62

                        
                        
श्रीजयलक्ष्मी मातृपूजा आचम्य, प्राणानायम्य, देशकालौ सङ्कीर्त्य, मम उपात्त समस्त दुरित क्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं, मम श्री सद्गुरु प्रसाद सिद्धिद्वारा, सकलाभीष्ट सिद्ध्यर्थं, अस्मत्परम गुरु स्वरूप श्री जयलक्ष्मी मातृ पूजां यथाशक्ति करिष्ये।। > ध्यानम् ध्यायामि जयलक्ष्मीं त्वां सावित्री गर्भ संभवाम्। बॊम्मेपर्ति समाधिस्थां सच्चिदानन्द सेविताम्।। श्री जयलक्ष्मी मात्रे नमः - ध्यायामि > आवाहनम् आवाहयामि भक्त्या त्वां भक्त सन्ताप हारिणीम् । जयलक्ष्मीं जगद्वन्द्यां जाड्यदूरां सुमङ्गळीम्।। श्री जयलक्ष्मी मात्रे नमः - आवाहयामि । > आसनम् सौवर्ण मासनं देवि सर्वालङ्कार शोभिते । उपवेशकृते मात – र्दास्या म्यानन्द दायिनि।। श्री जयलक्ष्मी मात्रे नमः - आसनं समर्पयामि । > पाद्यम् पाद्यं ग्पहाण वरदे गन्ध पुष्पाक्षतै र्युतम् । दिव्यं वारि मया दत्तं जयलक्ष्मि दयान्विते।। श्री जयलक्ष्मी मात्रे नमः – पादयो पाद्यं समर्पयामि । > अर्घ्यम् अष्टगन्ध समायुक्तं जयलक्ष्मि वरप्रदे । अर्घ्यं गृहाण शुभदे सर्व पापहरा भव।। श्री जयलक्ष्मी मात्रे नमः – हस्तयोः, अर्घ्यं समर्पयामि । > आचमनम् जयलक्ष्मि जगन्मात – र्भक्ताभीष्ट फलप्रदे । ददाम्याचमनं तुभ्य –मान्ध्रलोक सुपूजिते।। श्री जयलक्ष्मी मात्रे नमः - मुखे आचमनीयं समर्पयामि । > पंचामृत स्नानम् क्षीराज्य मधुभि र्दध्ना शर्कराभिश्च संयुतम् । पञ्चामृतं गृहाणाद्य जयलक्ष्मि सुखप्रदे।। श्री जयलक्ष्मी मात्रे नमः - पञ्चामृतस्नानं समर्पयामि । > स्नानम् पुण्यतीर्थ समानीतं शुद्धोदक मिदं शुभे । स्नानार्थं सङ्गृहाणेदं जयलक्ष्मि जयप्रदे।। श्री जयलक्ष्मी मात्रे नमः - शुद्धोदकस्नानं समर्पयामि । > वस्त्रम् सौवर्ण तन्तु संयुक्तं क्षौम वस्त्रं सकञ्चुकम् । मया दत्तं गृहाणेदं सच्चिदानन्द वंदिते।। श्री जयलक्ष्मी मात्रे नमः - वस्त्रयुग्मं समर्पयामि । > गन्धः मलयाचल संभूतं कर्पूर सुविमिश्रितम् । शीतलं बहुलामोदं चन्दनं प्रतिगृह्यताम्।। श्री जयलक्ष्मी मात्रे नमः - गंधं समर्पयामि। कुंकुमाक्षतान् समर्पयामि। > आभरणम् रत्नकङ्कण केयूर काञ्ची कुण्डल नूपुरान् । मुक्ता हारं किरीटञ्च गृहाणाभरणानि च।। श्री जयलक्ष्मी मात्रे नमः - आभरणानि समर्पयामि । > पुष्पम् मातर्मे रुचिरामोद पूरितां पुष्पमालिकां । ग्रथितां पुष्प सङ्घैश्च स्वीकुरुष्व दयानिधे।। श्री जयलक्ष्मी मात्रे नमः - पुष्पैः पूजयामि । > अङ्गपूजा श्री जयलक्ष्मी मात्रे नमः -- पादतले पूजयामि अंगुळीयक मण्डितायै नमः -- पादाङ्गुळी पूजयामि हरिद्राञ्चितायै नमः-- पादौ पूजयामि पद्मासनस्थितायै नमः-- जंघा जानूरु देशान् पूजयामि सच्चिदानन्द जनन्यै नमः-- उदरं पूजयामि जगन्मात्रे नमः -- स्तनद्वयं पूजयामि वराभय प्रदायै नमः-- करद्वयं पूजयामि नादविद्यागुरवे नमः-- कण्ठं पूजयामि मंजुस्मितायै नमः-- दन्तान् ओष्ठौ च पूजयामि ताटङ्किनी प्रवरायै नमः-- कर्णद्वयं पूजयामि प्राणयाम रतायै नमः-- नासिकां पूजयामि करुणामृत वर्षिण्यै नमः -- नेत्रद्वयं पूजयामि लसन्ममङ्गळ तिलकायै नमः -- भ्रूमध्यं पूजयामि तेजोनिलयायै नमः-- फालं पूजयामि वेद सीमन्त वेद्यायै नमः-- सीमन्तं पूजयामि ब्रह्मविद्याप्रदायिन्यै नमः-- शिर पूजयामि गुरुमण्डल रूपिण्यै नमः-- सर्वाण्यङ्गानि पूजयामि > श्री जयलक्ष्मी अष्टोत्तर शतनामावळिः 1. श्री जयलक्ष्म्यै नमः 2. जगन्मात्रे नमः 3. जयदायै नमः 4. जाड्यनाशिन्यै नमः 5. जगदानन्द जननै नमः 6. जलजायतलोचनायै नमः 7. अगस्त्य क्षेत्र संभूतायै नमः 8. सह्यजार्कतटाश्रयायै नमः 9. सावित्री गर्भ सञ्जातायै नमः 10. दिव्य लक्षण लक्षितायै नमः 11. लिंगण्ण शर्म तनयायै नमः 12. माधव्यै नमः 13. मधुराकृत्यै नमः 14. मातापितृतप प्राप्तायै नमः 15. कर्णाट कुल भूषणायै नमः 16. वैशाख पञ्चमी जातायै नमः 17. मेकेदाटु निजालयायै नमः 18. विप्रोत्तम तनूजातायै नमः 19. बन्धु बान्धवकीर्तितायै नमः 20. सोदर प्रेम सदनायै नमः 21. पितृशुश्रूषणादृतायै 22. कावेरी जल संतुष्टायै नमः 23. बाल लीला विनोदिन्यै नमः 24. नेत्रानन्द विधात्र्यै नमः 25. विनयालङ्कृतायै नमः 26. शुभायै नमः 27. अन्वर्थनाम्न्यै नमः 28. विजयायै नमः 29. व्रतदीक्षित मानसायै नमः 30. कर्णाट बन्धु सुप्रीतायै नमः 31. कर्णाट जनकीर्तिदायै नमः 32. मुस्लिंफकीर शुश्रूषासक्तायै 33. मान्यायै नमः 34. मनस्विन्यै नमः 35. आत्रेय ध्यान निरतायै नमः 36. आत्रेयालोकनातुरायै 37. संगमेशार्चन रतायै नमः 38. संगमेश कृपाश्रयायै नमः 39. भगवद्ध्यान निरतायै नमः 40. बन्धुलोक समादृतायै नमः 41. स्वप्नसन्दृष्ट दत्तेशायै नमः 42. दत्तभक्तायै नमः 43. दयान्वितायै नमः 44. सर्व प्रशंसितायै नमः 45. सिद्धायै नमः 46. साधुसज्जन सेवितायै नमः 47. धर्मप्रियायै नमः 48. धर्म निष्ठायै नमः 49. धर्माधर्म विचारणायै नमः 50. नरसिंह प्रियायै नमः 51. साध्व्यै नमः 52. संसार भरणोद्यतायै नमः 53. पतिप्राणायै नमः 54. पावनाङ्ग्यै नमः 55. पतिसेवनतत्परायै नमः 56. गृहागत समाराध्यायै 57. गृहकर्मनु पण्डितायै नमः 58. ग्रामीण जनबन्धवे नमः 59. प्रातिवेशिक साह्यकृते नमः 60. आन्ध्र नीवृदलङ्कारायै नमः 61. आन्ध्र लोक सुपूजितायै नमः 62. सदात्मजात जनन्यै नमः 63. जनित्री कुल भूषणायै नमः 64. भस्मभूषित वत्सांबायै 65. वत्स सन्तुष्ट मानसायै नमः 66. सन्तान पालन रतायै नमः 67. सत्यनारायण प्रस्व्यै नमः 68. सच्चिदानन्द जनन्यै नमः 69. बन्धुलोक समादृतायै नमः 70. पुत्रोपचार निरतायै नमः 71. पुत्रसन्मार्ग दर्शिकायै नमः 72. सत्यनिष्ठायै नमः 73. सत्यमत्यै नमः 74. सत्कार्य व्रत दीक्षितायै नमः 75. आत्म निष्ठायै नमः 76. आनन्ददात्य्रै नमः 77. आश्रितावन दीक्षितायै नमः 78. भगवद्ध्यान निरतायै नमः 79. भगवत्पाद संश्रितायै नमः 80. बॊम्मेपर्ति समाधिस्थायै नमः 81. भक्त सन्तोष कारिण्यै नमः 82. दारिद्र्य दमन्यै नमः 83. देव्यै नमः 84. दुखसङ्घ विनाशिन्यै नमः 85. दर्शितानेक कुतुकायै नमः 86. दुर्वाराघ निवारिण्यै नमः 87. भूरिदायै नमः 88. भक्तिसुलभायै नमः 89. भक्त स्वर्गापवर्गदायै नमः 90. अनाथनाथायै नमः 91. आनन्ददायिन्यै नमः 92. दुरितापहायै नमः 93. पुण्यायै नमः 94. पुण्यप्रदायै नमः 95. पापसूदन्यै नमः 96. प्रणतार्तिघ्न्यै नमः 97. सुवासिन्यर्चन प्रीतायै नमः 98. सुखदायै नमः 99. सुमङ्गल्यै नमः 100. अदृश्यायै नमः 101. दर्शनार्हायै नमः 102. शरण्यजन संश्रितायै नमः 103. अन्नदायै नमः 104. धर्मकामार्थ मोक्षदायै 105. सच्चिदानन्द संसेव्यायै 106. सच्चिदानन्द तोषिण्यै नमः 107. सच्चिदानन्द जनन्यै नमः 108. सदानन्द विधायिन्यै नमः श्री जयलक्ष्मी मात्रे नमः। नानाविध पत्रपुष्प कुंकुमाक्षतान् समर्पयामि > धूपः दशाङ्गं गुग्गुलं धूपं सुगन्धं सुमनोहरम् । धूपं गृहाण वरदे कर्णाट कुल संभवे।। श्री जयलक्ष्मी मात्रे नमः - धूपं समर्पयामि । > दीपः साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं मया । त्रैलोक्य मङ्गळं दीपं दर्शयामि दयान्विते।। श्री जयलक्ष्मी मात्रे नमः - दीपं समर्पयामि। धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि । > नैवेद्यम् भक्ष्य भोज्यादिकं भक्त्या फल पक्व समन्वितम् । नैवेद्यं कल्पितं देवि स्वीकुरुष्व दयानिधे।। श्री जयलक्ष्मी मात्रे नमः - नैवेद्यं समर्पयामि। मध्ये मध्ये उदक पानीयं समर्पयामि, हस्तौ प्रक्षाळयामि, पादौ प्रक्षाळयामि, पुनराचमनं समर्पयामि।। > तांबूलम् पूगीफल समायुक्तं नागवल्ली दळैर्युतम् । मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम्।। श्री जयलक्ष्मी मात्रे नमः - तांबूलं समर्पयामि । > नीराजनम् नीराजनं गृहाणेदं जयलक्ष्म वरप्रदे । कुरु मां कृपया देवि ज्ञानज्योति प्रकाशितम्।। श्री जयलक्ष्मी मात्रे नमः - नीराजनं समर्पयामि । > मन्त्रपुष्पम् चंपकै श्शतपत्रैश्च कल्हारै करवीरकैः । पाटलै र्वकुलै र्युक्तं पुष्पाञ्जलि मिमं ददे।। श्री जयलक्ष्मी मात्रे नमः - मन्त्र पुष्पाञ्जलिं समर्पयामि । > प्रदक्षिणम् प्रदक्षिणं करिष्यामि जयलक्ष्म नमोस्तुते । मम जन्मार्जितं पापं सर्वं नाशय सत्वरम्।। श्री जयलक्ष्मी मात्रे नमः - प्रदक्षिण नमस्कारान् समर्पयामि।। > प्रार्थनम् जयलक्ष्मी नमस्तेस्तु जयदे जाड्यनाशिनि । नमस्तेस्तु विशालाक्षि दुरितं मे विनाशय।। श्री जयलक्ष्मी मात्रे नमः प्रार्थनं समर्पयमि । > फलसमर्पणम् अनेन यथाशक्ति कृतेन पूजनेन भगवती, सर्वात्मिका, अस्मत्परम गुरु स्वरूपिणी श्री जयलक्ष्मी माता सुप्रीता सुप्रसन्ना वरदा भवतु । एतत्फलं श्री परमेश्वरार्पणमस्तु।। ==00==