभेदोऽपि विधीयते- 'अमावास्यायाममावास्यया यजेत' इति। तत्र दर्शयागस्थानीयस्य पशुयागस्य कालभेदो वीधीयते। न हि प्रचारस्याङ्गभूतस्य मुख्ययागत्वमस्ति, येन प्रयोगभेद आशङ्क्येत। तस्मात्- पशुवैषम्येण मुख्यस्यैव दर्शस्य पूर्णमासयागस्य च कालभेदोक्त्या प्रयोगभेदे सति प्रयोगशेषाणां प्रयाजादीनामावृत्तिरिति। एवं वैश्वदेवादिषु द्रष्टव्यम्।। 4।।
चतुर्थे- अध्वरकल्पायां त्रिषु संघेष्वङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 18-22
तथा स्यादध्वरकल्पायां विशेषस्यैककालत्वात्।। 18।।
इष्टिरिति चैकवच्छ्रुतिः।। 19।।
अपि वा कर्मपृथक्त्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात्।। 20।।
प्रथमस्य वा कालवचनम्।। 21।।
फलैकत्वादिष्टिशब्दो यथाऽन्यत्र।। 22।।
चतुर्थाधिकरणमारचयति-
अङ्गान्यध्वरकल्पायां प्रातः कालादिवर्तिषु। त्रिषु संघेषु तन्त्रेण स्युर्भेदेनाथवाऽग्रिमः।। 5।।
उषस्यशेषनिर्वापात्तद्वदङ्गापकर्षणात्। प्रातर्निर्वापवैशेष्यान्मुख्यकालाय भिन्नता।। 6।।
काम्येष्टिष्वध्वरकल्पा नाम काचिदिष्टिः। तत्र- प्रातःकाले त्रयाणां यागानामाग्नावैष्णवसारस्वतबार्हस्पत्यानां संघः पठितः। मध्याह्नापराह्णयोरपि तथैव पठितः। अष्टाकपालैकादशकपालद्वादशकपालैराग्नावैष्णवो विशेषितः। इतरत्समानम्। तत्र त्रिषु संघेषु प्रयाजाद्यङ्गानां तन्त्रम्। कुतः- ''पुरा वाचः प्रवदितोर्निर्वपेत्'' इति संघस्य यागस्याशेषस्य निर्वापस्य रात्रौ सुप्तजनानां प्रबोधपूर्वकव्यापारात्प्राचीन उषःकालेऽपकर्षे सति निर्वापवदङ्गान्तराणामपकर्षस्य प्रतिभानात्। इति प्राप्ते-
ब्रूमः- ''आग्नावैष्णवं प्रातरष्टाकपालं निर्वपेत्'' इति सामान्येन विहितो यः प्रातः कालीनो निर्वापः स एव संनिहितत्वात् 'पुरा वाचः' इति विशेष्यते। तस्मात्- उत्तरसंघनिर्वापोऽपि मुख्यत्वलाभाय तत्तत्कालयोः कर्तव्यः। तद्वत्प्रयाजादीनामपि भेदेनानुष्ठानम्।। 5।। 6।।
पञ्चमे- प्राजापत्यवसाहोमानां तन्त्रेणानुष्ठानाधिकरणे सूत्रम्
वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात्।। 23।।
पञ्चमाधिकरणमारचयति-
प्राजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः। पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः।। 7।।
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भिद्यते। इति चेत्-
न। प्रजापतिरेक एव सप्तदशानां पशूनां देवता। तथा पाकोऽपि सहैव क्रियते। प्रदानस्यापि पाक उपलक्षणम्, प्रदानेऽपि साहित्यमस्ति। कालश्चैकः, याज्यार्धर्चान्तस्य कालत्वेन चोदकातिदेशात्। शक्यते च सह होमः। तस्मात्- तन्त्रम्।। 7।।
षष्ठे- ऐकादशिनगतवसाहोमस्य भेदेनानुष्ठानाधिकरणे सूत्रम्
कालभेदे त्वावृत्तिर्देवताभेदे।। 24।।
षष्ठाधिकरणमारचयति-
ऐकादशिनगे तन्त्रं वसाहोमेऽथ भिन्नता। तन्त्रं शक्यत्वतो भेदः प्रदानार्धर्चभेदतः।। 8।।
ऐकादशिनेष्वाग्नेयसारस्वतसौम्यादिपशुषु वसाहोमस्य सह कर्तुं शक्यत्वात्तन्त्रम्। इति प्राप्ते-
ब्रूमः- देवताभेदेन प्रदानभेदान्न तन्त्रम्। याज्यार्धर्चान्तकालानां भिन्नत्वेनानुष्ठाने यौगपद्यासंभवाद्भेदः।। 8।।
सप्तमे- यूपैकादशिन्यां तन्त्रेण यूपाहुत्यनुष्ठानाधिकरणे सूत्राणि 25-27
अन्ते यूपाहुतिस्तद्वत्।। 25।।
इतरप्रतिषेधो वा।। 26।।
अशास्त्रत्वाच्च देशानाम्।। 27।।
सप्तमाधिकरणमारचयति-
यूपैकादशिनीयूपाहुतेर्भेदोऽथ तन्त्रता। समीपभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः।। 9।।
यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः- ''यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोति'' इति तद्विधानात्। सामीप्यानां च भेदात्। इति प्राप्ते-
ब्रूमः- न तावदत्यन्तसामीप्यं संभवति। यूपदाहप्रसङ्गात्। अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति, तावतो देशस्य समीपत्वमभ्युपेयम्। तेन देशैक्यसंभवादाहुतेस्तत्र तन्त्रता।। 9।।
अष्टमे- साङ्गस्यावभृथस्याप्स्वनुष्ठानाधिकरणे सूत्राणि 28-31
अवभृथे प्रधानेऽग्निविकारः स्यान्नहि तद्धेतुरग्निसंयोगः।। 28।।
द्रव्यदेवतावत्।। 29।।
साङ्गो वा प्रयोगवचनैकत्वात्।। 30।।
लिङ्गदर्शनाच्च।। 31।।
शब्दविभागाच्च देवतानपनयः।। 32।।
अष्टमाधिकरणमारचयति-
किमप्स्ववभृथे मुख्यमात्रं साङ्गमुताग्रिमः। मुख्यत्वेनान्वयान्मैवं प्रयोगेण तदन्वयात्।। 10।।
इदं श्रूयते- ''अप्स्ववभृथेन चरन्ति'' इति। तत्र वारुण एककपालोऽवभृथशब्दवाच्यत्वान्मुख्यं कर्म। तेन मुख्येनापामन्वयः श्रूयते। अतो द्रव्यदेवतावदपां मुख्यमात्राङ्गत्सप्रधानस्यैवाप्स्वनुष्ठानम्। आघाराज्यभागादीन्याहवनीयेऽनुष्ठेयानि। इति प्राप्ते-
ब्रूमः- स्यादप्येवम्, यदि 'अवभृथे' इत्येतावदेव श्रूयेत। इह तु 'अप्सु चरन्ति' इति श्रवणादवभृथप्रयोगेणापामन्वयात्साङ्गं प्रधानमप्सु कर्तव्यम्।। 10।।
नवमे- वरुणप्रघासेष्वाग्नेयादीनां मारुत्या भेदेनानुष्ठानाधिकरणे सूत्राणि 33-41
दक्षिणेऽग्नौ वरुणप्रघासेषु देशभेदात्सर्वं विक्रियते।। 33।।
अचोदनेति चेत्।। 34।।
स्यात्पौर्णमासीवत्।। 35।।
प्रयोगचोदनेति चेत्।। 36।।
अथेह।। 37।।
आसादनमिति चेत्।। 38।।
नोत्तरेणैकवाक्यत्वात्।। 39।।
अवाच्यत्वात्।। 40।।
आम्नायवचनं तद्वत्।। 41।।
नवमाधिकरणमारचयति-
मारुत्याः सार्धमष्टाभिरङ्गैस्तन्त्रं भिदाऽथवा। प्रयोगैकत्वतस्तन्त्रं भेदो देशस्य भेदतः।। 11।।
वरुणप्रघासेष्वाग्नेयादीनि नव हवींषि विहितानि। तेषु मारुतीमामिक्षां प्रतिप्रस्थाता दक्षिणे विहारेऽनुतिष्ठति। इतराणि त्वष्टावध्वर्युरुत्तरे विहारेऽनुतिष्ठति। तेषामष्टानां प्रयोगैक्यात्तन्त्रेणाङ्गान्युभय-वादिसंमतानि। तथा तान्येव मारुत्या अपि, इत्यत्रापि तन्त्रं प्राप्तम्। कुतः- वरुणप्रघासान्तःपातित्वेन प्रयोगैक्यात्।
ननु- अत्र विहारभेद आम्नातः ''पृथगग्नी प्रणयतः, पृथग्वेदी कुरुतः'' इति। सोऽयं पृथगनुष्ठानाभावे व्यर्थः स्यात्। मैवम्। हविरासादनमात्रे तद्भेदोपयोगात्। ''अष्टावध्वर्युरुत्तरे विहारे हवींष्वासादयति। मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्'' इति तद्विधानात्। तस्मात्- तन्त्रम्। इति प्राप्ते-
ब्रूमः- देशभेदात्प्रयोगभेदे सत्यङ्गानुष्ठानमपि भिद्यते। न च तद्भेदस्य हविरासादनमात्रार्थता युक्ता। तदासादनस्य दृष्टहोमार्थतापरित्यागेनादृष्टार्थ-कल्पनाप्रसङ्गात्। न च प्रयोगभेदेनैवासादनभेदस्यापि सिद्धौ वचनमनर्थकं स्यात्- इति वाच्यम्। अव्यवस्थया प्रयोगप्राप्तौ तद्व्यवस्थार्थत्वात्। तस्मात्- भेदेनाङ्गानुष्ठानम्।। 11।।
दशमे- उत्तरदक्षिणविहारयोः कर्त्रभेदाधिकरणे सूत्राणि 42-46
कर्तृभेदस्तथेति चेत्।। 42।।
न समवायात्।। 43।।
लिङ्गदर्शनाच्च।। 44।।
वेदिसंयोगादिति चेत्।। 45।।
न देशमात्रत्वात्।। 46।।
दशमाधिकरणमारचयति-
कर्तृभेदो न वा तत्र भेदः स्यादङ्गभेदवत्। पञ्चर्त्विग्वचनान्मैवं द्वयोरुक्त्या व्यवस्थितिः।। 12।।
तत्र पूर्वोक्तविषये प्रयोगभेदादाघाराद्यङ्गभेद इव होतृब्रह्मादीनां कर्तॄणामपि भेदः। इति चेत्-
मैवम्। वाचनिकपञ्चसंख्याविरोधात्। अध्ववर्युप्रतिप्रस्थातृहोतृब्रह्माग्नीध्राः पञ्चर्त्विजश्चातुर्मास्येषु विहिताः ''चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः'' इति। यदि- आग्नेयाद्यष्टके मारुत्यां च होत्रादिभेदः स्यात्, तदा पञ्चसंख्या बाध्येत । ननु पञ्चसंख्यासिद्ध्यर्थमाग्नेयाद्यष्टके प्रतिप्रस्थाता प्राप्नुयात्। मारुत्यां चाध्वर्युः प्राप्त इति चेत्- सत्यम्। प्राप्तावेव तावुभावुभयत्र। व्यवस्था तु वचनाद्भविष्यति। तत्तु वचनं पूर्वत्रोदाहृतम्। तस्मान्नास्ति कर्तृभेदः।। 12।।
एकादशे- उत्तरदक्षिणविहारयोः पत्नीसंयाजादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 47-48)।
एकाग्नित्वादपरेषु तन्त्रैः स्यात्।। 47।।
नाना वा कर्तृभेदात्।। 48।।
एकादशाधिकरणमारचयति-
तत्रैव पत्नीसंयाजादौ तन्त्रं भिन्नताऽथवा। तन्त्रमग्न्यैक्यतो मैवं कर्तृभेदानिवारणात्।। 13।।
तत्रैवाग्नेयाद्यष्टके मारुत्यां च गार्हपत्ये होतव्येषु पत्नीसंयाजादिषु तन्त्रं युक्तम्। कुतः- गार्हपत्यस्यैकत्वात्। न ह्याहवनयीवद्दक्षिणे विहारे गार्हपत्यः पृथगस्ति। तस्मात्- तन्त्रम्। इति प्राप्ते-
ब्रूमः- न तावदत्र पूर्वोक्तः कर्तृभेदो निवारयितुं शक्यते। तथा सति- अध्वर्युणा कृताः पत्नीसंयाजाः प्रतिप्रस्थातृकर्तृकायां मारुत्यां कथमुपकुर्युः। तस्मात्- अध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये पृथक्पृथक्पत्नीसंयाजाञ्जुहुयाताम्।। 13।।
द्वादशे- वाजपेये प्राजापत्यपश्वालम्भशेषस्य ब्रह्मसामकाल उत्कर्षाधिकरणे सूत्राणि 49-51
पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामान्यादारण्यवत्तस्माद्बह्मसाम्नि चोदनापृथक्तं स्यात्।।49।।
संस्कारप्रतिषेधो वा वाक्यैकत्वे क्रतुसामान्यात्।। 50।।
वपानां चानभिघारणस्य दर्शनात्।। 51।।
द्वादशाधिकरणमारचयति-
पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि। कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत्।। 14।।
किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः। अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः।। 15।।
वाजपेये ''सप्तदश प्राजापत्यान्पशून्संचिनुते'' इति प्रकृत्य श्रूयते ''तान्पर्याग्निकृतानुत्सृजन्ति, ब्रह्मसाम्न्यालभते'' इति। तेषु सप्तदशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते। अश्वमेधे ''पर्यग्निकृतानारण्यानुत्सृजन्ति'' इत्यत्र कर्मशेषनिषेधस्य प्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणान्ताः समाप्याः। आलभतिना च ब्रह्मसामकाले कर्मान्तरं विधीयते। इति प्राप्ते-
ब्रूमः- कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत। वाक्यभेदश्च प्राप्नुयात्। किंच 'ब्रह्मसाम्न्यालभते' इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति। तस्मात्- पर्याग्निकरणानन्तरमेव कार्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते। तथा सत्यर्थप्राप्तपर्य-ग्निकरणानन्तरभाविकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते।। 14।। 15।।
त्रयोदशे- अहीन उक्ष्णामुत्सर्गस्य कर्मशेषप्रतिषेधार्थताधिकरणे सूत्राणि 52-54
पञ्चशारदीयास्तथेति चेत्।। 52।।
न चोदनेकवाक्यत्वात्।। 53।।
संस्काराणां च दर्शनात्।। 54।।
त्रयोदशाधिकरणमारचयति-
उक्षोत्सर्गः किमुत्कर्षस्त्यागो वाद्योऽत्र पूर्ववत्। अन्वहत्रित्वयोरुत्तमाहपञ्चत्वयोर्विधौ।। 16।।
वाक्यभेदाद्विशिष्टानामन्येषां कर्मणां विधिः। तस्मादारण्यवच्छेषत्याग उत्सर्ग इष्यताम्।। 17।।
अस्त्यहीनेषु पञ्चशारदीयनामकः कश्चित्पञ्चाहविशेषः। स च पञ्चसु वर्षेष्वनुष्ठेयः। तत्र प्रथमे वर्षे विशाखानक्षत्रयुक्तायाममावास्यायां सप्तदशाल्पवयसः स्त्रीपशवः, सप्तदशोक्षाणश्च विहिताः। तेषु सर्वेषु पर्यग्निकृतेषु प्रोक्षितेषु च सत्सु स्त्रीपशूनामालम्भं, पुंस्पशूनामुत्सर्गं चाम्नाय पुनर्द्वितीये तृतीये चतुर्थे च वत्सरे तथैवानुष्ठानमाम्नाय पश्चादाम्नायते ''त्रींस्त्रीनेकैकस्मिन्नहन्यालभेरन्, पञ्चोत्तमेऽहनि'' इति। तत्र वत्सरचतुष्ट-यगतासु चतसृष्वमावास्यासु योऽयं पशूनामुत्सर्गः, तत्र कर्मशेषत्यागो न भवति, किंतूत्कर्षः। कुतः 'त्रींस्त्रीन्' इति वाक्येनालम्भस्याभिधानात्। यथा पूर्वं प्राजापत्यानामालम्भोत्कर्षः, तथाऽत्रापि युज्यते। इति प्राप्ते-
ब्रूमः- 'त्रींस्त्रीनेनैकस्मिन्नहन्यालभेरन्' इत्यत्र पर्यग्निकरणानन्तरभाविप्राप्तमालम्भनमनूद्यैकाहत्व-त्रित्वगुणयोर्विधौ वाक्यं भिद्येत। तथा 'पञ्चोत्तमेऽहन्' इत्यत्रोत्तमाहत्वपञ्चत्वयोर्विधौ वाक्यभेदः। तस्मात्- तद्गुणद्वयविशिष्टानामन्येषां कर्मणां विधिरभ्युपेयः। तथा सति- आरण्यपशुन्यायेन सप्तदशोक्षाणः पर्यग्निकरणप्रोक्षणाभ्यां समापनीयाः।। 16।। 17।।
चतुर्दशे- दशपेयाभिषेचनीययोर्भेदेन प्रयोगाधिकरणे सूत्राणि 55-60
दशपेये क्रयप्रतिकर्षात्प्रतिकर्षः, ततः प्राचां तत्समानं तन्त्रं स्यात्।। 55।।
समानवचनं तद्वत्।। 56।।
अप्रतिकर्षो वाऽर्थहेतुत्वात्सहत्वं विधीयते।। 57।।
पूर्वस्मिंश्चावभृथस्य दर्शनात्।। 58।।
दीक्षाणां चोत्तरस्य।। 59।।
समानः कालसामान्यात्।। 60।।
चतुर्दशाधिकरणमारचयति-
दशपेये चाभिषेचनीये तन्त्रं भिदाऽथवा। क्रयसाहित्यतस्तन्त्रं कालभेदेन भिन्नता।। 18।।
राजसूये दशपेयाभिषेचनीयसंज्ञकौ द्वौ सोमयागौ। तयोरङ्गानुष्ठानं तन्त्रेण कार्यम्। कुतः- क्रयसाहित्यात्। ''सह सोमौ क्रीणात्यभिषेचनीयदशपेययोः'' इति श्रूयते। तथा सति- अभिषेचनीयस्य दशपेयस्य च सोमे क्रेतव्ये सति क्रयात्पूर्वभाविनां दशपेयाङ्गानामपकर्षात्तन्त्रं स्यात्। इति प्राप्ते-
ब्रूमः- भिन्नकालीनयोरभिषेचनीयदशपयेयोरङ्गानां भेदो युक्तः। संसृपाख्याभ्यो दशभ्य इष्टिभ्य ऊर्ध्वमपराह्णे दशपेयस्योपक्रमः। ताभ्यः प्राचीनेऽत्यन्तव्यवहिते कालेऽभिषेचनीयः। न च क्रयसाहित्यमस्ति। ''सद्यो दीक्षयन्ति, सद्यः सोमं क्रीणन्ति'' इति दशपेये क्रयस्य सद्यस्कालत्वविधानात्। 'सह सोमौ' इति वचनेन क्रयार्थोपसंवादे साहित्यं विवक्षितम्। तस्मात्- उभयोरङ्गानां भेदः।। 18।।
पञ्चदशे- वारुणीनिष्कासावभृथस्यार्थकर्मताधिकरणे सूत्राणि 61-63
निष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात्।। 61।।
अपनयो वा प्रसिद्धेनाभिसंयोगात्।। 62।।
प्रतिपत्तिरिति चेन्न कर्मसंयोगात्।। 63।।
पञ्चदशाधिकरणमारचयति-
निष्कासावभृथे विप्रकर्षोऽथ प्रतिपादनम्। उतार्थकर्म पशुवदाद्योऽवभृथशब्दतः।। 19।।
कर्मान्तरं तदाऽपि स्यात्प्रतिपत्तिः प्रयाजवत् ।प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम्।। 20।।
चातुर्मास्ययागेषु वरुणप्रघासेषु वारुणीमामिक्षां प्रकृत्येदमाम्नायते ''वारुण्या निष्कासेन तुषैश्चावभृथमभ्यवयन्ति'' इति। तत्रायं प्रयोगप्रकारः- 'वरुणप्रघासेषु नव हवींषि। तेष्वष्टमं हविर्वारुण्यामिक्षा। नवमं हविः काय एककपालः। वारुण्यामामिक्षायां यवपिष्टनिर्मितं मेषमवदधाति। तत आमिक्षासंयुक्तं मेषं सर्वमवदाय हुत्वा तत एककपालेन प्रचर्य भाण्डलिप्तेन वारुण्यामिक्षाया निष्कासेन यवतुषैश्चावभृथमनुतिष्ठन्ति' इति।
तत्र संशयः- किं वारुण्यामिक्षाया एकमंशं यवमयमेषसहितं पूर्वं प्रदाय पश्चादेककपालप्रचारादूर्ध्वं निष्कासरूपांशान्तरेण तुषैः प्रचरितव्यमित्येवं प्रचारस्य विप्रकर्षः, उत कर्मान्तरम्। तत्रापि किं प्रतिपत्तिकर्म, आहोस्वित्- अर्थकर्म, इति।
तत्र 'विप्रकर्षः' इति तावत्प्राप्तम्। कुतः- पशौ तथा दृष्टत्वात्। 'प्रातः सवने वपया प्रचर्य तृतीयसवने हृदयाद्यङ्गैः प्रचारः' इति सवनीयपशौ यथा प्रचारविप्रकर्षः, तद्वदत्रापि। इत्याद्यः पक्षः।
तथासति- अवभृथशब्दवैयर्थ्यं स्यात्। अतः- 'कर्मान्तरम्' इति पक्षान्तरम्।
तदाऽपि- आमिक्षाहविःशेषस्य निष्कासस्यास्मिन्कर्मणि हविष्ट्वायोगात्प्रयाजन्यायेन प्रतिपत्तिः स्यात्। यथा 'प्रयाजशेषेण हवींष्यभिघारयति' इत्यत्र शेषं संस्कर्तुमभिधारणम्, तथाऽत्रापि निष्कासः संस्क्रियते। इति प्राप्ते-
ब्रूमः- तस्मिन्पक्षे निष्कासस्य संस्कार्यद्रव्यत्वेन प्राधान्यात् 'निष्कासम्' इति विभक्तिव्यत्ययः स्यात्। अतोऽवभृथस्य प्राधान्यायार्थकर्मत्वमेष्टव्यम्। यदि चातुर्मास्येषु नास्त्यवभृथः, तदा तद्धर्मातिदेशाय तन्नामनिर्देशोक्तिः। अन्यदीयद्रव्यशेषस्यापि कर्मान्तरे विनियोगो वाचनिकः। तस्मात्- अर्थकर्म।। 19।। 20।।
षोडशे- प्रायणीयनिष्कास उदयनीयनिर्वापस्य संस्कारकर्मताधिकरणे सूत्राणि 64-66
उदयनीये च तद्वत्।। 64।।
प्रतिपत्तिर्वाऽकर्मसंयोगात्।। 65।।
अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेन विधानात्।। 66।।
षोडशाधिकरणमारचयति-
प्रायणीयस्य निष्कासे यो निर्वापोऽर्थकर्म तत्। निष्कासप्रतिपत्तिर्वोदयनीयस्य संस्कृतिः।। 21।।
उताद्यः पूर्ववन्मैवं मुख्यस्य प्रकृतत्वतः। मध्योऽस्तु नोपयोक्तव्यसंस्कारस्य गुरुत्वतः।। 22।।
ज्योतिष्टोमे श्रूयते ''प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति'' इति। अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयसमानधर्मकमर्थकर्म। इत्याद्यः पक्षः।
मुख्यस्योदयनीयस्य तत्वाद्भिन्नप्रकरणाम्नातावभृथधर्मातिदेशवदुदयनीयधर्मातिदेशासंभवान्नार्थकर्मत्वम्, तर्हि निष्कासप्रतिपत्तिः। इति मध्यमः पक्षोऽस्तु।
सोऽपि न संभवति। उपयुक्तसंस्कारादुपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात्। तस्मात्- उदयनीयस्य संस्कारः।। 21।। 22।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य द्वितीयः पादः।। 2।।
अत्र पादे- अधिकरणानि 16, सूत्राणि 66।
आदितः- अधिकरणानि 802, सूत्राणि 2365।
एकादशाध्यायस्य तृतीयः पादः
तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्।
प्रथमे- वेद्याद्यङ्गानां प्रधानकालान्यकालकर्तव्यताधिकरणे सूत्रम्
अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम्।। 1।।
तृतीयपादस्य प्रथमाधिकरणमारचयति-
वेद्यादिर्मुख्यकाले स्यात्स्वकाले वेतराङ्गवत्। मुख्यकाले न पूर्वेद्युरित्याद्युक्तेः स्वकालगः।। 1।।
वेदिः, वेदः, इध्मा, बर्हिः, इत्यादेः संपादनरूपमङ्गानुष्ठानं प्रधानस्यैव काले कर्तव्यम्। प्रयाजाद्यङ्गेषु मुख्येन सह देशकालकर्त्रैक्यस्य निर्णीतत्वात्। इति चेत्-
न। कालादिभेदस्य वाचनिकत्वात्। ''पूर्वेद्युरमावास्यायां वेदिं करोति'' इत्यादिः कालभेदः। ''अप्स्ववभृथेन चरन्ति'' इत्यादिर्देशभेदः। अग्नौ सौत्रामण्यां च दक्षिणाभेदात्कर्तृभेदः। ''वडवा दक्षिणा'' इति सौत्रामण्यां श्रुतम्। तस्मात्- वेद्यादौ स्वस्वकालादयो द्रष्टव्याः।। 1।।
द्वितीये- आधानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् ।
द्रव्यस्य चाकर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्वकालत्वात्।। 2।।
द्वितीयाधिकरणमारचयति-
प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत्। अन्याङ्गवत्पृथङ्मैवं स्वकालत्वसमत्वतः।। 2।।
''वसन्ते ब्राह्मणोऽग्निमादधीत'' इति विहितमाधानं प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यम्। इति चेत्-
न। आधानस्य स्वातन्त्र्येण वसन्तादिकाले विहिते तत्कर्मकालेषु पृथगनुष्ठानायोगात्। स्वकालेऽनुष्ठितस्य सर्वकर्मणि संबन्धः समानः।
न च प्रकरणेन विशेषो नियन्तुं शक्यः। आधानस्यानारभ्याधतित्वात्। ''आहवनीये जुहोति'' इत्यादिवाक्येन त्वैष्टिकपशुकसौमिकदार्विकहोमेषूपयोगः साधारणः प्रतिपाद्यते। तस्मात्- तन्त्रेणानुष्ठानम्। यद्यपि- आधानं नेष्ट्यादिकर्मणां साक्षादङ्गम्, तथाऽपि पृथक्कालाभावादाहवनीयादिद्वारा कर्मोपकारकत्वाच्चाङ्गत्वमभ्युपेत्यैवं चिन्ता।। 2।।
तृतीये- अग्नीषोमीयादिषु यूपस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रे 3-4
यूपश्चाकर्मकालत्वात्।। 3।।
एकयूपं च दर्शयति।। 4।।
तृतीयाधिकरणमारचयति-
अग्नीषोमीयमुख्येषु यूपो भिन्नोऽथ तन्त्रता। उपदेशातिदेशाभ्यां भिन्नो नो कालभेदतः।। 3।।
ज्योतिष्टोमे पशवोऽग्नीषोमीयसवनीयानुबन्ध्यास्त्रयो विहिताः। तेषु यूपभेदो युक्तः। कुतः- अग्नीषोमीये प्रत्यक्षवचनेनोपदेशात्। इतरयोश्चोदकाभ्यामतिदेशात्। इति प्राप्ते-
ब्रूमः- न तावदग्नीषोमीयपशोः काले यूपस्योत्पत्तिः। किंतु ततः प्रागेव यूपोत्पत्तिकालः। ''दीक्षासु यूपं छिनत्ति, क्रीते वा राजनि'' इति तत्कालविधानात्। तत आधानवत्सर्वार्थत्वं संभवति। यथा स्वकाले संपन्नमाधानं तत्तद्वाक्यशेषैस्तेषु तेषु कर्मसु, तथा स्वकाले छेदनादिना निष्पन्नो यूपः प्रत्यक्षचोदकोक्तिभ्यां तत्र तत्र विनियोज्यः। तस्मात्- तन्त्रेण यूपः संपाद्यः।। 3।।
चतुर्थे- यूपसंस्काराणां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 5-7
संस्कारास्त्वावर्तेरन्नर्थकालत्वात्।। 5।।
तत्कालास्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम्।। 6।।
सकृन्मान च दर्शयति।। 7।।
चतुर्थाधिकरणमारचयति-
संस्कारास्तक्षणाद्याः किं भिन्नास्तन्त्रेण वाऽग्रिमः। पशुकालत्वतो मैवं यूपत्वापादका यतः।। 4।।
तक्षणपर्यूहणादयो यूपसंस्काराः पशुकालीनत्वान्नियोजनादिवत्त्रिषु पशुषु भेदेन कर्तव्याः। इति चेत्-
मैवम्। छेदनवत्तक्षणादीनामपि यूपकालीनत्वात्। न खलु यूपो नाम कश्चिल्लोके प्रसिद्धः पदार्थोऽस्ति, येन तस्य च्छेदनमात्रेण तद्विधिः कृतार्थः स्यात्। किं तर्हि च्छेदनतक्षणादिना यूपसंज्ञामाश्रित्यैव विधीयते। तथा सति यैश्छेदनतक्षणादि संस्कारैर्यूपत्वमापद्यते, ते सर्वे छेदनकाल एवानुष्ठेयाः। तस्मात्- त्रिष्वपि पशुषु यूपच्छेदनवत्तक्षणपयूर्हणादयस्तन्त्रेणानुष्ठेयाः।। 4।।
पञ्चमे- स्वरोस्तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 8-12
स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात्।। 8।।
साधारणो वाऽनुनिष्पत्तिस्तस्य साधारणत्वात्।। 9।।
सोमान्ते च प्रतिपत्तिदर्शनात्।। 10।।
तत्कालो वा प्रस्तरवत्।। 11।।
न वोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा।। 12।।
पञ्चमाधिकरणमारचयति-
स्वरुर्भिन्नोऽथवैकः स्यादस्वकालत्वतो भिदा। प्राथम्यमेकशकले तन्त्रं स्यादविशेषतः।। 5।।
शकलः स्वरुरित्युच्यते। स च भिन्नेषु पशुषु भिन्नः संपाद्यः। कुतः- अस्वकालत्वात्। न हि यूपस्यैव स्वरोः कश्चित्प्रातिस्विकः कालः श्रूयते। ततः ''स्वरुणा स्वधितिना वा पशुमनक्ति'' इत्यञ्जनकालीनत्वावगमादञ्जनवद्भेदः। इति प्राप्ते--
ब्रूमः- ''यः प्रथमः शकलः परापतेत्, स स्वरुः कार्यः'' इति श्रुतं प्राथम्यमेकस्मिन्नेव शकले युक्तम्। स च शकलो यूपकालीनः पशुविशेषसंबन्धे हेतुमलभमानो यूपवत्तन्त्रेण सर्वेषु पशुषूपकरिष्यति।। 5।।
षष्ठे- अहर्गणे कृष्णविषाणाप्रासनस्यान्त्याहर्नियमाधिकरणे सूत्रे 13-14
अहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधादन्त्ये प्रथमे वाऽहनि विकल्पः स्यात्।। 13।।
पाणेस्त्वश्रुतिभूतत्वाद्विषाणानियमः स्यात्प्रातःसवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात्।। 14।।
षष्ठाधिकरणमारचयति-
अहर्गणे विषाणायास्त्यागोऽह्नोः किं विकल्प्यते। किंवा नियम्यतेऽन्त्येऽह्नि, स्यादाद्यो बाधसाम्यतः।। 6।।
कण्डूयनं न हस्तेन श्रुतमर्थात्तु तद्भवेत् ।श्रुताद्बाधाद्वरं तस्य बाधोऽतोऽन्त्ये नियम्यताम्।। 7।।
''कृष्णविषाणया कण्डूयते'' ''नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति'' इति ज्योतिष्टोमे श्रुतं प्रासनमहर्गणे द्वित्रिरात्रादौ चोदकप्राप्तम्। तत्र- 'प्रथमे चरमे वाऽह्नि' इत्येवं विकल्प्यते। कुतः- उभयत्र बाधसाम्यात्। यदि प्रथमे अह्नि प्रास्येत्, तदानीमुत्तरेष्वहःसु चोदकप्राप्तं दक्षिणानयनात्प्राचीनं विषाणया कण्डूयनं बाध्येत। चरमेऽह्नि तत्प्रासने पूर्वेष्वहःसु दक्षिणानयनादूर्ध्वं हस्तेन कण्डूयनं चोदकप्राप्तं बाध्येत। तस्मात्- समबलत्वेन विकल्पः। इति प्राप्ते-
ब्रूमः- न हि हस्तेन किंचिच्छ्रुतम्। किंतु विषाणायां त्यक्तायामर्थात्प्राप्यते। कामं तस्य बाधोऽस्तु। श्रुतं विषाणया कण्डूयनमबाधितुं चरमेऽह्नि प्रासनं नियम्यते।। 9।।
सप्तमे- राजसूये नानाबीजेषु वाग्विसर्गस्य चरमकालनियमाधिकरणे सूत्रम्
वाग्विसर्गो हविष्कृता बीजभेदे तथा स्यात्।। 15।।
सप्तमाधिकरणमारचयति-
नानाबीजेषु यागेषु वाग्विसर्गश्च पूर्ववत्। शङ्किते तद्विधौ न स्यादविधित्वे तदुत्तरम्।। 8।।
राजसूये नानाबीजयुक्ता यागाः श्रुताः- ''अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणां सोमाय वनस्पतये श्यामाकं चरुम्'' इत्यादिना। प्रकृतौ प्रणीताप्रणयनकाले नियमिताया वाचो हविष्कृदाह्वानकाले विसर्गः श्रुतः। स चात्र चोदकप्राप्तः।
तत्र 'प्रथमे चरमे वा हविष्कृदाह्वानकाले वाग्विसर्गो विकल्पितः' इति पूर्वःपक्षः।
'चरम एव' इति राद्धान्तः।
अत्रेयं पूर्वपक्षिणोऽभ्यधिका शङ्का 'हस्तेन कण्डूयनं न विहितम्। वाग्विसर्गस्तु विहितः' इति।
तत्रेदमुत्तरम्- विहितस्य वाङ्नियमस्यावधित्वेनायं हविष्कृदाह्वानकालीनो वाग्विसर्गोऽनूद्यते। रागप्राप्तत्वान्नासौ विधीयते- इति। तस्मात्- प्रासनवद्विसर्गोऽपि चरम एव काले नियम्यते।। 8।।
अष्टमे- अग्नीषोमीये पौरोडाशिककाल एव वाग्विसर्गाधिकरणे सूत्रम्
पशौ च पुरोडाशे समानतन्त्रं भवेत्।। 16।।
अष्टमाधिकरणमारचयति-
पशुकाले पुरोडाशकाले वा वाग्विसर्जनम्। तन्त्रित्वादादिमोऽन्त्यः स्याद्वाग्यमात्कर्तृसंस्कृतिः।। 9।।
यद्यपि पशौ हविष्कृदाह्वानं नास्ति, तथाऽपि कृत्वाचिन्तयेत्। अत्र पशौ हविष्कृदाह्वानकाले वाग्वि-सर्जनीया। कुतः- पशोस्तन्त्रित्वात्। पशुपुरोडाशस्य प्रसङ्गित्वेन पशावनुष्ठितैरेवाङ्गैरुपकारसिद्धेः। इति प्राप्ते-
ब्रूमः- वाग्यमो नादृष्टार्थः। किंतु तत्कर्तृसंस्कारार्थः। तथा सति पुरोडाशे तदभावे सत्यसंस्कृतकर्त्रा तदनुष्ठानं प्रसज्येत। तस्मात्- नियमितां वाचं पुरोडाशस्य हविष्कृदाह्वानकाले विसृजेत्।। 9।।
नवमे- अग्निचयनेऽग्निविमोकस्य मतभेदे व्यवस्थाधिकरणे सूत्राणि 17-20
अग्नियोगः सोमकाले तदर्थत्वात्संस्कृतकर्मणः परेषु साङ्गस्य तस्मात्सर्वापवर्गे विमोकः स्यात्।। 17।।
प्रधानापवर्गे वा तदर्थत्वात्।। 18।।
अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात्।। 19।।
अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात्।। 20।।
नवमाधिकरणमारचयति-
किमग्निमोकः सर्वान्ते मुख्यान्ते वाऽग्रिमो यतः। योगे सर्वार्थता मैवं मुख्यार्थोऽसौ तदन्तिमः।। 10।।
अग्निचयने योगविमोकावग्नेः श्रुतौ। ''अग्निं युनज्मि'' इति मन्त्रहोमो योगः। ''इमं स्तनम्'' इति मन्त्रहोमो विमोकः। स च साङ्गप्रधानविषयसर्वप्रयोगान्ते कर्तव्यः। कुतः- योगस्य सर्वार्थत्वेन मध्ये तद्विमोकासंभवात्। इति प्राप्ते-
ब्रूमः- ''पञ्चभिर्युनक्ति पाङ्क्तो यज्ञो यावानेव यज्ञस्तमाप्नोति'' इत्यनेन मोचने यज्ञप्राप्तिवचनेन योगस्य प्रधानार्थत्वावगमात्प्रधानकर्मणोऽन्ते विमोकं कुर्यात्।। 10।।
एतदेवाधिकरणं वार्तिककारमतेनारचयति-
व्यत्यस्तौ तावुभौ पक्षावुत्पत्तावविशेषतः। सर्वार्थत्वं गुणे भाति सर्वान्तेऽतो विमोचनम्।। 11।।
प्रधानान्ते विमोकः- इति यो भाष्ये सिद्धान्तः। स एवात्र पूर्वः पक्षः।
''अग्निं युनज्मि- शवसा घृतेनेति जुहोति, अग्निमेव तद्युनक्ति'' इत्येतद्योगस्योत्पत्तिवाक्यम्। ''पञ्चभिर्युनक्ति'' इति गुणविधिः। तत्र न तावदुत्पत्तौ प्रधानगामी योग इत्यस्यार्थस्य गमको विशेषोऽस्ति। गुणविधिशेषेऽपि यज्ञशब्दो न प्रधानमात्रमाचष्टे, किंतु साङ्गम्। तस्मात्- योगस्य सर्वार्थत्वाद्विमोकोऽपि सर्वान्ते कर्तव्यः।। 11।।
दशमे- उपसत्कालस्य सुब्रह्मण्याह्वानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम्
सुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात्।। 21।।
दशमाधिकरणमारचयति-
उपसत्कालसुब्रह्मण्यागणो भिद्यते न वा। प्रधानभेदाद्भेदः स्यात्कालभेदान्न भिद्यते।। 12।।
अहर्गणेषूपसत्कालीनं सुब्रह्मण्याह्वानं प्रधानभेदाद्भिद्यते। इति चेत्-
न। पूर्वकालीनतया यूपन्यायेन तन्त्रत्वात्।। 12।।
एकादशे- सुत्याकालीनसुब्रह्मण्याह्वानस्य भेदेनानुष्ठानाधिकरणे सूत्राणि 22-32
तत्काला त्वावर्तेत प्रयोगतो विशेषसंबन्धात्।। 22।।
अप्रयोगाङ्गमिति चेत्।। 23।।
स्यात्प्रयोगनिर्देशात्कर्तृभेदवत्।। 24।।
तद्भूतस्थानादग्निवदिति चेत्तदपवर्गस्तदर्थत्वात्।। 25।।
अग्निवदिति चेत्।। 26।।
न प्रयोगसाधारण्यात्।। 27।।
लिङ्गदर्शनाच्च।। 28।।
तद्धि तथेति चेत्।। 29।।
नाशिष्टत्वादितरन्यायत्वाच्च।। 30।।
विध्येकत्वादिति चेत्।। 31।।
न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत्।। 32।।
एकादशाधिकरणमारचयति-
सुत्याकालीनमाह्वानं तन्त्रं स्याद्भिद्यतेऽथवा। यूपाहुतिनयात्तन्त्रं सुत्याकालतया भिदा।। 13।।
अहर्गणेषु प्रथमसुत्यासंनिधौ कृतमपि सुब्रह्मण्याह्वानं सर्वेष्वहःसूपकरोति। यथा यूपैकादशिन्यां दृष्टिगोचरे देशे क्रियमाणा यूपाहुतिः सत्यप्यर्थादेकयूपसंनिधौ सर्वेषामुपकारः, तद्वत्। इति प्राप्ते-
ब्रूमः- अन्यसुत्याकालीनेनाह्वानेनात्र नास्त्युपकारः। कालविशेषस्यापि तत्प्रयोजकत्वात्। अन्यथा ग्रहादीनामपि तन्त्रत्वापत्तेः। तस्मात्- आह्वानं भिद्यते।। 13।।
द्वादशे- देशपात्रर्त्विजामन्यप्रयोगे पूर्वदेशाद्यादानस्यैच्छिकताधिकरणे सूत्रम्
लौकिकेषु यथाकामी संस्कारानर्थलोपात्।। 33।।
द्वादशाधिकरणमारचयति-
देशपात्रर्त्विजोऽन्यस्मिन्प्रयोगेऽन्य उतैच्छिकाः। भुक्त्यर्थपर्णवत्तेऽन्ये वासोवत्ते स्युरैच्छिकाः।। 14।।
''समे यजेत'' इत्युक्तो देशः, जुह्वादीनि पात्राणि, अध्वर्युप्रमुखा ऋत्विजः। ते चैकस्मिन्प्रयोग उपयुक्ता निरिष्टकत्वान्न प्रयोगान्तरमर्हन्ति। इष्टान्निर्गता निरिष्टाः, कुत्सिता निरिष्टा निरिष्टकाः। पुनः प्रयोगानर्हा इत्यर्थः। यथा भोजन उपयुक्तं कदलीपर्णं प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति, तथाऽत्राप्यन्ये देशादयः प्रयोगान्तरे संपाद्याः। इति प्राप्ते-
ब्रूमः- यथा वस्त्रं पूर्वदिने प्रावरणायोपयुक्तमपि दिनान्तरे निरिष्टकं न भवति, शिष्टास्तद्वासो दिनान्तरे स्वीकुर्वन्ति, तद्वदत्रापि द्रष्टव्यम्। 'इदं निरिष्टकम्, इदं न' इत्यत्र शिष्टाचार एव प्रमाणम्। शिष्टाश्च देशादि नियमेन न त्यजन्ति। तस्मात्- ऐच्छिकाः।। 14।।
त्रयोदशे- पात्राणां तन्त्रस्य नियमाधिकरणे सूत्राणि 34-42
यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत्।। 34।।
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात्।। 35।।
मुख्यसाधारणं वा मरणस्यानियतत्वात्।। 36।।
यो वा यजनीयेऽहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत्।। 37।।
न शास्त्रलक्षणत्वात्।। 38।।
उत्पत्तिर्वा प्रयोजकत्वादाशिरवत्।। 39।।
शब्दासामञ्जस्यमिति चेत्।। 40।।
तथाशिरे।। 41।।
शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रकृतावथेहापूर्वार्थवद्भूतोपदेशः।। 42।।
त्रयोदशाधिकरणमारचयति-
मा भूदन्यत्वनियमः पात्रे तन्त्रं किमैच्छिकम्। नियतं वाऽग्रिमो देशवन्मैवं प्रतिपत्तितः।। 15।।
देशपात्रर्त्विजां साधारण्येनान्यत्वनियमे निवारिते सति पुनः पात्रेषु नियमानियमसद्भावश्चिन्त्यते। 'प्रथमप्रयोगे यान्युपयुक्तानि पात्राणि तान्येव प्रयोगान्तरेषु' इति नियमो नास्ति, उत- अस्ति, इति संशयः।
यथा देशे कर्तृषु च 'तं एव' इति नियमो नास्ति। ऐच्छिकत्वस्योक्तत्वात्। तथा पात्रेष्वपि। इति चेत्-
मैवम्। आमरणं पात्राणां धारणीयत्वात्। ''आहिताग्निमग्निभिर्दहन्ति, यज्ञपात्रैश्च'' इति प्रतिपत्तिविधानेनामरणं धारणमेवावगम्यते।
ननु- 'पात्रैः' इति तृतीयया गुणभावावगमादर्थकर्मेदम्, न तु प्रतिपत्तिः। तथा सति पात्रान्तरैरपि दाहसिद्धेर्न धारणनियमः- इति चेत्-
मैवम्। ''दक्षिणे पाणौ जुहूमासादयति'' इति द्वितीयया प्रतिपाद्यत्वावधारणात्पूर्वेषामेव धारणम्। तस्मात्- सर्वेषु प्रयोगेषु पात्राणां तन्त्रम्।
चतुर्दशे- पात्राणामाधानमारभ्य धारणनियमाधिकरणे सूत्राणि 43-45
प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन्।। 43।।
अग्न्याधेये वाऽविप्रतिषेधात्तानि धारयेरन्मरणस्यानिमित्तत्वात्।। 44।।
प्रतिपत्तिर्वा यथाऽन्येषाम्।। 45।।
चतुर्दशाधिकरणमारचयति-
किं पौर्णमासीमारभ्य यद्वाधानमियं धृतिः। प्रकृत्यर्थतयाद्यः स्यान्मरणानियमात्परः।। 16।।
अनारभ्याधीतानां पात्राणां प्रकृतिगामितया पौर्णमासीमारभ्य धारणम्। इति प्राप्ते-
ब्रूमः- आधानकाले पवमानेष्टिषु चोदकप्राप्तत्वात्पात्राण्याधानमारभ्य धारयितव्यानि। अन्यथा- आधानपौर्णमास्योर्मध्ये यजमानस्य कदाचिन्मरणे पात्राभावेन दाहाभावप्रसङ्गात्। तस्मात् 'आधानमारभ्य धारणम्' इत्ययं परपक्षोऽभ्युपगन्तव्यः।। 16।।
पञ्चदशे- सर्वसोमानामुपरिष्टात्प्राजापत्यप्रचाराधिकरणे सूत्राणि 46-52
उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति सर्वेषामविशेषाद्वाच्यो हि प्रकृतिकालः।। 46।।
अङ्गविपर्यासो विना वचनादिति चेन्न।। 47।।
उत्कर्षः संयोगात्कालमात्रमितरत्र।। 48।।
प्रकृतिकालासत्तेः शस्त्रवतामिति चेत्।। 49।।
न श्रुतिप्रतिषेधात्।। 50।।
विकारस्थान इति चेत्।। 51।।
न चोदनापृथक्त्वात्।। 52।।
पञ्चदशाधिकरणमारचयति-
प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः। ऊर्ध्वं वा विकृतौ वोत परस्तात्सर्वसोमतः।। 17।।
आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः। श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः।। 18।।
पशवो न हि सोमस्य विकारा अविशेषतः। उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यते।। 19।।
वाजपेये सप्तदशप्राजापत्यप्रचारस्य काले चतुर्धा संशयः। तत्र तावदयं प्रयोगक्रमः- तृतीयसवने प्रथममार्भवः पवमानः, ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः, ततोऽशस्त्रिष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम्न ऊर्ध्वमुक्थ्यादयः सोमविकाराः- इति। एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः। कुतः- प्रकृतौ तस्य प्रचारकालत्वेन चोदकप्राप्तत्वात्। इत्याद्यः पक्षः।
''उपरिष्टात्सोमानां प्राजापत्यैश्चरन्ति'' इति वचनेन सोमग्रहप्रचारादूर्ध्व कालो विधीयते। यदि 'प्रातःसवनमाध्यंदिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्ति' इति योज्येत, तदा चोदकेनैव तत्कालप्राप्तेर्वचनमनर्थकं स्यात्। अतः 'तृतीयसवनसोमानामुपरि' इति वक्तव्यम्। यदि तत्र 'सर्वसोमानामुपरि' इति विवक्ष्येत, तदा चोदकप्राप्तः कालो विप्रकृष्यते। ततः प्रत्यासत्तये 'शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरि' इति द्वितीयः पक्षः।
'उपरिष्टात्सोमानाम्' इत्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत। तस्मात्- शस्त्रवतां तद्रहितानां सोमानामुपरिष्टादग्निष्टोमे यज्ञायज्ञीयसाम्ना संस्थिते सति स प्रचारः कार्यः। तस्य विकृतिकालत्वात्, प्राजापत्यपशूनां च विकृतिरूपत्वात्। इति तृतीयः पक्षः।
सोमविकाराणामेवायं कालः। पशवस्तु न सोमविकाराः। तस्मात्- अविशेषवचनानुसारेण प्राकृतानां वैकृतानां च सर्वेषां सोमानामुपरिष्टात्प्रजापत्यपशुप्रचारः। इति सिद्धान्तः।। 17।। 18।। 19।।
षोडशे- सवनीयपुरोडाशे देवतोत्कर्षाधिकरणे सूत्रे 53-54
उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वात्, यथा निष्कर्षेऽनन्वयः।। 53।।
वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादनन्वयः।। 54।।
षोडशाधिकरणमारचयति-
सवनीयपुरोडाशे देवोत्कर्षो न विद्यते। अस्ति वा पश्वनङ्गत्वान्नान्वयाभावतोऽस्ति सः।। 20।।
ज्योतिष्टोमे सवनीयपशुस्तन्त्री, सवनीयपुरोडाशः प्रसङ्गी, तस्मिन्पुरोडाशे देवता आम्नाताः- ''भृज्जन्निन्द्राय हरिवते धाना पूषण्वते करम्भम्'' इत्यादिना। तत्र देवतावाचिनां हरिवदिन्द्रपूष्ण्वदिन्द्रादिपदानामुत्कर्षो विषयः। तस्य चैवं संभावना- सवनीयपशोस्तावदनुयाजा उत्कृष्यन्ते, ''आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति'' इत्यनुयाजानामाग्निमारुतशस्त्रादधस्तनं स्वकालं निर्वाप्योर्ध्वकालस्य विहितत्वात्। उत्कृष्टेष्वनुयजेषु तदुत्तरकालीनः सूक्तवाकोऽर्थादुत्कृष्यते। तस्मिंश्च सूक्तवाके देवतावाचीनि पदानि प्रयोक्तव्यानि। प्रसङ्गिनः पुरोडाशस्य पृथक्सूक्तवाको नास्ति। ततः पशुसंबन्धिसूक्तवाकोत्कर्षेण पुरोडाशसंबन्धिदेवतावाचिपदोत्कर्षः संभावितः। स चोत्कर्षो नास्ति- इति तावत्प्राप्तम्। कुतः- तासां देवतानां पश्वनङ्गत्वात् ।
मैवम्। सूक्तवाकमन्तरेण पृथगुच्चारितानां देवतापदानामन्वयाभावात्। सूक्तवाके त्वस्त्यन्वयः। तथा हि- ''अग्निमद्य होतारमवृणीतायं यजमानः'' इत्यस्मिन्पाशुके सूक्तवाके ''भृज्जन्निन्द्राय हरिवते धाना अयं यजमानः'' इत्यस्त्यन्वयः। तस्मात्- उत्कर्षोऽस्ति। इति सिद्धान्तः।। 20।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य तृतीयः पादः।। 3।।
अत्र पादे- अधिकरणानि 16, सूत्राणि 54।
आदितः- अधिकरणानि 818, सूत्राणि 2419।
एकादशाध्यायस्य चतुर्थः पादः
तथैवावापः प्रपञ्चितः।
प्रथमे राजसूये सौमापौष्णादिकेऽङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 1-3
चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि।। 1।।
प्रतिदक्षिणं वा कर्तृसंबन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्या तदेकत्वादेकशब्दोपदेशः स्यात्।। 2।।
तथा चान्यार्थदर्शनम्।। 3।।
चतुर्थपादे प्रथमाधिकरणमारचयति-
सौमापौष्णादिके तन्त्रमङ्गानामुत भिन्नता। तन्त्रं फलैक्यतो मैवं दक्षिणाकर्तृभेदतः।। 1।।
राजसूये श्रूयते ''सौमापौष्ण एकादशकपालः, ऐन्द्रापौष्णश्चरुः, पौष्णश्चरुः, श्यामो दक्षिणा'' इति। ''आग्नावैष्णव एकादशकपालः, ऐन्द्रावैष्णवश्चरुः, वैष्णवस्त्रिकपालः, वामनो दक्षिणा'' इति। तत्र द्वयोस्त्रिकयोस्तन्त्रेणाङ्गानुष्ठानम्। कुतः- कृत्स्नस्य राजसूयस्य फलैकत्वेन तदेकदेशयोरनयोरपि फलैकत्वात्। न च दर्शपूर्णमासयोरिवात्र कालभेदोऽस्ति, येनावापः शङ्क्येत। इति प्राप्ते-
ब्रूमः- श्यामवामनयोर्दक्षिणयोर्भेदेन ताभ्यामानतानां कर्तॄणां भेदादङ्गानि भिद्यन्ते।। 1।।
द्वितीये- राजसूये कर्तुस्तन्त्रताधिकरणे सूत्राणि 4-8
अनियमः स्यादिति चेत्।। 4।
नोपदिष्टत्वात्।। 5।।
लाघवातिपत्तिश्च।। 6।।
प्रयोजनैकत्वात्।। 7।।
विशेषार्था पुनः श्रुतिः।। 8।।
द्वितीयाधिकरणमारचयति-
राजसूये प्रक्रमस्थकर्तारो नियता न किम्। नियता वा दक्षिणानां भेदादनियता अमी।। 2।।
अनेकसमुदायात्मराजसूयाय ते वृताः। आदौ ते न नियम्यन्ते विशेषे दक्षिणाभिदा।। 3।।
राजसूयस्य प्रक्रमे ये कर्तारः, त एवासमाप्तेर्न नियम्यन्ते। दक्षिणादिभेदेन कर्तृभेदस्य पूर्वमुक्तत्वात्। तथा च यया दक्षिणया ये परिक्रीताः, ते तदीयकर्मानुतिष्ठन्तु। इतरस्मिन्कर्मणि दक्षिणान्तरेण ते वाऽन्ये वा परिक्रीयन्ताम्। इति प्राप्ते-
ब्रूमः- 'अनेन राजसूयसंज्ञेन कर्मसमुदायेन मां याजय' इत्येवमादौ यजमानेन वृतत्वादा समाप्तेस्त एव कर्तारः। ईदृशमेव वरणं न्याय्यम्, समुदायस्यैकफलत्वात्। प्रतिकर्म पृथग्वरणे गौरवात्। कदाचिद्वरीतव्यानामलाभे विघ्नप्रसङ्गाच्च। कर्त्रैक्येऽपि कर्तृत्वधर्मविशेषे दक्षिणाभेद उपयुज्यते। पूर्वकर्तृत्वाधिष्ठानभूता एव वामनेन क्रीताः सन्त आग्नावैष्णवादित्रिकं कुर्युः, अयुतेन क्रीताः सन्तोऽभिषेचनीयम्, इति कर्तृत्वधर्मविशेषः। तस्मात्- नियताः।। ।2।। 3।।
तृतीये- अवेष्टावङ्गानां भेदाधिकरणे सूत्राणि 9-11
अवैष्टो चैकतन्त्र्यं स्याल्लिङ्गदर्शनात्।। 9।।
वचनात्कामसंयोगेन।। 10।।
क्रत्वर्थायामिति चेन्न वर्णसंयोगात्।। 11।।
तृतीयाधिकरणमारचयति-
अवेष्टावङ्गतन्त्रत्वं भेदो वा लिङ्गतोऽग्रिमः। नोत्पत्तौ दक्षिणाभेदाल्लिङ्गं बाह्यप्रयोगगम्।। 4।।
राजसूयप्रकरणे श्रूयते ''दिशामवेष्टयो भवन्ति'' इति। ताश्चावेष्टय उत्पत्तिवाक्यैरेवमाम्नायन्ते- ''आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा। ऐन्द्रमेकादशकपालमृषभो दक्षिणा। वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा। मैत्रावरुणीमामिक्षां वशा दक्षिणाबार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा'' इति। तास्ववेष्टिषु तन्त्रेणाङ्गानामनुष्ठानम्। कुतः- तल्लिङ्गात्। 'यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वा तमभिघारयेत्। यदि राजन्यः, ऐन्द्रम्। यदि वैश्यः, वैश्वदेवम्' इति। तत्र मध्ये निधानं प्रयोगैक्ये लिङ्गम्। तदैक्याच्च तन्त्रम्। इति प्राप्ते-
ब्रूमः- उत्पत्तिगतेन दक्षिणाभेदेन प्रयोगभेदावगमादङ्गानां भेदः। लिङ्गं तु बहिष्प्रयोगविषयम्। अस्ति च प्रयोगद्वयम्। राजसूयप्रकरणपाठादन्तःप्रयोग एकः। न च प्रकरणादुत्कर्षः कर्तुं शक्यः। राजसूयाङ्गभूतदिग्व्यस्थापननिमित्तोन्मादपरिहाररूपेणार्थवादेन तत्संबन्धावगमात्। तथा च श्रूयते ''ईश्वरो वा एष दिशोऽनून्मदितोः। यं दिशोऽनु व्यवस्थापयति। दिशामवेष्टयो भवन्ति। दिक्ष्वेव प्रतितिष्ठत्यनुन्मादाय'' इति। राजसूयाद्बहिष्प्रयोगस्तु ''एतयान्नाद्यकामं याजयेत्'' इति विहितः। न च- असौ राजसूयान्तः पाती। 'यदि ब्राह्मणः' इत्यादिना वर्णसंयोगावगमात्। राजसूये च व्राह्मणवैश्ययोरनधिकारात्। तस्मात् 'बहिष्प्रयोगे तन्त्रम्, अन्तःप्रयोगे भेदः' इति निर्णयः।। 4।।
चतुर्थे- पवमानेष्टिहविषां भेदेनानुष्ठानाधिकरणे सूत्राणि 12-15
पवमानहविःष्वैकतन्त्र्यं प्रयोगवचनैकत्वात्।। 12।।
लिङ्गदर्शनाच्च।। 13।।
वचनात्तु तन्त्रभेदः स्यात्।। 14।।
सहत्वे नित्यानुवादः स्यात्।। 15।।
चतुर्थाधिकरणमारचयति-
पवमानेष्टिहविषां तन्त्रं भेदोऽथवाऽग्रिमः। साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः।। 5।।
आधानप्रकरणे पठ्यते- ''अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचये'' इति। तैरेतैर्हविर्भिः साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रम्। इति प्राप्ते-
ब्रूमः- ''यः कामयेत- उत्तरं वसीयान्, श्रेयान्, स्याम्- इति, तस्याग्नये पवमानाय निरुप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्'' इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः, उत्तरयोस्तन्त्रम्। नित्यप्रयोगे तु त्रयाणां तन्त्रम्।। 5।।
पञ्चमे- द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहताधिकरणे सूत्राणि 16-23
द्वादशाहे तत्प्रकृतित्वादेकैकमहरपवृज्येत कर्मपृथक्त्वात्।। 16।।
अह्नां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यंदिने।। 17।।
अपि वा फलकर्तृसंबन्धात्सहप्रयोगः स्यादाग्नेयाग्नीषोमीयवत्।। 18।।
साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात्।। 19।।
तदपेक्षं च द्वादशत्वम्।। 20।।
दीक्षोपसदां च संख्या पृथक्पृथक्प्रत्यक्षसंयोगात्।। 21।।
तथा चान्यार्थदर्शनम्।। 22।।
चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात्।। 23।।
पञ्चमाधिकरणमारचयति-
द्वादशाहे सदीक्षोपसदहे दिनमानकम्। शतत्रयं द्वादश वा षट्त्रिंशद्वाऽग्रिमो यतः।। 6।।
एकैककर्मणोऽह्नोऽस्य ज्योतिष्टोमविकारता। एकैकं तदनुष्ठानं दिनानां पञ्चविंशतिः।। 7।।
अह्नां द्वादशताश्रुत्या मध्यपक्षस्तदाऽपि किम्। कार्या द्वादश साद्यस्क्राश्चतुष्काणामुत त्रिकम्।। 8।।
एकैकस्यैव यागस्य विकृतित्वादिहादिमः। अमुख्यकालाङ्गबाधाच्चतुष्कं भिद्यते त्रिधा।। 9।।
दीक्षा उपसदः सुत्या प्रत्येकंद्वादश स्मृताः । साङ्गस्य द्वादशाहस्य षट्त्रिंशद्दिवसा मताः।। 10।।
द्वादशाहस्यैकैकमहः पृथक्कर्म तस्मिंश्च सदीक्षस्य सोपसत्कस्य ससुत्यस्य ज्योतिष्टोमस्य विध्यन्तोऽतिदिष्टः। अतिदिष्टानामुपसदां दीक्षाणां च प्राकृतसंख्याबाधनाय पृथग्द्वादशत्वं श्रुतम्। ततो दीक्षोपसदर्थं चतुर्विंशतिदिनानि, सुत्यार्थमेकं दिनमिति पञ्चविंशतिः। ईदृशस्य कर्मविशेषस्याह्नो द्वादशभिरावृत्तिभिः शतत्रयं स्यात्। इत्याद्यः पक्षः।
तथा सत्यह्नां द्वादशत्वं श्रूयमाणं बाध्येत। तस्मात्- द्वादश दिवसाः। इति मध्यमः पक्षः।
तदाऽपि दीक्षोपसद्भ्यामुपेतस्यैकैकस्याह्नः साङ्गज्योतिष्टोमविकारत्वात्सर्वं सद्य एव कर्तव्यम्। इत्येकः पक्षः।
प्रकृतौ दीक्षोपसदोर्मुख्यकालात्प्रागेवानुष्ठितत्वादिहापि तथैवानुष्ठानं प्राप्तम्। तच्च मुख्यकालेऽनुष्ठाने बाध्येत। तस्मात्- अङ्गद्वयस्य प्रधानस्य च द्वादश दिनानि विभज्यानुष्ठानम्। इति पक्षान्तरम्।
''द्वादश दीक्षाः, द्वादशोपसदः'' इत्यङ्गयोर्मुख्यवत्पृथग्द्वादशत्वश्रुत्यां षट्त्रिंशत्। इति सिद्धान्तः।। 6।। 7।। 8।। 9।। 10।।
षष्ठे- प्रधानैरपृथक्कालानामङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 24-27
भेदस्तु तद्भेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्।। 24।।
तथा चान्यार्थदर्शनम्।। 25।।
श्वः सुत्यावचनं तद्वत्।। 26।।
पश्वतिरेकश्च।। 27।।
षष्ठाधिकरणमारचयति-
सवनीयादिकं तत्र सकृत्स्याद्भिद्यतेऽथवा। प्रयोगैक्यात्सकृन्मैवं मुख्यकाले विधानतः।। 11।।
तत्र द्वादशाहे सवनीयपश्वादिकमङ्गं दीक्षादिवत्सकृदेवानुष्ठेयम्। कुतः ''द्वादशाहेन प्रजाकामं याजयेत्'' इति प्रयोगैकत्वावगमात्। इति चेत्-
मैवम्। दीक्षादीनामन्यस्मिन्कालेऽनुष्ठेयत्वात्। सवनीयादिकं तु मुख्यकालेऽनुष्ठेयम्। अतो मुख्यकालानां भेदाद्भिद्यते।। 11।।
सप्तमे- उपसत्काले सुब्रह्मण्याह्वानस्याविकारेण कर्तव्यताधिकरणे सूत्रे 28-29
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्वयादावाहनवत्।। 28।।
अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणम्, कालस्य लक्षणार्थत्वादविभागाच्च।। 29।।
सप्तमाधिकरणमारचयति-
उपसत्काल आह्वानं द्वादशाहे विकारभाक्। न वाद्य उपलक्ष्यत्वादत्राह्नां प्रकृताविव।। 12।।
सुत्यागमनमात्रस्य विवक्षा प्रकृतौ ततः। विकारमन्तरेणात्र तत्सिध्येत्तेन तन्त्रता।। 13।।
उपसत्काले यत्सुब्रह्मण्याह्नं प्रकृतावस्ति, तद्द्वादशाहे चोदकप्राप्तम्। तस्य मुख्यकालादन्यः काल इति कृत्वा तन्त्रं पूर्वं निर्णीतम्। इदानीमन्योऽत्रोहरूपो विकारस्तन्त्रावापपर्यवसायी विचार्यते।
प्रकृतौ प्रथमोपसद्दिनमारभ्य त्रयोदशेऽह्नि प्रथमसुत्या, चतुर्दशेऽह्नि द्वितीयसुत्या, इत्येवंक्रमेण चतुर्विंशेऽह्नि चरमसुत्या भवति। तथा च प्रकृतौ 'चतुरहः' इति संख्याविशिष्टेनाहःशब्देन सुत्याया उपलक्षितत्वादत्रापि द्वादशानां सुत्यानामहःशब्देनोपलक्षणीयत्वे सति तद्विशेषणभूतचतुःसंख्यास्थाने यथोचितं त्रयोदशचतुर्दशादिसंख्यानामूहनीयत्वेन विकारो भवति। ततो विशेषणभेदेन विशेष्यस्याहःशब्दस्यापि द्वादशकृत्व आवृत्तावर्थात्सुब्रह्मण्यावापः स्यात्। इति प्राप्ते-
ब्रूमः- प्रकृताविन्द्रस्य सुत्यागमनमात्रं विवक्षितम्। चतुरहत्वं त्वर्थप्राप्तमनूद्यते। उभयविवक्षायां ''सुत्यामागच्छ, चतुरह आगच्छ'' इति वाक्यं भिद्येत। तथा- अत्रापि 'त्रयोदशाहे सुत्यामागच्छ' इत्येवंविधं विकारमन्तरेण 'चतुरहे सुत्यामागच्छ' इत्येवाह्वानेऽपि चतुरहशब्दस्याविवक्षितार्थत्वात्सुत्याकारेण द्वादशानामेकत्वादशेषसुत्यागमनं सिध्यति। तस्मादिह रूपविकाराभावात्पूर्वोक्तं तन्त्रं सुस्थितम्।। 12।। 13।।
अष्टमे- वाजपेये प्राजापत्येषु कुम्भ्यादीनां तन्त्रताधिकरणे सूत्रम्
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रभावः स्यात्।। 30।।
अष्टमाधिकरणमारचयति-
प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः। भेदो मैवं विशेषाङ्गश्रपणादौ प्रभुत्वतः।। 14।।
वाजपेये सप्तदशप्राजापत्यपशुषु कुम्भ्या हृदयशूलस्य वपाश्रपण्याश्च भेदः स्यात्। तत्तत्पश्वङ्गानां भिन्नत्वात्।
मैवम्। पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थे श्रपणादौ प्रभुत्वात्। तस्मात्- तन्त्रम्।। 14।।
नवमे- भिन्नदेवताकेष्वपि शूलादीनां तन्त्रताधिकरणे सूत्रे 31-32
भेदस्तु संदेहाद्देवतान्तरे स्यात्।। 31।।
अर्थाद्वा लिङ्गकर्म स्यात्।। 32।।
नवमाधिकरणमारचयति-
किमैकादशिनेष्वस्य कुम्भ्यादेर्भिन्नता न वा। असंदेहाय भेदो न लिङ्गादेवास्य सिद्धितः।। 1।।
भिन्नदेवताकेष्वैकादशिनेषु पशुष्वेककुम्भीपाके सति 'किमङ्गं कां देवतां प्रत्युपाकृतस्य पशोः संबन्धि' इति संदेहे सति प्रदानं संकीर्येत। तस्मात्- कुम्भ्यादिरावापः। इति चेत्-
मैवम्। चिह्नकरणमात्रेणैव संदेहापगमसिद्धौ लाघवात्। तस्मात्- अत्रापि तन्त्रम्।। 15।।
दशमे- वसाकुम्भ्याऽपि तन्त्रताधिकरणे सूत्राणि 33-36
अयाज्यत्वाद्वसानां भेदः स्यात्स्वयाज्याप्रदानत्वात्।। 33।।
अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वत्वस्याश्रुतिभूतत्वात्।। 34।।
सकृदिति चेत्।। 35।।
न कालभेदात्।। 36।।
दशमाधिकरणमारचयति-
तत्तन्त्रं हेयमुत नो, चिह्नं नास्ति वसास्वतः। हेयं, नो प्रतिपत्तित्वात्सांकर्येणाप्यदोषतः।। 6।।
ऐकादशिनेषु कुम्भ्यादेर्यत्तन्त्रं निर्णीतम्, तत्परित्याज्यम्। कुतः- अङ्गानामिव वसानां चिह्नकरणासंभवेन सांकर्यप्रसङ्गात्। इति चेत्-
मैवम्। वसाहोमस्य प्रतिपत्तिकर्मत्वेन द्रव्यं प्रति प्रयोजकत्वाभावेन द्रव्यश्रपणार्थं कुम्भीभेदप्रयोजकत्वस्य दूरापेतत्वात्। न च- अत्र द्रव्यसांकर्यं दोषाय भवति। व्यवस्थापकप्रमाणाभावात्।
ननु- तत्तदेवताविषययाज्यार्धर्चान्तेषु भिन्ना होमाः पूर्वं निर्णीताः। बाढम्। तथैवार्धर्चान्ते तद्धूयताम्, किमायातं द्रव्यसांकर्ये। तस्मात्- कुम्भ्यादेस्तन्त्रं न त्याज्यम्।। 16।।
एकादशे- भिन्नजातिषु कुम्भ्यादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 37-38
जात्यन्तरेषु भेदः स्यात्पक्तिवैषम्यात्।। 37।।
वृद्धिदर्शनाच्च।। 38।।
एकादशाधिकरणमारचयति-
भिन्नजातिषु कुम्भ्यादेस्तन्त्रं भेदोऽथवाऽग्रिमः। पूर्ववत्पाकवैषम्ये साहित्यासंभवाद्भिदा।। 17।।
एकजातिषु पशुषु यथा कुम्भ्योस्तन्त्रं पूर्वोक्तम्, तथाऽत्रापि। इति चेत्-
मैवम्। अवेरङ्गानि सहसा पच्यन्ते, अजाङ्गानि तु विलम्बेन। ततः साहित्यासंभवात्कुम्भ्यादेर्भेदः।। 17।।
द्वादशे- अश्वप्रतिग्रहेष्टौ प्रतिपुरोडाशं कपालभेदाधिकरणे सूत्राणि 39-41
कपालानि च कुम्भीवत्तुल्यसंख्यानाम्।। 39।।
प्रतिप्रधानं वा प्रकृतिवत्।। 40।।
सर्वेषां चाभिप्रथनं स्यात्।। 41।।
द्वादशाधिकरणमारचयति-
तन्त्रं चतुष्कपालानां भेदो वा तन्महत्त्वतः। कुम्भवत्तन्त्रता मैवं भेदः स्यात्प्रकृताविव।। 18।।
इदं श्रूयते ''यावतोऽश्वान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति। यथा प्राजापत्येषु कुम्भ्या महत्त्वेन तन्त्रम्, तथाऽत्रापि तन्त्रम्। इति चेत्-
मैवम्। प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः। किंच- अत्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदेशे पुरोडाशस्यैकस्य समाप्तेर्न कोऽपि पुरोडाशश्चतुष्कपालः सिध्येत्। तस्मात्- प्रतिपुरोडाशं कपालचतुष्कभेदः।। 18।।
त्रयोदशे- व्रीह्यवहननादौ प्रतिप्रहारं मन्त्रस्यानावृत्त्यधिकरणे सूत्रे 42-43
एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वम्।। 42।।
तस्मिन्मन्त्रार्थनानात्वादावृत्तौ मन्त्रस्यासकृत्प्रयोगः स्यात्।। 43।।
त्रयोदशाधिकरणमारचयति-
अवघातार्थमन्त्रः किमसकृत्सकृदेव वा। प्रहारभेदादावृत्तिः कर्मैक्येन सकृद्भवेत्।। 19।।
''अवरक्षो दिवः सपत्नं वध्यासम्- इत्यवहन्ति'' इत्यवघाते विहितो मन्त्र आवर्तनीयः। अवघातस्य प्रहाररूपत्वात्। प्रहाराणां च भिन्नत्वात्। इति प्राप्ते-
ब्रूमः- तण्डुलनिष्पत्तिपर्यन्तत्वेनाक्षिप्तप्रहाराभ्यासयुक्तस्यावघातस्यैककर्मत्वात्तत्र विनियुक्तस्य मन्त्रस्यावघातोपक्रमे सकृदेव पाठः।। 19।।
चतुर्दशे- नानाबीजेष्टौ प्रतिप्रहारं मन्त्रावृत्त्यधिकरणे सूत्रम्
द्रव्यान्तरे कृतार्थत्वात्तस्य पुनःप्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनःप्रयोगः स्यात्तदर्थेन विधानात्।। 44।।
चतुर्दशाधिकरणमारचयति-
नानाबीजेषु तन्मन्त्रः सकृद्वाऽसकृदग्रिमः। विशेषाग्रहणान्मैवमवघातस्य भेदतः।। 20।।
नानाबीजेष्टौ बीजानामवघातस्याङ्गभूतो मन्त्रः 'अयमेतदर्थः' इति विशेषस्यागृह्यमाणत्वात्सकृदादौ प्रयोज्यः। इति चेत्-
मैवम्। अवघातानां भिन्नत्वेन समन्त्रत्वाय प्रत्यवघातं मन्त्रस्याऽवर्तनीयत्वात्।। 20।।
पञ्चदशे- प्रतिनिर्वापादिमन्त्रावृत्त्यधिकरणे सूत्रे 45-46
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात्।। 45।।
द्रव्यान्तरवद्वा स्यात्तत्संस्कारात्।। 46।।
पञ्चदशाधिकरणमारचयति-
निर्वापादिषु तन्मन्त्राः सकृद्भेदेन वाऽग्रिमः। द्रव्यकर्मैक्यतो मैवं संस्कारस्य पृथक्त्वतः।। 21।।
दर्शपूर्णमासयोर्निर्वापबर्हिर्लवनवेदिपरिस्तरणाज्यग्रहणेष्वावृत्तयः श्रुताः ''चतुरो मुष्टीन्निर्वपति'' ''अयुग्वा युग्वा मुष्टीर्लुनाति'' ''त्रिधा तु पञ्चधा तु वा वेदिं स्तृणाति'' ''चतुर्जुह्वां गृह्णाति'' इति। तेषु निर्वापादिषु मन्त्रा विहिताः ''देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि'' इति, ''बर्हिर्देवसदनं दामि'' इति, ''ऊर्णाम्रदसं त्वा स्तृणामि'' इति, ''शुक्रं त्वा शुक्रायां धाम्ने धाम्ने देवेभ्यो यजुषे यजुपे गृह्णामि'' इति च। तत्तन्मन्त्रा द्रव्यैक्यात्कर्मैक्याच्च व्रीह्यवघातन्यायेन सकृत्पाठ्याः। इति प्राप्ते-
ब्रूमः- समन्त्रकप्रथममुष्टिनिर्वापेण ये संस्कृतास्तण्डुलाः, तेभ्योऽन्ये मुष्ट्यन्तरनिर्वापेण संस्कार्याः। अतस्तत्संस्कारसिद्धये नानाबीजन्यायेन मन्त्रावृत्तिः। एवं लवनादिषु योज्यम्।। 21।।
षोडशे- वेदिप्रोक्षणे प्रत्यावृत्तिमन्त्रानावृत्त्यधिकरणे सूत्रे 47-48
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनःप्रयोगात्।। 47।।
एकस्य वा गुणविधिर्द्रव्यैकत्वात्तस्मात्सकृत्प्रयोगः स्यात्।। 48।।
षोडशाधिकरणमारचयति-
वेदिप्रोक्षणमन्त्रः किमावर्त्यः सकृदेव वा। आद्यः स्यात्प्रोक्षणत्रित्वात्संस्कार्यैकत्वतः सकृत्।। 22।।
वेद्यास्त्रिः प्रोक्षणं विहितम्। तत्र मन्त्र आम्नायते ''वेदिरसि बर्हिषे त्वा'' इति। तत्र त्रिः प्रोक्षणक्रियाया आवृत्त्या तन्मन्त्रस्याप्यावृत्तिः। इति चेत्-
मैवम्। संस्कार्यवेद्या एकत्वेन समन्त्रकप्रथमप्रोक्षणेन तत्संस्कारसिद्धौ पुर्नर्न मन्त्रः। वैयर्थ्यात्। प्रोक्षणावृत्तिस्तु वाचनिकी, इति वैषम्यम्।। 22।।
सप्तदशे- कण्डूयनमन्त्रस्यानावृत्त्यधिकरणे सूत्रे 49-50
कण्डूयने प्रत्यङ्गं कर्मभेदात्स्यात्।। 49।।
अपि वा चोदनैककालमैककर्म्यं स्यात्।। 50।।
सप्तदशाधिकरणमारचयति-
एककालीनबह्वङ्गकण्ड्वां मन्त्रे भिदा न वा। अङ्गभेदान्मन्त्रभेदो निर्वृत्त्यैकत्वतो न सः।। 23।।
ज्योतिष्टोमे ''कृष्णविषाणया कण्डूयते'' इति प्रोक्तसाधनोपेते कण्डूयने ''सुपिप्पलाभ्यस्त्वौषधीभ्यः'' इत्यादिको मन्त्रो विहितः। तत्र युगपद्बह्वङ्गेषूत्पन्नायां कण्ड्वां प्रत्यङ्गमभ्यस्यमाने कण्डूयने मन्त्राभ्यासः कर्तव्यः। कुतः- कण्डूयितव्यानामङ्गानां भिन्नत्वात्। इति प्राप्ते-
ब्रूमः- न ह्यङ्गशेषो मन्त्रः, येन तद्भेदादभ्यस्येत। किंतु कण्डूनिवृत्तये यत्प्राप्तं कण्डूयनम्, तदेव कृष्णविषाणाविशिष्टत्वाकारेण विधीयते। विधीयमानस्य तस्य कण्डूयनस्य शेषो मन्त्रः। तेन च कण्डूयनेनात्मनि निर्दुःखत्वलक्षणः संस्कार उत्पाद्यते। तत्र संस्कार्यात्मन एकत्वात्सकृन्मन्त्रपाठेन तत्सिद्धे- र्नावघातवन्मन्त्रस्यावृत्तिः। कण्डूयनं तु दृष्टप्रयोजनपर्यन्तं प्रत्यङ्गं नानाबीजावघातवदावर्त्यताम्। तस्मात्- सकृदेव कण्डूयनमन्त्रः।। 23।।
अष्टादशे- स्वप्नादिमन्त्रानावृत्त्यधिकरणे सूत्रम्
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम्।। 51।।
दीक्षितस्य स्वप्ननद्युत्तरणवृष्टिक्लेदनामेध्यदर्शननिमित्तकास्तत्तन्मन्त्रजपाः पठिताः ''त्वमग्ने व्रतपा असि'' इत्यादिः स्वप्नमन्त्रः। ''देवीरापो अपांनपात्'' इत्यादिर्नदीतरणमन्त्रः। ''उन्दतीर्बलं धत्ते'' इत्यादिर्वृष्टिक्लेदनमन्त्रः। ''अबद्धं मनः'' इत्यादिरमेध्यदर्शनमन्त्रः। यदि निद्रा मध्ये प्रबोधैरल्पैर्व्यवधीयेत, नदी च बहुस्रोतोयुक्ता द्वीपैः, वृष्टिश्च विच्छेदैः, अमेध्यानि च देशैः, तदा तैरन्तरायैर्निमित्तेषु भिद्यमानेषु नैमित्तिका मन्त्रा आवर्त्याः- इत्येवं प्राप्ते-
ब्रूमः- रात्रिगतां कृत्स्नां निद्रामुद्दिश्य मन्त्रविधानान्निमित्तमेकम्। एवमितरत्रापि योज्यम्। तस्मात्- नास्त्यावृत्तिः।। 24।।
एकोनविंशे- दीक्षितस्य प्रयाणे मन्त्रानावृत्त्यधिकरणे- सूत्रम्
प्रयाणे त्वार्थनिर्वत्तेः।। 52।।
एकोनविंशाधिकरणमारचयति-
प्रयाणे प्रत्यहं मन्त्रो भिन्नो नो वाऽत्र विश्रमैः। प्रयाणभेदाद्भिन्नो नो गत्यैक्यादानिवृत्तितः।। 25।।
''भद्रादभिश्रेयः'' इत्यादिः प्रयाणमन्त्रः। तस्य दीक्षितस्य विश्रमभेदेन निर्गमनभेदाद्भेदः। इति प्राप्ते-
ब्रूमः- निर्गमनादारभ्य पुनः प्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम्। ततो न मन्त्रावृत्तिः।। 25।।
विंशे- उपरवमन्त्रस्यावृत्त्यधिकरणे सूत्रे 53-54
उपरवमन्त्रस्तन्त्रं स्याल्लोकवद्बहुवचनात्।। 53।।
न संनिपातित्वात्, असंनिपातिकर्मणां विशेषाग्रहणे कालैकत्वात्सकृद्वचनम्।। 54।।
विंशाधिकरणमारचयति-
तन्त्रेणोपरवे मन्त्रो भिद्यते वा, बहूक्तितः। तन्त्रं बहूक्तिः पूजार्था भिन्नोऽसौ खेयभेदतः।। 26।।
सन्ति ज्योतिष्टोमे पीठपादचतुष्टयाकारा बाहुमात्रखाता उपरवनामकाश्चत्वारो गर्ताः। तदीयखननमन्त्रे बहुवचनं श्रूयते ''रक्षोहणो वल्गहनो वैष्णवान्खनामि'' इति। तच्च प्रत्युपरवं मन्त्रावृत्तौ नोपपद्यते। तस्मात्- तन्त्रम्। इति प्राप्ते-
ब्रूमः- एकस्मिन्नपि बहुवचनं पूजार्थमाचार्यादिष्विव प्रयोक्तुं शक्यम्। खेयास्तूपरवा भिन्नाः। ततः-खननभेदेन तदङ्गभूतो मन्त्र आवर्तनीयः।। 26।।
एकविंशे-हविष्कृदादिमन्त्राणामावृत्त्यधिकरणे सूत्राणि 55-57
हविष्कृदध्रिगुपुरोनुवाक्यामनोतस्यावृत्तिः कालभेदात्स्यात्।। 55।।
अध्रिगोश्च विपर्यासात्।। 56।।
करिष्यद्वचनात्।। 57।।
एकविंशाधिकरणमारचयति-
हविष्कृदादिमन्त्राणां सवनीयादिगामिनाम्। तन्त्रं न वा सहत्वार्थं तन्त्रं नो कालभेदतः।। 27।।
सवनीयेषु पुरोडाशेषु हविष्कृन्मन्त्रश्चोदकप्राप्तः। प्राजापत्येषु पशुष्वध्रिगुप्रैषमन्त्रः। कृष्णग्रीवयोः पश्वोरनुवाक्यामनोतामन्त्रौ। ''हविष्कृदेहि'' इति हविष्कृन्मन्त्रः। ''दैव्याः शमितारः'' इत्यध्रिगुप्रैषमन्त्रः। ''अग्ने नय सुपथा'' इति पुरोनुवाक्या। ''त्वं ह्यग्ने प्रथमो मनोता'' इति मनोतामन्त्रः। एते चतुर्विधा मन्त्राः स्वस्वविषये तन्त्रेण पठनीयाः। तथा सति सवनीयपुरोडाशानां सहोपक्रमोऽनुगृह्यते।
एवमुदाहरणान्तरेष्वपि। तत्र प्राजापत्याः पशवः क्रतुपशुभिः सहोपक्रान्ताः। अतो द्विविधेष्वपि पशुषु तन्त्रम्। कृष्णग्रीवौ च सहोपक्रान्तौ, अतस्तयोः पुरोनुवाक्यायास्तन्त्रम्। तथा मनोतामन्त्रस्यापि। इति प्राप्ते-
ब्रूमः- सवनत्रयगतानां पुरोडाशानां तावत्कालभेदः सुप्रसिद्धः। क्रतुपशवः प्रातरालभ्यन्ते, प्राजपत्यास्तु पर्यग्निकृताश्चिरं विलम्ब्य ब्रह्मसामकाल आलभ्यन्ते। द्वयोः कृष्णग्रीवयोर्मध्ये सौम्यः पशुरालभ्यते। ततः सर्वत्र कालभेदेनानुष्ठानभेदात्तदङ्गभूतमन्त्राणामावृत्तिः।। 27।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तर एकादशाध्यायस्य चतुर्थः पादः।। 4।।
अत्र पादे- अधिकरणानि 21, सूत्राणि 57।
आदितः- अधिकरणानि 839, सूत्राणि 2476।
।।अध्यायश्च समाप्तः।।
द्वादशाध्याययस्य प्रथमः पादः
पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः।
तन्त्रं द्वयोद्देशकत्वादेकादश उदीरितम्। प्रसङ्गोऽन्योद्देशकत्वाज्जघन्यः सन्नथोच्यते।। 1।।
'अभ्यर्हितं पूर्वम्' इति न्यायमाश्रित्य तन्त्रप्रसङ्गप्रतिपादकयोरेकादशद्वादशाध्याययोः पूर्वोत्तरभाव उपपादितः। तन्त्रप्रसङ्गयोर्लक्षणभेदोऽप्यनेन सूचितो भवति।
उभयोद्देशेन सकृदनुष्ठानं तन्त्रम्, अन्योद्देशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः, इति तद्भेदः।। 1।।
प्रथमे- अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणे सूत्राणि 1-6
तन्त्रिसमवाये चोदनातः समानानामेकतन्त्रत्वमतुल्येषु तु भेदः स्याद्विधिप्रक्रमतादर्थ्यात् तादर्थ्यं श्रुतिकालनिर्देशात्।। 1।।
गुणकालविकाराच्च तन्त्रभेदः स्यात्।। 2।।
तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिः स्यात्तन्त्रार्थस्याविशिष्टत्वात्।। 3।।
विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात्।। 4।।
एकेषां चाशक्यत्वात्।। 5।।
एकाग्निवच्च दर्शनम्।। 6।।
तस्य प्रसङ्गस्य प्रतिपादके द्वादशाध्याये प्रथमपादस्य प्रथमाधिकरणमारचयति-
पश्वर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया। अस्ति वा विध्यभावान्नो ह्यर्थतस्त्वस्तु लोकवत्।। 2।।
अग्नीषोमीये पशौ यानि चोदकप्राप्तानि प्रयाजाद्यङ्गान्यनुष्ठितानि, तैः पशुपुरोडाश उपकारो नास्ति। कुतः- उपकारबोधकस्य विधेरभावात्। चोदकस्तु 'दर्शपूर्णमासवत्पशुरनुष्ठेयः' इत्येवंरूपत्वात्पशावेव तदुपकारं बोधयति।
ननु पशुपुरोडाशस्यापीष्टिविकृतित्वात्तत्रापि चोदकोऽस्ति- इति चेत्- बाढम्। अत एव भिन्न चोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानि। इति प्राप्ते-
ब्रूमः- यद्यपि 'पश्वर्थैः पुरोडाशस्योपकारः' इत्येतादृशं शास्त्रं नास्ति, तथाऽप्ययमुपकारोऽर्थप्राप्तो न निवारयितुं शक्यते। यथा प्रदीपस्य वेदिकार्थं निर्मितस्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्यम्, तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य पश्वर्थैरङ्गैरुपकारः केन वार्येत। तस्मात्- अन्यार्थैरप्यस्तूपकारः।। 2।।
द्वितीये- पुरोडाशे, आज्यभागयोः कर्तव्यताधिकरणे सूत्रम्
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात्।। 7।।
द्वितीयाधिकरणमारचयति-
आज्यभागौ पुरोडाशे न स्तः स्तो वाऽस्य चोदकः। लुप्तस्ततो न तौ मैवं प्रयोगांशस्य लोपनात्।। 3।।
''न तौ पशौ करोति'' इति निषेधादाज्यभागयोः पशावभावे पुरोडाशे प्रसङ्गसिद्धिर्नास्ति। ततस्तौ विचार्येते। तत्र 'पुरोडाश आज्यभागौ न स्तः' इति तावत्प्राप्तम्। कुतः- पुरोडाशविषयस्य चोदकस्य लुप्तत्वात्। अन्यथा प्रयाजादीनामपि पुनरनुष्ठानापत्तेः। इति प्राप्ते-
ब्रूमः- न तावत्पुरोडाशे चोदको लुप्यते। बाधकाभावात्। पूर्वोक्तप्रसङ्गसिद्धिस्तु प्रयोगवचनमेव बाधते, न चोदकम्। अन्यथा प्रयाजादीनां पुरोडाशाङ्गत्वाभावेन प्रसङ्गसिद्धेरप्यवक्तव्यत्वात्।
ननु प्रयोगवचनबाधेऽप्याज्यभागौ न स्तः- इति चेत्-
न। आज्यभागौ प्रति बाधिकायाः प्रसङ्गसिद्धेरभावात्। ततः प्रसङ्गसिद्धाङ्गविषयप्रयोगांशस्यैव बाधादबाधितेन प्रयोगवचनांशेनाज्यभागावनुष्ठीयेते। यथा देवदत्ते यज्ञदत्तयानमारूढे देवदत्तयानं निवर्तते, न तु वस्त्रालंकरणादिबाधनम्।। 3।।
तृतीये- सोमे दार्शिकवेद्यकरणाधिकरणे सूत्रे 8-9
नानार्थत्वात्सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात्।। 8।।
अकर्म वा कृतदूषा स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
सोमे वेद्यां कृतायां यदिष्टिप्रकृतिकं भवेत्। तत्र कार्यैष्टिकी वेदिर्न वा, वेदिस्तु सौमिकी।। 4।।
प्रचाराय हविःसादनाय कार्यैष्टिकी पृथक्। मैवं सादनमप्यत्र कर्तुं शक्यं ततो न सा।। 5।।
साङ्गप्रधानहविः प्रचाराय कृतायां सौमिक्यां महावेद्यामेवेष्टिप्रकृतिकहविषां सादयितुं शक्यत्वात्पृथगैष्टिकी वेदिर्न कार्या।। 4।।
चतुर्थे- सौम्यचर्वादिहोमस्यैष्टिकपात्रैरनुष्ठानाधिकरणे सूत्रे 10-11
पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात्।। 10।।
न्याय्यानि वा प्रयुक्तत्वात्, अप्रयुक्ते प्रसङ्गः स्यात्।। 11।।
चतुर्थाधिकरणमारचयति-
सौम्यचर्वादिहोमः किं सौमिकैरैष्टिकैरुत । कार्यसिद्धेः सौमिकैः स्यादवैगुण्यादिहैष्टिकैः।। 6।।
सोमे ग्रहचमसेषु प्रयुक्तेषु प्रवर्तमाने सौम्यचरौ सवनीयपुरोडाशेषु च सौमिकैग्रहचमसैर्होमः। कुतः- तैर्होतुं शक्यत्वेन कार्यसिद्धेः। इति चेत्-
मैवम्। वैगुण्यप्रसङ्गात्। जुहुस्रुवादिभिः कर्तव्यस्य ग्रहादिभिः कृते वैगुण्यं स्यात्। विद्यन्ते च सोमे प्रयुक्ता ऐष्टिकस्रुवादयः। तस्मात्- अवैगुण्यार्थमौष्टिकैर्होमः।। 6।।
पञ्चमे- शामित्रे पशुपुरोडाशश्रपणाभावाधिकरणे सूत्रम्
शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात्।। 12।।
पञ्चमाधिकरणमारचयति-
श्रप्यः पशुपुरोडाशः शामित्रेऽग्नावथोदिते। शालामुखीयनाम्नाद्यः पशुतन्त्रगतत्वतः।। 7।।
श्रपणं विहितं गार्हपत्ये सोऽत्र प्रयुज्यते। प्राग्वंशपूर्वभागे च होमवैगुण्यहानये।। 8।।
अग्नीषोमीयादिपशुः शामित्रेऽग्नौ श्रप्यते। ततः- पशुतन्त्रमध्यपाती पशुपुरोडाशोऽपि तत्रैव श्रपणीयः। इति चेत्-
मैवम्। प्रकृतौ पुराडाशश्रपणं गार्हपत्ये विहितम्। स च गार्हपत्यः सोमे प्रयुक्तः। प्राचीनवंशशालाया अन्तः पूर्वभागे प्रवर्तमानस्य शालामुखीयनाम्नाऽभिहितस्य पूर्वप्रसिद्ध्याहवनीयस्योत्तरवेदिनिष्पत्तेरूर्ध्वं गार्हपत्यत्वात्। तस्मात्- अवैगुण्याय तत्र श्रपयितव्यम्।। 8।।
षष्ठे- कौण्डपायिनामयनेऽग्निहोत्रद्रव्यस्य प्राजहिते श्रपणाधिकरणे सूत्रम्
श्रपणं चाग्निहोत्रस्य शालामुखीये न स्यात्, प्राजहितस्य विद्यमानत्वात्।। 13।।
षष्ठाधिकरणमारचयति-
शालामुखीयवह्नौ किं श्रप्यतां कौण्डपायिने। किंवा प्राजहिते वह्नौ, चोदकप्राप्तितोऽग्रिमः।। 9।।
प्राग्वंशे पश्चिमो वह्निर्भवेत्प्राजहितोऽत्र सः। अग्निहोत्रेतिनाम्नाप्तो नामाप्तो लिङ्गतो बली।। 10।।
कुण्डपायिनामयनगतेऽग्निहोत्रे यच्छ्रपणम्, तच्छालामुखीये कर्तव्यम्। कुतः- चोदकेन प्राप्तत्वात्। तथा हि प्रकृतिभूतेऽग्निहोत्रे गार्हपत्ये श्रपणं विहितम्। शालामुखीयश्च पूर्वमाहवनीयोऽपि सोमे गार्हपत्यः संपन्नः। ''शालामुखीय एषः, अत ऊर्ध्वं गार्हपत्यः'' इति श्रुतेः। स च द्वादशाहगवामयनपरम्परया चोदकेनात्र प्राप्तः। तस्मात्- तत्र श्रपणम्। इति प्राप्ते-
ब्रूमः- प्राचीनवंशे पश्चिमवह्नेः पूर्वप्रसिद्धमुख्यगार्हपत्यस्य प्राजहित इति पूर्वाचार्यसंज्ञा। स च प्राजहितोऽग्निहोत्रनाम्नाऽत्रातिदिश्यते। नामातिदेशश्च शीघ्रवुद्धिहेतुतया लिङ्गातिदेशात्प्रबलः। तच्च लिङ्गं परम्परातिदेशात्प्रबलम्, इति वक्तव्यम्। तस्मात्- प्राजहिते श्रपणम्।। 9।। 10।।
सप्तमे-हविर्धानशकटान्यशकटेनौषधद्रव्यकपुरोडाशनिर्वापाधिकरणे सूत्राणि 14-16
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात्।। 14।।
अप्रसिद्धिर्वाऽन्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात्।। 15।।
अनसां च दर्शनात्।। 16।।
सप्तमाधिकरणमारचयति-
हविर्धानोर्ध्वकाले किमौषधार्थमनोन्तरम् ।नास्त्यस्ति वा, न शक्तत्वाद्देशभेदादिनाऽन्तिमः।। 11।।
ज्योतिष्टोमे हविर्धाननामकयोः शकटयोः प्रवर्तनादूर्ध्वमौषधद्रव्यकाणां पुरोडाशानां निर्वापाय तयोरेव शक्तत्वान्न शकटान्तरमन्वेष्यम्। इति चेत्-
न। देशभेदात्। महावेद्यां मन्त्रपूर्वकं प्रवर्त्य हविर्धानमण्डपे हविर्धानाख्ये शकटे स्थापिते। निर्वापस्तु गार्हपत्यात्पश्चिमे देशे। किंच- अस्त्यत्र तृतीयं शकटम्। 'अनांसि प्रवर्तयन्ति' इति बहुवचनोक्तेः। तस्मात्- शकटान्तरे निर्वापः।। 11।।
अष्टमे- प्रायणीयादिषु दीक्षाजागरणस्याभावाधिकरणे सूत्रम्
तद्युक्तं च कालभेदात्।। 17।।
अष्टमाधिकरणमारचयति-
दीक्षाजागरणं प्रायणीयादौ तद्भवेन्न वा। अदृष्टार्थं ततस्तत्स्यान्न रक्षार्थत्वतोऽन्यदा।। 12।।
दीक्षाकालादन्यकाले यद्यपि प्रायणीयादिकम्, तथाऽप्यदृष्टार्थं जागरणं प्रसङ्गात्सिध्यति। इति चेत्-
न। तस्य रक्षार्थत्वात्। ततः कालान्तरे पृथक्कर्तव्यम्।। 12।।
नवमे- विहारभेदेन मन्त्रभेदाधिकरणे सूत्रम्
मन्त्राश्च संनिपातित्वात्।। 18।।
नवमाधिकरणमारचयति-
विहारभेदे निर्वापमन्त्रादेस्तन्त्रता न वा। तन्त्रं द्बयोः स्मृतेः सिद्धेरुत्तमोक्त्या पृथग्भवेत्।। 13।।
वरुणप्रघासेष्वध्वर्युप्रतिप्रस्थात्रोर्विहारभेदेऽपि मन्त्रेष्वेकेनैव पठ्यमानेषूभयोरर्थस्मृतिसिद्धेस्तन्त्रम्। इति चेत्-
मैवम्। 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात्। तस्मादुयोः पृथक्पाठः।। 13।।
दशमे- दीक्षणीयादिष्वग्न्यन्वाधानस्याभावाधिकरणे सूत्रम्
धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते।। 19।।
दशमाधिकरणमारचयति-
अन्वाधानं दीक्षणीयादिषु स्यान्नास्ति वाऽस्ति तत्। चोदकान्नास्ति सौमिक्यविहारेण धृतत्वतः।। 14।।
दीक्षिण्यादिष्वन्वाधानं कर्तव्यम्। चोदकप्राप्तत्वात्। इति चेत्-
न। अग्निधारणार्थमन्वाधानम्। तच्च धारणं दीक्षणीयादिभ्यः प्राचीनेन सौमिकेनैव विहरणेन सिद्धम्। तस्मात्- अन्वाधानं नास्ति।।14।।
एकादशे- दीक्षणीयादिषु व्रतोपायनाभावाधिकरणे सूत्राणि 20-23
तथा व्रतमुपेतत्वात्।। 20।।
विप्रतिषेधाच्च।। 21।।
सत्यवदिति चेत्।। 22।।
न संयोगपृथक्त्वात्।। 23।।
एकादशाधिकरणमारचयति-
व्रतोपानयनमेष्वस्ति न वा, चोदकतोऽस्ति तत्। उपेतस्यापरित्यागे विरोधान्नास्ति तत्पुनः।। 15।।
सत्यवचनब्रह्मचर्यादिसंकल्परूपं व्रतं सोमार्थं पूर्वमुपेतम्। तच्चासोमसमाप्तेर्न परित्यक्तव्यम्। तत्र पुनरुपायनं विरुध्यते। ''अग्ने व्रतपते व्रतं चरिष्यामि'' इत्ययमुपायनमन्त्रः। न हि चर्यमाणे व्रते 'चरिष्यामि' इति प्रयोगः संभवति। तस्मात्- प्रसङ्गसिद्धं व्रतम्।। 15।।
द्वादशे- ऐष्टिकेष्वग्न्यन्वाधानाननुष्ठानाधिकरणे सूत्राणि 24-28
ग्रहणार्थं च पूर्वमिष्टेस्तदर्थत्वात्।। 24।।
शेषवदिति चेत्।। 25।।
न वैश्वदेवो हि।। 26।।
स्याद्वा व्यपदेशात्।। 27।।
न गुणार्थत्वात्।। 28।।
द्वादशाधिकरणमारचयति-
परिग्रहाय देवानामन्वाधानं भवेन्न वा। असिद्धत्वाद्भवेन्मैवं वैश्वदेवेन सिद्धितः।। 16।।
धारणार्थमन्वाधानं प्रसङ्गात्सिध्यतु नाम, देवतापरिग्रहार्थं त्वसिद्धत्वात्पूनः कर्तव्यम्। अन्वाधानमन्त्रस्य देवतापरिग्रहार्थत्वमपि दर्शपूर्णमासयोराम्नायते ''ममाग्ने वर्चो विहवेष्वस्तु- इत्याग्निं गृह्णाति'' इति।
नैतद्युक्तम्। देवतापरिग्रहस्याप्यत्र विद्यमानत्वात्। तथा च श्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः, अग्निरवमो देवानां विष्णुः परमः, यदाग्नावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य दीक्षते'' इति। प्रधानदेवतानामेवात्र परिग्रहः, नाङ्गदेवतानामिति चेत्- एवमपि विश्वदेवतापरिग्रहेण सर्वदेवपरिग्रहः सिध्यति। विश्वशब्दस्य सर्वशब्दपर्यायत्वात्। तस्मात्- न पृथगन्वाधानम्।। 16।।
त्रयोदशे- ऐष्टिकेषु पत्नीसंनहनाननुष्ठानाधिकरणे सूत्रम्
संनहनं च वृत्तत्वात्।। 29।।
त्रयोदशाधिकरणमारचयति-
पत्नीसंनहनं कार्यं चोदकादिति चेन्न तत्। बन्धवासोधारणयोर्योक्त्रबन्धनसिद्धितः।। 17।।
यद्यदृष्टाय बन्धः, यदि वासोधारणं दृष्टप्रयोजनम्। तदुभयमपि सौमिकेन योक्त्रबन्धनेन सिध्यति। ''योक्त्रेण पत्नीं संनह्यति'' इति सोमे विधीयते। तस्मात्- प्रसङ्गसिद्धं पत्नीसंनहनम्।। 17।।
चतुर्दशे- ऐष्टिकेष्वारण्यभोजनाभावाधिकरणे सूत्रम्
अन्यविधानादारण्यभोजनं न स्यात्, उभयं हि वृत्त्यर्थम्।। 30।।
चतुर्दशाधिकरणमारचयति-
आरण्याशनमत्रास्ति चोदकप्राप्तितो यदि। वृत्त्यर्थत्वेन तत्सिद्धं सोमप्रोक्तात्पयोव्रतात्।। 18।।
स्पष्टोऽर्थः।। 18।।
पञ्चदशे- ऐष्टिकेषु शेषभक्षानुष्ठानाधिकरणे सूत्रम्
शेषभक्षास्तथेति चेन्नान्यार्थत्वात्।। 31।।
पञ्चदशाधिकरणमारचयति-
यजमानगता भक्ष्या न सन्त्यारण्यवद्यदि। न वृत्त्यर्था इमे किंतु कर्तव्याः प्रतिपत्तये।। 19।।
इडाप्राशित्रभक्षाणां प्रतिपत्त्यर्थत्वं षष्ठे निरूपितम्।। 19।।
षोडशे- ऐष्टिकेष्वन्वाहार्यदानाभावाधिकरणे सूत्रम्
भृतत्वाच्च परिक्रयः।। 32।।
षोडशाधिकरणमारचयति-
अन्वाहार्योऽत्र दातव्यो न वाद्यः सोममात्रगा। गवादिदक्षिणा यस्मान्नानत्यन्तरवर्जनात्।। 20।।
''गौश्वाश्वश्च'' इत्यादिदक्षिणा प्रधानस्यैव, न त्वङ्गानाम्। 'दक्षिणाः सोमस्य' इत्यादि। अत इष्टिषु चोदकप्राप्तोऽन्वाहार्यो दातव्यः।
मैवम्। सोमप्रयोगमध्यपातिनीषु पृथगानत्यभावात्। तस्मात्- न दातव्यः।। 20।।
सप्तदशे- ऐष्टिकेषु शेषभक्षस्य संस्कारार्थतया कर्तव्यत्वाधिकरणे सूत्रे 33-34
शेषभक्षास्तथेति चेत्।। 33।।
न कर्मसंयोगात्।। 34।।
सप्तदशाधिकरणमारचयति-
ऋत्विग्भक्षा निवर्तेरन्यद्यन्वाहार्यवन्न तत्। याजमानवदेतेषां कार्यत्वात्प्रतिपत्तये।। 21।।
इदं च प्रतिपत्त्यर्थत्वं दशमाध्याये वर्णितम्।। 21।।
अष्टादशे- ऐष्टिकेषु होतुर्वरणसद्भावाधिकरणे सूत्राणि 35-41
प्रवृत्तवरणात्प्रतितन्त्रं वरणं होतुः क्रियेत।। 35।।
ब्रह्माऽपीति चेत्।। 36।।
न प्राङ्नियमात्तदर्थं हि।। 37।।
निर्दिष्टस्येति चेत्।। 38।।
नाश्रुतित्वात्।। 39।।
होतुस्तथेति चेत्।। 40।।
न कर्मसंयोगात्।। 41।।
अष्टाशाधिकरणमारचयति-
नैतासु वरणं होतुरस्ति वानत्यभावतः। नास्त्यन्वाहार्यवद्धर्मकृत्त्वादत्रेष्टिवद्भवेत्।। 22।।
यथैतास्विष्टिषु पृथगानत्यभावादन्वाहार्यो नास्ति, तथा होतुर्वरणमपि नास्ति। इति चेत्-
न। वरणस्य धर्मार्थत्वात्। दर्शपूर्णमासेष्टावपि धर्मार्थमेव वरणम्। वरणात्प्रागपि सामिधेनीषु होतुः प्रवृत्तत्वात्। न हि प्रवृत्तस्य पुनरानतिः कर्तव्या। तस्मात्- प्रकृताविवात्रापि धर्मार्थमेव वरणं कार्यम्। न त्वानर्त्यर्थेन सौमिकवरणेनास्य प्रसङ्गसिद्धिः।। 22।।
एकोनविंशे- आतिथ्यायां बर्हिषः प्रतिकर्म प्रोक्षणाभावाधिकरणे सूत्रे 42-43
यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत।। 42।।
न वा कृतत्वात्तदुपदेशो हि।। 43।।
एकोनविंशाधिकरणमारचयति-
आतिथ्यादिगते बर्हिष्युक्षणादि पृथङ्न वा। आद्योऽतन्त्रप्रसङ्गत्वान्न प्रसङ्गानिवारणात्।। 23।।
''यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य'' इति श्रुतम्। तच्च बर्हिस्त्रयाणां साधारणमिति चतुर्थे निरूपितम्। तस्मिन्साधारणे बर्हिषि प्रोक्षणादिसंस्कारः प्रतिकर्म पृथगनुष्ठेयः। कुतः- तन्त्रप्रसङ्गयोरत्रासंभवात्। न तावत्तन्त्रमस्ति, दर्शयागत्रयवदेककालीनत्वाभावात्। नापि प्रसङ्गः, एकस्य तन्त्रमध्येऽन्ययोरपठितत्वात्। इति प्राप्ते-
ब्रूमः- बर्हिष एकत्वात्सकृत्प्रोक्षणादिभिः संस्कारे पुनः प्रोक्षणाद्यपेक्षा नास्ति। ते च प्रोक्षणादयः प्राथम्यादातिथ्यायां कार्याः। तत उपसत्स्वग्नीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते।। 23।।
विंशे- आतिथ्यायां स्तरणमन्त्रावृत्त्यधिकरणे सूत्रम्
देशपृथक्त्वान्मन्त्रोऽभ्यावर्तते।। 44।।
विंशाधिकरणमारचयति-
तत्रास्तरणमन्त्रस्य प्रसङ्गो यदि वा भिदा। आद्यः प्रोक्षणवन्मैवं देशस्तरणभेदतः।। 24।।
तस्मिन्नातिथ्याबर्हिषि ''ऊर्णाम्रदसं त्वां स्तृणामि'' इति य आस्तरणमन्त्रः, तस्याग्नीषोमीये प्रसङ्गसिद्धिः स्यात्। प्रोक्षणादौ तद्दर्शनात्। इति चेत्-
मैवम्। आतिथ्यायाः प्राग्वंशो देशः, अग्नीषोमीयस्योत्तरवेदिः। ततो देशभेदतः स्तरणभेदे सति तत्संनिपातिनो मन्त्रस्याप्यावर्तनीयत्वात्।। 24।।
एकविंशे- बर्हिषो देशान्तरनयने संनहनहरणमन्त्रयोरप्रयोगाधिकरणे सूत्रे 45-46
संनहनहरणे तथेति चेत्।। 45।।
नान्यार्थत्वात्।। 46।।
एकविंशाधिकरणमारचयति-
संनाहे हरणे मन्त्रावावर्त्यौं किं न वाऽग्रिमः। पूर्ववन्नेदृशं कार्यं प्रकृतौ तदभावतः।। 25।।
आतिथ्यादेशे संस्कृतं बर्हिः संनह्याग्नीषोमीयदेशे यदा नीयते, तदा संनहने हरणे च ''इन्द्राण्यै संनहनम्'' ''बृहस्पते मूर्ध्ना हरामि'' इति यौ मन्त्रौ, तौ स्तरणवदावर्तनीयौ। इति चेत्-
मैवम्। प्रकृतौ लवनदेशादानयने कार्ये तौ मन्त्रौ दृष्टौ, न तु गाहपत्यादाहवनीयं प्रत्यानयने। अतोऽत्रापि प्राग्वंशादुत्तरवेदिं प्रत्यानयने तौ मन्त्रौ न चोदकात्प्राप्नुतः।। 25।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य प्रथमः पादः।। 1।।
अत्र पादे- अधिकरणानि 21, सूत्राणि 46।
आदितः- अधिकरणानि 860, सूत्राणि 2522।
द्वादशाध्यायस्य द्वितीयः पादः
सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः।
प्रथमे- विहाराग्नेर्वैदिककर्ममात्रार्थताधिकरणे सूत्राणि 1-7
विहारो लौकिकार्थानामर्थं साधयेत्प्रभुत्वात्।। 1।।
मांसपाकप्रतिषेधश्च तद्वत्।। 2।।
निर्देशाद्वा वैदिकानां स्यात्।। 3।।
सति चौपासनस्य दर्शनात्।। 4।।
अभावदर्शनाच्च।। 5।।
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात्।। 6।।
वाक्यशेषो वा दक्षिणेऽस्मिन्नारम्भविधानस्य।। 7।।
द्वितीयपादस्य प्रथमाधिकरणमारचयति-
सर्वार्थो वैदिकार्थो वा विहारः, शक्तिमत्त्वतः। आद्यः प्रत्यक्षवचनैर्निराकाङ्क्षत्वतोऽन्तिमः।। 1।।
विहारो गार्हपत्यादिस्त्रिविधोऽग्निः। स च शक्तत्वाल्लौकिकदहनपचन- वैदिकाग्निहोत्रादिव्यवहारार्हः। इति चेत्-
मैवम्। ''गार्हपत्ये हवींषि श्रपयन्ति'' ''दक्षिणाग्नावन्वाहार्यं पचति'' ''आहवनीये जुह्वति'' इत्येतादृशैः प्रत्यक्षवचनैर्निराकाङ्क्षाणां गार्हपत्यादीनां लौकिकार्थत्वायोगात्। तस्मात्- अग्निहोत्रादिवैदिकार्थो विहारः।। 1।।
द्वितीये- सवनीयपशौ पशुपुरोडाशस्य कर्तव्यताधिकरणे सूत्राणि 8-10
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्यादन्येषामेवमर्थत्वात्।। 8।।
क्रिया वा देवतार्थत्वात्।। 9।।
लिङ्गदर्शनाच्च।। 10।।
द्वितीयाधिकरणमारचयति-
सवनीये पुरोडाशोऽतिदिष्टो नोत विद्यते। अन्यैः पिधानतो न स्याद्देवसंस्कृतये भवेत्।। 2।।
अग्नीषोमीयपशौ विहितो यः पुरोडाशः, स च्छिद्रपिधानार्थः। ''शुषिरो ह वा एतर्हि पशुः, यर्हि वपामुत्खिदति, यद्व्रीहिमयः पुरोडाशो भवति, अपिहित्या अच्छिद्रतायै'' इति श्रुतेः। स च पुरोडाशः सवनीये पशौ चोदकप्राप्तोऽपि न कर्तव्यः। सवनीये विहितैरेव पुरोडाशैस्तच्छिद्रपिधानात्। ''अनुसवनं सवनीयाः पुरोडाशा निरुप्यन्ते, अपिहित्या अच्छिद्रतायै'' इत्युक्तत्वात्। इति प्राप्ते-
ब्रूमः- पुरोडाशस्य पशुदेवतासंस्कारार्थत्वं दशमस्य प्रथमपादे (अधि 09) निरूपितम्। पिधानवाक्यं त्वर्थवादः। तस्मात्- चोदकप्राप्तः पुरोडाशः कर्तव्यः।। 2।।
तृतीये- सवनीयपुरोडाशे हविष्कृदाह्वानस्याभावाधिकरणे सूत्रम्
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्विद्यमानत्वात्।। 11।।
तृतीयाधिकरणमारचयति-
सवनीये पुरोडाशे स्यादाहूतिर्हविष्कृतः। न वाऽतिदेशात्स्यान्मैवं पश्वाह्वानात्प्रसक्तितः।। 3।।
सवनीयपुरोडाशस्याग्नेयपुरोडाशविकृतित्वात् 'प्रकृतिवद्विकृतिः कर्तव्या' इत्यतिदेशेन हविष्कृदाह्वानं तत्र कर्तव्यम्। इति चेत्-
मैवम्। पशौ कृतेन हविष्कृदाह्वानेन पुरोडाशादिष्वपि प्रसक्तत्वान्नास्त्याह्वानम्। यद्यपि- औषधार्थं हविष्कृदाह्वानं पशौ नास्ति, तथाऽप्येषा कृत्वाचिन्ता।। 3।।
चतुर्थे- तृतीयसवने हविष्कृदाह्वानस्यापुनरावृत्त्यधिकरणे सूत्रे 12-13
पशौ तु संशृते विधानात्तार्तीयसवनिकेषु स्यात्सौम्याश्विनयोश्चापवृक्तार्थत्वात्।। 12।।
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात्।। 13।।
चतुर्थाधिकरणमारचयति-
अस्त्याहूतिश्चरौ सौम्ये नास्ति वा, पशुपाकतः। निवृत्तत्वादस्ति मैवमनिवृत्तेः पुरोत्थितेः।। 4।।
तृतीयसवनीये ये सौम्यचर्वादयः, तेषु हविष्कृदाह्वानं पुनः कर्तव्यम्। पश्वर्थमाहूतायास्तस्याः पशुपाके निष्पन्ने सति निवृत्तत्वात्। इति चेत्-
मैवम्। प्रकृतौ पत्नीसंयाजेभ्य ऊर्ध्वं हविष्कृतः पत्न्या उत्थानं वाक्येन विहितम्, पशावपि ततः पूर्वं निवृत्त्यभावात्। तस्मात्- तत्कालीनेषु सौम्यचर्वादिषु नास्ति पुनराह्वानम्।। 4।।
पञ्चमे- निशि यज्ञेऽमावास्यातन्त्रप्रयोगाधिकरणे सूत्राणि 14-18
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात्।। 14।।
कालवाक्यभेदाच्च तन्त्रभेदः स्यात्।। 15।।
वेद्युद्धननव्रतं विप्रतिषेधात्तदेव स्यात्।। 16।।
तन्त्रमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत्।। 17।।
वैगुण्यादिध्माबर्हिर्न साधयेदग्न्यादानं च यदि देवतार्थम्।। 18।।
पञ्चमाधिकरणमारचयति-
निशि यज्ञे दर्शतन्त्रं नोतास्त्येतन्न दर्शगे। तन्त्रमध्ये विध्यभावादस्त्यर्थात्तद्विधानतः।। 5।।
''अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेत्, यो रक्षोभ्यो विभीयात्'' इति विधायेदमाम्नातम् ''अमावास्यायां निशि यजेत'' इति। एतस्मिन्यज्ञे दर्शयागस्याङ्गतन्त्रं न प्रसज्यते। कुतः- दर्शकर्मणस्तन्त्रमध्येऽस्य रक्षोघ्नस्य विध्यभावात्। यत्तु 'अमावास्यायाम्' इति पदम्, तत्कालपरम्। कर्मपरत्वे लक्षणापत्तेः। अतो न वाक्यात्तन्त्रमध्ये विधिः। प्रकरणं तु भिद्यते, काम्योष्टिकाण्ड एतस्य पाठात्। इति प्राप्ते-
ब्रूमः- मा भूद्वाक्येनं प्रकरणेन वा तन्त्रमध्ये विधिः। तथाऽपि- अमावास्याकाले दर्शकर्मणः प्रक्रान्तत्वेन निशि क्रियमाणो यागोऽर्थवशाद्दर्शकर्मतन्त्रमध्यपाती भवति। तस्मात्- अत्रास्ति प्रसङ्गसिद्धिः।। 5।।
षष्ठे- विकृतिष्वप्यारम्भणीयानुष्ठानाधिकरणे सूत्राणि 19-21
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्कृता पुनस्तदर्थेन।। 19।।
स्याद्वा कालस्याशेषभूतत्वात्।। 20।।
आरम्भविभागाच्च।। 21।।
षष्ठाधिकरणमारचयति-
आरम्भणीया सौर्यादौ नोत स्यान्न प्रयोगवत् । क्रत्वर्था न प्रयोगार्था क्रत्वारम्भे ततो भवेत्।। 6।।
दर्शपूर्णमासयोः प्रथमप्रयोगस्यैवोपक्रम आरम्भणीया, न प्रयोगान्तरस्य, इति नवमे(पा. 1 अ. 11) निर्णीतम्। आदौ कृतस्य कर्तृसंस्कारस्य यावज्जीवपर्याप्तत्वाद्यथा न प्रयोगान्तर आरम्भणीया, तथा यावज्जीवलक्षणप्रकृतिकालमध्यपातिनीनां सौर्यादिविकृतीनां नास्ति तदपेक्षा। इति प्राप्ते-
ब्रूमः- 'दर्शपूर्णमासावारप्स्यमानः' इत्युक्तत्वात्क्रत्वर्था हि सा, न तु प्रयोगार्था। क्रत्वन्तराणि हि सौर्यादीनि। ततः प्रयोगान्तरवैषम्यात्सौर्यादौ सा कर्तव्या। न यावज्जीवकालः प्रकृत्यङ्गम्। कर्तृधर्मत्वेन द्वितीये (पा.4 अधि. 1 ) निर्णीतत्वात्। अतो नोक्तरक्षोघ्नन्यायोऽत्र प्रसरति। तस्मात्- नास्त्यत्र प्रसङ्गः।। 6।।
सप्तमे- प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठानाधिकरणे सूत्रम्
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्।। 22।।
सप्तमाधिकरणमारचयति-
या पञ्चदशरात्रस्य सुब्रह्मण्याद्यकालगा। आग्नेयी स्यात्किमैन्द्री वा प्रथमाहानुगुण्यतैः।। 7।।
आग्नेयी प्रथमं चाही विरोधानुदयाद्बलि। न बह्वनुग्रहादैन्द्री कुलार्थत्यागनीतितः।। 8।।
पञ्चदशरात्रस्याग्निष्टुत्प्रथममहः। तस्यैकाहरूपोऽग्निष्टुत्प्रकृतिः। तत्रोपसत्कालीनसुब्रह्मण्याह्वानार्थमियमाग्नेयी विहिता। तदतेद्विकृतिरूपे प्रथमेऽहनि चोदकतः प्राप्नोति। इतरेषु चतुर्दशस्वहःसु स्वस्वप्रकृत्यनुसारेणैन्द्री प्राप्ता। उपसत्कालीनायाश्च सुब्रह्मण्याया अहर्गणेषु तन्त्रं निर्णीतम्। तथा सत्यत्रोपसत्कालीनसुब्रह्मण्यायामाग्नेय्यैन्द्र्योः कलहप्राप्तावसंजातविरोधितया प्रबलस्य प्रथमस्याह्न आनुगुण्येनाग्नेयी कार्या। इति प्राप्ते-
ब्रूमः- बहूनामह्नामनुग्रहायैन्द्री कार्या। 'त्यजेदेकं कुलस्यार्थे' इति न्यायेन बहुत्वमपि प्राबल्यकारणम्।। 7।। 8।।
इदमेवाधिकरणं वार्तिककाराभिमतेनोदाहरणेनारचयति-
सप्तयागसमूहस्य वृधन्वत्यावृचावुत। वार्त्त्रघ्न्यावाज्यभागार्थे प्रथमत्वाद्दधीन्द्रयोः।। 9।।
दर्शधर्मातिदेशेन प्राप्त आद्योऽन्तिमो यतः। घृतं मध्वाप इत्येषां बहूनां बलितोचिता।। 10।।
काम्येष्टिकाण्डे श्रूयते ''अग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत्, इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालम्, दधि मधु घृतमापो धानाः, तत्संसृष्टं प्राजापत्यं पशुकामः'' इति। एतेषां च सप्तयागानां प्रयोगैक्यादाज्यभागौ तन्त्रेणानुष्ठेयौ। तेष्वैन्द्रयाग ऐन्द्राङ्गविकृतिः। दधियागः सांनाय्यविकृतिः। तदुभयानुसारेण दर्शधर्मातिदेशादाज्यभागयोः पुरोनुवाक्ये वृधन्वत्यावृचौ प्राप्नुतः। 'मधु, घृतम्, आपः' इत्येतद्द्रव्यकास्त्रयो यागा उपांशुयाजविकृतयः। तत्र तदनुसारेण पूर्णमासधर्मातिदेशाद्वार्त्रध्न्यावृचौ प्राप्नुतः। तत्र- ऐन्द्रयागः प्राजापत्ययागात्पूर्वं पठितः। दधिद्रव्यं च मधुघृतोदकद्रव्येभ्यः पूर्वं पठितम्। अतः प्राबल्याद्वृधन्वत्यौ। इति प्राप्ते-
ब्रूमः- यद्यपि धर्मो मुख्यस्य प्रथममवगम्यते, तथाऽपि भूयसामनुग्रहाय पश्चाद्बाध्यते। तस्मात्- वार्त्रघ्न्यौ।। 9।। 10।।
अष्टमे- तुल्यसंख्याकानां धर्मविरोधे प्रथमस्यैव धर्मानुष्ठानाधिकरणे सूत्रे 23-24
मुख्यं वा पूर्वचोदनाल्लोकवत्।। 23।।
तथा चान्यार्थदर्शनम्।। 24।।
अष्टमाधिकरणमारचयति-
आग्नावैष्णवसारस्वतयोरिच्छाऽथ मुख्यगम्। आद्यो नियामकाभावादन्त्यः प्राथम्यतो भवेत्।। 11।।
''आग्नावैष्णवमेकादशकपालं निर्वपेत्'', ''सरस्वतीमाज्यस्य यजेत'' इति श्रूयते। तत्र- आग्नावैष्णवस्यैन्द्राग्नविकृतित्वेन, सारस्वताज्यज्य चोपांशुयाजविकृतित्वेन, आज्यभागमन्त्रविकल्पः नियामकाभावात्। इति चेत्-
मैवम्। आग्नावैष्णवस्य प्रथमपठितत्वेन मुख्यत्वात्तज्जमनुष्ठानं युक्तम्।। 11।।
नवमे- अङ्गगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणे सूत्रम्
अङ्गगुणविरोधे च तादर्थ्यात्।। 25।।
नवमाधिकरणमारचयति-
य इष्ट्या पशुनेत्यादौ दीक्षाकालोऽथ सोमकः। आद्यः प्राथम्यतो मैवं प्रधानस्य बलित्वतः।। 12।।
दीक्षा पर्वणि वा सुत्या दीक्षा स्यात्प्रथमत्वतः। सुत्या प्राधान्यतोऽन्या तु शेषत्वादपकृष्यते।। 13।।
''यदिष्ट्या पशुना सोमेन वा यजेत, योऽमावास्यायां पौर्णमास्यां वा'' इति श्रूयते। तत्र- अङ्गभूताया दीक्षणीयेष्टेः प्रधानभूतायाः सुत्यायाश्चैकमेव पर्वदिनं तत्र वचनाद्भासते। तच्च विरुद्धम् 'एका दीक्षा तिस्त्र उपसदः, पञ्चमी प्रसुतः' इत्युपसद्भिस्तयोर्मध्ये व्यवधानावगमात्। तत्र पूर्वोक्ताग्नावैष्णवन्यायेनेष्टेः प्रथमपठितत्वादीक्षणीयेष्टिः पर्वण्यनुष्ठेया। तदनुसारेण दिनान्तरे सुत्याया उत्कर्षः। इति प्राप्ते-
ब्रूमः- प्रधानत्वात्सुत्यैव दर्शेऽनुष्ठेया। तदनुसारेण शेषभूता दीक्षा दिनान्तरेऽपकृष्यते।। 12।। 13।।
दशमे- परिधौ परिधियूपोभयधर्मानुष्ठानाधिकरणे सूत्रम्
परिधिर्द्व्यर्थत्वादुभयधर्मा स्यात्।। 26।।
दशमाधिकरणमारचयति-
पश्वर्थपरिधौ स्वीयधर्मो यद्वा द्विधर्मता। मुख्यत्वादादिमोऽन्त्यः स्यान्नियोजनविधानतः।। 14।।
पशुमत्सु चातुर्मास्येषु ''परिधौ पशुं नियुञ्जन्ति'' इति श्रूयते। तत्र मार्जनादयः परिधेः स्वकीयधर्माः। त एव मुख्यत्वात्तस्मिन्ननुष्ठेयाः, न तु प्रोक्षणादयो यूपधर्माः। तेषां परिधिं प्रत्यमुख्यत्वात्। इति प्राप्ते-
ब्रूमः- यथाऽग्निपरिधानार्थत्वेन मार्जनादीनां परिधिधर्माणामनुष्ठानम्, तथा यूपकार्ये नियोजने परिधिविधानेन यूपधर्माणां प्रोक्षणादीनामप्यनुष्ठानं युक्तम्। ततो द्विधर्मत्वम्।। 14।।
एकादशे- परिधौ विरोधियूपधर्माननुष्ठानाधिकरणे सूत्राणि 27-29
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात्।। 27।।
इतरो वा तस्य तत्र विधानात्।। 28।।
उभयोश्चाङ्गसंयोगः।। 29।।
एकादशाधिकरणमारचयति-
विरोधितक्षणाद्यत्र कार्यं नो वा यतो यजौ। यूपासत्तिस्ततः कार्यं न तद्रूपोपमर्दनात्।। 15।।
त्वक्सहितत्वशयानत्वादयः परिधिधर्माः। तेषां विरोधिनस्तक्षणोच्छ्रयणादयो यूपधर्माः। ते च यागे प्रत्यासन्नाः। यागनिष्पादकस्य पशोरङ्गे यूपे वर्तमानत्वात्। त्वक्सहितत्वादयस्तु नासन्नाः, यागस्य निष्पादकं हविः, हविषामाधारोऽग्निः, अग्नेरङ्गं परिधिः, परिधौ च वर्तमानत्वात्। तस्मात्- तक्षणादयः कार्याः। इति प्राप्ते-
ब्रूमः- तक्षणादिना परिधिस्वरूप उपमर्दिते सति कुत्र पशुनियोजनं क्रियते। तस्मात्- न कार्याः।। 15।।
द्वादशे- सवनीयपुरोडाशयोः पशोरेव तन्त्रिताधिकरणे सूत्राणि 30-32
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्चेदुभयोरश्रुतिभूतत्वात्।। 30।।
पाशुकं वा तस्य वैशेषिकाम्नानात्, तदनर्थकं विकल्पे स्यात्।। 31।।
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात्।। 32।।
द्वादशाधिकरणमारचयति-
सवनीयपुरोडाशाः प्रातःसवनगास्त्रयः। सवनीयः पशुस्तत्र तन्त्रित्वं किं विकल्प्यते।। 16।।
पशोरेवेतिनियमो हेत्वभावाद्विकल्प्यते। पुनः प्रैषात्स्वरुप्रासात्पशोरेव हि तन्त्रिता।। 17।।
यदीयतन्त्रमध्येऽर्थान्तरं, स तन्त्री। अर्थान्तरं प्रसङ्गि। तथा सति 'प्रातःकालीनसवनीयपुरोडाशानां सवनीयपशोश्च मध्ये तन्त्रित्वमस्यैव' इति नियमे हेतुर्नास्ति। उभयत्र प्रत्यक्षाङ्गोपदेशाभावात्। चोदकप्राप्तेश्च समानत्वात्। माध्यंदिनतृतीयसवनद्वयगतानां पशुतन्त्रमध्य उपक्रमात्प्रसङ्गित्वमेव, न तु तन्त्रित्वमिति निश्चेतुं शक्यते। पशोः प्रातः कालीनानां चोपक्रमेऽपि पौर्वापर्यं न ज्ञायते। तस्मात्- विकल्पेन तन्त्रित्वम्। इति प्राप्ते-
ब्रूमः- सवनीयपशौ चोदकप्राप्ते मैत्रावरुणप्रैषमन्त्रे पाठविकारः प्रत्यक्षमाम्नायते 'अयं यजमानः' इति पाठस्य 'अयं सुतासुती यजमानः' इति विशेषितत्वात्। तथा सोमान्ते स्वरोः प्रतिपत्तिः प्रत्यक्षमाम्नायते ''संस्थिते यज्ञे प्रस्तरं प्रहरति, स्वरुं वा यज्ञवैशसाय'' इति। तस्मात्- पशुस्तन्त्री। पुरोडाशानां तूपक्रमे पश्चाद्भावित्वनिश्चयाभावेऽपि समाप्तिपूर्वभावित्वनिश्चयेन मध्यपातित्वात्प्रसङ्गित्वम्।। 16।। 17।।
त्रयोदशे- समानतन्त्रप्रकृतिविकृत्योर्विकृतितन्त्रानुष्ठानाधिकरणे सूत्रम्
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात्।। 33।।
त्रयोदशाधिकरणमारचयति-
प्रकृतिर्विकृतिर्वा स्यात्तन्त्रिणी, प्रकृतिर्यतः। नित्याऽसावुपदिष्टाङ्गा मैवं कामबलित्वतः।। 18।।
''य इष्ट्या पशुना'' इत्यादिशास्त्रात्प्रकृतिविकृत्योर्नित्यकाम्येष्ट्योः पर्वण्येवानुष्ठेयतया सहप्रयोगे सति यावज्जीवं कर्तव्यत्वादङ्गोपदेशयुक्तत्वाच्च प्रबला प्रकृतिर्दर्शपूर्णमासेष्टिस्तन्त्रिणी। जीवनमध्यपतितत्वाच्चोदकप्रवृत्तेरुपदेशापेक्षत्वाच्च दुर्बला सौर्यादिविकृतिः प्रसङ्गिनी। इति प्राप्ते-
ब्रूमः- कामस्य शीघ्रप्रवर्तकत्वादनुष्ठाने प्रबला विकृतिरेव तन्त्रिणी। यद्यपि विकृतिरेकाहकाला, प्रकृतिर्द्व्यहकाला, तथाऽपि सहप्रयोगं कृत्वाऽपि चिन्तितम्।।
चतुर्दशे- आग्रयणे प्रसूनबर्हिषामेव ग्रहणाधिकरणे सूत्रम्
अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि।। 34।।
चतुर्दशाधिकरणमारचयति-
बर्हिराग्रयणे किंचित्प्रसूनं वा बहुत्वतः। प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्यभोजिवत्।। 19।।
ऐन्द्राग्नवैश्वदेवद्यावापृथिव्यादयो वैश्वदेवपर्वगतद्यावापृथिव्यानुसारेणाग्रयणेष्टौ प्रयुज्यन्ते। तत्रैन्द्रवैश्वदेवयोर्बर्हिर्मात्रं चोदकप्राप्तम्। तत्प्रकृतौ बर्हिर्विशेषस्यानुक्तत्वात्। द्यावापृथिव्ये तु स्वप्रकृत्यनुसारेण प्रसूनबर्हिरतिदिश्यते। प्रसूनं पुष्पितम्, लूनशेषान्मूलात्पुनरुत्पन्नं वा। तत्राग्रयणे यत्किंचिद्बर्हिर्मात्रं कर्तव्यम्। ऐन्द्राग्नवैश्वदेवयोरनेकत्वेन प्राथम्येन च तदानुगुण्यस्यन्याय्यत्वात्। इति प्राप्ते-
ब्रूमः- बर्हिरन्तरस्वीकारे द्यावापृथिव्ये प्रमाणप्राप्तः प्रसूनत्वनियमो लुप्यते। प्रसूनस्वीकारे चैन्द्राग्नवैश्वदेवयोर्न किंचिल्लुप्यते। तस्मात्- अलोपाय कांस्यभोजिन्यायेन प्रसूनमेव कर्तव्यम्। शिष्यस्य कांस्यभोजनव्रतमस्ति, गुरोस्तु तन्नास्ति, तयोः सहभोजने यथोपसर्जनमपि शिष्यमनुसृत्य तमलोपयितुं कांस्यमाद्रियते। तथाऽत्रापि द्रष्टव्यम्।। 19।।
पञ्चदशे- द्यावापृथिव्यादीनां सर्वेषामेव तन्त्रित्वाधिकरणे सूत्राणि 35-37
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तवाकेन।। 35।।
न वाऽविरोधात्।। 36।।
अशास्त्रलक्षणाच्च।। 37।।
पञ्चदशाधिकरणमारचयति-
द्यावापृथिव्यस्तन्त्री स्यात्सर्वे वा तन्त्रिणोऽग्रिमः। प्रैषन्यायात्प्रसूनस्य तन्त्रित्वापादकत्वतः।। 20।।
प्रसूनत्वं नोपदिष्टमविरोधात्समाश्रितम्। तन्त्रित्वनियतौ शक्तं नातः सर्वेऽत्र तन्त्रिणः।। 21।।
यथा मैत्रावरुणप्रैषमन्त्रविकारः पशुसंबन्धी सन्पशोस्तन्त्रित्वमापादयति, तथा प्रसूनत्वं द्यावापृथिव्यसंबन्धित्वाद्द्यावापृथिव्यस्य तन्त्रित्वमापादयति। इति प्राप्ते-
ब्रूमः- उक्तप्रैषमन्त्रविकारः प्रत्यक्षश्रुतः। इदं प्रसूनत्वमतिदिष्टत्वान्न तन्त्रितामापादयितुं क्षमम्।
न च प्राबल्याभावे कथं तदाश्रयणम्- इति वाच्यम्। ऐन्द्राग्नादिना सह विरोधाभावमात्रेण तदाश्रयणात्। तस्मात्- एकस्य तन्त्रित्वनियमाभावेनाग्नेयादिवत्सर्वेऽप्यत्र तन्त्रिणः।। 20।। 21।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य द्वितीयः पादः।। 2।।
अत्र पादे- अधिकरणानि 15, सूत्राणि 37।
आदितः- अधिकरणानि 875, सूत्राणि 2559।
द्वादशाध्यायस्य तृतीयः पादः
त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्।
प्रथमे- अष्टरात्रे वत्सत्वगहतवाससोः समुच्चयाधिकरणे सूत्रे 1-2
विश्वजिति वत्सत्वङ्नामधेयादितरथातन्त्रभूयस्त्वादहतं स्यात्।। 1।।
अविरोधो वा उपरिवासो हि वत्सत्वक्।। 2।।
तृतीयपादे प्रथमाधिकरणमारचयति-
त्वग्वाससोरष्टरात्रे विकल्पो नियमोऽथवा। समुच्चयो वा नामातिदेशसाम्याद्विकल्प्यते।। 1।।
मुख्यत्वेन त्वगेव स्याद्वास एव बहुत्वतः। योग्यत्वेन व्यवस्थायामुभयोः स्यात्समुच्चयः।। 2।।
अष्टरात्रे विश्वजित्प्रथममहः। तस्मिन्प्रकृतिभूतादेकाहाद्विश्वजितः परिधानार्थावत्सत्वक्प्राप्नोति। नाम्ना तथाऽतिदेशात्। 'अवभृथादुदेत्य वत्सत्वचं परिधत्ते' इति प्रकृतौ विधानात्। ततो ज्योतिर्नामकोऽभिप्लवः षडहः। तत्र प्रकृतेर्ज्योतिष्टोमादहतं वासो नाम्नाऽतिदिश्यते। ततोऽभिजिदष्टममहः। तत्रापि चोदकाद्वासः प्राप्नोति। तत्र द्वयोर्नामातिदेशयोः समबलत्वादष्टस्वहःसु त्वग्, वासो वा, इच्छया विकल्प्यते। इत्याद्यः पक्षः।
विकल्पस्याष्टदोषत्वान्नियमः- इति द्वितीयः पक्षः। तत्रापि विश्वजितः प्राथम्येन प्रबलतया त्वगेव- इत्यपरः पक्षः। इतरेषामह्नां बहुत्वेन प्रबलतया वास एव इत्यपरः पक्षः। कौपीनत्वे वासो योग्यम्। त्क्प्रावरणे योग्या। तस्मात्सर्वानुग्राहकेण समुच्चयेनात्र प्रसङ्गोऽपोद्यते। इति राद्धान्तः।। 1।। 2।।
द्वितीये- अनुनिर्वाप्यपुरोडाशानां पुरोडाशस्यैव तन्त्रित्वाधिकरणे सूत्राणि 3-8
अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्यात्।। 3।।
आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात्।। 4।।
स्वस्थानत्वाच्च।। 5।।
स्विष्टकृच्छ्रवणान्नेति चेत्।। 6।।
विकारः पवमानवत्।। 7।।
अविकारो वा प्रकृतिवच्चोदनां प्रति भावाच्च।। 8।।
द्वितीयाधिकरणमारचयति-
स्वाधर्म्यमनुनिर्वाप्येष्वस्ति नो वा, बहुत्वतः। अस्ति मैवं तन्त्रमध्ये विहितत्वात्प्रसङ्गिता।। 3।।
अग्नौ श्रूयते ''अग्नीषोमीयस्य पशुपुरोडाशमनु देवसुवां हवींषि निर्वपति'' इति। तत्र हविषामष्टानां बहुत्वेन पुरोडाशाद्बलवत्त्वात्तन्त्रित्वम्। ततः स्वधर्मा एव तेऽनुष्ठेयाः। न तु पुरोडाशधर्मैः प्रसङ्गसिद्धिः। इति चेत्-
मैवम्। प्रत्यक्षेण पुरोडाशतन्त्रमध्ये विधानेन प्राप्तस्य प्रसङ्गित्वस्य युक्तिमात्रेण वारयितुमशक्यत्वात्स्वाधर्म्यं नास्ति।। 3।।
तृतीये- भिन्नोपकारकाणां गुणानां समुच्चयाधिकरणे सूत्रम्
एककर्मणि शिष्टत्वाद्गुणानां सर्वकर्म स्यात्।। 9।।
तृतीयाधिकरणमारचयति-
ऋजुत्वादय आधारे विकल्प्यन्ते न वाऽग्रिमः। एकार्थत्वाददृष्टार्थभेदात्संभवतोऽन्तिमः।। 4।।
दर्शपूर्णमासयोराम्नायते ''ऋजुमाघारयति, संततमाघारयति, ऊर्ध्वमाधारयति'' इति। तेषामृजुत्वादीनामाघारोपकारद्वारा कार्यस्यैकत्वाद्विकल्पः। इति चेत्-
मैवम्। दृष्टद्वारभेदाभावेऽप्यदृष्टद्वारभेदात्सहानुष्ठानसंभवाच्च विकल्पो न।। 4।।
चतुर्थे- प्रयोजनैक्ये गुणानां विकल्पाधिकरणे सूत्राणि 10-15
एकार्थास्तु विकल्पेरन्समुच्चये ह्यावृत्तिः स्यात्प्रधानस्य।। 10।।
अभ्यस्येतार्थवत्त्वादिति चेत्।। 11।।
नाश्रुतित्वात्।। 12।।
सति चाभ्यासशास्त्रत्वात्।। 13।।
विकल्पवच्च दर्शयति।। 14।।
कालान्तरेऽर्थवत्त्वं स्यात्।। 15।।
चतुर्थाधिकरणमारचयति-
समुच्चयो यवव्रीह्योर्विकल्पो वाऽत्र पूर्ववत्। आद्यो मैवं नैरपेक्ष्याददृष्टाभेदतोऽन्तिमः।। 5।।
अष्टदोषनिदानविकल्पपरिहाराय प्रयोगवचनानुग्रहाय च समुच्चयः स्वात्। ऋज्वाधारधर्मवत्। इति चेत्-
मैवम्। अदृष्टस्य कल्पयितुमशक्यत्वात्। तर्हि- अस्तु दृष्टभेदः- इति चेत्- एकं पुरोडाशनिष्पादनमन्तरेणान्यस्य कार्यस्यादर्शनात्। न च पेषणादौ दृषदुपलयोरिव समुच्चयः शङ्कनीयः। तद्वत्परस्परसापेक्षत्वाभावात्। अत एव 'ब्रीहिभिर्यजेत' इत्यत्र यवनिरपेक्षाणां व्रीहीणां यागसाधनत्वं विधीयते। एवं 'यवैर्यजेत' इत्यत्रापि। तस्मात्- विकल्पः।। 5।।
पञ्चमे- वैगुण्यसमाधानार्थानां प्रायश्चित्तानां विकल्पाधिकरणे सूत्रम्
प्रायश्चित्तेषु चैकार्थ्यान्निष्पन्नेनाभिसंयोगः, तस्मात्सर्वस्य निर्घातः।। 16।।
पञ्चमाधिकरणमारचयति-
वैश्वानरे पथिकृते साहित्यं वा विकल्पनम्। साहित्यं स्याददृष्टाय विकल्पः स्यात्समाधये।। 6।।
विहितयोर्दर्शपूर्णमासयोः कदाचिदननुष्ठाने प्रायश्चित्तं श्रूयते ''वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपात्य'' इति। ''अग्नये पथि कृते पुरोडाशमष्टाकपालं निर्वपेत्, यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्'' इति च। अत्र पूर्ववद्दृष्टप्रयोजनाभावाददृष्टार्थमुभयं समुच्चित्यानुष्ठेयम्। इति चेत्-
मैवम्। यज्ञवैगुण्यसमाधेर्दृष्टप्रयोजनत्वादन्योन्यनिरपेक्षयोर्द्वयोर्व्रीहियववद्विकल्पः। एवम्- ऋग्यजुः सामविहितस्याननुष्ठानात्, निषिद्धस्याचरणाद्वा यद्यज्ञवैगुण्यम्, तस्य वैगुण्यमात्रस्य समाधानाय निरपेक्षाणि प्रायश्चित्तानि विहितानि ''भूः स्वाहेति गार्हपत्ये जुहुयात्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्, स्वः स्वाहेत्याहवनीये जुहुयात्, भूर्भुवःस्वः स्वाहेत्याहवनीये जुहुयात्'' इति। तान्येतानि विकल्प्यन्ते प्रत्येकं वैगुण्यसमाधानक्षमत्वात्।। 6।।
षष्ठे- नैमित्तिकप्रायश्चित्तानां समुच्चयाधिकरणे सूत्रम्
समुच्चयस्त्वदोषनिर्घातार्थेषु।। 17।।
षष्ठाधिकरणमारचयति-
भिन्नस्कन्नादिहोमादेर्विकल्पो वा समुच्चयः। विकल्पः पूर्ववन्मैवमदोषे विहितत्वतः।। 7।।
यज्ञपात्रभेदनहविर्द्रव्यस्कन्दनादिनिमित्तेषु श्रूयते ''भिन्ने जुहोति'' इत्यादि। तत्र वैगुण्यसमाधानार्थत्वात्पूर्ववद्विकल्पः। इति चेत्-
मैवम्। दोषसंयोगमनुपन्यस्य भेदनादिनिमित्तमुपजीव्य विहितत्वात्। अतो नैमित्तिकानामनेकेषां प्रयोगवचनपरिगृहीतत्वेन समुच्चयः।। 7।।
सप्तमे- कर्मकालेऽनध्यायेऽपि मन्त्राणां प्रयोगाधिकरणे सूत्रे 18-19
मन्त्राणां कर्मसंयोगात्स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात्।। 18।।
विद्यां प्रति विधानाद्वा सर्वकालं प्रयोगः स्यात्कर्मार्थत्वात्प्रयोगस्य।। 19।।
सप्तमाधिकरणमारचयति-
अनध्याये मन्त्रपाठः क्रतौ नास्त्यस्ति वा, न सः। तत्पाठस्य निषिद्धत्वादस्ति तत्रानिषेधतः।। 8।।
''पर्वणि नाध्येयम्'' इति निषिद्धत्वादनध्याये क्रतुप्रयोगे मन्त्रपाठो नास्ति। इति चेत्-
न। निषेधस्य ग्रहणाध्यापनविषयत्वेन क्रतुप्रयोगे तन्निषेधाभावात्। तस्मात्- क्रतावनध्यायेऽप्यस्ति मन्त्रप्रयोगः।। 8।।
अष्टमे- कर्मणि प्रावचनस्वरेणैव मन्त्रोच्चारणाधिकरणे सूत्राणि 20-22
भाषास्वरोपदेशादैरवत्प्रावचनप्रतिषेधः स्यात्।। 20।।
मन्त्रोपदेशो वा न भाषिकस्य, प्रायापत्तेर्भाषिकश्रुतिः।। 21।।
विकारः कारणाग्रहणे।। 22।।
अष्टमाधिकरणमारचयति-
स्वरो मन्त्रे भाषिकः किं स्यात्प्रावचनिकोऽथवा। ब्राह्मणोक्तेरादिमोऽन्त्यस्तदुक्तेर्लक्षणत्वतः।। 9।।
तत्तच्छाखीयब्राह्मणस्वरो भाषिक इत्युच्यते। तदुक्तमाचार्यैः-
छन्दोगा बह्वृचाश्चैव तथा वाजसनेयिनः। उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ।
इति। सोऽयं भाषिकः क्रतौ मन्त्रेषु प्रयोक्तव्यः। ब्राह्मणेनोक्तत्वात्। मन्त्रविनियोगस्य लिङ्गेन सिद्धत्वात्। स्वरविशेषविधानाय ब्राह्मणे मन्त्र उपादीयते। इति प्राप्ते-
ब्रूमः- न हि ब्राह्मणे मन्त्रः पठ्यते। किंतु पठनसिद्धस्वराद्युपेतं मन्त्रकाण्डसमुत्पन्नं मन्त्रमुपलक्षयितुं तदुपलक्षणसमर्थानि मन्त्रोपक्रमसदृशानि कानिचिदक्षराण्युर्च्चायन्ते-''इमामगृभ्णन्रशनामृतस्येत्यश्वा-भिधानीमादत्ते'' इति। एवमेवाभिप्रायं द्योतयितुं क्वचिच्छब्दान्तरेणोपलक्ष्यते। तद्यथा- ''सावित्राणि जुहोति प्रसूत्यै'' इति। यत्र लिङ्गसिद्धो विनियोगः, तत्र ब्राह्मणमनुवादकमस्तु। तस्मात्- प्रावचनिकः स्वरः क्रतौ प्रयोक्तव्यः।। 9।।
नवमे- ब्राह्मणोत्पन्नमन्त्रस्य भाषिकस्वरेणैवोच्चारणाधिकरणे सूत्रे 23-24
तन्न्यायत्वाददृष्टोऽप्येवम्।। 23।।
तदुत्पत्तेर्वा प्रवचनलक्षणत्वात्।। 24।।
नवमाधिकरणमारचयति-
ब्राह्मणोत्पन्नमन्त्रस्य त्रैस्वर्यं भाषिकोऽथवा। आद्योऽन्यमन्त्रवन्मैवं स्वरान्तरविवर्जनात्।। 10।।
''वानस्पत्योऽसि'' इत्ययं मन्त्रो ब्राह्मण एवोत्पन्नः, ''तं प्रोहेत्- वानस्पत्योऽसि'' इत्याम्नानात्। न चास्य मन्त्रस्य कश्चित्प्रावचनिकः स्वरोऽस्ति। तस्मात्- भाषिकः स्वरः।। 10।।
दशमे-मन्त्राणां पाठानन्तरमेव पदार्थानुष्ठानाधिकरणे सूत्रम्
मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसंनिपातः स्यात्, सर्वस्य वचनार्थत्वात्।। 25।।
दशमाधिकरणमारचयति-
यदा कदाचिन्मन्त्रान्ते वा कर्मानियमाद्भवेत्। आद्यो मैवं कृत्स्नजन्यस्मृतेरङ्गत्वतोऽन्तिमः।। 11।।
''इषे त्वा'' इति मन्त्रः शाखाछेदे करणम्। ''इमामगृभ्णन्'' इति रशनादाने। इत्यादि मन्त्रे बहुधा संशयः- किं मन्त्रादौ कर्म कर्तव्यम्, उत ''अगृभ्णन्रशनामृतस्य'' इत्येवंविधस्य कर्मप्रकाशकमन्त्रस्योच्चारण-काले, किंवा यस्य कस्यचित्पदस्य काले, आहोस्वित्- मन्त्रान्ते, अथवा- तथाऽपि किंचित्कालं विलम्ब्य, इति।
तत्र नियामकाभावात्- यदा कदाचित्। इति प्राप्ते-
ब्रूमः- कृत्स्नमन्त्रजन्यार्थस्मरणं कर्मणोऽङ्गम्। तच्च समाप्तेः पूर्वं नोदेति। विलम्बे तूत्पन्नं स्मरणं विनश्यति। ततः परिशेषान्मन्त्रान्ते कर्म संनिपतेत्।। 11।।
एकादशे- वसोर्धारायां मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रे 26-27
संततवचनाद्धारायामादिसंयोगः।। 26।।
कर्मसंतानो वा नानाकर्मत्वादितरस्याशक्यत्वात्।। 27।।
एकादशाधिकरणमारचयति-
मन्त्रादौ किं वसोर्धारा मन्त्रान्ते वाऽत्र संततेः। आद्यो होमेषु सांतत्याद्द्वादशान्तेषु तद्धुतिः।। 12।।
अग्नौ किंचित्कर्म विहितम्- ''संततां वसोर्धारां जुहोति'' इति। तत्र सांतत्यमविच्छिन्नत्वम्। तच्च कर्ममन्त्रयोः सहोपक्रमे सत्युपपद्यते। तस्मात्- मन्त्रादौ कर्मसंनिपातः। इति प्राप्ते-
ब्रूमः- तस्मिन्वसोर्धाराख्ये कर्मणि ''द्वादश द्वादशानि जुहोति'' इति श्रुतम्। द्वादशभिर्मन्त्रवाक्यैः संपाद्यमेकमाहुतिस्वरूपं द्वादशम्। तद्यथा ''वाजश्च मे, प्रसवश्च मे, प्रयतिश्च मे, प्रसितिश्च मे, अधीतिश्च मे, क्रतुश्च मे, स्वरश्च मे, श्लोकश्च मे, श्रावश्च मे, श्रुतिश्च मे, ज्योतिश्च मे, सुवश्च मे,'' इत्येतैर्द्वादशभिर्मन्त्रवाक्यैरेकाहुतिर्होतव्या। एकादशोत्तराहुतयः ''प्राणश्च मे, अपानश्च मे'' इत्यादिभिर्निष्पाद्यन्ते। एतेषु च होमद्वादशकेषु मध्ये मध्ये विलम्बाभावः साहित्यम्, न तु मन्त्रकर्मणोः सहोपक्रमः। तस्मात्- पूर्वन्यायेन मन्त्रान्ते कर्मसंनिपातस्य नास्ति कश्चिद्विघ्नः।। 12।।
द्वादशे- आघारेऽपि मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रम्
आघारे च दीर्घधारत्वात्।। 28।।
द्वादशाधिकरणमारचयति-
आघारे मन्त्रसाहित्यं धारा वा संतताऽग्रिमः। कर्मैकत्वाग्नाज्यधारानैरन्तर्यस्य संभवात्।। 13।।
''संततमाघारयति'' इत्यत्र पूर्ववदाहुतिनैरन्तर्यं न संभवति। आहुतेरेकत्वात्। अतो मन्त्रसाहित्यस्यैव संततशब्दार्थत्वात्, मन्त्रादौ कर्मोपक्रमः। इति चेत्-
मैवम्। क्षार्यमाणाज्यविन्दुनैरन्तर्यस्य शब्दार्थत्वसंभवात्। न च प्रयाजाज्याहुतिष्वपि नैरन्तर्यमस्ति- इति शङ्कनीयम्। तत्र विच्छिद्य विच्छिद्य बिन्दुपातेऽपि कर्मवैकल्याभावात्। अत्र तु न तथा, इति वैषम्यम्। तथा सति 'आघाराय यदाज्यं जुह्वां गृहीतम्, तत्सर्वं शनैरविच्छेदनाहवनीये पातयेत्' इति संततशब्दार्थः। यदि मन्त्रकर्मणोः सहोपक्रमः स्यात्, तदानीम् 'अनेन मन्त्रेण' इति तृतीयाश्रुत्युक्तं पूर्वकाललक्षणं मन्त्रस्य करणत्वं हीयते। तस्मात्पूर्ववन्मन्त्रान्ते कर्मसंनिपातः।। 13।।
त्रयोदशे- एककार्यमन्त्राणां विकल्पाधिकरणे सूत्रम्
मन्त्राणां संनिपातित्वादेकार्थानां विकल्पः स्यात्।। 29।।
त्रयोदशाधिकरणमारचयति-
पूषाद्येकार्थमन्त्राणां साहित्यं वा विकल्पना। आद्यः शक्यत्वतो मैवं मन्त्रान्ते संनिपाततः।। 14।।
पुरोडाशविभागे त्रयो मन्त्राः श्रुताः- ''पूषा वां विभजतु,'' ''भगो वां विभजतु'' ''अर्यमा वां विभजतु'' इति। तव समुच्चित्यानुष्ठातुं शक्यत्वात्समुच्चयः। इति चेत्-
मैवम्। प्रथममन्त्रान्ते कर्मणः संनिपाते सति मन्त्रान्तरे प्रयोजनाभावात्। तस्मात्- विकल्पः। व्रीहियवयोर्निर्णीतस्यैव विकल्पस्यायं प्रपञ्चः।। 14।।
चतुर्दशे- संख्याविहितमन्त्राणां समुच्चयाधिकरणे सूत्रम्
संख्याविहितेषु समुच्चयोऽसंनिपातित्वात्।। 30।।
चतुर्दशाधिकरणमारचयति-
चतुर्भिरभ्रिमित्यत्र विकल्पो वा समुच्चयः। विकल्पः पूर्ववन्मैवं समूहे करणत्वतः।। 15।।
अग्नौ श्रूयते ''चतुर्भिरभ्रिमादत्ते'' इति। तत्र पूर्वोक्तविभागमन्त्रवत्प्रतिमन्त्रं पृथक्करणत्वं नास्ति। चतुःसंख्यया समूहे करणत्वप्रतीतेः। तस्मात्- मन्त्रान्ते कर्मसंनिपातस्याबाधेनैव समुच्चयः स्यात्। न च पूर्वस्यैकैकस्य मन्त्रान्ते संनिपातो न स्यात्- इति शङ्कनीयम्। वाचनिकसंख्यया न्यायसिद्धस्य तस्य बाधितत्वात्।। 15।।
पञ्चदशे- ब्राह्मणविहितमन्त्राणां विकल्पाधिकरणे सूत्राणि 31-35
ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्टत्वात्।। 31।।
याज्यावषट्कारयोश्च समुच्चयस्य दर्शनं तद्वत्।। 32।।
विकल्पो वा समुच्चयस्याश्रुतित्वात्।। 33।।
गुणार्थत्वादुपदेशस्य।। 34।।
वषट्कारे नानार्थत्वात्समुच्चयः।। 35।।
पञ्चदशाधिकरणमारचयति-
प्रथमन्त्रौ समुच्चेयौ विकल्प्यौ वा चतुष्ट्ववत्। आद्य उक्तिद्वयान्मैवं समुच्चित्यनुदीरणात्।। 16।।
''उरु प्रथस्वेति पुरोडाशं प्रथयति'' ''उरु ते यज्ञपतिः प्रथताम्- इतिपुरोडाशं प्रथयति'' इति ब्राह्मणेन पुरोडाशप्रथने द्वौ मन्त्रौ विनियुक्तौ। तस्य च मन्त्रविनियोगस्य मन्त्रलिङ्गेनैव सिद्धत्वाद्ब्राह्मणगतं वचनद्वयं चतुःसंख्यावत्समुच्चये पर्यवस्यति। इति चेत्-
मैवम्। तस्मिन्वचनद्वये मन्त्रयोः परस्परनैरपेक्ष्यप्रतिभानेन समुच्चयस्यायुक्तत्वात्। अतो लिङ्गसिद्ध एवार्थोऽनूद्यते- इति व्रीहियववद्विकल्पः।। 16।।
षोडशे- हौत्राणां मन्त्राणां समुच्चयाधिकरणे सूत्राणि 36-38
हौत्रास्तु विकल्पेरन्नेकार्थत्वात्।। 36।।
समुच्चयो वा क्रियमाणानुवादित्वात्।। 37।।
समुच्चयं च दर्शयति।। 38।।
षोडशाधिकरणमारचयति-
उद्दिवेत्युच्छ्रयस्वेति विकल्पो वा समुच्चयः। विकल्पः स्मारकत्वैक्यादाकारान्यत्वतोऽन्तिमः।। 17।।
यूपस्योच्छ्रयणे करणभूत एष मन्त्रोऽध्वर्युणा पाठ्यते ''उद्दिवं स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृंह'' इति। उच्छ्रीयमाणाय यूपाय प्रेषितेन होत्रा मन्त्रः पठ्यते ''उच्छ्रयस्य वनस्पते वर्ष्मन्पृथिव्या अधि'' इति। अनयोर्मन्त्रयोर्यूपोच्छ्रयणस्मारणमेकमेव कार्यम्। तस्मात्- विकल्पः। इति चेत्-
मैवम्। करणमन्त्रः ''उच्छ्रयणं करोमि'' इत्येवं स्मारयति। हौत्रस्तु क्रियमाणमुच्छ्रयणमनुवदन्नध्वर्योः 'यूपोच्छ्रयणं कर्तव्यम्' इत्येवं स्मृतिं जनयति। तत्र स्मार्यमाणस्योच्छ्रयणस्यैकत्वेऽपि 'कर्तव्यम्' इत्यस्य, 'करोमि' इत्यस्य च स्मृतिप्रकारस्यान्यत्वात्कार्यैक्याभावेन समुच्चयः।। 17।।
द्वितीयवर्णकमारचयति-
उच्छ्रयस्व समिद्धस्येत्यादीनां किं विकल्पनम्। समुच्चयो वा कार्यैक्यादाद्योऽनुस्मृतयेऽन्तिमः।। 18।।
''उच्छ्रयस्व'' इत्यृगेका। ''समिद्धस्व श्रयमाणः'' इति द्वितीया। ''ऊर्ध्व उषुणः'' इति तृतीया। ''ऊर्ध्वो नः पाहि'' इति चतुर्थी। ता(या) एताः क्रियमाणमनुवदन्त्यो होत्रा पठ्यन्ते। तासां यूपोच्छ्रयणकर्तव्यतास्मारणस्य कार्यस्यैकत्वाद्विकल्पः। इति चेत्-
मैवम्। प्रथममन्त्रेणोत्पन्नायाः स्मृतेरुत्तरोत्तरमनुस्मृतेः पृथक्प्रयोजनत्वात्। तस्मात्- समुच्चयः।। 18।।
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य तृतीयः पादः।। 3।।
अत्र पादे- अधिकरणानि 16, सूत्राणि सूत्राणि 38।
आदितः- अधिकरणानि 891, सूत्राणि 2597।
द्वादशाध्यायस्य चतुर्थः पादः
ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्।
प्रथमे- जपस्तुत्याशीरभिधानानां समुच्चयाधिकरणे सूत्रे 1-2
जपाश्चाकर्मयुक्ता स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात्।। 1।।
समुच्चयं च दर्शयति।। 2।।
चतुर्थपादे प्रथमाधिकरणमारचयति-
सारस्वतीमनूच्येति विकल्पोऽथ समुच्चयः। जपैक्यादादिमोऽन्त्यः स्यात्प्रकारस्य विभेदतः।। 1।।
दीक्षितस्य वाङ्नियमनात्पूर्वं जपाय मन्त्राः श्रूयन्ते- ''सारस्वतीमनूच्य वाग्यन्तव्या'' इति। एवम्- अग्नावैष्णवी बार्हस्पत्ये उदाहार्ये। अत एव सूत्रकारः- 'अथ वैकेषामाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्या' इति। तत्र- अनुवचनशब्दाभिधेयस्य जपकार्यस्यैकत्वाद्विकल्पः। इति प्राप्ते-
ब्रूमः- जपस्यादृष्टार्थत्वेनादृष्टार्थप्रकारभेदे सति कार्यनानात्वात्समुच्चयः। जपमन्त्रवत्स्तुत्याशीरभिधानमन्त्रेषु सजातीयैः समुच्चयो द्रष्टव्यः।। 1।।
द्वितीये- बार्हस्पत्ये द्विविधयाज्यानुवाक्ययोर्विकल्पाधिकरणे सूत्रे 3-4
याज्यानुवाक्यासु तु विकल्पः स्याद्देवतोपलक्षणार्थत्वात्।। 3।।
लिङ्गदर्शनाच्च।। 4।।
द्वितीयाधिकरणमारचयति-
इदं वादिद्वयोः किं स्यात्साहित्यं वा विकल्पनम्। साहित्यं पूर्ववन्मैवं देवताबोधनैक्यतः।। 2।।
ऐन्द्राबार्हस्पत्ये कर्मणि ''इदं वामास्ये हविः प्रियमिन्द्रावृहस्पती'' इत्यादिके याज्यानुवाक्ये द्विविधे आम्नाते। तयोः सारस्वत्यादिवत्समुच्चयः। इति चेत्-
मैवम्। दृष्टप्रयोजनस्य देवताबोधनस्यैकत्वात्। तस्मात्- विकल्पः।। 2।।
द्वितीयं (याज्यापुरोनुवाक्ययोः समुच्चयसाधकं) वर्णकमारचयति-
पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता। पुरेवाद्यः समाख्यानाद्वचनाच्च समुच्चयः।। 3।।
देवताप्रकाशनकार्यस्यैकत्वाद्याज्ययोर्यथा विकल्पः, तथैवैकयुग्मगतयोः। इति चेत्-
मैवम्। पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः। किंच 'पुरोनुवाक्यामनूच्य याज्यया जुहोति' इति प्रत्यक्षेण हविःप्रदानकार्यभेदोक्तिपुरःसरं साहित्यं विधीयते। तस्मात्- समुच्चयः।। 3।।
तृतीये- सोमक्रयसाधनानामजादीनां समुच्चयाधिकरणे सूत्राणि 5-7
क्रयणेषु तु विकल्पः स्यादेकार्थत्वात्।। 5।।
समुच्चयो वा प्रयोगे द्रव्यसमवायात्।। 6।।
समुच्चयं च दर्शयति।। 7।।
तृतीयाधिकरणमारचयति-
क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः। कार्यैक्यमानतेर्लाभाद्दशोक्तेश्च समुच्चयः।। 4।।
''अजया क्रीणाति, हिरण्येन क्रीणाति, वाससा क्रीणाति'' इत्यादिना बहूनि सोमक्रयसाधनानि द्रव्याण्याम्नातानि। तेषां कार्यैक्याद्विकल्पः। इति चेत्-
मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरानतेः सौलभ्यात् 'दशभिः क्रीणाति' इति संख्योक्तेश्च समुच्चयः।। 4।।
चतुर्थे- उपयजनादिप्रतिपत्तिकर्मणां समुच्चयाधिकरणे सूत्रम्
संस्कारे च तत्प्रधानत्वात्।। 8।।
चतुर्थाधिकरणमारचयति-
गुदोपयजने किं स्याद्विकल्पोऽथ समुच्चयः। आद्यः स्यादर्थकर्मत्वान्न शेषप्रतिपत्तितः।। 5।।
अग्नीषोमीये ''गुदेनोपयजति'' इति श्रूयते। ऐकादशिनेषु तच्चोदकप्राप्तम्। तत्र- उपयजनस्यार्थकर्मत्वम्, 'गुदेन' इति तृतीयाश्रुत्या प्रतीयते। तस्य चार्थकर्मण एकेन सिद्धत्वादेकादशानां गुदानां विकल्पः। इति चेत्-
मैवम्। प्रयाजशेषन्यायेन तृतीयाश्रुतेर्विपरिणामे सति शेषप्रतिपत्तिसंस्कारविधानात्। तस्मात्- समुच्चयः।। 5।।
पञ्चमे-आधाने विविधसंख्याकानां दक्षिणानां विकल्पाधिकरणे सूत्रम्
संख्यासु तु विकल्पः स्याच्छुतिविप्रतिषेधात्।। 9।।
पञ्चमाधिकरणमारचयति-
एका देया समुच्चेयं विकल्प्यं चाद्य आनतेः। सौलभ्यादन्तिमो नैरपेक्ष्यात्संख्यान्तरादपि।। 6।।
आधाने श्रूयते ''एका देया, षड् देया, द्वादश देया'' इत्यादि। तत्र सोमक्रयन्यायेनानतेः सौलभ्यात्समुच्चयः। इति चेत्-
मैवम्। संख्यानां ब्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात्। समुच्चये श्रूयमाणाभिः संख्यान्तरस्य दुर्वारत्वाच्च। तस्मात्- विकल्पः।। 6।।
षष्ठे- पशुगणेषु जाघनीनां विकल्पाधिकरणे सूत्राणि 10-16
द्रव्यविकारं तु पूर्ववदर्थकर्म स्यात्तथा विकल्पे नियमः प्रधानत्वात्।। 10।।
द्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति।। 11।।
कपालेऽपि तथेति चेत्।। 12।।
न कर्मणः परार्थत्वात्।। 13।।
प्रत्तिपत्तिस्तु शेषत्वात्।। 14।।
शृतेऽपि पूर्ववत्त्वात्स्यात्।। 15।।
विकल्पे त्वर्थकर्म नियमप्रधानत्वात्, शेषे च कर्मकार्यसमवायात्तस्मात्तेनार्थकर्म स्यात्।। 16।।
षष्ठाधिकरणमारचयति-
समुच्चयो जाघनीनां न वाद्यो गुदवन्न तत्। प्रकृतौ नियमादर्थकर्मातोऽत्र तथात्वतः।। 7।।
ऐकादशिनादिगणेषु जाघन्या पत्नीसंयाजनं चोदकप्राप्तम्। तत्र प्रतिपत्तिकर्मत्वाज्जाघनीनां गुदानामिव समुच्चयः। इति चेत्-
मैवम्। दर्शपूर्णमासयोः पत्नीसंयाजरूपेऽर्थकर्मण्याज्यजाघनीद्रव्ये विकल्पेन विहिते। ते चोभे अग्नीषोमीयपशौ चोदकेन प्राप्ते। तत्र जाघन्यां प्राप्तायां पुनरपि ''जाघन्या पत्नीः संयाजयन्ति'' इति विहितम्। स च पुनर्विधिः 'स्ववैयर्थ्यपरिहारायातिदेशप्राप्तमर्थकर्मत्वं वारयित्वा प्रतिपत्तिकर्मत्वं प्रापयति' इति पूर्वपक्षीकृत्य, 'विकल्पेनातिदिष्टाया जाघन्या नियमेन पुनर्विधेश्चरितार्थत्वान्नार्थकर्मत्वं निवारणीयम्' इति सिद्धान्तनीयम्। तत्प्रकृतावग्नीषोमीयपशावर्थकर्मत्वेन विकृतिष्वर्थकर्मत्वात्। अर्थकर्मणश्चैकया जाघन्या निष्पत्तेर्गुददृष्टान्तासंभवात्- जाघनीनां विकल्पः।। 17।।
सप्तमे- उखायां काम्येन नित्याग्नेर्विकाराधिकरणे सूत्राणि 17-25
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात्।। 17।।
असति चासंस्कृतेषु कर्म स्यात्।। 18।।
तस्य च देवतार्थत्वात्।। 19।।
विकारो वा तदुक्तहेतु।। 20।।
वचनादसंस्कृतेषु कर्म स्यात्।। 21।।
संसर्गे चापि दोषः स्यात्।। 22।।
वचनादिति चेत्।। 23।।
तथेतरस्मिन्।। 24।।
उत्सर्गेऽपि परिग्रहः कर्मणः कृतत्वात्।। 25।।
सप्तमाधिकरणमारचयति-
नित्योख्याग्नौ काम्यवह्निः संयुज्येताथ बाधकः। कार्यभेदादादिमोऽन्त्यः कामेनान्यप्रसञ्जनात्।। 8।।
अग्निचयने कर्मण्युखां निष्पाद्य तस्यामुखायामग्निर्ध्रियते, स नित्योऽग्निः। तत्प्रकरणे काम्यो वह्निः पठ्यते ''वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्याहृत्यावदध्यात्'' इति। तत्र नित्यस्याग्नेर्होमः कार्यः। काम्यस्य तु फलाय धारणम्। अतः कार्यभेदात्समुच्चयः। इत्येवं प्राप्ते-
फलाय धृतेनैवाग्निना होमस्यापि प्रसङ्गसिद्धेर्नित्यो बाध्यते। तथा सति कामिनो वह्न्यन्तरम्, अकामिनो नित्योऽग्निः, इति व्यवस्थितो विकल्पः।। 8।।
अष्टमे-वैकारिकाग्नेराहवनीयत्वाभावाधिकरणे सूत्रे 26-28
स आहवनीयः स्यादाहुतिसंयोगात्।। 26।।
अन्यो वोर्द्धृत्याहरणात्।। 27।।
अष्टमाधिकरणमारचयति-
सोऽग्निराहवनीयो नो वाद्य आहुतियोगतः। अन्योन्याश्रयतो मैवं संस्काराच्चेन्न सोऽत्र हि।। 9।।
स पूर्वोक्तः काम्यो वह्निराहवनीयो भवितुमर्हति। कुतः- तन्निर्वचनस्याहुतियोगस्य तस्मिन्संभवात्। आगत्य हूयतेऽस्मिन्- इत्याहवनीयः। हूयन्ते चात्र काम्याहुतयः। तस्मात्- आहवनीयधर्मा गतश्रीधारणादयस्तत्र कर्तव्याः। ते च कल्पसूत्रकारेण दर्शिताः 'नक्तमाहवनीयं धारयति नित्यं गतश्रियः' इति। इति चेत्-
मैवम्। अन्योन्याश्रयत्वप्रसङ्गात्। सिद्धे ह्याहवनीयत्वे तत्र होमविधिः 'यदाहवनीये जुहोति' इति, सिद्धे होमाधारत्वे पश्चादाहवनीयादिकल्पना, इति परस्पराश्रयत्वम्। अथ- आधानसंस्कारादाहवनीयत्वम्। तर्ह्यत्रास्य संस्काराभावान्नास्त्वाहवनीयत्वम्।। 9।।
नवमे- वैकारिकाग्नेराधानिकसंस्काराभावाधिकरणे सूत्रे- 28-29
तस्मिन्संस्कारकर्म शिष्ठत्वात्।। 28।।
स्थानाद्वा परिलुप्येरन्।। 29।।
नवमाधिकरणवारचयति-
अस्त्याधानादि नो वाऽत्र सर्वशेषत्वतोऽस्ति तत्। न संस्कृतस्थानपातान्मथनस्याप्यसंभवात्।। 10।।
अत्र पूर्वोक्ते वह्नावाधानादिकमस्ति। कुतः- आधानस्य सर्वकर्मशेषत्वात्।
नैतद्युक्तम्। आधानादिभिः संस्कृतं नित्यमग्निं बाधित्वा तस्य स्थानेऽवस्थितत्वेनाग्न्युत्पादकसंस्कारा-नुपयोगात्। न च ज्वलतो वृक्षाग्रादाहृतस्यारणिमथनेनोत्पत्तिः संभवति। तस्मान्नास्त्याधानादि।। 10।।
दशमे- नित्यस्योख्यस्याग्नेरधारणाधिकरणे सूत्रे 30-31
नित्यधारणे विकल्पो नह्यकस्मात्प्रतिषेधः स्यात्।। 30।।
नित्यधारणाद्वा प्रतिषेधो गतश्रियः।। 31।।
दशमाधिकरणप्रारचयति-
धृतिर्विकल्पितोख्यस्य किंवा नैवास्ति धारणम्। निषेधात्कल्प्यविधितश्चाद्यो न प्राप्तवारणात्।। 11।।
अग्निचयने योऽयं नित्य उख्योऽग्निः, तस्य सार्वकालिकं धारणं विकल्पितम्। कुतः- विधिनिषेधयोरुभयोः सद्भावात्। प्रतिषेधस्तावदेवं श्रूयते ''न प्रतिसमिध्यो यत्प्रतिसमिध्येत्- भ्रातृव्यमस्मै जनयेत्'' इति। सोऽयं प्रतिषेधः प्राप्तिमन्तरेणानुपपन्नः प्रापकं बिधिं कल्पयति। तस्मात्- विकल्पः। इति चेत्-
न। निषेधस्यान्यथाऽप्युपपन्नत्वात्। आहवनीयविषयं नित्यधारणं गतश्रियो यद्विहितम्, तच्चोदकेनोख्येऽग्नौ प्रापितत्वात्प्रतिषिध्यते। तथासति विधेरकल्पितत्वात्केवलेन प्रतिषेधेन धारणाभाव एव प्रतिनियतः।। 11।।
एकादशे-- शुक्रस्पर्शादीनामेककर्तृकत्वाधिकरणे सूत्रम्
परार्थान्येको यजमानगणे।। 32।।
एकादशाधिकरणमारचयति-
शुक्रस्पर्शादिकं सत्रे सर्वेषामुत कस्यचित्। अविशेषादादिमोऽन्त्यस्तावतैवार्थसिद्धितः।। 12।।
''शुक्रं यजमानोऽन्वारभते'' ''यजमानसंमितौदुम्बरी भवति'' इति विहितं यत्, तत्सत्रे सर्वेषां यजमानानां भवेत्। कुतः- यजमानस्य सर्वाविशिष्टत्वात्। इति चेत्-
मैवम्। एकेन कृते सति प्रयोजनस्य शुक्रग्रहसंस्कारादेः सिद्धत्वात्। न ह्येते यजमानसंस्कारार्थाः, येन
प्रतियजमानामावर्तेरन्। तस्मात्- एक एव कुर्यात्।। 12।।
द्वादशे- अहीने शुक्रस्पर्शादौ यस्य कस्यचिद्यजमानस्य कर्तृत्वाधिकरणे सूत्रम्
अनियमोऽविशेषात्।। 33।।
द्वादशाधिकरणमारचयति-
अहीने सत्रवच्छुक्रस्पृगैक्ये स नियम्यते। न वाद्यः संभवान्मैवं विशेषानवधारणात्।। 13।।
यथा सत्रे यजमानेष्वेक एव शुक्रग्रहं स्पृशति, तथा- अहीनेऽप्येक एव- इति पूर्वन्यायेन स्थिते सति स एकः किं नियम्यते, उत यः कोऽपि, इति संशये सति-
नियमस्य सत्रे वक्ष्यमाणत्वादिहापि नियमः। इति पूर्वः पक्षः।
विशेषस्यावधारयितुमशक्यत्वात्- यः कोऽपि। इति राद्धान्तः।। 13।।
त्रयोदशे- सत्रे शुक्रस्पर्शादौ गृहपतेरेव कर्तृत्वाधिकरणे सूत्रम्
मुख्यो वाऽविप्रतिषेधात्।। 34।।
त्रयोदशाधिकरणमारचयति-
कश्चिद्गृहपतिर्वा स्यात्सत्रे कश्चिदहीनवत्। इतरेषां तदार्त्विज्यादविलम्बार्थमन्तिमः।। 14।।
पूर्वोक्तेनाहीनन्यायेन सत्रे यः कोऽपि शुक्रस्पर्शादिकं कुर्यात्। इति चेत्-
मैवम्। गृहपतिव्यतिरिक्तानां तदानीमार्त्विज्यकार्ये विनियुक्तानां शुक्रस्पर्शाद्यसंभवात्। विलम्बे तु- आर्त्विज्यशुक्रस्पर्शयोर्विहितमेककालीनत्वं हीयेत। तस्मात्- अविलम्बार्थं गृहपतिरेव कुर्यात्।। 14।।
चतुर्दशे- सत्रेऽञ्जनादिसंस्काराणां सर्वगामित्वाधिकरणे सूत्राणि 35-38
सत्रे गृहपतिरसंयोगाद्धौत्रवत्।। 35।।
आम्नायवचनाच्च।। 36।।
सर्वे वा तदर्थत्वात्।। 37।।
गृहपतिरिति च समाख्यासामान्यात्।। 38।।
चतुर्दशाधिकरणमारचयति-
अञ्जनाद्या गृहपतेः सर्वेषां वा, समाख्यया। आद्यो नो फलिसंस्काराः सर्वेषां फलिता मता।। 15।।
अञ्जनाभ्यञ्जनादयो गृहपतेर्युक्ताः संस्काराधिक्येन गृहपतित्वसमाख्याया उपपन्नत्वात्। इति चेत् ।
मैवम्। फलित्वप्रयोजका एते संस्काराः। फलित्वं च सर्वेषां यजमानानाम्। यत्तु गृहपतेः फलाधिक्यं श्रूयते ''भूयिष्ठामृद्धिमृध्नोति'' इति, तद्वाचनिकम्। न तु संस्काराधिक्यकृतम्। समाख्या त्वन्तरेणापि संस्काराधिक्यमृत्विजामिव कर्मकरत्वादुपपद्यते। तस्मात्- सर्वेषामञ्जनाद्याः कार्याः।। 15।।
पञ्चदशे याजमानार्त्विज्ययोरार्त्विज्यस्यैव बलवत्त्वाधिकरणे सूत्राणि 39-41
विप्रतिषेधे परम्।। 39।।
हौत्रे परार्थत्वात्।। 40।।
वचनं परम्।। 41।।
पञ्चदशाधिकरणमारचयति-
याजमानार्त्विज्ययोः किं बलवत्पूर्वमुत्तरम्। उताद्यश्चोदकप्राप्तेरन्त्यः प्रत्यक्षतो विधेः।। 16।।
सत्रे यत्र याजमानार्त्विज्यकर्मणोरेकदा प्राप्तिः, तत्र याजमानं बलवत्। चोदकेन प्राप्तवात्। इति चेत्-
मैवम्। 'ये यजमानास्त ऋत्विजः' इत्यार्त्विज्यस्य प्रत्यक्षविहितत्वात्। तस्मादार्त्विज्यं बलवत्।। 16।।
षोडशे- ब्राह्मणस्यैवार्त्विज्याधिकरणे सूत्राणि 42-47
प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात्।। 42।।
स्मृतेर्वा स्याद्ब्राह्मणानाम्।। 43।।
फलचमसविधानाच्चेतरेषाम्।। 44।।
सान्नाय्येऽप्येवं प्रतिषेधोऽसोमपीथहेतुत्वात्।। 45।।
चतुर्धाकरणे च निर्देशात्।। 46।।
अन्वाहार्ये च दर्शनात्।। 47।।
षोडशाधिकरणमारचयति-
आर्त्विज्यं किं त्रिवर्णस्थं विप्रगाम्येव वाऽग्रिमः। विद्यावत्त्वान्न तद्युक्तं ब्राह्मणस्यैव तत्स्मृतेः।। 17।।
विप्रक्षत्रियवैश्यानामधीतवेदानां विद्यावत्त्वादार्त्विज्यमस्ति। इति चेत्-
न। विप्रस्यैवार्त्विज्यस्मरणात्। तथा च याज्ञवल्क्यः- प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा' इति। एवं स्मृत्यन्तराण्युदाहरणीयानि। तस्मात्- विप्रस्यैवार्त्विज्यम्।। 17।।
वेदानां स्थितिकृत्पुरो हरिहरोऽभूत्सूत्रकृज्जैमिनि- स्तद्भाष्यं शबरोऽभ्यधाद्गदितवांस्तद्विस्तरं माधवः।
सोऽयं नित्यकलत्रपुत्रधनभुग्भूम्याधिपत्यस्थिति- र्दीर्घायुः सह बन्धुभिर्विजयतामाचन्द्रमातारकम्।। 1।।
इति श्रीमत्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट् श्रीमाधवविरचिते जैमिनीयन्यायमालाविस्तरे द्वादशाध्यायस्य चतुर्थः पादः समाप्तः।। 4।।
अत्र पादे- अधिकरणानि 16, सूत्राणि 47 ।
आदितः- अधिकरणानि 907, सूत्राणि 2644।
।। समाप्तोऽयं द्वादशोऽध्यायः।। 12।।
।।ग्रन्थश्च सम्पूर्णः।
***********
==00==
|