Already Registered? Login
32 द्वात्रिंशत् गणपति नामानि विघ्नेशं सर्वविघ्नस्य मोचनाय मुहुर्मुहुः। हृदा कायेन वाचापि नत्वा कार्यं समारभे।। बाल स्तरुण भक्तौ च वीरश्शक्तिर् द्विज स्तथा। सिद्ध उच्छिष्ट क्षिप्रो हेरंब नामकः।। लक्ष्मीगणपतिश्चैव महाविघ्नेश्वर स्तथा। विजयः कल्पनृत्तश्चाऽप्यूर्ध्व विघ्नेश उच्यते।। एकाक्षरो वरश्चैव त्र्यक्षरः क्षिप्रदायकः। हरिद्राख्य श्चैकदन्त स्सृष्टि रुद्दंडनामकः।। ऋणमोचनको ढुंढिर् द्विमुख स्त्रिमुख स्तथा। सिंह योगश्च दुर्गश्च देव स्संकटहारकः।। द्वात्रिंशद् विघ्नराजाख्या स्तेषां ध्यान मथोच्यते।। ==00==