89

                        
                        
जैमिनीय न्यायमाला विस्तरः (तृतीयो भागः - 5, 6, 7, 8 अध्यायाः) विषयसूचिका पञ्चमाध्यायस्य प्रथमः पादः 270 श्रुत्यर्थपाठादिभिः क्रमो निरूपितः। 270  प्रथमे क्रमनिरूपणाधिकरणे श्रुतिबलीयस्त्वन्याये सूत्रम्  270  द्वितीये क्रमस्य क्वचिदार्थिकत्वाधिकरणे सूत्रम्  271  तृतीये क्रमस्य क्वचिदनियमाधिकरणे सूत्रम्  271  चतुर्थे क्रमस्य क्वचित्पाठानुसारिताधिकरणे पाठक्रमन्याये सूत्राणि 4-7  272  पञ्चमे क्रमस्य क्वचित्प्रथमप्रवृत्त्यनुसारिताधिकरणे प्रावृत्तिकक्रमन्याये सूत्राणि8-12  273  षष्ठे क्रमस्य क्वचित्स्थानानुसारिताधिकरणे सूत्रम्  273  सप्तमे- अङ्गक्रमस्य मुख्यक्रमानुसारिताधिकरणे सूत्रम्  274  अष्टमे- अङ्गेषु मुख्यक्रमापेक्षया पाठस्य बलवत्त्वाधिकरणे सूत्रम्  275  नवमे ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वाधिकरणे सूत्रम्  275  दशमे प्रयोगवचनाच्चोदकस्य बलवत्त्वाधिकरणे सूत्रे 17-18  276  एकादशे विकृतौ क्वचित्प्रकृतिधर्मानतिदेशाधिकरणे साकमेधीयन्याये सूत्राणि 19-22  276  द्वादशे- अनुयाजाद्युत्कर्षप्रयाजान्तापकर्षाधिकरणे तदादितदन्तन्याये सूत्रे 23-24  277  त्रयोदशे प्रवृत्त्या प्रोक्षणादीनां सौमिकपूर्वभाविताधिकरणे सूत्रे 25-26  278  चतुर्दशे वैकृतयूपकर्ममात्रापकर्षाधिकरणे यूपकर्मन्याये सूत्रम्  279  पञ्चदशे दक्षिणाग्निकहोमानपकर्षाधिकरणे सूत्रम्  279  षोडशे पुरोडाशाभिवासनान्तस्य दर्शेऽनपकर्षाधिकरणे सूत्रम्  280  सप्तदशे सांतपनीयाया अग्निहोत्रानुत्कर्षकताधिकरणे सूत्राणि 30-34  280  अष्टादशे- उक्थ्यानुरोधेन षोडश्युत्कर्षाधिकरणे सूत्रम्  281 पञ्चमाध्यायस्य द्वितीयः पादः 281 वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः। 281  प्रथमे वाजपेयपशूनां सर्वेषामेकदोपाकरणादिधर्मानुष्ठानाधिकरणे,पदार्थानुसमयन्याये सूत्राणि 1-3  282  द्वितीये सहस्त्राश्वप्रतिग्रहणस्थले- एकैकस्यैकदा सर्वधर्मानुष्ठानाधिकरणे काण्डानुसमयन्याये वा सूत्रम्  282  तृतीये मुष्टिकपालादीनां समुदायानुसमयाधिकरणे सूत्रे 4-5  283  चुतुर्थे- अवदानस्य प्रदानान्तानुसमयाधिकरणे सूत्रम्  283  पञ्चमे- अञ्जनादेः परिव्याणान्तानुसमयाधिकरणे सूत्राणि 7-9  284  सप्तमे नानाबीजेष्टावुलूखलादीनां तन्त्रताधिकरणे सूत्राणि 13-15  285  अष्टमे- अग्नीषोमीयपशौ प्रयाजानुयाजयोः पात्रभेदाधिकरणे सूत्रम्  286  नवमे नारिष्ठहोमस्योपहोमपूर्वताधिकरणे, नारिष्ठन्याये, सूत्राणि 17-20  287  दशमे विदेवनादीनामभिषेकपूर्वताधिकरणे सूत्रम्  287  एकादशे सावित्रहोमादीनां दीक्षणीयपूर्वप्रयोगाधिकरणे सूत्रम्  288  द्वादशे यजमानसंस्काराणां रुक्मप्रतिमोकात्पूर्वभाविताधिकरणे सूत्रम्  288 पञ्चमाध्यायस्य तृतीयः पादः 289 पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः। 289  प्रथमे प्रयाजादीनामेकादशादिसंख्यायाः सर्वसंपाद्यताधिकरणे सूत्रे 1-2  289  द्वितीये प्रथमोपसत्त्रयस्य स्वस्थानावृत्त्यधिकरणे सूत्रम्  289  तृतीये सामिधेनीष्वागन्तूनामन्ते निवेशाधिकरणे सूत्राणि 4-6  290  चतुर्थे बहिष्पवमान आगन्तूनां पर्यासोत्तरकालताधिकरणे सूत्राणि 7-12  291  पञ्चमे बहिष्पवमान एवागन्तूनां साम्नां मध्ये निवेशाधिकरणे सूत्रे 13-14  292  षष्ठे ग्रहेष्टकादीनां क्रत्वग्निशेषताधिकरणे सूत्रे 15-16  292  सप्तमे चित्रिण्यादीनां मध्यमचितावुपधानाधिकरणे सूत्राणि 17-19  293  अष्टमे लोकंपृणातः पूर्वं चित्रिण्याद्युपधानाधिकरणे सूत्रम्  293  नवमे- इष्टिसंस्कृतेऽग्नावग्निहोत्राद्यनुष्ठानाधिकरणे सूत्राणि 21-25  294  दशमे- अग्निचिद्वर्षणादिव्रतानां क्रत्वन्तेऽनुष्ठानाधिकरणे सूत्राणि 26-28  294  एकादशे- दीक्षाया इष्टिसिद्धताधिकरणे सूत्राणि 29-31  295  द्वादशे काम्येष्टीनामनियमेनानुष्ठानाधिकरणे सूत्राणि 32-36  295  त्रयोदशे यज्ञानामग्निष्टोमपूर्वताधिकरणे सूत्रे 37-38  296  चतुर्दशे ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकताधिकरणे सूत्राणि 39-42  297  पञ्चदशे सर्वेषामेकानेकस्तोमकानामग्निष्टोमपूर्वकताधिकरणे सूत्रे 43-44  297 पञ्चमाध्यायस्य चतुर्थः पादः 298 क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः। 298  प्रथमे पाठक्रमापेक्षया श्रुत्यर्थयोर्बलवत्त्वाधिकरणे सूत्रम्  298  द्वितीये मुख्यक्रमेणाग्नेयस्य पूर्वमवदानाद्यनुष्ठानाधिकरणे सूत्राणि 2-4  299  तृतीये- इष्टिसोमयोः पौर्वापर्यनियमाधिकरणे सूत्राणि- 5-9  299  चतुर्थे ब्राह्मणस्यापीष्टिसोमयोः पौर्वापर्यानियमाधिकरणे सूत्राणि 10-14  300  पञ्चमे 'नर्तुं प्रतीक्षेत्' इत्यादिना सोमकालबाधाधिकरणे सूत्राणि 15-18  301  षष्ठे- आज्यस्य सोमादनुत्कर्षाधिकरणे सूत्राणि 19-21  301  सप्तमे विकृतानामैन्द्राग्नादीनां सद्यस्कालताधिकरणे सूत्राणि 22-24  302  अष्टमे सोमात्सांनाय्यविकारादीनामुत्कर्षाधिकरणे सूत्रम्  302  नवमे सोमविकाराणां दर्शपूर्णमासात्प्रागकर्तव्यताधिकरणे सूत्रम्  302 षष्ठाध्यायस्य प्रथमः पादः 303 कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः। 303  प्रथमे यागादिकर्मणां स्वर्गादिफलसाधनताधिकरणे, अधिकारन्याये सूत्राणि 1-3  304  द्वितीये- अशक्तानामधिकारनिराकरणाधिकरणे सूत्रे 4-5  304  तृतीये स्त्रिया अनधिकारनिराकरणाधिकरणे सूत्राणि 6-16  305  चतुर्थे यागे दंपत्योः सहाधिकाराधिकरणे सूत्राणि 17- 21  306  पञ्चमे- आधाने पुरुषद्वयकर्तृकत्वनिराकरणाधिकरणे सूत्रे 22-23  307  षष्ठे पुंस एवोपस्थानाद्यधिकाराधिकरणे सूत्रम्  307  सप्तमे शूद्रस्यानधिकाराधिकरणे सूत्राणि 25-38  308  अष्टमे निर्धनाधिकाराधिकरणे सूत्रे 39-40  309  नवमे- अङ्गहीनाधिकराधिकरणे सूत्रम्  309  दशमेऽचिकित्स्याङ्गवैकल्यस्यानधिकाराधिकरणे सूत्रम्  309  एकादशे दर्शपूर्णमासयोस्त्र्यार्षेयस्यैवाधिकाराधिकरणे सूत्रम्  310  द्वादशे रथकाराधिकाराधिकरणे सूत्राणि 44-50  311  त्रयोदशे निषादस्थपत्यधिकरणे सूत्रे 51- 52  311 षष्ठाध्यायस्य द्वितीयः पादः 312 तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः। 312  प्रथमे सत्रे प्रत्येकस्य सत्त्रिणः फलसंबन्धाधिकरणे सूत्रे 1-2  312  द्वितीये दर्शादौ कर्त्रैक्यनियमाधिकरणे सूत्राणि 3-12  313  तृतीये- आरब्धकाम्यकर्मणोऽपि समाप्तिनियमाधिकरणे सूत्राणि 13-15  313  चतुर्थे लौकिककर्मणि समाप्त्यनियमाधिकरणे सूत्राणि 16-18  314  पञ्चमे प्रतिषिद्धकर्मणामनुष्ठानेऽनिष्टापाताधिकरणे कलञ्जन्याये सूत्रे 19-20  314  षष्ठे गुर्वनुगमनादीनामुपनयनोचरकालकर्तव्यताधिकरणे सूत्रे 21-22  315  सप्तमे- अग्नहोत्रादियावज्जीवकर्मणां स्वकालमात्रकर्तव्यताधिकरणेऽग्निहोत्रन्याये सूत्राणि 23-26  316  अष्टमे- अग्निहोत्रादीनां स्वकालावृत्त्यावृत्त्यधिकरणे सूत्रे 27-28  316  नवमे दर्शादौ भेदाद्यावृत्त्या होमावृत्त्यधिकरणे सूत्रम्  317  दशमे गुर्वनुगमादीनां प्रतिनिमित्तमावृत्त्यधिकरणे सूत्रम्  317  एकादशे- ऋणत्रयापाकरणस्य ब्राह्मणक्षात्रयवैश्यानां नित्यताधिकरणे सूत्रम्  317 षष्ठाध्यायस्य तृतीयः पादः 318 द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्। 318  प्रथमे नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणे सूत्राणि 1-7  318  द्वितीये- अङ्गवैकल्ये काम्यस्य निष्फलत्वाधिकरणे सूत्राणि 8- 10  319  तृतीये द्रव्यभेदेऽपि कर्माभेदाधिकरणे सूत्रे 11-12  320  चतुर्थे द्रव्यापचारे प्रतिनिधिना समापनाधिकरणे सूत्राणि 13-18  320  पञ्चमे देवतामन्त्रक्रियापचारे प्रतिनिध्यभावाधिकरणे सूत्रे 18-19  321  षष्ठे प्रतिषिद्धद्रव्यस्य प्रतिनिधित्वाभावाधिकरणे सूत्रम्  321  सप्तमे स्वामिनः प्रतिनिध्यभावाधिकरणे सूत्रम्  321  अष्टमे सत्रे कस्यचित्स्वामिनोऽपचारे प्रतिनिध्यादानाधिकरणे (सत्रन्याये) सूत्रम्  322  नवमे- प्रतिनिहितस्यास्वामित्वाधिकरणे सूत्राणि 23-25  322  दशमे- सत्रे प्रतिनिहितस्य यजमानधर्मग्राहिताधिकरणे सूत्रम्  323  एकादशे- श्रुतद्रव्यापचारे तत्सदृशस्यैव प्रतिनिधित्वाधिकरणे सूत्रम्  323  द्वादशे- द्रव्यापचारे वैकल्पिकद्रव्यान्तरानुपादानाधिकरणे सूत्राणि 28-30  323  त्रयोदशे- पूतिकस्य सोमप्रतिनिधित्वाधिकरणे सूत्रम्  324  चतुर्दशे- प्रतिनिध्यपचारे उपात्तद्रव्यसदृशस्य पुनः प्रतिनिधित्वाधिकणे सूत्रम्  324  पञ्चदशे- श्रुतस्यापि प्रतिनिधेरपचार उपात्तसदृशस्य पुनः प्रतिनिधित्वाधिकरणे सूत्रे 33-34  324  षोडशे- मुख्यापचारे तत्प्राप्तौ तस्यैवोपादानाधिकरणे सूत्रम्  325  सप्तदशे- प्रतिनिधिना प्रारब्धे कर्मणि श्रुतद्रव्यलाभे श्रुतद्रव्येणैव समापनाधिकरणे सूत्रम्  325  अष्टादशे- प्रतिनिधौ पशौ नियुक्ते श्रुतद्रव्यलाभेऽपि प्रतिनिधिनैव समापनाधिकरणे सूत्रम्  325  एकोनविंशे- संस्कारायोग्यस्यापि मुख्यस्यैवोपादानाधिकरणे सूत्रम्  326  विंशे- मुख्यस्य कार्यासाधकत्वे प्रतिनिधेरेवोपादेयताधिकरणे सूत्रम्  326  एकविंशे- प्रधाननिर्वाहकत्वेऽङ्गनिर्वाहापर्याप्तस्यापि मुख्यस्योपादानाधिकरणे सूत्रे 40-41  326 षष्ठाध्यायस्य चतुर्थः पादः 327 पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्। 327  प्रथमे- अवत्तनाशे पुनरवदानार्थं प्रतिनिध्यादानाधिकरणे सूत्रे 1-2  327  द्वितीये- स्विष्टकृदर्थावत्तनाशे पुनरवदाननिराकरणाधिकरणे सूत्रम्  327  तृतीये- ऋत्विजामेव शेषभक्षणाधिकरणे सूत्राणि 4-9  328  चतुर्थे- कृत्स्नैकदेशभेदे प्रायश्चित्तानुष्ठानाधिकरणे सूत्राणि 10-16  329  पञ्चमे- क्षामे सर्वदाहे प्रायश्चित्तानुष्ठानाधिकरणे (क्षामेष्टिन्याये) सूत्राणि 17-21  330  षष्ठे- एकहविरार्तावपि पञ्चशरावनिर्वापाधिकरणे सूत्रे 22-23  330  सप्तमे- होमाभिषवोभयकर्तुरेव भक्षणाधिकरणे सूत्रे 24-25  331  अष्टमे पुनराधानं प्रति बह्न्यनुगमद्वयस्य निमित्तताधिकरणे सूत्रे 26-27  331  नवमे पञ्चशरावनिर्वापस्य कर्मान्तरताधिकरणे सूत्रे 28-29  332  दशमे पञ्चशरावयागस्य नैमित्तिकदर्शयागाङ्गताधिकरणे सूत्रे 30-31  332  एकादशे- सत्रायागूर्याप्रवृत्तस्य विश्वजिदावश्यकताधिकरणे सूत्रे 32-33  333  द्वादशे- बर्हिर्वत्सयोः कालोपलक्षकताधिकरणे सूत्राणि 34-40  334  त्रयोदशे- वत्सापाकरणकालस्य संनयदसंनयदुभयसाधारणताधिकरणे सूत्रे 41-42  334  चतुर्दशे- सांनाय्यरहितस्य शाखाहरणनिराकरणाधिकरणे सूत्राणि 43-47  335 षष्ठाध्यायस्य पञ्चमः पादः 336 कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्। 336  प्रथमे- दर्शेऽभ्युदयेष्टौ नैमित्तिकदेवतापनयाधिकरणे सूत्राणि 1-9  336  द्वितीये- उपांशुयागेऽपि देवतापनयाधिकरणे सूत्रे 10-11  337  तृतीये- अनिरुप्तेऽप्यभ्युदयेष्ट्यधिकरणे सूत्राणि 12-15  338  चतुर्थे- अनिरुप्तेऽभ्युदये वैकृतीभ्यो निर्वापाधिकरणे सूत्रे 16-17  338  पञ्चमे किंचिन्निरुप्तेऽभ्युदयेऽवशिष्टस्य तूष्णीं निर्वापाधिकरणे सूत्राणि 18-20  339  षष्ठे- संनयदसंनयदुभयस्यैवाभ्युदये प्रायश्चित्ताधिकरणे सूत्राणि 21-24  339  सप्तमे- सत्राय प्रवृत्तमात्रस्य विश्वजिदधिकरणे सूत्राणि 25-27  340  अष्टमे- ज्योतिष्टोमे दीक्षापरिमाणानां वैकल्पिकत्वाधिकरणे सूत्रम्  340  नवमे- द्वादशाहे दीक्षापरिमाणनियमाधिकरणे सूत्रम्  341  दशमे- गवामयने माघपौर्णमास्याः पुरस्ताद्दीक्षाधिकरणे सूत्राणि 30-37  341  एकादशे दीक्षोत्कर्षे तन्नियमानामप्युत्कर्षाधिकरणे सूत्रे 38-39  342  द्वादशे दीक्षानुवृत्तौ प्रतिहोमनिराकरणाधिकरणे सूत्रे 40-41  342  त्रयोदशे- उदवसानीयोत्कर्षेपि प्रतिहोमनिराकरणाधिकरणे सूत्रम्  343  चतुर्दशे- प्रतिहोमे सायमग्निहोत्रप्रभृत्यारम्भाधिकरणे सूत्रे 43-44  343  पञ्चदशे- भेदनादिनिमित्तकहोमस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्राणि 45-47  344  षोडशे- व्यापन्नशब्दार्थनिर्णयाधिकरणे सूत्रम्  344  सप्तदशे- अपच्छेदयौगपद्येपि प्रायश्चित्ताधिकरणे सूत्रे 49-50  344  अष्टादशे- यौगपद्येदाक्षिण्यसर्वस्वदाक्षिण्यविकल्पाधिकरणे सूत्राणि 51-53  345  एकोनविंशे- आनुपूर्व्येणापच्छेद उत्तरापच्छेदनिमित्तप्रायश्चित्तानुष्ठानाधिकरणे सूत्रम्  345  विंशे- उद्गात्रुत्तरापच्छेदेपि सर्वस्वदक्षिणादानाधिकरणे सूत्रम्  346  एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम्  347 षष्ठाध्यायस्य षष्ठः पादः 348 तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्। 348  प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11  348  द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15  349  तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23  350  चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26  350  पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32  351  षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35  351  सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39  352 षष्ठाध्यायस्य सप्तमः पादः 353 पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः। 353  प्रथमे विश्वजिति पित्रादीनामदेयत्वाधिकरणे सूत्रे 1-2  353  द्वितीये- विश्वजिति भूमेरदेयत्वाधिकरणे सूत्रम्  353  तृतीये- विश्वजित्यश्वादीनामदेयताधिकरणे सूत्रम्  353  चतुर्थे- विश्वजित्यविद्यमानसर्वस्वदाननिराकरणाधिकरणे सूत्रम्  354  पञ्चमे- विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणे सूत्रम्  354  षष्ठे विश्वजिति दक्षिणाकाले विद्यमानानामेव सर्वस्वानां देयताधिकरणे सूत्रम्  354  सप्तमे- विश्वजिति दक्षिणादानोत्तराङ्गाणामनुष्ठानाधिकरणे सूत्राणि 8-13  355  अष्टमे- अहर्गणस्थेऽपि विश्वजिति सर्वस्वदानाधिकरणे सूत्राणि 14-17  356  नवमे- विश्वजिति द्वादशशतन्यूनधनस्यानधिकाराधिकरणे सूत्राणि 18-20  356  दशमे- अपरिमितशब्दस्य संख्यान्तरत्वाधिकरणे सूत्रे 21-22  357  एकादशे- अपरिमितशब्देन सहस्राधिकग्रहणाधिकरणे सूत्राणि 23-25  357  द्वादशे- इति ह स्मेत्यादिपरकृतिपुराकल्पानामर्थवादताधिकरणे सूत्राणि 26-30  358  त्रयोदशे- सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणे सूत्राणि 31-40  359 षष्ठाध्यायस्याष्टमः पादः 361 लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः।। 361  प्रथमे- चतुर्होतृहोमेऽनाहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 1-10  361  द्वितीये- अनाहिताग्निषूपनयनहोमाधिकरणे सूत्राणि 11-19  362  तृतीये- अनाहितेऽग्नौ स्थपतीष्ट्यधिकरणे सूत्रे 20-21  362  चतुर्थे- अनाहितेऽग्नाववकीर्णिपश्वनुष्ठानाधिकरणे सूत्रम्  363  पञ्चमे- दैवकर्मणामुदगयनादिकालताधिकरणे सूत्रे 23-24  363  षष्ठे- ज्योतिष्टोमाङ्गयाच्ञाक्रययोर्नित्यताधिकरणे सूत्रे 26-27  363  सप्तमे- ज्योतिष्टोमादिषु पयोव्रतादीनामपि नित्यताधिकरणे सूत्रम्  364  अष्टमे- अपररात्रे व्रतस्यानित्यताधिकरणे सूत्रम्  364  नवमे- छागस्यौवाग्नीषोमीयपशुताधिकरणे सूत्राणि 30-42 365 सप्तमोऽध्यायः 366 ''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः। 366  प्रथमे- प्रयाजादिधर्माणामपूर्वप्रयुक्तताधिकरणे सूत्राणि 1-12  366  द्वितीये- इषौ श्येनीयविशेषधर्मातिदेशाधिकरणे सूत्राणि 13-16  367  तृतीये- पञ्चहविःषु सार्थवादविध्यतिदेशाधिकरणे सूत्राणि 17-21  368  चतुर्थे- एककपालैन्द्राग्नयोः सार्थवादविध्यतिदेशाधिकरणे सूत्रम्  369  पञ्चमे- साकमेधे वारुणप्रघासिकैककपालातिदेशाधिकरणे सूत्रम्  369 सप्तमाध्यायस्य द्वितीयः पादः 371 रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः। 371  प्रथमे रथंतरादिशब्दानां गानविशेषार्थताधिकरणे सूत्राणि 1-21  371 सप्तमाध्यायस्य तृतीयः पादः 373 अग्निहोत्रनाम्नाऽतिदेशः। 373  प्रथमे- अग्निहोत्रादिनाम्ना धर्मातिदेशाधिकरणे सूत्राणि 1-4  373  द्वितीये- प्रायणीयनाम्ना धर्मानतिदेशाधिकरणे सूत्रम्  373  तृतीये- सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणे सूत्राणि 6-11  374  चतुर्थे- अवभृथनाम्ना सौमिकधर्मातिदेशाधिकरणे सूत्राणि 12-15  375  पञ्चमे- वारुणप्रघासिकावभृथस्य तुषनिष्कासद्रव्यकत्वाधिकरणे सूत्रम्  375  षष्ठे- वैष्णवशब्दादातिथ्ये धर्मानतिदेशाधिकरणे- सूत्रम्  376  सप्तमे- निर्मन्थ्यादिशब्दैर्धर्मानतिदेशाधिकरणे- सूत्रम्  376  अष्टमे- प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणे सूत्राणि 19-22  376  नवमे- मध्यमयोर्द्वयोरेव प्रणयनाधिकरणे सूत्राणि 23-25  377  दशमे- स्वरसामादिशब्देन धर्मातिदेशाधिकरणे सूत्रे 26-27  378  एकादशे- 'वासो ददाति' इत्यादौ वास आदिशब्दानामाकृतिनिमित्तताधिकरणे - सूत्रे 28-29  378  द्वादशे- गर्गत्रिरात्रे लौकिकेऽग्नावुपनिधानाधिकरणे सूत्राणि 30-32  379  त्रयोदशे- यूपशब्दस्य संस्कारप्रयोजकताधिकरणे सूत्रे 33-34  379  चतुर्दशे- पृष्ठशब्दस्यर्ग्वेदवाचित्वाधिकरणे सूत्रे 35-36  380 सप्तमाध्यायस्य चतुर्थः पादः 381 निर्वापौषधद्रव्यादिलिङ्गातिदेशः। 381  प्रथमे- सौर्ये चरावितिकर्तव्यतावत्त्वाधिकरणे सूत्रम्  381  द्वितीये- सौर्ये चरौ वैदिकेतिकर्तव्यताधिकरणे सूत्राणि 2-12  382  तृतीये गवामयन ऐकाहिकेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 13-20  383 अष्टमोऽध्याये प्रथमः पादः 384 स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि। 384  प्रथमे- विशेषचिन्ताधिकरणे सूत्रम्  384  द्वितीये- विशेषकर्मणो धर्मातिदेशाधिकरणे सूत्रम्  384  तृतीये- सोम ऐष्टिकधर्मानतिदेशाधिकरणे सूत्राणि 3-10  385  चतुर्थे- ऐन्द्राग्नादावैष्टिकधर्मातिदेशाधिकरणे सूत्रम्  385  पञ्चमे- अग्नीषोमीयपशौ दार्शपूर्णमासिकधर्मातिदेशाधिकरणे सूत्रम्  386  षष्ठे सवनीयपशावग्नीषोमीयधर्मातिदेशाधिकरणे सूत्रम्  386  सप्तमे- ऐकादशिनपशौ समानधर्मातिदेशाधिकरणे सूत्रम्  387  अष्टमे- पशुगणेष्वैकादशिनधर्मातिदेशाधिकरणे सूत्रम्  387  नवमे- अव्यक्तपशौ सौमिकधर्मातिदेशाधिकरणे सूत्रम्  388  दशमे- अहर्गणेषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रम्  388  एकादशे- संवत्सरसत्रेषु गवामयनिकधर्मातिदेशाधिकरणे सूत्रम्  388  द्वादशे- निकायिनामुत्तरेषु पूर्वनिकायिधर्मातिदेशाधिकरणे सूत्रम्  389  त्रयोदशे फलादीनामनतिदेशाधिकरणे सूत्राणि 20-22  389  चतुर्दशे- गुणकामानां गोदोहनादीनामनतिदेशाधिकरणे सूत्राणि 23-25  390  पञ्चदशे- सौर्ये चरावभिमर्शनद्वयस्य विकल्पाधिकरणे सूत्रम्  390  षोडशे- सौर्यचरावाग्नेयधर्मातिदेशाधिकरणे सूत्राणि 27-31  391  सप्तदशे- हविर्देवतयोः संनिपाते हविः सामान्यस्य बलीयस्त्वाधिकरणे सूत्राणि 32-34  391  अष्टादश- शतकृष्णलाख्यहिरण्य औषधधर्मातिदेशाधिकरणे सूत्राणि 35-39  392  एकोनविंशे- मधूदक उपांशुयाजीयाज्यधर्मातिदेशाधिकरणे सूत्राणि 40-43  392 अष्टमाध्यायस्य द्वितीयः पादः 393 अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्। 393  प्रथमे- ऐष्टिकसौत्रामण्योरैष्टिकधर्मातिदेशाधिकरणे सूत्राणि 1-9  393  द्वितीये-पशौ सांनाय्यधर्मातिदेशाधिकरणे सूत्राणि 10-14  394  तृतीये- पशौ पयोधर्मातिदेशाधिकरणे सूत्राणि 15-18  394  चतुर्थे- आमिक्षायां पयोधर्मातिदेशाधिकरणे सूत्राणि 19-23  395  पञ्चमे- द्वादशाहे सत्राहीनयोर्व्यवस्थया धर्मातिदेशाधिकरणे सूत्राणि 24-28  395  षष्ठे पञ्चदशरात्रादिषु सत्रधर्मातिदेशाधिकरणे सूत्राणि 29-32  396 अष्टमाध्यायस्य तृतीयः पादः 397 प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः। 397  प्रथमे- शुचिदेवक आग्नेयस्य, आग्नावैष्णवे चाग्नीषोमीयस्य, धर्मातिदेशाधिकरणे सूत्रे 1-2  397  द्वितीये- जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणे सूत्राणि 3-5  398  तृतीये-षट्त्रिंशद्रात्रे षडहधर्मातिदेशाधिकरणे सूत्रे 6-7  398  चतुर्थे- संस्थाशब्देषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रे 8-9  399  पञ्चमे- शतोक्थ्यादौ ज्योतिष्टोमात्स्तोत्रोपचयाधिकरणे सूत्रे 10-11  399  षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36  401 अष्टमाध्यायस्य चतुर्थः पादः 402 दर्विहोमेष्वतिदेशोऽपोद्यते। 402  प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्  402  द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3  403  तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्  403  सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9  404  चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28  404 ==== पञ्चमाध्यायस्य प्रथमः पादः श्रुत्यर्थपाठादिभिः क्रमो निरूपितः। द्वितीयादित्रये प्रोक्तं भेदशेषप्रयुक्तिभिः । अनुष्ठेयमनुष्ठानक्रमः पञ्चम ईर्यते।। 1।। अनेन चतुर्थपञ्चमयोरध्याययोः पौर्वापर्यं निरूपितम्। द्वितीयाध्याये कर्मभेदनिरूपणात्पृथगनुष्ठेयत्वमवगतम्। तृतीयाध्याये शेषनिरूपणात्- ''निवेशनः संगमनः'' इ ति मन्त्रेण बह्व्युपस्थानमनुष्ठेयम्, नत्विन्द्रोपस्थानम्- इत्याद्यनुष्ठेयव्यवस्थाऽवगता। चतुर्थाध्याये प्रयुक्तिनिरूपणादनुष्ठेयमेव निश्चीयते- पलाशशाखाछेदनस्य वत्सापाकरणमेव प्रयोजकम्, न तु प्रस्तरेण सह प्रहृतिः प्रयोजिका। तथा सति षौर्णमास्यां वत्सापाकरणाभावे सत्यप्रयोजकप्रहृत्यर्थं शाखाछेदनं न कर्तव्यम्- इति। एवं त्रिभिरध्यायैरनुष्ठेयस्वरूपे निश्चिते सत्यनुष्ठानक्रमस्याकाङ्क्षितत्वात्पञ्चमेऽध्याये सोऽभिधीयते।  प्रथमे क्रमनिरूपणाधिकरणे श्रुतिबलीयस्त्वन्याये सूत्रम्   श्रुतिलक्षणमानुपूर्व्ये तत्प्रधानत्वात्।। 1।। पञ्चमाध्यायस्य प्रथमपादे प्रथमाधिकरणे प्रथमवर्णकमारचयति- पदार्थानां क्रमो नैव नियतोऽथ नियम्यते । अमानत्वादनियतिर्नियतिर्वेदमानतः।। 2।। य एतेऽनुष्ठेयाः पदार्था गृहपतिब्रह्मोद्गातृहोतृदीक्षादयः, तेषां पदार्थानां नास्ति क्रमनियमः। क्रमबोधकस्य प्रमाणस्याभावात्- इति चेत्- मैवम्। पदार्थेषु तदनुष्ठाने च यथा वेदः प्रमाणम्, तथैव क्रमेऽपि वेदः प्रमाणम्। तस्मात्क्रमस्य नियतत्वात्क्रमनिरूपकः पञ्चमाध्याय आरम्भणीयः। 1। 2 । द्वितीयवर्णकमारचयति- न विधेयो विधेयो वा क्रमो नैवाक्रियात्वतः । क्रियाविशेषणत्वेन द्रव्यवद्युज्यते विधिः।। 3।। यद्यपि क्रमस्य क्रियात्वाभावात्स्वरूपेण न विधियोग्यता, तथाऽपि ''दध्ना जुहोति'' इत्यादावक्रियारूपं दधिद्रव्यं क्रियाविशेषणं सद्विधीयते- 'दधिसाधनकं होमं कुर्यात्' इति। एवम् 'अनेन क्रमेण कर्तव्यम्' इति क्रियाविशेषणतया क्रमो विधीयताम्।। 3।। तृतीयवर्णकमारचयति- दीक्षयित्वा गृहपतिं ब्रह्माणं दीक्षयेदिति । क्रमः पाठाद्विधेयो वा पाठाद्दीक्षाविधिः श्रुतेः।। 4।। द्वादशाहस्य सत्रत्वात्सर्वेषां याजमान्यतः । चोदकेनैव दीक्षायाः प्राप्तेः क्रमविधिर्मतः।। 5।। द्वादशाहे श्रूयते ''अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्'' इति। तत्र- गृहपत्यादिदीक्षाणां क्रमः पाठादवगम्यते। विधेयत्वं तु गृहपत्यादिदीक्षाणामेव। कुतः 'दीक्षयेत्' इति श्रुत्या तद्विध्यवगमात्। न हि श्रौतस्य विधेयस्य संभवे सति वाक्यार्थरूपः क्रमो विधातुमुचितः। तस्मात्- न विधेयः- इति प्राप्ते- ब्रूमः- द्वादशाहे सत्रे 'य ऋत्विजः, ते यजमानाः' इति ब्रह्मादीनां सर्वेषामृत्विजां यजमानत्वे सति चोदकप्राप्ता दीक्षा न विधातव्या। ततो दीक्षामनूद्याख्यातेन क्रमो विधीयते। यद्यप्यत्र क्रमस्य वाचकः शब्दो नास्ति, तथाऽपि वाक्येन प्रतीयते। स च प्रतीयमानः क्रमो मानान्तरेण कर्तव्यतया प्राप्त्यभावादिह विधीयते। एकस्य कर्तुर्युगपदनेकपदार्थानुष्ठानान्यथानुपपत्त्या क्रमस्य कर्तव्यताऽपि प्राप्तैव- इति चेत्- न। विशेषस्याप्राप्तत्वात्। व्युत्क्रमेणाप्यनुष्ठातुं शक्यत्वात्। तस्मात्- वाक्यावगतं क्रमविशेषं नियन्तुमयं विधिः।। 4।। 5।।  द्वितीये क्रमस्य क्वचिदार्थिकत्वाधिकरणे सूत्रम्   अर्थाच्च।। 2।। द्वितीयाधिकरणमारचयति- अग्निहोत्रं जुहोतीति यवागूं पचतीति च । क्रमः पाठादर्थतो वा पाठात्सर्वत्र दर्शनात्।। 6।। होमद्रव्यसमुत्पत्त्यै पूर्वपाकोऽवगम्यते । यवाग्वेति श्रुता होमद्रव्यताऽतोऽर्थतः क्रमः।। 7।। गृहपत्यादिदीक्षासु पाठक्रमस्यैवादृतत्वदर्शनादिहापि होमपाकयोः पाठात्प्राप्तः क्रम आदरणीयः- इति चेत्- मैवम्। द्रव्यमन्तरेण होमासंभवात्। द्रव्यनिष्पत्यै पाकस्यैव प्राथमिकत्वावश्यंभावात्।होमद्रव्यत्वं च यवाग्याः ''यवाग्वाऽग्निहोत्रं जुहोति'' इति तृतीययावगम्यते। तस्मात्- पाठक्रमं बाधित्वाऽर्थतः क्रमोऽत्राभ्युपगन्तव्यः।। 6।। 7।।  तृतीये क्रमस्य क्वचिदनियमाधिकरणे सूत्रम्   अनियमोऽन्यत्र।। 3।। तृतीयाधिकरणमारचयति- स्याद्वसन्तादिमन्त्राणां क्रमो नो वाऽन्यवद्भवेत्। शाखान्तरे व्यत्ययेन न क्रमो नियतोऽत्र हि।। 8।। दर्शपूर्णमासयोर्याजमाने काण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः ''वसन्तमृतूनां प्रीणामि, ग्रीष्ममृतूनां प्रीणामि'' इत्यादयः। तेषां नियतः क्रमोऽभ्युपगन्तव्यः। कुतः- अन्येष्वाग्नेयोपांशुयाजाद्यनुमन्त्रणेषु नियतक्रमदर्शनेनात्रापि क्रमानियमस्य बुद्धिस्थत्वात्- इति चेत्- मैवम्। अत्र नियामकाभावात्। न तावदत्र पाठो नियामकः। वसन्तग्रीष्मवर्षाशरद्धेमन्तमन्त्राणामनेन क्रमेण तैत्तिरीयशाखायां पठितानां शास्त्रान्तरे व्यत्ययेन पाठदर्शनात्। नाप्यत्र यवागूपाकवदर्थो नियामकः, वसन्तमन्त्रेण यस्य कस्यचित्प्रयाजस्यानुमन्त्रणेऽप्यनुपपत्त्यभावात्। नाप्यत्र लिङ्गं नियामकम्। वसन्तमन्त्रे समिद्यागविषयस्य विशेषस्यादर्शनात्। तस्मात्- अत्र नास्ति नियतः क्रमः।। 8।।  चतुर्थे क्रमस्य क्वचित्पाठानुसारिताधिकरणे पाठक्रमन्याये सूत्राणि 4-7   क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात्।। 4।।  अशाब्द इति चेत्स्याद्वाक्यशब्दत्वात्।। 5।।  अर्थकृते वाऽनुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात्, स्वेन त्वर्थेन संबन्धः, तस्मात्स्वशब्दमुच्यते।। 6।।  तथा चान्यार्थदर्शनम्।। 7।। चतुर्थाधिकरणमारचयति- प्रयाजेषु क्रमो नास्ति विद्यते वा न विद्यते। श्रुत्यर्थाभावतो मैवं क्रमः पाठान्नियम्यताम्।। 9।। ''समिधो यजति'' ''तनूनपातं यजति'' इत्यादिषु प्रयाजेषु नियतः क्रमो नास्ति। कुतः- क्रमप्रापकप्रमाणाभावात्। यथा गृहपत्यादिदीक्षानुवादेनाख्यातश्रुत्या क्रमो विहितः, तथा क्रमविधायिका श्रुतिर्नास्ति, 'यजति' इत्याख्यातेन समिद्यागादिपदार्थानामन्यतोऽप्राप्तानां विधानात्। यथा च 'दीक्षयित्वा' इति क्त्वाश्रुतिः, 'तत उद्गातारम्' इति पञ्चमीश्रुतिर्वा, तादृश्यपि नात्र श्रुतिरुपलभ्यते। न च पाकहोमयोरिवार्थतः क्रमो वक्तुं शक्यः। समिद्यागमन्तेरेणापि तनूनपाद्यागस्य कर्तुं शक्यत्वात्। तस्मान्नास्त्यत्र क्रमनियमः- इति चेत्- मैवम्। वाक्यपाठेन प्रतीतस्य क्रमस्य बाधाभावेनाभ्युपेयत्वात्। तस्मादस्ति क्रमनियमः।। 9।।  पञ्चमे क्रमस्य क्वचित्प्रथमप्रवृत्त्यनुसारिताधिकरणे प्रावृत्तिकक्रमन्याये सूत्राणि8-12   प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्।। 8।।  सर्वमिति चेत्।। 9।।  नाकृतत्वात्।। 10।।  क्रत्वन्तरवादिति चेत्।। 11।।  नासमवायात्।। 12।। पञ्चमाधिकरणमारचयति- उपाकृतानां किं सप्तदशानां यूपबन्धने । क्रमो नास्त्यस्ति वा नास्ति नियामकविवर्जनात्।। 10।। आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि । क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियामिका।। 11।। वाजपेये ''सप्तदश प्राजापत्यान्पशूनालभते'' इति विहितानां पशूनामुपाकरणनियोजनादयः संस्काराः कर्तव्याः। तत्र- 'ईदृशे पशावुपक्रमः, ईदृशे च समाप्तिः' इति नियमकारिणः शास्त्रस्याभावादैच्छिकेन क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः। उपाकृतानां यूपे नियोजनं संस्कारान्तरं कर्तव्यम्। 'तदानीमीदृशः पशुः प्रथमं नियोक्तव्यः' इति क्रमनियमकारिणां श्रुत्यर्थपाठानामभावान्नास्ति क्रमनियमः- इति चेत्- मैवम्। उपाकरणे यः क्रमः स्वीकृतः, तस्यैव नियोजनादिसंस्कारेषु स्वीकर्तव्यत्वात्। श्रुत्यर्थपाठा इव प्रथमप्रवृत्तिरपि क्रमं नियन्तुमर्हति, प्रवृत्त्या बुद्धिस्थस्य क्रमस्य त्यागे कारणाभावात्। प्रावृत्तिकक्रमस्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्तरेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति। तच्च व्यवधानम् 'सप्तदश' इति विधिबलादभ्यनुज्ञातम्। प्रावृत्तिकं क्रमं परित्यज्य पश्वन्तराणां पूर्वं नियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियेत, तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात्। तत्तु नाभ्यनुज्ञातम्। तस्मात्- प्रवृत्त्या क्रमो नियम्यते।। 10।। 11।।  षष्ठे क्रमस्य क्वचित्स्थानानुसारिताधिकरणे सूत्रम्   स्थानच्चोत्पत्तिसंयोगात्।। 13।। षष्ठाधिकरणमारचयति- प्राथम्यमग्नीषोमीये साद्यस्काख्यक्रतावुत । सवनीयेऽग्रिमो यस्मात्प्रकृतौ तदपेक्षितम्।। 12।। आश्विनग्रहसामीप्ये सवनीयपशोः स्थितिः । नियते तत्क्रमे स्थानाच्छिष्टयोः प्राकृतो नयः।। 13।। साद्यस्कनामकः कश्चित्सोमयागः। तत्र श्रूयते ''सह पशूनालभते'' इति। प्रकृतौ- अग्नीषोमीयः पशुरौपवसथ्ये पूर्वदिन आलभ्यते, सवनीयपशुः सुत्यादिने प्रातःसवन आश्विनग्रहादूर्ध्वमालभ्यते, अनुबन्ध्यपशुरवभृथादूर्ध्वमालभ्यते। इह तु त्रयोऽपि पशवः सहालब्धव्याः। सोऽयं सहालम्भः सुत्यादिन आश्विनग्रहादूर्ध्वं सवनीयस्थाने भवति- इत्येतदवश्यमभ्युपेयम्। तथा सति प्रधानसोमप्रत्यासत्तिलाभात्तेषु त्रिषु पशुष्वग्नीषोमीयस्य प्रथममुपाकरणम्। कुतः- प्रकृतौ तत्प्राथम्यस्यापेक्षितत्वात्- इति चेत्- मैवम्। सवनीयो हि स्वस्थान एव वर्तते। आश्विनग्रहसामीप्यस्य सवनीयस्थानत्वात्। आश्विने गृहीते सति सवनीय एव बुद्धिस्थो भवति, प्रकृतौ तदानन्तर्यस्य क्लृप्तत्वात्। ततः सवनीयस्य प्राथम्ये स्थानान्निश्चिते सति स्थानभ्रष्टयोरग्नीषोमीधानुबन्ध्ययोः प्रकृताविव पूर्वोत्तरभावो द्रष्टव्यः।। 12।। 13।।  सप्तमे- अङ्गक्रमस्य मुख्यक्रमानुसारिताधिकरणे सूत्रम्   मुख्यक्रमेण वाऽङ्गानां तदर्थत्वात्।। 14।। सप्तमाधिकरणमारचयति- स्त्रीपुंसदेवकौ सारस्वतौ तद्धर्मगः क्रमः ।नास्त्यस्ति वाऽत्र नास्त्येष तन्नियामकवर्जनात्।। 14।। याज्यानुवाक्यापाठेन स्त्रीप्राथम्यं हि मुख्ययोः । मुख्यार्थत्वेन धर्माणां स्यान्मुख्यक्रमतः क्रमः।। 15।। चित्रायागे सप्तानां हविषां मध्ये चतुर्थपञ्चमे इत्थमाम्नायेते- ''सारस्वतौ भवतः। एतद्वै दैव्यं मिथुनम्'' इति। 'सरस्वती च सरस्वांश्च' इति विगृह्य समासे कृते 'पुमान्स्त्रिया' (पा.सू.1। 2। 67) इति सूत्रेणैकशेषात् 'सरस्वन्तौ' इति भवति। तौ देवते ययोर्यागयोस्तौ सारस्वतौ यागौ। एतच्च 'मिथुनम्' इति वाक्यशेषादवगम्यते। तयोर्यागयोर्निर्वापादयो धर्माश्चोदकतः प्राप्ताः, तत्र- स्वेच्छया स्त्रीयागस्य पुंयागस्य वा प्रथमं निर्वापः कार्यः। कुतः- श्रुत्यर्थपाठप्रवृत्तिस्थानानामन्यतमस्य नियामकस्याभावात्- इति प्राप्ते- ब्रूमः- हौत्रकाण्डे स्त्रीदेवतायाः पूर्वं याज्वानुवाक्ये समाम्नाते- ''प्रणो देवी सरस्वती'' इति। पश्चात्पुंदेवतायाः ''पीपिवांसं सरस्वतः'' इति। अनेन याज्यानुवाक्याक्रमेण मुख्ययोर्द्वयोर्यागयोर्मध्ये स्त्रीयागस्य प्रथम्यमवगम्यते। ततो धर्माणां मुख्ययागार्थत्वान्मुख्यक्रमेणैव क्रमे सति स्त्रीयागस्यैव प्रथमं निर्वापः कार्यः।। 14।। 15।।  अष्टमे- अङ्गेषु मुख्यक्रमापेक्षया पाठस्य बलवत्त्वाधिकरणे सूत्रम्   प्रकृतौ तु स्वशब्दत्वाद्यथाक्रमं प्रतीयेत।। 15।। अष्टमाधिकरणमारचयति- उपांशुयाजे पूर्वत्वमग्नीषोमीयकेऽथवा । धर्मानुष्ठान आद्योऽस्तु मुख्ययोस्तादृशक्रमात्।। 16।। युक्तमौषधधर्माणां प्राथम्यं पूर्वपाठतः । पाठक्रमस्याविलम्बादाज्यधर्मास्तु पश्चिमाः।। 17।। दर्शपूर्णमासयोः- उपांशुयाजोऽग्नीषोमीयश्च- इत्येतदुभयं पौर्णमास्यामाम्नातम्। तत्र- उपांशुयाजस्याज्यं द्रव्यम्। आज्वधर्मा उत्पवनचतुर्गहीतत्वादयः। अग्नीषोमीयस्य पुरोडाशो द्रव्यम्। तस्य धर्मा निर्वापावघातादयः। तत्र मुख्यौ यागावुपांशुयाजाग्नीषोमीयौ पूर्वोत्तरभाविनौ। तथा सति पूर्वन्यायेन धर्मक्रमस्य मुख्यक्रमाधीनत्वादाज्यधर्माणामनुष्ठाने प्राथम्यम्- इति प्राप्ते- ब्रूमः- औषधधर्मा निर्वापादयः पूर्वमाम्नाताः, पश्चादाज्यधर्माः। तत्र मुख्यक्रमप्रयुक्तमाज्यधर्माणां प्राथम्यं बाधित्वा पाठक्रमानुसारेणौषधधर्मा एव प्रथम मनुष्ठेयाः। पाठक्रमो हि वैदिकैः शब्दैः सहसा प्रतीयते। मुख्यक्रमानुसारी तु क्रम उपपत्त्या कल्पनीयः। तस्मात्- अग्नीषोमीयपुरोडाशार्थेभ्य औषधधर्मेभ्य ऊर्ध्वमाज्यधर्मा अनुष्ठेयाः।। 16।। 17।।  नवमे ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वाधिकरणे सूत्रम्   मन्त्रतस्तु विरोधे स्यात्प्रयोगरूपसामर्थ्यात्तस्मादुत्पत्तिदेशः सः।। 16।। नवमाधिकरणमारचयति- अग्नीषोमीय आग्नेयात्पूर्वो नो वाऽस्तु पूर्वता । ब्राह्मणक्रमतो मैवं मन्त्रक्रमबलित्वतः।। 18।। स्मृतिक्रमादनुष्ठानं मन्त्राणां स्मारकत्वतः । प्राबल्यं ब्राह्मणस्यास्ति विधिनाऽपि कृतार्थता।। 19।। अग्नीषोमीययागस्तैत्तिरीयसंहितायां पञ्चमप्रपाठके द्वितीयानुवाके समाम्नातः- ''ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्'' इति। आग्नेययागस्तु षष्ठप्रपाठके तृतीयानुवाके समाम्नातः- ''यदाग्नेयोऽष्टाकपालोऽमावस्यायां च पौर्णमास्यां चाच्युतो भवति'' इति। तत्र- अनुष्ठानस्य ब्राह्मणोक्तविध्यधीनत्वादग्नीषोमीयस्य प्रथममनुष्ठानम्- इति प्राप्ते- ब्रूमः- मन्त्रकाण्डे पूर्वं पठिता आग्नेयमन्त्राः। तथा हि- हौत्रकाण्डे- आज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथमम्, ''अग्निर्मूर्धा'' इत्यादिके आग्नेय्यौ याज्यानुवाक्ये आम्नाते। ततः ''प्रजापते न त्वदेतानि'' इत्यादिके प्राजापत्त्ये। ततः ''अग्नीषोमा सवेदसा'' इत्यादिके अग्नीषोमीये। आध्वर्यवकाण्डेऽपि- ''अग्नये जुष्टं निर्वपामि'' ''अग्नीषोमाभ्याम्'' इत्याग्नेयः पूर्वमाम्नातः। यजमानकाण्डेऽपि ''अग्नेरहं देवयज्ययाऽन्नादो भूयासम्'' इत्याम्नाय पश्चात् ''अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम्'' इत्याम्नायते। मन्त्रक्रमश्च प्रबलः, मन्त्रैः स्मृत्वा पश्चादनुष्ठेयत्वात्। ब्राह्मणं त्वप्राप्तपदार्थविधिनाऽपि चरितार्थम्। अतोऽनुष्ठानस्मरणायैवोत्पन्नान्मन्त्रान्बाधितुं नालम्- इति मन्त्रक्रमेणाग्नेयस्यैव प्रथमानुष्ठानम्।। 18।। 19।।  दशमे प्रयोगवचनाच्चोदकस्य बलवत्त्वाधिकरणे सूत्रे 17-18   तद्वचनाद्विकृतौ यथाप्रधानं स्यात्।। 17।।  विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति।। 18।। दशमाधिकरणमारचयति- सारस्वताज्ये पूर्वत्वं बार्हस्पत्यचरावुत । धर्माणामाज्यनिष्ठानां प्राथम्यमुपदेशतः।। 20।। सक्रमाणां पदार्थानां चोदक्रप्रापितत्वतः । प्राथम्यमन्तरङ्गत्वादाग्नेयविकृतौ चरौ।। 21।। अध्वरकल्पाभिधायामिष्टौ हविस्त्रयं श्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्'' ''सरस्वत्याज्यभागा स्यात्'' ''बार्हस्पत्यश्चरुः'' इति। अत्र- सारस्वता ये धर्माः, त एव पूर्वमनुष्ठेयाः। कुतः- सारस्वतयागस्य बार्हस्पत्यात्पूर्वमुपदिष्टत्वात्। मुख्यक्रमेण हि धर्माणां क्रमो युक्तः- इति प्राप्ते- ब्रूमः- न तावदत्राज्यधर्मा औषधधर्मा वोपदिश्यन्ते। किं तु चोदकेन प्राप्यन्ते। चोदकश्च सक्रमानेव पदार्थानतिदिशति। प्रकृतौ चौषधधर्माणां प्रथममनुष्ठेयत्वात्। इहापि बार्हस्पत्यचरुधर्मा एव प्रथममनुष्ठेयाः। किंच- आग्नेयस्य प्रथमभाविनो विकृतिर्बार्हस्पत्यचरुः, उपांशुयाजस्य पश्चाद्भाविनो विकृतिः सारस्वतमाज्यम्। अतोऽन्तरङ्गत्वाच्चरुधर्मा एव पूर्वभाविनः।। 20।। 21।।  एकादशे विकृतौ क्वचित्प्रकृतिधर्मानतिदेशाधिकरणे साकमेधीयन्याये सूत्राणि 19-22   विकृतिः प्रकृतिधर्मत्वात्तत्काला स्याद्यथाशिष्टम्।। 19।।  अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेरनुमानात्प्रकृतिधर्मलोपः स्यात्।। 20।।  कालोत्कर्ष इति चेत्।। 21।।  न तत्संबन्धात्।। 22।। एकादशाधिकरणमारचयति- साकमेधेष्टयस्तिस्रो द्व्यहे स्युः सद्य एव वा । प्रातरादेर्द्वयोरह्नोः सत्त्वात्प्रकृतिवद्द्व्यहे।। 22।। साङ्गमुख्यानुरोधेन प्रातरादेर्विधानतः । श्रौतं सद्यस्त्वमन्यत्तु चोदकात्तेन दुर्बलम्।। 23।। चातुर्मास्येषु साकमेधनामके तृतीये पर्वणि श्रूयते ''अग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपेत्। मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुम्। मरुद्भ्यो गृहमेधिभ्यः सर्वाषां दुग्धे सायमोदनम्'' इति। ता एतास्तिस्त्र इष्टयो द्व्यहकालीनाः। यथा प्रकृतौ पर्वण्यग्न्यन्वाधानादिकम्, प्रतिपदीष्टिः- इति द्व्यहकालीनत्वम्, तद्वत्। ननु प्रातर्माध्यंदिनसायंशब्दैरेकस्मिन्नेवाह्नि त्रयः कालास्तिसृणामिष्टीनां विहिताः। तन्न। द्वयोरध्वह्नोः प्रातरादिकालसद्भावात्। पूर्वेद्युः प्रातरादिकालेषु स्वकीयेषु तासामुपक्रमः। परेद्युः प्रातरादिषु ताः समापनीयाः। ततो द्व्यहकालीनत्वम्- इति प्राप्ते- ब्रूमः- अत्र ''अग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपेत्'' इति साङ्गं प्रधानं प्रातः कालीनतया विधीयते। प्रातः शब्दश्च स्वत एकमेव प्रातः कालमभिधाय पर्यवस्यति। 'प्रातरग्निहोत्रम्' इत्यादौ तद्दर्शनात्। तस्मात्साङ्गस्य प्रधानस्यैकस्मिन्नेव प्रातः काले विधानात्सद्यस्कालीनत्वं श्रौतम्। चोदकेन तु- अन्वाधानाद्यङ्गं पूर्वेद्युः प्रातः, प्रधानं परेद्युः प्रातः- इति कल्प्यते। उपदेशश्चोदकाद्बलीयान्। तस्मात्- एकाहकालीना इष्टयः।। 22।। 23।।  द्वादशे- अनुयाजाद्युत्कर्षप्रयाजान्तापकर्षाधिकरणे तदादितदन्तन्याये सूत्रे 23-24   अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात्।। 23।।  तदादि वाऽभिसंबन्धात्, तदन्तमपकर्षे स्यात्।। 24।। द्वादशाधिकरणमारचयति- प्रयाजेष्वपकर्षोऽनुयाजेषूत्कर्ष इत्यमू। श्रुतमात्रे तदन्तेषु तदाद्येषु च वाऽग्रिमः।। 24।। अन्येषां मुख्यकालत्वान्मैवं व्युत्क्रमशक्तितः । प्रयाजान्ते ह्यनुयाजादिके चैतौ समूहके।। 25।। अग्नीषोमीयपशौ प्रयाजानामपकर्षः श्रूयते ''तिष्ठन्तं पशुं प्रयजन्ति'' इति। प्रकृतौ हविष्यासादिते पश्चात्प्रयाजा इज्यन्ते। इहापि पशुसंज्ञपनादूर्ध्वं हविष्यासादिते पश्चादेव प्रयाजाश्चोदकेन प्राप्ताः। ते चात्र वचनाज्जीवत्येव पशावपकृष्वन्ते। तथा सवनीयपशावनुयाजानामुत्कर्षः श्रूयते ''आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति'' इति। तत्र- प्रयाजमात्रस्यापकर्षः श्रुतः। अनुयाजमात्रस्य चोत्कर्षः। तावुभौ श्रुत्यनुसारेण तथैवाङ्गीकर्तव्यौ। यदि प्रयाजान्तस्याङ्गकलापस्यापकर्षः स्यात्, तदा प्रयाजेभ्यः पूर्वभाविनामाघारसामिधेन्यादीनां ततोऽप्यपकर्षादत्यन्तव्यवहितानां प्रधानकालीनत्वं न स्यात्। प्रयाजमात्रे त्वपकृष्टे सत्याघारादीनां मुख्यकालीनत्वं न लुप्यते। एवम्- अनुयाजमात्र उत्कृष्टे तत ऊर्ध्वभाविनां सूक्तवाकशंयुवाकादीनामनुत्कर्षात्प्रधानसंनिधिर्न विनश्यति। तस्मात्- प्रयाजमात्रस्यापकर्षः, अनुयाजमात्रस्योत्कर्षः- इति प्राप्ते- ब्रूमः- प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्, सक्रमाणामेव पदार्थानां चोदेकेनातिदेशात्। व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत। तस्मात्- प्रयाजान्तस्याङ्गसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः।। 24।। 25।।  त्रयोदशे प्रवृत्त्या प्रोक्षणादीनां सौमिकपूर्वभाविताधिकरणे सूत्रे 25-26   प्रवृत्त्या कृतकालानाम्।। 25।।  शब्दविप्रतिषेधाच्च।। 26।। त्रयोदशाधिकरणमारचयति- सावनेष्वैष्टिकानां किं सौमिकेभ्यो न पूर्वता । पूर्वता वाऽत्र नियमो नास्ति तद्धेतुवर्जनात्।। 26।। प्रतिप्रस्थातृकर्तृत्वे ह्यध्वर्योरपि कर्तृता । प्रोक्षणाद्याः पुरा पश्चात्सौमिकाः स्युः प्रवृत्तितः।। 27।। सोमे प्रातरनुष्ठेयोऽनुवाकः पठितः। ततः प्रचरणीहोमादयः पठिताः। ततः सवनीयादयः। ते च चोदकागतनिर्वापादियुक्ताः। ततो बहिष्पवमानस्तोत्रं पठितम्। तत्र- अध्वर्युर्होत्रे प्रातरनुवाकप्रैषं दत्त्वा तदानीमेव प्रतिप्रस्थातारमेवं प्रेष्यति- ''प्रतिप्रस्थातः सवनीयान्निर्वपस्व'' इति। ततः प्रचरणीहोमादिभ्य ऊर्ध्वं प्राप्तोऽपि सवनीयपुरोडाशनिर्वापः पूर्वस्मिन्नेव प्रातरनुवाककाले प्रैषवशादपकृष्टः। सवनीयपुरोडाशानामलंकारप्रैषोत्कर्ष एवमाम्नातः- ''बहिष्पवमाने स्तुत आह- अग्नीदग्नीन्विहर, बर्हिः स्तृणीहि, पुरोडाशानलंकुरु''- इति। एवं स्थिते सति प्रकृतौ निर्वापोत्तरभाविनोऽलंकरणपूर्वभाविनः प्रोक्षणादयो ये पदार्थाः, तेऽत्र चोदकप्राप्ताः, तेषां निर्वापवदपकर्षस्य, अलंकरणवदुत्कर्षस्य चानुक्तत्वादुभयोर्मध्यकाल एवानुष्ठानं प्राप्तम्। तथा सति प्रचरणीहोमादिभिर्बहिष्पवमानान्तैः सोमिकपदार्थैः प्रोक्षणादिपदार्थानामैष्टिकानामेककालत्वेनानुष्ठानात्पौर्वापर्यकलहे सति नियामकाभावादैच्छिकः क्रमः- इति प्राप्ते- ब्रूमः- प्रातरनुवाकप्रचरणीहोमयोः सौमिकयोः पाठप्राप्तमनुक्रमं विच्छिद्य प्रैषविधिबलादैष्टिको निर्वापः प्रवृत्तः। तेन च निर्वापेण तदनन्तरभाविप्रोक्षणादिकं बुद्धावुपस्थाप्यते। न तु सौमिकं प्रचरणीहोमादिकं तदा केनचिदुपस्थाप्यते। ननु निर्वापः प्रतिप्रस्थातृकर्तृकः, प्रोक्षणादिकमध्वर्युकर्तृकम्- इति न निर्वापः प्रोक्षण्याद्युपस्थापकः- इति चेत्- मैवम्। प्रयोजकत्वेन निर्वापेऽध्वर्योरपि कर्तृत्वात्। तस्मात्- ऐष्टिकाः प्रोक्षणाद्याः पूर्वमनुष्ठेयाः पश्चात्सौमिकाः प्रचरणीहोमादयः।। 26।। 27।।  चतुर्दशे वैकृतयूपकर्ममात्रापकर्षाधिकरणे यूपकर्मन्याये सूत्रम्   असंयोगात्तु वैकृतं तदेव प्रतिकृष्येत।। 27।। चतुर्दशाधिकरणमारचयति- यूपच्छेदापकर्षः किं तदन्ते श्रुत एव वा । प्रयाजवत्तदन्तत्वान्नयनं चापकृष्यताम्।। 28।। अग्नीषोमप्रणयनं सौमिकं पाशुकी छिदा । प्रयाजाघारवैषम्याछ्रुतमात्रापकर्षणम्।। 29।। ज्योतिष्टोमे वैसर्जनहोमादूर्ध्वं प्राचीनवंशगतो वह्निराग्नीध्रीये प्रणेतव्यः। सोमश्च प्राचीनवंशे पूर्वमवस्थापित इदानीं हविर्धाने प्रणेतव्यः। तयोरुभयोः प्रणयनादूर्ध्वं यूपच्छेद आम्नातः। तदेतत्सर्वं सुत्यादिनात्प्राचीन औपवसथ्ये दिने प्राप्तम्। तत्र यूपच्छेदो दिनत्रयात्पूर्वस्मिन्दीक्षाकालेऽपकृष्टः। ''दीक्षासु यूपं छिनत्ति'' इति तद्विधानात्। तस्मिन्नपकृष्टे प्रयाजन्यायेन तदन्ताङ्गसमूहस्यापकर्पणात्प्रणयनमप्यपकृष्यताम्- इति प्राप्ते- ब्रूमः- प्रयाजाघारादीनामेकप्रधानं प्रत्यङ्गत्वेनैकप्रयोगान्तःपातित्वादवश्यंभावी परस्परक्रमः, इति प्रयाजापकर्षे तदन्ताङ्गसमूहापकर्षो युक्तः। इह तु प्रणयनं सोमयागाङ्गम्, यूपच्छेदस्त्वग्नीषोमीयपशोरङ्गमिति प्रणयनच्छेदनयोर्नान्योन्यं क्रमोऽपेक्षितः। तस्मात्- श्रुतस्य यूपच्छेदमात्रस्यापकर्षः।  पञ्चदशे दक्षिणाग्निकहोमानपकर्षाधिकरणे सूत्रम्   प्रासङ्गिकं च नोत्कर्षेदसंयोगात्।। 28।। पञ्चदशाधिकरणमारचयति- सवनीये पिष्टलेपफलीकरणहोमकौ । उत्क्रष्टव्यौ न वाद्यः स्यादनूयाजोत्तरत्वतः।। 30।। पश्वार्थाः स्युरनूयाजाः पुरोडाशगताविमौ। उभौ होमौ प्रयोगस्य भेदान्नोत्कर्षमर्हतः।। 31।। सवनीयपुरोडाशे पिष्टलेपफलीकरणहोमौ चोदकेन प्राप्तौ दृषदुपलकपालादिष्वाश्लिष्टो यः पिष्टलेपः, तमुद्धृत्य जुह्वा चतुर्गृहीत आज्ये प्रक्षिप्य दक्षिणाग्नौ जुहोति। फलीकरणशब्देन तण्डुलकणा उच्यन्ते, तानपि तथा जुहोति। तावेतौ होमौ प्रकृतिवदिहाप्यनुयाजोत्तरकालीनौ। ते चानुयाजा आग्निमारुतादूर्ध्वमुत्कृष्टा इति सूक्तवाकादिवदेतौ होमावुत्क्रष्टव्यौ- इति प्राप्ते- ब्रूमः- उत्कृष्यमाणा एतेऽनुयाजाः पश्वर्थाः, न तु पुरोडाशार्थाः। पुरोडाशे प्रसङ्गसिद्धेर्वक्ष्यमाणत्वात्। उक्तहोमौ तु पुरोडाशार्थौ। न च तयोः प्रसङ्गसिद्धिः, पशौ पिष्टाद्यभावेन तद्धोमासंभवात्। एवं च सत्युक्तप्रणयनवद्धोमयोः प्रयोगभेदान्नास्त्यनुयाजैः सहोत्कर्षः।। 30।। 31।।  षोडशे पुरोडाशाभिवासनान्तस्य दर्शेऽनपकर्षाधिकरणे सूत्रम्   तथाऽपूर्वम्।। 29।। षोडशाधिकरणमारचयति- पुरोडाशाभिवासान्तस्यापकर्षोऽस्ति दर्शके । न वाद्योऽस्त्वपकृष्टाया वेदेर्वैगुण्यहानये।। 32।। अभिवासात्परा वेदिरिति तत्क्रमबोधतः । प्रागेव विहिता दर्शे वेदिर्नातोऽपकर्षणम्।। 33।। दर्शपूर्णमासयोः पूरोडाशस्य कपालेषु श्रपितस्याच्छादनमाम्नातम्- ''भस्मनाऽभिवासयति'' इति। तत ऊर्ध्वं वेदिराम्नाता। तेनैव क्रमेण पौर्णमासीयागे प्रतिपद्यनुष्ठानं कृतम्। दर्शयागे तु वेदेरपकर्ष आम्नातः- ''पूर्वेद्युरमावास्यायां वेदिं करोति'' इति। तत्र वेदेः पूर्वभाविनोऽभिवासनान्तस्याङ्गसमूहस्यापकर्षः कर्तव्यः। अन्यथा वेदेर्वैगुण्यप्रसङ्गात्- इति प्राप्ते- ब्रूमः- यदि दर्शः पौर्णमासीविकारः स्यात्, तदा पूर्णमास्यां क्लृप्तः क्रमोऽतिदिश्येत। न त्वसौ विकार इति कश्चित्क्रमोऽत्र स्वातन्त्र्येणोन्नेयः। क्रमोन्नयनं च सर्वेषु पदार्थेष्वाम्नातेषु पश्चात्पाठादिभिः संपद्यते। वेदिपदार्थश्चाभिवासनादूर्ध्वं दर्शपूर्णमाससाधारण्येनाम्नातः। विशेषतस्तु दर्शयागे पूर्वेद्युरेवाम्नायते। तथा सत्यभिवासनवेद्योः क्रमबोधात्प्रागेव दार्शिकवेदेः पूर्वदिनसंबन्धावगमात्तदेव तस्याः स्थानमिति वेदेरपि तावन्नास्त्यपकर्षः, तत्र कुतोऽभिवासनान्तस्याङ्गसमूहस्यापकर्षः।। 32।। 33।।  सप्तदशे सांतपनीयाया अग्निहोत्रानुत्कर्षकताधिकरणे सूत्राणि 30-34   सांतपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात्।। 30।।  अव्यवायाच्च।। 31।।  असंबन्धात्तु नोत्कर्षेत्।। 32।।  प्रापणाच्च निमित्तस्य।। 33।।  संबन्धात्सवनोत्कर्षः।। 34।। सप्तदशाधिकरणमारचयति- दैवात्सांतपनी सायं प्राप्ता चेदग्निहोत्रकम् । उत्कर्षति न वोत्कर्षः पौर्वापर्यस्य भावतः।। 34।। मिन्नप्रयोगप्राप्तत्वादग्निहोत्रं स्वकालके। इष्टिमध्येऽपि हुत्वाऽथ यागशेषः समाप्यताम्।। 35।। चातुर्मास्येषु साकमेधनामके पर्वणि सांतपनीष्टिः श्रूयते ''मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुम्'' इति। तां चेष्टिं समाप्य सायंकालेऽग्निहोत्रं हूयते। यदि कदाचिद्दैविकान्मानुषाद्वा प्रतिबन्धात्सेष्टिः सायमुपक्रान्ता, तदा सेष्टिरग्निहोत्रस्योत्कर्षमापादयति। कुतः- इष्ट्यग्निहोत्रयोः पौर्वापर्यसद्भावेनेष्टिं समाप्यैवाग्निहोत्रस्यानुष्ठेयत्वात्- इति प्राप्ते- ब्रूमः- प्रयोगभेदान्नानयोः शास्त्रीयः कश्चित्क्रमोऽस्ति। सांतपनी तु स्वकालाद्भ्रष्टा। अग्निहोत्रस्यापि तद्भ्रंशो ना भूदितीष्टिमध्येऽप्यग्निहोत्रं स्वकालेऽनुष्ठाय पश्चादिष्टिशेषः समापनीयः।। 34।। 35।।  अष्टादशे- उक्थ्यानुरोधेन षोडश्युत्कर्षाधिकरणे सूत्रम्   षोडशी चोक्थ्यसंयोगात्।। 35।। अष्टादशाधिकरणमारचयति- उक्थ्योत्कर्षे षोडशी नोत्कृष्येतोत्कृष्यतेऽथवा । स्तोत्रकालाय नोत्कर्षः पूर्ववत्षोशिग्रहे।। 36।। ग्रहं पराञ्चमुक्थ्येभ्य इत्यङ्गाङ्गित्वभासनात् । सस्तोत्रे ग्रह उत्कृष्टे स्तोत्रकालः प्रबाध्यताम्।। 37।। ज्योतिष्टोमे षोडशिग्रहं प्रकृत्य श्रूयते ''तं पराञ्चमुक्थ्येभ्यो निगृह्णाति'' इति। तृतीयसवसे सूर्यास्तमयात्प्रगेवोक्थ्यग्रहास्त्रयो गृह्यन्ते। तेभ्यः परस्तादयं षोडशी विहितः। यदि कदाचिद्दैवादुक्थ्यग्रहा अस्तमयादूर्ध्वमुत्कृष्येरन्, तदा तत ऊर्ध्वं विहितस्यापि षोडशिग्रहस्य नास्त्युत्कर्षः। कुतः- पूर्वन्यायेन कालस्यानुसरणीयत्वात्। कालो ह्येवमाम्नातः- ''समयाध्युषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति'' इति। समयोऽस्तसमयः, तं प्राप्ते सूर्ये स्तोत्रप्रारम्भकालः। सोऽयमुत्कर्षे सति बाध्येत। तच्चायुक्तम्। पूर्वत्राग्निहोत्रस्य स्वकालमबाधितुमेवेष्टिमध्येऽनुष्ठानाङ्गीकारात्- इति प्राप्ते- ब्रूमः- 'पराञ्चम्' इति शब्देनोक्थ्येम्य उत्तरकालः षोडशिग्रहाङ्गत्वेन विधीयते। ततो मुख्यस्य ग्रहस्य कालमबाधितुमुपसर्जनस्य स्तोत्रस्य कालं वाधित्वा सस्तोत्रो ग्रह उत्क्रष्टव्यः।। 36।। 37।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 18, सूत्राणि 35। आदितः- अधिकरणानि 326, सूत्राणि 851। पञ्चमाध्यायस्य द्वितीयः पादः वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः।  प्रथमे वाजपेयपशूनां सर्वेषामेकदोपाकरणादिधर्मानुष्ठानाधिकरणे,पदार्थानुसमयन्याये सूत्राणि 1-3   संनिपाते प्रधानानामेकैकस्य गुणानां सर्वकर्मस्यात्।। 1।।  सर्वेषां वैकजातीयं कृतानुपूर्वत्वात्।। 2।।  कारणादभ्यावृत्तिः।। 3।। द्वितीये पादे प्रथमाधिकरणमारचयति- वाजपेये किमेकैकपशौ सर्वसमापनम् । सर्वेषु वैकैकधर्म आद्यः साहित्यसिद्धये।। 1।। वचनात्पशुसाहित्यं प्रयोगोक्त्या तु कल्प्यते । धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते।। 2।। वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरणनियोजनादिसंस्काराः सर्वे समापनीयाः। तथा सति 'साङ्गं प्रधानं कर्तव्यम्' इति प्रयोगवचनेनावगतं धर्माणां साहित्यं सिध्यति। चोदकोऽपि धर्मसाहित्यं प्रापयति। प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात्। तस्मात्- अत्र काण्डानुसमयः, न तु पदार्थानुसमयः- इति प्राप्ते- ब्रूमः- ''सप्तदश प्राजापत्यान्पशूनालभते'' इति वचनात्पशुसाहित्यमवगतम्। तच्च प्रबलम्, प्रत्यक्षेण 'पशून्' इत्यनेनैकशब्देन परिकल्प्यते। यद्येकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्, तदा कतिपयधर्मवैकल्येन साङ्गप्रधानानुष्ठानविधिर्नापद्येत- इत्यर्थाक्षेपः। चोदकेनापि विकृतौ धर्मसाहित्यवचनमनुमीयते। तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद्दुर्बलम्। तस्मात् ''वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ति'' इत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुम् 'सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्यः' इत्येवं पदार्थानुसमयोऽभ्युपेतव्यः, न तु काण्डानुसमयः। अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते। एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणामनुष्ठितत्वात्।। 1।। 2।।  द्वितीये सहस्त्राश्वप्रतिग्रहणस्थले- एकैकस्यैकदा सर्वधर्मानुष्ठानाधिकरणे काण्डानुसमयन्याये वा सूत्रम्   कारणादभ्यावृत्तिः।। 3।। द्वितीयाधिकरणमारचयति- प्रतिग्रहे तु बह्वश्वे पूर्वन्यायोऽस्ति वा न वा। अस्ति तत्साम्यतो मैवं पुरोडाशस्य शोषतः।। 3।। ''यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्'' इति। अत्र शतसंख्यादियुक्तबह्वश्वप्रतिग्रहे बहुपुरोडाशेषूदाहृतप्रत्यक्षवचनेन साहित्यं प्राप्तम्। तत्र पूर्वन्यायेन सर्वेषु पुरोडाशेष्वेकैकोऽधिश्रयणादिधर्मोऽनुष्ठेयः- इति चेत्- मैवम्। तप्तेषु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथमपुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति, तावताऽसौ शुष्को भवति। तस्मात्- एकैकस्मिन्पुरोडाशे कृत्स्नधर्मसमापनम्- इत्येवं काण्डानुसमयोऽभ्युपेतव्यः।। 3।।  तृतीये मुष्टिकपालादीनां समुदायानुसमयाधिकरणे सूत्रे 4-5   मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन।। 4।।  सर्वाणि त्वेककार्यत्वादेषां तद्गुणत्वात्।। 5।। तृतीयाधिकरणमारचयति- निर्वापे तु किमेकैकमुष्टेरस्त्यङ्गता न वा। अस्त्येकैकप्रतिष्ठानात्कपालादिषु तत्समम्।। 4।। चतुरो निर्वपेन्मुष्टीनिति निर्वापसंश्रयात्। एकैकमुष्टेरंशत्वात्पदार्थत्वं चतुष्टये।। 5।। दर्शपूर्णमासयोराग्नेयाग्नीषोमीयनिर्वापयोः श्रूयते ''चतुरो मुष्टीन्निर्पति'' इति। तत्र- एकैको मुष्टिर्मुष्ट्यन्तरनैरपेक्ष्येण प्रतितिष्ठति- इत्येकैकस्य मुष्टेर्निर्वापाङ्गभूतपदार्थत्वमस्ति। ततो द्वयोर्निर्वापयोः क्रमेण- एकं मुष्टिं निरुप्य, ततो द्वितीयमुष्टिः- इत्येवं विधः पदार्थानुसमयः कर्तव्यः। एवं कपालोपधानादिषु योजनीयम्। द्वयोः पुरोडाशयोरर्थे क्रमेण- एकं कपालमुपधाय, पश्चाद्द्वितीयम्-। उभयत्र क्रमेणोपधेयम्- इति प्राप्ते- ब्रूमः- यदि पदार्थत्वं लौकिकं स्यात्, तर्ह्येकस्य मुष्टेस्तदस्तु। इह तु- एकविधिगम्य एकः पदार्थः। विधिश्च चतुःसंख्याविशिष्टानेव मुष्टीन्विदधाति- इति मुष्टिचतुष्टयमेकः पदार्थः। एकमुष्टिस्तु तदंशः, न तु पूर्णपदार्थः। एवम्- आग्नेयपुरोडाशे कपालाष्टकोपधानमेकः पदार्थः। अग्नीषोमीये त्वेकादशकपालोपधानम्। एवम्- सर्वत्रैकविधिविहितस्यैव पदार्थत्वान्नांशानामनुसमयोऽस्ति।। 4।। 5।।  चुतुर्थे- अवदानस्य प्रदानान्तानुसमयाधिकरणे सूत्रम्   संयुक्ते तु प्रक्रमात्तदङ्गं स्यादितरस्य तदर्थत्वात्।। 6।। चतुर्थाधिकरणमारचयति- अवदानेऽनुसमयो होमान्ते वाऽवदानके। पदार्थत्वं विधेयत्वात्तेनानुसमयस्ततः।। 6।। अवद्यतिः प्रदानान्तोऽवदानस्य तदर्थता। अतोऽनुसमयस्तत्र होमान्तान्न तु केवलात्।। 7।। दर्शपूर्णमासयोः- ''द्विर्हविषोऽवद्यति'' इत्येकेन विधिना विहितत्वाद्द्विसंख्याविशिष्टमवदानमेकः पदार्थः। ततस्तेनावदानमात्रेणानुसमयः कार्यः। आग्नेयस्य द्विरवदानं कृत्वा तद्धोमात्प्रागेवाग्नीषोमीयस्य द्विरवदानम्- इति प्राप्ते- ब्रूमः- अवदानं होमपर्यन्तमेकः पदार्थः। होमस्यावदानमन्तरेणानुपपत्तौ होमविधिनैवाक्षिप्तं होमार्थमवदानम्। अत एव ''चतुरवत्तं जुहोति'' इत्येकेन विधिना सावदानक एको होमपदार्थो विहितः। उपस्तरणाभिधारणाभ्यां सह यच्चत्तुरवत्तम्, तस्मिन्हविर्विषयमवदानद्वित्वं विधातुम् ''द्विर्हविषोऽवद्यति'' इत्युच्यते। ततो होमान्तस्यावदानस्यैकपदार्थत्वादाग्नेयमवदाय हुत्वा पश्चादग्नीपोमीयावदानमित्यनुसमयः।। 6।। 7।।  पञ्चमे- अञ्जनादेः परिव्याणान्तानुसमयाधिकरणे सूत्राणि 7-9   वचनात्तु परिव्याणान्तमञ्जनादि स्यात्।। 7।।  कारणाद्वाऽनवसर्गः स्याद्यथा पात्रवृद्धिः।। 8।।  न वा शब्दकृतत्वान्न्यायमात्रमितरदर्थात्पात्रविवृद्धिः।। 9।। पञ्चमाधिकरणमारचयति- यूपाञ्जनादिरेवैकः संघो वाऽनुसमीयते । एकैकः पूर्ववन्मैवं वचनात्काण्डसंगतेः।। 8।। ज्योतिष्टोमेऽग्नीषोमीयपशौ- यूपस्य घृतेनाञ्जनमुच्छ्रयणम्, अवटस्य समूहनम्, यूपमूलस्य परिबृंहणम्, मध्ये रशनया परिव्याणम्, इत्येते पदार्था आम्नाताः। ते चैकयूपपक्षे तथैव कर्तव्याः। एकयूपस्य च विकल्पः श्रूयते ''एकयूपो वैकादशिनी वाऽन्येषां यज्ञानां यूपा भवन्ति, एकविंशिन्यश्वमेधस्य'' इति। तत्र बहुयूपेष्वञ्जनादिरेकैकः पदार्थः प्राजापत्यपशूपाकरणादिवदनुसमेतव्यः- इति प्राप्ते- ब्रूमः- ''अञ्जनादिपरिव्याणान्तं यजमानो यूपं नावसृजेत्'' इति वचनेन यजमानस्य यूपत्यागनिषेधोऽञ्जनादिकाण्डानुसमये सत्युपपद्यते। तस्मान्नात्र पदार्थानुसमयः।। 8।।  षष्ठे दैवताद्यवदानेषु पदार्थानुसमयाधिकरणे सूत्राणि 10-12   पशुगणे तस्य तस्यापवर्जयेत्पश्वेकत्वात्।। 10।।  दैवतैर्वैककर्म्यात्।। 11।।  मन्त्रस्य चार्थवत्त्वात्।। 12।। षष्ठाधिकरणमारचयति- किं दैवाद्यवदानेषु काण्डानुसमयोऽथवा । एकानुसमयोऽस्त्वाद्यः प्रकृतौ तस्य दर्शनात्।। 9।। पश्वैक्यात्प्रकृतौ सोऽस्तु विकृतौ तद्बहुत्वतः । सजातीयपदार्थानुसमयोऽनन्तरत्वतः।। 10।। अग्नीषोमीयपशौ श्रूयते ''दैवतान्यवदाय न तावत्येव होतव्यम्, सौविष्टकृतान्यवद्यति। सौविष्टकृतान्यवदाय न तावत्येव होतव्यम्, ऐडान्यवद्यपि'' इति। तत्र- प्रधानदेवतार्थानि, स्विष्टकृदर्तानि, इडाभक्षणार्थानि च, इति विविधान्यवदानानि। तानि च तेनैव क्रमेणानुष्ठीयन्ते। प्राजापत्येषु सप्तदशसु पशुषु तानि चोदकप्राप्तानि। तत्र तेषां त्रिविधानामवदानानां काण्डमेकैकस्मिन्पशावनुसमेतव्यम्। तथा सति प्रकृतिसादृश्यलाभात्- इति प्राप्ते- ब्रूमः- प्रकृतौ पश्वेकत्वेन पदार्थानुसमयप्रसक्त्यभावादस्तु काण्डानुष्ठानम्। इह तु पदार्थानुसमयो युज्यते। दैवावदानरूपमेकं पदार्थं सर्वेषु पशुषु संपाद्य पश्चात्सौविष्टकृतावदानम्। तच्च सर्वेषु कृत्वा पश्चादैडावदानम्। एवं च सत्युपाकरणादिष्विव पशूनां साहित्यमबाधितं भवति। ततः पश्वानन्तर्याय सजातीयो दैवावदानरूपो यः पदार्थः स एव सर्वेषु पशुष्वनुसमेतव्यः।। 9।। 10।।  सप्तमे नानाबीजेष्टावुलूखलादीनां तन्त्रताधिकरणे सूत्राणि 13-15   नानाबीजेष्वेकमुलूखलं विभवात्।। 13।।  विवृद्धिर्वा नियमादानुपूर्व्यस्य तदर्थत्वात्।। 14।।  एकं वा तण्डुलभावाद्धन्तेस्तदर्थत्वात्।। 15।। सप्तमाधिकरणमारचयति- नानाबीजेषु नानात्वमुलूखल उतैकता। अजिनास्तरणादीनां भिन्नत्वात्स्यादनेकता।। 11।। स्तरणादौ तण्डुलान्ते पदार्थैक्यादनुक्रमात् । उलूखलैक्यं नीवारश्यामाकादिष्ववस्थितम्।। 12।। राजसूये नानाबीजेष्टिराम्नाता- ''अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहिणाम्'' ''सोमाय वनस्पतये श्यामाकं चरुम्'' इत्यादि। तत्र तेषां बीजानामवघातायाजिनास्तरणादयश्चोदकेनातिदिष्टाः। कृष्णाजिनास्तरणमुपर्युलूखलस्थापनम्। तत्र बीजावापोऽवघातः शूर्पेण परावपणं कणेभ्यस्तण्डुलानां विवेचनम्। ते चैते कृष्णाजिनास्तरणादयः पृथग्विधिभिर्विहितत्वाद्भिन्नाः पदार्थाः। ततो नानाबीजेषु कृष्णाजिनास्तरणमनुसमेतव्यम्। तथा सति यावत्यो बीजजातयस्तावन्ति कृष्णाजिनानि। तद्वदुलूखलस्याप्यनेकत्वम्- इति प्राप्ते, ब्रूमः- ''व्रीहीनवहन्ति'' इति विहितोऽवघात एकः पदार्थः। स च कृष्णाजिनास्तरणादितण्डुलनिष्पत्त्यवसानः। तं च पदार्थं कृष्णव्रीहिष्वनुष्ठाय श्यामाकेषु स एव पदार्थोऽनुष्ठेयः। तथा सत्यनुक्रमेणैकमेवोलूखलं सर्वेषु बीजेष्वन्वेतुं शक्नोति। तत उलूखलकृष्णाजिनादीनां नास्त्यनेकत्वम्।। 11।। 12।।  अष्टमे- अग्नीषोमीयपशौ प्रयाजानुयाजयोः पात्रभेदाधिकरणे सूत्रम्   विकारे त्वनुयाजानां पात्रभेदोर्थभेदात्स्यात्।। 16।। अष्टमाधिकरणमारचयति- प्रयाजानुयाजसिद्ध्यै पात्रैक्यमुत भिन्नता । एकोपभृद्द्वयोरर्थे दृष्टाऽतो विकृतौ तथा।। 13।। विकृतौ पात्रभेदोऽस्तु शुद्धाज्यपृषदाज्ययोः । एकपात्रे ग्रहाशक्तेर्द्रव्यैक्यं प्रकृतौ द्वयोः।। 14।। अग्नीषोमीयपशौ प्रयाजानुयाजसाधनद्रव्यं धारयितुमेकमेव पात्रं कर्तव्यम्। कुतः- प्रकृतादुभयार्थस्याज्यस्यैकयैवोपभृता धृतत्वेन विकृतावपि तदतिदेशात्- इति प्राप्ते- ब्रूमः- प्रकृतिवत्केवलेनाज्येन प्रयाजा इज्यन्ते। अनुयाजास्तु पृषदाज्येन यष्टव्याः। ''पृषदाज्येनानुयाजान्यजति'' इति तद्विधानात्। पृषदाज्यं नाम दधिमिश्रमाज्यम्। नहि शुद्धमिश्रयोरेकेन पात्रेण धारणं भवति। तस्मात्- अत्र पृथक्पात्रम्।। 13।। 14।।  नवमे नारिष्ठहोमस्योपहोमपूर्वताधिकरणे, नारिष्ठन्याये, सूत्राणि 17-20   प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यान्न ह्यचोदितस्यशेषाम्नातम्।। 17।।  मुख्यानन्तर्यमात्रेयः, तेन तुस्यश्रुतित्वादशब्दत्वात्प्राकृतानां व्यवायः स्यात्।। 18।।  अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वात्।। 19।।  तथा चान्यार्थदर्शनम्।। 20।। नवमाधिकरणमारचयति- नक्षत्रेष्ट्युपहोमाः किं नारिष्ठेभ्यः पुरा न वा। प्रत्यक्षपाठान्मुख्यस्य सामीप्यायास्तु पूर्वता।। 15।। प्राकृते प्रथमो बोधो वैकृते चरमस्ततः । नारिष्ठहोमाः पूर्वं स्युरुपहोमास्तु पृष्ठतः।। 16।। अग्न्यादिदेवतायुक्तानां कृत्तिकादिनक्षत्राणामिष्टयः काम्या विहिताः- ''अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालम्'' इत्यादयः। तत्र प्रधानहोमाः ''अग्निर्न पातु कृत्तिकाः'' इत्यादियाज्यानुवाक्यापुरःसरं हूयन्ते। तत्रोपहोमा एवमाम्नाताः- ''सोऽत्र जुहोति- अग्नये स्वाहा, कृतिकाभ्यः स्वाहा, अम्बायै स्वाहा, दुलायै स्वाहा'' इति। नारिष्ठहोमाश्च चोदकेन प्राप्ताः। ''दश ते तनुवो यज्ञ यज्ञियाः'' इत्यादिभिर्मन्त्रैराज्याहुतयो नारिष्ठहोमाः। एतेभ्यो नारिष्ठहोमेभ्यः पूर्वमुपहोमाः कर्तव्याः। कुतः- ''अष्टाकपालं निर्वपेत्'' ''सोऽत्र जुहोति'' इति प्रत्यक्षपाठेन मुख्यसामीप्यमुपहोमानां प्रतीयते। तच्चातिदिष्टैर्नारिष्ठहोमैर्व्यवधाने बाध्येत। तस्मादुपहोमानां पूर्वत्वम्- इति प्राप्ते, ब्रूमः- नक्षत्रेष्टिरूपा विकृतिर्विधीयमाना स्वोपकारकमङ्गजातमपेक्षते। तदा चोदकः प्राकृतं नारिष्ठहोमादिकमङ्गं बोधयति। प्रत्यक्षवाक्यं तु वैकृतमुपहोमादिकम्। तयोर्मध्ये क्लृप्तोपकारतया नारिष्ठहोमाद्यङ्गत्वं सहसा बुध्यते। उपहोमाद्यङ्गता तूपकारे कल्पिते पश्चाद्बुध्यते। ततः प्रधानप्रत्यासत्त्या नारिष्ठहोमाः पूर्वमनुष्ठेयाः। उपहोमाः पश्चादनुष्ठेयाः।। 15।। 16।।  दशमे विदेवनादीनामभिषेकपूर्वताधिकरणे सूत्रम्   कृतदेशात्तु पूर्वेषां स देशः स्यात्तेन प्रत्यक्षसंयोगान्न्यायमात्रमितरत्।। 21।। दशमाधिकरणमारचयति- अभिषेच्यप्राकृताङ्गसमाप्तौ देवनादिकम्। मध्ये वा पूर्ववत्सर्वसमाप्तौ देवनादयः।। 17।। अभिषेकोऽपकृष्टोऽस्मात्पूर्वे प्रत्यक्षपाठतः । देवनाद्यास्ततो मध्ये माहेन्द्रस्तोत्रतः पुरा।। 18।। राजसूये सोमयागस्याभिषेचनीयस्य संनिधौ विदेवनशौनःशेपाख्यानाभिषेकाः क्रमेणाम्नाताः। तत्र अभिषेचनीये चोदकप्राप्तमङ्गजातं नारिष्ठन्यायेन प्रथमं समाप्य पश्चाद्विदेवनादयः कार्याः- इति प्राप्ते- ब्रूमः- ''माहेन्द्रस्तोत्रं प्रत्यभिषिच्यते'' इति वाक्येन तस्य सोमयागस्य मध्येऽभिषेकोऽपकृष्टः। अभिषेकात्पूर्वभावित्वं विदेवनादीनां प्रत्यक्षपाठप्राप्तम्। ततो माहेन्द्रस्तोत्रादपि पूर्वस्मिन्काले प्रयाजाघारवद्विदेवनादीनामपकर्षः कर्तव्यः।। 17।। 18।।  एकादशे सावित्रहोमादीनां दीक्षणीयपूर्वप्रयोगाधिकरणे सूत्रम्   प्राकृताच्च पुरस्ताद्यत्।। 22।। एकादशाधिकरणमारचयति- चयने दीक्षणीयादि सावित्राद्यथवा पुरा । प्राकृतत्वादिहाद्यः स्यादन्त्यः प्रत्यक्षपाठतः।। 19।। अग्निचयने ''सावित्राणि जुहोति'' इति सावित्रहोम आम्नातः। ततो महता प्रबन्धेनोखासंभरणादिकमाम्नाय पश्चात् ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः'' इत्यादिना दीक्षणीयादिकमाम्नातम्। तत्र दीक्षणीयादिकं प्रकृतौ क्लृप्तोपकारतया शीघ्रं बुद्ध्यमानत्वात्सावित्रहोमादिभ्यः पूर्वमनुष्ठेयम्- इति चेत्- मैवम्। प्रत्यक्षपाठेन क्रमावगमात्। चोदकप्राप्तस्यापि दीक्षणीयादेरग्निकाण्डे सावित्रादिभ्य ऊर्ध्वं पुनः पाठात्सावित्रादिष्वनुष्ठितेषु पश्चादनुष्ठानं कार्यम्।। 12।।  द्वादशे यजमानसंस्काराणां रुक्मप्रतिमोकात्पूर्वभाविताधिकरणे सूत्रम्  द्वादशाधिकरणमारचयति- चयने रुक्मभृत्यादिः पुरोत स्वामिसंस्कृतिः । पाठादाद्योऽन्तिमः क्लृप्तक्रमात्पाठस्य न क्षतिः।। 20।। अग्निचयने दीक्षणीयादेरुर्ध्वं रुक्मधारणमाम्नातम्। कण्ठे धृतः सन्नुरसि लम्बमानः सौवर्ण आभरणविशेषो रुक्मशब्दार्थः। उखास्थितोऽग्निः शिक्येऽवस्थापितः कण्ठे धार्यमाण उरःप्रदेशं यथा न दहति तथा व्यवधायकत्वेन तद्धारणम्। अत एव ब्राह्मणम्- ''रुक्ममन्तरं प्रतिमुञ्चतेऽमृतमेव मृत्योरन्तर्धत्ते'' इति। यजमानसंस्काराश्च वपनादयः प्रकृतौ दीक्षणीयानन्तरभाविन इह चोदकेन प्राप्ताः। तेभ्यः पूर्वमेव रुक्मप्रतिमोकः कार्यः, तस्य प्रत्यक्षपाठात्सावित्रादिषु तस्यादृतत्वात्- इति चेत्- मैवम्। यजमानसंस्काराणां दीक्षणीयानन्तर्यं प्रकृतौ क्लृप्तम्। रुक्मस्य तु पाठेन तत्कल्पनीयम्। तस्मात्संस्काराः पूर्वभाविनः। न च सावित्रदृष्टान्तो युक्तः। दीक्षणीयाया इव संस्काराणां रुक्मप्रतिमोकादूर्ध्वं पुनः पाठाभावात्। न च दीक्षणीयानन्तर्ये बाधिते रुक्मप्रतिमोकपाठवैयर्थ्यम्, स्वरूपबोधनेन चरितार्थत्वात्। ततो रुक्मप्रतिमोकः पश्चात्कार्यः।। 20।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 12, सूत्राणि 23। आदितः- अधिकरणानि 338, सूत्राणि 874। पञ्चमाध्यायस्य तृतीयः पादः पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः।  प्रथमे प्रयाजादीनामेकादशादिसंख्यायाः सर्वसंपाद्यताधिकरणे सूत्रे 1-2   विवृद्धिः कर्मभेदात्पृषदाज्यवत्तस्य तस्योपदिश्येत।। 1।।  अपि वा सर्वसंख्यत्वाद्विकारः प्रतीयेत।। 2।। तृतीयपादे प्रथमाधिकरणमारचयति- एकादश प्रयाजाः किं प्रत्येकं स्यादुतान्यथा । संख्यावृद्धिरिहाद्योऽस्तु प्रतिमुख्यं गुणो यतः।। 1।। प्रत्येकं समुदाये वा स्वरूपेण न सिध्यति। संख्यावृद्धिः प्रयोगात्तु सावृत्त्या संभविष्यति।। 2।। अग्नीषोमीयपशौ श्रूयते ''एकादश प्रयाजान्यजति'' इति। तत्र चोदकप्राप्तेषु पञ्चसु प्रयाजेष्येकैकस्येयमेकादशत्वसंख्या युक्ता। कुतः- प्रयाजानुद्दिश्य संख्यागुणे विहिते सति प्रतिप्रधानं गुणस्याभ्युपेयत्वात्- इति प्राप्ते- ब्रूमः- नह्येकैकस्य प्रयाजस्य स्वरूपमात्रेणैकादशत्वसंख्या संपादयितुं शक्या। नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति। तस्मात्- प्रयोगद्वारा संपादनीया। प्रयोगस्य चावर्तयितुं शक्यत्वात्। पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते।। 1।। 2।।  द्वितीये प्रथमोपसत्त्रयस्य स्वस्थानावृत्त्यधिकरणे सूत्रम्   स्वस्थानात्तु विवृध्येरन्कृतानुपूर्व्यत्वात्।। 3।। द्वितीयाधिकरणमारचयति- आवृत्तिरुपसत्स्वेषा संघस्यैकैकगाऽथवा। त्रिरध्यायं पठेत्यादाविव स्यात्समुदायगा।। 3।। प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये। एकैकस्या द्विरभ्यासे षट्संख्याऽपि प्रसिध्यति।। 4।। अग्नौ श्रूयते ''षडुषसदः'' इति। तत्र चोदकप्राप्तानां तिसृणामुपसदां पूर्वन्यायेनावृत्त्या षट्संख्या संपादनीया। सा चावृत्तिर्दण्डकलितवत्समुदायस्य युक्ता। यथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नं दण्डं पुनः पुनः पातयति, न तु दण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति। यथा 'त्रिवारं रुद्राध्यायं जपति' इत्यत्र कृत्स्न एवाध्याय आवर्त्यते, न त्वध्यायैकदेश एकैकोऽनुवाकः पृथगेव त्रिः पठ्यते, तथा त्रिसृणामुपसदां समुदाय आवर्तनीयः- इति चेत्- मैवम्। प्राकृतक्रमबाधप्रसङ्गात्। प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या प्रथमोपसत्, तत ऊर्ध्वदिने द्वितीया, तत ऊर्ध्वदिने तृतीया। ता एताः सकृदनुष्ठाय पुनरुपरितनदिनेऽनुष्ठीयमानायाः प्रथमायाः प्रथमात्वमपैति, चतुर्थीत्वमायाति। तस्मात्- प्राकृतक्रमसिद्धये प्रथमां दिनद्वयेऽभ्यस्य ततो द्वितीयां द्विरभ्यस्येत्- इत्येवं स्वस्थानविवृद्ध्या तासामावृत्तिः कार्या। न चाध्ययदृष्ठान्तो युक्तः, अनुवाकसमुदायस्यैबाध्यायत्वात्, अध्यायस्यैव चावृत्तिविधानात्। न त्विह समुदायस्योपसत्त्वमस्ति। तस्मात्- प्रत्येकमुपसदावर्तनीया। अनेन न्यायेन प्रयाजानामेकादशत्वसिद्धये स्वस्थानविवृद्धावुत्तमः प्रयाजस्त्रिरम्यसनीयः।। 3।। 4।।  तृतीये सामिधेनीष्वागन्तूनामन्ते निवेशाधिकरणे सूत्राणि 4-6   समिध्यमानवतीं समिद्धवात चान्तरेण ध्वाय्याः स्युर्द्यावापृथिव्योरन्तराले समर्हणात्।। 4।।  तच्छब्दो वा।। 5।।  उष्णिक्ककुभोरन्ते दर्शनात्।। 6।। तृतीयाधिकरणमारचयति- सामिधेन्येकविंशत्यामागन्तोर्मध्यतः स्थितिः। अन्ते वा मध्यतो धाय्याशब्दितानां तथेक्षणात्।। 5।। इध्यमानेद्धवत्योस्ता मध्ये धाय्या विधानतः। आगन्तूनामधाय्यानां निवेशोऽन्ते हि युज्यते।। 6।। दर्शपूर्णमासयोः सामिधेनीषु श्रूयते ''एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य'' इति। तत्र पठिताः सामिधेन्य ऋच एकादशैव। ''त्रिः प्रथमामन्वाह, त्रिरुत्तमाम्'' इति विधानादावृत्त्या पञ्चदश संपद्यन्ते। अवशिष्टानां षण्णामृचां दशतयीपठितानामागमेन संख्यापूरणं वक्ष्यते। तस्य चागन्तोर्मन्त्रस्य सामिधेनीनां श्रूयमाणानां मध्ये निवेशो युक्तः। कुतः- धाय्याशब्दोदितानामागन्तूनां मन्त्राणां मध्ये निवेशदर्शनात्- इति चेत्- मैवम्। धाय्यानां मध्यदेशस्य विहितत्वात्। ''इयं वै समिध्यमानवती, असौ समिद्धवती, पदन्तरा तद्धाय्या'' इति श्रूयते। पठितास्वेकादशसु सामिधेनीषु ''समिध्यमानो अध्वरे'' इत्यसावृगष्टमी। ''समिद्धो अग्न आहुत'' इत्यसौ नवमी। तयोर्मध्यं धाय्यानां स्थानम्। धाय्यात्वं च न सर्वेषामागन्तुमन्त्राणाम्। किंतु केषांचिदेव। ''पृथुपाजवत्यौ धाय्ये'' इत्यादिविशेषविधानात्। ''पृथुपाजा अमर्त्यः इत्यादिकमृग्द्वयमित्यर्थः। न च धाय्यानामिवेतरेषामागन्तूनां मन्त्राणां पठितसामिधेनीक्रमविच्छेदेन मध्ये निवेशाय किंचित्प्रमाणमस्ति। तस्मात्- आगन्तूनामन्ते निवेशः।। 5।। 6।।  चतुर्थे बहिष्पवमान आगन्तूनां पर्यासोत्तरकालताधिकरणे सूत्राणि 7-12   स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात्पर्यासादागन्तवः स्युस्तथा हि दृष्टं द्वादशाहे।। 7।।  पर्यास इति चान्ताख्या।। 8।।  अन्ते वा तदुक्तम्।। 9।।  वचनात्तु द्वादशाहे।। 10।।  अतद्विकारश्च।। 11।।  तद्विकारेऽप्यपूर्वत्वात्।। 12।। चतुर्थाधिकरणमारचयति- स्तोमवृद्धौ किमागन्तोर्मध्येऽन्ते वाऽस्तु मध्यतः। द्वादशाहवदन्यत्र मध्यानुक्तेर्न मध्यतः।। 7।। इदमाम्नायते- ''एकविंशेनातिरात्रेण प्रजाकामं याजयेत्। त्रिणवेनौजस्कामम्। त्रयस्त्रिंशेन प्रतिष्ठाकामम्'' इति। तत प्रकृतौ बहिष्पवमानस्तोत्रे त्रयस्तृचा भवन्ति ''उपास्मै गायता नरः'' इत्यादिरेकः, ''दविद्युतत्या रुचा'' इत्यादिर्द्वितीयः, ''पवमानस्य'' इत्यादिस्तृतीयः। तेषु त्रिषु तृचेषूर्ध्वगानेन त्रिवृत्स्तोमो भवति। न त्वत्र पञ्चदशसप्तदशस्तोमानामिवावृत्तगानमस्ति। स च बहिष्पवमानो विकृतावतिरात्रे चोदकेन प्राप्तः। तत्र त्रिवृत्स्तोमं बाधितुमेकविंशादिस्तोमा विहिताः। बहिष्पवमान आवृत्तगाने मानाभावात्। त्रिषु तृचेष्ववस्थिताभिर्नवभिर्ऋग्भिरेकविंशस्तोमपूरणाभावात्। तत्पूरणाय चत्वारस्तृचा आगमयितव्याः। त्रिणवस्तोमपूरणाय षट्तृचाः। त्रयस्त्रिंशस्तोमपूरणायाष्टौ तृचाः। ऋगागमनं चोपरिष्टाद्वक्ष्यते। तेषां चागन्तूनां मन्त्राणां प्राकृतबहिष्पवमानमध्ये निवेशः कार्यः। कुतः- द्वादशाहे तद्दर्शनात्- इति प्राप्ते- ब्रूमः- द्वादशाहे हि वचनमेवमाम्नायते- ''स्तोत्रियानुरूपौ तृचौ भवतः, वृषण्वन्तस्तृचा भवन्ति, तृच उत्तमः पर्यासः'' इति। अयमर्थः 'प्राकृतानां बहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रीयः, अनुरूपः, पर्यासश्चेति त्रीणि नामानि। अत्र चोदकागतयोरनुरूपपर्यासयोस्तृचयोर्मध्ये वृषण्वच्छब्दयुक्तास्तृचाः कर्तव्याः' इति। न चैवमतिरात्रे मध्यनिवेशनाय वचनमस्ति। तस्मात्- क्लृप्तक्रममबाधितुमागन्तूनामन्ते निवेशः।। 7।।  पञ्चमे बहिष्पवमान एवागन्तूनां साम्नां मध्ये निवेशाधिकरणे सूत्रे 13-14   अन्ते तूत्तरयोर्दध्यात्।। 13।।  अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात्।। 14।। पञ्चमाधिकरणमारचयति- आर्भवे साम्न आगन्तोरन्ते मध्येऽथवाऽग्रिमः। पूर्ववत्त्रीणि यज्ञस्येत्युक्त्या मध्ये निवेशनम्।। 8।। पूर्वोदाहृतेऽतिरात्रे माध्यंदिनार्भवबहिष्पवमानयोश्चोदकप्राप्तौ पञ्चदश-सप्तदशस्तोमौ बाधितुमेकविंशादि विवृद्धस्तोमो वचनादनुष्ठीयते। तत्र बहिष्पवमानवदृगागमनं न भवति, किंतु- सामागमनेन स्तोमपूरणम्- इति दशमे वक्ष्यते। तस्य चागन्तोः साम्नः पूर्वोक्तानामृचामिवान्ते निवेशात्पठितानां तृचानां मध्ये तत्साम चरमे तृचे गातव्यम्- इति प्राप्ते- ब्रूमः- ''त्रीणि ह वै यज्ञस्योदराणि गायत्री, बृहती, अनुष्टुप् च। अत्र ह्येवावपन्ति, अत एवोद्वपन्ति'' इति हि विशेष आम्नायते। अयमर्थः 'स्तोमस्य विवृद्धये साम्न आवापः क्रियते। ह्रासाय चोद्वापः। तावुभावावापोद्वापौ गायत्र्यादिष्वेव, नान्यत्र' इति। ''उच्चा ते जातमन्धसः'' इत्येव माध्यंदिनपवमानस्याद्यस्तृचः। ''स्वादिष्ठया'' इत्येष आर्भवपवमानस्य। तावुभौ गायत्रीच्छन्दस्कौ, तयोरावापः। न तु त्रिष्टुव्जगतीच्छन्दस्कयोरन्ययोस्तृचयोः सामावपनीयम्।। 8।।  षष्ठे ग्रहेष्टकादीनां क्रत्वग्निशेषताधिकरणे सूत्रे 15-16   ग्रहेष्टकमौपानुवाक्यं सवनचितिशेषः स्यात्।। 15।।  क्रत्वग्निशेषो वा चोदितत्वादचोदनानुपूर्वस्य।। 16।। षष्ठाधिकरणमारचयति- अदाभ्यग्रहचित्रिण्यावङ्गे किं सवने चितौ। यागेऽग्नौ वाऽत्र दृष्टत्वादाद्य आवर्त्यतां ततः।। 9।। यागाग्न्योः फलवत्त्वेनानारभ्योक्ते तदङ्गके। सवने सवने तस्मान्नैवावृत्तिश्चितौ चितौ।। 10।। अनारभ्य श्रूयते ''योऽदाभ्यं गृहीत्वा सोमाय यजते'' इति, ''चित्रिणीरुपदधाति'' इति च। तत्र ग्रहाणां सवननिष्पादकत्वं प्रत्यक्षेण दृष्टम्। अदाभ्यग्रहस्यापि सवननिष्पादकतया सवनाङ्गत्वे सति प्रतिसवनमदाभ्य आवर्तनीयः। तथेष्टकाभिश्चितिनिष्पत्तिदर्शनाच्चित्रिणीनामिष्टकानां चित्यङ्गत्वे सति प्रतिचयनं चित्रिणीनामावृत्तिः- इति प्राप्ते- ब्रूमः- सोमयागः फलवान्, न तु सवनम्। तथैवाग्निः फलोपेतः, न तु चितिः। तत्रानारभ्याधीतस्य वाक्यात्संबन्धः फलवत्येव युक्त इति सवनचयने प्रत्यनङ्गत्वान्नास्ति तयोरावृत्तिः।। 9।। 10।।  सप्तमे चित्रिण्यादीनां मध्यमचितावुपधानाधिकरणे सूत्राणि 17-19   अन्ते स्युरव्यवायात्।। 17।।  लिङ्गदर्शनाच्च।। 18।।  मध्यमायां तु वचनाद्ब्राह्मणवत्यः।। 19।। सप्तमाधिकरणमारचयति- चित्रिण्यादेरुत्तमायामुपधानं पुराऽथवा। अव्यवायादुत्तमायां मध्यमायां तु वाक्यतः।। 11।। उत्तमायां पञ्चम्यां चितौ चित्रिण्यादेरनारभ्याधीताया इष्टकाया उपधानं युक्तम्। तथा सति प्रकरणाधीतानां क्लृप्तक्रमाणामिष्टकानां परस्परव्यवधानं न प्रसज्यते- इति चेत्- मैवम्। ''यां कां च ब्राह्मणवतीमिष्टकामभिजानीयात्, तां मध्यमायां चितौ'' इति वाक्येनानारभ्याधीतेन ब्राह्मणेन विहितानामिष्टाकानां मध्यमचितौ निवेशः।  अष्टमे लोकंपृणातः पूर्वं चित्रिण्याद्युपधानाधिकरणे सूत्रम्   प्राग्लोकंपृणायाः, तस्याः संपूरणार्थत्वात्।। 20।। अष्टमाधिकरणमारचयति- लोकंपृणात ऊर्ध्वं स्याच्चित्रिण्युत ततः पुरा। बादरायणदृष्ट्योर्ध्वं पूरणोक्तेस्ततः पुरा।। 12।। ''चित्रिणीरुपदधाति'' ''वज्रिणीरुपदधाति'' ''भूतेष्टका उपदधाति'' इति विहितं चित्रिण्यादिकं मध्यमायां चितौ लोकंपृणाभिधाया इष्टकाया ऊर्ध्वमुपधेयम्। कुतः- बादरायणेन तथा दृष्टत्वात्। 'अन्ते तु बादरायणः'- (5।2।19) इति सूत्रेण बादरायणस्य मतमुपन्यस्तम्। स ह्यागन्तूनामन्ते निवेशमाह। लोकंपृणा च प्रकरणपठितानामन्तिमेष्टका। ततस्तस्या ऊर्ध्वं चित्रिण्यादिकम्- इति प्राप्ते- ब्रूमः- ''लोकं पृण, छिद्रं पृण'' इत्यनेन मन्त्रेणोपधीयमानेष्टका लोकंपृणा। तस्याः कर्मण्यूनत्वादिदोषपरिहारेण संपूर्तिहेतुत्वं मन्त्रलिङ्गादवगम्यते। ब्राह्मणेऽप्येवमाम्नातम्- ''यदेवास्योनं यच्छिद्रम्, तदेतया परिपूरयति लोकंपृण, छिद्रं पृण'' इति। यद्येतस्या इष्टकाया ऊर्ध्वं चित्रिण्यादय उपधीयेरन्, तदानीं चित्रिण्यादिगते ऊनत्वच्छिद्रत्वे न पूर्येयाताम्। तस्मात्- लोकंपृणातः पूर्वं चित्रिण्याद्युपधानम्।। 12।।  नवमे- इष्टिसंस्कृतेऽग्नावग्निहोत्राद्यनुष्ठानाधिकरणे सूत्राणि 21-25   संस्कृते कर्म संस्काराणां तदर्थत्वात्।। 21।।  अनन्तरं व्रतं तद्भूतत्वात्।। 22।।  पूर्वं च लिङ्गदर्शनात्।। 23।।  अर्थबादो वाऽर्थस्य विद्यमानत्वात्।। 24।।  न्यायविप्रतिषेधाच्च।। 25।। नवमाधिकरणमारचयति- आहिते पवमानेष्टिस्संस्कृते वाऽग्निहोत्रकम्। आधानेनाग्निनिष्पत्तेस्तन्मात्रे कर्म संभवेत्।। 13।। आधानस्यानपेक्षस्य नाग्न्युत्पादकता मता। समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते।। 14।। अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते ''द्वादशसु रात्रिष्वनुनिर्वपेत्'' इतीष्टिकालविधानात्ताभ्यः पुरा द्वादशसु दिनेष्वग्निहोत्रमनुष्ठेयम्। आधानमात्रेणाहवनीयाद्यग्नेर्निष्पन्नत्वात्- इति प्राप्ते- ब्रूमः- आधानेन पवमानेष्टिनिरपेक्षेण नाहवनीयाद्यग्निरुत्पद्यते। अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात्। न च विकल्पः, आधानमुपजीव्य तस्मादुत्तरकाले विधानात्। तत इष्टिभिः समुच्चित्यैवाधानमग्न्युत्पादकम्- इतीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम्।। 13।। 14।।  दशमे- अग्निचिद्वर्षणादिव्रतानां क्रत्वन्तेऽनुष्ठानाधिकरणे सूत्राणि 26-28   संचिते त्वग्निचिद्युक्तं प्रापणान्निमित्तस्य।। 26।।  क्रत्वन्ते वा प्रयोगवचनाभावात्।। 27।।  अग्नेः कर्मत्वनिर्देशात्।। 28।। दशमाधिकरणमारचयति- न धावेद्वर्षतीत्यादि चितौ सत्यां क्रतावुत। आद्यश्चितेर्निमित्तत्वान्न क्रतावग्निचित्त्वतः।। 15।। इदमाम्नायते- ''अग्निचिद्वर्षति न धावेत्, न स्त्रियमुपेयात्'' इति। तान्येतान्यग्निचिद्व्रतानि चितौ निष्पन्नायां सत्यां तदाप्रभृति प्रवर्तन्ते, न तु चितेऽग्नौ क्रत्वनुष्ठानं प्रतीक्षन्ते। कुतः- अग्निचित्पदे चयनस्य निमित्तत्वेनोपन्यासात्। न हि सति निमित्ते नैमित्तिकस्य विलम्बो युक्तः- इति प्राप्ते- ब्रूमः- क्रतावुपयोक्तुमग्निश्चयनेन संस्क्रियते। न चानिष्पन्ने क्रतौ चयनसंस्कारः सफलो भवति। तस्मात् क्रतौ निष्पन्ने सति पश्चाच्चयनसाफल्यात्- 'अयं पुरुषः- अग्निं चितवान्' इत्यमुमर्थमर्हति- इति क्रत्वन्ते तानि व्रतानि।। 15।।  एकादशे- दीक्षाया इष्टिसिद्धताधिकरणे सूत्राणि 29-31   परेणावेदनाद्दीक्षितः स्यात्, सर्वैर्दीक्षाभिसंबन्धात्।। 29।।  इष्ट्यन्ते वा तदर्था ह्यविशेषार्थसंबन्धात्।। 30।।  समाख्यानं च तद्वत्।। 31।। एकादशाधिकरणमारचयति- इष्टिदण्डादिभिर्दीक्षा किं वेष्ट्यैवोक्तितोऽग्रिमः। युक्तः संस्कार इष्ट्यैव दण्डादेर्व्यञ्जकत्वतः।। 16।। ज्योतिष्टोमे श्रूयते- ''आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः'' इति। अन्यदपि श्रुतम्- ''दण्डेन दीक्षयति, मेखलया दीक्षयति, कृष्णाजिनेन दीक्षयति'' इति। तत्र- इष्टिवद्दण्डादीनामपि साधनत्वाभिधानात्सर्वैरयं दीक्षितः- इति चेत्- मैवम्। इष्टेः क्रियारूपत्वात्संस्कारहेतुत्वं युक्तम्। दण्डादयस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति। न चैतावता दण्डादिवैयर्थ्यम्, 'दीक्षितोऽयम्' इत्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भावात्। तस्मात्- इष्ट्यैव दीक्षा सिध्यति।। 16।।  द्वादशे काम्येष्टीनामनियमेनानुष्ठानाधिकरणे सूत्राणि 32-36   अङ्गवत्क्रतूनामानुपूर्व्यम्।। 32।।  न वाऽसंबन्धात्।। 33।।  काम्यत्वाच्च।। 34।।  आनर्थक्यान्नेति चेत्।। 35।।  स्याद्विद्यार्थत्वाद्यथा परेषु सर्वस्वारात्।। 36।। द्वादशाधिकरणमारचयति- काम्यनैमित्तिकाः कार्या यथापाठं न वाऽग्रिमः । पाठस्य क्रमहेतुत्वान्न प्रयोगपृथक्त्वतः।। 17।। काम्वयागाः श्रूयन्ते- ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादयः। तथा नैमित्तिकयागाश्च तस्मिन्काण्ड आम्नाताः- ''अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्। यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्'' इत्यादयः। तत्र 'पाठः क्रमहेतुः' इति प्रयाजोदाहरणेन दर्शितत्वाद्यथापाठमेते यागाः क्रमेण कर्तव्याः- इति चेत्- मैवम्। एकप्रयोगाभावेन परस्परक्रमाकाङ्क्षाया अभावात्। तस्मात्- कामो वा निमित्तं वा यदोत्पद्यते, तदा तत्रोदितो यागः कर्तव्यः।। 17।।  त्रयोदशे यज्ञानामग्निष्टोमपूर्वताधिकरणे सूत्रे 37-38   य एतेनेत्यग्निष्टोमः प्रकरणात्।। 37।।  लिङ्गाच्च।। 38।। त्रयोदशाधिकरणमारचयति- एतेनानिष्ट्वेति सर्वसंस्थोऽग्निष्टोम एव वा । अविशेषात्सर्वसंस्थो ज्योतिष्टोमोऽत्र वर्ण्यताम्।। 18।। अग्निष्टोमप्रक्रियाऽत्र तस्य प्रथमयज्ञतः । तेनेष्ट्वाऽन्येन यष्टव्यं संस्था आगन्तवोऽपराः।। 19।। ज्योतिष्टोमे श्रूयते ''एष वाव प्रथमो यज्ञो यज्ञानाम्, यज्ज्योतिष्टोमः, य एतेनानिष्ट्वाऽथान्येन यजेत गर्तपत्यमेव हि तज्जीर्येत प्र वा मीयते'' इति। यथा गर्ते पतितमुच्छिष्टपत्रावल्यादिकं पुनर्न क्वाप्युपयुज्यते, केवलं जीर्यते, तथा प्रथमतोऽनुष्ठितं यज्ञान्तरं न फलोपयुक्तम्। यजमानश्चानेनापराधेनापमृत्युभाग्भवति- इत्यर्थः। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्च, इति ज्योतिष्टोमस्य सप्त संस्थाभेदाः। तत्र संस्थाविशेषमनुपन्यस्य ज्योतिष्टोम इत्येव प्रकृतत्वात् 'एतेनानिष्ट्वा-' इत्येतच्छब्दात्सर्वसंस्थोपेतो ज्योतिष्टोमोऽत्र परामृश्यते। ततः सप्त संस्था अनुष्ठाय पश्चाद्यज्ञान्तरमनुष्ठेयम्- इति प्राप्ते- ब्रूमः- ज्योतिष्टोमस्य ह्यग्निष्टोमसंस्थैव नैजं रूपम्। अग्निष्टोमस्य नित्यत्वात्। अत एव- प्रकरणमेतदग्निष्टोमस्य- इत्येतच्छब्देन स एव परामृश्यते। अत्यग्निष्टोमादिसंस्थानां काम्यत्वेनानित्यत्वान्नित्यज्योतिष्टोमस्वरूपत्वमयुक्तमिति षट्संस्था आगन्तुकाकारविशेषाः। तस्मात्- अग्निष्टोमस्यैव प्रथमयज्ञत्वात्तेनेष्ट्वा यज्ञान्तरमनुष्ठातुं शक्यते।। 18।। 19।।  चतुर्दशे ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकताधिकरणे सूत्राणि 39-42   अथान्येनेति संस्थानां संनिधानात्।। 39।।  तत्प्रकृतेर्वापत्तिविहारौ हि न तुल्येषूपपद्येते।। 40।।  प्रशंसा वा विहरणाभावात्।। 41।।  विधिप्रत्ययाद्वा नह्यकस्मात्प्रशंसा स्यात्।। 42।। चतुर्दशाधिकरणमारचयति- अन्येनेत्यत्र संस्थानामुक्तिः सर्वस्य वाऽग्रिमः। संनिधेस्तद्विकारस्य सर्वस्योक्तिर्हि वाक्यतः।। 20।। पूर्वोदाहृत एव वाक्ये योऽयम् 'अन्येन' इत्यन्यशब्दः, सोऽग्निष्टामेन सजातीयानत्यग्निष्टोमादिसंस्थाभेदानेव परामृशति। तेषामेव बुद्धौ संनिहितत्वात्- इति चेत्- मैवम्। ''यज्ञानां प्रथमो यज्ञः'' इत्यनेन वाक्येन सर्वयज्ञप्रतियोगिकस्य प्राथम्यस्योपन्यासाद्बुद्धौ संनिहिता अशेषयज्ञा अन्यशब्देनोच्यन्ते। तस्मात्- अत्यग्निष्टोमादयः संस्थाभेदाः, एकाहाहीनसत्ररूपाश्च सोमविकृतिरूपाः सर्वे यागा अग्निष्टोमात्प्राग्नानुष्ठेयाः। सोमविकृतीनामेवायं नियमो नत्विष्टिपशूनाम्- इत्यस्मिन्नर्थे लिङ्गमिदमाम्नायते- ''प्रजापतिर्वा अग्निष्टोमः। स उत्तरानेकाहानसृजत। ते सृष्टा अब्रुवन्- न वयं स्वेनात्मना प्रभवामः- इति। तेभ्यः स्वां तनुं प्रायच्छत्। तया प्राभवन्'' इति। तस्मात्- सोमविकृतिष्वयं नियमः।। 20।।  पञ्चदशे सर्वेषामेकानेकस्तोमकानामग्निष्टोमपूर्वकताधिकरणे सूत्रे 43-44   एकस्तोमे वा क्रतुसंयोगात्।। 43।।  सर्वेषां वा चोदनाविशेषात्प्रशंसा स्तोमानाम्।। 44।। पञ्चदशाधिकरणमारचयति- एकस्तोमेऽन्यशब्दः स्याद्बहुस्तोमेऽपि वाऽग्रिमः। त्रिवृदन्येत्यर्थवादान्नान्यमात्रस्य संभवात्।। 21।। अत्र पूर्वोदाहृतः 'अन्येन' इत्ययमन्यशब्द एकस्तोमके क्रतौ वर्तते। कुतः- अर्थवादेन तदवगमात्। ''यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते, स तं दीपयति। यः पञ्चदशः स तम्। यः सप्तदशः स तम्। य एकविंशः स तम्'' इत्यर्थवादः। अस्यायमर्थः- 'त्रिवृदादयश्चत्वारः स्तोमा अग्निष्टोमे विद्यन्ते। तेषु त्रिवृत्स्तोमो विकृतिरूपं यज्ञं प्राप्नोति, स त्रिवृत्स्तोमस्तं यज्ञं दीपयति प्रकाशयति सर्वान्व्याप्नोति' इति। स्तोमान्तरस्याप्रवेशाय त्रिवृत एव सर्वस्मिन्यज्ञस्वरूपे व्याप्तावयमेकस्तोमकः क्रतुर्भवति। एवं पञ्चदशादिस्तोमव्याप्तिर्योजनीया। तथा सत्यर्थवादादेकस्तोमकानामेव बुद्धिस्थत्वात्त एवान्यशब्देनोच्यन्ते। एकस्तोमकाश्च षड्रात्रादिष्वहीनेष्वाम्नाताः- ''त्रिवृदग्निष्टोमो भवति। पञ्चदश उक्थ्यो भवति'' इत्यादयः। तस्मात्- तद्विषयोऽन्यशब्दः- इति प्राप्ते- ब्रूमः- 'स तं दीपयति' इत्यत्र प्रकाशकत्वमात्रमुच्यते। तच्च व्याप्तिमन्तरेण संबन्धमात्रादप्युपपद्यते। तस्मात्- अग्निष्टोमप्रतियोगितया बहुस्तोमैकस्तोमसाधारण्येन श्रूयमाणस्यान्यशब्दस्य संकोचे हेत्वभावात्सर्वविषयोऽयमन्यशब्दः।। 21।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 15, सूत्राणि 44। आदितः- अधिकरणानि 353, सूत्राणि 918। पञ्चमाध्यायस्य चतुर्थः पादः क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः।  प्रथमे पाठक्रमापेक्षया श्रुत्यर्थयोर्बलवत्त्वाधिकरणे सूत्रम्   क्रमको योऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च।। 1।। चतुर्थपादे प्रथमाधिकरणमारचयति- आश्विनो दशमः पाको यवाग्वा ऐच्छिकः क्रमः । नियतो बाऽग्रिमः पाठश्रुत्यर्थानां समत्वतः।। 1।। पाठात्क्रमः कल्पनीयः प्रत्यक्षस्तु श्रुतेः क्रमः। क्लृप्तिर्न शक्तिमुल्लङ्ध्य श्रुत्यर्थौ प्रबलौ ततः।। 2।। ज्योतिष्टोम ऐन्द्रवायवादिग्रहेष्वाश्विनग्रहस्तृतीयस्थाने पठितः। तस्य च दशमस्थानत्वं वाचकेनैव शब्देनाम्नायते- ''आश्विनो दशमो गृह्यते'' इति। तत्र क्रमबोधकौ श्रुतिपाठौ समबलौ। तथा- अग्निहोत्रहोमादनन्तरं यवागूपाकः पठितः। स चार्थवशात्पूर्वं प्राप्तः। तवार्थपाठौ समबलौ। तस्मात्- उभयत्रैच्छिकः क्रमः- इति प्राप्ते- ब्रूमः- पाठो हि न क्रमस्याभिधायकः। किंत्वन्यथानुपपत्त्या क्रर्म कल्पयति। 'दशमः' इत्येषा श्रुतिस्तु साक्षादेव क्रममभिधत्ते। ततः- पाठादपि श्रुतिः प्रबला। तथा पाठः क्रमं कल्पयन्वस्तुसामर्थ्यमनुसृत्यैव कल्पयति। असमर्थं च यवाग्वाः पूर्वमग्निहोत्रमनुष्ठातुम्। द्रव्यमन्तरेण होमासंभवत्। तस्मात्पाठेन श्रुतिसामर्थ्यलक्षणोऽर्थ उपजीव्यत इत्यस्यार्थस्य पाठात्प्राबल्यम्। तथा सति श्रुत्यर्थौ पाठं बाधित्वा क्रमं नियच्छतः।। 1।। 2।।  द्वितीये मुख्यक्रमेणाग्नेयस्य पूर्वमवदानाद्यनुष्ठानाधिकरणे सूत्राणि 2-4   अवदानाभिघारणासादनेष्वानुपूर्व्यं प्रवृत्त्या स्यात्।। 2।।  यथाप्रदानं वा तदर्थत्वात्।। 3।।  लिङ्गदर्शनाच्च।। 4।। द्वितीयाधिकरणमारचयति- अवदानादि सांनाय्ये पूर्वमाग्नेयकेऽथवा । धर्मप्रवृत्तिक्रमतः सांनाय्ये पूर्वतोचिता।। 3।। प्रदानं पूर्वमाग्नेयेऽवदानं च तथोचितम्। अङ्गानां मुख्यतन्त्रत्वान्मुख्यक्रमबलित्वतः।। 4।। दर्शपूर्णमासयोः सांनाय्यधर्मा वत्सापाकरणदोहनादयः प्रथममाम्नाताः, पुरोडाशधर्मा निर्वापावघातादयः पश्चादाम्नाताः। तेनैव पाठक्रमेण धर्मानुष्ठानं प्रवृत्तम्। ततः प्रवृत्तिकक्रमेणावदानमपि सांनाय्ये पूर्वमेव कर्तव्यम्- इति प्राप्ते- ब्रूमः- 'याज्यानुवाक्यादिमन्त्रबलादाग्नेये पूर्वं प्रदानम्' इत्युक्तम्। तच्च प्रदानं फलप्रत्यासत्त्या मुख्यम्। अवदानं तु तदङ्गम्। तथा सति मुख्यस्य क्रममनुसृत्यावदानमप्याग्नेये पूर्वं कर्तव्यम्। मुख्यक्रमो हि प्रवृत्तिकक्रमात्प्रबलः। प्रावृत्तिके हि क्रमे सानाय्ये पूर्वमवदानमभिघारणमासादनं च कृत्वा प्रदानमकृत्वाग्नेयेऽवदानादीनि कर्तव्यानि। तथा सति सांनाय्येऽनुष्ठितान्यवदानादीन्यङ्गानि मुख्यात्प्रदानाद्विप्रकृष्यन्ते। मुख्यक्रमाश्रयणे त्वाग्नेये प्रथममवदानादिप्रदानान्तं कृत्वा पश्चात्सांनाय्ये तदनुष्ठीयते। तत्र नास्त्यङ्गाङ्गिविप्रकर्षः। ननु- अवदानादिः प्रदानान्त एकः पदार्थः- इत्युक्तम्, तत्र कुतः क्रमविचारः- एवं तर्हि कृत्वाचिन्ताऽस्तु। अथवा स्विष्टकृदवदानादिविषयेयं चिन्ताऽस्तु।। 3।। 4।।  तृतीये- इष्टिसोमयोः पौर्वापर्यनियमाधिकरणे सूत्राणि- 5-9   वचनादिष्टिपूर्वत्वम्।। 5।।  सोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्, तदन्तेनानर्थकं हि स्यात्।। 6।।  तदर्थवचनाच्च नाविशेषात्तदर्थत्वम्।। 7।।  अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशादानन्तर्याद्विशङ्का स्यात्।। 8।।  इष्टिरयक्ष्यमाणस्य तादर्थ्ये सोमपूर्वत्वम्।। 9।। तृतीयाधिकरणमारचयति- दर्शादीष्ट्वा सोमयागः क्रमोऽयं नियतो न वा। उक्तेराद्यो न सोमस्याधानानन्तरता श्रुतेः।। 5।। ''दर्शपूर्णमासाविष्ट्वा सोमेन यजेत'' इति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियतः- इति चेत्- मैवम्। ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' इत्याधानानन्तरताया अपि श्रवणात्। तस्मात्- इष्टिसोमयोः पौर्वापर्यं न नियतम्।। 5।।  चतुर्थे ब्राह्मणस्यापीष्टिसोमयोः पौर्वापर्यानियमाधिकरणे सूत्राणि 10-14   उत्कर्षाद्ब्राह्मणस्य सोमः स्यात्।। 10।।  पौर्णमासी वा श्रुतिसंयोगात्।। 11।।  सर्वस्य वैककर्म्यात्।। 12।।  स्याद्वा विधिस्तदर्थेन।। 13।।  प्रकरणात्तु कालः स्यात्।। 14।। चतुर्थाधिकरणमारचयति- विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः । उत्कर्षतो मैवमग्नीषोमीयस्यैव तच्छ्रुतेः।। 6।। 'इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितम्' इति यदुक्तम्। तत्र ब्राह्मणस्य सोमपूर्वत्वमेव नियतम्। कुतः- उत्कर्षश्रवणात्। ''आग्नेयो वै ब्राह्मणो देवतया। स सोमनेष्ट्वाऽग्नीषोमीयो भवति। यदेवादः पौर्णमासं हविः, तत्तर्ह्यनुनिर्वपेत्। तर्ह्युभयदेवतो भवति'' इति। अस्यायमर्थः- 'प्रजापतेर्मुखादग्निर्ब्राह्मणश्चेत्युभावुत्पन्नौ। ततो ब्राह्मणस्याग्निरेक एव देवतेत्याग्नेय एव ब्राह्मणः। न तु सौम्यः, सोमस्य तद्देवतात्वाभावात्। यदा स ब्राह्मणः सोमेन यजते, तदा सोमोऽप्यस्य देवतेत्यग्नीषोमीयो भवति। तस्याग्नीषोमीयस्य ब्राह्मणस्यानुरूपं पौर्णमासमग्नीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत्, तदा स ब्राह्मणो देवताद्वयसंबन्धी भवति' इति। यद्यपि- अत्र कर्मान्तरं किंचिद्विधीयते- इति कश्चिन्मन्यते, तथाऽपि 'पौर्णमासं हविः' इति विस्पष्टप्रत्यभिज्ञानान्न कर्मान्तरम्, किंतु दर्शपूर्णमासयोः सोमादूर्ध्वमुत्कर्षः। तस्मात्- विप्रस्य सोमपूर्वत्वमेव नियतम्- इति प्राप्ते- ब्रूमः- नात्र दर्शशब्दः पूर्णमासशब्दो वा कश्चिद्यागवाची श्रूयते। 'पौर्णमासम्' इत्येष तद्धितान्तो हविर्विशेषणत्वेनोपन्यस्यते। तच्च हविरग्नीषोमीयपुरोडाशरूपमिति देवताद्वयेन संस्तवादवगम्यते। तस्मादेकस्यैव हविष उत्कर्षः, न तु कृत्स्नयोर्दर्शपूर्णमासयोः। तथा सति ब्राह्मणस्यैकस्मिन्नग्नीषोमीयपुरोडाशे सोमपूर्वत्वनियमः। इतरत्र क्षत्रियवैश्ययोरिवास्यापीष्टिपूर्वत्वसोमपूर्वत्वे विकल्प्येते।। 6।।  पञ्चमे 'नर्तुं प्रतीक्षेत्' इत्यादिना सोमकालबाधाधिकरणे सूत्राणि 15-18   स्वकाले स्यादविप्रतिषेधात्।। 15।।  अपनयो वाधानस्य सर्वकालत्वात्।। 16।।  पौर्णमास्यूर्ध्वं सोमात्, ब्राह्मणस्य वचनात्।। 17।।  एकं शब्दसामर्थ्यात्प्राक्कृत्स्नविधानात्।। 18।। पञ्चमाधिकरणमारचयति- नर्तूनित्याहितेः कालो बाध्यः सोमस्य वाऽग्रिमः। अङ्गसाम्यात्पुरैवास्य बाधात्सोमीयबाधनम्।। 7।। इदमाम्नायते- ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' ''नर्तून्सूर्क्षेत्'' ''न च नक्षत्रम्'' इति। सूर्क्षतिधातुर्दशनार्थे वर्तते। ऋतून्नक्षत्रं वा न परीक्षेत इत्यर्थः। अनेन निषेधेनाधानस्य विहितः कालो बाध्यते, न तु सोमस्य विहितः कालः। ''वसन्ते ब्राह्मणोऽग्नीनादधीत'' ''कृत्तिकास्वग्निमादधीत'' इत्यादिना वसन्ताद्यृतवः कृत्तिकादिनक्षत्राणि चाधानकालत्वेन विधीयन्ते। सोमस्यापि ''वसन्ते वसन्ते ज्योतिषा यजेत'' इत्यृतुर्विहितः। पुण्यनक्षत्रमपि शास्त्रान्तरेण प्राप्तम्। तत्र यद्यपि- आधानं न सोमस्याङ्गम्, तथाऽपि- अङ्गभूताग्निसंस्कारत्वादङ्गतुल्यमेवेति तदीय एव कालो बाधनीयः- इति चेत्- मैवम्। पूर्वमेव तत्कालस्य बाधितत्वात्। ''यदैवैनं यज्ञ उपनमेदथादधीत'' इति सोमयागाचिकीर्षया कालमाधानस्योपदिशता शास्त्रेण वसन्तकृत्तिकादिकालो बाधितः। तस्मात्- ऋतुनक्षत्रप्रतीक्षानिषेधेन सोमकाल एव बाध्यते।। 7।।  षष्ठे- आज्यस्य सोमादनुत्कर्षाधिकरणे सूत्राणि 19-21   पुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात्।। 19।।  आज्यमपीति चेत्। 20।।  न मिश्रदेवतत्वादैन्द्राग्नवत्।। 21।। षष्ठाधिकरणमारचयति- आज्यं चोत्कृष्यते नो वा तस्याग्नीषोमयोर्गतः। आद्यः प्रजापतिं विष्णुं वा यष्टुं शक्तितोऽन्तिमः।। 8।। अग्नीषोमीयस्य पुरोडाशस्य सोमादूर्ध्वमुत्कर्षः- इत्युक्तम्। तद्वदुपांशुयाजार्थं यदाज्यं तस्योत्कर्षः कार्यः। अग्नीषोमसंबन्धस्य समानत्वात्- इति चेत्- मैवम्। विष्णुप्रजापत्योरपि विकल्पितदेवत्वेन यष्टुं शक्यत्वात्। तस्मात्- नाज्यस्योत्कर्षः।। 8।।  सप्तमे विकृतानामैन्द्राग्नादीनां सद्यस्कालताधिकरणे सूत्राणि 22-24   विकृतेः प्रकृतिकालत्वात्सद्यस्कालोत्तरा विकृतिस्तयोः प्रत्यक्षशिष्टत्वात्।। 22।।  द्वैयहकाल्ये तु यथान्यायम्।। 23।।  वचनाद्वैककाल्यं स्यात्।। 24।। सप्तमाधिकरणमारचयति- द्व्यहकालाः किमैन्द्राग्नाद्याः सद्यस्कालगा उत। आद्यः प्रकृतिवन्मैवं विकृत्युक्तिविशेषतः।। 9।। ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यादयो द्व्यहकालाः। कुतः- प्रकृतौ तद्दर्शनात्। पर्वण्यग्न्यन्वाधानम्, इध्मस्य बर्हिषश्च संपादनम्, प्रतिपदीष्टिः- इति द्व्यहकालत्वं प्रकृतौ दृष्टम्। तथैव विकृतावपि युक्तम्- इति चेत्- मैवम्। एकाहकालत्वस्य वाचनिकत्वात्। ''य इष्ट्या पशुना सोमेन वा, आग्रयणेन वा यक्ष्यमाणः, सोऽमावास्यायां पौर्णमास्यां वा यजेत'' इति वचनाच्चोदकप्राप्तं द्व्यहकालत्वं बाध्यते।। 9।।  अष्टमे सोमात्सांनाय्यविकारादीनामुत्कर्षाधिकरणे सूत्रम्   सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत्।। 25।। अष्टमाधिकरणमारचयति- आमिक्षादेरनियतिः स्यात्सोमादूर्ध्वमेव वा। अविशेषादग्रिमोऽन्त्यो नासोमेति विशेषतः।। 10।। ''वैश्वदेव्यामिक्षा'' इत्यादिः सांनाय्यविकारः। ''अग्नीषोमीयमेकादशकपालं निर्वपेत्'' ''वसन्तेन ब्रह्मवर्चसकामः'' इत्यादिरग्नीषोमीयपुरोडाशविकारः। तस्योभयस्य सोमात्प्रागूर्ध्वं वा यथेच्छमनुष्ठानम्। कुतः- विशेषनियामकस्याभावात्- इति चेत्- मैवम्। ''नासोमयाजी संनयेत्'' इति निषेधेन सांनाय्यं सोमादूर्ध्वमुत्कृष्यते। अग्नीषोमीयपुरोडाशस्योत्कर्षः पूर्वमेव दर्शितः। तस्मात्- तद्विकारयोरप्युत्कर्षो युक्तः।। 10।।  नवमे सोमविकाराणां दर्शपूर्णमासात्प्रागकर्तव्यताधिकरणे सूत्रम्   तथा सोमविकारा दर्शपूर्णमासाभ्याम्।। 26।। नवमाधिकरणमारचयति- एकाहानामनियमो दर्शादेरूर्ध्वमेव वा। सोमवत्प्रथमो मैवमनुक्तेः स्यात्तदूर्ध्वता।। 11।। ''गवा यजेत'' इत्यादिना गवादिनामकाः सोमविकारा एकाहा आन्नाताः। तेषामपि सोमवदिष्टिपूर्वत्वं विकल्पितम्- इति चेत्- मैवम्। सोमस्य पूर्वत्वं वचनेन साक्षान्नोक्तम्, किंतु ''सोमेन यक्ष्यमाणोऽग्नीनादधीत'' इत्याधानानन्तर्याभिधाने सत्यर्थादिष्टेः पूर्वं सोमानुष्ठानं संपद्यते। तस्मादनुक्तं पूर्वभावित्वं चोदको नातिदिशति। अर्थसिद्धमप्यतिदिश्यताम्- इति चेत्- न। इहासंभवात्। सकृदेवाधानम्। तथा सति तदानन्तर्यं प्रकृतावुपक्षीणम्। न ह्येकस्यानन्तर्यस्य भिन्नकालीनयोः प्रकृतिविकृत्योः संबन्धः संभवति। तस्मादिष्ट्युत्तरकालीनत्वं सोमस्य निवारयितुं समर्थस्याधानानन्तर्यस्य विकृतिष्वनतिदेशात् ''दर्शपूर्णमासाविष्ट्वा सोमेन यजेत'' इत्युक्तस्योत्तरकालीनत्वस्यातिदेशाच्चेष्टेरूर्ध्वमेव गवादिविकृतयोऽनुष्ठेयाः।। 11।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे पञ्चमाध्यायस्य चतुर्थः पादः।। 4।। समाप्तश्चायं पञ्चमोऽध्यायः।। अत्र पादे- अधिकरणानि 9, सूत्राणि 26। आदितः- अधिकरणानि 362, सूत्राणि 944। षष्ठाध्यायस्य प्रथमः पादः कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः। अनुष्ठानक्रमः सर्वः पञ्चमे सुनिरूपितः। कोऽनुष्ठातेत्यपेक्षायामधिकारोऽत्र वर्ण्यते।। 1।। अनेन पञ्चमषष्ठयोरध्याययोः पूर्वोत्तरभाव उपपादितः।। 1।।  प्रथमे यागादिकर्मणां स्वर्गादिफलसाधनताधिकरणे, अधिकारन्याये सूत्राणि 1-3   द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः।। 1।।  असाधकं तु तादर्थ्यात्।। 2।।  प्रत्यर्थं चाभिसंयोगात्, कर्मतो ह्यभिसंबन्धः, तस्मात्कर्मोपदेशः स्यात्।। 3।। षष्ठाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- कर्माधिकारः कर्तुर्नो किंवाऽस्ति, न पदश्रुतेः। धात्वर्थभाव्यताभानात्फलभोगविवर्जनात्।। 2।। बलीयस्या विधिश्रुत्याऽवरुद्धा भावनाऽत्र च। भाव्यः स्वर्गः पुमर्थत्वात्कमियोगाच्च सोऽस्त्यतः।। 3।। ''दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'' इति श्रूयते। तत्र यागक्रियानिष्पादकत्वं कर्तृत्वम्। फलभोक्तृतया स्वामित्वमधिकारः। तादृशोऽधिकारो यागकर्तुर्नास्ति। कुतः- फलभोगाभावात्। तथा हि 'यजेत' इत्यत्राख्यातेन भावनाऽभिधीयते। तस्याश्च धात्वर्थो भाव्यः एकपदोपात्तत्वात्। स्वर्गस्तु पदान्तरोपात्तत्वाद्वाक्येन भाव्यतयाऽन्वेतव्यः। तच्च वाक्यमेकपदरूपया श्रुत्या बाध्यते। स्वर्गस्य भाव्यत्वाभावे सति गुणत्वमभ्युपेयम्। स्वर्गशब्दो नात्र सुखवाची, किंतु सुखसाधनं चन्दनादिद्रव्यं ब्रूते। लोके तथा व्यवहारात्। तच्च कामयितुं योग्यम्। तेन द्रव्येण विना यागानिष्पत्तेः। तस्मात्- अस्मिन्वाक्ये फलानभिधानेन तद्भोगाभावात्कर्तुर्यागे कर्तृत्वमेव, न त्वधिकार इत्यधिकारलक्षणं नारब्धव्यम्। इति प्राप्ते- ब्रूमः- 'यजेत' इत्यत्र प्रत्ययस्य केवलमाख्यातरूपत्वमेवेति न मन्तव्यम्। किंतु लिङ्प्रत्ययत्वेन विधिरूपत्वमप्यस्ति। तत्राख्यातत्वाकारेण भावनामाचष्टे, विधित्वाकारेण पुरुषं प्रवर्तयति। पुरुषश्च स्वामिमतं फलमन्तरेण न प्रवर्तत इति तदपेक्षितं स्वर्गमेव भाव्यतया विधिरुपादत्ते। स्वर्गशब्दश्चोत्कृष्टसुखे रूढः, द्रव्ये तु लाक्षणिकः। तस्मात्- सुखस्य भाव्यत्वं विधिश्रुत्या सिद्धम्। धात्वर्थस्य तु भाव्यत्वमेकेन पदेन प्रतीयमानमपि न प्रत्ययेनावगम्यते, किंतु प्रकृत्या। तथा सति स्वर्गभाव्यत्वं भावनायां प्रत्यासन्नम्। एकेनैव विधिरूपेणाख्यातेनावगमात्। कमियोगादपि स्वर्गस्य भाव्यत्वम्। तस्मात्- फलभोगसंभवेन कर्तुरधिकारोऽस्तीत्यधिकारलक्षणमारब्धव्यम्।। 2।। 3।।  द्वितीये- अशक्तानामधिकारनिराकरणाधिकरणे सूत्रे 4-5   फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यात्।। 4।।  कर्तुर्वा श्रुतिसंयोगाद्विधिः कार्त्स्न्येन गम्यते।। 5।। द्वितीयाधिकरणमारचयति- अन्धादेरस्त्यसौ नो वा, स्वर्गेच्छुत्वात्स विद्यते। प्रधानोक्त्यनुसारेण यथाशक्त्यङ्गवर्णनम्।। 4।। नैवाज्यावेक्षणादीनां पुरुषं प्रति चोदना। क्रतुं प्रति विधिस्तस्मान्नाशक्तस्याधिकारिता।। 5।। अन्धः, पङ्गुः, बधिरः, मूकः, गवाश्वादयस्तिर्यञ्चः, इत्यादीनां चेतनत्वेन निरतिशयसुखरूपे स्वर्गे कामना संभवति। अथोच्येत- 'केषुचिदङ्गेषु शक्तिर्नास्ति। तथा हि- अन्धो नाज्यमवेक्षितुं क्षमः। पङ्गुर्विष्णुक्रमेष्वशक्तः। बधिरो नाध्वर्युप्रोक्तं शृणोति। ततः 'क्लृप्तीर्वाचयति' इति विहितस्यानुष्ठानं न सिध्येत्। मूकोऽनुमन्त्राणादावशक्तः। तिर्यञ्चो बहुष्वशक्ताः' इति। तन्न। यथाशक्त्यङ्गानामनुष्ठेयत्वात्। 'स्वर्गकामो यजेत' इत्यनेन प्रधानवाक्येन सर्वाधिकारः प्रतीयते। स चाज्यावेक्षणाद्यङ्गवाक्यानुसारेण न संकोचयितुं युक्तः। किंतु प्रधानानुसारेणाङ्गानुष्ठानमेव संकोचयितुं युक्तम्। तस्मात्- अन्धादेरप्यधिकारोऽस्ति। इति प्राप्ते- ब्रूमः- यद्याज्यावेक्षणादयः पुरुषार्थतया विधीयेरन्, तदा तल्लोपेऽपि न क्रतोर्वैकल्यम्। इह तु- क्रत्वङ्गताया ते विहिता इति तल्लोपे क्रतुरेव न निष्पद्यते। तस्मात्- अशक्तस्य नास्त्यधिकारः।। 4।। 5।।  तृतीये स्त्रिया अनधिकारनिराकरणाधिकरणे सूत्राणि 6-16   लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः।। 6।।  तदुक्तित्वाच्च दोषश्रुतिरविज्ञाते।। 7।।  जातिं तु बादरायणोऽविशेषात्, तस्मास्त्र्यिपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्।। 8।।  चोदितत्वाद्यथाश्रुति।। 9।।  द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तं क्रयविक्रयाभ्याम्, अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्।। 10।।  तया चान्यार्थदर्शनम्।। 11।।  तादर्थ्यात्कर्मतादर्थ्यम्।। 12।।  फलोत्साहाविशेषात्तु।। 13।।  अर्थेन च समवेतत्वात्।। 14।।  क्रयस्य धर्ममात्रत्वम्।। 15।।  स्ववत्तामपि दर्शयति।। 16।। तृतीयाधिकरणमारचयति- स्त्रिया न सोऽस्त्यस्ति वा, नो पुंलिङ्गेन तदीरणात्। प्रकृत्यर्थतया लिङ्गं संख्यावन्नाविवक्षितम्।। 6।। अस्त्युद्देश्यगतत्वेन संख्यया सदृशत्वतः । यद्विभक्तिविकारादेरर्थस्तत्प्रकृतेर्न तु।। 7।। 'स्वर्गकामो यजेत' इति पुंलिङ्गशब्देनाधिकारिणो विधानात्सोऽधिकारः स्त्रिया नास्ति। न च ग्रहैकत्ववल्लिङ्गमविवक्षितम्- इति वाच्यम्, एकत्ववल्लिङ्गस्य प्रत्ययार्थत्वाभावात्। प्रकृत्यर्थतया तु ग्रहवद्विवक्षितं पुंलिङ्गम्। इति प्राप्ते- ब्रूमः- अस्ति स्त्रियाः कर्माधिकारः। कुतः- पुंलिङ्गस्याविवक्षितत्वात्। न ह्येकत्वस्य प्रत्ययार्थत्वमविवक्षायां निमित्तम्। किंतूद्देश्यगतत्वम्। इहापि 'यः स्वर्गकामः, स यजेत' इति वचनव्यक्तौ पुंलिङ्गस्योद्देश्यगतत्वेनैकत्वसंख्यया सदृशत्वान्नास्ति विवक्षितत्वम्। न च प्रकृत्यर्थो लिङ्गम्। किंतु स्त्रीलिङ्गं तावट्टाबादिभिः स्त्रीप्रत्ययैरभिधीयते। पुंलिङ्गं तु 'वृक्षान्' इत्यस्मिन्द्वितीयाबहुवचने विभक्तिविकारेण नकारादेशलक्षणेनाभिव्यज्यते। एवम् 'कुलम्' इत्यस्मिन्प्रथमैकवचने नपुंसकाभिव्यक्तिः। तस्मात्- लिङ्गस्य प्रकृत्यर्थत्वाभावादुद्देश्यगतत्वेनाविवक्षितत्वाच्च स्त्रिया अप्यधिकारः।। 6।। 7।।  चतुर्थे यागे दंपत्योः सहाधिकाराधिकरणे सूत्राणि 17- 21   स्ववतोस्तु वचनादैककर्म्यं स्यात्।। 17।।  लिङ्गदर्शनाच्च।। 18।।  क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते।। 19।।  फलार्थित्वात्तु स्वामित्वेनाभिसंबन्धः।। 20।।  फलवत्तां दर्शयति।। 21।। चतुर्थाधिकरणमारचयति- दंपतिभ्यां पृथक्कार्यं सह वाख्यातसंख्यया। पृथग्मैवमवैगुण्यात्कर्त्रैक्यं दैवतैक्यवत्।। 8।। 'यजेत' इत्याख्यातप्रत्ययगतायाः संख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्यत्वादेककर्तृत्वाय दंपतिभ्यां पृथगेव कर्मानुष्ठेयम्। इति चेत्- मैवम्। वैगुण्यप्रसङ्गात्। कर्मणि तत्र तत्र पत्न्यवेक्षणं यजमानावेक्षणं चेत्युभयमप्याम्नातम्। तत्र यजमानप्रयोगे पत्न्यवेक्षणं लुप्येत, पत्नीप्रयोगे यजमानावेक्षणं लुप्येत, इत्यवैगुण्याय द्वयोः सहाधिकारः। न च- यजेतेत्येकत्वं विरुद्धम्। 'अग्नीषोमौ देवता' इत्यत्र यथा व्यासक्तयोर्देवत्वाद्देवतैक्यम्, तथा दंपत्योरेकमेव कर्तृत्वमित्यङ्गीकारात्। तस्मात्- सहाधिकारः।। 8।।  पञ्चमे- आधाने पुरुषद्वयकर्तृकत्वनिराकरणाधिकरणे सूत्रे 22-23   द्व्याधानं च द्वियज्ञवत्।। 22।।  गुणस्य तु विधानत्वात्पत्न्या द्वितीयशब्दः स्यात्।। 23।। पञ्चमाधिकरणमारचयति- पुंसोरेकस्य वाधानं वसानावित्यतो द्वयोः। एष क्षौमविधिर्द्वित्वं दंपत्योरेकता ततः।। 9।। आधाने श्रूयते ''क्षौमे वसानावग्नी आदधीयाताम्'' इति। तत्र- 'वसानौ' इति पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकारः। इति चेत्- मैवम्। क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयते। किंतु- दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनुद्यते। पतिश्च पत्नी चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम्। तस्मात्- आधानेऽधिकारिणः पुंस एकत्वमेव।। 9।।  षष्ठे पुंस एवोपस्थानाद्यधिकाराधिकरणे सूत्रम्   तस्या यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात्।। 24।। षष्ठाधिकरणमारचयति- उपस्थानादि दंपत्योरुत पुंसो द्वयोरिदम्। यजमानत्वसाम्येन विद्वत्त्वात्पुंस एव तत्।। 10।। ''अगन्म सुवः सुवरगन्म '' इत्यनेन मन्त्रेण ''उद्यन्नद्य मित्रमहः'' इत्याद्यैर्मन्त्रैश्च कर्तव्यमादित्यविषयमुपस्थानम्। आदिशब्देन ''वसन्तमृतूनां प्रीणामि'' इत्यादिना विहितमनुमन्त्रणादि। तत्सर्वं दंपतिभ्यामुभाभ्यां कर्तव्यम्। कुतः- यजमानत्वस्योभयोः समानत्वात्। ततो याजमानत्वसमाख्यया यथा पुंसाऽनुष्ठीयते, तथा स्त्रियाऽपि। इति चेत्- मैवम्। अध्ययनरहितया स्त्रिया तदनुष्ठातुमशक्यत्वात्। तस्मात्- पुंस एवोपस्थानादिकम्।। 10।।  सप्तमे शूद्रस्यानधिकाराधिकरणे सूत्राणि 25-38   चातुर्वर्ण्यमविशेषात्।। 25।।  निर्देशाद्वा त्रयाणां स्यादग्न्याधेये ह्यसंबन्धः क्रतुषु ब्राह्मणश्रुतिरित्यात्रेयः।। 26।।  निमित्तार्थेन बादरिः, तस्मात्सर्वाधिकारं स्यात्।। 27।।  अपि वाऽन्यार्थादर्शनाद्यथाश्रुति प्रतीयेत।। 28।।  निर्देशात्तु पक्षे स्यातू।। 29।।  वैगुण्यान्नेति चेत्। 30।।  न काम्यत्वात्।। 31।।  संस्कारे च तत्प्रधानत्वात्।। 32।।  अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत।। 33।।  गुणार्थित्वान्नेति चेत्। 34।।  संस्कारस्य तदर्थत्वात्, विद्यायां पुरुषश्रुतिः।। 35।।  विद्यानिर्देशान्नेति चेत्। 36।।  अवैद्यत्वादभावः कर्मणि स्यात्।। 37।।  तथा चान्यार्थदर्शनम्।। 38।। सप्तमाधिकरणमारचयति- शूद्रोऽपि यष्टा नो वा स्यादवैधाध्ययनेन वा। उपदेष्टुमुखाद्वाऽस्य क्रतुवित्त्वेन यष्टृता।। 11।। त्रिवर्णैर्वेदविद्वद्भिः कृतार्था विधयः क्रतोः। नाक्षिपन्ति चतुर्थस्य विद्यां तद्यष्टृता कुतः-। 12।। लिखितपाठादिना तात्कालिकाचार्योपदेशेन वा शूद्रस्याप्यनुष्ठानहेतुभूतविद्यासंभवाच्छूद्रोऽपि यागाधिकारी। इति चेत्- मैवम्। क्रतुविधिवैयर्थ्यपरिहाराय हि शूद्रस्याविहिताऽपि विद्या कल्प्यते (ल्प्येत)। क्रतुविधयश्च त्रैवर्णिकानुष्ठानेनैव चरितार्थाः सन्तो न शूद्रस्य विद्यां कल्पयन्ति। त्रैवर्णिकानां तु विद्या न कल्पनीया, अध्ययनविधिनैव विहितत्वात्। तस्मात्- न शूद्रस्य यागाधिकारः।। 11।। 12।।  अष्टमे निर्धनाधिकाराधिकरणे सूत्रे 39-40   त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात्।। 39।।  अनित्यत्वात्तु नैवं स्यादर्थाद्धि द्रव्यसंयोगः।। 40।। अष्टमाधिकरणमारचयति- धन्येव कर्तोतान्योऽपि धन्येव विधिसार्थ्यतः। अन्योऽधिकुरुते द्रव्यमाक्षिपेद्भुक्तिवत्क्रतुः।। 13।। यथा विद्याऽधिकारहेतुः, तथा धनमपीति धनिन एव यागाधिकारः, तावता विधीनां सार्थकत्वात्। विध्यन्यथानुपपत्त्या हि दरिद्रस्य धनार्जनमाक्षेप्तुं शक्येत। तस्मात्- शूद्रवद्दरिद्रोऽपि न कर्मण्यधिकारी- इति चेत्- मैवम्, धनिकस्यापि धनार्जनं न यागविधिभिराक्षिप्तम्। भोजनादिभिर्धनकार्यैरेव तस्याक्षिप्तत्वात्। अत एव विद्याया अध्ययनविधिरिव धनार्जनस्य न कोऽपि विधिरस्ति। याजनादिविधय उपायनियमार्था इत्युक्तम्। तस्मात्- भोजनादिवत्क्रतोरपि धनकार्यत्वेन धनार्जनापेक्षत्वाद्दरिद्रोऽपि धनार्जनं कृत्वा क्रतावधिकरोति।। 13।।  नवमे- अङ्गहीनाधिकराधिकरणे सूत्रम्   अङ्गहीनश्च तद्धर्मा।। 41।। नवमाधिकरणमारचयति- अङ्गहीनो न कुरुते कर्ता वा, नाक्षमत्वतः। समाधायाङ्गवैकल्यं करोति द्रव्यहीनवत्।। 14।। कश्चिदक्षिरोगेणाज्यमवेक्षितुमसर्थः। अन्यो वातरोगेणास्वाधीनपादो विष्णुक्रमेष्वसमर्थः। अतो नाङ्गहीनः कर्माधिकारी। इति चेत्- मैवम्। धनहीनो यथा धनं संपाद्याधिकरोति, तथा विकलाङ्गोऽप्यौषधादिना वैकल्यं समाधायाधिकरोतु।। 14।।  दशमेऽचिकित्स्याङ्गवैकल्यस्यानधिकाराधिकरणे सूत्रम्   उत्पत्तौ नित्यसंयोगात्।। 42।। दशमाधिकरणमारचयति- असमाधेयवैकल्ये कथं, काम्येष्वकर्तृता। नित्येषु त्वाहिताग्निश्चेद्यथाशक्ति करोति हि।। 15।। 'कथम्' इत्यनेन संशयः सूचितः। वैकल्यस्य समाधातुमशक्यत्वेनाक्षमत्वादत्यन्तमनधिकार एव। इति चेत्- मैवम्। काम्येष्वङ्गवैकल्ये फलासिद्धेर्माऽस्तु तत्राधिकारः। नित्यानां त्वाहिताग्निना त्यक्तुमशक्यत्वादीषदङ्गलोपं सोढ्वाऽपि नित्येष्वधिकारोऽस्ति।। 15।।  एकादशे दर्शपूर्णमासयोस्त्र्यार्षेयस्यैवाधिकाराधिकरणे सूत्रम्   अत्र्यार्षेयस्य हानं स्यात्।। 43।। एकादशाधिकरणमारचयति- विधिर्वरण एकादावपि स्यात्त्रिक एव वा। अविशेषात्पक्ष आद्यो वाक्याभेदाय तूत्तरः।। 16।। दर्शपूर्णमासयोः ''आर्षेयं वृणीते'' इति विधायेदमाम्नातम्- ''एकं वृणीते, द्वौ वृणीते, त्रीन्वृणीते, न चुतुरो वृणीते, न पञ्चातिवृणीते'' इति। 'ऋषिर्गोत्रप्रवर्तकः कश्यपभरद्वाजादिः, तस्य संबन्ध आर्षेयः, तं वृणीते कथयत्युच्चारयति। 'कश्यपगोत्रोऽहम्, भरद्वाजगोत्रोऽहम्' इति तदुच्चारणम्। एकमार्षेयमुच्चारयति तदुदाहृतम्।द्वावार्षेयावुच्चारयति- 'उपमन्युवसिष्ठगोत्रोऽहम्' इत्यादि। त्रीनार्षेयानुच्चारयति- 'आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रोऽहम्' इत्यादि। चतुर आर्षेयान्नोच्चारयेत्। पञ्चार्षेयानतिक्रम्य षडादीनार्षेयान्नोच्चारयेत्, इत्यर्थः। तत्र- एकार्षेयद्व्यार्षेयत्र्यार्षेयवाक्येषु विशेषादर्शनात् 'एकं वृणीते' इत्यादयस्त्रयोऽपि विधयः। इति चेत्- मैवम्। वाक्यभेदप्रसङ्गात्। तत्परिहाराय 'त्रीन्वृणीते' इत्यस्यैव विधित्वमस्तु। 'एकं वृणीते, द्वौ वृणीते' इत्यवयुत्यानुवादेन स्तावकम्। 'एकवरण- द्विवरणे अप्रशस्ते अपि यदा कर्तव्ये, तदा त्रिवरणस्य प्रशस्तस्य कर्तव्यत्वं किमु वक्तव्यम्' इति स्तुतिः। चतुर्निषेध- पञ्चातिक्रमनिषेधाभ्यामपि त्रित्वमेव स्तूयते। न च- तयोर्निषेधो विधातव्यः। प्रसक्त्यभावादेव तदप्रवृत्तेः। चतुरादयोऽतिविलम्बकारित्वादप्रशस्ताः। त्रित्वं तु न तथेति प्रशस्तम्। तस्मात्- कर्मण्यधिकुर्वन्यजमानस्त्रीनेवोच्चारयेत्, न न्यूनम्, नाप्यधिकम्, इति तात्पर्यार्थः।। 16।।  द्वादशे रथकाराधिकाराधिकरणे सूत्राणि 44-50   वचनाद्रथकारस्याधानेऽस्य सर्वशेषत्वात्।। 44।।  न्याय्यो वा कर्मसंयोगात्, शूद्रस्य प्रतिषिद्धत्वात्।। 45।।  अकर्मत्वात्तु नैवं स्यात्।। 46।।  आनर्थक्यं च संयोगात्।। 47।।  गुणार्थेनेति चेत्।। 48।।  उक्तमनिमित्तत्वम्।। 49।।  सौधन्वनास्तु हीनत्वात्, मन्त्रवर्णात्प्रतीयेरन्।। 50।। द्वादशाधिकरणमारचयति- विप्रादिरेव रथकृदन्यो वाद्योऽस्तु योगतः। रूढेर्वर्णान्तरं तस्याधाने वर्षर्तुरुच्यते।। 17।। आधाने श्रूयते ''वर्षासु रथकार आदधीत'' इति। तत्र- 'रथं करोति' इति व्युत्पत्त्या त्रैवर्णिको रथकारः। इति चेत्- मैवम्। संकीर्णजातिविशेषे रूढत्वात्। वैश्यायां क्षत्त्रियादुत्पन्नो माहिष्यः। शूद्रायां वैश्यादुत्पन्ना करणी। तस्यां करण्यां माहिष्यादुत्पन्नो रथकारः। तथा च याज्ञवल्क्यः- 'माहिष्येण करण्यां तु रथकारः प्रजायते' इति। तस्य च रथकारस्याधानकालो वर्षर्तुः।। 17।।  त्रयोदशे निषादस्थपत्यधिकरणे सूत्रे 51- 52   स्थपतिर्निषादः स्याच्छब्दसामर्थ्यात्।। 51।।  लिङ्गदर्शनाच्च।। 52।। त्रयोदशाधिकरणमारचयति- द्विजः स्थपतिरन्यो वा द्विजः षष्ठीसमासतः । कर्मधारयमुख्यत्वान्निषादो रौद्रयागकृत्।। 18।। ''वास्तुमयं रौद्रं चरुं निर्वपेत्'' इति प्रकृत्य श्रूयते ''एतया निषादस्थपतिं याजयेत्'' इति। वास्तुशब्दः किंचित्प्रकृतिद्रव्यविशेषमाह। एतस्यामिष्टावधिकारी स्थपतिशब्दवाच्यस्त्रैवर्णिकः। कुतः- 'निषादानामधिपतिः' इति षष्ठीसमासस्य त्रैवर्णिके संभवात्। तस्य चाधीतवेदत्वेन विद्यासंभवाच्च। इति चेत्- मैवम्। 'निषादश्चासौ स्थपतिश्च' इति कर्मधारयसमासस्य मुख्यत्वात्। षष्ठीसमासे तु संकीर्णजातिविशेषवाचिना निषादशब्देन तत्संबन्ध उपलक्ष्येत। न त्वयं कर्मधारये दोषोऽस्ति। ततस्तात्कालिकाचार्योपदेशादिना विद्यां संपाद्य धनिको निषादो रौद्रयागं कुर्यात्।। 18।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 13, सूत्राणि 52। आदितः- अधिकरणानि 375, सूत्राणि 996। षष्ठाध्यायस्य द्वितीयः पादः तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः।  प्रथमे सत्रे प्रत्येकस्य सत्त्रिणः फलसंबन्धाधिकरणे सूत्रे 1-2   पुरुषार्थैकसिद्धित्वात्तस्य तस्याधिकारः स्यात्।। 1।।  अपि चोत्पत्तिसंयोगो यथा स्यात्सत्त्वदर्शनम्, तथाभावो विकल्पे स्यात्।। 2।। द्वितीयपादे प्रथमाधिकरणमारचयति- सत्रे फलांशः प्रत्येकं सर्वं वाद्यः समूहके। कर्तृत्वादन्त्य एकैकस्यापि तत्त्वाद्बहुत्वतः।। 1।। इदमाम्नायते- ''ऋद्धिकामाः सत्रमासीरन्'' इति। तत्र सत्रे बहूनां समुदायस्य कर्तृत्वमवगतम्। ''सप्तदशावराः सत्रमासीरन्'' इति श्रवणात्। कर्तृत्वेन समुदायस्यैव फलश्रवणात्। पुरुषाणां प्रत्येकं फलांश एव न तु सर्वं फलमेकैकस्य। इति चेत्- मैवम्। एकस्यापि समुदायान्तःपातिनः कर्तृत्वसद्भावात्। अन्यथा समुदायस्यैकत्वेन 'सत्रमासीरन्' इति श्रुतं कर्तृबहुत्वं नोपपद्यते। तस्मात्- एकैकस्य कर्तुः सर्वफलसद्भावात्सर्वफलकामिनामेवाधिकारः, न त्वंशकामिनाम्।। 1।।  द्वितीये दर्शादौ कर्त्रैक्यनियमाधिकरणे सूत्राणि 3-12   प्रयोगे पुरुषश्रुतेर्यथाकामी प्रयोगे स्यात्।। 3।।  प्रत्यर्थं श्रुतिभाव इति चेत्। 4।।  तादर्थे न गुणार्थताऽनुक्तेऽर्थान्तरत्वात्कर्तुः प्रधानभूतत्वात्।। 5।।  अपि वा कामसंयोगे संबन्धात्प्रयोगोऽपदिश्येत प्रत्यर्थं हि विधिश्रुतिर्विषाणा(ण)वत्।। 6।।  अन्यस्य स्यादिति चेत्। 7।।  अन्यार्थेनाभिसंबन्धः।। 8।।  फलकामो निमित्तमिति चेत्। 9।।  न नित्यत्वात्।। 10।।  कर्म तथोति चेत्। 11।।  न समवायात्।। 12।। द्वितीयाधिकरणमारचयति- दर्शे कर्त्रैक्यनियमो नास्त्युतास्ति न कामिनि ।उद्देश्ये ग्रहवत्संख्या यतो नैव विवक्षिता।। 2।। आख्यातोपात्तसंख्याऽत्र विधेयस्य विशेषणम्। विवक्षिताऽतः सेत्यत्र कर्त्रैक्यं विनियम्यते।। 3।। 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्र स्वर्गकाम उद्देश्यः। तद्गतं चैकत्वं ग्रहैकत्ववदविवक्षितम्। तस्मात्- एको द्वौ बहवो वा दर्शपूर्णमासयोरधिकारिणः। इति प्राप्ते- ब्रूमः- मा भूत्स्वर्गकामगतस्यैकत्वविवक्षा, 'यजेत' इत्याख्यातगतं तु यदेकत्वम्, तद्विधेयस्य विशेषणम्। विधेया च क्रिया। सा च स्वसिद्धये कारकान्तरवत्कर्तारमप्याक्षिपतीति क्रियाद्वारा कर्ताऽपि विधेयः। अतो विधेयकर्तृगता येयमेकत्वसंख्या सा विवक्षितेति कर्तुरेकत्वं नियम्यते।। 2।। 3।।  तृतीये- आरब्धकाम्यकर्मणोऽपि समाप्तिनियमाधिकरणे सूत्राणि 13-15   प्रक्रमात्तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्।। 13।।  फलार्थित्वाद्वाऽनियमो यथाऽनुपक्रान्ते।। 14।।  नियमो वा तन्निमित्तत्वात्कर्तुस्तत्कारणं स्यात्।। 15।। तृतीयाधिकरणमारचयति- असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते। आद्यः प्रयोजनाभावादन्त्यो निन्दादिसंश्रवात्।। 4।। ''चित्रया यजेत पशुकामः'' ''कारीर्या वृष्टिकामो यजेत'' इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम्। तस्य च समाप्तेः प्रागेव केनापि निमित्तेन तत्फलप्राप्तौ दोषदर्शनने वा कामो निवर्तते, तदा कर्मानुष्ठाने प्रयोजनाभावान्न समापनीयम्। इति चेत्- मैवम्। प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात्। ''देवताभ्यो वा एष आवृश्च्यते यो यक्ष्ये'' इत्युक्त्वा ''न यजते, त्रैधातवीयेन यजेत'' इति तदुभयं श्रुतम्। तस्मात्- समापनीयम्।। 4।।  चतुर्थे लौकिककर्मणि समाप्त्यनियमाधिकरणे सूत्राणि 16-18   लोक कर्माणि वेदवत्ततोऽधिपुरुषज्ञानम्।। 16।।  अपराधेऽपि च तैः शास्त्रम्।। 17।।  अशास्त्रातूपसंप्राप्तिः, शास्त्रं स्यान्न प्रकल्पकम्, तस्मादर्थेन गम्येत, अप्राप्ते शास्त्रमर्थवत्।। 18।। चतुर्थाधिकरणमारचयति- समाप्यमसमाप्यं वा लौकिकं शास्त्रकल्पनात्। आद्यो नो गृहकृष्यादौ शास्त्रकल्पकवर्णनात्।। 5।। रथगृहनिर्माणादिरूपं यल्लौकिकं कर्म तदपि तक्षस्मृतावुक्तमिति वेदमूलत्वकल्पनाच्चित्रायागादिवन्निवृत्तेऽपि कामे समापनीयम्। इति चेत्- मैवम्। रथादौ रमणीयत्वस्य दृष्टप्रयोजनस्यान्वयव्यतिरेकाभ्यामेव सिद्ध्युपायावगमात्। तत्रोहापोहकुशलपुरुषोत्प्रेक्षामूला तक्षस्मृतिर्न वेदं कल्पयितुं प्रभवति। तस्मात्- 'अवश्यं समापनीयम्' इति नास्ति नियमः।। 5।।  पञ्चमे प्रतिषिद्धकर्मणामनुष्ठानेऽनिष्टापाताधिकरणे कलञ्जन्याये सूत्रे 19-20   प्रतिषेधे त्वकर्मत्वात्क्रिया स्यात्प्रतिषिद्धानां विभक्तत्वादकर्मणाम्।। 19।।  शास्त्राणां त्वर्थवत्त्वेन पुरुषार्थो विधीयते, तयोरसमवायित्वात्तादर्थ्ये विध्यतिक्रमः।। 20।। पञ्चमाधिकरणमारचयति- पर्युदासो निषेधो वा नाद्याद्गृञ्जनमित्यसौ। नञ्धात्वोरन्वयादाद्यः कल्प्यं संकल्पतः फलम्।। 6।। पदान्वयात्तु नञ्विध्योर्निषेधोऽनर्थहानये । संकल्पे लक्षणाप्राप्तिर्नैष काम्यविधिस्तथा।। 7।। अनारभ्य श्रूयते ''न कलञ्जं भक्षयेत्' न लशुनम्, न गृञ्जनम्'' इति। तत्र 'न भक्षयेत्' इति संनिधिवशान्नञ्धात्वोरन्वये सति 'अभक्षणम्' इति पर्युदासः संपद्यते। तथा सति 'नेक्षेतोद्यन्तमादित्यम्' इत्यादाविव संकल्पो विधेयः। तस्य चाभक्षणसंकल्पस्य विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः। इति चेत्- मैवम्। पदैकदेशस्य धातोः पदान्तरेणान्वेतुमयोग्यत्वाद्विधायकपदस्य नञ्पदेनान्वये सति रागप्राप्तां भक्षणप्रवृत्तिमनूद्य निषेधस्य विधेयत्वात्। न च निषेधो व्यर्थः। नरकपातनिवारकत्वात्। एवं च सति- अश्रुतं न किमपि कल्पनीयम्। त्वत्पक्षे तु- अश्रुतः संकल्पः कल्पनीय इति तदर्थं भक्षणशब्दे लक्षणाश्रयितव्या। तस्मात्- स्वर्गकामिनो नात्राधिकारः, किंतु नरकाद्भीतस्य।। 6।। 7।।  षष्ठे गुर्वनुगमनादीनामुपनयनोचरकालकर्तव्यताधिकरणे सूत्रे 21-22   तस्मिंस्तु शिष्यमाणानि जनने न प्रवर्तेरन्।। 21।।  अपि वा वेदतुल्यत्वादुपायेन प्रवर्तेरन्।। 22।। षष्ठाधिकरणमारचयति- प्राङ्मुखत्वादिनियम उपनीतेः पुराऽप्युत ।ऊर्ध्वं मन्त्राग्न्यसाध्यत्वादाद्योऽन्त्योऽस्तु तथा स्मृतेः।। 8।। ''प्राङ्मुखोऽन्नानि भुञ्जीत'' ''गुरुरनुगन्तव्योऽभिवादयितव्यश्च'' ''वृद्धः प्रत्युत्थेयः, संमन्तव्यश्च'' इत्यादिस्मार्तनियम उपनयनात्प्रागप्यनुसर्तव्यः। तस्य नियमस्य वैदिकैर्मन्त्रैराहवनीयाद्यग्निभिर्वा साध्यत्वं नास्तीति प्रागपि तत्संभवात्। इति चेत्- मैवम्। श्रौतस्याध्ययनादिनियमस्योपनयनानन्तरभावित्वेन वेदमूलस्मृतिप्राप्तनियमस्याप्युत्तरस्मिन्नेव काले युक्तत्वात्। अत एव स्मर्यते- 'उपनयनादिर्नियमः' इति, 'प्रागुपनयनात्कामचारवादभक्षः' इति च। तस्मात्- उपनयनात्पूर्वं नास्ति नियमः।। 7।।  सप्तमे- अग्नहोत्रादियावज्जीवकर्मणां स्वकालमात्रकर्तव्यताधिकरणेऽग्निहोत्रन्याये सूत्राणि 23-26   अभ्यासोऽकर्मशेषत्वात्पुरुषार्थो विधीयते।। 23।।  तस्मिन्नसंभवन्नर्थात्।। 24।।  न कालेभ्य उपदिश्यन्ते।। 25।।  दर्शनात्काललिङ्गानां कालविधानम्।। 26।। सप्तमाधिकरणमारचयति- यावज्जीवेति सातत्यं स्वकाले वा निमित्ततः । कालाङ्गलोपादाद्यः स्यादवैधात्यागतोऽन्तिमः।। 9।। इदमाम्नायते- ''यावज्जीवमग्निहोत्रं जुहोति'' 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत'' इति। तत्र- जीवनस्य निमित्तत्वेनोपन्यासात्सति निमित्ते नैमित्तिकस्यावश्यंभावाज्जीवतोऽनुष्ठानसातत्यमत्र वर्ण्यते। ननु सायंप्रातःकालावग्निहोत्राङ्गत्वेन चोदितौ, अमावास्यापौर्णमासीकालौ दर्शपूर्णमासयोः। तथा सत्यङ्गलोपः सातत्ये प्रसज्येत। नायं दोषः। 'प्रधानलोपाद्वरमङ्गलोपः' इति न्यायात्। तस्मात्- सातत्यम्। इति प्राप्ते- ब्रूमः- यद्यपि सायंप्रातरादिकालोऽङ्गम्, तथाऽप्यनुपादेयतया प्रयाजादिवद्विधेयो न भवति, किंतु- तस्मिन्काले स्वतः प्राप्ते सति कर्मानुष्ठेयतया विधीयते। तस्य च कालस्य जीवनरूपनिमित्तसंकोचकत्वेनैवान्वयः। तथा सति- उक्तकालविशिष्टमेव जीवनं निमित्तम्। तस्मिन्निमित्ते जीवनरूपो विशेष्यांशो यथा न वैधो नापि त्यक्तुं शक्यः। तथा विशेषणांशः कालोऽप्यविधेयो न त्यक्तुं शक्यश्च। तस्मात्- अवैधस्य त्यागसंभवान्न सातत्यम्, किंतु- स्वकालेऽनुष्ठानम्।। 9।।  अष्टमे- अग्निहोत्रादीनां स्वकालावृत्त्यावृत्त्यधिकरणे सूत्रे 27-28   तेषामौत्पत्तिकत्वादागमेन प्रवर्तेत।। 27।।  तथा हि लिङ्गदर्शनम्।। 28।। अष्टमाधिकरणमारचयति- सकृत्कृतिरुतावृत्तिर्दर्शादेः शास्त्रसार्थ्यतः। सकृत्स्यात्कालसंयुक्तजीवनावृत्तितोऽन्तिमः।। 10।। दर्शपूर्णमासादीनां सकृदेवानुष्ठानम्। तावता विधिशास्त्रस्य चरितार्थत्वात्। इति चेत्- मैवम्। कालविशिष्टजीवननिमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात्। तस्मात्- आवृत्तिः।। 10।।  नवमे दर्शादौ भेदाद्यावृत्त्या होमावृत्त्यधिकरणे सूत्रम्   तथाऽन्तःक्रतुप्रयुक्तानि।। 29।। नवमाधिकरणमारचयति- क्रतौ सकृद्भेदहोमोऽसकृद्वा, क्रतुसिद्धितः। सकृन्निमित्तभेदस्यावृत्तौ होमोऽसकृद्भवेत्।। 11।। दर्शपूर्णमासयोः कुम्भ्यादिपात्रभेदमाज्यादिस्कन्दनं च निमित्तीकृत्य होम आम्नायते- ''भिन्ने जुहोति'' ''स्कन्ने जुहोति'' इति। सोऽयं होमः सकृत्कार्यः। तावतैव क्रतूपकारसिद्धेः। इति चेत्- मैवम्। भेदस्य स्कन्दनस्य वा निमित्तस्यावृत्तौ नैमित्तिकस्याप्यावर्तनीयत्वात्। तस्मात्- नास्ति सकृत्त्वनियमः।। 11।।  दशमे गुर्वनुगमादीनां प्रतिनिमित्तमावृत्त्यधिकरणे सूत्रम्   आचाराद्गृह्यमाणेषु तथा स्यात्पुरुषार्थत्वात्।। 30।। दशमाधिकरणमारचयति- याथाकाम्यमुतावृत्तिर्गुरोरनुगमादिषु। स्यादाद्यः प्रीतिहेतुत्वान्नियमादृष्टतोऽन्तिमः।। 12।। ''गुरुरनुगन्तव्योऽभिवाद्यश्च'' इति विहितेषु गुरुप्रीतिरूपस्य दृष्टस्यैव प्रयोजनत्वात्प्रीत्यनुसारेणानुगमनादिकं सकृदसकृद्वा स्वेच्छया कर्तव्यम्। इति चेत्- मैवम्। दृष्टार्थेष्वपि विहितेषु नियमादृष्टसंभवाद्यदा यदा गुरुगमनादि निमित्तं संपद्यते तदा तदाऽनुगमनादीन्यनुष्ठेयानि।। 12।।  एकादशे- ऋणत्रयापाकरणस्य ब्राह्मणक्षात्रयवैश्यानां नित्यताधिकरणे सूत्रम्   ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात्।। 31।। एकादशाधिकरणमारचयति- सोमाधीतिप्रजं काम्यं नित्यं वा कामतोऽग्रिमः। वीप्सानुष्ठेयविज्ञानलोकैस्तन्नित्यतेष्यते।। 13।। इदमाम्नायते- ''सोमेन यजेत'' ''स्वाध्यायमधीयीत'' ''प्रजामुत्पादयेत्'' इति। तत्र सोमः काम्यः। 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इति कामसंयोगेनाम्नातत्वात्। अध्ययनप्रजोत्पादनयोरपि विश्वजिन्न्यायेन स्वर्गे फलत्वेन कल्पिते कमियोगोऽपि कल्प्यते। तस्मात्- इदं त्रयं काम्यम्। इति चेत्- मैवम्। वीप्सादिना नित्यत्वसिद्धेः। ''वसन्ते वसन्ते ज्योतिषा यजेत'' इति वीप्सा प्रतिवसन्तं निमित्तीकृत्य सोमयागं विधत्ते। अध्ययनस्य तु न स्वर्गः फलम्, दृष्टप्रयोजनस्यानुष्ठेयविज्ञानस्य संभवात्। तत्र क्रत्वनुष्ठानस्य नित्यत्वात्तद्धेतोरध्ययनस्यापि नित्यत्वमनिवार्यम्। 'अनुत्पाद्य सुतान्न लोकं गच्छति' इति स्मृतेर्लोकसिद्ध्यर्थमुत्पादनस्यापि नित्यत्वम्। अनेनैवाभिप्रायेणेदमाम्नातम्- ''जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते। ब्रह्मचर्येण ऋषिभ्यः, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः। एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी'' इति। अत्र ब्राह्मणग्रहणमितरयोरप्युपलक्षणार्थम्। सोमादिविधिषु विशेषस्याश्रवणात्। तस्मात्- सोमादिकं नित्यम्।। 13।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 11, सूत्राणि31। आदितः- अधिकरणानि 386, सूत्राणि1027। षष्ठाध्यायस्य तृतीयः पादः द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्।  प्रथमे नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणे सूत्राणि 1-7   सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात्।। 1।।  अपि वाऽप्येकदेशे स्यात्प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमितरत्तदर्थत्वात्।। 2।।  तदकर्मणि च दोषः, तस्मात्ततो विशेषः स्यात्प्रधानेनाभिसंबन्धात्।। 3।।  कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात्सर्वेषामुपदेशः स्यादिति।। 4।।  सर्वस्य व्यपवर्गित्वादेकस्यापि प्रयोगे स्याद्यथा क्रत्वन्तरेषु।। 5।।  विध्यपराधे च दर्शनात्समाप्तेः।। 6।।  प्रायश्चित्तविधानाच्च।। 7।। तृतीयपादे प्रथमाधिकरणमारचयति- नित्ये सर्वाङ्गसंहारः शक्त्या वाद्यः फलित्वतः। शक्त्या त्यागासंभवेन निमित्ते जीवने स्थिते।। 1।। ''यावज्जीवमग्निहोत्रं जुहोति'' इत्यादौ नित्ये कर्मणि सर्वाण्यङ्गान्युपसंहृत्य तद्विशिष्ट एव प्रयोगः कर्तव्यः। कुतः- भावनांशस्य कथंभावस्य समुच्चितैः सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फलवत्त्वात्। इति चेत्- मैवम्। अग्निहोत्रदर्शपूर्णमासादिशब्दवाच्यं प्रधानम्। तस्य च स्ववाक्यगतजीवननिमित्तेनान्वयात्सति जीवने प्रधानं कर्म त्यक्तुमशक्यम्। ततो वाक्यान्तरावगतेष्वङ्गेष्वशक्यं किंचिदङ्गं परित्यज्यापि शक्यैरङ्गैरुपेतं प्रधानं कर्मानुष्ठेयम्।। 1।।  द्वितीये- अङ्गवैकल्ये काम्यस्य निष्फलत्वाधिकरणे सूत्राणि 8- 10   काम्येषु चैवमर्थित्वात्।। 8।।  असंयोगात्तु नैवं स्याद्विधेः शब्दप्रमाणत्वात्।। 9।।  अकर्मणि चाप्रत्यवायात्।। 10।। द्वितीयाधिकरणमारचयति- काम्ये शक्त्योत सर्वाङ्गं शक्त्या लोपस्य संभवात्। मैवं लोपे निष्फलत्वाच्छाब्दमङ्गं न लुप्यते।। 2।। प्रधानानुष्ठितौ यद्वज्जीवनस्य निमित्तता। कामस्य न तथा यस्मात्काम्यं त्यक्तुं च शक्यते।। 3।। यथा नित्येष्वग्निहोत्रादिकर्मस्वशक्यमङ्गं परित्यक्तम्, तथा काम्येऽष्वप्यैन्द्राग्नसौर्यादिष्वशक्याङ्गलोप-संभवाच्छक्याङ्गोपेतमनुष्ठेयम्। इति चेत्- मैवम्। अङ्गलोपे काम्यमानफलानुत्पत्तेः। सर्वाङ्गोपेतमेव हि प्रधानं फलसाधनत्वेन विहितम्। तत्र प्रधानस्य त्यागे यथा नास्ति फलम्, तथाऽङ्गत्यागेऽपि। फलसाधनत्वं हि शास्त्रसमधिगम्यम्। ततो यद्यावदङ्गं वा प्रधानं वा शब्दोपात्तम्, तस्य लोपे साधनत्वं नास्ति। नहि गमनसाधनस्य रथस्य चक्राद्यङ्गेष्वन्यतमस्य वैकल्येन गमनसाधनत्वं दृष्टम्। तस्मात्- यदा सर्वाङ्गोपसंहारः कर्तुं शक्यते, तदैव काम्यमनुष्ठेयम्। न च नित्येऽप्येवमस्तु- इति शङ्कनीयम्। जीवनं निमित्तीकृत्य तत्र विधानात्। यथा गृहदाहं निमित्तीकृत्य विहिता क्षामवतीष्टिरवश्यं कर्तव्या। यथा वा लोके निमित्तभूतायां बुभुक्षायां सत्यां भोजनमवश्यं कर्तव्यम्, तथा जीवने सति कर्मावश्यमनुष्ठेयम्। न च- जीवनवत्फलकामनाया अपि निमित्तत्वं शङ्कनीयम्। सत्यामपि कामनायां कर्मणोऽवश्यंभावाभावात्। नहि कामिनः कर्माननुष्ठाने प्रत्यवायः श्रूयते। ननु- शास्त्रीयप्रत्यवायाभावेऽपि फलानुत्पत्तिलक्षणो बाधोऽस्त्येव। यथा बुभुक्षोरभोजने राजदण्डाभावेऽपि पित्तक्षोभादिरूपो बाधोऽस्ति तद्वत्। इति चेत्- मैवम्। तर्हि यथा फलं सिध्यति, तथा कामिना प्रयतितव्यम्। फलं च शब्दावगतसर्वाङ्गोपसंहारमन्तरेण न सिध्यतीत्युक्तम्। नित्ये तु न फलसाधनत्वेन विधिः, किं तु जीवननिमित्तसंयोगेन। तथा सत्यङ्गवैकल्येऽपि निमित्तेन नैमित्तिकसंयोगः श्रुत्यभिमतो नापैति। ततो विकलाङ्गमपि कर्तव्यमेव। अत एव नित्यस्याकरणे प्रत्यवायप्रायश्चित्ते शास्त्रेष्ववगम्येते। काम्येष्वङ्गवैकल्ये शास्त्राभिमतफलसाधनत्वाभावाद्विकलाङ्गं काम्यं न प्रयोक्तव्यम्। अत एव तत्त्यागेऽपि प्रत्यवायप्रायश्चित्ते न स्तः। तस्मात्- काम्यं कृत्स्नाङ्गोपेतं कर्तुं यदा शक्नुयात्तदा कुर्यात्। नित्यं तु यथा शक्नुयात्, तथा कुर्यात्। एतदेवाभिप्रेत्य श्रुतम्- ''तदेव यादृक्कीदृक्च होतव्यम्'' इति। तस्मात्- नित्येष्वङ्गलोपेऽपि काम्येष्वङ्गलोपो न सोढुं शक्यः।। 2।। 3।।  तृतीये द्रव्यभेदेऽपि कर्माभेदाधिकरणे सूत्रे 11-12   क्रियाणामाश्रितत्वाद्द्रव्यान्तरे विभागः स्यात्।। 11।।  अपि वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदैककर्म्यं स्यान्नामधेयं च सत्त्ववत्।। 12।। तृतीयाधिकरणमारचयति- नीवारादिद्रव्यभेदात्कर्मान्यत्स्यात्तदेव वा। द्रव्यकर्मैक्यतः पूर्वस्तत्रेषद्भेदतोऽन्तिमः।। 4।। दर्शपूर्णमासयोर्वीह्यसंभवे नीवारा यदि स्वीक्रियन्ते तदा नीवारादिद्रव्यभेदात्कर्मान्तरं तदित्यभ्युपेयम्। कुतः- द्रव्यकर्मणोरेकत्वात्। द्रव्यं हि कर्मणः स्वरूपम्। ततो द्रव्यान्तरत्वे कर्मान्तरत्वमनिवार्यम्। इति चेत्- मैवम्। द्रव्यकर्मणोरीषद्भेदस्यापि भावात्। द्रव्यमाश्रयः, कर्माश्रितम्। आश्रयाश्रितयोर्भेदाभेदावभ्युपगम्य तादात्म्यसंबन्धो वर्ण्यते। तस्मात्- द्रव्यभेदेऽपि न कर्म भिद्यते।। 4।।  चतुर्थे द्रव्यापचारे प्रतिनिधिना समापनाधिकरणे सूत्राणि 13-18   श्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वात्।। 13।।  क्वचिद्विधानाच्च।। 14।।  आगमो वा चोदनार्थाविशेषात्।। 15।।  नियमार्थः क्वचिद्विधिः।। 16।।  तन्नित्यं तच्चिकीर्षा हि।। 17।। चतुर्थाधिकरणमारचयति- द्रव्ये प्रतिनिधिर्नास्ति विद्यते वा, न विद्यते। मानाभावादस्ति कर्मचोदनाक्षेपिका यतः।। 5।। नित्यकाम्यकर्मणोः श्रुतस्य व्रीह्यदिद्रव्यस्यापचारे द्रव्यान्तरं प्रतिनिधित्वेन कुत्रापि न विहितम्। अतो मानाभावान्नास्ति प्रतिनिधिः। इति चेत्- मैवम्। कर्मचोदना हि द्रव्यमन्तरेणानुपपन्ना द्रव्यसामान्यमाक्षिपति। तत्र व्रीहिशास्त्रं नियामकम्। तच्चासंभवाद्यदा न प्रवर्तेत, तदा मा भून्नियमः। तथाऽपि सामान्याक्षेपस्य वारयितुमशक्यत्वात्तत्सामान्यं क्वचिद्विशेषे पर्यवस्यतीति प्रमाणसद्भावादस्ति प्रतिनिधिः। ततो द्रव्यान्तरेणापि तत्कर्मानुष्ठातव्यमेव। न तु श्रुतद्रव्याभावमात्रात्कर्मलोपः।। 5।।  पञ्चमे देवतामन्त्रक्रियापचारे प्रतिनिध्यभावाधिकरणे सूत्रे 18-19   न देवताग्निशब्दक्रियमन्यार्थसंयोगात्।। 18।।  देवतायां च तदर्थत्वात्।। 19।। पञ्चमाधिकरणमारचयति- देवाग्निमन्त्रोक्षणादावस्ति प्रतिनिधिर्न वा। पुरेवास्तीह यन्मुख्ये कार्यं तन्नेति नास्त्यसौ।। 6।। ''आग्नेयोऽष्टाकपालः'' ''सौर्यं चरुम्'' इत्यादावुक्ता अग्निसूर्यादयो देवाः, आहवनीयादयोऽग्नयः, ''बर्हिर्देवसदनं दामि'' इत्यादयो मन्त्राः, प्रोक्षणादयः क्रियाः। एतेषां देवादीनामपचारे द्रव्यवत्प्रतिनिधिरस्ति। इति चेत्- मैवम्। कार्यसिद्ध्यभावात्। पुरोडाशनिष्पादनं कार्यं व्रीह्यपचारेऽपि नीवारेण सिध्यति। देवादिकार्यं तु नान्येन सिध्यति। न ह्याग्नेययागो विष्णुना निष्पद्यते। नाप्याहवनीयकार्यो होमोऽसंस्कृतेन वह्निना सिध्यति। नापि 'बर्हिर्देवसदनं दामि' इत्येतन्मन्त्रसाध्यमर्थप्रकाशनमन्येन मन्त्रेण सिध्यति। नापि प्रोक्षणकार्यमदृष्टमविहितेनान्यार्थं विहितेन वा क्रियान्तरेणापि सिध्यति। तस्मात्- नास्ति देवादीनां प्रतिनिधिः।। 6।।  षष्ठे प्रतिषिद्धद्रव्यस्य प्रतिनिधित्वाभावाधिकरणे सूत्रम्   प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः।। 20।। षष्ठाधिकरणमारचयति- माषाद्याः प्रतिनिध्यर्हा न वाद्यस्तदवारणात्। नार्हा अयज्ञियत्वोक्तेरर्थात्तद्विनिवारणात्।। 7।। ''मौद्गं चरुं निर्वपेच्छ्रीकामः'' इत्यत्र मुद्गाभावे माषाद्याः प्रतिनिधित्वमर्हन्ति। कुतः- मुद्गकार्ये चरुनिष्पादने समर्थत्वात्। निवारकस्य प्रतिषेधवचनस्याभावाच्च। इति चेत्- मैवम्। ''अयज्ञिया वै माषाश्चणकाः कोद्रवाः'' इति माषादिधान्यत्रयस्यायज्ञियत्ववचनस्य तन्निषेधे पर्यवसानात्। तस्मात्- नार्हा माषाद्याः।। 7।।  सप्तमे स्वामिनः प्रतिनिध्यभावाधिकरणे सूत्रम्   स्वामिनः फलसमवायात्फलस्य कर्मयोगित्वात्।। 21।। सप्तमाधिकरणमारचयति- स्वामिनोऽस्ति प्रतिनिधिर्न वा द्रव्यवदस्ति सः। न मृते प्रेरकाभावाज्जीवनेऽप्यफलित्वतः।। 8।। यथा यागसाधनद्रव्यस्य प्रतिनिधिः, तथा कर्तुर्यजमानस्यापि प्रतिनिधिरस्तु। इति चेत्- मैवम्। किं यजमाने मृते सति प्रतिनिधिरन्विष्यते, किंवा कार्यान्तरव्यापृते। नाद्यः। असंभवात्। अन्यस्मिन्नपचरिते यजमानः प्रतिनिधिं गृह्णाति। वजमानेऽपचरिते कोऽन्यः प्रतिनिधिं गृह्णीयात्। को वाऽध्वर्युप्रभृतीन्प्रेरयेत्। न द्वितीयः। यजमानकार्यस्य फलित्वस्यान्यस्मिन्नसंभवात्। संभवे वा तस्यैव स्वामित्वेन प्रतिनिधित्वाभावात्। तस्मात्- नास्ति यजमानस्य प्रतिनिधिः।। 8।।  अष्टमे सत्रे कस्यचित्स्वामिनोऽपचारे प्रतिनिध्यादानाधिकरणे (सत्रन्याये) सूत्रम्   बहूनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात्।। 22।। अष्टमाधिकरणमारचयति- मृते सत्रिणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत्। स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये।। 9।। सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति। पूर्वाधिकरणे यजमानप्रतिनिधेर्निराकृतत्वात्। इति चेत्- मैवम्। भङ्ग्यन्तरेण तत्सिद्धेः। सत्रिणां कार्यद्वयम्- फलभोक्तृत्वम्, यागकर्तृत्वं च। तत्र प्रतिनिधेः फलित्वाभावेऽपि कर्तृत्वं संभवति। ऋत्विक्कार्ये कर्तत्वे प्रतिनिधिमन्तरेण साप्तदश्याभावात्षोडशैव कार्याणि निष्पद्येरन्, एकं कार्यं लुप्येत। तस्मात्- यजमानस्य प्रतिनिध्यभावेऽप्यृत्विजः प्रतिनिधिसद्भावात्पुरुषान्तरं प्रतिनिधापयितव्यम्।। 9।।  नवमे- प्रतिनिहितस्यास्वामित्वाधिकरणे सूत्राणि 23-25   स स्वामी स्यात्तत्संयोगात्।। 23।।  कर्मकरो वा भृतत्वात्।। 24।।  तस्मिंश्च फलदर्शनात्।। 25।। नवमाधिकरणमारचयति- स स्वाम्यप्युत कर्तैव स्वामी तत्स्थानगत्वतः। अनारब्धुः फलाभावादस्वामी कर्तृमात्रता।। 10।। यः सत्रिणः प्रतिनिधिः, तस्य यजमानस्थाने स्वीकृतत्वेन यजमानत्वमप्यस्ति। इति चेत्- मैवम्। आरभ्य समाप्तिपर्यन्तमनुतिष्ठतः फलं युक्तत्। प्रतिनिधिस्तु नारब्धवान्। अतः फलाभावाद्यजमानत्वं नास्ति। किंतु कर्तृत्वमात्रमेव। मृतस्य तु समाप्त्यभावेऽपि फलं समाम्नायते- 'यो दीक्षितानां प्रमीयेत, अपि तस्य फलम्' इति।। 10।।  दशमे- सत्रे प्रतिनिहितस्य यजमानधर्मग्राहिताधिकरणे सूत्रम्   स तद्धर्मा स्यात्कर्मसंयोगात्।। 26।। दशमाधिकरणमारचयति- नास्य स्युः फलिसंस्काराः कार्या वा, नाफलित्वतः। अन्येषां साप्तदश्यार्थमफलिन्यपि ते मताः।। 11।। सत्रे योऽयं प्रतिनिधिः, तस्य फलित्वाभावात्फलयोग्यताहेतवो वपनादिसंस्कारा न कर्तव्याः। इति चेत्- मैवम्। अस्य फलाभावेऽप्यस्मिन्संस्कृते सत्यन्येषां यत्साप्तदश्यम्, तत्संस्कृतेषु सप्तदशसु स्थितं भवति। ततः 'सप्तदशावराः सत्रमासीरन्' इत्येतच्छास्त्रमनुगृहीतं भवति। अन्यथा संस्कृताः षोडशैवेति तच्छास्त्रं बाध्येत। यदि बहूनां यजमानानामलाभादवरा अल्पसंख्या यजमानाः स्युः, तदाऽपि सप्तदशापेक्षिताः। न तु ततोऽप्यल्पसंख्या इत्यर्थः। तस्मात्- अफलिन्यपि तस्मिन्संस्काराः कर्तव्याः।। 11।।  एकादशे- श्रुतद्रव्यापचारे तत्सदृशस्यैव प्रतिनिधित्वाधिकरणे सूत्रम्   सामान्यं तच्चिकीर्षा हि।। 27।। एकादशाधिकरणमारचयति- किंचित्प्रतिनिधेयं स्याच्छ्रुततुल्यमुताग्रिमः। आक्षेपान्न समद्रव्ये मुख्यांशानुगमो यतः।। 12।। श्रुतव्रीह्यपचारे नीवारप्रियङ्ग्वादि किंचिद्द्रव्यं प्रतिनिधातव्यम्। प्रधानविधिना सामान्यतो द्रव्यमात्रस्याक्षिप्तत्वात्। इति चेत्- मैवम्। ''ब्रीहिभिर्यजेत'' इत्यत्र न व्रीहिः पुरोडाशं निष्पादयति। किंतु व्रीहित्वजात्युपलक्षिता अंशा एव तन्निष्पादका इत्यंशानां मुख्यद्रव्यत्वम्। ते चावयवाः सदृशे नीवारादौ बहवोऽनुगच्छन्ति। 'भूयोऽवयवसामान्यं सादृश्यम्' इत्यभ्युपगमात्। तस्मात्- अत्यन्तसदृशमेव प्रतिनिधेयम्।। 12।।  द्वादशे- द्रव्यापचारे वैकल्पिकद्रव्यान्तरानुपादानाधिकरणे सूत्राणि 28-30   निर्देशात्तु विकल्पे यत्प्रवृत्तम्।। 28।।  अशब्दमिति चेत्। 29।।  नानङ्गत्वात्।। 30।। द्वादशाधिकरणमारचयति- यवाः प्रतिनिधेयाः किं व्रीह्यर्थे तत्समा उत। मुख्यलाभादग्रिमोऽन्त्यो व्रीहिपक्षे यवाविधेः।। 13।। ब्रीहीणामसंभवे यवानां प्रतिधित्वं युक्तम्। ''यवैर्यजेत'' इति विहितत्वेन मुख्यद्रव्यलाभात्। इति चेत्- मैवम्। व्रीहियवयोर्विकल्पितत्वेन व्रीहिपक्षे यवविध्यभावात्। तस्मात्- सदृशमेव प्रतिनिधातव्यम्।। 13।।  त्रयोदशे- पूतिकस्य सोमप्रतिनिधित्वाधिकरणे सूत्रम्   वचनाच्चान्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य।। 31।। त्रयोदशाधिकरणमारचयति- सोमाभावे भवेत्पूतीविधिः प्रतिनिधावुत। नियमो वचनादाद्यो लाघवात्तन्नियम्यते।। 14।। 'यदि सोमं न विन्देत्, पूतीकानभिषुणुयात्' इति लिङ्प्रत्ययस्य विधिवाचित्वादिदं वाक्यं पूतीकलताखण्डानां विधायकम्। इति चेत्- मैवम्। सदृशतया प्रतिनिधित्वेन प्राप्तेषु पूतीकादिद्रव्येषु नियममात्रविधौ लाघवात्। तस्मात्- पूतीकद्रव्यं नियम्यते।। 14।।  चतुर्दशे- प्रतिनिध्यपचारे उपात्तद्रव्यसदृशस्य पुनः प्रतिनिधित्वाधिकणे सूत्रम्   न प्रतिनिधौ समत्वात्।। 32।। चतुर्दशाधिकरणमारचयति- प्रतिनिध्यपचारे तु तेन मुख्येन वा समम्। प्रक्रान्तत्वादग्रिमोऽन्त्यः श्रुतांशसमलाभतः।। 15।। सत्रे प्रवृत्तः पुरुषो ब्रह्मा वेदत्रयमधीतवान्। तस्मिन्मृते तादृशस्यालाभात्स्वशाखामात्राध्यायी प्रतिनिधापितः। तेन च प्रयोगः प्रक्रान्तः। तस्मिन्नप्यपचरिते पुनः पुरुषान्तरान्वषेणायां लब्धेऽपि त्रिवेदिनि तमुपेक्ष्य प्रतिनिधिना समं स्वशाखामात्राध्यायिनं गृह्णीयात्। एकवेदाध्यायिकर्तृकस्य प्रयोगस्य प्रक्रान्तत्वात्। इति चेत्- मैवम्। अध्वर्यूद्गातृहोतॄणां प्रयोगेषु प्रसक्तं वैकल्यं समाधातुं ब्रह्मणो वेदत्रयाध्ययनमपेक्षितम्। अतो मुख्येन सदृशं त्रिवेदिनमेव गृह्णीयात्। तथा सति त्रिवेदिब्रह्मप्रतिपादकश्रुत्यभिमतैर्बहुभिरंशैर्मुख्यसादृश्यं लभ्येत। तस्मात्- मुख्येन सदृशस्य ग्रहणम्, न तु प्रतिनिधिना सदृशस्य।। 15।।  पञ्चदशे- श्रुतस्यापि प्रतिनिधेरपचार उपात्तसदृशस्य पुनः प्रतिनिधित्वाधिकरणे सूत्रे 33-34   स्याच्छ्रुतिलक्षणे नियतत्वात्।। 33।।  न तदीप्सा हि।। 34।। पञ्चदशाधिकरणमारचयति- पूतीकस्यापचारे स्यात्तेन सोमेन वा समम् ।आद्यः श्रुतांशसादृश्यात्पूतीकाविधितोऽन्तिमः।। 16।। यदा सोमप्रतिनिधेः पूतीकस्यापचारः स्यात्, तदा तेन पूतीकेन सदृशं द्रव्यान्तरमुपादेयम्। ''पूतीकानभिषुणुयात्'' इति श्रुतेः पूतीकांशैः सादृश्यस्य लाभात्। इति चेत्- मैवम्। नास्ति पूतीकानां विधिः, किंतु 'नियमार्थं तद्वचनम्' इत्युक्तम्। ततः श्रुतस्य सोमसमांशस्य लाभाय सोमसमं द्रव्यान्तरमुपादेयम्।। 16।।  षोडशे- मुख्यापचारे तत्प्राप्तौ तस्यैवोपादानाधिकरणे सूत्रम्   मुख्याधिगमे मुख्यमागमो हि तदभावात्।। 35।। षोडशाधिकरणमारचयति- प्रतिनिध्युद्यमे मुख्यलाभे ग्राह्यं तु किं द्वयोः। संकल्पेन प्रतिनिधिर्मुख्यं शास्त्रार्थलाभतः।। 17।। यदा मुख्यान्व्रीहीनलब्ध्वा नीवारैः संकल्पः कृतः। तदा कथंचिद्व्रीहिलाभेऽपि संकल्पभ्रंशो मा भूदिति नीवारा एवोपादेयाः। इति चेत्- मैवम्। मुख्याः शास्त्रार्थलाभेन संकल्पं बाधित्वा व्रीहय एव कर्तव्याः।। 17।।  सप्तदशे- प्रतिनिधिना प्रारब्धे कर्मणि श्रुतद्रव्यलाभे श्रुतद्रव्येणैव समापनाधिकरणे सूत्रम्   प्रवृत्तेऽपीति चेत्। 36।। सप्तदशाधिकरणमारचयति- अमुख्ये संस्कृते मुख्यलाभे किं ग्राह्यमेतयोः। अमुख्यस्तक्षणाद्यूपः खादिरस्तक्षणात्पुनः।। 18।। यदा यूपार्थं खदिरमलब्ध्वा कदरे तक्षणादिसंस्कृते सति पश्चान्मुख्यः खदिरो यदि पशुनियोजनात्प्रागेव लभ्येत, तदा तक्षणादिसंस्कृतः प्रतिनिधिः कदर एव ग्राह्यः, असंस्कृतात्संस्कृतस्य प्रशस्तत्वात्। इति चेत्- मैवम्। मुख्ये खदिरे लब्धे पुनस्तक्षणादिसंस्कारः कर्तव्यः। तथा सति संस्कृतस्य मुख्यस्य लाभात्प्रतिनिधिः संस्कृतोऽपि परित्याज्यः।। 18।।  अष्टादशे- प्रतिनिधौ पशौ नियुक्ते श्रुतद्रव्यलाभेऽपि प्रतिनिधिनैव समापनाधिकरणे सूत्रम्   नानर्थकत्वात्।। 37।। अष्टादशाधिकरणमारचयति- पशौ नियुक्ते खदिरलाभे कार्यं पुनर्न वा। साद्गुण्याय पुनः कार्यं मुख्यावृत्तिर्गुणान्न हि।। 19।। यदा संस्कृते प्रतिनिधौ पशुर्नियुज्यते, तदूर्ध्वं खदिरो यदि लभ्येत, तदाऽपि पूर्वन्यायेन मुख्यलाभात्साद्गुण्याय मुख्ये यूपे पुनर्नियोजनं कार्यम्। इति चेत्- मैवम्। गुणभूतो यूपः। पशुनियोजनं प्रधानभूतम्। नहि गुणानुसारेण प्रधानस्यावृत्तिर्युक्ता। तस्मात्- नियोजनं पुनर्न कार्यम्।। 19।।  एकोनविंशे- संस्कारायोग्यस्यापि मुख्यस्यैवोपादानाधिकरणे सूत्रम्   द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्।। 38।। एकोनविंशाधिकरणमारचयति- अमुख्यमुख्ये संस्कारयोग्यायोग्ये तदा नु किम्। आद्यो बहुगुणालोपान्न मुख्यायास्तु लोपनम्।। 20।। अमुख्यः कदरः स्थूलत्वात्तक्षणादिसंस्कारयोग्यः, मुख्यस्तु खदिरः सूक्ष्मत्वात्तदयोग्यः। तदा तक्षणादिबहुगुणलोपो मा भूदिति प्रतिनिधिरेवादरणीयः। इति चेत्- मैवम्। मुख्यसिद्धये गुणलोपस्य सोढुं शक्यत्वात्। तस्मात्- कृशोऽपि मुख्य एवोपादेयः।। 20।।  विंशे- मुख्यस्य कार्यासाधकत्वे प्रतिनिधेरेवोपादेयताधिकरणे सूत्रम्   अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात्।। 39।। विंशाधिकरणमारचयति- नियोजनेऽप्ययोग्यश्चेत्खदिरः किं तदा भवेत्। मुख्यत्वेन स एव स्यात्तद्वैयर्थ्येन हीतरः।। 21।। यदा त्वत्यन्तकृशत्वात्तक्षणादिरहितोऽपि खदिरो नियोजनेऽप्ययोग्यः, तदाऽपि मुख्यत्वात्खदिर एवोपादेयः। इति चेत्- मैवम्। उपात्तस्य प्रयोजनाभावान्नियोजनयोग्यः प्रतिनिधिरेवोपादेयः।। 21।।  एकविंशे- प्रधाननिर्वाहकत्वेऽङ्गनिर्वाहापर्याप्तस्यापि मुख्यस्योपादानाधिकरणे सूत्रे 40-41   विधिरप्येकदेशे स्यात्।। 40।।  अपि वाऽर्थस्य शक्यत्वादेकदेशेन निर्वर्तेतार्थानामविभक्तत्वाद्गुणमात्रमितरत्तदर्थत्वात्।। 41।। एकविंशाधिकरणमारचयति- शेषकार्येष्वपूर्णाश्चेद्व्रीहयः किं तदेतरत्। व्रीहयो वा सर्वसिद्ध्यै नीवारादिकमिष्यते।। 22।। पुरोडाशतया व्रीहेः प्रधानत्वादलोप्यता। शेषकार्याणि लुप्यन्तां मुख्यवैगुण्यतो वरम्।। 23।। स्विष्टकृदिडाप्राशित्रभक्षणादीनि शेषकार्याणि तेष्वपर्याप्ताः प्रधानमात्रपर्याप्ता व्रीहयो यदा लभ्यन्ते, तदानीं सर्वकार्यसिद्धये व्रीहिभ्य इतरन्नीवारादिकमुपादेयम्। इति चेत्- मैवम्। व्रीहयः पुरोडाशार्थतया प्रधानयागनिष्पादका इति न लोपमर्हन्ति। अतः प्रधानस्यावैगुण्याय तद्द्रव्याभावे शेषकार्याणि लोपमर्हन्ति। तस्मात्- अल्पा अपि व्रीहय एवोपादेयाः।। 22।। 23।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 21, सूत्राणि41। आदितः- अधिकरणानि 407, सूत्राणि 1068। षष्ठाध्यायस्य चतुर्थः पादः पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्।  प्रथमे- अवत्तनाशे पुनरवदानार्थं प्रतिनिध्यादानाधिकरणे सूत्रे 1-2   शेषाद्द्व्यवदाननाशे स्यात्तदर्थत्वात्।। 1।।  निर्देशाद्वाऽन्यदागमयेत्।। 2।। चतुर्थपादस्य प्रथमाधिकरणमारचयति- अवत्तनाशे तच्छेषात्पुरोडाशादवद्यति। यजेदाज्येन वाद्योऽत्र मध्यपूर्वार्धसंभवात्।। 1।। कृत्स्नस्य मध्यपूर्वार्धे ये शेषस्थे न ते ततः। हविर्नाशादाज्यविधिः सुतरां सर्वनाशने।। 2।। दर्शपूर्णमासयोः पुरोडाशावदाने श्रूयते ''मध्यादवद्यति, पूर्वार्धादवद्यति'' इति। तत्र- यद्यवत्तं नश्येत्, तदानीमवशिष्टात्पुरोडाशात्पुनरप्यवदातव्यम्। कुतः- अवदानापादानयोर्मध्यपूर्वार्धयोः शिष्टेऽपि संभवात्। इति चेत्- मैवम्। कृत्स्नपुरोडाशगते मध्यपूर्वार्धे अपादानत्वेन श्रूयेते, न त्ववशिष्टभागगते मध्यपूर्वार्धे। ततो मुख्यस्य हविषो नाशादाज्यं प्रतिनिधाय यष्टव्यम्। अत एव श्रूयते ''यस्य सर्वाणि हवींषि नश्येयुः, दुष्येयुः, अपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेत'' इति। तत्र- सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्नाशमात्रे सर्वत्राज्यस्य विधिः।। 1।। 2।।  द्वितीये- स्विष्टकृदर्थावत्तनाशे पुनरवदाननिराकरणाधिकरणे सूत्रम्   अपि वा शेषभाजां स्याद्विशिष्टकारणात्।। 3।। द्वितीयाधिकरणमारचयति- इडाद्यर्थस्य नाशेऽन्यः शेषाद्ग्राह्यो न वाऽग्रिमः। शेषसत्त्वान्न शेषेऽन्यप्रतिपत्त्यवरोधनात्।। 3।। इडाभक्षणार्थं प्राशित्रभक्षणार्थं वाऽवत्तं यदि नश्येत्, तदा शेषस्य सद्भावात्तस्माच्छेषात्पुनरवदेयम्। इति चेत्- मैवम्। तस्य शेषस्यान्यया प्रतिपत्त्या शंयुवाककालीनभक्षणरूपयाऽवरुद्धत्वात्। तस्मात्- अवत्तनाशे द्रव्याभावादिडादिकं लुप्यते।। 3।।  तृतीये- ऋत्विजामेव शेषभक्षणाधिकरणे सूत्राणि 4-9   निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत्।। 4।।  सर्वैर्वा समवायात्स्यात्।। 5।।  निर्देशस्य गुणार्थत्वम्।। 6।।  प्रधाने श्रुतिलक्षणम्।। 7।।  अर्थवदिति चेत्। 8।।  न चोदनाविरोधात्।। 9।। तृतीयाधिकरणमारचयति- शेषभक्षाः किमन्येषामृत्विजां वाऽन्यभक्षणम्। ऋत्विजां परिसंख्यानात्स्वाम्यप्राप्तोक्तितोऽन्तिमः।। 4।। दर्शपूर्णमासयोर्ये प्राशित्रादिशेषभक्षाः, तेषां भक्षणमृत्विग्भ्योन्यैः कर्तव्यम्। कुतः- ऋत्विजां परिसंख्यातत्वात्। ऋत्विजां कर्मकरत्वादेव भक्षणप्राप्तौ सत्यां पुनरप्येवमाम्नायते- ''यजमानपञ्चमा इडां भक्षयन्ति'' इति। तदेतत्पुनराम्नानं परिसंख्यार्थम्- ''यजमानसहिता ऋत्विजः प्राशित्रादिकं न भक्षयेयुः'' इत्यर्थः। तस्मात्- ऋत्विग्भ्योऽन्येषां प्राशित्रादिभक्षणम्। इति चेत्- मैवम्। यजमानस्य कर्मकरत्वाभावेन पूर्वमप्राप्तं भक्षणमनेन विधीयते। तस्मात्- अपरिसंख्यातत्वादृत्विजामेव प्राशित्रादिभक्षणम्।। 4।।  चतुर्थे- कृत्स्नैकदेशभेदे प्रायश्चित्तानुष्ठानाधिकरणे सूत्राणि 10-16   अर्थसमवायात्प्रायश्चित्तमेकदेशेऽपि।। 10।।  न त्वशेषे वैगुण्यात्तदर्थं हि।। 11।।  स्याद्वा प्राप्तिनिमित्तत्वादतद्धर्मो नित्यसंयोगात्, न हि तस्य गुणार्थेनानित्यत्वात्।। 12।।  गुणानां च परार्थत्वाद्वचनाद्व्यपाश्रयः स्यात्।। 13।।  भेदार्थमिति चेत्। 14।।  शेषभूतत्वात्।। 15।।  अनर्थकश्च सर्वनाशे स्यात्।। 16।। चतुर्थाधिकरणमारचयति- कपालभेदने होमो भग्ने घृष्टेऽथवोभयोः । आद्यो भेदस्य भङ्गत्वात्संस्कार्यत्वेन मध्यमः।। 5।। संस्कृतावनिमित्तत्वान्नित्यानित्यविरोधनम् । निमित्तता समा भङ्गे घर्षे वाऽतो द्वयोर्हुतिः।। 6।। दर्शपूर्णमासयोः कपालं प्रकृत्य श्रूयते ''भिन्ने जुहोति'' इति। तत्र- भेदशब्दस्य भङ्गवाचित्वात्कपालभङ्गे सोऽयं होमः- इत्येकः पक्षः। होमस्य संस्काररूपत्वादत्यन्तभङ्गे संस्कार्याभावात्संघर्षमात्रजन्यस्येषद्भङ्गस्यापि भेदशब्दार्थत्वात्कपाले घृष्टे सत्ययं होमः- इति द्वितीयः पक्षः। संस्कारपक्षे भिन्नशब्दस्य संस्कार्यप्रतिपादकत्वेनोपक्षयान्निमित्तप्रतिपादकत्वं न स्यात्। तथा सति होमस्य नैमित्तिकत्वाभावेन नित्यत्वं वक्तव्यम्, कपालभेदस्य कादाचित्कत्वात्संस्कार्यमनित्यम्, इति नित्यानित्यसंयोगविरोधः प्राप्नोति। ततो भिन्नशब्दो निमित्तप्रतिपादकः। निमित्तत्वं च भङ्गसंघर्षयोः समानम्। तस्मात्- उभयोरपि निमित्तयोर्नैमित्तिको होमः कर्तव्य इति सिद्धान्तः।। 5।। 6।।  पञ्चमे- क्षामे सर्वदाहे प्रायश्चित्तानुष्ठानाधिकरणे (क्षामेष्टिन्याये) सूत्राणि 17-21   क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात्।। 17।।  दर्शनाद्वैकदेशे स्यात्।। 18।।  अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः।। 19।।  तद्धविःशब्दान्नैति चेत्। 20।।  स्यादन्यायत्वादिज्यागामी हविःशब्दस्तल्लिङ्गसंयोगात्।। 21।। पञ्चमाधिकरणमारचयति- क्षामे यागो द्वयोः सर्वदाहे वा पूर्ववद्द्वयोः। अंशदाहस्य नित्यत्वात्सर्वदाहे पुनर्यजिः।। 7।। दर्शपूर्णमासयोः श्रूयते ''अथ यस्य पुरोडाशौ क्षायतः, तं यज्ञं वरुणो गृह्णाति। यदा तद्धविः संतिष्ठेत, अथ स तदेव हविर्निर्वपेत्। यज्ञो हि यज्ञस्य प्रायश्चित्तिः'' इति। अस्यायमर्थः- 'यस्य यज्ञस्य पुरोडाशावाग्नेयाग्नीषोमीयौ क्षायतोऽत्यन्तदाहेन भस्मी भवतः, तं यज्ञं वरुणो गृह्णाति। न त्वयं यज्ञो यजमानस्य फलं प्रयच्छति। यदि तादृशहविष्को यज्ञ आ समाप्तेरनुष्ठीयेत, तदा तत्प्रत्यवायपरिहाराय पुनस्तदेव हविर्निरूप्य यजमानो यज्ञमनुतिष्ठेत्' इति। तत्र- पुरोडाशे क्षामे सति यो यागो विहितः स पूर्वोक्तभेदन्यायेनाल्पदाहसर्वदाहयोर्द्वयोरपि कर्तव्यः। इति चेत्- मैवम्। तप्तेषु कपालेषु पुरोडाशमवस्थाप्योपर्यङ्गारैरधिवासने कृते सति सूक्ष्मांशदाहस्य वर्जयितुमशक्यत्वेन नित्यत्वात्पुनर्यागस्यांशदाहो निमित्तं न भवति। सर्वदाहस्तु कादाचित्कत्वान्निमित्तम्- इति तत्रैवेयं प्रायश्चित्तरूपेष्टिः।। 7।।  षष्ठे- एकहविरार्तावपि पञ्चशरावनिर्वापाधिकरणे सूत्रे 22-23   यथाश्रुतीति चेत्।। 22।।  न तल्लक्षणत्वादुपपातो हि कारणम्।। 23।। षष्ठाधिकरणमारचयति- आर्तौ पञ्चशरावो यः स दोहद्वयसंक्षये । एकनाशेऽपि वाद्योऽस्तु हविर्वदुभयोक्तितः।। 8।। हविरार्त्युक्तिमात्रेण निमित्तं पर्यवस्यति। उभयोक्त्यविवक्षायामेकनाशेऽप्यसौ भवेत्।। 9।। दर्शपूर्णमासयोर्दोहौ प्रकृत्य श्रूयते ''यस्योभयं हविरार्तिमार्छेत्- ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्'' इति। सोऽयं यागो दोहद्वयक्षयं निमित्तीकृत्यानुष्ठेयः। न त्वेकदोहक्षयम्। कुतः- उभयशब्दस्य श्रुतत्वात्। आर्तिशब्दविशेषणत्वेन श्रूयमाणो हविःशब्दो यथा विवक्षितार्थः, तथा हविःशब्दविशेषणस्योभयशब्दस्यापि विवक्षितार्थत्वादुभयहविरार्तिरेव निमित्तम्। इति चेत्- मैवम्। आर्तिमात्रोपन्यासे साकाङ्क्षत्वान्निमित्तं न पर्यवस्यतीति हविःशब्दार्थो विवक्षितव्यः। तावतैव निमित्तस्य पर्यवसितत्वादुभयशब्दार्थो न विवक्षितः। हविरार्तिमात्रस्य निमित्तत्वे सति सायंदोहप्रातर्दोहार्त्योरुभयोर्निमित्तत्वं सिद्धमेवात्रोभयशब्देनानूद्यते। तस्मात्- एकनाशे द्वयनाशेऽप्यसावोदनो निर्वपणीयः।। 8।। 9।।  सप्तमे- होमाभिषवोभयकर्तुरेव भक्षणाधिकरणे सूत्रे 24-25   होमाभिषवभक्षणं च तद्वत्।। 24।।  उभाभ्यां वा न हि तयोर्धर्मशास्त्रम्।। 25।। सप्तमाधिकरणमारचयति- अभिषुत्य ततो हुत्वा खादेदेकैकहेतुता। संहत्य वा निमित्तोक्तौ साहित्याविधितोऽग्रिमः।। 10।। होमाभिषवकर्ताऽत्र भक्षाङ्गत्वेन चोद्यते। निमित्ततार्थिकी तस्मात्साहित्यं हेतुगं मतम्।। 11।। ज्योतिष्टोमे श्रूयते ''हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति'' इति। तत्र- अभिषवहोमयोरेकैक एव भक्षणहेतुः। कुतः- साहित्यस्याविधेयत्वात्। अभिषवहोमावत्र निमित्तत्वेनोच्येते। तत्र- साहित्यविधौ वाक्यं भिद्येत। अभिषवहोमौ भक्षणहेतू, तौ च सहितावित्येवं तद्भेदः। तस्मात्- 'साहित्यस्याविधेयत्वादभिषवहोमयोः प्रत्येकं भक्षणनिमित्तत्वम्' इति प्राप्ते- ब्रूमः- नात्र निमित्तत्वमुपन्यस्यते, किंतु सोमाभिषवयोः कर्तुर्भक्षणं प्रत्यङ्गत्वेन पूर्वमप्राप्तत्वाद्विधीयते। तथा सत्यभिषवहोमयोर्यन्निमित्तत्वं प्रतीयते तदार्थिकमिति वाक्यभेददोषाभावात्साहित्यं प्रतीयमानं विवक्षितमिति सहितयोरेव तयोर्निमित्तत्वम्।। 10।। 11।।  अष्टमे पुनराधानं प्रति बह्न्यनुगमद्वयस्य निमित्तताधिकरणे सूत्रे 26-27   पुनराधेयमोदनवत्।। 26।।  द्रव्योत्पत्तेर्वोभयोः स्यात्।। 27।। अष्टमाधिकरणमारचयति- एकोऽपि वह्न्यनुगमः पुनराधेयकारणम्। द्वावेव वाद्यो द्वित्वोपेक्षणात्पञ्चशराववत्।। 12।। द्वयोरुत्पादकत्वेन पुनराधेयचोदना । नैकस्यातो द्व्यनुगमो हेतुः सूर्योदयादि वा।। 13।। अग्निहोत्रे श्रूयते ''यस्योभावग्नी अनुगतावभिम्लोचेयाताम्, सूर्यो वाऽभ्युदियात्, पुनराधेयं तस्य प्रायश्चित्तिः'' इति। 'आहवनीयगार्हपत्यावुभावग्नी अनुगतौ नष्टौ यदा भवतः, तदा सूर्यास्तमय उदयो वा यदि भवेत्, तदा पुनराधेयं कर्तव्यम्' इत्यर्थः। तत्र- यथा पञ्चशराववाक्ये निमित्तविशेषणभूत उभयशब्दार्थो न विवक्षितः, तथा निमित्तस्य वह्न्यनुगमविशेषणं द्वित्वमुपेक्षणीयम्। तत् एकस्याप्यनुगमस्य निमित्तत्वमस्ति। इति चेत्- मैवम्। 'अग्नी आदधीत' इति द्वित्वविशिष्टयोरग्न्योरुत्पादनाय पुनराधेयं चोदितम्, न त्वेकस्योत्पादनाय। न ह्येकस्मिन्ननुगते द्वयोरुत्पादनं संभवति। तस्मात्- नैमित्तिकद्वित्वोपपत्तये निमित्तयोरपि वह्न्यनुगमयोर्द्वित्वं विवक्षितव्यम्। तस्मात्- अस्तमयकाल उदयकाले वा वह्निद्वयनाशः पुनरोधेयहेतुः।। 12।। 13।।  नवमे पञ्चशरावनिर्वापस्य कर्मान्तरताधिकरणे सूत्रे 28-29   पञ्चशरावस्तु द्रव्यश्रुतेः स्तात्।। 28।।  चोदना वा द्रव्यदेवताविधिरवाच्ये हि।। 29।। नवमाधिकरणमारचयति- द्रव्यप्रतिनिधिः पञ्चशरावो भिन्नकर्म वा। दोहद्वयार्तितो दर्शे द्रव्यं स्यादीप्सितत्वतः।। 14।। प्राप्ते कर्मणि नैकेन विधिना द्रव्यदेवते । शक्ये विधातुं ताभ्यां तु विशिष्टं कर्म चोद्यते।। 15।। योऽयं पञ्चशराव ओदनः पूर्वमुदाहृतः, नासौ कर्मान्तररूपः। किंतु- पूर्वस्मिन्नेव कर्मणि दोहद्वयरूपे द्रव्येऽपचरिते सति तत्प्रतिनिधिद्रव्यत्वेनायं विधीयते। कुतः- दर्शयागे द्रव्यस्यापेक्षितत्त्वात्। इति चेत्- मैवम्। ''ऐन्द्रं पञ्चशरावम्'' इति द्रव्यदेवतयोः प्रतीतौ कर्मान्तरविधेर्वाररयितुमशक्यत्वात्। यदि पूर्वस्मिन्नेव कर्मण्युभयं विधीयेत, तदा कर्मणः प्राप्तत्वादुभकयोर्द्रव्यदेवतयोर्विधौ वाक्यं भिद्येत। तस्मात्- द्रव्यदेवताभ्यां विशिष्टं कर्मान्तरं विधीयते।। 14।। 15।।  दशमे पञ्चशरावयागस्य नैमित्तिकदर्शयागाङ्गताधिकरणे सूत्रे 30-31   स प्रत्यामनेत्स्थानात्।। 30।।  अङ्गविधिर्वा निमित्तसंयोगात्।। 31।। दशमाधिकरणमारचयति- दर्शे प्रत्याम्नाय एतदङ्गं वा हविरार्तितः। दर्शयागे निवृत्तेऽस्य प्रत्याम्नायतया विधिः।। 16।। पूर्वद्रव्यविनाशेऽपि द्रव्यस्यान्यस्य संभवात्। अनिवृत्तेस्तदङ्गं स्यादार्तिवैगुण्यहानये।। 17।। पञ्चशरावद्रव्यकमिन्द्रदेवताकं यत्कर्मान्तरं कथितम्, तदेतद्दर्शयागस्य प्रतिनिधित्वेन विधीयते। कुतः- उभयहविरार्त्या दर्शयागस्य निवृत्तत्वात्। इति चेत्- मैवम्। पूर्वयोर्दधिपयसोर्नाशेऽपि पयोन्तरणे दध्यन्तरेण च दर्शेऽनुष्ठीयमाने हविरार्तिकृतं वैगुण्यं परिहरन्नयं पञ्चशरावयागो दर्शयागस्याङ्गं भवति।। 16।। 17।।  एकादशे- सत्रायागूर्याप्रवृत्तस्य विश्वजिदावश्यकताधिकरणे सूत्रे 32-33   विश्वजित्त्वप्रवृत्ते भावः कर्मणि स्यात्।। 32।।  निष्क्रयवादाच्च।। 33।। एकादशाधिकरणमारचयति- सत्रायागुरते योऽयं यजेद्विश्वजितेत्यसौ। यः कोऽप्युत प्रवृत्तः स्यादप्रवृत्तोऽथ वाऽग्रिमः।। 18।। अविशेषात्प्रवृत्तोऽस्तु सत्राङ्गं हि तथा भवेत्। निमित्तोक्तेरप्रवृत्तः प्रायश्चित्तं चरेदिदम्।। 19।। इदमाम्नायते- ''यः सत्रायागुरते स विश्वजिता यजेत'' इति। आगुरते संकल्पयतीत्यर्थः। तत्र- सत्रं संकल्प्य कश्चिदनुष्ठातुं प्रवृत्तः। अपरो न प्रवृत्तः। तयोरुभयोर्मध्ये यः कोऽपि विश्वजिता यजेतेति विशेषस्याश्रवणात्। एवम् 'अप्रवृत्त एव यजेत' इत्यपि विशेषो न श्रूयते। तस्मात्- 'अन्यतरः' इत्याद्यः पक्षः। सत्रे प्रवृत्तस्य विश्वजिदनुष्ठाने सत्राङ्गत्वं विश्वजितो लभ्यते। तस्मात्- 'प्रवृत्त एव विश्वजितं कुर्यात्'। इति द्वितीयः पक्षः। 'यः सत्रायागुरते' इति निमित्तत्वेनोपन्यासात्संकल्प्य यदि सत्रं नानुतिष्ठते, तदा प्रायश्चित्तार्थं विश्वजिद्यागं कुर्यात्- इति राद्धान्तः।। 18।। 19।।  द्वादशे- बर्हिर्वत्सयोः कालोपलक्षकताधिकरणे सूत्राणि 34-40   वत्ससंयोगे व्रतचोदना स्यात्।। 34।।  कालो वोत्पन्नसंयोगात्।। 35।।  अर्थापरिमाणाच्च।। 36।।  वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात्।। 37।।  कालस्तु स्यादचोदना।। 38।।  अनर्थकश्च कर्मसंयोगे।। 39।।  अवचनाच्च स्वशब्दस्य।। 40।। द्वादशाधिकरणमारचयति- वत्सैर्दर्शे सवत्सस्य वत्समात्रस्य वा विधिः। व्रतकालं लक्षयेद्वा वत्सयुक्ते व्रते विधिः।। 20।। भाति रागाद्व्रतप्राप्तेर्वत्समात्रं विधीयते । व्रतस्याकरणं वत्सः कालगीस्तदपाकृतेः।। 21।। दर्शपूर्णमासयोः श्रूयते ''बर्हिषा पूर्णमासे व्रतमुपैति, वत्सैरमावास्यायाम्'' इति। व्रतं भोजनम्। अत एवाम्नायते- ''अमाषममांसं बहुसर्पिष्कं व्रतयति'' इति। तदेतद्व्रतं वत्सयुक्तमत्र विधीयते। कुतः- 'वत्सैः' इति तृतीयया साहित्यस्य प्रतिभानात्- इत्येकः पक्षः। रागत एव प्राप्तत्वाद्व्रतं न विधातव्यम्, किंतु- वत्समात्रं विधेयम्- इति द्वितीयः पक्षः। न हि वत्सः पाण्यादिवद्व्रतस्य करणम्। ततो न तस्य विधिः। किंतु- वत्सानामपाकरणेन काल उपलक्ष्यते। तस्मिन्काले व्रतमुपेयात्। एवं पूर्णमासे बर्हिः संपादनकाले व्रतमुपेयात्।। 20।। 21।।  त्रयोदशे- वत्सापाकरणकालस्य संनयदसंनयदुभयसाधारणताधिकरणे सूत्रे 41-42   कालश्चेत्संनयत्पक्षे तल्लिङ्गसंयोगात्।। 41।।  कालार्थत्वाद्वोभयोः प्रतीयेत।। 42।। त्रयोदशाधिकरणमारचयति- सांनाय्यिनः स कालः स्यादितरस्यापि वाऽग्रिमः। वत्ससत्त्वाल्लक्ष्यकालो ह्यन्यस्याप्यस्त्यतोऽन्तिमः।। 22।। यस्य सांनाय्यमस्ति, तस्यैवायं व्रतकालः। कुतः- लक्षकस्य वत्सापाकरणस्य सद्भावात्। यस्त्वमावास्यायां सांनाय्यं न करोति किंत्वैन्द्राग्नपुरोडाशं करोति। न तस्य वत्सापाकरणमस्ति। नापि पौर्णमास्यां तद्विद्यते। तस्मात्- सांनाय्यिन एव स कालः। इति चेत्- मैवम्। वत्सापाकरणाभावेऽपि तदुपलक्षितकालस्य विद्यमानत्वात्। तस्मात्- सर्वस्यापि स कालः।। 22।।  चतुर्दशे- सांनाय्यरहितस्य शाखाहरणनिराकरणाधिकरणे सूत्राणि 43-47   प्रस्तरे शाखा श्रयणवत्।। 43।।  कालविधिर्वोभयोर्विद्यमानत्वात्।। 44।।  अतत्संस्कारार्थत्वाच्च।। 45।।  तस्माच्च विप्रयोगे स्यात्।। 46।।  उपवेषश्च पक्षे स्यात्।। 47।। चतुर्दशाधिकरणमारचयति- प्रस्तरं शाखया युक्तं हरेच्छाखा विधीयते। कालो वा प्रतिपत्त्यर्थः प्रवृत्त्याऽत्रोपलक्ष्यते।। 23।। आद्योऽङ्गत्वविधेर्भानात्प्रतिपत्तिमपेक्षते । शाखोपयुक्ता तेनान्त्यः प्रस्तरे प्रतिपादनात्।। 24।। दर्शपूर्णमासयोराम्नायते- ''सह शाखया प्रस्तरं प्रहरति'' इति। तत्र- प्रस्तरप्रहरणं प्रति शाखाया अनङ्गत्वेन विधिर्भासते। सत्यङ्गत्वे शाखया विना प्रस्तरप्रहरणस्य वैगुण्यप्रसङ्गात्। सांनाय्यरहितेनापि शाखा संपादनीया। इति चेत्- मैवम्। शाखा वत्सापाकरणादावुपयुक्ता। तस्याः पुनरङ्गत्वविधिर्न संभवति। विनियुक्तविनियोगस्या-न्याय्यत्वात्। तस्मात्- शाखा प्रतिपत्तिमपेक्षत इति। प्रतिपत्त्यर्थः कालः प्रस्तरप्रहरणेनोपलक्ष्यते। तथा सति यदा प्रस्तरं प्रहरति तदा शास्रामपि विद्यमानां प्रहरेत्। न तु सांनाय्यरहितेन सा संपादनीया।। 23।। 24।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य चतुर्थः पादः।। 4।। अत्र पादे- अधिकरणानि14, सूत्राणि47। आदितः- अधिकरणानि 421, सूत्राणि 1115। षष्ठाध्यायस्य पञ्चमः पादः कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्।  प्रथमे- दर्शेऽभ्युदयेष्टौ नैमित्तिकदेवतापनयाधिकरणे सूत्राणि 1-9   अभ्युदये कालापराधादिज्याचोदना स्यात्, यथापञ्चशरावे।। 1।।  अपनयो वा विद्यमानत्वात्।। 2।।  तद्रूपत्वाच्च शब्दानाम्।। 3।।  आतञ्चनाभ्यासस्य दर्शनात्।। 4।।  अपूर्वत्वाद्विधानं स्यात्।। 5।।  पयोदोषात्पञ्चशरावेऽदुष्टं हीतरत्।। 6।।  सांनाय्येऽपि तथेति चेत्। 7।।  न तस्यादुष्टत्वादविशिष्टं हि कारणम्।। 8।।  लक्षणार्थ शृतश्रुतिः।। 9।। पञ्चमपादे प्रथमाधिकरणमारचयति- इष्टिरभ्युदये दर्शात्कर्मान्यदुत देवताः। पूर्वास्त्याज्या विशिष्टस्य विधानादन्यकर्म तत्।। 1।। प्रकृतप्रत्यभिज्ञानान्न कर्मान्तरचोदना । देवताः प्रकृतास्त्यक्त्वा द्रव्यमन्याभ्य उच्यते।। 2।। दर्शपूर्णमासयोः श्रूयते ''यस्य हविर्निरूप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेत्। ये मध्यमाः स्युः, तानग्रये दात्रे पुरोडाशमष्टाकपालं कुर्यात्। ये स्थविष्ठाः, तानिन्द्राय प्रदात्रे दधंश्चरुम्। येऽणिष्ठाः, तान्विष्णवे शिपिविष्टाय शृते चरुम्'' इति। अयमर्थः- 'दर्शभ्रान्त्या चतुर्दश्यां केनचिद्धविर्निरूप्तं भवति। ततः प्रत्यूषे पूर्वस्यां दिशि चन्द्रमा अभ्युदेति तदा निरुप्तास्तण्डुलास्त्रेधा विभक्तव्याः। अखण्डिताः, ईषत्खण्डिताः, अतिसूक्ष्मकणाश्च, इति त्रैविध्यम्। ते त्रिविधा दात्रादिगुणविशिष्टेभ्योऽग्न्यादिदेवेभ्यः' इति। तत्र- इदं प्रक्रान्ताद्दर्शकर्मणोऽन्यत्कर्म। कुतः- कालापराधप्रायश्चित्तार्थं द्रव्यदेवतादिविशिष्टस्य कर्मणो विधीयमानत्वात्। तत इदं प्रायश्चित्तं कृत्वा परेद्युर्दर्शकर्म नानुष्ठेयम्- इति प्राप्ते- ब्रूमः- हविर्निरुप्तमिति प्रकृतं यद्दर्शकर्म तत्परित्यज्य कर्मान्तरविधिकल्पने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम्। अतस्तस्मिन्नेव प्रकृते कर्मणि निरुप्तहविषः पूर्वदेवताभ्यो दर्शसंबन्धिनीभ्योऽपनयोऽत्राभिधीयते। तण्डुलोपलक्षितं यद्धविर्दधिव्रीहिरूपं च पूर्वेद्युर्निरुप्तं तद्धविः पूर्वदेवतात्मनोरग्नेरिन्द्राच्च विभजेदिति देवताहविषोः परस्परविभागोऽत्र विधीयते। न तु तण्डुलानां स्थविष्ठमध्यमाणिष्ठरूपस्त्रिविधो विभागो विधीयते। तस्य प्राप्तत्वात्। 'ये मध्यमाः स्युः-' इत्यादिविनियोगभेदादर्थप्राप्तः स विभागः। ततः पूर्वदेवतास्त्यक्त्वा दातृत्वादिगुणविशिष्टाभ्योऽग्न्यादिदेवताभ्यः पूर्वं निरुप्तं हविः प्रदातव्यम्। ननु प्रतिपदि प्राप्तो निर्वापकालः, न तु दर्शे, तथा सति दर्शभ्रान्त्याऽपि चतुर्दश्यां निर्वापाभावादूर्ध्वं चन्द्रोदयो न प्राप्नोति। नैष दोषः। दघ्नो द्व्यहकालीनत्वेनार्थसिद्धे पूर्वेद्युर्दोहनातञ्चने। तदभिप्रायेण निरुप्तमित्युच्यते। यद्वा- व्रीहिनिर्वापोऽपि पूर्वेद्युर्विकल्पितः। तथा च श्रूयते ''यदि विभियादभिनोदेष्यतीति महापात्रे हवींषि निर्वपेत्'' इति। अयमर्थः- 'भ्रान्त्या प्रमाणेन वा दर्शोऽयमिति निश्चितवतश्चन्द्रोऽभ्युदेष्यतीति भीतिर्नास्ति, तदा तस्मिन्नेव दिने प्रौढपात्रे हवींषि सर्वाणि निर्वपेत्' इति। अतो निरुप्तस्यैव हविषस्तस्मिन्नेव कर्मणि कालव्यत्यासं निमित्तीकृत्य देवतान्तरसंयोगरूपः प्रयोगप्रकारभेद उपदिश्यते। ततो दर्शस्यैवायं नैमित्तिकः प्रयोगः, न तु दर्शलोपप्रायश्चित्तमिति नैमित्तिकं दर्शप्रयोगमनुष्ठाय पश्चात्स्वकाले नित्योऽपि दर्शप्रयोगोऽनुष्ठातव्यः।। 1।। 2।।  द्वितीये- उपांशुयागेऽपि देवतापनयाधिकरणे सूत्रे 10-11   उपांशुयागेऽवचनाद्यथाप्रकृति।। 10।।  अपनयो वा प्रवृत्त्या यथेतरेषाम्।। 11।। द्वितीयाधिकरणमारचयति- देवत्यागस्तथोपांशावश्रुते देवतान्तरे ।यागलोपोऽप्रसक्तत्वात्कृत्वाचिन्तेयमिष्यताम्।। 3।। पूर्वोदाहृतवाक्ये यथा पुरोडाशे सांनाय्ये च हविषि पूर्वदेवतात्यागः, तथैवोपांशुयाजहविष्याज्ये पूर्वदेवतां त्यक्त्वा प्रयोगान्तरं कर्तव्यम्। इति चेत्- मैवम्। पुरोडाशसांनाय्ययोरिवाज्ये देवतान्तरस्याश्रवणात्। तस्मात्- पूर्वदेवतानां त्यक्तत्वादन्यदेवताया अश्रवणाच्च निर्देवक उपांशुयाजो लुप्यते। ननु- उपांशुयाजस्य दर्शे प्रसक्तिरेव नास्ति। तत्कुतो देवतापनयो लोपो वा- इति चेत्- एवं तर्हि कृत्वाचिन्ताऽस्तु।। 3।।  तृतीये- अनिरुप्तेऽप्यभ्युदयेष्ट्यधिकरणे सूत्राणि 12-15   निरुप्ते स्यात्तत्संयोगात्।। 12।।  प्रवृत्ते वा प्रापणान्निमित्तस्य।। 13।।  लक्षणमात्रमितरत्।। 14।।  तथा चान्यार्थदर्शनम्।। 15।। तृतीयाधिकरणमारचयति- ऊर्ध्वं चन्द्रोदये सेष्टिर्निर्वापात्पूर्वमप्युत। उक्तेराद्योऽन्तिमः पक्षो निरुप्तेरविवक्षया।। 4।। सा पूर्वोक्ताऽभ्युदयेष्टिर्हविर्निर्वापादूर्ध्वं चन्द्रोदये सति कर्तव्या। 'निरुप्तं हविरभ्युदेति' इत्युक्तत्वात्। इति चेत्- मैवम्। हविरभ्युदयस्य निमित्तत्वे तद्विशेषणस्य निर्वापस्याविवक्षितत्वात्। अन्यथा वाक्यभेदापत्तेः। 'यच्च हविरभ्युदेति, तच्च हविर्यदि निरुप्तम्' इति वाक्यभेदः। तस्मात्- निर्वापात्प्रागपि चन्द्रोदये सत्यविहितकाले कर्मोपक्रममात्रेणेयमिष्टिः कर्तव्या।। 4।।  चतुर्थे- अनिरुप्तेऽभ्युदये वैकृतीभ्यो निर्वापाधिकरणे सूत्रे 16-17   अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यस्तण्डुलभूतेष्वपनयात्।। 16।।  व्यूर्ध्वभाग्भ्यस्त्वालेखनस्तत्कारित्वाद्देवतापनयस्य।। 17।। चतुर्थाधिकरणमारचयति- प्राक्प्राकृतीभ्यो निर्वापो वैकृतीभ्योऽपि वाऽग्रिमः। तण्डुलोक्तेर्वैकृतीभ्यो हविर्मात्रोपलक्षणात्।। 5।। निर्वापात्प्राग्यदा चन्द्रोदयः, तदा चन्द्रोदयादूर्ध्वं क्रियमाणो निर्वापः प्राकृतीभ्यो देवताभ्यो युक्तः। कुतः- 'तण्डुलान्विभजेत्' इति वाक्येन तण्डुलभावादूर्ध्वं प्राकृतदेवतापनयश्रवणात्। निर्वापस्तु व्रीहीणामेवेति तस्मिन्काले प्राकृत्योऽग्न्यादिदेवता नापनीताः। इति प्राप्ते- ब्रूमः- वैकृतीभ्यो दातृत्वादिगुणयुक्ताभ्योऽग्न्यादिदेवताभ्यो निर्वापः कर्तव्यः। कुतः- तण्डुलशब्देन हविर्मात्रस्योपलक्षणात्। अन्यथा दधिपयसोरतण्डुलत्वेन देवतापनयो न स्यात्। हविर्मात्रविवक्षायां तु व्रीहीणामपि हविष्ट्वेन प्राकृतदेवतासंबन्धमपनीय देवतान्तरसंबन्धस्य कर्तुं युक्तत्वाद्वैकृतीभ्यो निर्वपेत्।। 5।।  पञ्चमे किंचिन्निरुप्तेऽभ्युदयेऽवशिष्टस्य तूष्णीं निर्वापाधिकरणे सूत्राणि 18-20   विनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात्।। 18।।  अप्राकृतेन हि संयोगस्तत्स्थानीयत्वात्।। 19।।  अभावाच्चेतरस्य स्यात्।। 20।। पञ्चमाधिकरणमारचयति- प्राकृतीभ्योऽल्पनिर्वापेऽभ्युदये शिष्टतण्डुलान्। प्राकृतीभ्यो वैकृतीभ्यस्तूष्णीं वा निर्वपेदिह।। 6।। प्राकृतीभ्यः प्रवृत्तत्वाद्वैकृतीभ्यो निमित्ततः । शिष्टांशस्यापदार्थत्वादसंयोगादिहान्तिमः।। 7।। यदा प्राकृतीभ्यो मुष्टिमात्रे निरुप्ते सति चन्द्रोऽभ्युदेति, तदा मुष्टित्रयरूपोऽवशिष्टोंऽशः प्राकृतीभ्य एव निर्वप्तव्यः। कुतः- प्राकृतीनां प्रवृत्तत्वात्। इत्येकः पक्षः। चन्द्रोदये निमित्ते सति नैमित्तिकस्य पूर्वदेवतापनयस्यावश्यंभावाद्वैकृतीभ्योऽवशिष्टांशनिर्वापः। इति द्वितीयः पक्षः। अस्तु प्राकृतदेवतापनयो निमित्ताधीनः। अन्यदेवतासंयोगस्त्वंशस्य न संभवति। अन्याश्च देवताः प्राकृतदेवतास्थाने निवेशनीयाः। प्राकृतदेवतानां च निर्वापपदार्थेन संयोगः क्लृप्तः, न तु पदार्थांशेन। ततस्तत्स्थानपतितानां वैकृतीनां च नांशसंयोगो युक्त इत्यल्पांशस्य प्राकृतीभ्योऽपनीतत्वाद्वैकृतीभिरसंयोगाच्च तूष्णीमेव निर्वाप इति राद्धान्तः।। 6।। 7।।  षष्ठे- संनयदसंनयदुभयस्यैवाभ्युदये प्रायश्चित्ताधिकरणे सूत्राणि 21-24   सांनाय्यसंयोगान्नासंनयतः स्यात्।। 21।।  औषधसंयोगाद्वोभयोः।। 22।।  वैगुण्यान्नेतिचेत्। 23।।  नातत्संस्कारत्वात्।। 24।। षष्ठाधिकरणमारचयति- सेष्टिः सांनाय्यिनो वा स्यादन्यस्यापि दधिश्रुतेः। नान्यस्येत्यग्रिमोऽन्त्यः स्याद्देवमात्रविधानतः।। 8।। न हि सांनाय्यरहितस्य दधिपयसी विद्येते। तदभावे च 'दधनि चरुम्, शृते चरुम्' इति विधिर्न संगच्छते। तस्मात्- सांनाय्यिन एव सा पूर्वोक्ताऽभ्युदयेष्टिः। इति चेत्- मैवम्। अप्राप्ता देवता एवात्र विधीयन्ते। दधिपयसोरपि विधाने वाक्यं भिद्येत। ततः- तण्डुलवत्प्राप्तयोर्दधिपयसोरनूद्यमानतया विध्यभावात्, उदके चरुश्रपणसंभवाच्च, सांनाय्यिवदन्यस्यापि सेष्टिरस्ति।। 8।।  सप्तमे- सत्राय प्रवृत्तमात्रस्य विश्वजिदधिकरणे सूत्राणि 25-27   साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात्।। 25।।  प्रवृत्ते वा प्रापणान्निमित्तस्य।। 26।।  आदेशार्थेतरा श्रुतिः।। 27।। सप्तमाधिकरणमारचयति- सत्राय दीक्षितानां चेत्साम्युत्थानाभिवाञ्छनम्। यजेद्विश्वजिता क्रीते राजन्ये तत्पुराऽपि वा।। 9।। आद्यः सोमविभागोक्तेरक्रीते तदसंभवात्। अर्थप्राप्तविभागस्यानुवादादन्तिमो भवेत्।। 10।। इदमाम्नायते- ''यदि सत्राय दीक्षितानां साम्युत्तिष्ठासेत्, सोमं विभज्य विश्वजिता यजेत'' इति। 'सत्रिणां मध्ये यः कोऽपि सत्रैकदेशमनुष्ठाय सत्रं परित्यज्य यदि गन्तुमिच्छेत्, तदा स्वकीयं सोमं विभज्य तेन सोमेन विश्वाजिद्यागं कुर्यात्' इत्यर्थः। तदेतद्विश्वजिदनुष्ठानं सोमे क्रीते सति पश्चादुत्तिष्ठासया भवति, न तु पूर्वम्। कुतः- उच्यमानस्य सोमविभागस्य सोमक्रयात्पूर्वमसंभवात्। इति चेत्- मैवम्। नात्र सोमविभागोऽङ्गत्वेन विधीयते, किंतु क्रीतराजकस्य द्रव्यान्तरविभागवद्रागप्राप्तोऽनूद्यते। सोमग्रहणं तु प्रदर्शनार्थम्। तस्मात्- उत्तिष्ठासां निमित्तीकृत्य विश्वजिन्मात्रस्य विधानात्सोमक्रयात्प्रागप्युत्तिष्ठासोर्विश्वजिद्भवति।। 9।। 10।।  अष्टमे- ज्योतिष्टोमे दीक्षापरिमाणानां वैकल्पिकत्वाधिकरणे सूत्रम्   दीक्षापरिमाणे यथाकाम्यविशेषात्।। 28।। अष्टमाधिकरणमारचयति- ज्योतिष्टोमे द्वादश स्युर्दीक्षा एकादयोऽथवा। स्याद्भृतेर्वननादाद्यः प्रत्यक्षश्रुतितोऽन्तिमः।। 11।। ज्योतिष्टोमप्रकरणे दीक्षापक्षाः श्रूयन्ते। तान्कल्पसूत्रकार उदाजहार- ''एकादीक्षा, तिस्त्र उपसदः, पञ्चमीं प्रसुतः। तिस्त्रो वा दीक्षाः, तिस्त्र उपसदः, सप्तमीं प्रसुतः। चतुस्त्रो दीक्षाः, तिस्त्र उपसदः, अष्टमीं प्रसुतः'' इति। तथाऽन्यदपि श्रुतम्- ''द्वादश दीक्षाः'' इति। 'दीक्षणीयेष्ट्या संपन्नः संस्कारो दीक्षा। सा चैकस्मिन्दिनेऽनुष्ठानादेका भवति। तदूर्ध्वं त्रिषु दिनेषूपसन्नामका होमाः। पञ्चमे दिने सोमयागः। एवं हि त्रिषु चतुर्षु द्वादशसु वा दिनेषु दीक्षाधर्मा वाङ्नियमादयोऽनुवर्तनीयाः' इत्यर्थः। तत्र ज्योतिष्टोमे द्वादशदीक्षापक्ष उपादेयः। कुतः- ''द्वादशरात्रीर्दीक्षितो भृतिं वन्वीत'' इति श्रवणात्। यज्ञार्थं याच्ञया द्रव्यसंपादनं भृतिवननम्। तच्च नित्यम्। तत्संयोगेन द्वादशत्वपक्षोऽपि नित्यः। एकादिपक्षाणां तु विकृतिषूत्कर्षः। इति भाष्यकारस्य मतम्। तदेतत्पूर्वपक्षीकृत्य वार्तिककारेणैवं सिद्धान्तः कृतः- ''दीक्षितो भृतिं वन्वीत'' इत्येतावदेवात्र विधीयते। 'द्वादश' इत्युक्तिस्तु प्रदर्शनार्था। एवं च सति प्रत्यक्षश्रुतिसिद्धा एकादिपक्षा अबाधिता भविष्यन्ति। तस्मात्- सर्वे पक्षा ज्योतिष्ठोमे विकल्पिताः।। 11।।  नवमे- द्वादशाहे दीक्षापरिमाणनियमाधिकरणे सूत्रम्   द्वादशाहस्तु लिङ्गात्स्यात्।। 29।। नवमाधिकरणमारचयति- द्वादशाहे किमेकादिविकल्पा द्वादशैव वा। आद्यः प्रकृतिवत्षण्णां द्विकानामुक्तितोऽन्तिमः।। 12।। द्वादशाहस्य ज्योतिष्टोमविकृतित्वादेकादिदीक्षापक्षा द्वादशाहे विकल्पिताः। इति चेत्- मैवम्। ''अभीन्धत एव दीक्षाभिः'' इति श्रुतस्य दीक्षाबहुत्वस्य वाक्यशेषेण द्वादशसंख्यायां पर्यवसानात्। तथा च षट्संख्याकानि द्विकानि श्रूयन्ते- ''द्वाभ्यां लोमावद्यति, द्वाभ्यां त्वचम्, द्वाभ्यामसृक्, द्वाभ्यां मांसम्, द्वाभ्यामस्थि, द्वाभ्यां मज्जानम्'' इति। किंच- ''षट्त्रिंशदहो वा एषः, यद्द्वादशाहः'' इत्याम्नातम्। तत्र- ''उपसदो द्वादश, सुत्या द्वादश'' इत्येतदविवादम्। तथा सति- दीक्षाणां द्वादशत्वमन्तरेण षट्त्रिंशत्संख्या न पूर्यते। तस्मात्- द्वादशाहे द्वादशैव दीक्षा नियताः।। 12।।  दशमे- गवामयने माघपौर्णमास्याः पुरस्ताद्दीक्षाधिकरणे सूत्राणि 30-37   पौर्णमास्यामनियमोऽविशेषात्।। 30।।  आनन्तर्यात्तु चैत्री स्यात्।। 31।।  माघी वैकाष्टका श्रुतेः।। 32।।  अन्या अपीति चेत्। 33।।  न भक्तित्वादेषा हि लोके।। 34।।  दीक्षापराधे चानुग्रहात्।। 35।।  उत्थाने चानुप्ररोहात्।। 36।।  अस्यां च सर्वलिङ्गानि।। 37।। दशमाधिकरणमारचयति- गवानयन उक्ता तु याकाचित्पूर्णिमाऽथवा। चैत्री माघ्युत काचित्स्यादविशेषात्प्रशंसया।। 13।। चैत्री स्यात्क्रय एकाष्टकायामित्युपवर्णितम् । माघकृष्णाष्टमी त्वेकाऽष्टकातो माघपूर्णिमा।। 14।। गवामयने श्रूयते ''चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन्। तेषामेकाष्टकायां क्रयः सम्पद्यते'' इति। 'पौर्णमास्याः पूर्वस्मिंश्चतुरहे दीक्षेरन्- एकादश्यां दीक्षामारभेत। तथा सति पौर्णमास्या उपरितने सप्तमीदिने द्वादश दीक्षाः पूर्यन्ते। तत उपरितन्यामष्टम्यां सोमक्रय' इत्यर्थः। तत्र विशेषस्यानुक्तत्वाद्या काचित्पूर्णिमेत्येकः पक्षः। ''चित्रापूर्णामासे दीक्षेरन्। मुखं वा एतत्संवत्सरस्य, यच्चित्रापूर्णमासः'' इति प्रशस्यमानतया चैत्री पौर्णमासीति द्वितीयः पक्षः। याज्ञिकसमाख्यया माघकृष्णाष्टम्या एकाष्टकात्वात्तत्र सोमक्रयसम्पत्तये माघ्याः पौर्णमास्याः पूर्वस्यामेकादश्यां दीक्षारब्धव्या।  एकादशे दीक्षोत्कर्षे तन्नियमानामप्युत्कर्षाधिकरणे सूत्रे 38-39   दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात्।। 38।।  उत्कर्षो वादीक्षितत्वादविशिष्टं हि कारणम्।। 39।। एकादशाधिकरणमारचयति- कृतोऽप्यवभृथोत्कर्षे जुहुयादग्निहोत्रकम् । न वाद्योप्रतिषिद्धत्वान्मैवं दीक्षानुवर्त्तनात्।। 15।। ज्योतिष्टोमे दीक्षोपक्रमदिनमारभ्य पञ्चमे सप्तमेष्टमे वा दिने सुत्या भवति। तस्मिन्सुत्यादिने त्रिषु सवनेष्वनुष्ठितेष्ववभृथः कर्त्तव्यः। तस्मिन्कृते दीक्षानियमा निवर्त्तन्ते। तथा सति कदाचिद्दैवान्मानुषाद्वा विघ्नादवभृथस्य केषुचिद्दिनेषूतकर्षो भवति। तेषु दिनेषु दीक्षितनियमा न सन्ति। कुतः- नियमावधेरवभृथकालस्य श्रुत्युक्तस्यातिक्रान्तत्वात्। ते च नियमा एवमाम्नायन्ते। ''दीक्षितो न ददाति न पचति न जुहोति'' इति। तेषां नियमानामभावे प्रागप्यवभृथाद्दानहोमादयः कार्य्याः- इति प्राप्ते- ब्रूमः। दीक्षामोचनस्यावभृथः साधनम्, न तु कालः। अतोऽवभृथकालेऽतिक्रान्तेऽपि यावदवभृथं दीक्षानुवर्त्तत इत्यवभृथोत्कर्षे दीक्षितधर्माणां निषेधानामप्युत्कर्षाद्दानहोमादयस्तेषु न कार्याः।  द्वादशे दीक्षानुवृत्तौ प्रतिहोमनिराकरणाधिकरणे सूत्रे 40-41   तत्र प्रतिहोमो न विद्यते तथा पूर्वेषाम्।। 40।।  कालप्राधान्याच्च।। 41।। द्वादशाधिकरणमारचयति- दीक्षानुवृत्तौ कर्त्तव्यः प्रतिहोमो न वाग्रिमः। पुंदोषान्न तथाप्यस्य दीक्षायां शास्त्रवारणात्।। 16।। अवभृथोत्कर्षे दीक्षानुवृत्तौ यावत्सु दिनेष्वग्निहोत्रं न हुतम्, तावत्कालीनापराधपरिहाराय प्रतिहोमः कर्त्तव्यः। यथा सायंकालौने प्रातःकालीने वा होमे पुरुषापराधातिपतिते कालान्तरे होमः क्रियते, तद्वत्। अस्ति ह्यत्र पुरुषापराधः, अवभृथोत्कर्षस्य तत्कृतत्वात्। न खल्ववभृथोत्कर्षः शास्त्रेण विहितः। तस्मात् प्रतिहोमः कार्यः- इति प्राप्ते- ब्रूमः। भवत्ववभृथोत्कर्षोऽपराधकृतः। तथापि दीक्षायामनुवृत्तायाम् 'दीक्षितो न ददाति' इत्यादिशास्त्रेणैव होमो निवारित इति नास्ति होमकर्त्तव्यता। सायंकालीनादिहोमस्य तु कर्त्तव्यस्यैव सतोऽकरणात्प्रतिहोमः प्राप्नोतीति वैषम्यम्।  त्रयोदशे- उदवसानीयोत्कर्षेपि प्रतिहोमनिराकरणाधिकरणे सूत्रम्   प्रतिषेधाच्चोर्ध्वमवभृतादिष्टेः।। 42।। त्रयोदशाधिकरणमारचयति- दैवादुदवसानीयोत्कर्षे होमे कृतिर्न वा । कृतिर्दीक्षोत्मोचनान्नो पुनराधेयसम्मितेः।। 17।। कृतेऽवभृथे पश्चादुदवसानीयेष्टिर्विहिता। सा यदि केनापि निमित्तेनोत्कृष्टा, तदानीमवभृथेन दीक्षाया उन्मुक्तत्वात् 'दीक्षितो न ददाति' इत्यादिनिषेधाभावाद्धोमः कर्त्तव्यः। तदकरणे च प्रतिहोमः कर्तव्यः- इति चेत्- मैवम्। ''एतया पुनराधेयसम्मितयेष्ट्वाग्निहोत्रं जुहुयात्'' इति वचनेनोदवसानीयायां कृतायां पश्चादग्निहोत्राधिकारप्रतिपादनात्। अतः- तदुत्कर्षेऽग्निहोत्रं प्रतिहोमं वा न कुर्यात्।  चतुर्दशे- प्रतिहोमे सायमग्निहोत्रप्रभृत्यारम्भाधिकरणे सूत्रे 43-44   प्रतिहोमश्चेत्सायमग्निहेत्रप्रभृतीनि हूयेरन्।। 43।।  प्रातस्तु षोडशिनि।। 44।। चतुर्दशाधिकरणमारचयति- कृत्वाचिन्ताक्रमो नो चेत्प्रतिहोमेऽतिपातिनः। क्रमोऽस्त्वग्निष्टोमकादौ सायं षोडशिनीतरः।। 18।। अवभृथोदवसानीययोरुत्कर्षे होमकर्त्तव्यताम्, तदकरणे प्रतिहोमं वाभ्युपेत्य कृत्वाचिन्ता क्रियते। अवभृथोदवसानीययोरिष्ट्योरनुष्ठितयोः सत्योः पूर्वमतिपन्नानां होमानां प्रतिहोमानां प्रतिहोमा युगपद्बहवः प्राप्ताः। तेषु नियामकाभावान्नास्ति नियतः क्रमः- इति पूर्वपक्षः। अतिपत्तिक्रमस्य बुद्धिस्थस्य त्यागे कारणाभावात्प्रतिहोमेऽपि स एव क्रमः- इति राद्धान्तः। तत्र- अग्निष्टोमस्य सूर्यास्तमयात्प्रागेव समाप्तत्वात्सायंहोमः प्रथममतिपद्यते। षोडशिनस्तु रात्रौ समाप्तेः प्रातर्होमः प्रथममतिपद्यते। तस्मात्-अनेनैव क्रमेण प्रतिहोमं कुर्यात्।  पञ्चदशे- भेदनादिनिमित्तकहोमस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्राणि 45-47   प्रायश्चित्तमधिकारे सर्वत्र दोषसामान्यात्।। 45।।  प्रकरणे वा शब्दहेतुत्वात्।। 46।।  अतद्विकारश्च।। 47।। पञ्चदशाधिकरणमारचयति- भिन्ने होमो यत्र तत्र प्रकृते वा निमित्ततः। सर्वत्र स्यात्फलित्वाय प्रकृतेनैकवाक्यता।। 19।। दर्शपूर्णमासयोः श्रूयते ''भिन्ने जुहोति। स्कन्ने जुहोति'' इति। तत्र पात्रभेदस्कन्दनयोर्होमनिमित्तत्वात् क्रत्वन्तरेषु लोकव्यवहारे वा यत्र यत्र निमित्तं सम्पद्यते, तत्र सर्वत्र होतव्यमिति चेत्- मैवम्। फलकल्पनाप्रसङ्गात्। प्रकृतेन तु दर्शपूर्णमासकर्मणा सहैकवाक्यतायां तत्फलेनैव फलवत्त्वं सिध्यति। तस्मात्- दर्शपूर्णमासयोरुक्तनिमित्तेन क्रियमाणो होमस्तदङ्गम्, न तु गृहदाहेष्टिवत्स्वतन्त्रं कर्म।  षोडशे- व्यापन्नशब्दार्थनिर्णयाधिकरणे सूत्रम्   व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयते।। 48।। षोडशाधिकरणमारचयति- व्यापन्नमप्सु किं तत्स्यादनिश्चेयमहेतुतः। आर्याभोज्यं केशकीटदूषितं तत्प्रसिद्धितः।। 20।। इदमाम्नायते ''व्यापन्नमप्सु हरन्ति'' इति। तत्र व्यापन्नशब्दस्यार्थो निश्चेतुमशक्यः, शक्यो वा इति संशये निश्चायकस्य हेतोरभावादशक्यः- इति चेत्- मैवम्। केशकीटादिभिर्दूषितं यद्द्रव्यमार्य्यैरभोज्यं, तदेवात्र प्रसिद्धबलात् 'व्यापन्नम्' इति निश्चेतुं शक्यते।  सप्तदशे- अपच्छेदयौगपद्येपि प्रायश्चित्ताधिकरणे सूत्रे 49-50   विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते।। 49।।  स्याद्वा प्रतिनिमित्तत्वात्कालमात्रमेकम्।। 50।। सप्तदशाधिकरणमारचयति- उद्गातुः प्रतिहर्तुश्च सहापच्छेदनेऽस्ति न । प्रायश्चित्तमुतास्त्यत्र, न निमित्तविघाततः।। 21।। एकैकस्यैव विच्छेदकर्तृत्वान्न विहन्यते । कालमात्रं तु तत्रैकं प्रायश्चित्तमतो भवेत्।। 22।। ज्योतिष्टोमे श्रूयते ''यद्युद्गातापच्छिद्येतादक्षिणो यज्ञः संस्थाप्यः अथान्य आहृत्यस्तत्र तद्दद्यात्, यत्पूर्वस्मिन्दास्यन्स्यात्। यदि प्रतिहर्त्तापच्छिद्येत सर्वस्वं दद्यात्'' इति। अस्यायमर्थः- 'प्रातःसवने बहिष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसर्पन्ति, तदानीम् 'एकस्य पृष्ठतोऽन्यः' इत्येवं पिपीलिकावत्पङ्क्त्याकारेण गन्तव्यम्। तत्र पुरतो गन्तुः कच्छं गृहीत्वैव पृष्ठतोऽन्यो गच्छेत्। एवं सति यदि प्रमादादुद्गाता गृहीतं कच्छं मुञ्चेत्, तदा दक्षिणामदत्त्वा प्रक्रान्तो यज्ञः समापनीयः। तं समाप्य पुनरपि स यज्ञः प्रयोक्तव्यः। तस्मिन् प्रयोगे पूर्वं यद्दित्सितं द्रव्यम्, तद्दद्यात्। यदा प्रतिहर्त्ता मुञ्चेत्, तदा तस्मिन्नेव प्रयोगे सर्वस्वं दद्यात्' इति। तत्र यद्युद्गातृप्रतिहर्तारौ युगपन्मुञ्चेताम्, तदानीमुक्तं प्रायश्चित्तनिमित्तं विहन्येत। एककर्तृको ह्यपच्छेदो निमित्तत्वेन श्रुतः। अयं तूभयकर्तृकत्वान्नैकेन व्यपदेष्टुं शक्यते। तस्मात्- श्रूयमाणस्य निमित्तस्य विहतत्वान्नास्ति प्रायश्चित्तमिति प्राप्ते- ब्रूमः। द्वौ ह्यत्रापच्छेदौ, तयोरेकैकस्यैकैक एव कर्त्तेति निमित्तस्य नास्ति विघातः। कालमात्रैक्यादेकापच्छेदभ्रान्तिः। तस्मात्- निमित्तविघाताभावादस्ति प्रायश्चित्तम्।  अष्टादशे- यौगपद्येदाक्षिण्यसर्वस्वदाक्षिण्यविकल्पाधिकरणे सूत्राणि 51-53   तत्र प्रतिषेधाद्विकल्पः स्यात्।। 51।।  प्रयोगान्तरे वोभयानुग्रहः स्यात्।। 52।।  न चैकसंयोगात्।। 53।। अष्टादशाधिकरणमारचयति- समुच्चयो विकल्पो वा प्रायश्चित्तद्वयेऽग्रिमः।अदक्षिणत्वं पूर्वस्मिन्प्रयोगेऽन्यत्तु पश्चिमे।। 23।। प्रयोगे पश्चिमे नास्ति निमित्तं तेन तद्द्वयम्। प्राप्तमेकप्रयोगेऽतो विरुद्धत्वाद्विकल्प्यते।। 24।। अदक्षिणत्वं सर्वस्वदक्षिणत्वं चेति यत्प्रायश्चित्तद्वयं निमित्तभेदेन श्रुतम्। तन्निमित्तद्वयसन्निपाते समुच्चेतव्यम्। यद्यदक्षिणत्वसर्वस्वदानयोरन्योन्यविरोधः, तर्हि प्रयोगभेदेन व्यवस्थापनीयम्। अपच्छेदयुक्ते प्रथमप्रयोगे दक्षिणा न दातव्या, उत्तरप्रयोगे सर्वस्वं दातव्यम्। सत्यपि प्रयोगभेदे कर्मण एकत्वात्समुच्चयः। इति प्राप्ते- ब्रूमः। न ह्युत्तरप्रयोगेऽपच्छेदो विद्यते। न चासति निमित्ते प्रायश्चित्तं युक्तम्। तस्मात्- प्रथमप्रयोग एव निमित्तद्वयवशात्प्रायश्चित्तं प्राप्तम्। तच्चान्योन्यविरुद्धत्वाद्विकल्प्यते।  एकोनविंशे- आनुपूर्व्येणापच्छेद उत्तरापच्छेदनिमित्तप्रायश्चित्तानुष्ठानाधिकरणे सूत्रम्   पौर्वापर्ये पूर्वदौर्वल्यं प्रकृतिवत्।। 54।। एकोनविंशाधिकरणमारचयति- अपच्छेदक्रमे पूर्वः प्रबलः स्यादुतोत्तरः । असञ्जातविरोधेन पूर्वेणोत्तरबाधनम्।। 25।। निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया । न बाधकान्तरं तस्य तेन प्रबलमुत्तरम्।। 26।। उदातृप्रतिहर्तृकृतयोरपच्छेदयोर्यौगपद्ये समानबलत्वादस्तु प्रायश्चित्तयोर्विकल्पः। यदा तु क्रमेणापच्छेदौ स्याताम्, तदानीमसञ्जातविरोधित्वेन पूर्वस्य प्रबलत्वाच्छ्रुतिलिङ्गादाविवोत्तरस्य प्रवृत्तिर्निरुध्यते। इति चेत्- मैवम्। श्रुतिलिङ्गादावुत्तरस्य पूर्वसापेक्षत्वात्पूर्वेण निरोधे सत्युत्तरस्योत्पत्तिरेव नास्ति। इह तु ज्ञानद्वयमन्योन्यनिरपेक्षं वाक्यद्वयादुत्पद्यत इति नास्त्युत्पत्तिप्रतिबन्धः। उत्पद्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पूर्वज्ञानस्य बाधेनैवोत्पद्यते। ननु निरपेक्षत्वस्य समानत्वात्पूर्वज्ञानमेवोत्तरस्य बाधकमस्त्विति चेत्- न। पूर्वज्ञानोत्पत्तिदशायामविद्यमानस्योत्तरज्ञानस्य बाध्यत्वायोगात्। उत्तरकाले तु स्वयं बाधितं पूर्वज्ञानं कथमुत्तरस्य बाधकं भवेत्। न वान्यत्किञ्चिदुत्तरस्य बाधकं पश्यामः। तस्मात् उत्तरकालीनापच्छेदनिमित्तं प्रायश्चित्तमनुष्ठेयम्।  विंशे- उद्गात्रुत्तरापच्छेदेपि सर्वस्वदक्षिणादानाधिकरणे सूत्रम्   यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञेसर्ववेदसं दद्याद्यतेतरस्मिन्।। 55।। विंशाधिकरणमारचयति- उद्गातुः पश्चिमच्छेदे पुनर्यागस्य दक्षिणा । शतं द्वादशयुक्तं स्याद्यदि वा सर्ववेदसम्।। 27।। तद्दद्याद्यत्पुरा दित्सुरित्युक्तेः शतदक्षिणा ।प्रतिहर्तुः पुरा छेदात्सर्ववेदसबाधितम्।। 28।। शतदानं पूर्वयागे सर्ववेदसदित्सुता । प्राप्तेत्यूर्ध्वं प्रयोगे तद्दातव्यं सर्ववेदसम्।। 29।। यद्युद्गाता पश्चादपच्छिद्यते, तदा तस्यापच्छेदस्य प्रबलत्वात्तन्निमित्तं प्रायश्चित्तमनुष्ठेयम्। तच्च प्रायश्चित्तमीदृशम् 'प्रथमप्रयोगं दक्षिणारहितमनुष्ठाय द्वितीयप्रयोगे पूर्वं दित्सिता दक्षिणा दातव्या' इति। पूर्वं च गवां द्वादशाधिकं शतं दित्सितम्। तस्य ज्योतिष्टोमदक्षिणारूपेण विहितत्वात्। तस्मात्- 'उत्तरप्रयोगे द्वादशशतं देयम्' इति प्राप्ते- ब्रूमः। प्रतिहर्त्तुः प्रथममपच्छ्रेदे सति तन्निमित्तकं सर्वस्वदानरूपं प्रायश्चित्तं प्रथमप्रयोगे प्राप्तम्। तेन च क्रतुस्वभावप्रयुक्तस्य द्वादशशतस्य बाधात्सर्वस्वं दित्सितम्। न चोद्गात्रपच्छेदेन पश्चाद्भाविना सर्वस्वदित्सा प्रबाध्यते- इति शङ्कनीयम्, बाधकस्य दक्षिणान्तरस्य तत्रानुक्तत्वात्। यद्दित्सितम्, तदुत्तरप्रयोगे देयमित्येतावदेव तत्रोच्यते। दित्सितं च सर्वस्वमित्युक्तम्। अत उत्तरकालीनोद्गात्रपच्छेदनिमित्तेऽपि पुनःप्रयोगे पूर्वकालीनप्रतिहर्त्रपच्छेदप्रयुक्तं सर्वस्वमेव दातव्यम्।  एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम्   अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेन कर्मपृथक्त्वात्।। 56।। एकविंशाधिकरणमारचयति- अहर्गणे चेदुद्गातृच्छेद आवर्त्त्यतां गणः । किंवा यत्र दिने छेदस्तदेवावर्त्त्यतां दिनम्।। 30।। गणावृत्तिः प्रयोगैक्यात्प्रयोगेऽवान्तरः पृथक् । तेनाहरेकमावर्त्यमनङ्गत्वान्न हीतरत्।। 31।। द्वादशाहाद्यहर्गणे यदि कस्मिंश्चिदहन्युद्गातापच्छिद्येत। तदा तमहर्गणं दक्षिणारहितं समाप्य पुनरपि गण आवर्त्तनीयः। तत्र पूर्वं दित्सिता दक्षिणा दातव्या। कुतः- गणप्रयोगस्यैकत्वादिति प्राप्ते- ब्रूमः। महाप्रयोगस्यैकत्वेऽप्यवान्तरप्रयोगस्य भिन्नत्वात्तद्वशेनैकमेवाहरावर्त्तनीयम्। न ह्यन्येषामह्नामेत- दङ्गत्वमस्ति। तत्र- एकस्याह्न आवृत्तावितरावृत्तिप्रसङ्गो नास्ति। तस्मादेकस्यैवाह्न आवृत्तिः। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य पञ्चमः पादः। अत्र पादे- अधिकरणानि 21, सूत्राणि 46। आदितः- अधिकरणानि 442, सूत्राणि 1171। षष्ठाध्यायस्य षष्ठः पादः तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्।  प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11   सन्निपातेवैगुण्यात्प्रकृतिवत्तुल्यकल्पा यजेरन्।। 1।।  वचनाद्वा शिरोवत्स्यत्।। 2।।  न वानारम्भवादत्वात्।। 3।।  स्याद्वा यज्ञार्थत्वादौदुम्बरीवत्।। 4।।  न तत्प्रधानत्वात्।। 5।।  औदुम्बर्याः परार्थत्वात्कपालवत्।। 6।।  अन्येनापीतिचेत्।। 7।।  नैकत्वात्तस्य चानधिकाराच्छब्दस्य चाविभक्तत्वात्।। 8।।  सन्निपातात्तु निमित्तविघातः स्याद्बृहद्रथंतरवद्विभक्तशिष्टत्वाद्वसिष्ठनिर्वर्त्ये।। 9।।  अपि वा कृत्स्नसंयोगादविघातः प्रतीयेत स्वामित्वेनाभ सम्बन्धात्।। 10।।  साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसम्बन्धस्तस्मात्तत्र विघातः स्यात्।। 11।। षष्ठपादे प्रथमाधिकरणमारचयति- भिन्नप्रयाजादिकल्पा अपि सत्रेऽधिकारिणः ।तुल्यकल्पा एव वाद्यो वसिष्ठादिविधानतः।। 1।। नारांशसाद्यङ्गातायां स्वामित्वोद्देशपूर्वकम्। नाराशंसविधौ संनिकर्षात्साद्गुण्यतोऽन्तिमः।। 2।। प्रयाजेषु पुरुषभेदेनानुष्ठानप्रकारो भिद्यते। राजन्यवसिष्ठादीनां नाराशंसो द्वितीयः प्रयाजः। तनूनपादन्येषाम्। तत्र वसिष्ठात्रिवाध्न्यश्वशुनककण्वकश्यपसंकृतिगोत्रोत्पन्ना ये नाराशंसप्रयाजवन्तः, ये चान्ये तनूनपात्प्रयाजवन्तः, त एते भिन्नकल्पा अपि मिलित्वा सप्तदशावराः सत्रेऽधिकारिणः स्युः। कुतः- नाराशंसमुद्दिश्य तदङ्गत्वेन वसिष्ठादिविधानात्। तथा सति सत्रिणां मध्ये केषांचिद्वसिष्ठादिगोत्रजत्वेऽपि तदङ्गत्वं सिध्यति इति प्राप्ते- ब्रूमः- वसिष्ठादीन्यजमानानुद्दिश्य नाराशंसो विधीयते। तथासति विधायकपदगतस्य धात्वर्थस्य विधेयत्वात्संनिकर्षः। वसिष्ठादिविधौ तु पदान्तरोपात्तत्वाद्विप्रकर्षः। अतो वसिष्ठाद्युद्देशेन नाराशंसविधौ, नाराशंसानुष्ठाने वसिष्ठादीनां साद्गुण्यम्, इतरेषां तु वैगुण्यम्, तनूनपादनुष्ठाने तु वैपरीत्यम्। अतः सर्वथाभिन्नकल्पानां सर्वेषां साद्गुण्यं न सिध्यति। अतः साद्गुण्याय तुल्यकल्पा एवाधिकारिणः।। 1।। 2।।  द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15   वचनात्तु द्विसंयोगस्तस्मादेकस्य पाणित्वम्।। 12।।  अर्थाभावात्तु नैवं स्यात्।। 13।।  अर्थानां च विभक्तत्वान्न तच्छ्रुतेन संबन्धः।। 14।।  पाणेः प्रत्यङ्गभावादसंबन्धः प्रतीयेत।। 15।। द्वितीयाधिकरणमारचयति- सायुज्यकामौ यजतोऽनेन राजपुरोहितौ । राज्ञः पुरोहितौ राज्ञोस्तौ वा राजात्मकावुभौ।। 3।। द्वयोर्द्वंद्वसमासो वा तुल्यत्वायाग्रिमो द्वयोः । सिद्ध्यै द्वितीयो राजोक्तिसार्थत्वाय तृतीयकः।। 4।। अव्याहत्यै चतुर्थः स्याद्वचनाद्भिन्नकल्पता । तनूनपान्नराशंसौ विकल्प्येते समत्वतः।। 5।। कुलाययज्ञं प्रकृत्य श्रूयते ''अनेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्'' इति। तत्र राज्ञः परोहितस्य च भिन्नकल्पत्वात्, अभिन्नप्रयाजाकल्पत्वाय पुरोहितयोरधिकारो वाच्यः। तथा सति 'राज्ञः पुरोहितौ' इति षष्ठीसमास इत्याद्यः पक्षः। 'पुरोहितं वृणीते' इत्युपादेयगतस्यैकत्वस्य विवक्षितत्वाद्राजद्वयमन्तरेण पुरोहितद्वयासंभवात् 'राजपुरोहितश्च राजपुरोहितश्च' इत्यस्मिन्नर्थे कृतैकशेषत्वादुभयो राज्ञोः पुरोहितौ- इति द्वितीयः पक्षः। अराज्ञः पुरोहिताभावाद्व्यावर्त्याभावेन राजपदं व्यर्थम्। ततः 'राजानौ च तौ पुरोहितौ च' इति कर्मधारयसमास इति तृतीयः पक्षः। राजत्वपुरोहितत्वधर्मौ भिन्नजातिवर्तिनावेकस्मिन्व्याहतौ। तस्मात् 'राजा च पुरोहितश्च' इति द्वंद्वसमास इति चतुर्थः परिशिष्यते। तत्र वचनबलाद्भिन्नकल्पयोरपि सहाधिकारः। उभयोः समप्रधानत्वान्नाराशंसतनूनपातौ विकल्प्येते।। 4।। 5।।  तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23   सत्राणि सर्ववर्णानामविशेषात्।। 16।।  लिङ्गदर्शनाच्च।। 17।।  ब्राह्मणानां वेतरयोरार्त्विज्याभावात्।। 18।।  वचनादिति चेत्। 19।।  न स्वामित्वं हि विधीयते।। 20।।  गार्हपते वा स्यातामविप्रतिषेधात्।। 21।।  न वा कल्पविरोधात्।। 22।।  स्वामित्वादितरेषामहीने लिङ्गदर्शनम्।। 23।। तृतीयाधिकरणमारचयति- सत्रं वर्णत्रयस्योत विप्रस्यैवाविशेषतः । त्रयस्य मैवं स्वामित्वं विप्राणामृत्विजां यतः।। 6।। ''ऋद्धिकामाः सत्रमासीरन्'' इत्यत्र 'विप्राः' इति विशेषो न श्रूयते। तस्मात्- वर्णत्रयस्य सत्राधिकारः। इति चेत्- मैवम्। 'विप्राणामेवार्त्विज्यम्' इति द्वादशे वक्ष्यते। ऋत्विक्कार्ये यजमानाः सूत्रे समाम्नाताः- 'ये यजमानास्त ऋत्विजः' इति। तस्मात्- विप्राणामेव सत्रम्।। 6।।  चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26   वासिष्ठानां वा ब्रह्मत्वनियमात्।। 24।।  सर्वेषां वा प्रतिप्रसवात्।। 25।।  विश्वामित्रस्य हौत्रनियमाद्भृगुशुनकवसिष्ठानामनधिकारः।। 26।। चतुर्थाधिकरणमारचयति विप्रस्य सत्रं सर्वस्य वासिष्ठस्यैव वा भवेत्। विश्वामित्रस्यैव वाद्य ऋद्धीच्छुत्वेन मध्यमः।। 7।। ब्रह्मत्वाय ह्यवासिष्ठे ब्रह्मता स्तोमभागतः। वैश्वामित्रसमानानामेव होतृत्वसिद्धये।। 8।। ऋद्धिकामस्य सत्रं विहितम्। ब्राह्मणश्च सर्व ऋद्धिं वाञ्छति। तस्मात्- 'विप्रस्य सर्वस्य सत्राधिकारः' इत्याद्यः पक्षः। ''वासिष्ठो ब्रह्मा भवति'' इति वचनादवासिष्ठस्य ब्रह्मत्वासंभवाद्ब्रह्मत्वाय वासिष्ठस्याधिकारो वाच्यः। तथा सति भिन्नकल्पत्ववारणाय तत्तुल्यकल्पा एवाधिक्रियन्ते- इति द्वितीयः पक्षः। 'वासिष्ठो ब्रह्मा' इति वाक्यं न वासिष्ठस्य ब्रह्मत्वाधिकारबोधकम्। ''रश्मिरसि क्षयाय त्वा'' इत्यादयो मन्त्राः स्तोमभागाः, तानधीयानः स्वयमवासिष्ठोऽपि ब्रह्मतामर्हति- इति स्तोमभागप्रशंसारूपेऽर्थवादे 'वासिष्ठो ब्रह्मा' इति पठितत्वात्। तस्मात्- ''वैश्वामित्रो होता'' इति विहितस्य होतृत्वस्य सिद्धये वैश्वामित्रस्य तत्समानकल्पानां चाधिकारः, नान्येषाम्।। 7।। 8।।  पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32   विहारस्य प्रभुत्वादनग्नीनामपि स्यात्।। 27।।  सारस्वते च दर्शनात्।। 28।।  प्रायश्चित्तविधानाच्च।। 29।।  साग्नीनां वेष्टिपूर्वत्वात्।। 30।।  स्वार्थेन च प्रयुक्तत्वात्।। 31।।  संनिवापं च दर्शयति।। 32।। पञ्चमाधिकरणमारचयति- अनाधातुश्च तत्किं वाधातुरेवाग्रिमो यतः। एकस्याग्निषु तत्सिद्धिर्न स्वाग्निष्वात्मनेपदात्।। 9।। तत्सत्रमग्न्याधानरहितस्यापि संभवति। कुतः- सत्रिणां मध्ये कस्यचिदाहिताग्नित्वे तदीयेष्वग्निषु तेन सह प्रवृत्तैरनाहिताग्निभिरपि तस्य सत्रस्य साधयितुं शक्यत्वात्। इति चेत्- मैवम्। 'आदधीत' इत्यात्मनेपदमाधानफलस्य कर्तृगामितां दर्शयति। तत्फलं चाग्नीनां कर्मयोग्यता। ततो येऽनाहिताग्नयः, न तेऽधिकारिणः। यश्चाहिताग्निः, तस्यैव कर्मयोग्यत्वम्, नान्यस्य। किंच- सोमविकृतीनामिष्टिपूर्वत्वं निर्णीतम्। इष्टिश्चाधानपूर्विका। तस्मात्- आधातुरेव सत्राधिकारः।। 9।।  षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35   जुह्वादीनामप्रयुक्तत्वात्संदेहे यथाकामी प्रतीयेत।। 33।।  अपि वाऽन्यानि पात्राणि साधारणानि कुवींरन्विप्रतिषेधाच्छास्त्रकृतत्वात्।। 34।।  प्रायश्चित्तमापदि स्यात्।। 35।। जुह्वादयो यस्य कस्य कार्याः साधारणा उत। अविरोधादग्रिमोन्त्यो मृतदाहे विरोधतः।। 10।। सत्रिणां मध्ये यस्य कस्यचित्संबन्धिभिर्जुह्वादिपात्रैः सत्रं प्रयोक्तव्यम्। कुतः- अविरोधात्। अन्यदीयेष्वग्निष्वात्मनेपदं यथा विरुध्यते, नैवमत्र विरोधः कश्चिदुपलभ्यते। इति प्राप्ते- ब्रूमः- 'यस्य जुह्वादयः स चेत्सत्रमध्ये म्रियेत, तदा मृतेन सह जुह्वादयो दह्यन्ते। आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च दक्षिणहस्ते जुहूमासादयति' इत्यादिवचनैस्तदवगमात्। पात्रदाहे चावशिष्टः सत्रप्रयोगो विगुणः स्यात्। तस्मात्- साधारणा जुह्वादयः सत्रे संपादनीयाः।। 10।।  सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39   पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान्प्रत्येकस्मिन्नधिकारः स्यात्।। 36।।  लिङ्गाच्चेज्याविशेषवत्।। 37।।  न वा संयोगपृथक्त्वाद्गुणस्येज्याप्रधानत्वादसंयुक्ता हि चोदना।। 38।।  इज्यायां तद्गुणत्वाद्विशेषेण नियम्येत।। 39।। सप्तमाधिकरणमारचयति- सामिधेनीसाप्तदश्यं वैकृतं वैश्यगाम्युत। वर्णत्रयस्य वाद्योऽस्तु वैश्यकर्तृविधानतः।। 11।। प्रकृतौ पाञ्चदश्यस्य बाधकं वैश्य ईरितम् । विकृतौ त्रयगं वाक्यं त्रयोऽतोऽत्राधिकारिणः।। 12।। अध्वरकल्पादिष्विष्टिविकृतिषु श्रूयते ''सप्तदश सामिधेनीरनुब्रूयात्'' इति। तदेतत्सामिधेनीसाप्तदश्यं वैश्यस्य भवितुमर्हति। कुतः- प्रकृतौ ''सप्तदशानुब्रूयाद्वैश्यस्य'' इति वाक्येन साप्तदश्याङ्गभूतकर्तृतया वैश्यस्य विहितत्वात्। तस्मात्-साप्तदश्यद्वारा वैश्य एवाध्वरकल्पादिष्वधिक्रियते। इति प्राप्ते- ब्रूमः- प्रकृतौ ''पञ्चदश सामिधेनीरन्वाह'' इति वर्णत्रयसाधारण्येन पाञ्चदश्यं विधाय वैश्यं निमित्तीकृत्य पाञ्चदश्यबाधकतया साप्तदश्यं विहितम्। ततः साप्तदश्यवाक्यस्य प्रकृतावेवान्वयसंभवान्न विकृतिषूत्कर्षः। यत्तु विकृतिगतं साप्तदश्यवाक्यं तद्वर्णत्रयसाधारणम्। तस्मात्- अध्वरकल्पादौ वर्णत्रयाधिकारः।। 11।। 12।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य षष्ठः पादः।। 6।। अत्र पादे- अधिकरणानि 7, सूत्राणि 39। आदितः- अधिकरणानि 449, सूत्राणि 1210। षष्ठाध्यायस्य सप्तमः पादः पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः।  प्रथमे विश्वजिति पित्रादीनामदेयत्वाधिकरणे सूत्रे 1-2   स्वदाने सर्वमविशेषात्।। 1।।  यस्य वा प्रभुःस्यादितरस्याशक्यत्वात्।। 2।। सप्तमपादे प्रथमाधिकरणमारचयति- सर्वस्वदाने पित्रादावपि तद्धन एव वा। स्वत्वादाद्यः पितृत्वादावत्यागाद्धन एव तत्।। 1।। इदमामनन्ति- ''विश्वजिति सर्वस्वं ददाति'' इति। तत्र धन इव पित्रादावप्यात्मीयत्वस्य समानत्वादस्ति पित्रादीनामपि तद्दानम्। इति प्राप्ते- ब्रूमः- आत्मसंबन्धत्यागपूर्वकं परकीयस्वत्वापादनम् 'दानम्' इत्युच्यते। न हि दीयमाने पितरि स्वकीयपितृत्वत्यागः परकीयपितृत्वापादनं वा संभवति। किंच स्वशब्दस्य- 'आत्मा, ज्ञातिः, आत्मीयम्, धनं च' इति चत्वारोऽर्थाः। तेष्वेकस्मिन्प्रयोग एक एवार्थो वाच्यः। प्रकृतौ च गवादिधनस्य दक्षिणात्वादिहापि धनवाचित्वं युक्तम्। तस्माद्धनस्यैव दानम्।। 1।।  द्वितीये- विश्वजिति भूमेरदेयत्वाधिकरणे सूत्रम्   न भूमिः स्यात्सर्वान्प्रत्यविशिष्टत्वात्।। 3।। द्वितीयाधिकरणमारचयति- देया न वा महाभूमिः स्वत्वाद्राजा ददातु ताम्। पालनस्यैव राज्यत्वान्न स्वं भूर्दीयते न सा।। 2।। यदा सार्वभौमो राजा विश्वजिदादौ सर्वस्वं ददाति, तदा गोपथराजमार्गजलाशयाद्यन्विता महाभूमिस्तेन दातव्या। कुतः- भूमेस्तदीयधनत्वात्। 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' इति स्मृतेः। इति प्राप्ते- ब्रूमः- दुष्टशिक्षाशिष्टपरिपालनाभ्यां राज्ञ ईशितृत्वं स्मृत्यभिप्रेतम्- इति न राज्ञो भूमिर्धनम्। किंतु तस्यां भूमौ स्वकर्मफलं भुञ्जानानां सर्वेषां प्राणिनां साधारणं धनम्। अतोऽसाधारणस्य भूखण्डस्य सत्यपि दाने महाभूमेर्दानं नास्ति।। 2।।  तृतीये- विश्वजित्यश्वादीनामदेयताधिकरणे सूत्रम्   अकार्यत्वाच्च ततः पुनर्विशेषः स्यात्।। 4।। तृतीयाधिकरणमारचयति- दानं केसरिणां नो वा, विहितप्रतिषेधतः। विकल्पः, पर्युदासोऽयं येयजामहनीतितः।। 3।। ''न केसरिणो ददाति'' इति विश्वजिति श्रूयते। तत्र- सर्वस्वदानविधानात्, केसरिदाननिषेधाच्चाश्वदानं विकल्पितम्। इति प्राप्ते- ब्रूमः- नायं प्रतिषेधः, किंतु पर्युदासः। तत्प्रकारश्च दशमस्याष्टमे पादे ''ये यजामहे'' मन्त्रोदाहरणेन व्युत्पादयिष्यते। ततस्तेन न्यायेनाश्वपर्युदासे सति 'अश्वव्यतिरिक्तं सर्वस्वं देयम्' इति विधिनिषेधयोरेकवाक्यतालाभान्नास्त्यश्वस्य पाक्षिकमपि दानम्।। 3।।  चतुर्थे- विश्वजित्यविद्यमानसर्वस्वदाननिराकरणाधिकरणे सूत्रम्   नित्यत्वाच्चानित्यैर्नास्ति संबन्धः।। 5।। चतुर्थाधिकरणमारचयति- अर्जयित्वाऽपि किं सर्वं देयं यद्वा यदस्ति तत्। सर्वोद्देशविधेराद्यो न प्राप्ते सर्वताविधेः।। 4।। पूर्वोक्ते सर्वस्वदाने सर्वमुद्दिश्य दानं विधीयते- 'पुरुषेण भोग्यं शय्यासनादि यत्सर्वं तद्दातव्यम्' इति। तस्मात्- अविद्यमानं सर्वमर्जयित्वाऽपि देयम्। इति चेत्- मैवम्। चोदकप्राप्तं दानमुद्दिश्य सर्वत्वविधानात्। सर्वशब्दश्च प्रसिद्धवाचित्वाद्विद्यमानविषयः। तस्मात्- यदस्ति तदेव देयम्।। 4।।  पञ्चमे- विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणे सूत्रम्   शूद्रश्च धर्मशास्त्रत्वात्।। 6।। पञ्चमाधिकरणमारचयति- धर्मार्थसेवकः शूद्रो देयो नो वा, स दासवत्। देयोऽस्वत्वात्पराधीनत्वाभावाच्च न दीयते।। 5।। यस्तु शूद्रो विहितं स्वधर्ममवगन्तुं सेवते, सोऽपि सर्वस्वमध्यपतितत्वाद्गर्भदासवद्देयः। इति चेत्- मैवम्। जीविकाद्यदानेन तस्मिन्सेवके स्वत्वाभावात्, स्वेच्छाचारित्वेन परस्वत्वापादनासंभवाच्च न देयः।। 5।।  षष्ठे विश्वजिति दक्षिणाकाले विद्यमानानामेव सर्वस्वानां देयताधिकरणे सूत्रम्   दक्षिणाकाले यत्स्वं तत्प्रतीयेत तद्दानसंयोगात्।। 7।। षष्ठाधिकरणमारचयति- भूतं भावि च देयं स्यात्कालेऽवस्थितमेव वा। आद्यः सर्वश्रुतेरन्त्योऽसंभवादन्ययोस्तदा।। 6।। 'विश्वजिन्मया कर्तव्यः' इत्यध्यवसायादूर्ध्वं दक्षिणाकालात्पूर्वं यत्स्वेन भोग्यं संचितं, तद्भूतम्, यच्च दक्षिणाकालादूर्ध्वं भविष्यत्येवेति निश्चितं, तद्भावि, तदुभयमपि सर्वशब्दार्थत्वाद्दातव्यम्। इति चेत्- मैवम्। भूतस्य विनाशसंभवात्, भाविनस्तदानीमप्राप्तत्वात्, अविद्यमानस्य दानायोगाच्च दक्षिणाकालेऽवस्थितमेव सर्वं देयम्।। 6।।  सप्तमे- विश्वजिति दक्षिणादानोत्तराङ्गाणामनुष्ठानाधिकरणे सूत्राणि 8-13   अशेषत्वात्तदन्तः स्यात्कर्मणो द्रव्यसिद्धित्वात्।। 8।।  अपि वा शेषकर्म स्यात्क्रतोः प्रत्यक्षशिष्टत्वात्।। 9।।  तथा चान्यार्थदर्शनमू।। 10।।  अशेषं तु समञ्जसादानेन शेषकर्म स्यात्।। 11।।  नादानस्य नित्यत्वात्।। 12।।  दीक्षासु तु विनिर्देशादक्रत्वर्थेन संयोगस्तस्मादविरोधः स्यात्।। 13।। सप्तमाधिकरणमारचयति- दक्षिणाक्रतुभुक्त्यर्थं त्रयं देयमुतेष्टये। शिष्ट्वाऽथवा दक्षिणार्थमेवाद्यः सर्वशब्दतः।। 7।। क्रतुशेषस्तदा बाध्यः प्रधानत्वादबाधनात्। मध्योऽन्त्यो दक्षिणार्थस्यानुवादात्सर्वताविधेः।। 8।। प्रकृतौ कर्मारम्भ एव यजमानेनात्मीयं धनं वचनबलास्त्रिधा व्यवस्थापितम्- 'इदं मे भुक्त्यर्थम्, इदं मे यज्ञार्थम्, इदं मे दक्षिणार्थम्' इति। तदेतत्रयमपि दक्षिणार्थत्वाद्दातव्यम्- इत्येकः पक्षः।। दक्षिणा हि माध्यंदिनसवने दीयते। ततः ऊर्ध्वं तृतीयसवनमारभ्योदवसानीयान्तः क्रतुभागोऽवशिष्टः। स च द्रव्याभावाद्बाध्येत। न चाङ्गभूतया दक्षिणया प्रधानस्य क्रतोर्बाधो युक्तः। ततस्तदबाधाय क्रत्वर्थं भागमवस्थाप्यावशिष्टं सर्वं देयम्- इति द्वितीयः पक्षः। 'यद्दक्षिणात्वेन विधीयते, तत्सर्वम्' इत्यनूद्य विधानाद्दक्षिणार्थं एव भागो दातव्यः- इति राद्धान्तः।। 7।। 8।।  अष्टमे- अहर्गणस्थेऽपि विश्वजिति सर्वस्वदानाधिकरणे सूत्राणि 14-17   अहर्गणे च तद्धर्मा स्यात्सर्वेषामविशेषात्।। 14।।  द्वादशशतं वा प्रकृतिवत्।। 15।।  अतद्गुणत्वात्तु नैवं स्यात्।। 16।।  लिङ्गदर्शनाच्च।। 17।। अष्टमाधिकरणमारचयति- विश्वजित्यष्टरात्रादौ किं शतं द्वादशाधिकम्। सर्वं वाद्यश्चोदकोक्तेरन्त्यो नामातिदेशतः।। 9।। एतद्भाष्ये, वार्तिके तु सप्ताहानुजिघृक्षया। आद्यः सिद्धान्तितः प्राप्तिमात्रत्वेनेदमीरितम्।। 10।। इदमाम्नायते- ''अथैतस्याष्टरात्रस्य विश्वजिदभिजितावेकाहावभितः, उभयतो ज्योतिः, मध्ये षडहः पशुकामो ह्येतेन यजेत'' इति। 'ज्योतिः, गौः, आयुः' इत्येतैस्त्रिभिर्नामभिरभिधेयानां त्रयाणां यागानामारोहावरोहाभ्यामुभयतो ज्योतिः षडहो भवति। सोऽयं मध्ये प्रयोक्तव्यः। आदौ विश्वजित्। अन्तेऽभिजित्' इत्यर्थः। तत्र- अहर्गणस्य द्वादशाहविकृतित्वात्, द्वादशाहस्य च ज्योतिष्टोमविकृतित्वात्, चोदकपरम्परया द्वादशशतदक्षिणाऽष्टरात्रे प्राप्ता। ततः प्रथमस्याह्नो विश्वजितोऽपि सैव दक्षिणा- इति प्राप्ते- ब्रूमः- स्वतन्त्र एकाहो विश्वजित्। तस्य नाम्ना तदीया धर्माः प्रथमेऽहनि विश्वजित्यतिदिश्यन्ते। तस्मात्- सर्वस्वं देयम्। तदेतद्भाष्यकारस्य मतम्। वार्तिककारस्तु- 'द्वादशशतम्' इत्येवं सिद्धान्तितवान्। विश्वजिद्व्यतिरिक्तेषु सप्तस्वहःसु चोदकप्राप्तां द्वादशशतदक्षिणामबाधितुं विश्वजिति नामातिदेशप्राप्ता सर्वस्वदक्षिणा बाधनीया। युक्तो हि बहूनामनुग्रहः। न च 'विश्वजिति सर्वस्वम्, इतरत्र द्वादशत्वम्' इति वक्तुं शक्यम्। 'अहर्गणस्यैकैव दक्षिणा' इति दशमे वक्ष्यमाणत्वात्। सूत्रकारस्तु- नामातिदेशस्य प्राबल्यप्राप्तिमात्रं व्युत्पादितवानिति द्रष्टव्यम्।। 9।। 10।।  नवमे- विश्वजिति द्वादशशतन्यूनधनस्यानधिकाराधिकरणे सूत्राणि 18-20   विकारः सन्नुभयतोऽविशेषात्।। 18।।  अधिकं वा प्रतिप्रसवात्।। 19।।  अनुग्रहाच्च पादवत्।। 20।। नवमाधिकरणमारचयति- न्यूनेऽप्युक्तशतात्किं स्यात्सर्वताऽधिक एव वा। संभवादग्रिमोऽन्त्यः स्यादानत्यै सर्ववर्णनात्।। 11।। यदेतद्द्वादशशतं प्रकृतितो विश्वजिति प्राप्तम्, तस्मान्न्यूनं कस्यचिद्धनम्, तस्मिन्नपि सर्वता संभवति। विद्यमानस्यानवशेषितत्वात्। तस्मादल्पधनयुक्तस्यापि विश्वजित्यधिकारः। इति प्राप्ते- ब्रूमः- ज्योतिष्टोमे हि द्वादशशतं विधाय पश्चादुक्तम् ''यद्येतावता नानमेयुरपि सर्वस्वेन'' इति। तत्राधिकस्यैव सर्वत्वात्, इहापि तदेव युक्तम्। तत्तु चोदकप्राप्तमपि पाक्षिकत्वपरिहारायेह नियम्यते। तस्मात्- ऋत्विजां वशीकारायाधिक एव सर्वता द्रष्टव्या।  दशमे- अपरिमितशब्दस्य संख्यान्तरत्वाधिकरणे सूत्रे 21-22   अपरिमिते शिष्टस्य संख्याप्रतिषेधस्तच्छ्रुतित्वात्।। 21।।  कल्पान्तरं वा तुल्यवत्प्रसंख्यानात्।। 22।। दशमाधिकरणमारचयति- देयैका षट्शतं वाऽपरिमितं त्विति वारयेत्।एकादिकां पूर्वसंख्यां यद्वा संख्यान्तरे विधिः।। 12।। नञ्प्रयोगान्निषेधः स्याद्व्युत्पत्त्या मानशून्यता। रूढ्या बहुत्वं नैकादिनिषेधोऽन्यविधिस्ततः।। 13।। आधाने श्रूयते ''एका देया, षड्देयाः, द्वादश देयाः, चतुविंशतिर्देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयम्'' इति। तत्र- अपरिमितशब्दगतेन नञा परिमाणं निषिध्यते। तथा सत्यपरिमितशब्द-व्युत्पत्त्या देयद्रव्यस्य परिमाणशून्यता प्रतीयते। इत्येकादिका पूर्ववाक्योक्ता गवां संख्या निवार्यते। इति प्राप्ते- ब्रूमः- अपरिमितशब्दस्य रूढ्या बहुत्वमर्थः। तथैव प्रयोगबाहुल्यात्। ततो नैकादिपक्षा निवार्यन्ते, किंतु- संख्यान्तरं विधीयते।। 12।। 13।।  एकादशे- अपरिमितशब्देन सहस्राधिकग्रहणाधिकरणे सूत्राणि 23-25   अनियमोऽविशेषात्।। 23।।  अधिकं वा स्याद्बह्वर्थत्वादितरेषां संनिधानात्।। 24।।  अर्थवादश्च तद्वत्।। 25।। एकादशाधिकरणमारचयति- अर्वागपि बहुत्वं तत्सहस्रादूर्ध्वमेव वा । संभवादग्रिमोऽन्त्यः स्यात्सहस्रानन्तरोक्तितः।। 14।। अपरिमितशब्देन यद्बहुत्वं विधीयते, तत्सहस्रादर्वागपि भवति। कुतः- द्विशत त्रिशतादौ बहुत्वसंभवात्। इति चेत्- मैवम्। एकादिपक्षेषूत्तरोत्तराभिवृद्धिदर्शनेनात्रापि सहस्रपक्षमुपन्यस्य पश्चादभिधीयमानं बहुत्वं सहस्रादूर्ध्वं पर्यवस्यति।। 14।।  द्वादशे- इति ह स्मेत्यादिपरकृतिपुराकल्पानामर्थवादताधिकरणे सूत्राणि 26-30   परकृतिपुराकल्पं च मनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनम्।। 26।।  तद्युक्ते च प्रतिषेधात्।। 27।।  निर्देशाद्वा तद्धर्मः स्यात्पञ्चावत्तवत्।। 28।।  विधौ तु वेदसंयोगादुपदेशः स्यात्।। 29।।  अर्थवादो वा विधिशेषत्वात्तस्मान्नित्यानुवादः स्यात्।। 30।। द्वादशाधिकरणमारचयति- माषान्मे पचतेत्येतद्वार्ष्णिष्वेवाखिलेषु वा । उक्तेर्विधेश्च तौ पक्षौ कृत्वाचिन्ताऽर्थवादतः।। 15।। इदमाम्नायते- ''इति ह स्माह बर्कुर्वार्ष्णिः माषानेव मह्यं पचत, न वा एतेषां हविर्गृह्णाति'' इति। तत्र 'वार्ष्णिः' इत्युक्तत्वाद्वृष्णिगोत्राणामेवायं माषपाकविधिः। इति चेत्- मैवम्। वृष्णिगोत्रोत्पन्नेन बर्कुनाम्ना माषपाकस्य संबन्धो नात्र विधीयते। किंतु माषपाकमात्रम्। बर्कुसंबन्धस्तु स्तावकत्वेनोपन्यस्यते। तस्मात्- सर्वेषां माषपाकाधिकारः। तावेतौ पूर्वोत्तरपक्षौ कृत्वाचिन्तयोपन्यस्तौ। परमार्थतस्तु माषपाकवाक्यमर्थवादः, 'तस्मादारण्यमेवाश्रीयात्' इत्यनेन दर्शपूर्णमासयोरारण्याशनविधिना सह स्ताकत्वेनान्वयात्।। 15।।  त्रयोदशे- सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणे सूत्राणि 31-40   सहस्रसंवत्सरं तदायुषामसंभवान्मनुष्येषु।। 31।।  अपि वा तदधिकारान्मनुष्यधर्मः स्यात्।। 32।।  नासामर्थ्यात्।। 33।।  संबन्धादर्शनात्।। 34।।  स कुलकल्पः स्यादिति कार्ष्णाजिनिरेकस्मिन्नसंभवात्।। 35।।  अपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात्।। 36।।  विप्रतिषेधात्तु गुण्यन्यतरः स्यादिति लावुकायनः।। 37।।  संवत्सरो विचालित्वात्।। 38।।  सा प्रकृतिः स्यादधिकारात्।। 39।।  अहानि वाऽभिसंख्यत्वात्।। 40।। त्रयोदशाधिकरणमारचयति- सहस्रवत्सरं सत्रं गन्धर्वादेर्नृणामुत। रसायनेन सिद्धानां कुलकल्पोऽथवोक्तितः।। 16।। तदायुर्वाऽथ सार्धद्विशतानामुत मासगा। वत्सरोक्तिरुत द्वादशरात्रेषु दिनेषु वा।। 17।। आद्यो दीर्घायुषः सत्त्वान्नृणामेवाग्निसंभवे । द्वितीयोऽस्तु रसस्यायुरहेतुत्वे तृतीयकः।। 18।। कृत्स्नकर्तुः फलित्वेऽस्तु तुर्योऽर्थासंभवे सति। पञ्चमोऽस्तु चतुर्विंशत्युत्तमाः सत्रिणो यदि।। 19।। षष्ठोऽस्तु यो मास एव संवत्सर इतीरणात् । सहस्रमासा नाधानादूर्ध्वं चेदस्तु सप्तमः।। 20।। वत्सरप्रतिमा द्वादश रात्रय इति श्रुतेः। न रात्रिष्वब्दशब्दोऽत्र प्रतिमाया विशेषणात्।। 21।। स्वारस्यास्त्रिवृदाद्युक्तेरष्टमः पक्ष इष्यते। त्रिवृदादिपदैः स्तोमविशिष्टमहरुच्यते।। 22।। नाहःसंघस्ततोऽहःसु गौणी संवत्सराभिधा । तस्माद्विश्वसृजां सत्रं सहस्रदिनमिष्यते।। 23।। इदमाम्नायते- ''पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशाः, विश्वसृजामयनं सहस्रसंवत्सरम्'' इति तत्र सहस्रसंवत्सरसत्रे गन्धर्वादीनामेवाधिकारः, तेषां दीर्घायुषां सद्भावादित्याद्यः पक्षः। ''वसन्ते ब्राह्मणोऽग्नीनामधीत'' इत्यादिविधानान्मनुष्याणामेवाहवनीयाद्यग्नयः सम्भवन्ति, नान्येषां गन्धर्वादीनाम्। इति चेत्- तर्हि 'रसायनेन सिद्धानां दीर्घायुषां मनुष्याणामधिकारः' इत्यस्तु द्वितीयः पक्षः। रसस्यारोग्यपुष्ट्यादिजनकत्वमेव, न त्वायुर्हेतुत्वम्। इति चेत्- तर्हि 'एकस्मिन्कुले समुत्पन्नानां पितृपुत्रपौत्रादीनां बहूनां सहस्रायुः संभवात्कुलाधिकारः' इति तृतीयः पक्षोऽस्तु। कृत्स्नकर्तुः फलं भवति। न च पितृपुत्रादिष्वेकोपि कृत्स्नं करोति। तस्मात्- नास्ति फलम्। इति चेत्- तर्हि 'सत्रविधायकवचनबलादेव सत्रिणां दीर्घायुर्भविष्यति' इति चतुर्थः पक्षोस्तु। न ह्यस्य वचनस्य सोऽर्थः संभवति, तद्वाचकपदाभावात्। न च कल्पयितुं शक्यते, संभावितायुष्काणामपि सत्रान्तरेषु प्रवृत्तानां दैवान्म्रियाणानां तत्तत्सत्रविधिबलादायुर्वृद्ध्यदर्शनात्। इति चेत्- तर्हि 'पञ्चपञ्चाशतः' इत्यस्य शब्दस्य पुरुषपरत्वमङ्गीकृत्य सार्धद्विशतानां पुरुषाणामधिकारेऽभिहिते वत्सरचतुष्टयेन सत्रस्य सहस्रसंवत्सरत्वं संपद्यत इति पञ्चमः पक्षोऽस्तु। ''चतुर्विंशतिपरमाः सत्रमासीरन्'' इति वचनादभ्यधिकानां न तत्राधिकारः। इति चेत्- तर्हि 'यो मासः स संवत्सरः' इति वचनात्संवत्सरशब्दस्य मासपरत्वे सति 'सहस्रमासं सत्रम्' इत्येष षष्ठः पक्षोऽस्तु। अष्टमे वत्सर उपनीतो द्वादश वर्षाणि वेदमधीत्य विंशतिवयस्को विवाहं कृत्वा जातपुत्रोऽग्निमादधीत। तस्मात्- आधानादूर्ध्वंमस्यायुषि न सन्ति सहस्रं मासाः। इति चेत्- तर्हि 'संवत्सरस्य प्रतिमा वै द्वादश रात्रयः' इति वचनात्संवत्सरशब्दो द्वादशरात्रपरः। तथा सति रात्रीणां द्वादश सहस्राणि संपद्यन्ते। तासु च रात्रिषु षष्ट्युत्तरशतत्रयदिवसरूपसंवत्सरत्वेन गण्यमानासु त्रयस्त्रिंशत्संवत्सरेभ्य ऊर्ध्वं मासचतुष्टयं भवति। तावत्परिमितं चायुराधानादूर्ध्वमपि संभवति। इति सप्तमः पक्षोऽस्तु। ''संवत्सरप्रतिमा वै द्वादश रात्रयः'' इत्यस्मिन्वाक्ये संवत्सरशब्दो न रात्रिपरः। किं तु तेन शब्देन प्रतिमा विशिष्यते। तस्मात्- न सप्तमः पक्षो युक्तः। इति चेत्- एवं तर्हि 'संवत्सरशब्दो दिनपरः' इत्यष्टमः पक्षोऽस्तु। तथासति ''त्रिवृतः संवत्सराः'' इत्यादिवाक्यानां स्वारस्यं भवति। त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, इत्येते शब्दाः स्तोमवाचकाः सन्तः स्तोमयुक्त एकैकस्मिन्नहनि यागरूपे लक्षणया वर्तन्ते। सत्रेषु तथाविधप्रयोगबाहुल्यात्। न तु- अहःसंघे क्वचिदपि त्रिवृदादिशब्दाः प्रयुक्ताः। तैश्च शब्दैः सामानाधिकरण्यात्संवत्सरशब्दः स्वावयवभूतेऽहनि लक्षणया वर्तते। ''त्रिवृतः संवत्सराः'' इत्युक्ते 'त्रिवृत्स्तोमकयागयुक्तान्यहानि' इत्युक्तं भवति। तस्मात्- विश्वसृजामृषीणामिदं सूत्रं सहस्रदिनम्- इति राद्धान्तः।। 16।। 17।। 18।। 19।। 20।। 21।। 22।। 23।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्य सप्तमः पादः।। 7।। अत्र पादे- अधिकरणानि 13, सूत्राणि 40। आदितः- अधिकरणानि 462, सूत्राणि 1250। षष्ठाध्यायस्याष्टमः पादः लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः।।  प्रथमे- चतुर्होतृहोमेऽनाहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 1-10   इष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्यादपूर्वोऽप्याधानस्य सर्वशेषत्वात्।। 1।।  इष्टित्वेन तु संस्तवश्चतुर्होतॄनसंस्कृतेषु दर्शयति।। 2।।  उपदेशस्त्वपूर्वत्वात्।। 3।।  स सर्वेषामविशेषात्।। 4।।  अपि वा क्रत्वभावादनाहिताग्नेरशेषभूतनिर्देशः।। 5।।  जपो वाऽनग्निसंयोगात्।। 6।।  इष्टित्वेन तु संस्तुते होमः स्यादनारभ्याग्निसंयोगादितरेषामवाच्यत्वात्।। 7।।  उभयोः पितृयज्ञवत्।। 8।।  निर्देशो वाऽनाहिताग्नेरनारभ्याग्निसंयोगात्।। 9।।  पितृयज्ञे संयुक्तस्य पुनर्वचनम्।। 10।। अष्टमपादे प्रथमाधिकरणमारचयति- चतुर्होत्राख्यमन्त्रेण होमः साग्नेरुतोभयोः। अनग्निके विधिर्वाद्यो होमत्वात्क्रतुहोमवत्।। 1।। उभयोः पुरुषार्थत्वात्तृतीयो वचनात्तु तत्। अनाहिताग्नेरेषा वा इत्यग्नौ लौकिके हुतिः।। 2।। इदमाम्नायते- ''प्रजाकामं चतुर्होत्रा याजयेत्'' इति। ''पृथिवी होता, द्यौरध्वर्युः'' इत्यादिको मन्त्रश्चतुर्होता। तेन प्रजाकामं याजयेत्। सोऽयं होम आहिताग्निना कर्तव्यः, अग्निहोत्रादिक्रतुहोमेषु तथात्वदर्शतात्। इत्येकः पक्षः। अनारभ्याधीतत्वेन क्रतुप्रवेशाभावात्पुरुषार्थतया विहितो होम आहिताग्नेरनाहिताग्नेश्च साधारणः। इति द्वितीयः पक्षः। अनाहिताग्नेरयं होमविधिः- इति तृतीयः पक्षो युक्तः। कुतः- वचनबलात्। तत्तु वचनमेवमाम्नातम्- ''एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः'' इति। तस्य चाहवनीयाद्यभावाल्लौकिकेग्नौ तद्धोमः।। 1।। 2।।  द्वितीये- अनाहिताग्निषूपनयनहोमाधिकरणे सूत्राणि 11-19   उपनयन्नादधीत होमसंयोगात्।। 11।।  स्थपतीष्टिवल्लौकिके वा विद्याकर्मानुपूर्वत्वात्।। 12।।  आधानं च भार्यासंयुक्तम्।। 13।।  अकर्म चोर्ध्वमाधानात्तत्समवायो हि कर्मभिः।। 14।।  श्राद्धवदिति चेत्। 15।।  न श्रुतिविप्रतिषेधात्।। 16।।  सर्वार्थत्वाच्च पुत्रार्थो न प्रयोजयेत्।। 17।।  सोमपानात्तु प्रापणं द्वितीयस्य तस्मादुपयच्छेत्।। 18।।  पितृयज्ञे तु दर्शनात्प्रागाधानात्प्रतीयेत।। 19।। द्वितीयाधिकरणमारचयति- यस्तूपनयने होमो वैदिके वा स लौकिके। वह्नौ पूर्ववदत्रोक्तेरभावाद्वैदिकेऽस्तु सः।। 3।। आधानं विदुषो विद्याऽनुपनीतस्य नास्त्यतः। असंभवो वैदिकाग्नेर्होमोऽग्नौ लौकिके ततः।। 4।। यथा पूर्वत्रानाहिताग्नेर्होमविधायकं वाक्यमस्ति, तथोपनयनहोमस्य लौकिकाग्निविधायकवचनाभावा-दाहवनीये स होमः। इति चेत्- मैवम्। विद्वानेव ह्याधानेऽधिकारी। न च अनुपनीतस्य विद्याऽस्ति। तत आहवनीयासंभवाल्लौकिके-ऽग्नावुपनयन होमः कर्तव्यः।। 3।। 4।।  तृतीये- अनाहितेऽग्नौ स्थपतीष्ट्यधिकरणे सूत्रे 20-21   स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजयेत्तादर्थ्याच्चापवृज्येत।। 20।।  अपि वा लौकिकेऽग्नौ स्यादाधानस्यासर्वशेषत्वात्।। 21।। तृतीयाधिकरणमारचयति- स्थपतीष्टिर्वैदिकेऽग्नौ लौकिके वाद्य आक्षिपेत्। आधानमिष्टिरन्त्यः स्यादवैधेनाग्न्यसंस्कृतेः।। 5।। ''एतया निषादस्थपतिं याजयेत्'' इति विहिताया इष्टेश्चोदकप्राप्तेष्वाहवनीयादिषु कर्तव्यत्वादाधानमन्तरेणाहवनीयाभावादाधानमाक्षीप्याहिते तस्मिन्वैदिकेऽग्नावियमिष्टिः। इति चेत्- मैवम्। अत्रैवर्णिकत्वादविहितेनाधानेनाग्निसंस्कारासिद्धेः। तस्माल्लौकिकेऽग्नौ सेष्टिः।। 5।।  चतुर्थे- अनाहितेऽग्नाववकीर्णिपश्वनुष्ठानाधिकरणे सूत्रम्   अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्।। 22।। चतुर्थाधिकरणमारचयति- अवकीर्णिपशुः कुत्र विप्राद्याधानसंभवात्। वैदिके लौकिके ब्रह्मचारिण्याधानवर्जनात्।। 6।। इदमाम्नायते- ''यो ब्रह्मचार्यवकिरेत्, स गर्दभं पशुमालभेत'' इति। तत्र- अवकीर्णिनो विप्रादेस्त्रैर्वर्णिकस्याधानसंभवाद्वैदिकेऽग्नावयं पशुः। इति चेत्- मैवम्। ''जायापती अग्नीनादधीयाताम्'' इत्युक्त्या ब्रह्मचारिण आधानाभावात्। तस्मात्- लौकिकेऽग्नौ पशुः कार्यः।। 6।।  पञ्चमे- दैवकर्मणामुदगयनादिकालताधिकरणे सूत्रे 23-24   उदगयनपूर्वपक्षाहःपुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात्।। 23।।  अहनि च कर्मसाकल्यम्।। 24।। पञ्चमाधिकरणमारचयति- चौलादि सर्वदा पुण्याहादौ वाऽत्राविशेषतः। आद्योऽन्त्यः पूर्वपक्षादौ दैवानां स्मृतितो विधेः।। 7।। चौलोपनयनादीनां दैविकानां च कर्मणां तिथ्यादिविशेषस्याश्रवणात्सर्वदा तदनुष्ठानं युक्तम्। इति चेत्- मैवम्। शुक्लपक्षोत्तरायणपुण्यदिनादीनां स्मृतिषु विहितत्वात्।। 7।।  षष्ठे- ज्योतिष्टोमाङ्गयाच्ञाक्रययोर्नित्यताधिकरणे सूत्रे 26-27   याच्ञाक्रयणमविद्यमाने लोकवत्।। 26।।  नियतं वाऽर्थवत्त्वात्स्यात्।। 27।। षष्ठाधिकरणमारचयति- याच्ञाक्रयावभावे स्तो विद्यमानेऽपि वाऽग्रिमः। द्रव्यार्थत्वादपूर्वार्थं कुर्यात्तौ द्रव्यवानपि।। 8।। ज्योतिष्टोमे धनभिक्षा समाम्नाता- ''द्वादश रात्रीर्दीक्षितो भृतिं वन्वीत'' इति। सोमक्रयश्चाम्नातः- ''अरुणया पिङ्गाक्ष्या सोमं क्रीणाति'' इति। तदुभयाम्नानं च धनसोमयोर्द्रव्ययोर्लाभार्थमिति द्रव्याभावे तदनुष्ठेयम्। इति चेत्- मैवम्। इतराङ्गवदेतदुभयं क्रत्वङ्गतया नित्यवदाम्नातम्। तथा सति यदि द्रव्याभावे 'वन्वीत, क्रीणाति च' इति पाक्षिकत्वं कल्प्यते, तदा नित्यवच्छ्रवणमुपरुध्येत। तस्मात्- सत्यपि द्रव्ये तदुभयमदृष्टार्थं कर्तव्यम्।। 8।।  सप्तमे- ज्योतिष्टोमादिषु पयोव्रतादीनामपि नित्यताधिकरणे सूत्रम्   तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम्।। 28।। सप्तमाधिकरणमारचयति- अन्याभावेऽथ भावेऽपि पयोभक्षादयोऽग्रिमः। निमित्ते सत्यनुष्ठानान्नियमादृष्टतोऽन्तिमः।। 9।। ज्योतिष्टोमे श्रूयते ''पयो ब्राह्मणस्य व्रतम्'' इति। तदेतदसत्यन्यस्मिन्भक्ष्ये कर्तव्यम्। कुतः- अन्याभावस्य निमित्तत्वात्। निमित्ते सति नैमित्तिकस्यानुष्ठेयत्वात्। इति चेत्- मैवम्। नह्यत्रान्याभावो निमित्तत्वेन श्रुतः। तस्मात्- सत्यप्यन्यस्मिन्भक्ष्ये नियमादृष्टाय पय एव व्रतयेत्।एवमन्यत्रापि द्रष्टव्यम्। ''अग्नीदग्नीन्विहर'' इति प्रैषार्थे पूर्वमेवाग्नीध्रेण बुद्धेऽपि दर्शपूर्णमासयोः स प्रैषः कर्तव्यः। वाजपेये सत्यपि वस्त्रान्तरे ''दर्भभयं परिदधाति'' इति विहितमनुष्ठेयम्। पशौ ''यत्पशुर्मायुमकृत'' इति मन्त्रेण संज्ञप्तहोमो विहितः, स च मारणवेलायामकृतेऽपि पशुना शब्दे कर्तव्या।। 9।।  अष्टमे- अपररात्रे व्रतस्यानित्यताधिकरणे सूत्रम्   अनर्थकं त्वनित्यं स्यात्।। 29।। अष्टमाधिकरणमारचयति- अजीर्णसंभवे कार्यं व्रतं नो वाऽग्निमो विधेः। रोगोत्पत्त्या प्रधानस्य विरोधान्न पयोव्रतम्।। 10।। ज्योतिष्टोमे श्रूयते ''मध्यंदिनेऽपररात्रे व्रतं व्रतयति'' इति। तत्र यस्याजीर्णिः संभाविता, तेनापि विहितत्वात्पयो व्रतयितव्यमेव। इति चेत्- मैवम्। रोगोत्पत्त्या प्रधानानुष्ठाने विघ्नप्रसङ्गात्। तस्मात्- तथाविधवेलायां वयो वर्जयेत्।। 10।।  नवमे- छागस्यौवाग्नीषोमीयपशुताधिकरणे सूत्राणि 30-42  पशुचोदनायामनियमोऽविशेषात्।। 30।।  छागो वा मन्त्रवर्णात्।। 31।।  न चोदनाविरोधात्।। 32।।  आर्षेयवदिति चेत्। 33।।  न तत्र ह्यचोदितत्वात्।। 34।।  नियमो वैकार्थ्यं ह्यर्थभेदाद्भेदः पृथक्त्वेनाभिधानात्।। 35।।  अनियमो वाऽर्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम्।। 36।।  रूपाल्लिङ्गाच्च।। 37।।  छागे न कर्माख्या रूपलिङ्गाभ्याम्।। 38।।  रूपान्यत्वान्न जातिशब्दः स्यात्।। 39।।  विकारो नौत्पत्तिकत्वात्।। 40।।  स नैमित्तिकः पशोर्गुणस्याचोदितत्वात्।। 41।।  ज्ञातेर्वा तत्प्रायवचनार्थवत्त्वाभ्याम्।। 42।। नवमाधिकरणमारचयति- अग्नीषोमीयकः कोऽपि च्छाग एवोत चोदिते । अविशेषेण कोऽपि स्याच्छागो मन्त्रे विशेषणात्।। 11।। ज्योतिष्टोमे श्रूयते ''अग्नीषोमीयं पशुमालभेत'' इति। तत्र- विहिते पशौ विशेषाश्रयणाद्यः कोऽपि पशुरालब्धव्यः। इति चेत्- मैवम्। ''छागस्य वपाया मेदसोऽनुब्रूहि'' इति मन्त्रे विशेषितत्वात्। तस्मात्- छाग एवालब्धव्यः। शाखान्तरे विधावेव 'अजोऽग्नीषोमीयः' इत्येवं विशेषः श्रूयते। इति चेत्- तर्हि कृत्वाचिन्ताऽस्तु।। 11।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे षष्ठाध्यायस्याष्टमः पादः।। 8।। षष्ठोऽध्यायश्च समाप्तः।। 6।। अत्र पादे- अधिकरणानि9, सूत्राणि 42। आदितः- अधिकरणानि471, सूत्राणि 1292। सप्तमोऽध्यायः ''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः। प्रमाणाद्यधिकारान्तैः षड्विचारैर्निरूपिते ।उपदेशेऽतिदेशोऽथ तत्सापेक्षो निरूप्यते।। 1।। अनेन षष्ठसप्तमयोरध्याययोः पूर्वोत्तरभाव उपपादितः। तथा हि- यत्रापेक्षितस्यार्थजातस्य प्रतिपादको ग्रन्थसंदर्भः पठ्यते, स उपदेशः। अतिदेशस्तु पूर्वाचार्यैर्दर्शितः- अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः।अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते।।इति। प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन स्यात्सोऽतिदेश इति स्मृतः।। इति च । तत्र- उपदेशः षड्भिरध्यायैर्विचारितः। ततः षष्ठाध्यायस्योपदेशविचारित्वात्पूर्वभावित्वम्। सप्तमाध्यायस्यातिदेशविचारत्वादुत्तरभावित्वम्।। 1।।  प्रथमे- प्रयाजादिधर्माणामपूर्वप्रयुक्तताधिकरणे सूत्राणि 1-12   श्रुतिप्रमाणत्वाच्छेषाणां मुखभेदे यथाधिकारं भावः स्यात्।। 1।।  उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात्।। 2।।  चोदनाशेषभावाद्वा तद्भेदाद्व्यवतिष्ठेरन् उत्पत्तेर्गुणभूतत्वात्।। 3।।  सत्त्वे लक्षणसंयोगात्सार्वत्रिकं प्रतीयेत।। 4।।  अविभागात्तु नैवं स्यात्।। 5।।  द्व्यर्थत्वं च विप्रतिषिद्धम्।। 6।।  उत्पत्तौ विध्यभावाद्वा चोदनायां प्रवृत्तिः स्यात्ततश्च कर्मभेदः स्यात्।। 7।।  यदि वाऽप्यभिधानवत्सामान्यात्सर्वधर्मः स्यात्।। 8।।  अर्थस्य त्वविभक्तत्वात्तथा स्यादभिधानेषु पूर्ववत्त्वाप्रयोगस्य, कर्मणः शब्दभाव्यत्वाद्विभागाच्छेषाणामप्रवृत्तिः स्यात्।। 9।।  स्मृतिरिति चेत्। 10।।  न पूर्ववत्त्वात्।। 11।।  अर्थस्य शब्दभाव्यत्वात्प्रकरणनिबन्धनाच्छब्दादेवान्यत्र भावः स्यात्।। 12।। सप्तमाध्यायस्य प्रथमे पादे प्रथमाधिकरणमारचयति- सर्वार्थं प्रकृतार्थं वा प्रयाजाद्युपदेशनम्। यज्यन्वयेन सार्वाथ्यान्नातिदेशो विचार्यताम्।। 2।। अङ्गप्रधानयोर्मुख्यापूर्वभेदसमन्वयात्। प्रकृतार्थं ततः कार्यमतिदेशविचारणम्।। 3।। दर्शपूर्णमासप्रकरणे प्रयाजादय उपदिष्टाः। ज्योतिष्टोमप्रकरणे दीक्षणीयादयः। तत्र- एते सर्वे धर्माः सर्वयागार्थत्वेनोपदिश्यन्ते। कुतः- यज्यन्वयात्। यागः करणम्, प्रयाजादय इतिकर्तव्यता, इत्येतावत्तावदविवादम्। तत्र यदि प्रयाजादयो यागवदानुपूर्व्येणान्विताः स्युस्तदानीम्, अपूर्वनिष्पादकत्वमुभयत्र समानम्- इति कृत्वा करणोपकरणत्वलक्षणं सर्वसंमतमवान्तरवैषम्यं बाध्येत। किंच- अवघातपेषणादीनां यागनिष्पादकत्वेन यज्यन्वयो दृष्टः। तद्वदङ्गत्वसामान्यात्प्रयाजादीनामपि यज्यन्वयो युक्तः। यजिधातुश्च दर्शपूर्णमासज्योतिष्टोमसौर्यश्येनादिषु सर्वेषु विशेषेष्वनुगतं यागमात्रं ब्रूते। तथा सति सौर्यश्येनादिष्वप्युपदेशेनैव कृत्स्नधर्मप्राप्तेरतिदेशविचारो न कर्तव्यः। इति प्राप्ते- ब्रूमः- अपूर्वं हि मुख्यं फलित्वात्। यजिर्न मुख्यः। फलरहितत्वात्। फलवति मुख्ये प्रयाजविधानं युक्तम्। अतः करणेतिकर्तव्यतयोरुभयोरपूर्वेण प्रथममन्वयः। पश्चात्तु परस्परं गुणप्रधानभावेनान्वयः। तथा सत्यपूर्वभेदस्य द्वितीयाध्याये निरूपितत्वादपूर्वविशेषेण तत्करणभूतयजिविशेषेण वाऽन्विताः प्रयाजादिधर्मा ये यस्मिन्प्रकरण आम्नाताः, ते तत्रैव व्यवतिष्ठन्ते। सत्येवं प्रकरणमर्थवद्भवति। सर्वेषां धर्माणां सर्वत्र प्राप्तौ प्रकरणमनर्थकं स्यात्। तस्मात्- सौर्यश्येनादिप्रकरणे धर्मोपदेशाभावाद्धर्माकाङ्क्षां पूरयितुमतिदेशविचारः कर्तव्यः।। 2।। 3।।  द्वितीये- इषौ श्येनीयविशेषधर्मातिदेशाधिकरणे सूत्राणि 13-16   समाने पूर्ववत्त्वादुत्पन्नाधिकारः स्यात्।। 13।।  श्येनस्येति चेत्। 14।।  नासंनिधानात्।। 15।।  अपि वा यद्यपूर्वत्वादितरदधिकार्थे ज्यौतिष्टोमिकाद्विधेस्तद्वाचकं समानं स्यात्।। 16।। द्वितीयाधिकरणमारचयति- इषौ समानमितरच्छ्येनेनेत्यनुवादकम् । श्येनवैशेषिकाणां वाऽतिदेशोऽत्रानुवादकः।। 4।। ज्योतिष्टोमविकारत्वात्तद्धर्माश्चेदकात्समाः। श्येनेष्वोरितरत्वोक्तिरिषुवैशेषिकं प्रति।। 5।। इषुवैशेषिकादुक्तादितरच्छ्येनगं स्फुरेत् । वैशेषिकं लोहितोष्णीषादि तेनातिदिश्यते।। 6।। इषुनामकः श्येननामकश्च द्वावेकाहौ ज्योतिष्टोमविकारौ। तयोरुभयोर्ज्योतिष्टोमधर्माश्चोदकेन प्राप्ताः। ते चोभयत्र समानाः। तच्च समानत्वमिषुप्रकरणेऽनेन वाक्येनानूद्यते- 'समानमितरच्छ्येनेन' इति। ननु- अत्रेतरशब्दोक्तिरनुपपन्ना। तत्प्रतियोगिनः कस्यचिदप्यनिर्दिष्टत्वात्- इति चेत्- न। पूर्ववाक्यविहितस्य विशेषधर्मस्य प्रतियोगित्वात्। 'इषौ यो वैशेषिको धर्मो विहितः, तं परित्यज्य, इतरच्चोदकप्राप्तं सर्वं श्येनेन समानम्' इत्यर्थः। तस्मात्- 'अनुवादकमिदं वाक्यम्' इति प्राप्ते- ब्रूमः- इतरशब्दः प्रतियोगिसजातीयं ब्रूते। तद्यथा- 'देवदत्त एवाधीते, नेतरः कश्चित्' इत्युक्ते- अध्ययनप्रसक्तिमान्यज्ञदत्तादिर्माणवकः प्रतीयते, न तु गवाश्वघटपटादिः। एवमत्रापि- इषुवैशेषिकस्य पूर्ववाक्योक्तस्य प्रतियोगित्वात्तत्सजातीयं श्येनगतं लोहितोष्णीषादिरूपं वैशेषिकं धर्मजातमितरशब्देन प्रतिभाति। तच्च प्रकृतावभावान्न चोदकेन प्राप्तम्। तस्मादिषावनुष्ठेयत्वेनातिदिश्यते।। 4।। 5।। 6।।  तृतीये- पञ्चहविःषु सार्थवादविध्यतिदेशाधिकरणे सूत्राणि 17-21   पञ्चसंचरेष्वर्थवादातिदेशः संनिधानात्।। 17।।  सर्वस्य वैकशब्द्यात्।। 18।।  लिङ्गदर्शनाच्च।। 19।।  विहिताम्नानान्नेति चेत्।। 20।।  नेतरार्थत्वात्।। 21।। तृतीयाधिकरणमारचयति- वैश्वदेवब्राह्मणस्यातिदेशो वादमात्रगः। स वादाङ्गविधिस्थो वा हविर्विध्यन्वयाद्भवेत्।। 7।। अर्थवादैकनिष्ठोऽसौ मैवमङ्गविधेरपि। समानः सोऽन्वयोऽङ्गानां विधिरप्यतिदिश्यताम्।। 8।। चातुर्मास्येषु वैश्वदेव- वरुणप्रघास- साकमेध- सुनासीरीय- नामकानि चत्वारि पर्वाणि। तत्र- वैश्वदेवेष्टौ हवींषि विहितानि- ''आग्नेयमष्टाकपालं निर्वपति'' ''सौम्यं चरुम्'' ''सावित्रं द्वादशकपालम्'' ''सारस्वतं चरुम्'' ''पौष्णं चरुम्'' ''मारुतं सप्तकपालम्'' ''वैश्वदेवीमामिक्षाम्'' ''द्यावापृथिव्यमेककपालम्'' इति। तेषां हविषां ब्राह्मणेऽर्थवादः समाम्नाताः- ''वार्त्रघ्नानि वा एतानि हवींषि'' इति। अङ्गविधयोऽपि तत्राम्नाताः- ''त्रेधा बर्हिः संनद्धं भवति'' ''त्रेधा संनद्ध इध्मः'' ''नव प्रयाजा इज्यन्ते'' ''नवानूयाजाः'' इति। एवं स्थिते वरुणप्रघासेषु पूर्वोक्तान्याग्नेयादीनि पञ्चहवींषि विधाय तदीयं पूर्वोदाहृतं ब्राह्मणमेतेषु पञ्चस्वतिदिशति- ''एतद्ब्राह्मणान्येव पञ्च हवींषि, यद्ब्राह्मणानीतराणि'' इति। तत्र- अर्यवादमात्रस्यातिदेशो न्याय्यः, तस्य हविर्विधिभिः सह स्तुत्यस्तावकरूपेणान्वयसंभवात्। अङ्गविधीनां तदसंभवात्। इति चेत्- मैवम्। उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात्। तस्मात्- अर्थवादसहितानामङ्गविधीनामतिदेशः।। 7।। 8।।  चतुर्थे- एककपालैन्द्राग्नयोः सार्थवादविध्यतिदेशाधिकरणे सूत्रम्   एककपालैन्द्राग्नौ च तद्वत्।। 22।। चतुर्थाधिकरणमारचयति- श्रुतमेककपालस्य ब्राह्मणस्यातिदेशनम्। तत्पूर्ववत्तथैन्द्राग्न एतद्ब्राह्मण इत्यपि।। 9।। एककपालब्राह्मणं वैश्वदेवे वरुणप्रघासेषु च पठितम्। ऐन्द्राग्नब्राह्मणं वरुणप्रघासेष्वेवाम्नातम्। एवं स्थिते साकमेधेषु विहितयोरेककपालैन्द्राग्नयोर्ब्राह्मणातिदेश आम्नायते- ''एतद्ब्राह्मण ऐन्द्राग्नः, एतद्ब्राह्मण एककपालो यद्ब्राह्मण इतरश्चेतरश्च'' इति। तत्रोभयत्र पूर्वन्यायेनार्थवादसहिताङ्गविधिकाण्डस्य सर्वस्यातिदेशः। पूर्वन्यायस्य विषयव्याप्तये वक्ष्यमाणोदाहरणस्मारणाय बीजकथनम्।। 9।।  पञ्चमे- साकमेधे वारुणप्रघासिकैककपालातिदेशाधिकरणे सूत्रम्   एककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शनादवभृथे च सकृद्व्यवदानस्य वचनात्।। 23।। पञ्चमाधिकरणमारचयति- किं वैश्वदेविकादेककपालादतिदेशनम्। साकमेधेषु वरुणप्रघासस्थादुताग्रिमः।। 10।। प्रकृतावर्थबाहुल्यादन्तिमः संनिधानतः। ऐन्द्राग्नसाहचर्याच्च सार्थत्वमधिकत्वतः।। 11।। वैश्वदेवे द्यावापृथिव्य एककपालः, वरुणप्रघासेषु काय एककपालः। तयोः पृथग्ब्राह्मणं समाम्नातम्। साकमेधेषु वैश्वकर्मण एककपालः। तस्मिन्वैश्वदेविकैककपालब्राह्मणमतिदेष्टव्यम्। कुतः- प्रकृतित्वेन तस्मिन्नुपदिश्यमानधर्मबाहुल्यात्। वारुणप्रघासिकस्य तद्विकृतित्वादल्पा एव धर्मविशेषा उपदिष्टाः- 'शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति' इत्यादयः तत्र बह्वनुग्रहो न्याय्यः। इति प्राप्ते- वारुणप्रघासिकब्राह्मणस्य प्रत्यासन्नत्वात्तस्यैवातिदेशो युक्तः। ऐन्द्राग्नब्राह्मणं तत्रत्यमेवातिदिश्यते। वैश्वदेवे तदभावात्। तत्साहचर्यादिदमपि तत्रत्यमेव। ननु- प्रकृतिभूताद्वैश्वदेविकैककपालादेव वारुणप्रघासिक इव साकमेधीयेऽपि चोदकेन धर्मातिदेशसिद्धौ ब्राह्मणातिदेशवाक्यमिदं व्यर्थम्- इति चेत्- न। हिरण्मयत्वाद्यधिकधर्मातिदेशायापेक्षितत्वात्। तस्माद्वारुणप्रघासिकैककपालस्यैवात्रातिदेशः।। 10।। 11।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 5, सूत्राणि 23। आदितः- अधिकरणानि 476, सूत्राणि 1315। सप्तमाध्यायस्य द्वितीयः पादः रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः।  प्रथमे रथंतरादिशब्दानां गानविशेषार्थताधिकरणे सूत्राणि 1-21   साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टम्।। 1।।  शब्दैस्त्वर्थविधित्वादर्थान्तरेऽप्रवृत्तिः स्यात्पृथग्भावात्क्रियाया ह्यभिसंबन्धः।। 2।।  स्वार्थे वा स्यात्प्रयोजनं क्रियायास्तदङ्गभावेनोपदिस्येरन्।। 3।।  शब्दमात्रमिति चेत्। 4।।  नौत्पत्तिकत्वात्।। 5।।  शास्त्रं चैवमनर्थकं स्यात्।। 6।।  स्वरस्येति चेत्। 7।।  नार्थाभावाच्छ्रुतेरसंबन्धः।। 8।।  स्वरस्तूत्पत्तिषु स्यान्मात्रावर्णाविभक्तत्वात्।। 9।।  लिङ्गदर्शनाच्च।। 10।।  अश्रुतेस्तु विकारस्योत्तरामु यथाश्रुति।। 11।।  शब्दानां चासामञ्जस्यम्।। 12।।  अपि तु कर्मशब्दः स्याद्भावोऽर्थः प्रसिद्धग्रहणत्वाद्विकारो ह्यविशिष्टोऽन्यैः।। 13।।  अद्रव्यं चापि दृश्यते।। 14।।  तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वादर्थो ह्यासामलौकिको विधानात्।। 15।।  तस्मिन्संज्ञाविशेषाः स्युर्विकारपृथक्त्वात्।। 16।।  योनिशस्याश्च तुल्यवदितराभिर्विधीयन्ते।। 17।।  अयोनौ चापि दृश्यतेऽतथायोनि।। 18।।  ऐकार्थ्येनास्ति वैरूप्यमिति चेत्। 19।।  स्यादर्थान्तरेष्वनिष्पत्तेर्यथा लोके।। 20।।  शब्दानां च सामञ्जस्यम्।। 21।। द्वितीयपादे प्रथमाधिकरणमारचयति- अतिदेश्यं विनिश्चेतुं कवतीषु रथंतरम्। गायतीत्यृग्गानयुक्ता शब्दार्थो गानमेव वा।। 1।। इति चिन्ता गानयुक्ता त्वभित्वेत्यृक्प्रसिद्धितः। लाघवादतिदेशस्य योग्यत्वाच्चान्तिमो भवेत्।। 2।। इदमाम्नायते- ''कवतीषु रथंतरं गायति'' इति। ''कया नश्चित्र आभुवत्'' इत्याद्यास्तिस्त्र ऋचः कवत्यः। तासु वामदेव्यं सामाध्ययनतः प्राप्तम्। तद्बाधितुं रथंतरं साम तास्वतिदिश्यते। तत्र- अतिदेश्यस्वरूपं निश्चेतुं रथंतरशब्दस्यार्थश्चिन्त्यते। गानविशेषयुक्ता ''अभि त्वा शूर नोनुमः'' इतीयमृक् 'रथंतरम्' इत्युच्यते। कुतः- अध्येतृप्रसिद्धितः। 'रथंतरं गीयताम्' इति केनचिदुक्ता अध्येतारः स्वरस्तोभविशेषयुक्ताम् ''अभि त्वा'' इत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम्। तस्मात्- गानविशिष्टाया ऋचो रथंतरशब्दार्थत्वम्। इति प्राप्ते- ब्रूमः- स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षरव्यतिरिक्तं यद्गानम्, तदेव रथंतरशब्दस्यार्थः। कुतः- लाघवात्। किंच- कवतीष्वृक्षु गानमतिदेष्टुं योग्यम्। न त्वृचस्तद्योग्यताऽस्ति। ''कया नः'' ''अभि त्वा'' इत्यनयोर्ऋचोर्युगपदाधाराधेयभावेन पठितुमशक्यत्वात्। तस्माद्गानविशेष एव रथंतरादिशब्दार्थः।। 1।। 2।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि1, सूत्राणि 21। आदितः- अधिकरणानि 447, सूत्राणि 1336। सप्तमाध्यायस्य तृतीयः पादः अग्निहोत्रनाम्नाऽतिदेशः।  प्रथमे- अग्निहोत्रादिनाम्ना धर्मातिदेशाधिकरणे सूत्राणि 1-4   उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात्।। 1।।  अपूर्वे वाऽपि भागित्वात्।। 2।।  नाम्नास्त्वौत्पत्तिकत्वात्।। 3।।  प्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात्, तदभावेऽप्रसिद्धं स्यात्।। 4।। तृतीयपादे प्रथमाधिकरणमारचयति- मासं जुहोत्यग्निहोत्रमिति नामाग्निहोत्रतः । नित्यान्मासाग्निहोत्रेऽस्मिन्धर्माणां नातिदेशकम्।। 1।। उतातिदेशकं नैव द्वयोर्नाम्नः समत्वतः। अग्नये होत्रमित्यस्य नित्ये संपादितत्वतः।। 2।। तत्र मुख्यं ततोऽन्यत्र गौणत्वस्य प्रसिद्धये। नित्याग्निहोत्रगान्धर्मांस्तन्नामातिदिशेदिह।। 3।। कौण्डपायिनामयने श्रूयते ''मासमग्निहोत्रं जुहोति'' इति। तत्र- 'अग्निहोत्रम्' इत्येतन्नाम नित्याग्निहोत्रादस्मिन्मासाग्निहोत्रे धर्मानतिदेष्टुं नार्हति। कुतः- तस्य नाम्न उभयोरग्निहोत्रयोर्मुख्यवृत्त्या समानत्वात्। इति प्राप्ते- ब्रूमः- 'अग्नये होत्रं यस्मिन्कर्मणि तदग्निहोत्रम्' इत्येतमवयवार्थं नित्याग्निहोत्रे संपाद्य तन्नामधेयत्वं प्रथमाध्याये (तत्प्रख्यं चान्यशास्त्रम् 1। 4। 4 इति सूत्रे) निर्णीतम्। अतस्तत्रैवायं शब्दो मुख्यः। न च उभयत्र मुख्यत्वं संभवति। अनेकार्थत्वस्यान्याय्यत्वात्। मुख्यत्वासंभवेन मासाग्निहोत्रे गुणयोगाद्वर्तितुं नित्याग्निहोत्रगुणानतिदिशति।। 1।। 2।। 3।।  द्वितीये- प्रायणीयनाम्ना धर्मानतिदेशाधिकरणे सूत्रम्   अपि वा सत्रकर्माण गुणार्थैषा श्रुतिः स्यात्।। 5।। द्वितीयाधिकरणमारचयति- गवामयन आद्येऽह्नि प्रायणीयेति नाम यत्। तद्द्वादशाहिकादह्नो धर्मानतिदिशेन्न वा।। 4।। पूर्वन्यायेनातिदेशो नैवं प्रथमता द्वयोः। अह्नोस्तुल्येति मुख्यत्वं समं नातिदिशेदतः।। 5।। द्वादशाहे प्रथमस्याह्नः 'प्रायणीयम्' इति नाम। तथा गवामयनेऽपि। तत्र- 'अग्निहोत्रनाम'(7। 3। 1 ) न्यायेनादिदेशः। इति चेत्- मैवम्। प्रायणीयशब्दप्रवृत्तिनिमित्तस्य प्राथम्यस्य द्वयोस्तुल्यत्वेनोभयत्र मुख्यत्वेऽप्यनेकार्थत्वप्रसङ्गाभावात्। 'प्रारभ्यायते गच्छति प्रवर्तते कर्मानेन इति प्रायणीयम्'। अतो नैतन्नामधेयं धर्मानतिदेशति।। 4।। 5।।  तृतीये- सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणे सूत्राणि 6-11   विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज्ज्यौतिष्टोमिकानि पृष्ठानि, अस्ति च पृष्ठशब्दः।। 6।।  षडहाद्वा तत्र हि चोदनाः।। 7।।  लिङ्गाच्च।। 8।।  उत्पन्नाधिकारो ज्योतिष्टोमः।। 9।।  द्वयोर्विधिरिति चेत्।। 10।।  न व्यर्थत्वात्सर्वशब्दस्य।। 11।। तृतीयाधिकरणमारचयति- विश्वजित्सर्वपृष्ठः किमनुवादो रथंतरम् । बृहता वा समुच्चेयं यद्वा षाडहिकानि षट्।। 6।। अतिदेश्यानि तत्राद्यो माहेन्द्रादिचतुष्टये। पृष्ठशब्दाच्चोदकेन सर्वेषामिह संभवात्।। 7।। समुच्चयो वा विषये सर्वत्वं बह्वपेक्षया। न तु द्वयोरतः षण्णां पृष्ठानामतिदेशनम्।। 8।। ''विश्वजित्सर्वपृष्ठो भवति'' इति श्रूयते। तत्र सर्वपृष्ठशब्दोऽनुवादः। कुतः- प्राप्तत्वात्। तथा हि ज्योतिष्टोमे माध्यंदिनपवमानानन्तरभावीनि माहेन्द्रादीनि चत्वारि स्तोत्राणि सन्ति। ''अभि त्वा शूर नोनुमः'' ''कया नश्चित्र आभुवत्'' ''तं वो दस्ममृतीषहम्'' ''तरोभिर्वो विदद्वसु'' इत्येतेषु चतुर्षु सूक्तेषु तानि स्तोत्राणि सप्तदशस्तोमतामापाद्य गीयन्ते। एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्तविधानेन सप्तदशधाभ्यासः सप्तदशस्तोमः। तादृशेषु स्तोत्रेषु पृष्ठशब्दः श्रूयते ''सप्तदशानि पृष्ठानि'' इति। तानि च चत्वारि पृष्ठानि विश्वजिति चोदकप्राप्तत्वात्सर्वपृष्ठशब्देनानूद्यन्ते- इत्येकः पक्षः। रथंतरपृष्ठबृहत्पृष्ठयोर्ज्योतिष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्वशब्देन समुच्चयो विधीयते। तथा सति- अनुवादकृतं वैयर्थ्यं न भविष्यति- इति द्वितीयः पक्षः। सर्वत्वं बहुषु मुख्यम्, न तु द्वयोः। तस्मात्- अनेन सर्वपृष्ठशब्देन षट्त्संख्यकानि पृष्ठान्यतिदिश्यन्ते। षडहे प्रतिदिनमेकैकं पृष्ठं विहितम्। तानि च षट्पृष्ठानि रथंतर-बृहत्-वैरूप-वैराज-शाक्वर-रैवत- सामभिर्निष्पाद्यानि। यद्यपि विश्वजित ऐकाहिकत्वाज्ज्योतिष्टोमविकृतित्वमेव, न षडहविकृतित्वम् तथाऽपि सर्वपृष्ठोक्तिबलात्तानि षट् पृष्ठान्यतिदिश्यन्ते।। 6।। 7।। 8।।  चतुर्थे- अवभृथनाम्ना सौमिकधर्मातिदेशाधिकरणे सूत्राणि 12-15   तथाऽवभृथः सोमात्।। 12।।  प्रकृतेरिति चेत्। 13।।  न भक्तित्वात्।। 14।।  लिङ्गदर्शनाच्च।। 15।। चतुर्थाधिकरणमारचयति- निष्कासेन तुषैश्चावभृथं यन्तीत्यनूद्यते। नीरोत्सेकः कर्मणो वा विधिः सौमिकधर्मणः।। 9।। यो दर्शपूर्णमासाभ्यां वारुण्यां चोदकागतः। व्युत्सेकोऽनूद्यतामेष मैवं कर्मणि सौमिके।। 10।। मुख्यावभृथशब्दो यस्तत्सादृश्यविवक्षया । धर्मानतिदिशन्कर्म विधत्ते धर्मसंयुतम्।। 11।। वरुणप्रघासेषु श्रूयते ''वारुण्यानिष्कासेन तुषैश्चावभृथं यन्ति'' इति। निष्कासेन आमिक्षाया लोपः। ''प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्'' इत्यादिमन्त्रैर्दर्शपूर्णमासयोर्दिक्षु सर्वास्वप उत्सिच्यन्ते। सोऽयं व्युत्सेको निष्कासविधानार्थमवभृथशब्देनामिक्षायागे चोदकप्राप्तोऽनूद्यते। अस्ति हि व्युत्सेकस्यावभृथत्वम्। ''एष वै दर्शपूर्णमासयोरवभृथः'' इति श्रुतत्वात्। इति प्राप्ते- ब्रूमः- सौमिके कर्मण्यवभृथशब्दो मुख्यः। तस्य शब्दस्योद्भिदादिवद्विधेयक्रियासामानाधिकरण्येन नामधेयत्वात्। तत्रैव वैदिकप्रयोगबाहुल्याच्च। व्युत्सेके त्वप्संबन्धादुपचर्यते। न हि सौमिककर्मणीव व्युत्सेकेऽवभृथभावनामंशत्रयवतीं पश्यामः, येन तत्र मुख्यत्वमाशङ्क्येत। तस्मात्- सौमिककर्मवाचिनमवभृथशब्दं वरुणप्रघासप्रकरणे प्रयुञ्जान आम्नायो मासाग्निहोत्रन्यायेन सौमिकधर्मानतिदेशन्कर्मान्तरं तद्धर्मसंयुक्तं विधत्ते। न च विपर्ययेणात्रैव मुख्योऽवभृथोऽस्तु- इति शङ्कनीयम्। अपेक्षितस्य धर्मकलापस्यात्राभावात्। तस्मात्- सौमिकधर्मोपेतकर्मान्तरविधिः।। 9।। 10।। 11।।  पञ्चमे- वारुणप्रघासिकावभृथस्य तुषनिष्कासद्रव्यकत्वाधिकरणे सूत्रम्   द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात्पुरोडाशस्त्वनादेशे तत्प्रकृतित्वात्।। 16।। पञ्चमाधिकरणमारचयति- तत्र द्रव्यं पुरोडाशस्तुषनिष्कासकावुत। प्राप्तोऽवभृथशब्देन पुरोडाशोऽतिदेशतः।। 12।। तुषनिष्कासयोरत्र साक्षाच्छ्रुत्युपदेशतः। अतिदेशप्रापितस्य पुरोडाशस्य बाधनम्।। 13।। तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते। अतिदेशश्चोपदेशाद्दुर्बलः। तस्मात्- तुषनिष्कासाभ्यां पुरोडाशो बाध्यते।। 12।। 13।।  षष्ठे- वैष्णवशब्दादातिथ्ये धर्मानतिदेशाधिकरणे- सूत्रम्   गुणविधिस्तु न गृह्णीयात्समत्वात्।। 17।। षष्ठाधिकरणमारचयति- वैष्णवे त्रिकपाले वैष्णवान्नवकपालतः। धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राग्निहोत्रवत्।। 14।। श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः। न गौणवृत्तिमाश्रित्य धर्मानतिदिशत्यतः।। 15।। आतिथ्येष्टौ वैष्णवो नवकपालो विहितः। तत्र श्रुतो वैष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्र शब्दवन्नवकपालधर्मानतिदिशति। इति पूर्वः पक्षः। 'विष्णुर्देवताऽस्य' इति विग्रहे विहितस्तद्धितप्रत्ययो देवतामभिधत्ते, न तु धर्मान्। तस्मात्- नातिदिशति।  सप्तमे- निर्मन्थ्यादिशब्दैर्धर्मानतिदेशाधिकरणे- सूत्रम्   निर्मन्थ्यादिषु चैवम्।। 18।। सप्तमाधिकरणमारचयति- निर्मन्थ्येनेष्टकापाके बर्हिषाऽवटसंस्कृतौ। अतिदेशो न वाद्योऽस्तु धर्मार्थं तन्न पूर्ववत्।। 16।। अग्नीषोमीयपशौ धर्मवान्निर्मन्थ्योऽग्निराम्नातः। स च निर्मन्थ्यशब्दोऽग्निचयन इष्टकापाके प्रयुक्तः ''निर्मन्थ्येष्टकाः पचन्ति'' इति। तथा दर्शपूर्णमासयोः सधर्मकं बर्हिराम्नातम्। स च बर्हिःशब्दः पशौ प्रयुक्तः ''बर्हिषा यूपावटमवस्तृणाति'' इति। तत्र- उभयत्र तद्रूपसिद्ध्यर्थमतिदेशः। इति चेत्- न। पूर्वोक्तवैष्णवशब्दवन्मुख्यया वृत्त्या विधिसंभवे धर्मलक्षकत्वायोगात्। अग्निमन्थनस्य बर्हिर्लवनस्य च लोकसिद्धत्वेन शास्त्रीयधर्माभावेऽपि लौकिकधर्मैरुभयं निष्पद्यते। तस्मात्- नास्त्यतिदेशः।। 16।।  अष्टमे- प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणे सूत्राणि 19-22   प्रणयनं तु सौमिकमवाच्यं हीतरत्।। 19।।  उत्तरवेदिप्रतिषेधश्च तद्वत्।। 20।।  प्राकृतं वाऽनामत्वात्।। 21।।|  परिसंख्यार्थं श्रवणं गुणार्थमर्थवादो वा।। 22।। अष्टमाधिकरणमारचयति- सौमिकं प्राकृतं वा स्याद्द्वयोः प्रणयनं श्रुतम्। आद्योऽप्राप्तवतो मैवमनामत्वेन वादगीः।। 17।। चातुर्मास्येषु श्रूयते ''द्वयोः प्रमयन्ति। तस्माद्द्वाभ्यां यन्ति'' इति। तत्र सौमिकं यत्सधर्मकमग्निप्रणयनम्, तदेव ग्रहीतव्यम्। कुतः- सोमस्य चातुर्मास्यप्रकृतित्वाभावेन तदीयप्रणयनस्यात्र चोदकाप्राप्तस्य विध्यर्हत्वात्। दर्शपूर्णमासगं त्वग्निप्रणयनं चोदकप्राप्तत्वादविधेयम्। तस्मात्- सौमिकस्य धर्मा अत्र प्रणयनशब्देनातिदिश्यन्ते। इति प्राप्ते- ब्रूमः- नायं प्रणयनशब्दः सौमिकस्य प्रणयनकर्मणो नामधेयम्। किंतु निर्मन्थ्यबर्हिरादिशब्दवल्लौकिक एव। ततो न धर्मातिदेशः। यदि प्राकृतप्रणयनस्य प्राप्तत्वाद्विधिवैयर्थ्यम्, तर्ह्यर्थवादसंबन्धाय तद्वाक्यमस्तु।। 17।।  नवमे- मध्यमयोर्द्वयोरेव प्रणयनाधिकरणे सूत्राणि 23-25   प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात्।। 23।।  मध्यमयोर्वा गत्यर्थवादात्।। 24।।  औत्तरवेदिकोऽनारभ्यवादप्रतिषेधः।। 25।। नवमाधिकरणमारचयति- आद्यन्तयोर्मध्ययोर्वा पर्वणोस्तत्प्रसञ्जकात्। आद्यन्तयोरूरुगत्या मध्ययोः पर्वणोर्भवेत्।। 18।। ''तस्माद्द्वाभ्यां यन्ति'' इत्यनेनार्थवदेन संबन्धाय पुनर्विधानाय प्राकृतमग्निप्रणयनं चोदकप्राप्तमपि श्रूयते इत्युक्तम्। तद्वैश्वदेवसुनासीरीययोराद्यन्तयोः पर्वणोर्भवितुमर्हति। कुतः- प्रसञ्जकात्। तथा हि- ''न वैश्वदेव उत्तरवेदिमुपवपन्ति। न सुनासीरीये'' इत्युत्तरवेदिप्रतिषेधस्तयोः पर्वणोरुत्तरवेदिं प्रसञ्जयति। अप्रसक्तस्य प्रतिषेधायोगात्। उत्तरवेदिश्चाग्निप्रणयनार्था। तस्मात्- उत्तरवेदिप्रसक्तिद्वारेणाद्यन्तयोरिदमग्निप्रणयनम्। इति प्राप्ते- ब्रूमः- ''ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासः, साकमेधश्च'' इति गमनसाधनत्वमूरुत्वं मध्यमयोः पर्वणोरुपन्यस्तम्। तत्संनिधौ 'द्वयोः प्रणयन्ति' इति चोदकप्राप्तमग्निप्रणयनमर्थवादार्थं पुनर्विधाय 'द्वाभ्यां यन्ति' इत्यर्थवादेनोरुत्वकल्पनायुक्ताभ्यां पर्वभ्यां गमनमुपन्यस्यते। तस्मात्- मध्यमयोस्तत्प्रणयनम्। किमर्थं चोदकप्राप्तमाग्निप्रणयनं मध्यमयोः कीर्त्यते- इति चेत्- उत्तरेवद्यग्निनिधानगुणविधानार्थाम्। न च- अत्रोत्तरवेद्यभावात्प्रणयनाभावः- इति शङ्कनीयम्। ''उपात्र वपन्ति'' इत्यनारभ्य श्रुतेन वाक्येनोत्तरवेद्युपवापस्य विहितत्वात्। सा चोत्तरवेदिराद्यन्तयोः पर्वणोर्निषेधान्मध्यमयोर्व्यवतिष्ठते। तस्यां चोत्तरवेद्यां प्रणीतोऽग्निर्निधीयते। एतदर्थमेव हि सार्थवादं पुनर्विधानम्। उक्तमधिकरणद्वयमेकीकृत्य वार्तिककारेण योऽर्थोऽभिहितः, तं दर्शयति- अनामत्वाच्च वैयर्थ्यात्सौमिकं प्राकृतं न वा। अपूर्वं तत्प्रणयनं शाखान्तरसमोक्तितः।। 19।। ''आहवनीयाद्वाऽग्निं प्रणयते'' इति शाखान्तरे मध्यमयोर्नूतनं प्रणयनं विहितम्। तेन समानवचनत्वात्तत्राप्यपूर्वं प्रणयनं विधीयते।। 18।। 19।।  दशमे- स्वरसामादिशब्देन धर्मातिदेशाधिकरणे सूत्रे 26-27   स्वरसामैककपालामिक्षं च लिङ्गदर्शनात्।। 26।।  चोदनासामान्याद्वा।। 27।। दशमाधिकरणमारचयति- न विकारा विकारा वा स्वरसामादयो, न हि। वैष्णवन्यायतो मैवमनन्यगतिलिङ्गतः।। 20।। गवामयने द्वयोर्मासषट्कयोर्मध्ये वर्तमानं विषुवन्नामकं प्रधानभूतमेकमहर्विद्यते। तच्च दिवाकीर्त्यम्। तस्मात्प्राचीनास्त्रयः स्वरसामनामका अहर्विशेषाः। तथोपरिष्टादपि त्रयः स्वरसामानः। तदेतदभिप्रेत्य श्रूयते ''अभितो दिवाकीर्त्यं त्रयः स्वरसामानः'' इति। तेषु च ग्रहसातत्यसप्तदशस्तोमादयो धर्मा विहिताः। अन्यत्र त्वेवं श्रूयते ''पृष्ठ्यः षडहः, द्वौ स्वरसामानौ'' इति। तावेतावहर्विशेषौ पूर्वोक्तानां स्वरसाम्नां न विकारौ। कुतः- वैष्णवसमानत्वात्। यथा वैष्णवशब्दो देवतारूपगुणविधानेन मुख्यवृत्तित्वान्न लक्षणया धर्मानतिदिशति, तथा सामविशेषरूपगुणविधायकः स्वरसामशब्दः। इति प्राप्ते- ब्रूमः- अनन्यगतिकलिङ्गवशात्स्वरसामानौ विकारौ भवतः। तथा हि- 'षडहः, द्वौ स्वरसामानौ' इत्येवं योऽयमष्टाह उपन्यस्तः, तत्र षट्त्स्वहःसु क्रमेण 'त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः' इत्येवं स्तोमषट्कं चोदकेन प्राप्तम्। एवं स्थिते तृतीयषष्ठदिवसगतयोः सप्तदश त्रयस्त्रिंशयोर्व्यत्यासं विधाय सप्तमाष्टमयोरह्नोः सप्तदशस्तोमं सिद्धवत्कृत्वा त्रिषु चरमेष्वहःसु सप्तदशस्तोमनैरन्तर्यमर्थवादेनानुवदति। ''यत्तृतीयं सप्तदशमहः, तत्त्रयस्त्रिंशस्थानमभिपर्याहरन्ति'' इति व्यत्यासविधिः। 'त्रयाणां सप्तदशानामनूचीनतायाः' इत्यनुवादः। तत्र यद्युपान्त्यान्त्ययोरह्नोः सप्तदशस्तोमं स्वरसामशब्दोऽतिदिशेत्, तदा नैरन्तर्यमुपपद्येत, न त्वन्यथा। तस्मात्- न वैष्णवन्यायेन गुणविधिः, किंतु धर्माणामतिदेशकः।। 20।।  एकादशे- 'वासो ददाति' इत्यादौ वास आदिशब्दानामाकृतिनिमित्तताधिकरणे - सूत्रे 28-29   कर्मजे कर्म यूपवत्।। 28।।  रूपं वाऽशेषभूतत्वात्।। 29।। एकादशाधिकरणमारचयति- वासोनसी वानतक्षणातिदेशकरे न वा। आद्यः क्रियानिमित्तत्वाज्जातिवाचित्वतोऽन्तिमः।। 21।। ''वासो ददाति'' ''अनो ददाति'' इति श्रूयते। तत्र यथा यूपशब्दस्य शास्त्रीयच्छेदनतक्षणादिक्रिया प्रवृत्तिनिमित्तम्, तथा वासः शब्दस्य लौकिकी कुविन्दकर्तृका तन्तुवानक्रिया, अनः शब्दस्य वर्धकिकर्तृका दारुतक्षणक्रिया। तस्मात् वासोनः शब्दयोः क्रियातिदेशकत्वाद्वानतक्षणे कारयित्वा तदुभयं दातव्यम्। इति चेत्- न। गवाश्वादिशब्दवज्जातिवाचित्वात्। पाचकादिशब्दानां क्रियामुपलभ्यैव प्रयुज्यमानत्वात्क्रियैव प्रवृत्तिनिमित्तम्। वासः शकटादिषु क्रियामनुपलभ्यापि जातिमुपलभ्य शब्दं प्रयुञ्जते। तस्मात्- वासोनः शब्दौ न क्रियामतिदिशतः।। 21।।  द्वादशे- गर्गत्रिरात्रे लौकिकेऽग्नावुपनिधानाधिकरणे सूत्राणि 30-32   विशये लौकिकः स्यात्सर्वार्थत्वात्।। 30।।  न वैदिकमर्थनिर्देशात्।। 31।।  तयोत्पत्तिरितरेषां समत्वात्।। 32।। द्वादशाधिकरणमारचयति- वैदिको लौकिको वाऽग्निर्निधेयः संस्कृतेर्वशात्। आद्यो होमाय संस्कारो जात्यर्थत्वेन लौकिकः।। 22।। गर्गत्रिरात्र आज्यदोहसामानि प्रकृत्य श्रूयते ''अग्निमुपनिधाय स्तुवीत'' इति। तत्र- उपनिधेयोऽ-ग्निर्वैदिकः स्यात्। कुतः- आधानादिसंस्कारस्य प्रयोजनाकाङ्क्षितया समस्तवैदिककर्मशेषत्वात्। इति प्राप्ते- ब्रूमः- ''आहवनीये जुहोति'' ''गार्हपत्ये हवींषि श्रपयति'' इत्यादिभिर्होमादिभिः संस्काराकाङ्क्षा निवर्तिता। ततो नाहवनीयादिशब्दवदग्निशब्दः संस्कारनिमित्तः। किंतु वासःशब्दवज्जातिवाची। तथा सति लौकिकत्वान्नाधानादिसंस्कारमतिदिशति। लौकिककार्येष्विव वैदिककार्येष्वग्निर्लौकिकः शेषभावं भजते, तस्य सर्वकार्यसमर्थत्वात्। ततोऽग्निशब्दो जातिमात्रमुपस्थापयल्लौकिकवह्निमात्रेण चरितार्थो विनाहवनीयादि-संस्कारवाचकं विशेषणं न वैदिकोपस्थापको भवति।। 22।।  त्रयोदशे- यूपशब्दस्य संस्कारप्रयोजकताधिकरणे सूत्रे 33-34   संस्कृतं स्यात्तच्छब्दत्वात्।। 33।।  भक्त्या वाऽयज्ञशेषत्वाद्गुणानामभिधानत्वात्।। 34।। त्रयोदशाधिकरणमारचयति- संस्कारः स्यादुपशये न वा, यूपोक्तितोऽग्रिमः। न स्यान्नियोजनाभावात्तूष्णींछेदेन यूपता।। 23।। यूपैकादशिन्यां श्रूयते ''उपशयो यूपो भवति'' इति। एकादशानां यूपानां समूह एकादशि। तत्र दक्षिणतोऽवस्थापित एकादशो यूप उपशयः। तथा च श्रूयते ''यद्दक्षिणत उपशयः'' इति। तस्मिन्नुपशये परिव्याणादिको यूपसंस्कारोऽस्ति। संस्कारनिमित्तकस्य यूपशब्दस्य तत्र प्रयुक्तत्वात्। इति चेत्- न। संस्कारप्रयोजनस्यात्राभावात्। पशुं नियोक्तुं यूपः संस्क्रियते। तच्च नियोजनमितरेषु दशसु यूपेष्वस्ति, न त्वेकादश उपशये। तथा च तैत्तिरीयब्राह्मणम् ''सर्वे वा अन्ये यूपाः पशुमन्तः, अथोपशय एवापशुः'' इति। परिव्याणादिसंस्काराभावेऽप्यमन्त्रकाश्छेदनादयः केचिद्धर्मास्तत्र वाचनिका विद्यन्ते। तावताऽल्पेन सादृश्येन गौणी तत्र यूपत्वोक्तिः। तस्मात्- न यूपशब्दो धर्मानतिदिशति।। 23।।  चतुर्दशे- पृष्ठशब्दस्यर्ग्वेदवाचित्वाधिकरणे सूत्रे 35-36   कर्मणः पृष्ठशब्दः स्यात्तथाभूतोपदेशात्।। 35।।  अभिधामोपदेशाद्वा विप्रतिषेधाद्द्रव्येषु पृष्ठशब्दः स्यात्।। 36।। चतुर्दशाधिकरणमारचयति- पृष्ठैरुपस्तुतौ स्तोत्रधर्माः सन्ति न वाऽग्रिमः। अग्निहोत्रनयान्मैवं मन्त्रोक्तेरात्मनेपदात्।। 24।। अग्निचयने श्रूयते ''पृष्ठैरुपतिष्ठते'' इति। पृष्ठशब्दो ज्योतिष्टोमे माध्यंदिनसवनगतस्य स्तोत्रस्य कर्मणो नामधेयमिति प्रथमाध्याये (1-4-3) निर्णीतम्। सोऽग्निचयनगतोपस्थानकर्मणि प्रयुज्यमानोऽग्निहोत्रशब्दन्यायेन पृष्ठस्तोत्रधर्मानुपस्थानेऽतिदिशति। इति चेत्- मैवम्। अत्र पृष्ठशब्दस्य मन्त्रपरत्वेन कर्मपरत्वाभावात्। ''मासमग्निहोत्रं जुहोति'' इत्यत्राग्निहोत्रशब्दो जुहोतिधातुना समानाधिकृतः कर्मपरः। अत्र तु 'उपान्मन्त्रकरणे' (पा.सू.1-3-25) इत्येतत्पाणिनीयं सूत्रमुपशब्दयुक्तात्तिष्ठतेर्धातोपात्मनेपदं विदधत्तृतीयान्तस्य पृष्ठशब्दस्य मन्त्रात्मककरणपरतां दर्शयति। यद्यपि स्तोत्रकर्मवाची पृष्ठशब्दः, तथाऽपि तत्साधनभूतान्रथंतरादिसामोपेतान् ''अभि त्वा शूर'' इत्यादिमन्त्रानुपलक्षयति। न च लक्षणाश्रयणमेव दोषः- इति वाच्यम्। त्वत्पक्षेऽप्याश्रयणीयत्वात्। किंच त्वत्पक्षे यथाऽग्निहोत्रशब्देन तद्धर्मानुपलक्ष्य तैश्च धर्मैस्तद्युक्तं मासाग्निहोत्रात्मकं कर्मान्तरं लक्ष्यते, तथा स्तोत्रवाचिना पृष्ठशब्देन तद्धर्मोपलक्षणद्वारेणोपस्थानरूपं कर्मान्तरं लक्षणीयमिति विप्रकृष्यते। तस्मात्- पृष्ठशब्दो न स्तोत्रधर्मानतिदिशति।। 24।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादेः- अधिकरणानि 14, सूत्राणि 36। आदितः- अधिकरणानि 491, सूत्राणि 1372। सप्तमाध्यायस्य चतुर्थः पादः निर्वापौषधद्रव्यादिलिङ्गातिदेशः।  प्रथमे- सौर्ये चरावितिकर्तव्यतावत्त्वाधिकरणे सूत्रम्   इति कर्तव्यताविधेर्यजतेः पूर्ववत्त्वम्।। 1।। चतुर्थपादे प्रथमाधिकरणमारचयति- सौर्ये चरौ न धर्माः स्युः स्युर्वा, मानविवर्जनात्। न स्युः, स्युः करणं यागोऽपेक्ष्यते ह्युपकारिणः।। 1।। ''सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः'' इत्यत्रावघातादयो धर्मा न प्राप्यन्ते। कुतः- प्रापकप्रमाणानां श्रुतिलिङ्गादीनामभावात्। इति चेत्- मैवम्। 'विमतो याग उपकरणापेक्षः, करणत्वात्, लौकिकवैदिकभोजनदर्शपूर्णमासवत्' इत्यनुमानेन तत्प्रापणात्।। 1।।  द्वितीये- सौर्ये चरौ वैदिकेतिकर्तव्यताधिकरणे सूत्राणि 2-12   स लौकिकः स्याद्दृष्टप्रवृत्तित्वात्।। 2।।  वचनात्तु ततोऽन्यत्वम्।। 3।।  लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्।। 4।।  अपि वाऽन्यायपूर्वत्वाद्यत्र नित्यानुवादवचनानि स्युः।। 5।।  मिथो विप्रतिषेधाच्च गुणानां यथार्थकल्पना स्यात्।। 6।।  भागित्वात्तु नियम्येत गुणानामभिधानत्वात्संबन्धादभिधानवत्, यथा धेनुः किशोरेण।। 7।।  उत्पत्तीनां समत्वाद्वा यथाधिकारं भावः स्यात्।। 8।।  उत्पत्तिशेषवचनं च विप्रतिषिद्धमेकस्मिन्।। 9।।  विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम्।। 10।।  लिङ्गहेतुत्वादलिङ्गे लौकिकं स्यात्।। 11।।  लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा स्थालीपुलाकेन।। 12।। द्वितीयाधिकरणमारचयति- विध्यन्तोऽपेक्षितस्तत्र लौकिको वाऽथ वैदिकः। आद्यो निबन्धराहित्यादन्त्यो धीसंनिकर्षतः।। 2।। तत्र सौर्ये चरावपेक्षितः प्रधानविधेः शेषोऽङ्गकलापः स्थालीपाकादिगतो लौकिको ग्रहीतव्यः। कुतः-अनिबद्धत्वात्। वैदिकस्तु प्रकरणेन कर्मविशेषे निबद्धः सन्न ततो वियोजयितुं शक्यः। इति चेत्- मैवम्। वैदिके करणे वैदिकविध्यन्तस्य बुद्धिसंनिकर्षात्। यथा प्रकरणेन क्वचिन्निबद्धः, तथा चोदकेनान्यत्रापि निबध्यताम्। किंच- ''प्रयाजे प्रयाजे कृष्णलं जुहोति'' इति सौर्ययागविशेषे कृष्णलहोमविधानाय सिद्धवत्प्रयाजोऽनूद्यते। तच्च वैदिकेतिकर्तव्यतायां लिङ्गम्। तस्मात्- वैदिको ग्राह्यः।। 2।।  तृतीये गवामयन ऐकाहिकेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 13-20   द्वादशाहिकमहर्गणे तत्प्रकृतित्वादैकाहिकमधिकागमात्तदाख्यं स्यादेकाहवत्।। 13।।  लिङ्गाच्च।। 14।।  न वा क्रत्वभिधानादधिकानामशब्दत्वम्।। 15।।  लिङ्गं संघातधर्मः स्यात्तदर्थापत्तेर्द्रव्यवत्।। 16।।  न वाऽर्थधर्मत्वात्संघातस्य गुणत्वात्।। 17।।  अर्थापत्तेर्द्रव्येषु धर्मलाभः स्यात्।। 18।।  प्रवृत्त्या नियतस्य लिङ्गदर्शनम्।। 19।।  विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात्।। 20।। तृतीयाधिकरणमारचयति- गवामयनिके ज्योतिरादौ किं द्वादशाहिकी। ऐकाहिकी वाऽनुमानादाद्योऽन्त्यो नामबाधनात्।। 3।। गवामयने- 'ज्योतिः, गौः, आयुः' इति ज्योतिरादिनामकास्त्रयो यागा विहिताः। तेषु द्वादशाहिकीतिकर्तव्यता युक्त। कुतः- अनुमितवाक्येन तत्प्रापणात्। 'गवामयनं हि द्वादशाहविकृतिः' इति वक्ष्यति। अतस्तत्संबन्धित्वलिङ्गेन तदीयधर्मपप्रापकश्चोदकोऽनुमीयते। इति प्राप्ते- ब्रूमः- सन्ति ज्योतिरादिनामकास्त्रयो यागा एकाहाः, तदीयधर्मा गवामयनिकेषु ज्योतिरादिषु ज्योतिरादिभिस्त्रिभिर्नामभिः प्राप्ताः। नाम चानुमानिकाच्चोदकात्प्रबलम्। प्रत्यक्षश्रुतत्वात्। अतः- चोदकस्य बाधितत्वादेतेष्वैकाहिकीतिकर्तव्यता ग्राह्या।। 3।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे सप्तमाध्यायस्य चतुर्थः पादः।। 4।। अत्र पादे- अधिकरणानि 3, सूत्राणि 20। आदितः- अधिकरणानि 494, सूत्राणि 1392। अध्यायश्च समाप्तः। अष्टमोऽध्याये प्रथमः पादः स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि। सामान्येनातिदेशो योऽनुमानात्स निरूपितः । विशेषेणातिदेशो यः सोऽष्टमेऽथ निरूप्यते।। 1।। अनेन सप्तमाष्टमयोरध्याययोः पूर्वोत्तरभाव उपपादितः। सप्तमस्य चतुर्थपादे प्रथमाधिकरणेन 'आनुमानिकवाक्यकृतोऽतिदेशोऽस्ति' इति सत्तामात्रं निरूपितम्। अष्टमे तु तद्विशेषा निरूप्यन्ते।  प्रथमे- विशेषचिन्ताधिकरणे सूत्रम्   अथ विशेषलक्षणम्।। 1।। अष्टमाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- कस्माच्चिदतिदिश्यन्ते नियतात्कर्मणोऽथवा। अविशेषादादिमोऽन्त्यः शास्त्रार्थस्य व्यवस्थितेः।। 2।। विहितेतिकर्तव्यतारहिते सौर्यादौ कर्मणि तद्युक्ताद्यतः कुतश्चित्कर्मणो धर्मा अतिदिश्यन्ते। कुतः- नियामकस्य विशेषस्याभावात्। अतो विशेषचिन्ता न कार्या। इति चेत्- मैवम्। शास्त्रार्थव्यवस्थाया नियामकत्वात्। तस्मात्- नियतादेकस्मात्कर्मणो धर्मातिदेशः। तेन विशेषचिन्ता कर्तव्या।। 2।।  द्वितीये- विशेषकर्मणो धर्मातिदेशाधिकरणे सूत्रम्   यस्य लिङ्गमर्थसंयोगादभिधानवत्।। 2।। द्वितीयाधिकरणमारचयति- तद्धितोक्त्यादिलिङ्गं किं न विशेषनियामकम्। भवेद्वा, न ह्यशब्दत्वाद्भवेच्छब्दे प्रवेशतः।। 3।। दर्शपूर्णमासयोः- ''आग्नेयमष्टाकपालं निर्वपति'' इत्यत्र तद्धितोक्त्या देवतानिर्देशः, एकदेवतायोगित्वम्, औषधद्रव्यकत्वं निर्वापः, इत्येतान्याग्नेययागसंबन्धितया श्रूयमाणत्वादाग्नेयलिङ्गानि। ''सौर्यं चरुं निर्वपेत्'' इत्यत्रापि तान्युपलभ्यन्ते। न तेषामाग्नेयधर्मातिदेशं नियन्तुं सामर्थ्यमस्ति। कुतः- तेषामशब्दरूपत्वेन शब्दैकसमधिगम्येऽर्थे प्रामाण्यायोगात्। इति प्राप्ते- ब्रूमः- लिङ्गस्मारितोपकारसहितमेव सौर्ययागं तच्छब्दो विदधाति। तथा सति प्रणाड्या(ल्या) लिङ्गस्य शब्दे प्रवेशात् 'आग्नेयवत्सौर्योऽनुष्ठेयः' इत्येतादृशं चोदकवाक्यमनुमापयता लिङ्गेन धर्मविशेषा नियम्यन्ते।। 3।।  तृतीये- सोम ऐष्टिकधर्मानतिदेशाधिकरणे सूत्राणि 3-10   प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात्।। 3।।  लिङ्गदर्शनाच्च।। 4।।  कृत्स्नविधानाद्वाऽपूर्वत्वम्।। 5।।  स्रुगभिघारणाभावस्य च नित्यानुवादात्।। 6।।  विधिरिति चेत्। 7।।  न वाक्यशेषत्वात्।। 8।।  शङ्कते चानुपोषणात्।। 9।।  दर्शनमैष्टिकानां स्यात्।। 10।। तृतीयाधिकरणे प्रथमं वर्णकमारचयति- विध्यन्त ऐष्टिकः सोमे स्यान्नो वा स्यात्प्रवृत्तितः। उपदिष्टैर्नैरपेक्ष्याद्विध्यन्तो नैष्टिकोऽत्र हि।। 4।। ऐष्टिको विध्यन्तः प्रयाजादिः। स च सोमाङ्गभूते दीक्षणीयादौ प्रवृत्तत्वात्सोमेऽप्यनिवार्यः। इति चेत्- मैवम्। प्रत्यक्षोपदिष्टैरभिषवाद्यङ्गकलापैः सोमस्य निराकाङ्क्षत्वात्। तस्मात्- नैष्टिको विध्यन्तः।। 4।। द्वितीयवर्णकमारचयति- इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता न हि। अस्ति वा नालौकिकत्वादियत्तानवधारणात्।। 5।। लोकवत्संनिपत्यारादुपकारिद्वयश्रुतेः। इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु।। 6।। अलौकिकत्वेनं 'एतावद्भिरङ्गैः संपूर्ण उपकारः' इति निश्चेतुमशक्यत्वादिष्ट्यादौ नास्ति मूलप्रकृतित्वम्। इति चेत्- मैवम्। लौकिकसदृशत्वात्। यथा लौकिकभुजिक्रियायामोदनः करणम्, तस्याः संनिपत्योपकारिणः शाकसूपादयः, आरादुपकारिणः पीठदीपादयः। तथा भावनायां यागः करणम्, अवघातादयः संनिपातिनः, प्रयाजादय आरादुपकारिणः। अतो नात्यन्तमलौकिकत्वम्। इत्यत्ता तु लौकिके यथा प्रत्यक्षेण निश्चीयते, तथा श्रौते श्रुत्या निश्चीयताम्। तस्मात्- इष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति।। 5।। 6।।  चतुर्थे- ऐन्द्राग्नादावैष्टिकधर्मातिदेशाधिकरणे सूत्रम्   इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात्।। 11।। चतुर्थाधिकरणमारचयति- ऐन्द्राग्नादौ सौमिकः स्यादैष्टिको वा द्वयोरिह। संभवादैच्छिकोऽन्त्योऽत्र स्यात्कपालादिलिङ्गतः।। 7।। ''ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः'' इत्यादौ सौमिकैष्टिकयोर्विध्यन्तयोरन्यतर इच्छया ग्राह्यः। कुतः- उभयत्र विध्यन्तसंभवेनातिदेष्टुमर्हत्वात्। इति चेत्- न। कपालनिर्वापादिभिर्लिङ्गविशेषैरैष्टिकस्यैवात्रोचितत्वात्।। 7।।  पञ्चमे- अग्नीषोमीयपशौ दार्शपूर्णमासिकधर्मातिदेशाधिकरणे सूत्रम्   पशौ च लिङ्गदर्शनात्।। 12।। पञ्चमाधिकरणमारचयति- न पशावैष्टिकः स्याद्वा, न कपालाद्यभावतः। स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः।। 8।। अग्नीषोमीयपशावैष्टिको विध्यन्तो नास्ति। कुतः- पूर्वेवदत्र निर्वापकपालादिलिङ्गाभावात्। इति चेत्- मैवम्। ''आग्नेयमष्टाकपालम्'' इत्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते, तथा ''अग्नीषोमीयं पशुम्'' इत्यत्रापि। न तु 'सोमेन यजेत' इत्यत्रेव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम्। ''एकादश प्रयाजान्यजति'' इति प्रयाजवत्त्वं द्वितीयम्। ''स्रुच्यमाघार्य जुह्वा पशुमनक्ति'' इत्याघाराञ्जने लिङ्गान्तरे। आलम्भो लिङ्गान्तरम्, इष्टावपि ''ईषामालभते'' इति दर्शनात्। तस्मात्- अस्ति पशावैष्टिकः।। 8।।  षष्ठे सवनीयपशावग्नीषोमीयधर्मातिदेशाधिकरणे सूत्रम्   दैक्षस्य चेतरेषु।। 13।। षष्ठाधिकरणमारचयति- सवनीयादिके दार्शो दैक्षो, वा प्रकृतित्वतः। आद्योऽन्त्यो लिङ्गतोऽन्यत्र विकृतिः प्रकृतिर्भवेत्।। 9।। सवनीयानुबन्ध्यनिरूढादिपशुषु दर्शपूर्णमाससंबन्धी विध्यन्तः। कुतः- दर्शस्य प्रकृतित्वात्। दैक्षोऽग्नीषोमीयपशुविध्यन्तः, दीक्षितेनानुष्ठेयेषु पशुविध्यन्तेषु प्रथमभावित्वात्। तस्य चाग्नीषोमीयस्येष्टिविकृतित्वान्न प्रकृतित्वमस्ति। अतो न तस्य विध्यन्तोऽतिदेशार्हः। इति प्राप्ते- ब्रूमः- आलम्भोऽग्नीषोमीयपशौ लिङ्गम्। तच्च सवनीयादिष्वस्ति। तथा प्रातःसवनीयादिषु वपादिप्रचारोऽपरं लिङ्गम्। इष्टिं प्रति विकृतेरप्यन्यत्र सवनीयादौ प्रकृतित्वं न विरुध्यते। तस्मात्- अग्नीषोमीयपशोर्विध्यन्तं सवनीयादिपशुष्वतिदिशेत्।। 9।।  सप्तमे- ऐकादशिनपशौ समानधर्मातिदेशाधिकरणे सूत्रम्   ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात्।। 14।। सप्तमाधिकरणमारचयति- स्यादैकादशिने दैक्षात्सौत्याद्वाद्योऽस्तु पूर्ववत् । रशनाद्वयसौत्यत्वविशेषाल्लिङ्गतोऽन्तिमः।। 10।। ऐकादशिनाः पशव एवमाम्नायन्ते- ''आग्नेयः कृष्णग्रीवः। सारस्वती मेषी। बभ्रुः सौम्यः। पौष्णः श्यामः। शितिपृष्ठो बार्हस्पत्यः। शिल्पो वैश्वदेवः। ऐन्द्रोऽरुणः। मारुतः कल्माषः। ऐन्द्राग्नः संहितः। अधोरामः सावित्रः। वारुणः कृष्णः। एकशितिपात्येत्वः'' इति। यद्यप्यश्वमेधप्रकरण एते पठिताः, तथाऽपि ज्योतिष्टोमप्रकरणेऽप्येते विधीयन्ते- ''प्रैवाग्नेयेन वापयति। मिथुनं सारस्वत्या करोति। रेतः सौम्येन दधाति। प्रजनयति पौष्णेन'' इत्यादिना। तेष्वैकादशिनेषु दैक्षादग्नीषोमीयाद्विध्यन्तस्यातिदेशः स्यात्। कुतः- अग्नीषोमीयस्य पशुप्रकृतित्वेन पूर्वाधिकरणे निर्णीतत्वात्। इति चेत्- मैवम्। सौत्यगतविशेषलिङ्गदर्शनात्। सुत्याकाले भवः सौत्यः सवनीयः पशुः। तत्र चोदकप्राप्ता रशनैका। वाचनिकी द्वितीया। एतत्तु तृतीये निर्णीतम्। तदेतद्रशनाद्वयमग्नीषोमीयपशावसंभवात्सवनीयस्य विशेषलिङ्गमेकम्, सुत्याकालीनत्वं द्वितीयम्। ते च द्वे लिङ्गे ऐकादशिनेषु दृश्येते। तत्रेदमाम्नायते- ''द्वे द्वे रशने आदाय द्वाभ्यां द्वाभ्यां रशनाभ्यामेकैकं यूपं परिव्ययति'' इति। सुत्याकालीनत्वं च तेष्वस्ति। ततः सौत्याद्धर्मातिदेशः।। 10।।  अष्टमे- पशुगणेष्वैकादशिनधर्मातिदेशाधिकरणे सूत्रम्   तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात्।। 15।। अष्टमाधिकरणमारचयति- ललामादिगणे दैक्षादैकादशिनतोऽथवा। आद्यो विशेषराहित्यान्न गणत्वाविशेषतः।। 11।। काम्यपशुकाण्डे पशुगणः श्रूयते ''वसन्ते ललामांस्त्रीन्वृषभानालभेत'' इति। तत्र- रशनाद्वयादिविशेषलिङ्गाभावाद्दैक्षादग्नीषोमीयाद्धर्मातिदेशः। इति चेत्- न। गणत्वेन विशेषलिङ्गेनैकादशिनेभ्योऽतिदेशात्। ऐकादशिनानां पशुगणप्रकृतित्वं लिङ्गादवगम्यते। तथा हि सौत्रामण्यां पशुगणं प्रकृत्यैवमाम्नायते- ''यत्रिषु यूपेष्वालभेत। बहिर्धाऽस्मादिन्द्रियं वीर्यं दध्यात्। भ्रातृव्यमस्मै जनयेदेकयूप आलभते'' इति। यद्यत्राग्नीषोमीयः प्रकृतिः स्यात्, तदा चोदकादेकस्यैव यूपस्य प्राप्तत्वेन यूपत्रयप्रसक्त्यभावात्तदुपन्यासेन दोषाभिधानम्, पुनरेकयूपविधानं च व्यर्थं स्यात्। ऐकादशिनानां प्रकृतित्वे तु प्रतिपशु पृथग्यूपातिदेशेन प्रसक्तिसद्भावात्तदुपपद्यते। तस्मात्पशुगणेष्वैकादशिनेभ्योऽतिदेशः।। 11।।  नवमे- अव्यक्तपशौ सौमिकधर्मातिदेशाधिकरणे सूत्रम्   अव्यक्तासु तु सोमस्य।। 16।। नवमाधिकरणमारचयति- इष्टेः सोमस्य वा धर्मा विश्वजित्प्रमुखेष्विह। अविशेषादैच्छिकाः स्युः सोमस्याव्यक्तिसाम्यतः।। 12।। ''विश्वजिता यजेत'' ''अभिजिता यजेत'' ''द्वादशाहेन यजेत'' इत्यादिषु नियामकाभावादिष्टिसोमयोरन्यतरस्य धर्मा इच्छया ग्रहीतव्याः। इति चेत्- मैवम्। अव्यक्तत्वलिङ्गेन सोमसाम्यात्। उत्पत्तिवाक्ये देवतानभिधानमव्यक्तिः। तस्मात्- सोमस्य धर्मानतिदिशेत्।। 12।।  दशमे- अहर्गणेषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रम्   गणेषु द्वादशाहस्य।। 17।। दशमाधिकरणमारचयति- अहर्गणेषु सोमस्य द्वादशाहस्य वाऽग्रिमः। पूर्ववद्दिनसंघादिविशेषैरन्तिमो भवेत्।। 13।। द्विरात्रमारभ्य शतरात्रपर्यन्तेषु गवामयने च पूर्ववदव्यक्तिलिङ्गेन सोमस्य धर्माः। इति चेत्- न। विशेषलिङ्गसद्भावात्। द्वादशाहपदान्तर्गतोऽहःशब्दः षष्टिघटिकात्मकदिनपरः। द्विरात्रादिपदान्तर्गतो रात्रिशब्दश्च तादृशः। एतदेकं विशेषलिङ्गम्। अहःसंघोद्वितीयम्। द्वादश दीक्षास्तृतीयम्। तच्च गवामयने विद्यते। तत्र हि ''अभीन्धत एव दीक्षाभिः'' इत्युक्त्वा दीक्षायुग्मानि षडुपन्यस्तानि- ''द्वाभ्यां लोमावद्यन्ति। द्वाभ्यां त्वचम्। द्वाभ्यामसृक्। द्वाभ्यां मांसम्। द्वाभ्यामस्थि। द्वाभ्यां मज्जानम्'' इति। तस्मात्- अहर्गणेषु द्वादशाहस्य धर्माः।। 13।।  एकादशे- संवत्सरसत्रेषु गवामयनिकधर्मातिदेशाधिकरणे सूत्रम्   गव्यस्य च तदादिषु।। 18।। एकादशाधिकरणमारचयति- द्वादशाहस्य गव्यस्य वादित्याद्यङ्कितायने। पुरेवाद्यो गव्यधर्मा वत्सरत्वादिलिङ्गतः।। 14।। आदित्यानामयनम्, गवामयनम्, तपस्विनामयनम्, इत्यादिष्वहर्गणत्वादिलिङ्गेन द्वादशाहस्य धर्माः। इति चेत्- न। गव्यलिङ्गस्य विशेषस्य सत्त्वात्। गवां संबन्धि गव्यम्। गवामयनमिति यावत्। तस्य धर्मा एतेषु ग्राह्याः। कुतः- संवत्सरसाध्यत्वसामान्यात्। षष्ट्युत्तरशतत्रयदिवससाध्यत्वनियमसद्भावाच्च। 'पत्नय उपगायन्ति' इत्येतस्य गवामयनगतमाहाव्रतिकधर्मस्य दर्शनाच्च। तस्मात्- गव्यस्य धर्माः।। 14।।  द्वादशे- निकायिनामुत्तरेषु पूर्वनिकायिधर्मातिदेशाधिकरणे सूत्रम्   निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात्।। 19।। द्वादशाधिकरणमारचयति- साद्यस्क्रे सौमिकः पूर्वधर्मो वाऽव्यक्तभावतः। सौमिकः स्यादेकनामैकसंघस्थत्वतोऽन्तिमः।। 15।। साद्यस्क्रा इत्येकनामका एकसंघवर्तिनो बहवो यागाः श्रुताः। तथा- 'साहस्राः' इति। तस्मिन्साद्यस्क्रसंघे प्रथमः साद्यस्क्रो धर्मसंयुक्त आम्नातः। एवं साहस्रेष्वपि। तत्र धर्मरहिते द्वितीयादिके साद्यस्क्रे साहस्रे चाव्यक्तत्वसाम्यात्सौमिको धर्मः। इति चेत्- मैवम्। एकनामत्वैकसंघवर्तित्वाभ्यां विशेषलिङ्गाभ्यां प्रथमसाद्यस्क्रप्रथमसाहस्रधर्मस्यैवोचितत्वाद्द्वितीयादिसाद्यस्क्रादिष्वतिदेशः।। 15।।  त्रयोदशे फलादीनामनतिदेशाधिकरणे सूत्राणि 20-22   कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्बन्धनत्वात्।। 20।।  प्रवृत्तौ चापि तादर्थ्यात्।। 21।।  अश्रुतित्वाच्च।। 22।। त्रयोदशाधिकरणमारचयति- फलं च नियमः कर्ता संघः सौर्ये न वाऽग्रिमः। प्रयाजवन्न विध्यादिविध्यन्तत्वविभेदतः।। 16।। इष्टौ फलादयश्चत्वारः सन्ति। फलं- स्वर्गः, नियमः- यावज्जीवकत्वम्, कर्ता- स्वर्गकामः, संघः- आग्नेयादीनां षष्णां साहित्यम्। त एते चत्वारः सौर्ये प्रयाजादिवदतिदेष्टव्याः। इति चेत्- न। वैषम्यात् प्रयाजादिराकाङ्क्षितविध्यन्तत्वादतिदिश्यते। विध्यादिस्तु नाकाङ्क्षितः। 'सौर्यं चरुं निर्वपेत्' इति मुख्यविधेः प्रत्यक्षश्रवणात्। अन्यथा विध्यन्तेऽपि कस्याकाङ्क्षा वर्ण्येत। तस्मात्- प्रधानकर्मणोऽनाकाङ्क्षितस्य विकृतावप्रवृत्तेस्तत्संबद्धाः फलादयोऽप्यनाकाङ्क्षितत्वान्नातिदिश्यन्ते।  चतुर्दशे- गुणकामानां गोदोहनादीनामनतिदेशाधिकरणे सूत्राणि 23-25   गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात्।। 23।।  निवृत्तिर्वा कर्मभेदात्।। 24।।  अपि वाऽतद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात्।। 25।। चतुर्दशाधिकरणमारचयति- गोदोहनाद्यस्ति नो वा भवेत्प्रणयनाश्रयात्। अनङ्गत्वादपेक्षाया अभावान्नातिदिश्यते।। 17।। ''चमसेनापः प्रणयेत्। गोदोहनेन पशुकामस्य'' इति दर्शपूर्णमासयोः श्रुतं गोदोहनं सौर्येऽप्यतिदेष्टव्यम्। कुतः- तदाश्रयस्य प्रणयनस्य सद्भावात्। इति चेत्- मैवम्। क्रत्वङ्गतया चमस एव प्रणयनसाधनमपेक्षितम्। न त्वनङ्गं पुरुषार्थं गोदोहनम्। अतः फलनियमादिवन्नातिदेशः।। 17।।  पञ्चदशे- सौर्ये चरावभिमर्शनद्वयस्य विकल्पाधिकरणे सूत्रम्   एककर्मणि विकल्पोऽविभागो हि चोदनैकत्वात्।। 26।। पञ्चादशाधिकरणमारचयति- स्पर्शद्वयं व्यवस्थाप्यं विकल्प्यं वा, व्यवस्थितिः। प्रकृताविव नो तत्र तस्याः शाब्दत्ववर्जनात्।। 18।। दर्शपूर्णमासयोर्हविषां स्पर्शनद्वयं व्यवस्थितमन्त्रद्वयसाध्यमाम्नातम्- ''चतुर्होत्रा पौर्णमासीमभिमृशेत्। पञ्चहोत्रामावास्याम्'' इति। ''पृथिवी होता'' इत्यादिमन्त्रश्चतुर्होता। ''अग्निर्होता'' इत्यादिमन्त्रः पञ्चहोता। तदेतदुभयं सौर्यादौ चोदकप्राप्तं सत्कालभेदेनानुष्ठानद्वये व्यवस्थापनीयम्। कुतः- प्रकृतौ पौर्णमास्यमावास्ययोः कालयोर्भेदेन व्यवस्थितत्वात्। इति चेत्- न। प्रकृतौ व्यवस्थाया आर्थिकत्वात्। शाब्दस्यैवाङ्गत्वेनातिदेशार्हत्वात्। तस्मात्- उभयं विकृताविच्छया विकल्प्यताम्।। 18।।  षोडशे- सौर्यचरावाग्नेयधर्मातिदेशाधिकरणे सूत्राणि 27-31   लिङ्गसाधारण्याद्विकल्पः स्यात्।। 27।।  ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि।। 28।।  अश्रुतित्वान्नेति चेत्। 29।।  स्याल्लिङ्गभावात्।। 30।।  तथा चान्यार्थदर्शनम्।। 31।। षोडशाधिकरणमारचयति- षट्त्सु कस्याप्युताग्नेयस्यैव सौर्येऽग्रिमो यतः। अविशेषो, न देवैक्यादौषधद्रव्यकत्वतः।। 19।। दर्शपूर्णमासगतेषु षट्त्सु यागेषु यस्य कस्यापि विध्यन्तः सौर्ये कर्तव्यः। 'अस्यैव' इति विशेषनियामकस्याभावात्। इति चेत्- न। देवतैक्यस्य नियामकत्वात्। सौर्यशब्दगततद्धितप्रत्ययविग्रहस्य 'सूर्यौ' इति द्विवचनेनापि कर्तुं शक्यत्वाद्देवतैक्यमनिश्चितमिति चेत्- न। विधिशेषार्थवादोक्तौ ''अमुमेवादित्यम्'' इत्येकवचनेन तद्व्यपदेशादाग्नेयार्थवादेऽपि ''सोऽग्नयेऽध्रियत'' इत्येकवचनं व्यपदिष्टम्। अत आग्नेयस्यैव विध्यन्तः, न त्वग्नीषोमैन्द्राग्नयोः। यद्यपि- ऐन्द्रयोर्दधिपयसोः प्राजापत्य उपांशुयाजेऽपि दैवतैक्यमस्ति, तथाऽपि- औषधद्रव्यकत्वमाग्नेये विशिष्यते। तस्मात्- तस्यैव विध्यन्तः।। 19।।  सप्तदशे- हविर्देवतयोः संनिपाते हविः सामान्यस्य बलीयस्त्वाधिकरणे सूत्राणि 32-34   विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपास्यत्वात्।। 32।।  तेन च कर्मसंयोगात्।। 33।।  गुणत्वेन देवताश्रुतिः।। 34।। सप्तदशाधिकरणमारचयति- देवो बली हविर्वैन्द्रे पुरोडाशेऽग्रिमो यतः ।देवो मुख्योऽन्तरङ्गं तद्धविः कर्मण्यतो बलि।। 20।। ''ऐन्द्रमेकादशकपालं निर्वपेत्'' इत्यत्र देवतासाम्येन सांनाय्यधर्मः प्राप्नोति। हविःसाम्येन पुरोडाशधर्मः। तत्र देवो बली। कुतः- मुख्यत्वात्। तच्च प्राथमिकेन पदेनोच्यमानत्वात्प्रातिपदिकार्थत्वाच्च द्रष्टव्यम्। हविस्तु द्वितीयेन पदेनोच्यते। तत्रापि- 'एकादशसु कपालेषु संस्कृतः' इत्यस्मिन्नर्थे विहितस्य प्रत्ययस्यार्थः। अतो मुख्यत्वाद्देवतासामान्यं प्रबलम्। इति प्राप्ते- ब्रूमः- त्यज्यमानतया त्यागरूपे कर्मणि हविः प्रत्यासन्नम्। देवता तु मनसैवोद्दिश्यमानत्वाद्यागक्रियाया बहिरङ्गम्। यत्तु मुख्यत्वमुक्तम्। तत्- शब्दोपाधिकम्। न तु स्वाभाविकम्। तस्मात्- स्वाभाविकेनान्तरङ्गत्वेन हविःसामान्यस्य प्रबलत्वात्पुरोडाशधर्मः कर्तव्यः। एवम्- ''आग्नेयं पयः'' इत्यत्र सांनाय्यधर्मो द्रष्टव्यः।। 20।।  अष्टादश- शतकृष्णलाख्यहिरण्य औषधधर्मातिदेशाधिकरणे सूत्राणि 35-39   हिरण्यमाज्यधर्मं तेजस्त्वात्।। 35।।  धर्मानुग्रहाच्च।। 36।।  औषधं वा विशदत्वात्।। 37।।  चरुशब्दाच्च।। 38।।  तस्मिंश्च श्रपणश्रुतेः।। 39।। अष्टादशाधिकरणमारचयति- कृष्णलेषु घृतस्योत व्रीहेस्तेजोयुतेर्भवेत्। घृतस्य मैवं वैशद्याच्चरुशब्दयुतेस्तथा।। 21।। ''प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलम्'' इत्यत्र कृष्णलेषूपांशुयाजद्रव्यस्य घृतस्य धर्माः कर्तव्याः। कृष्णलाख्यसुवर्णस्य घृतस्य च तेजस्वित्वसाम्यात्। इति चेत्- मैवम्। सुवर्णशकलव्रीह्योर्वैशद्यसाम्यात्। न हि घृतस्य प्रबलकाठिन्यविरलत्वादिरूपं वैशद्यमस्ति। चरुशब्दश्चौषधद्रव्यविषयः कृष्णलेषु प्रयुज्यमान औषधधर्मान्प्रापयति। तस्मात्- व्रीहिधर्माः कर्तव्याः।। 21।।  एकोनविंशे- मधूदक उपांशुयाजीयाज्यधर्मातिदेशाधिकरणे सूत्राणि 40-43   मधूदके द्रवसामान्यात्पयोविकारः स्यात्।। 40।।  आज्यं वा वर्णसामान्यात्।। 41।।  धर्मानुग्रहाच्च।। 42।।  पूर्वस्य चाविशिष्टत्वात्।। 43।। एकोनविंशाधिकरणमारचयति- क्षीरस्याज्यस्य वा नीरे मधुन्यप्यग्रिमो यतः। द्रवत्वं न घृतेऽप्यस्य सत्त्वाद्वर्णाच्च संभवत।। 22।। चित्रायागे श्रूयते ''दधि, मधु, घृतम्, आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्'' इति। तत्र- मधुन्युदके च द्रवत्वसामान्येन सांनाय्यगतस्य पयसो धर्माः। इति चेत्- न। घृतेऽप्यग्निसंपर्केण द्रवत्वसद्भावादशुक्लवर्णत्वादाज्यधर्माणामुत्पवनादीनां संभवात्, पयोधर्माणां दोहनादीनामसंभवाच्चोपांशुयाजगतस्याज्यस्य धर्माः कर्तव्याः।। 22।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य प्रथमः पादः।। 1।। अत्र पादे- अधिकरणानि 19, सूत्राणि 43। आदितः- अधिकरणानि 513, सूत्राणि 1435। अष्टमाध्यायस्य द्वितीयः पादः अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्।  प्रथमे- ऐष्टिकसौत्रामण्योरैष्टिकधर्मातिदेशाधिकरणे सूत्राणि 1-9   वाजिने सोमपूर्वत्वं सौत्रामण्यां च ग्रहेषु ताच्छब्द्यात्।। 1।।  अनुवषट्काराच्च।। 2।।  समुपहूय भक्षणाच्च।। 3।।  क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनं च तद्वत्।। 4।।  हविषा वा नियम्येत तद्विकारत्वात्।। 5।।  प्रशंसा सोमशब्दः।। 6।।  वचनानीतराणि।। 7।।  व्यपदेशश्च तद्वत्।। 8।।  पशुपुरोडाशस्य च लिङ्गदर्शनम्।। 9।। द्वितीयपादे प्रथमाधिकरणमारचयति- सुरावाजिनयोः सोमस्योष्टेर्वा सोमशब्दतः । आद्यो मैवं हविःसाम्यात्सोमशब्दः प्रशस्तये।। 1।। सौत्रामण्यां सुराग्रहाः ''आश्विनं गृह्णाति'' इत्यादिना।चातुर्मास्येषु वाजिनयागः श्रुतः ''वाजिभ्यो वाजिनम्'' इति।तत्र- उभयत्र सोमस्य विध्यन्तः कर्तव्यः। कुतः ''सोमो वै वाजिनम्'',''सुरा सोमः'' इति वाजिने सुरायां च सोमशब्दप्रयोगात्। सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशति। इति चेत्- मैवम्। ऐष्टिकहविःसाम्यात्। औषधविकृता सुरा। सांनाय्यविकृतं वाजिनम्। तस्मात्- ऐष्टिको विध्यन्तः। सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः। यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा, तर्हि तस्मिन्नंशे कृत्वाचिन्ताऽस्तु।। 1।।  द्वितीये-पशौ सांनाय्यधर्मातिदेशाधिकरणे सूत्राणि 10-14   पशुः पुरोडाशविकारः स्याद्देवतासामान्यात्।। 10।।  प्रोक्षणाच्च।। 11।।  पर्यग्निकरणाच्च।। 12।।  सांनाय्यं वा तत्प्रभवत्वात्।। 13।।  तस्य च पात्रदर्शनात्।। 14।। द्वितीयाधिकरणमारचयति- पुरोडाशस्य सांनाय्यस्य वा धर्मः पशौ यतः । देवैक्यमाद्यस्तस्मान्नो हविर्जन्मादिसाम्यतः।। 2।। अग्नीषोमीये पशावग्नीषोमीयपुरोडाशस्य धर्मः कार्यः। कुतः- देवतैक्यात्। इति चेत्- मैवम्। सांनाय्यं पशोरुत्पन्नम्, पशुरपि पशोरुत्पन्नः। श्रपणार्थमुखा सांनाय्यपश्वोः समा। 'हविःसाम्यं च बलीयः' इत्युक्तम्। तस्मात्- सांनाय्यस्य धर्मः।। 2।।  तृतीये- पशौ पयोधर्मातिदेशाधिकरणे सूत्राणि 15-18   दध्नः स्यान्मूर्तिसामान्यात्।। 15।।  पयो वा कालसामान्यात्।। 16।।  पश्वानन्तर्यात्।। 17।।  द्रवत्वं चाविशिष्टम्।। 18।। तृतीयाधिकरणमारचयति- दध्नोऽत्र पयसो वाद्यो घनत्वस्य समत्वतः। द्रवत्वासत्तिकालेभ्यो धर्मः स्यात्पयसः पशौ।। 3।। सांनाय्यधर्मवत्यस्मिन्पशौ घनत्वेन दध्नो धर्मः। इति चेत्- मैवम्। 'द्रवति गच्छति' इति द्रवत्वं पशावस्ति। पयसि च तद्विद्यते। प्रत्यासन्नं च पयः, साक्षात्पशुप्रभवत्वात्। दधि तु पयसा व्यवहितम्, एकाहकालीने च पशुपयसी। द्व्यहकालीनं दधि। तस्मात्- पशौ पयसो धर्मः कार्यः।। 3।।  चतुर्थे- आमिक्षायां पयोधर्मातिदेशाधिकरणे सूत्राणि 19-23   आमिक्षोभयभाव्यत्वादुभयविकारः स्यात्।। 19।।  एकं वा चोदनैकत्वात्।। 20।।  दधिसंघातसामान्यात्।। 21।।  पयो वा तत्प्रधानत्वाल्लोकवत्, दध्नस्तदर्थत्वात्।। 22।।  धर्मानुग्रहाच्च।। 23।। चतुर्थाधिकरणमारचयति- द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः। द्वयोर्दध्नो घनत्वेन प्राधान्यात्पयसो भवेत्।। 4।। ''तप्ते पयसि दध्यानयति सा वैश्वदेव्याभिक्षा'' इति श्रुतायामामिक्षायां सांनाय्यगतयोर्दधिपयसोर्द्वयोर्धर्मः कार्यः। कुतः- आमिक्षाया उभयजन्यत्वात्। इत्येकः पक्षः। घनत्वसाम्यस्याधिक्याद्दधिधर्मः। इति द्वीतीयः पक्षः। पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते। ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः।। 4।।  पञ्चमे- द्वादशाहे सत्राहीनयोर्व्यवस्थया धर्मातिदेशाधिकरणे सूत्राणि 24-28   सत्रमहीनश्च द्वादशाहः, तस्योभयथा प्रवृत्तिरैककर्म्यात्।। 24।।|  अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्, प्रकृत्या तुल्यशब्दत्वात्।। 25।।  द्विरात्रादीनामैकादशरात्रादहीनत्वं यजतिचोदनात्।। 26।।  त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात्।। 27।।  लिङ्गाच्च।। 28।। पञ्चमाधिकरणमारचयति- अहीनसत्रयोर्द्वादशाहान्तावव्यवस्थितौ। व्यवस्थितौ वाऽविशेषादाद्योऽन्त्यः स्वस्वलिङ्गतः।। 5।। प्रायणीयः, अतिरात्रः, पृष्ठ्यः, षडहः, त्रयश्छन्दोमाः, अविवाक्यमहः, उदयनीयोऽत्रिरात्रः इत्येवमहर्गणो द्वादशाहः। स च याज्ञिकप्रसिद्ध्या द्विविधः- सत्रम्, अहीनश्चेति। संज्ञाव्यवस्थया द्वयोर्धर्मा आम्नाताः- ''एको द्वौ बहवो वाऽहीनेन यजेरन्। अदीक्षिता याजयेयुः। गृहपतिसप्तदशाः स्वयमृत्विजो ब्राह्मणाः सत्रमुपेयुः'' इत्यादयः। ततो द्विविधो द्वादशाहस्य विध्यन्तः। 'द्वादशाहश्चाहर्गणानां प्रकृतिः' इत्युक्तम्। अहर्गणाश्च द्विविधाः- द्विरात्रादयः, एकादशरात्रान्ता अहीनाः। त्रयोदशरात्रादीनि च सत्राणि। तत्राहीनसत्रयोर्द्वादशाहविध्यन्तावव्यवस्थया प्राप्नुतः। कुतः- व्यवस्थापकविशेषाभावात्। इति चेत्- मैवम्। तत्तल्लिङ्गस्य व्यवस्थापकत्वात्। 'आसीरन्' 'उपेयुः' इति चोदनाद्वयम्, यजमानबहुत्वनियमः, ऋत्विग्यजमानैक्यं च सत्रलिङ्गम्। यजतिचोदना, यजमानबहुत्वविकल्पः, ऋत्विग्यजमानभेदश्चाहीनलिङ्गम्। एतच्च दशमाध्याये (6 पादे, अधि.16) एवं विचारयिष्यते- अहीनसत्रयोर्लक्ष्मभेदो नास्त्यस्ति वा नहि। आवृत्तिसाम्यादाद्यः स्यादिज्यासिभ्यां तयोर्भिदा।। इति। एतच्च लिङ्गद्वयं द्वादशाहे श्रूयते ''द्वादशाहेन प्रजाकामं याजयेत्'' इति, ''द्वादशाहमृद्धिकामा उपेयुः'' इति, ''द्वादशाहमृद्धिकामा आसीरन्'' इति च। द्विरात्रादिषु यजतिचोदनैव- ''द्विरात्रेण यजेत'' ''त्रिरात्रेण यजेत'' इत्यादि। त्रयोदशरात्रादिषु सत्रलिङ्गमेव- ''त्रयोदशरात्रमृद्धिकामा उपेयुः'' इति, ''चतुर्दशरात्रं प्रतिष्ठाकामा आसीरन्'' इति च। तस्मात्- यथालिङ्गं धर्मव्यवस्था।। 5।।  षष्ठे पञ्चदशरात्रादिषु सत्रधर्मातिदेशाधिकरणे सूत्राणि 29-32   अन्यतरतोऽतिरात्रत्वात्पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च तद्भूतेष्वहीनत्वस्य दर्शनात्।। 29।।  अहीनवचनाच्च।। 30।।  सत्रे वोपायिचोदनात्।। 31।।  सत्रलिङ्गं च दर्शयति।। 32।। षष्टाधिकरणमारचयति- किं पञ्चदशरात्रस्य कुण्डपाय्ययनस्य च । अहीनत्वं सत्रता वाऽतिरात्रैकत्वतोऽग्रिमः।। 6।। उपायिलिङ्गतः सत्रे प्रबलं विधिवाक्यगम्। सन्त्रान्तरेभ्योऽहीनत्वलिङ्गेनैतत्प्रशस्यते।। 7।। पञ्चदशरात्र एवंविधः- ''त्रिवृदग्निष्टुदग्निष्टोमस्त्रिरात्रो दशरात्र उदयनीयोऽतिरात्रः'' इति। कुण्डपायिनामयनस्योपक्रमे- मासाग्निहोत्रम्, अवसाने- दशरात्रः, महाव्रतम्- उदयनीयोऽतिरात्रः, इति। तयोरुभयोरादावतिरात्रो नास्ति, अन्ते तु विद्यते। तदिदमन्यतरतोऽतिरात्रत्वमहीनलिङ्गम्। संप्रतिपन्नाहीनेषु तद्दर्शनात्। श्रुतिश्च भवति- ''यदन्यतरतोऽतिरात्रस्तेनाहीनः'' इति। तस्मात्- सत्रलिङ्गस्योभयतो-तिरात्रत्वस्याभावादहीनलिङ्गसद्भावाच्च तयोरहीनत्वम्। इति चेत्- मैवम्। उपायिचोदनारूपस्य सत्रलिङ्गस्य दर्शनात्। सत्रे- ''यज्ञे यं काममिच्छन्ति त एनं पञ्चदशरात्रमुपेयुः'' इति। कुण्डपायिनामयनेऽपि- ''भूतिकामा उपेयुः'' इति। इदं च लिङ्गं विधिवाक्यगतत्वात्प्रबलम्। या तु पञ्चदशरात्रे सलिङ्गा श्रुतिरुदाहृता, तया सत्रान्तरेभ्योऽधिकत्वेन प्रशस्यते- 'इतराणि केवलसत्राण्येव। पञ्चदशरात्रस्तु स्वरूपेण सत्ररूपोऽप्यन्त्यातिरात्रत्वलिङ्गेन 'अहीनः' इत्यपि व्यवहारमर्हति' इति। तस्मात्- सत्रे एते उभे। तयोः सत्रधर्मानेवातिदिशेत्।। 6।। 7।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य द्वितीयः पादः।। 2।। अत्र पादे- अधिकरणानि 6, सूत्राणि 32। आदितः- अधिकरणानि 519, सूत्राणि 1467। अष्टमाध्यायस्य तृतीयः पादः प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः।  प्रथमे- शुचिदेवक आग्नेयस्य, आग्नावैष्णवे चाग्नीषोमीयस्य, धर्मातिदेशाधिकरणे सूत्रे 1-2   हविर्गणे परमुत्तरस्य देशसामान्यात्।। 1।।  देवतया वा नियम्येत शब्दवत्त्वादितरस्याश्रुतित्वात्।। 2।। तृतीयपादे प्रथमाधिकरणमारचयति- आग्नावैष्णव आग्नेयविकृतिः शुचिदेवकः। अग्नीषोमीयविकृतिरथवा व्यत्ययो द्वयोः।। 1।। प्रथमत्वद्वितीयत्वसाम्यादाद्योऽन्तिमो भवेत्। द्विदेवत्वैकदेवत्वसाम्यस्य श्रुतिमत्त्वतः।। 2।। हविर्गणः क्वचिच्छ्रूयते ''आग्नावैष्णवमेकादशकपालं निर्वपेत्। सरस्वत्यैचरुम्। बार्हस्पत्यं चरुम्'' इति। गणान्तरं चैवमाम्नायते ''अग्नये पावकाय, अग्नये शुचयेऽष्टाकपालम्'' इति। तत्र-आग्नावैष्णवस्य प्रथमस्थानत्वादाग्नेयविकृतित्वं युक्तम्। शुचिदेवकस्य द्वितीयस्थानत्वादग्नीषोमीयविकृतित्वम्। इति चेत्- न। द्विदेवत्वादिसाम्यस्य श्रूयमाणत्वेनार्थसिद्धस्थानतो बलीयस्त्वात्। तस्मादाग्नावैष्णवोऽग्रीषोमीयविकृतिः। शुचिदेवक आग्नेयविकृतिः।। 1।। 2।।  द्वितीये- जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणे सूत्राणि 3-5   गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत्।। 3।।  नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात्।। 4।।  तथा चान्यार्थदर्शनम्।। 5।। द्वितीयाधिकरणमारचयति- त्रिवृत्स्वहःस्वादिमस्य द्वादशाहस्य वाऽग्रिमः । शाब्दत्रिवृत्त्वतोऽन्त्यः स्यादहःसंघानुसारतः।। 3।। जनकसप्तरात्रे श्रूयते ''चत्वारि त्रिवृन्त्यहान्यग्निष्टोमाख्यानि'' इति। तत्र त्रिवृत्स्तोमविशिष्टं यत्प्रथममहः, तस्य विध्यन्त उत्तरेषु त्रिष्वहःसु कर्तव्यः। पूर्वन्यायेन शाब्दस्य त्रिवृत्त्वसामान्यस्य विद्यमानत्वात्। इति चेत्- मैवम्। तदानीमेकस्यैवाह्नश्चतुरावृत्त्या चत्वार्यहानि न सिध्येयुः। किंच- 'अग्निष्टोममुख्यानि' इत्याद्यस्यैकस्यैवाग्निष्टोमत्वं विधीयते। त्वत्पक्षे तूत्तरेषामपि त्रयाणामग्निष्टोमत्वान्मुख(ख्य) शब्दो नोपपद्यते। ततो द्वादशाहस्य विध्यन्तो ग्राह्यः। द्वादशाहे पृष्ठ्ये षडहे त्रिवृत्, पञ्चदशः, सप्तदशः एकविंशः, इत्येतेषां चतुर्णामह्नां परस्परविलक्षणानां संघत्वयोग्यानां विध्यन्ते स्वीकृते सति नोक्तदोषद्वयम्। ननु पञ्चदशानां त्रिवृत्त्वमयुक्तमिति चेत्- न। वचनेन स्तोममात्रबाधात्। तद्व्यतिरिक्तस्तु विध्यन्तोऽतिदेष्टव्यः।। 3।।  तृतीये-षट्त्रिंशद्रात्रे षडहधर्मातिदेशाधिकरणे सूत्रे 6-7   कालाभ्यासेऽपि बादरिः कर्मभेदात्।। 6।।  तदावृत्तिं तु जैमिनिरह्नामप्रत्यक्षसंख्यत्वात्।। 7।। तृतीयाधिकरणमारचयति- चत्वारः षडहा द्वादशाहस्य षडहस्य वा। चतुर्विंशतिसंघार्थमाद्योऽन्त्यः षडहश्रुतेः।। 4।। षट्त्रिंशद्रात्रे श्रूयते ''षडहा भवन्ति चत्वारो भवन्ति'' इति। तत्र- अहः संज्ञकानां सोमयागानां संख्याविशेषः षडहपदान्तर्गतेन षट्शब्देनाभिधीयते। सा च षट्संख्या पुनश्चतुःसंख्यया विशिष्यमाणा चतुर्विंशतिसंख्याकानामह्नां संघे पर्यवस्यति। अहःसंघस्य च प्रकृतिर्द्वादशाहः। अतस्तल्लिङ्गस्य संघत्वस्य दर्शनात्तस्यैव विध्यन्तः प्रवर्तते। यदि सकृत्प्रवृत्त्या चतुर्विंशतिसंख्या न पूर्येत तर्हि यावत्पूर्ति सोऽभ्यस्यताम्। इति प्राप्ते- ब्रूमः- षट्भिरहोभिर्निष्पाद्यः कर्मविशेषः षडहशब्दवाच्यः। ते च कर्मविशेषाश्चत्वारः। तथा सति चतुर्विंशतिशब्दो नात्र शाब्दः। ततः शाब्दस्य षडहनामकस्य कर्मविशेषस्य विध्यन्तो न्याय्यः। यदि विलक्षणाः षडहाश्चत्वारो न स्युः, तर्ह्येक एव चतुरभ्यस्यताम्। त्वत्पक्षेऽपि द्वादशाहोऽभ्यस्यते। तस्मात्- षडहत्वविशेषलिङ्गात्तस्यैव विध्यन्तः।। 4।।  चतुर्थे- संस्थाशब्देषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रे 8-9   संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात्।। 8।।  अधिकाराद्वा प्रकृतिस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात्।। 9।। चतुर्थाधिकरणमारचयति- शतोक्थ्ये ज्योतिषो यद्वा द्वादशाहस्य नामतः। आद्यः समाप्तिनामैतत्संघत्वादन्तिमो भवेत्।। 5।। ''शतोक्थ्यं भवति। शतातिरात्रं भवति। पञ्चाग्निष्टोमः पञ्चोक्थ्यः'' इत्यादयः श्रूयन्ते। तेषु ज्योतिष्टोमस्य विध्यन्तः कार्यः। कुतः- उक्थ्यः, षोडशी, अतिरात्रः, अग्निष्टोमः, इत्यादीनां ज्योतिष्टोमनामत्वात्। इति चेत्- मैवम्। उक्थ्यादीनि स्तोत्राणि। तथा सति यस्य कर्मणः समाप्तिर्येन स्तोत्रेण क्रियते, तस्मिन्कर्मणि संस्थानिमित्तक उक्थ्यादिशब्दो वर्तते। ततो द्वादशाहगतेष्वहःसूक्थ्यादिनामसंभवात्संघत्वलिङ्गेन द्वादशाहस्य विध्यन्तो भवति। तत्र- आद्यन्तौ प्रायणीयोदयनीयौ वर्जयित्वा मध्यवर्तिनो दशरात्रस्य विध्यन्तो द्विरात्रादिविकृतिष्वतिदेष्टव्यः, इति दशमाध्याये वक्ष्यते। तथा सत्यत्र दशरात्रो दशकृत्वोऽभ्यस्यमानः प्रत्यहमुक्थ्यस्तोत्रेण समाप्यमानः शतोक्थ्यनामतामापद्यते। एवमितरत्रापि योज्यम्।। 5।।  पञ्चमे- शतोक्थ्यादौ ज्योतिष्टोमात्स्तोत्रोपचयाधिकरणे सूत्रे 10-11   गणादुपचयस्तत्प्रकृतित्वात्।। 10।।  एकाहाद्वा तेषां समत्वात्स्यात्।। 11।। पञ्चमाधिकरणमारचयति- शतोक्थ्यादौ स्तोत्रवृद्धिर्गणादेकाहतोऽथवा। आद्यो गणविकारत्वादन्त्योऽत्र स्तोत्रजन्मतः।। 6।। पूर्वोदाहृते शतोक्थ्ये, शतातिरात्रे च स्तोत्रवृद्धिरपेक्षिता। तथा हि ज्योतिष्ठोमः सप्तसंस्थः। तत्राग्निष्टोमः प्रथमसंस्था। तत्र द्वादश स्तोत्राणि। प्रातःसवने बहिष्पवमानस्तोत्रमेकम्, चत्वार्याज्यस्तोत्राणि। माध्यंदिनसवने माध्यंदिनः पवमान एकं स्तोत्रम्, चत्वारि पृष्ठस्तोत्राणि। तृतीयसवने- आर्भवः पवमान एकं स्तोत्रम्, यज्ञायज्ञियसामसाध्यमग्निष्टोमस्तोत्रमपरम्, तेन स्तोत्रेणायं प्रकृतिरूपो यज्ञः संतिष्ठते। तद्विकृतिषु प्रथमायामग्निष्टोमस्तोत्रादूर्ध्वं त्रीण्युक्थ्यस्तोत्राणि भवन्ति। तैः सा विकृतिः संतिष्ठते। ततोऽप्यूर्ध्वं षोडशेन स्तोत्रेणान्या विकृतिः संतिष्ठते। एवं विकृत्यन्तरेषु द्रष्टव्यम्। तस्मात्- समाप्तिनिमित्तान्यग्निष्टोमोक्थ्यषोडश्यतिरात्रादिनामानि। एतदेवोपजीव्य पूर्वाधिकरणे द्वादशाहगतानामह्नामुक्थ्यादिनामसंभवात्तदीयदशरात्रविध्यन्तः शतोक्थ्यादावतिदिष्टः। तस्य च दशरात्रस्याद्यन्तौ द्वावग्निष्टोमौ। तथा सति दशकृत्वस्तदभ्यासे विंशतिरग्निष्टोमाः संपद्यन्ते। तेषामुक्थ्यत्वं संपादयितुं प्रत्यग्निष्टोममुक्थ्यनामकं स्तोत्रं वर्धनीयम्। अन्यथा शतोक्थ्यत्वं न स्यात्, किंत्वशीत्युक्थ्यत्वमेव स्यात्। एवं सति- अतिरात्रेऽपि प्रत्यहमतिरात्रत्वप्रयोजकं स्तोत्रं वर्धनीयम्। तत्र गणत्वेन द्वादशाहविकारत्वात्तदीयस्तोत्रातिदेशः। इति प्राप्ते- ब्रूमः- उक्थ्यादिस्तोत्राण्येकाहज्योतिष्टोम उत्पन्नानि। तस्मात्- एकाहाद्यथा द्वादशाहेऽतिदिश्यन्ते, तथा शतोक्थ्येऽप्येकाहादेवातिदिश्यन्ताम्। अन्यथा 'भिक्षुको भिक्षुकान्तराल्लिप्सते' इति न्याय आपतेत्। या त्वतिदेशपरम्परा तत्र तत्रोदाहृता, तत्र सर्वत्र प्रबलं लिङ्गमुपन्यस्तम्। इह तु गणत्वमहर्गतम्, न तु स्तोत्रगतम्। तस्मात्- द्वादशाहीयस्तोत्र गतान्विशेषानुपेक्ष्य तद्विशेषरहितानिस्तोत्राणि ज्योतिष्टोमादतिदेष्टव्यानि।। 6।।  षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36   गायत्रीषु प्राकृतीनामवच्छेदः प्रवृत्त्यधिकारात्, संख्यात्वादग्निष्टोमवदव्यतिरेकात्त-दाख्यत्वम्।। 12।।  तन्नित्यवच्च पृथक्सतीषु तद्वचनम्।। 13।।  न विंशतौ दशेति चेत्। 14।।  ऐकसंख्यमेव स्यात्।। 15।।  गुणाद्वा द्रव्यशब्दः स्यादसर्वविषयत्वात्।। 16।।  गोत्ववच्च समन्वयः।। 17।।  संख्यायाश्च शब्दवत्त्वात्।। 18।।  इतरस्याश्रुतित्वाच्च।। 19।।  द्रव्यान्तरे निवेशादुक्थ्यलोपैर्विशिष्टं स्यात्।। 20।।  अशास्त्रलक्षणत्वाच्च।। 21।।  उत्पत्तिनामधेयत्वाद्भक्त्या पृथक्सतीषु स्यात्।। 22।।  वचनमिति चेत्। 23।।  यावदुक्तम्।। 24।।  अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम्।। 25।।  ऋग्गुणत्वान्नेति चेत्।। 26।।  तथा पूर्ववति स्यात्।। 27।।  गुणावेशश्च सर्वत्र।। 28।।  निष्पन्नग्रहणान्नेति चेत्।। 29।।  तथेहापि स्यात्।। 30।।  यदि वाऽविशये नियमः प्रकृत्युपबन्धाच्छब्देष्वपि प्रसिद्धः स्यात्।। 31।।  दृष्टः प्रयोग इति चेत्।। 32।।  तथा शरेष्वपि।। 33।।  भक्त्येति चेत्।। 34।।  तथेतरस्मिन्।। 35।।  अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात्।। 36।। षष्ठाधिकरणमारचयति- अहर्गायत्रमित्यत्र वर्णलोप ऋचोऽथवा। आद्यः संख्योक्तितो मैवं गद्यादौ तत्प्रसङ्गतः।। 7।। ''वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत'' इति श्रुतम्। तत्रेदमपरमाम्नातम्- ''गायत्रमेतदहर्भवति'' इति। तस्मिन्नेकाहे बृहस्पतिसवरूपे प्रकृतिभूताज्ज्योतिष्टोमान्नानाछन्दांसि त्रिष्टुबादीन्यतिदिष्टानि। तेष्वधिकाक्षराणि विलोप्य चतुर्विंशत्यक्षराणि परिशेष्य गायत्रीत्वं संपादनीयम्। कुतः- ''चतुर्विंशत्यक्षरा गायत्री'' इत्यक्षरसंख्यायास्तच्छब्दप्रवृत्तिनिमित्तत्वश्रवणात्। इति चेत्- मैवम्। अतिप्रसङ्गात्। कविभिर्निर्मिते गद्ये, तत्तद्देशीयभाषासु च तथाक्षरसंख्यया गायत्रीत्वं केन वार्येत। तस्मात्- दशतय्यामुत्पन्नासु चतुर्विंशत्यक्षरास्वृक्षुवर्तमानः कश्चिदवान्तरजातिविशेषस्तत्प्रवृत्तिनिमित्तम्। तस्मात्- तासामृचामागमः कर्तव्यः।। 7।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य तृतीयः पादः।। 3।। अत्र पादे- अधिकरणानि 6, सूत्राणि 36। आदितः- अधिकरणानि 525, सूत्राणि 1503। अष्टमाध्यायस्य चतुर्थः पादः दर्विहोमेष्वतिदेशोऽपोद्यते।  प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम्   दर्विहोमो यज्ञाभिधानं होमसंयोगात्।। 1।। चतुर्थपादे प्रथमाधिकरणमारचयति- दर्विहोमो गुणो नाम वा गुणो दधिहोमवत् । गुणासंभवतो लोकवेदयोर्नाम तद्भवेत्।। 1।। इदमाम्नायते- ''यदेकया जुहुयाद्दर्विहोमं कुर्यात्'' इति। तत्र 'दर्व्या होमो दर्विहोमः' इति तृतीयासमासे सति 'दध्ना जुहोति' इत्यादाविवहोमानुवादेन गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयते। इति चेत्- मैवम्। न तावल्लोके स्थालीपाकाष्टकादिहोमे दर्विगुणोऽपि विधातुं शक्यः। लौकिकशिष्टाचारादेव तत्र साधनप्राप्तेः। नापि वेदसिद्धाग्निहोत्रनारिष्ठादिहोमे, तत्र विहितजुह्वादिबाधप्रसङ्गात्। तस्मात् 'दर्विहोमः' इति कर्मनामधेयम्।। 1।।  द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3   स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात्।। 2।।  सर्वेषां वा दर्शनाद्वास्तुहोमे।। 3।। द्वितीयाधिकरणमारचयति- लौकिकस्योत सर्वस्य नामाद्योऽम्बष्ठवाक्यतः। निमित्तसाम्याद्वेदेऽपि तदुक्तेः सर्वनाम तत्।। 2।। ''अम्बष्ठानां दार्विहोमिको ब्राह्मणः'' इति स्मृतावम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नाम। इति चेत्- मैवम्। 'दर्व्या होमो दर्विहोमः' इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वात्। 'दर्विहोमं कुर्यात्' इति श्रुत्यक्ते वैदिकहोमनामलिङ्गत्वाच्च सर्वस्यैव होमस्यैतन्नाम।। 2।।  तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम्   जुहोतिचोदनायां वा तत्संयोगात्।। 4।। तृतीयाधिकरणमारचयति- यजतेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः। अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा।। 3।। तन्नाम जुहोतिचोदनानां यजतिचोदनानां च भवितुमर्हति। कुतः- विशेषाश्रवणात्। इति चेत्- मैवम्। जुहोतिचोदनासु होमशब्दस्य मुख्यत्वात्। यजतिचोदनानां तन्नामत्वे लक्षणा स्यात्। तस्मात्- जुहोतिचोदनानामेव नाम।। 3।।  सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9   द्रव्योपदेशाद्वा गुणाभिधानं स्यात्।। 5।।  न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात्।। 6।।  दर्शनाच्चान्यपात्रस्य।। 7।।  तथाऽग्निहविषोः।। 8।।  उक्तश्चार्थसंबन्धः।। 9।।  चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28   तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात्।। 10।।  न वा स्वाहाकारेण संयोगात्, वषट्कारस्य च निर्देशात्, तन्त्रे तेन विप्रतिषेधात्।। 11।।  शब्दान्तरत्वात्।। 12।।  लिङ्गदर्शनाच्च।। 13।।  उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तात्राविप्रतिषिद्धा पुनःप्रवृत्तिर्लिङ्गदर्शनात्पशुवत्।। 14।।  अनुत्तरार्थो वाऽर्थवत्त्वात्, आनर्थक्याद्धि प्राथम्यस्योपरोधः स्यात्।। 15।।  न प्रकृतावपीति चेत्।। 16।।  उक्तं समवाये पारदौर्बल्यम्।। 17।।  तच्चोदनावेष्टेः प्रवृत्तित्वात्तद्विधिः स्यात्।। 18।।  शब्दसामर्थ्याच्च।। 19।।  लिङ्गदर्शनाच्च।। 20।।  तत्राभावस्य हेतुत्वाद्गुणार्थे स्याददर्शनम्।। 21।।  विधिरिति चेत्।। 22।।  न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते।। 23।।  येषां वाऽपरयोर्होमः, तेषां स्यादविरोधात्।। 24।।  तत्रौषधानि चोद्यन्ते, तानि स्थानेन गम्येरन्।। 25।।  लिङ्गाद्वा शेषहोमयोः।। 26।।  प्रतिपत्ती तु ते भवतः, तस्मादतद्विकारत्वम्।। 27।।  संनिपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेयत्वाद्वचनादतिदेशः स्यात्।। 28।। चतुर्थाधिकरणमारचयति- दर्विहोमे सोमधर्मा अपूर्वत्वमुताग्रिमः। अव्यक्तेर्यज्यभावाच्च स्वाहोक्त्यादेरपूर्वता।। 4।। जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणादव्यक्तलिङ्गेन सोमधर्माः कर्तव्याः। इति चेत्- मैवम्। सोमे श्रुतस्य यजतिलिङ्गस्यात्राभावात्। किंच ''पृथिव्यै स्वाहा। अन्तरिक्षाय स्वाहा'' इति दर्विहोममन्त्रेषु स्वाहाकार आम्नातः। स च सोमविध्यन्तातिदेशे विरुध्येत। तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात्। किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्वम्। तस्मात्- दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः।। 4।। इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरेऽष्टमाध्यायस्य चतुर्थः पादः।। 4।। अत्र पादे- अधिकरणानि 4, सूत्राणि 28। आदितः- अधिकरणानि 529, सूत्राणि 1531। समाप्तश्चायमष्टमोऽध्यायः।। 8।। ==00==