119

                        
                        
याजुष श्राद्ध प्रयोग विषयसूचिका Paarvana Shraaddha Yaajusha (Aabdika Prayoga) 1. (विच्छिन्नाग्नि) पुनस्सन्धानम् 2. चतुष्पात्र प्रयोगः 3. उपवासाकरण प्रायश्चित्त होमः 4. पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः 5. प्रातरौपासनम् 6. आब्दिक श्राद्धप्रयोगः 7. श्राद्ध सङ्कल्पः 8. मण्डलार्चनम् 9. पादप्रक्षालनम् 10. श्राद्ध स्थले प्रधान कर्मारम्भः 11. वैश्वदेवार्चनस्य आरम्भः 12. वैश्वदेव आह्वानम् 13. वैश्वदेवस्थानेअर्घ्य प्रदानम् 14. वैश्वदेवार्चनम् 15. पितृस्थाने अर्चनारम्भः 16. पितृस्थाने आह्वानम् 17. पितृस्थानेअर्चनम् 18. विष्णुस्थाने अर्चनम् 19. अग्नौकरणम् (होमः) 20. पक्वान्न विनियोग चित्रम् 21. अन्नसूक्त पठन सङ्कल्पः 22. परिवेषण विधिः 23. ब्राह्मणभोजन विधिः 24. अधिश्रवण सङ्कल्पः 25. विकिरान्न प्रदानम् 26. विकिरपिण्ड प्रदानम् 27. पितृ-पितामह-प्रपितामह-पिण्ड प्रदानम् 28. आञ्जनाभ्यञ्जने 29. पिण्डनमस्काराः 30. पिण्डपूजा 31. सकृदाच्छिन्न बर्हिः प्रहरणम् 32. आशीर्वचनम् 33. श्राद्धाङ्ग तिलतर्पणम् 34. अन्नसूक्तम्, तद्ब्राह्मणम् 35. यज्ञोपवीत ब्राह्मणम् 36. अन्नसूक्त मन्त्राः (तै.ब्रा. 2.8.7) 77 37. पारोक्ष्येण अन्न प्रस्तावका आश्वमेधिका मन्त्राः, तद्ब्राह्मणम् 38. अधिश्रवणम् - संहितानुवाकाः 39. अधिश्रवणम् - ब्राह्मणान्तर्गता अनुवाकाः 40. श्राद्ध नियमाः 1)विच्छिन्नाग्नि.पुनस्सन्धानम् आचम्य . . . परमेश्वरप्रीत्यर्थं, श्रीमान् गोत्रः . . . . , नामधेयः . . . धर्मपत्नीसमेतोहं, मम विच्छिन्नमौपासनाग्निं पुन.स्सन्धास्ये। 2) चतुष्पात्र प्रयोगः • प्राची पूर्व.मुदक्संस्थं दक्षिणारम्भ.मालिखेत्। अथोदीची पुरस्संस्थं पश्चिमारम्भ.मालिखेत्।। यत्राग्नि.स्स्थाप्यते तत्र श्वेततण्डुल.चूर्णेन प्रादेशमात्रं चतुरस्रं स्थण्डिलं कल्पयित्वा, द्वाभ्यां दर्भाभ्या मुल्लिख्य, तत्र प्राची रुदक्संस्थाः, उदीची प्राक्संस्थाः, तिस्रस्तिस्रो रेखा लिखित्वा। अद्भि.रवोक्ष्य। अवोक्षणशेषतोयमुत्सिच्य, प्रागुदग्वा अन्यत्र तोयं निदधाति। • अवाक्करोभ्युक्ष्य, निधाय वह्नि.-मुत्सिच्यतेवोक्षण.तोयशेषम्। प्राक्तोय.मन्य.न्निदधा.त्युदग्वा यथाबहि.स्स्याच्च परिस्तराणाम्।।  ॐ ओं भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठाप्य।।  ओम्। भूर्भुवस्सुवरोम्। अग्नि.मिद्ध्वा।।  ओं चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश।। • सप्तहस्त.श्चतुशृङ्ग स्सप्तजिह्वो द्विशीर्षकः। त्रिपा.त्प्रसन्नवदन.- स्सुखासीन.श्शुचिस्मितः।। • स्वाहा.न्तु दक्षिणे पार्श्वे देवीँ वामे स्वधा.न्तथा। बिभ्र.द्दक्षिणहस्तै.स्तु शक्ति.मन्नं स्रुचं स्रुवम्।। • तोमरं व्यजनं वामै.-र्घृतपात्र.न्तु धारयन्न्। मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।। • धूमध्वजं लोहिताक्षं सप्तार्चि.स्सर्वकामदम्। आत्माभिमुख.मासीन.-मेव.न्ध्याये.द्धुताशनम्।।  ओं एष हि देव प्रदिशोनु सर्वा पूर्वो हि जात.स्स उ गर्भे अन्तः। स विजायमान.स्स जनिष्यमाण प्रत्यङ्मुखा.स्तिष्ठति विश्वतो मुखः।। • प्राङ्मुखाग्ने। मम - अभिमुखो भव। सुमुखोभव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हवि.र्गृहाण।  ओं भूर्भुवस्सुवः। ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। सोदकेन पाणिना प्रदक्षिणमग्निं परिसमूह्य, अग्नि मलङ्कृत्य।। • अलङ्कारः - • अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः। • परिस्तरणम्, पात्रासादनम् प्रागग्रै.र्दर्भै.रग्निं परिस्तृणाति। प्रागुदगग्रैर्वा, दक्षिणानुत्तरान् करोति, उत्तरानधरान्। पुरस्तात्, दक्षिणतः, पश्चात्, उत्तरतः। उत्तरेणाग्निं प्रागग्रा.न्दर्भान्थ्सस्तीर्य, द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति - देवसँयुक्तानि। दर्व्याज्यस्थाल्यौ। प्रोक्षणी स्रुवाविति। • पवित्र करणम्, प्रोक्षण पात्र संस्कारः समा,वप्रच्छिन्नाग्रा.वनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठँ वा अन्तर्धाय छिनत्ति। न नखेन। अप उपस्पृश्य। अद्भि.रनुमृज्य। प्रोक्षण्या.मवधाय। प्रोक्ष्य। तस्या.मक्षतै.स्सह अप आनीय। हस्तयो.रङ्गुष्ठोपकनिष्ठिकाभ्या.मुत्तानाभ्यां पाणिभ्या.मुदगग्रे गृहीत्वा। प्राची स्त्रिरुत्पूय। अभिमन्त्र्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। पात्राण्युदक्प्रवण मुत्तानानि कृत्वा। त्रि प्रोक्ष्य। प्रोक्षणशेष.मग्ने.र्दक्षिणतो निधाय। • आज्य संस्कारः सपवित्र.माज्यस्थाली.मादाय। आज्यं विलाप्य। अपरेणाग्निं पवित्रान्तर्हिताया. माज्यस्थाल्या.माज्यं निरुप्य। उदीचोङ्गारान् निरूह्य। तेष्वधिश्रित्य। ज्वलता तृणेनावद्युत्य। द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाल्य, प्रत्यस्य, आज्ये प्रास्य, त्रि पर्यग्नि कृत्वा। उदगुद्वास्य। अङ्गारा.न्प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहार.माज्य.न्त्रिरुत्पूय। प्रागारभ्य पश्चा.न्नीत्वा पुनः प्रागेव समाप्तिः। एवन्त्रिः। पवित्रग्रन्थिं विस्रस्य। प्रक्षाल्य। प्रागग्र.मग्नौपवित्रे अनुप्रहृत्य। • स्रुक्स्रुव संमार्गः - स्रुक्स्रुवावादाय, येन जुहोति तदग्नौ प्रतितप्य, दर्भाग्रै.स्संमृज्य। पुन प्रतितप्य। प्रोक्ष्य। स्रुव मुत्तरतो निधाय। दर्भा.नद्भि.स्सस्पृश्य, अग्नौ प्रहरति। • परिषेचनम् (अग्निं परिषिञ्चति)  ओम् अदितेनुमन्यस्व। (इति दक्षिणत प्राचीनम्)।।  ओम् अनुमतेनुमन्यस्व। (इति पश्चा दुदीचीनम्)  ओम् सरस्वतेनुमन्यस्व। (इत्युत्तरत प्राचीनम्)।।  ओम् देव सवित प्रसुव। (इति समन्तं परिषिच्य) (चतुर्गृहीतेनाज्येन स्रुचं पूरयित्वा।) एकं, द्वे, त्रीणि, चत्वारि।  ओं भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं न मम।। 3) उपवासाकरण प्रायश्चित्त होमः पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम उपवासाकरण.प्रायश्चित्तार्थं, अयाश्च मन्त्र- व्याहृति होमं करिष्ये।। (एकं, द्वे, त्रीणि, चत्वारि)  अयाश्चाग्ने स्यनभिशस्तीश्च सत्यमित्त्व.मया असि। अयसा मनसा धृतोयसा हव्य.मूहिषेयानो धेहि भेषजस्वाहा।। अयसेग्नय इदं न मम।।  भू.स्स्वाहा। अग्नय इदं न मम।  भुव.स्स्वाहा। वायव इदं नमम।  सुव.स्स्वाहा। सूर्यायेदं नमम।  भूर्भुव.स्सुव.स्स्वाहा। प्रजापतय इदं नमम। 4) पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम औपासनान्तरित.लोप.प्रायश्चित्तार्थं, पाकयज्ञ.व्रतलोप.प्रायश्चित्तार्थं सप्तहोतारं होष्ये।। (एकं, द्वे, त्रीणि, चत्वारि।)  महाहविर्‌ होता। सत्यहवि.रध्वर्युः। अच्युतपाजा अग्नीत्। अच्युतमना उपवक्ता। अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ। अयास्य उद्गाता स्वाहा। सप्तहोतृभ्य इदं नमम।।  वाचस्पते हृद्विधे नामन्न्। विधेम ते नाम। विधे.स्त्व.मस्माक.न्नाम। वाचस्पति.स्सोम.मपात्। मा दैव्य.स्तन्तु.श्छेदि मा मनुष्यः। नमो दिवे। नम पृथिव्यै स्वाहा।। वाचस्पतये ब्रह्मण इदं नमम।।  मनो ज्योति.र्जुषता. माज्यँ विच्छिन्नँ यज्ञ स.मिम.न्दधातु। बृहस्पति.स्तनुता.मिम.न्नो विश्वे देवा इह मादयन्ता स्वाहा।। मनसे ज्योतिष इदं नमम।  यदस्मिन् यज्ञेन्त.रगा.-ममन्त्रतः कर्मतो वा। अनयाहुत्या तच्छमयामि सर्व.-न्तृप्यन्तु देवा आवृधन्तां घृतेन स्वाहा।। देवेभ्य इदं नमम। • पूर्णाहुतिहोमः (द्वादश गृहीतेनाज्येन स्रुचं पूरयित्वा)  सप्त ते अग्ने ... घृतेन स्वाहा।। (अग्नये सप्तवत इदं नमम) • अस्मिन् विच्छिन्नाग्नि.पुनस्सन्धान.कर्मणि सर्वप्रायश्चित्तं करिष्ये।  ओं भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं नमम।। • उत्तर परिषेचनम्  ओम् अदितेन्वमस्थाः।  ओम् अनुमतेन्वमस्थाः।  ओम् सरस्वतेन्वमस्थाः।  ओम् देव सवित प्रासावीः।। अनेन विच्छिन्नौपासनाग्निसन्धानहोमेन कर्मणा भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पण.मस्तु। स्वस्ति ... अहं भो अभिवादये।। 5)प्रातरौपासनम् आचम्य . . . एवङ्गुण विशेषण विशिष्टाया.मस्यां शुभतिथौ, श्री परमेश्वरप्रीत्यर्थं, प्रातरौपासनं तंडुलै.र्होष्यामि।  ओं भूर्भुव.स्सुव.रोम्। अग्नि.मिद्ध्वा।। (इति समिध माधाय) • अलङ्करणान्तं कृत्वा, परिषिञ्चति। • तण्डुला नादाय। द्वेधा विभज्य। मध्ये, अग्नौ जुहोति।  ओं सूर्याय स्वाहा। सूर्यायेद.न्न मम।। अथ ईशान्यभागे जुहोति।  ओम् अग्नये स्विष्टकृते स्वाहा। अग्नये स्विष्टकृत इदन्नमम।। • आहुतिसंसर्ग.दोष.निर्हरणार्थं वनस्पतिहोमं करिष्ये।।  ओं यत्र वेत्थ वनस्पते देवाना.ङ्गुह्या नामानि। तत्र हव्यानि गामय।। (समिध माधाय) वनस्पतय इदन्न मम।। • उत्तरपरिषेचनं कृत्वा • उपस्थानम् -  ओम् अग्ने त्व.न्नो अन्तमः। उत त्राता शिवो भव वरूथ्यः।  त.न्त्वा शोचिष्ठ दीदिवः। सुम्नाय नून.मीमहे सखिभ्यः।  वसु.रग्नि.र्वसुश्रवाः। अच्छा नक्षि द्युमत्तमो रयि.न्दाः। (इति याजुष मन्त्राः)  स नो बोधि श्रुधी हव.मुरुष्याणो अघायत. स्समस्मात्।। (आर्चिकं वाक्यम्) • होमसाद्गुण्यार्थं, अनाज्ञातत्रय.मन्त्रजपं करिष्ये।।  ओम् अनाज्ञातँ यदाज्ञातँ यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।  पुरुषसम्मितो यज्ञो यज्ञ पुरुषसम्मितः। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।  यत्पाकत्रा मनसा दीनदक्षान यज्ञस्य मन्वते मर्तासः। अग्नि.ष्टद्धोता क्रतुवि.द्विजानन्‌ यजिष्ठो देवा ऋतुशो यजाति।। •ओं स्वस्ति।श्रद्धां मेधां यश प्रज्ञां विद्यां बुद्धिं श्रियं बलम्। आयुष्य.न्तेज आरोग्य.न्देहि मे हव्यवाहन। श्रिय.न्देहि मे हव्यवाहन ओ.न्नम इति।। • यस्य स्मृत्या च नामोक्त्या तपो होमक्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे हुताशनम्।। • मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन। यद्धुतन्तु मया देव परिपूर्णं तदस्तु ते।। अनेन प्रातरौपासन (सायमौपासन) होमेन, भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पणमस्तु स्वस्ति। (गोत्र प्रवरोच्चारणम्) चतुस्सागर पर्यन्तं . . .अभिवादये।   6)आब्दिक श्राद्ध प्रयोगः श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः।श्री गुरुभ्यो नमः। • स्नात्वा, धौतवासा विधिव.दाचम्य, दीपाराधनं कृत्वा, • पवित्रवन्त इति द्वाभ्यां पवित्रं धृत्वा।।  पवित्रवन्त परि वाज.मासते। पितैषां प्रत्नो अभिरक्षति व्रतम्। मह.स्समुद्रँ वरुण.स्तिरोदधे। धीरा इच्छेकु.र्द्धरुणे.ष्वारभम्।  पवित्र.न्ते विततं ब्रह्मणस्पते। प्रभु.र्गात्राणि पर्येषि विश्वतः। अतप्ततनू.र्न तदामो अश्नुते। शृतास इद्वहन्त. स्तथ्समाशत।।  त्रिराचामेत्। द्वि परिमृज्य, सकृ.दुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति, शिर.श्चक्षुषी नासिके श्रोत्रे।। • प्राणानायम्य . . .  ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्। ओं तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। श्री गोविन्द गोविन्द गोविन्द, श्री महाविष्णो.राज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः ..., अयने, .... ऋतौ,... मासे, ... पक्षे, ... तिथौ, ... वासरे, श्री विष्णु नक्षत्रे श्री विष्णुयोगे श्री विष्णुकरणे, एवंगुण.विशेषण विशिष्टायां .. अस्यां पुण्यतिथौ। >>(प्राचीनावीती) अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक.मृताहाख्य श्राद्धम्, (द्वितीयमासा/नुमासिकाख्य/ महालयश्राद्धम्) अन्नेन हविषा, पार्वण विधानेन-युष्मदनुज्ञया-सदैवम्-अद्य >>(सव्यम्) -• करिष्ये।। (भोक्तृ प्रतिवचनम्) कुरुष्व ।। • काले अधिकारसिद्ध्यर्थं यथाशक्ति सम्भवत्, परिषत् प्रायश्चित्तं करिष्ये।। (भोक्तृ प्रतिवचनम्) कुरुष्व।। (तिल.दर्भ.हिरण्याक्षतान् गृहीत्वा, प्रदक्षिणत्रयं कृत्वा।) • समस्त.सम्पत्समवाप्ति.हेतव.-स्समुत्थितापत्कुल. धूमकेतवः। अपार संसार समुद्रसेतवः- पुनन्तु मां ब्राह्मण पादपांसवः।। • आपद्घन.ध्वान्त. सहस्रभानव.-स्समीहितार्थार्पण.कामधेनवः। समस्ततीर्थाम्बु.पवित्रमूर्तयो- रक्षन्तु मां ब्राह्मण पादपांसवः।। • आधिव्याधिहरं नॄणां- मृत्यु.दारिद्र्यनाशनम्। श्रीपुष्टि.कीर्तिदं वन्दे- विप्रश्री.पादपङ्कजम्।। • विप्रौघ दर्शनात्सद्यः- क्षीयन्ते पापराशयः। वन्दना.न्मङ्गलावाप्ति-रर्चना.दच्युतं पदम्।। • नमो ब्रह्मण्य.देवाय- गोब्राह्मण.हिताय च। जगद्धिताय कृष्णाय- गोविन्दाय नमोनमः।। • त्रिः प्रदक्षिणीकृत्य। तत्पुरतो हिरण्यं निधाय , ब्राह्मणान् नमस्कृत्य  यावती.र्वै देवता.स्ता.स्सर्वा वेदविदि ब्राह्मणे वसन्ति तस्मा.द्ब्राह्मणेभ्यो वेदविद्भ्यो दिवेदिवे नमस्कुर्या.न्नाश्लील.ङ्कीर्तये.देता एव देवता प्रीणाति।। >>>>(प्राचीनावीती) • अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्नश्राद्धं कर्तुं, मुख्यकालो भूत्वा, मम अधिकार सम्पदस्त्विति भवन्तो ब्रुवन्तु।। (प्रति वचनम्) कर्तुमधिकार.सम्पदस्तु। • कालश्च (- कर्ता)। मुख्यकालोस्तु।(- इति भोक्तारौ वदेताम्)।। • पाकादीनां (- कर्ता)। पवित्रतास्तु (-प्रतिवचनम्)।। • सर्वे पाकाः (- कर्ता)। शुचयो भवन्तु (-प्रतिवचनम्)।। • देवताभ्यः पितृभ्यश्च- महायोगिभ्य एव च। नम.स्स्वधायै.स्स्वाहायै- नित्यमेव नमो नमः।। • ईशानः पितृरूपेण- महादेवो महेश्वरः। प्रीयतां भगवा.नीशः- परमात्मा सदाशिवः।।  ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्।  ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।  ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। (त्रिः) • तिथि.र्विष्णु.स्तथा वारो- नक्षत्रं विष्णु.रेव च। योगश्च करणं चैव सर्वं विष्णुमयं जगत्।। 7) श्राद्ध सङ्कल्पः • श्री गोविन्द गोविन्द गोविन्द ॐॐॐ अद्य पूर्वोक्त-एवंगुणविशेषण.विशिष्टायां .. अस्यां पुण्यतिथौ। >>>>(प्राचीनावीती) • अस्मत् पितुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, पितृ- पितामह प्रपितामहानां, .... गोत्राणां .... शर्मणां, वसुरुद्रादित्यरूपाणां, {अस्मत् मातुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, मातृ - पितामही - प्रपितामहीनां, . . . गोत्राणां . . . दानां, वसुरुद्रादित्य रूपाणाम्} >>(सव्यम्) पुरूरवार्द्रव.संज्ञिकानां विश्वेषां देवाना.ञ्च, >>>>(प्राचीनावीती) अस्मत् - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्य.श्राद्धं, अन्नेन हविषा, पार्वण विधानेन युष्मदनुज्ञया >>(सव्यम्)सदैवम् - अद्य करिष्ये।। • कुरुष्व (भोक्तृ प्रतिवचनम्)। >>>>(प्राचीनावीती) अस्मत् पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न. श्राद्धं, भविष्यत्यत्र। अत्र भविष्यति (भोक्तृ प्रतिवचनम्)।। >> (सव्यम्) • वैश्वदेवस्थाने हस्तोदकं (गृहीत्वा) दत्त्वा। • पुरूरवार्द्रवसंज्ञिकानां विश्वेषां देवानां स्थाने- आहवनीयार्थे क्षणं धृत्वा, भवद्भिः क्षणः प्रसादः करणीयः (-कर्ता)। अस्तु करणीयः (-भोक्ता)। >>>>(प्राचीनावीती)अथ पितृ (मातृ) स्थाने - हस्तोदकं दत्त्वा।, • अस्मत् पितुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, पितृ - पितामह- प्रपितामहानाम्, .... गोत्राणाम्, .-.-. शर्मणां, वसुरुद्रादित्यरूपाणाम्, {अस्मत् मातुः प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, मातृ - पितामही - प्रपितामहीनां, . . . गोत्राणां . . . दानां, वसुरुद्रादित्य रूपाणाम्} • स्थाने आहवनीयार्थे क्षणं धृत्वा, भवद्भिः - क्षणः प्रसादः करणीयः। (-कर्ता)। अस्तु करणीयः (-भोक्ता)। • अक्रोधनै.श्शौचपरै.-स्सततं ब्रह्मवादिभिः। भवितव्यं भवद्भिश्च- मया च श्राद्धकर्मणि।। >>(सव्यम्)।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरण.पूर्वकम्। यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। (विष्णु.र्विष्णु र्विष्णुः) 8) मण्डलार्चनम् • प्राङ्मुखो मण्डलार्चनं कुर्वीत। गृहाङ्गणे गोमयेन गन्धेन वा मण्डलद्वयं कुर्वीत।। >>उत्तरे(सव्येन) वैश्वदेवं चतुरश्रमण्डलं, >>दक्षिणे (प्राचीनावीतिना) वर्तुलाकारमण्डलं >> वैश्वदेवस्थानादुत्तरे(सव्येन) वैष्णवं चतुरश्रमण्डलं, विरच्य।। ------------------ >>(सव्यम्)• पुरूरवार्द्रव संज्ञिकानां विश्वेषां देवानाम्, • पाद्यस्थाने कुशासनम्। • पाद्यस्थाने- दैवे क्षणः क्रियताम्। (प्रतिवचनम् - ) ओं तथा। • अमी गन्धाः। पुष्पार्था इमे अक्षताः। अमी कुशाः। • पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु।। >>>>(प्राचीनावीती) • (अस्मत्) पितृ- पितामह- प्रपितामहानां ... गोत्राणां ... शर्मणां, वसुरुद्रादित्य रूपाणाम् {(अस्मत्) मातृ, पितामही, प्रपितामहीनां ... गोत्राणां ... दानां, वसुरुद्रादित्य रूपाणाम्} • पाद्यस्थाने - कुशासनम्। • पाद्यस्थाने - श्राद्धे क्षणः क्रियताम्। (प्रतिवचनम् - ) ओं तथा। • अमी गन्धाः। पुष्पार्था इमे तिलाः। अमी कुशाः। • पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु। >>(सव्यम्)•श्रीविष्णोः, • पाद्यस्थाने कुशासनम्। • पाद्यस्थाने- दैवे क्षणः क्रियताम्। (प्रतिवचनम् - ) ओं तथा। • अमी गन्धाः। पुष्पार्था इमे अक्षताः। अमी कुशाः। • पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु।। ------------- 9) पादप्रक्षालनम् • (कर्ता प्रत्यङ्मुखो भूत्वा, स्वागताद्यर्चनं प्रकुर्यात्।) >> (सव्यम्) वैश्वदेवपादप्रक्षालनम्। • पुरूरवार्द्रव संज्ञिका विश्वे देवाः - स्वागतम्। (प्रतिवचनम्-) सुस्वागतम्। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः - पाद्यस्थाने इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्। • (शन्नोदेवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। • पुरूरवार्द्रव.संज्ञिका विश्वे देवाः- इदं वः पाद्यम्। (प्रतिवचनम्-) सुपाद्यम्। (ततः पवित्रं विसृज्य)  ओं शुक्र.मसि ज्योति.रसि तेजोसि देवो व.स्सवितोत्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः। (आज्येनाङ्क्त्वा) • पादप्रक्षालन मन्त्राः  चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान. मराति.न्तरेम।।  लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्म.द्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता.न्दधातु।। • नमो ब्रह्मण्यदेवाय- गोब्राह्मण◌हितायच। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • (भोक्ता प्रक्षालयितारमुपस्पृश्य, आत्मानं प्रत्यभिमृशेत्।।  मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (इति जपेत्।) • कर्ता पादप्रक्षालनोदकं शिरसि धारयेत्। --- अथ पितृ.पादप्रक्षालनम् >>अथ कर्ता पवित्रं धृत्वा,सव्येनैव स्वागतं कुर्यात्। • (अस्मत्) पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः।} • स्वागतम्।। (प्रतिवचनम्-) सुस्वागतम्। >>(प्राचीनावीती) • (अस्मत्) पितृ- पितामह- प्रपितामहानां, ... गोत्राणां, ...शर्मणां, वसुरुद्रादित्यरूपाणाम्, {मातृ- पितामही- प्रपितामहीनां, ... गोत्राणां, ... दानां, वसुरुद्रादित्य रूपाणाम्} • पाद्यस्थाने इदमिद मासनम्। (प्रतिवचनम् - सुखासनम्।) (शन्नोदेवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। • (अस्मत्) पितृ- पितामह- प्रपितामहाः ... गोत्राः, ... शर्माणः वसुरुद्रादित्यरूपाः। {(अस्मत्) मातृ- पितामही- प्रपितामह्यः ... गोत्राः ... दाः, वसुरुद्रादित्यरूपाः} • इदं वः पाद्यं। (प्रतिवचनम्-) सुपाद्यम्। (पवित्रं विसृज्य)  ओं शुक्र मसि ज्योति रसि तेजोसि देवो व.स्सवितो.त्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः।। (इति पादा.वाज्येनाङ्क्त्वा) >>सव्येन प्रक्षालयति।  चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान.मराति.न्तरेम।।  लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्मद्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता न्दधातु।। • नमो ब्रह्मण्य देवाय गोब्राह्मण हितायच। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • भोक्ता प्रक्षालयितार.मुपस्पृश्य, आत्मानं प्रत्यभिमृश्य।  मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (अपउपस्पृश्य)। •कर्ता भोक्तृ.पादप्रक्षालनोदकं शिरसि धृत्वा, ------- विष्णुपादप्रक्षालनम्। •श्री विष्णो- स्वागतम्। (प्रतिवचनम्-) सुस्वागतम्। •श्रीविष्णो - पाद्यस्थाने इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्। (शन्नोदेवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। •श्री विष्णो- इदं ते पाद्यम्। (प्रतिवचनम्-) सुपाद्यम्। (ततः पवित्रं विसृज्य)  ओम् शुक्र.मसि ज्योति.रसि तेजोसि देवो व.स्सवितोत्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः। (आज्येनाङ्क्त्वा) • पादप्रक्षालन मन्त्राः  चरणंपवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान. मराति.न्तरेम।।  लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्म.द्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता.न्दधातु।। • नमो ब्रह्मण्यदेवाय- गोब्राह्मण.हितायच। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • (भोक्ता प्रक्षालयितारमुपस्पृश्य, आत्मानं प्रत्यभिमृशेत्।।  मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (इति जपेत्।) • कर्ता पादप्रक्षालनोदकं शिरसि धारयेत्। • यदीच्छसि महाराजन् सर्वतीर्थाव गाहनम्। विप्रपाद विनिर्मुक्तं तोयं शिरसि धारय।। >>कर्ता पवित्रं धृत्वा, स्वयं च पादौ प्रक्षाल्य, आचम्य। 10)श्राद्धस्थले प्रधान कर्मारम्भः। • विश्वे देवाः प्राङ्मुखाः, पितर उदङ्मुखाः, विष्णुः प्राङ्मुखः, ईशान्यमुखः कर्ता चोपविशेयुः।(केचन शिष्टाचाराः, विष्णुस्थानीयमपि ब्राह्मणं प्राङ्मुखं निमन्त्रयन्ति) • सर्वे आचामन्ति। •1) पुरूरवार्द्रव संज्ञिका विश्वेदेवाः।  भूर्भुवस्सुवः। स्वाहास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।। >>2) (प्राचीनावीती) - अस्मत्- पितृ- पितामह- प्रपितामहाः {मातृ- पितामही- प्रपितामह्यः}  भूर्भुवस्सुवः। स्वधास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।  सव्येन त्रिराचामेत् ।।। ।। >> (सव्येन) 3) •श्रीविष्णो -  भूर्भुवस्सुवः। स्वाहास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।। ----- • ओम्, ओम्, ओम्, अद्य पूर्वोक्तैवंगुण.विशिष्टाया.मस्यां पुण्यतिथौ  >>(प्राचीनावीती) अस्मत्पितुः (मातुः) प्रातिसाँवत्सरिक मृताहे, {अस्मत् मातुः प्राति साँवत्सरिक मृताहे} • भवदनुज्ञया प्रक्रान्तं, श्राद्धकर्म >> (सव्यम्) - करिष्ये। (प्रतिवचनं-) कुरुष्व।। >>(प्राचीनावीती)-  अपहता असुरा रक्षासि पिशाचा- ये क्षयन्ति पृथिवी.मनु। अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः।????  उदीरता.मवर उत्परास उन्मध्यमा पितर.स्सोम्यासः। असुँ य ईयु.रवृका ऋतज्ञा.स्ते नोवन्तु पितरो हवेषु।। (इति भूमिं कूर्चेनावोक्ष्य, तूष्णीं खात्वा, उद्धृत्य, तिलान् विकिरेत्।) • तूष्णीं वर्तुलाकार मण्डल त्रयं कृत्वा, तेषु तिलदर्भा.न्निक्षिप्य।। >> (सव्यम्)- तूष्णीं वैश्वदेवस्थाने यवोदकेनावोक्ष्य। • तत्र चतुरश्र मण्डलद्वयङ्कृत्वा। मण्डलयो.र्यवदर्भान् निक्षिप्य।। • अपवित्रः पवित्रो वा सर्वावस्थां गतोपिवा।यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। (गायत्र्या अन्नादिपाक द्रव्याणि संप्रोक्ष्य)  ओं भूर्भुव.स्सुवः। तथ्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योन प्रचोदयात्। (आत्मानञ्च संप्रोक्ष्य) • श्राद्धार्थं संपादिताः इमे पदार्थाः, देशतः कालतश्चैव, श्राद्धयोग्या भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) श्राद्धयोग्या भवन्तु।। • श्राद्धकाले गयां ध्यात्वा- ध्यात्वा देवं जनार्दनम्। वस्वादींश्च पितॄन् ध्यात्वा- तत.श्श्राद्धं प्रवर्तये।। • (प्रतिवचनम्-) प्रवर्तय।। -----  11) वैश्वदेवार्चनस्य प्रारम्भः - • पुरूरवार्द्रव संज्ञिकानां विश्वेषां देवानाम् - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। हस्तोदकं (गृहीत्वा) दत्त्वा। • वैश्वदेवे क्षणः क्रियतां। (प्रतिवचनम्-) ओं तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम। • ततः प्रादक्षिण्येन दर्भेषु(द्वे)अर्घ्यपात्रे आसाद्य, प्रोक्ष्य, उत्ताने कृत्वा,पुनप्रोक्ष्य, शन्नोदेवीरिति मन्त्रेण अर्घ्यपात्रे अभिमन्त्र्य)  शन्नो देवी रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य।) • यवोसि धान्यराजो वा- वारुणो मधुसँयुतः।निर्णोद.स्सर्वपापानां- पवित्र.मृषिभि.स्स्मृतम्।। (यवान् विकीर्य) • अर्घ्यपात्रयोः - अमी गन्धाः। • पुष्पार्था इमे अक्षताः। अमी कुशाः। इमानि श्री-तुलसी-भृंगराज-दर्भ-पत्र- तृणानि च। (औदुम्बरपर्णैः- दर्भैर्वा प्रच्छाद्य।) • कूर्चोदकेनैव अष्टार्घ्यैः, संपूर्णार्चन.मस्तु। • पुरूरव संज्ञिकेभ्यो विश्वेभ्यो वो देवेभ्यो जुष्टं गृह्णामि। (अत्र च) • आर्द्रव संज्ञिकेभ्यो विश्वेभ्यो वो देवेभ्यो जुष्टं गृह्णामि। • वः पात्रे संपन्ने। (प्रतिवचनम्-) सुसम्पन्ने।  स्वाहार्घ्या.स्स्वाहार्घ्याः। (प्रतिवचनम्-) सन्त्वर्घ्याः।। 12) वैश्वदेव-आवाहनम् -  ओं विश्वे देवास आगत शृणुता म इमं हवम्। एदं बर्‌हि.र्निषीदत।। • पुरूरवार्द्रव संज्ञिकान् विश्वान् देवान् भवत्सु- आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ओं विश्वे देवा.श्शृणुतेम हवं मे-ये अन्तरिक्षे य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा- आसद्यास्मिन्बर्‌हिषि मादयध्वम्। (इति मन्त्रेण नमस्कृत्य) • आगच्छन्तु महाभागा विश्वे देवा महाबलाः। एतात्र विहिता.श्श्राद्धे सावधाना भवन्तु मे।। (प्रतिवचनम्-) सावधाना.स्स्मः। 13) (वैश्वदेवस्थाने) - अर्घ्य प्रदानम् (हस्तोदकं (गृहीत्वा) दत्त्वा, दक्षिणं जान्वाच्य, हस्ते शुद्धोदकं दर्भं निधाय, प्रथम.मर्घ्यपात्रं गृहीत्वा, अभिमन्त्र्य।)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.-श्श स्योना.स्सुहवा भवन्तु।। • पुरूरव संज्ञिका विश्वे देवाः- इदँ वो अर्घ्यम्, स्वाहा नमः। (प्रतिवचनम्-) अस्त्वर्घ्यम्। (तत.श्शुद्धोदकम्। हस्तोदकं दत्त्वा, हस्ते शुद्धोदकं दर्भं निधाय। द्वितीय.मर्घ्यपात्रं गृहीत्वा, अभिमन्त्र्य।)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उतपार्थि वीर्याः। हिरण्यवर्णा यज्ञिया स्तान आप.-श्श स्योना.स्सुहवा भवन्तु।। • आर्द्रव संज्ञिका विश्वे देवाः- इदँ वो अर्घ्यम्, स्वाहा नमः। (प्रतिवचनम् - अस्त्वर्घ्यम्)। ततश्शुद्धोदकम्।हस्तोदकं (गृहीत्वा) दत्त्वा, • विश्वेभ्यो देवेभ्यः पात्रे - स्थाने स्थः। (प्रतिवचनम्-) सुस्थान.मसि। अर्घ्यपात्रद्वय.मन्यत्र निधाय। ततः अर्चनं कुर्यात्। 14) वैश्वदेव अर्चनम्  ओं अर्चत प्रार्चत-प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्तामिहोप ह्वये श्रियम्।। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। यथाभागशः, अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।  ओं आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्चपुण्डरीकाणि समुद्रस्य गृहा इमे।। • पुरूरवार्द्रवसंज्ञिका विश्वेदेवाः- इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)  ओं धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)  ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह जीवनञ्च दिशो दिश।। • पुरूरवार्द्रव संज्ञिका विश्वे देवाः। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।  ओं युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • पुरूरवार्द्रव संज्ञिका विश्वे देवाः। अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्,आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः। • (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः। • अर्चनं संपूर्णम्। • अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।। • युष्मदनुज्ञया पित्राद्यर्चनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।। --------- 15) पितृस्थाने अर्चनप्रारम्भः >>(प्राचीनावीती)(अस्मत्) पितृ- पितामह- प्रपितामहानां ... गोत्राणां ... शर्मणां, {अस्मत् - मातृ- पितामही- प्रपितामहीनां ... गोत्राणां, ... दानां} • वसुरुद्रादित्य रूपाणां, इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्।। (हस्तोदकं दत्त्वा) • (अस्मत्) पितुः (मातुः) प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे- क्षणः क्रियताम्। (प्रतिवचनम्-) ओं तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।। (दक्षिणाग्रेषु दर्भेषु दक्षिणापवर्गतया, त्रीण्यर्घ्यपात्रा.ण्यासाद्य, उत्तानानि प्रोक्ष्य। उद्धृत्य, सव्यं जान्वाच्य, शन्नोदेवीरिति मन्त्रेण- अर्घ्यपात्रा.ण्यभिमन्त्र्य।  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य)  तिलोसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्त.स्स्वध एहि।।तिलान् विकीर्य, • (अस्मत्) पितरं . . . गोत्रं, .... शर्माणं वसुरूपं, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधानमः। {(अस्मत्) मातरं . . . गोत्रां, .... दाम्, वसुरूपाम्, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधानमः।}  तिलोसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्त.स्स्वध एहि। (तिलान् विकीर्य) • (अस्मत्) पितामहं . . . गोत्रं, .... शर्माणं- रुद्ररूपं, इमा.न्लोकान् प्रीणयाहि न.स्स्वधानमः।। {(अस्मत्) पितमहीम् . . . गोत्रां, .... दाम्,रुद्ररूपाम्, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधानमः।}  तिलोसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्त.स्स्वध एहि।। (तिलान् विकीर्य) • (अस्मत्) प्रपितामहं . . . गोत्रं, ... शर्माणम्- आदित्यरूपं, इमा.न्लोकान् प्रीणयाहि न.स्स्वधा नमः।। {(अस्मत्) प्रपितामहीम् . . . गोत्रां, .... दाम्,आदित्यरूपाम्, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधानमः।} •अर्घ्यपात्रेष्वमी गन्धाः। इमानि पुष्पाणि। अमी कुशाः। (इमानि श्री-तुलसी- भृंगराज- दर्भ-पत्र- तृणानि च। (औदुम्बर पर्णैः दर्भैर्वा प्रच्छाद्य) • कूर्चोदकेनैव अष्टार्घ्यै.स्संपूर्णार्चनमस्तु। • पित्रे ते जुष्टं गृह्णामि। • पितामहाय ते जुष्टं गृह्णामि। • प्रपितामहाय ते जुष्टं गृह्णामि।। {मात्रे ते जुष्टं गृह्णामि। पितामह्यै ते जुष्टं गृह्णामि।। प्रपितामह्यै ते जुष्टं गृह्णामि।} • वः पात्राणि संपन्नानि। (प्रतिवचनम्-) सुसंपन्नानि। • स्वधार्घ्या.,स्स्वधार्घ्या.स्स्वधार्घ्याः। (प्रतिवचनम्-) सन्त्वर्घ्याः।। 16) पितृस्थाने- आवाहनम् • (अस्मत्) पितृ- पितामह- प्रपितामहान् ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, {मातृ- पितामही- प्रपितामहीः ... गोत्राः, . ... दाः। वसुरुद्रादित्यरूपाः,} भवत्सु - आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ओं उशन्त.स्त्वा हवामह- उशन्त. स्समिधीमहि। उश.न्नुशत आ वह- पितॄन् हविषे अत्तवे।।  ओं आयन्तु न पितर.स्सोम्यासो-ग्निष्वात्ता पथिभि.र्देवयानैः। अस्मिन् यज्ञे स्वधया मद.-न्त्वधि ब्रुवन्तु ते अवन्त्वस्मान्।। (इत्यावाह्य) • सावधाना भवन्तु मे। (प्रतिवचनम्-) सावधानास्स्मः। • पितृस्थाने अर्घ्यप्रदानम् (हस्ते शुद्धोदकं दर्भं निनीय। अर्घ्यपात्रमेकैकं गृहीत्वा, यादिव्या इत्यर्घ्यपात्रमभिमन्त्र्य)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.-स्ता न आप.श्श स्योना.स्स्वधा भवन्तु।। • (अस्मत्) पितः ... गोत्र ... शर्मन्न्, वसुरूप- इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।। तत श्शुद्धोदकम्। {(अस्मत्) मातः ... गोत्रे .... दे, वसुरूपे, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्। तत श्शुद्धोदकम्।} • पुनर्हस्ते शुद्धोदकं दर्भं, निधाय। द्वितीय पात्रेण-  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.श्श स्योना.स्स्वधा भवन्तु।। • (अस्मत्) पितामह ... गोत्र ... शर्मन्न्, रुद्ररूप- इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।। तत श्शुद्धोदकम्। {(अस्मत्) पितामहि ... गोत्रे .... दे, रुद्ररूपे, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्। तत श्शुद्धोदकम्।} • पुनर्हस्ते शुद्धोदकं दर्भं निधाय। तृतीय पात्रेण  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.-श्श स्योना.स्स्वधा भवन्तु।। • (अस्मत्) प्रपितामह .... गोत्र ... ..शर्मन्न्- आदित्य रूप, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्। तत.श्शुद्धोदकम्। {(अस्मत्) प्रपितामहि ... गोत्रे .... दे, आदित्य रूपे, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्। तत श्शुद्धोदकम्।} (अर्घ्यपात्राण्यन्यत्र निदध्यात्।) 17) पितृस्थाने अर्चनम् –  ओं अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चन्तु पुत्रका उत पुरन्न धृष्ण्वर्चत।। अर्चत प्रार्चत।। (इति तिलान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा-न्नित्यपुष्टाङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्ता.मिहोप ह्वये श्रियम्।। • (अस्मत्) पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • यथाभागशः - अमीवो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।  ओं आयनेते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि।। (पुष्पार्था इमे तिलाः)  ओं धूरसि धूर्व धूर्वन्त.न्धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। • पितृ- पितामह- प्रपितामहाः।{मातृ- पितामही- प्रपितामह्यः} • अयँ वो धूपः। (प्रतिवचनम्-) सुधूपः।। (सांकल्पिको वो धूपः)  ओं उद्दीप्यस्व जातवेदो-पघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह-जीवनञ्च दिशो दिश।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।।  ओं युवा सुवासा परिवीत आगा-थ्स उ श्रेया.न्भवति जायमानः। तन्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • अन्तप्रावरणार्थं- बहिप्रावरणार्थम्- आच्छादनार्थं- पवित्रार्थ- मलंकरणार्थम्- इदं वो वासः। (प्रतिवचनम्-) सुवासः।। • (तदभावे सतिला इमे कुशाः।) (प्रतिवचनम्-) सुकुशाः। अर्चनं संपूर्णम्। अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु।(प्रतिवचनम्-) अस्तु सङ्कल्प सिद्धिः। >>सव्यम्(पक्षे, विष्णुस्थानीयं ब्राह्मणञ्च वस्त्रादिभि स्संपूज्य) 18) विष्ण्वर्चनप्रकरणम् - •श्रीविष्णोः - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। हस्तोदकं (गृहीत्वा) दत्त्वा। • विष्णोः स्थाने क्षणः क्रियतां। (प्रतिवचनम्-) ओं तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम। • ततः प्रादक्षिण्येन दर्भेषुअर्घ्यपात्रमासाद्य, प्रोक्ष्य, उत्तानं कृत्वा,पुनप्रोक्ष्य, शन्नोदेवीरिति मन्त्रेण अर्घ्यपात्र.मभिमन्त्र्य)  श.न्नो देवी रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य।) • यवोसि धान्यराजो वा- वारुणो मधुसँयुतः।निर्णोद.स्सर्वपापानां- पवित्र.मृषिभि.स्स्मृतम्।। (यवान् विकीर्य) • अर्घ्यपात्रे - अमी गन्धाः। • पुष्पार्था इमे अक्षताः। अमी कुशाः। इमानि श्री-तुलसी-भृंगराज-दर्भ-पत्र- तृणानि च। (औदुम्बरपर्णैः- दर्भैर्वा प्रच्छाद्य।) • कूर्चोदकेनैव अष्टार्घ्यैः, संपूर्णार्चन.मस्तु। •विष्णवे वो जुष्टं गृह्णामि। •तव पात्रं संपन्नम्। (प्रतिवचनम्-) सुसम्पन्नम्।  स्वाहार्घ्याः। (प्रतिवचनम्-) सन्त्वर्घ्याः।। • विष्ण्वावाहनम् -  ओं इदँ विष्णुर्विचक्रमे- त्रेधा निदधे पदम्। समूढमस्य पासुरे।। • श्रीविष्णुं भवत्सु- आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ओं भवा मित्रो न शेव्यो घृतासुतिः। विभूतद्युम्न एव या उ सप्रथाः। अधा ते विष्णो विदुषा चिदृध्यः। स्तोमो यज्ञस्य राध्यो हविष्मतः।। (इति मन्त्रेण नमस्कृत्य) • सावधाना भवन्तु मे।। (प्रतिवचनम्-) सावधाना.स्स्मः।। • विष्णुस्थाने - अर्घ्य प्रदानम् (हस्तोदकं दत्त्वा, दक्षिणं जान्वाच्य, हस्ते शुद्धोदकं दर्भं निधाय, अर्घ्यपात्रं गृहीत्वा, अभिमन्त्र्य।)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.-श्श स्योना.स्सुहवा भवन्तु।। • श्रीविष्णो- इदँते अर्घ्यम्, स्वाहा नमः। (प्रतिवचनम्-) अस्त्वर्घ्यम्। (तत.श्शुद्धोदकम्। हस्तोदकं दत्त्वा, हस्ते शुद्धोदकं दर्भं निधाय।) •श्रीविष्णोः पात्र - स्थानेसि। (प्रतिवचनम्-) सुस्थान.मसि। (अर्घ्यपात्रमन्यत्र निधाय। ततः अर्चनं कुर्यात्) • विष्ण्वर्चनम्।  ओं अर्चत प्रार्चत-प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)  ओं गन्धद्वारा.न्दुराधर्‌षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्तामिहोप ह्वये श्रियम्।। •श्रीविष्णो। अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।  ओं आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्चपुण्डरीकाणि समुद्रस्य गृहा इमे।। •श्रीविष्णो - इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)  ओं धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्वयँ वय.न्धूर्वामः।। •श्रीविष्णो। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)  ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह जीवनञ्च दिशो दिश।।•श्री विष्णो। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।  ओं युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। •श्रीविष्णो- अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्,आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः। (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः। • अर्चनं संपूर्णम्। • अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।। -------- • (युष्मदनुज्ञया) सर्वत्र मंडलोद्वर्तनं पात्रासादनादिकञ्च करिष्ये। (प्रतिवचनम्-) कुरुष्व। 19) अग्नौकरणम्- • आचम्य ... पुनः प्राणानायम्य, ओम् ओम् ओम्। • अद्य पूर्वोक्तैवङ्गुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ, ??>>(प्राचीनावीती)• (अस्मत्) पितुः (मातुः) प्राति साँवत्सरिक मृताहाख्यान्न श्राद्धे, भवदनुज्ञया, अन्नसंस्कारार्थं, अग्नौकरणं >>(सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। (अन्नमग्ना.वधिश्रित्य, उदगुद्वास्य, अद्भिः प्रोक्ष्य, अभिघार्य,चतुर्धा विभज्य, ईशान्यभागेभिघार्य।) ??>>(प्राचीनावीती)• तूष्णीं अग्नि.मप्रदक्षिणं परिषिच्य। मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य, हविः प्रत्यभिघारयति।। >> (सव्यम्)  ओं सोमाय पितृपीताय स्वधा नमः। (अर्धं जुहोति) • सोमाय पितृपीतायेदं न मम। (शिष्टं पात्रान्तरे निधाय।) >>(प्राचीनावीती) पुनर्मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य। >> (सव्यम्)  ओम् यमायाङ्गिरस्वते पितृमते स्वधा नमः। (अर्धं जुहोति।) यमायाङ्गिरस्वते पितृमत इदं न मम।। • होमशिष्टद्वय.मादाय, अनुपस्तरणेन - अनभिघारणेन जुहोति।  ओम्अग्नये कव्यवाहनाय स्वधा नमः।। अग्नये कव्यवाहनायेदं न मम।।??>>(प्राचीनावीती) तूष्णी.मग्नि.मप्रदक्षिणं परिषिच्य, तूष्णीं मेक्षण.मग्नौ प्रहरति।। >> (सव्यम्) चतुस्सागर पर्यन्तं ... . अभिवादये।। • भोजन पात्रादि संस्कारः >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा। • भोजन पात्रयो.रुपस्तीर्य। 20) पक्वान्न विनियोग चित्रम् • वायव्यभाग.मादाय। (त्रिवारं पितृभोजनपात्रे पितृतीर्थेन निक्षिप्य)  स्वधेयं स्वधेयं स्वधेयम्।। (प्रतिवचनम्-) अस्तु स्वधा (3) (पुन.रभिघार्य। पुनर्हस्तोदकं दत्त्वा।) • आस्वधेति पात्रस्थ.मन्न.मभिमन्त्र्य  ओम्आस्वधेत्याश्रावयति। अस्तु स्वधेति प्रत्याश्रावयति। स्वधानम इति वषट्करोति। स्वधाकारोहि पितृणाम्।। >> (सव्यम्) वैश्वदेवस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।। >>विष्णुस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।। ---------- 21) अन्नसूक्त पठन सङ्कल्पः • आचम्य ... पुनः प्राणानायम्य, एवंगुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ >>(प्राचीनावीती) - (अस्मत्) पितुः (मातुः) प्रातिसाँवत्सरिकमृताहाख्यान्न श्राद्धे, >>(सव्यम्) अन्नशुद्ध्यर्थं, आघ्राणदोष निर्‌हरणार्थं, अन्नसूक्तमन्त्र पठनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • ब्राह्मणैस्सह आश्रावयिष्ये। (प्रतिवचनम्-) आश्रावय।। (अभिमन्त्रयति)  ओं नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि।।  ओं सह वै देवानां .... तदप्येष श्लोको भवति।। (अन्नसूक्तं जपित्वा)। ------------- 22) परिवेषण विधिः • अन्नञ्च पायसं भक्ष्यं घृतञ्च व्यञ्जनादिकम्।सूप.मन्ते प्रदातव्यं सर्वं स्या.द्दैवपूर्वकम्।। (भोजन पात्रेषु पाकद्रव्याणि परिवेष्य, अभिघार्य, गायत्र्या प्रोक्ष्य।)  ओं भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। • वैश्वदेवस्थाने हस्तोदकं दत्त्वा।  देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।  इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वाहा श्री विष्णो हव्य रक्षस्व। • वैश्वदेव.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। इदँ वो हव्यं सपरिकरम्। • पुरूरवार्द्रव संज्ञिका विश्वेदेवा देवता, इद.मन्नं हव्यम्।ब्राह्मणस्त्वाहवनीयार्थे। दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • पुरूरवार्द्रव संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - इदमिद.मन्नम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं, • अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम। • गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।) • (प्रतिवचनम्-) गयायां दत्त.मस्तु।।  ओम्। ये देवा दिव्येकादश स्थ पृथिव्या.मध्येकादशस्थाफ्सुषदो महिनैकादशस्थ ते देवा यज्ञ.मिम.ञ्जुषध्वम्।। (इति नमस्कृत्य।) >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा।  देव सवितः प्रसुव।। (अप्रदक्षिणं परिषिच्य।) (भोजनपात्रं स्पृष्ट्वा)  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मि.न्लोके।।  इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वधा श्री विष्णो, कव्य रक्षस्व। पितृहस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • (अस्मत्) पितृ-पितामह-प्रपितामहाः। ... गोत्राः, ...शर्माणः, वसुरुद्रादित्य रूपाः। {मातृ- पितामही- प्रपितामह्यः।... गोत्राः, ..दाः, वसुरुद्रादित्यरूपाः।} • एतद्वः कव्यं सपरिकरम्।। • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} देवता। इद.मन्नं कव्यम्। ब्राह्मण.स्त्वाहवनीयार्थे। • दत्तं दास्यमानञ्च, आतृप्तेस्ततत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। राजत.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। •(अस्मत्) पितृ- पितामह- प्रपितामहेभ्यः ... गोत्रेभ्यः , ... शर्मभ्यः, वसुरुद्रादित्य रूपेभ्यः।। {मातृ- पितामही- प्रपितामहीभ्यः। ...गोत्राभ्यः, .. दाभ्यः, वसुरुद्रादित्यरूपाभ्यः।} • इदमिद.मन्नम्। अमृतस्वरूपम्। • आतृप्ते.र्दास्यमानं यथाभागं कव्यम्। • तत्सत्। स्वधा न मम। स्वधा नमम। >> (सव्यम्) • गयायां श्री विष्णुपादादि समस्त तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयायां दत्तमस्तु।।  ये चेह पितरो ये च नेह याश्च विद्म या उ चन प्रविद्म। अग्ने तान् वेत्थ यदि ते जातवेद.स्स्वधाभि.र्यज्ञ सुकृत.ञ्जुषस्व।। ----- (पक्षे - विष्णुस्थाने हस्तोदकं दत्त्वा, नमस्कृत्य)  ओं भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। •विष्णुस्थाने हस्तोदकं दत्त्वा,  देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।  इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वाहा श्री विष्णो हव्य रक्षस्व। •विष्णु.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) •श्रीविष्णो। इदँ वो हव्यं सपरिकरम्। •श्रीविष्णु.र्देवता, इद.मन्नं हव्यम्।ब्राह्मणस्त्वाहवनीयार्थे। •दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। •श्रीविष्णवे- इदमिद.मन्नम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं, • अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम। • गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।) • (प्रतिवचनम्-) गयायां दत्त.मस्तु।।  ओम्। इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पासुरे।। (इति नमस्कृत्य।) • सप्तव्याधा दशार्णेषु- मृगाः कालाञ्जने गिरौ।चक्रवाका.श्शरद्वीपे- हंसा.स्सरसि मानसे।। • ये स्म जाताः कुरुक्षेत्रे- ब्राह्मणा वेद पारगाः। प्रस्थिता दीर्घ.मध्वानं- यूयं तेभ्योवसीदत।। • अमूर्तानाञ्च मूर्तानां- पितॄणां दीप्ततेजसाम्।नमस्यामि सदा तेषां- ध्यायिनां योगचक्षुषाम्। • चतुर्भिश्च चतुर्भिश्च- द्वाभ्यां पञ्चभि.रेव च।हूयते च पुन.र्द्वाभ्यां- स मे विष्णुः प्रसीदतु।। • ब्रह्मार्पणं ब्रह्महविर्- ब्रह्माग्नौ ब्रह्मणा हुतम्।ब्रह्मैव तेन गन्तव्यं- ब्रह्मकर्म समाधिना।। • यज्ञेश्वरो यज्ञसमस्त.नेता- भोक्ताव्ययात्मा हरि.रीश्वरोत्र।तत्सन्निधाना.दपयान्तु सद्यो- रक्षांस्यशेषा.ण्यसुराश्च सर्वे।। • त्वां योगिन.श्चिन्तयन्ति- त्वाँ यजन्ति च यज्वनः।हव्यकव्यभु.गेक.स्त्वं पितृदेव.स्वरूपधृत्। • कर्ता क्रियाणां सस इज्यते क्रतु.-स्स एव तत्कर्मफलञ्च यच्च।स्रुगादि यत्साधन.मप्यशेषं हरे.र्नकिञ्चि.द्व्यतिरिक्त.मस्ति।। • गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्पतेः।गयाशीर्षे वटे चैव पितॄणां दत्त.मक्षयम्।। • देश- काल- पात्र- मन्त्र- तन्त्र- कर्म- कर्तृ- भोक्तृ- स्थल- हविर् द्रव्यादिषु, सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्तु। >> (निवीती) • ईशान- विष्णु- कमलासन- कार्तिकेय- वह्नित्रयार्क.रजनीश. गणेश्वराणाम्।सभ्यावसथ्य-दधि-कण्व- मतङ्गजानां, क्रौञ्चामरेन्द्र- कलशोद्भव- कश्यपानाम्।पादा. न्नमामि सततं पितृमुक्ति हेतून्।। • गय गय गय।। 23) ब्राह्मणभोजने धारादत्तम् >> (सव्यम्) ओं ओं ओं ... अस्यां पुण्यतिथौ >>(प्राचीनावीती) (अस्मत्) पितुः प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्धे, • अस्मत् पितृ- पितामह- प्रपितामहान् ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, {मातृ- पितामही- प्रपितामहीः, ... गोत्राः ... दाः, वसुरुद्रादित्य रूपाः} >> (सव्यम्) पुरूरवार्द्रवसंज्ञिकान् विश्वान्देवाश्च, उद्दिश्य मया क्रियमाणेन, अनेन- >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्धेन, • वसुरुद्रादित्य रूपाणां, (अस्मत्) पितृ- पितामह- प्रपितामहानां ... गोत्राणां, ... शर्मणां, वसुरुद्रादित्य रूपाणां, एतेषाम् {(अस्मत्) मातृ- पितामही- प्रपितामहीनां, ... गोत्राणां ... दानां,वसुरुद्रादित्य रूपाणां, एतासाम्} • गयान्नश्राद्धेनेव, अक्षय्यतृप्ति.र्भूत्वा, पुनरावृत्ति.रहित- शाश्वत ब्रह्मलोकनिवास.सिद्धि.रस्त्विति भवन्तो ब्रुवन्तु। (सदर्भ यव तिलोदकं विसृजेत्।) • (प्रतिवचनम्-) पुनरावृत्ति.रहित शाश्वत.ब्रह्मलोक निवास सिद्धि.रस्तु। यथाकालं दत्तमस्तु। सर्वं सगुण.मस्तु।  नमो देवेभ्यः। स्वधा पितृभ्यः। नमो विष्णवे।। >>(सव्यम्) ओन्तद्ब्रह्म। ओन्तद्वायुः। ओन्तदात्मा। ओन्तथ्सत्यम्। ओन्तथ्सर्वम्। ओन्तत्पुरो.र्नमः। अन्त.श्चरति भूतेषु गुहायाँ विश्वमूर्तिषु। त्वँ यज्ञ.स्त्वँ वषट्कार स्त्वमिन्द्र.स्त्व रुद्र.स्त्वँ विष्णु.स्त्वं ब्रह्म त्वं प्रजापतिः। त्व.न्तदाप आपो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।।  श्रद्धायां प्राणे निविष्टोमृत.ञ्जुहोमि। श्रद्धाया.मपाने निविष्टोमृत.ञ्जुहोमि। श्रद्धायाँ व्याने निविष्टोमृत.ञ्जुहोमि। श्रद्धाया.मुदाने निविष्टोमृत.ञ्जुहोमि। श्रद्धाया समाने निविष्टोमृत.ञ्जुहोमि। ब्रह्मणि म आत्मामृतत्वाय।।  मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वी.र्न. स्सन्त्वोषधीः।  मधु नक्त.मुतोषसि मधुम.त्पार्थिव रजः। मधु द्यौ.रस्तु न पिता।  मधुमा.न्नो वनस्पति. र्मधुमा अस्तु सूर्यः। माध्वी.र्गावो भवन्तु नः।। • यथा सुखं परिषेचनम्।। • 1) वैश्वदेवस्थाने  ओं भूर्भुवस्सुवः। ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्। (भोक्ता प्रोक्षति) हस्तोदकं दत्त्वा। सत्य.न्त्वर्तेन परिषिञ्चामि।(भोक्ता परिषिञ्चति) •2) अथ पितृस्थाने।  ओं भूर्भुवस्सुवः। ओं तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्। (भोक्ता प्रोक्षति) । >>(प्राचीनावीती) हस्तोदकं दत्त्वा। सत्यन्त्वर्तेन परिषिञ्चामि।।(भोक्ता परिषिञ्चति) • 3) विष्णुस्थाने  ओं भूर्भुवस्सुवः। ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्। (भोक्ता प्रोक्षति) हस्तोदकं दत्त्वा। सत्य.न्त्वर्तेन परिषिञ्चामि।(भोक्ता परिषिञ्चति) --------- >> (सव्यम्) पितृ- पितामह- प्रपितामहेभ्यः {मातृ- पितामही- प्रपितामहीभ्यः} - अमृतमस्तु। इति हस्तोदकं दत्त्वा। • पुरूरवार्द्रव संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - अमृतमस्तु। इति हस्तोदकं दत्त्वा। • (पक्षे) विष्णवे - अमृतमस्तु। इति हस्तोदकं दत्त्वा। • अमृतोपस्तरणमसि। -------------- • इयं भू.र्गया। एते ब्राह्मणा गदाधराः। • एको विष्णु.र्मह.द्भूतं- पृथ.ग्भूता.न्यनेकशः।त्रीन् लोकान् व्याप्य भूतात्मा- भुङ्क्ते विश्वभु.गव्ययः।। • पितृरूपी जनार्दनः प्रीयताम्।। ओं तत्सत्। ब्रह्मार्पणमस्तु।। भोक्तारः-  श्रद्धायां प्राणे निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। प्राणाय स्वाहा।।  श्रद्धाया. मपाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। अपानाय स्वाहा।  श्रद्धायाँ व्याने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। व्यानाय स्वाहा।  श्रद्धाया. मुदाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। उदानाय स्वाहा।  श्रद्धाया समाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। समानाय स्वाहा।  ब्रह्मणि म आत्मामृतत्वाय।। • यथासुखं जुषध्वम्। (प्रतिवचनम्-) जुषामहे। • कलौ कलिकृतान् दोषान्- द्रव्यदेहात्मसम्भवान्।सर्वान् हरति चित्तस्थो- भगवान् देवकीसुतः।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरणपूर्वकम्।यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। • अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम्।उपविश्य सुखेनैव- भोक्तव्यं स्वस्थमानसैः।। (मक्षिकानिरसनम्-)  ओम् यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्त.मस्ति। यद्धस्तयो. श्शमितु. र्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु।। • मक्षिकाबाधा निवृत्तिरस्तु।। • विद्यमान पदार्थेषु, यद्रोचते- तद्ग्राह्यं, यन्नरोचते- तत् त्याज्यं, सुखेन मौनेन भोक्तव्यम्।। 24)अधिश्रवण सङ्कल्पः • ओं ओं ओं . . . अस्यां पुण्यतिथौ, >>(प्राचीनावीती) अस्मत् पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्नश्राद्धे, ब्राह्मण भोजनपर्यन्तं, राक्षसबाधा निर्हरणार्थं, अधिश्रवणमन्त्र पठनम् >> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। (अधिश्रवण मन्त्र पारायणं ब्राह्मणद्वारेण स्वयं वा कुर्यात्।)  ओं सहनाववतु ... . ओं शान्ति श्शान्ति श्शान्तिः।  ओं युञ्जते ... येभ्य.श्चैन.त्प्राहुः। ओम्। इति वैष्णवान्, राक्षोघ्नान्, पैतृका.ननुवाकान् वाचयित्वा।।  ओं भूर्भुवस्सुवः। ओं तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।  मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वी.र्नस्सन्त्वोषधीः।  मधु नक्त.मुतोषसि मधुम.त्पार्थिव रजः। मधु द्यौरस्तु न पिता।  मधुमा.न्नो वनस्पति.र्मधुमा अस्तु सूर्यः। माध्वी.र्गावो भवन्तु नः।। (भोजनान्ते) • मधु मधु मधु। (प्रतिवचनम्-) सर्वं मध्वस्तु। ओम् अक्ष.न्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्रते हरी।। • मया कृतं श्राद्धं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्।। 25) विकिरान्न प्रदानम् • पक्वात्, नैरृत्यभाग.मोदन.मादाय, त्रेधा विभज्य, • तत्र प्रथमभागं कुलस्त्रीभ्यःआदाय, >>(प्राचीनावीती)पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • तृप्तास्स्थ। तृप्तास्स्थ। तृप्तास्स्थ। (प्रतिवचनम्- ) तृप्ता.स्स्मः। • (आग्नेय्यां दिशि पितृस्थानस्य दक्षिणभागे भूमावेव विकीर्य, अप्रदक्षिणं परिषिच्य,कुलस्त्रीभ्य.स्समर्पयेत्।) • असंस्कृत.प्रमीता ये त्यागिन्यो याः कुलस्त्रियः।दास्यामि तेभ्यो विकिर.-मन्नं ताभ्यश्च पैतृकम्।। >> (सव्यम्) (नैरृत्यभागस्य द्वितीयार्ध.मोदनं सोमभाग.विवर्जितेभ्यो देवेभ्य आदाय) • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः। • तृप्तास्स्थ। तृप्ता.स्स्थ। (प्रतिवचनम्-) तृप्ता.स्स्मः।। • (वायव्यां दिशि वैश्वदेवस्थानस्य वामभागे भूमावेव विकीर्य, प्रदक्षिणं परिषिच्य, असोमपेभ्यो देवेभ्य.स्समर्पयेत्।) • असोमपाश्च ये देवा यज्ञभाग.विवर्जिताः।तेषा.मन्नं प्रदास्यामि विकिरं वैश्वदेवकम्।। 26) विकिर पिण्ड प्रदानम् • अवशिष्टेन तृतीयभागेन विकिर पिण्डं विरच्य, >>(प्राचीनावीती)– • देव.पितृ.मध्ये प्रोक्ष्य। दक्षिणाग्रान् दर्भानास्तीर्य। तेषु तिलोदकं निनीय।  ये अग्निदग्धा येनग्निदग्धा ये वा जाता कुले मम। भूमौ दत्तेन पिंडेन तृप्ता यान्तु परां गतिम्।। • अग्निदग्धेभ्यः- अनग्नि दग्धेभ्यः- अस्मत्.कुल.प्रसूत.मृतेभ्यः - अयं विकिरपिण्ड.स्स्वधा नमः।। • एतद्व.स्तिलोदकम्।। • भुक्तपात्रा.दुच्छिष्टभाग्भ्यः - अन्नं प्रदीयताम्।। • (भोक्तारः-) यजमान कुले जाताः दासा दास्योन्नकांक्षिणः।ते सर्वे तृप्ति.मायान्तु मया दत्तेन भूतले।। --------- >> (सव्यम्)  अमृतापिधानमसि। • इत्युत्तरापोशनं पितृस्थाने, वैश्वदेवस्थाने, विष्णुस्थाने च दत्त्वा।  श्रद्धायां प्राणे निविश्यामृत हुतम्। प्राण.मन्नेनाप्यायस्व।  श्रद्धाया.मपाने निविश्यामृत हुतम्। अपान. मन्नेनाप्यायस्व।  श्रद्धायाँ व्याने निविश्यामृत हुतम्। व्यान मन्नेनाप्यायस्व।  श्रद्धाया.मुदाने निविश्यामृत हुतम्। उदान. मन्नेनाप्यायस्व।  श्रद्धाया समाने निविश्यामृत हुतम्। समान.मन्नेनाप्यायस्व।।  अङ्गुष्ठमात्र पुरुषोङ्गुष्ठञ्च समाश्रितः। ईश.स्सर्वस्य जगत प्रभु प्रीणाति विश्वभुक्।। • रौरवेपुण्यनिलये पद्मार्बुद.निवासिनाम्।अर्थिना.मुदकं दत्त.-मक्षय्य.मुपतिष्ठतु।। • भोक्तारः पाणिपादं प्रक्षाल्य।  27)पितृ-पितामह- प्रपितामह- पिण्ड प्रदानम्- • ओम् ओम् ओम् ... पुण्यतिथौ, >>(प्राचीनावीती)(अस्मत्) पितुः (मातुः) प्राति साँवत्सरिक मृताहाख्यान्न श्राद्धीयं सतिलोदक पिण्डप्रदानं >> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • पक्वात्, चतुर्थभाग (माग्नेय) मादाय, भाण्ड शिष्टेनान्नेन मिश्रयित्वा, पिण्डत्रयं कृत्वा, दक्षिणाभिमुखो गोमयेनानुलिप्य,  ओं अपां मेध्यं यज्ञिय सदेव शिव.मस्तु मे। आच्छेत्ता वो मा रिषं जीवानि शरद.श्शतम्। (इत्याच्छिनत्ति।) (इति पिण्डप्रदान स्थले तृणादिकं निरस्य) अप उपस्पृश्य, अद्भि.रवोक्ष्य।।  ओं अपहता असुरा रक्षासि पिशाचा वेदिषदः। (इति भूमि.मुल्लिख्य, अप उपस्पृश्य।)  शुन्धन्तां पितरः। शुन्धन्तां पितामहाः। शुन्धन्तां प्रपितामहाः।। {शुन्धन्तां मातरः। शुन्धन्तां पितामह्यः। शुन्धन्तां प्रपितामह्यः।।} (इति दर्भैः पुनः प्रोक्षति।)  ओम् आयन्तु पितरो मनोजवसः।  सकृदाच्छिन्नं बर्‌हि.रूर्णामृदु। स्योनं पितृभ्यस्त्वा भरा.म्यहम्।अस्मि‘2’न्थ्सीदन्तु मे पितर.स्सोम्याः। पितामहाः प्रपितामहाश्चानुगै. स्सह।। (दक्षिणाग्रान् दर्भानास्तीर्य।।)  मार्जयन्तां पितरः। मार्जयन्तां पितामहाः। मार्जयन्तां प्रपितामहाः।। {  मार्जयन्तां मातरः। मार्जयन्तां पितामह्यः। मार्जयन्तां प्रपितामह्यः।} इति तिलोदकं निनीय, •(सव्यम्) जान्वाच्य • 1) पितृपिण्डम् – एतत्ते तत, ... गोत्र, ... शर्मन्न्, वसुरूप ये च त्वा.मनु। • (अस्मत्) पित्रे, ... गोत्राय, ... शर्मणे, वसुरूपाय, • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्त.मस्तु।। 2. पितामहपिण्डम् – एतत्ते पितामह, ... गोत्र, ... शर्मन्न्, रुद्ररूप, ये च त्वा मनु। •(अस्मत्) पितामहाय, ... गोत्राय, ... शर्मणे, रुद्ररूपाय • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्तमस्तु।। 3. प्रपितामह पिण्डम् – एतत्ते प्रपितामह, ... गोत्र, ... शर्मन्न्, आदित्यरूप, ये च त्वा. मनु। • (अस्मत्) प्रपितामहाय, ... गोत्राय, ... शर्मणे, आदित्यरूपाय, • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्तमस्तु।। {•एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे, याश्च त्वा मनु। मात्रे, ... गोत्रायै, ... दायै, वसुरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।। •एतत्ते पितामहि, ... गोत्रे, ... दे, रुद्ररूपे, याश्च त्वा मनु। पितामह्यै, ... गोत्रायै, ... दायै, रुद्ररूपायै, याश्च त्वामनु गच्छन्ति, ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।। •एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे, याश्च त्वा मनु। प्रपितामह्यै, ... गोत्रायै, ... दायै, आदित्यरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।} ओम् यन्मे माता प्रममाद यच्चचाराननुव्रतम्। तन्मे रेतः पिता वृङ्क्तां माभु.रन्योवपद्यताम्।।  ओं पितृभ्य.स्स्वधाविभ्य.स्स्वधानमः। पितामहेभ्य. स्स्वधाविभ्य.स्स्वधानमः। प्रपितामहेभ्य. स्स्वधाविभ्य.स्स्वधानमः।।  ओं अत्र पितरो यथाभागं मन्धध्वम्।  अक्ष.न्पितरोमीमदन्त पितरोतीतृपन्त पितरोमीमृजन्त पितरः।  ये समाना.स्समनसः। पितरो यमराज्ये। तेषाँ लोक.स्स्वधा नमः। यज्ञो देवेषु कल्पताम्।  ये सजाता.स्समनसः। जीवा जीवेषु मामकाः। तेषा श्री.र्मयि कल्पताम्। अस्मि.न्लोके शत समाः। >> (सव्यम्)  वीर.न्धत्त पितरः।पिण्डशेषमाघ्राय। आचम्य, >>प्राचीनवीती मार्जयन्तां मम पितरः। मार्जयन्तां मम पितामहाः। मार्जयन्तां मम प्रपितामहाः।। इति पिण्डेषु तिलोदकं निनीय। {मार्जयन्तां मम मातरः। मार्जयन्तां मम पितामह्यः। मार्जयन्तां मम प्रपितामह्यः।। इति पिण्डेषु तिलोदकं निनीय।} 28) आञ्जनाभ्यञ्जने • घृताञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप आंक्ष्व। • एतत्ते पितामह ... गोत्र, ... शर्मन्न्, रुद्ररूप आंक्ष्व। • एतत्ते प्रपितामह ... गोत्र, ... शर्मन्न्, आदित्यरूप आंक्ष्व।। • अभ्यञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप अभ्यंक्ष्व। • एतत्ते पितामह ... गोत्र, ... शर्मन्न्, रुद्ररूप अभ्यंक्ष्व । • एतत्ते प्रपितामह ... गोत्र, ... शर्मन्न्, आदित्यरूप अभ्यंक्ष्व ।। {• एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे आंक्ष्व। • एतत्ते पितामहि, ... गोत्रे, ... दे, रुद्ररूपे आंक्ष्व। • एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे आंक्ष्व।। • एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे अभ्यंक्ष्व। • एतत्ते पितामहि , ... गोत्रे, ... दे, रुद्ररूपे अभ्यंक्ष्व।। • एतत्ते प्रपितामहि, ... गोत्रे, ... दे, आदित्यरूपे अभ्यंक्ष्व} • आंक्ष्वाभ्यंक्ष्व पितरः। • अतोन्यत्पितरो मा योष्ट। पितामहा मा योष्ट। प्रपितामहा मा योष्ट। {• अतोन्यन्मातरो मायोष्ट। पितामह्यो मायोष्ट। प्रपितामह्यो मा योष्ट।} • एतानि वः पितरो वासासि। इति वाससो दशां छित्त्वा, पिण्डेषु निदधाति।।  ओम् ऊर्जं वहन्ती.रमृतं घृतं पयकीलालं परिस्रुतम्। स्वधा स्थ तर्पयत मे पितॄन्।  तृप्यत तृप्यत तृप्यत। (तर्पणोदकपात्रं पिण्डाना.मुपरि निक्षिप्य।।) 29) पिण्डनमस्काराः >>(सव्यम्) नमस्कारा एते मन्त्राः।  ओं नमो व पितरो रसाय नमो व पितर.श्शुष्माय नमो व पितरो जीवाय नमो व पितर.स्स्वधायै नमो व पितरो मन्यवे नमो व पितरो घोराय, पितरो नमो वो- य एतस्मि.न्लोके स्थ- युष्मास्तेनु, येस्मिन्लोके मान्तेनु, य एतस्मिन्लोके स्थ यूय.न्तेषां वसिष्ठा भूयास्त, येस्मिन्लोकेह न्तेषां वसिष्ठो भूयासम्।।  गृहान्न पितरो दत्त। सदो व पितरो देष्म। (प्रार्थनम्)  ओं पुनर्न पितरो मनो ददातु दैव्यो जनः। जीवँ व्रात सचेमहि। >>(प्राचीनावीती)  उत्तिष्ठत पितर प्रेतशूरा यमस्य पन्था.मनवेता पुराणम्। धत्ता.दस्मासु द्रविणँ यच्च भद्रं प्रणो ब्रूता.द्भागधा.न्देवतासु। (इति पिण्डानुत्थाप्य पात्रे निदधाति।)  ओं परेत पितर.स्सोम्या- गम्भीरै पथिभि पूर्व्यैः। अथा पितॄ.न्थ्सुविदत्रा अपीत यमेन ये सधमादं मदन्ति।।  प्रवाहणीय.मृक्- इति प्रवाहयति।  मनो न्वाहुवामहे नाराशसेन स्तोमेन पितृणाञ्च मन्मभिः। आ न एतु मन पुन क्रत्वे दक्षाय जीवसे। • ज्योक्च सूर्यन्दृशे।। (अनेन आदित्यदर्शनम्) >> (सव्यम्)  30) पिण्डपूजा • .... अस्यां पुण्यतिथौ, कुलाभिवृद्ध्यर्थं, पिण्डपार्वण पूजां करिष्ये। • पिण्ड पितृदेवताभ्यो नमः। दर्भ-पत्र-कुश-तिल-यवाक्षतान् समर्पयामि। • ततः पिण्डनैवेद्यं कुर्यात्। यथाशक्ति दक्षिणां दद्यात्। • गय गय गय ।। • ... अद्य पूर्वोक्त एवंगुण विशेषण विशिष्टाया,मस्यां पुण्यतिथौ >>(प्राचीनावीती) अस्मत् पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्धे,अस्मत् - पितृ- पितामह- प्रपितामहान्, ... गोत्रान्, ... शर्मणः, वसुरुद्रादित्य रूपान्, एतान् {अस्मत् - मातृ- पितामही- प्रपितामहीः, ... गोत्राः, ... दाः, वसुरुद्रादित्य रूपाः, एताः • उद्दिश्य, मया दत्ताः पिण्डाः, गया पिण्डसदृशा भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयापिण्ड सदृशा भवन्तु।। >> (सव्यम्) पिण्डान् सर्वे बन्धवो नमस्कुर्युः। (लौकिको नमस्कारः)। • पिण्डानुद्वासयिष्ये। (प्रतिवचनम्-) उद्वासय।। >>(प्राचीनावीती) पिण्डानुद्वास्य,तान् पिण्डान् गोभ्यो दद्यात्, अफ्सु वा प्रक्षिपेत्, अग्नौ वा दह्यात्। >> (सव्यम्) - अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका।पुरी द्वारावतीचैव सप्तैता मोक्षदायिकाः।। • अहं काशीं गमिष्यामि तत्रैव निवसा.म्यहम्।इति ब्रुवाण.स्सततं काशीवासफलं लभेत्।। • शमीपत्र प्रमाणेन पिण्डं दद्या.द्गयाशिरे।उद्धरेत् सप्त गोत्राणां कुल.मेकोत्तरं शतम्।। • पिण्डस्थाने शान्ति.रस्तु। पुष्टि.रस्तु। तुष्टि.रस्तु। वृद्धि.रस्तु। अविघ्न.मस्तु। आयुष्य.मस्तु। आरोग्य.मस्तु। (इति कूर्चेन प्रोक्ष्य) • स्वस्ति शोभनम्। स्वस्थाने वासः।  31) सकृदाच्छिन्न बर्हिः प्रहरणम् अथ औपासन देशं गच्छति।  यदन्तरिक्षं पृथिवी.मुत द्याँ यन्मातरं पितरँ वा जिहिसिम। अग्नि.र्मा तस्मा.देनसो गार्‌हपत्य प्रमुञ्चतु दुरिता यानि चकृम करोतु मा.मनेनसम्।। • इत्यग्निमुपस्थाय, सकृदाच्छिन्न.मग्नौ प्रहरति। • वैश्वदेवस्थाने हस्तोदकं चतुर्वारं दत्त्वा।। >>(प्राचीनावीती) पितृस्थाने हस्तोदकं षड्वारं दत्त्वा।। >> (सव्यम्) विष्णुस्थाने हस्तोदकं चतुर्वारं दत्त्वा।।  देवाः पितरः। वैश्वदेव प्रसादोस्तु।। >>(प्राचीनावीती) पितरो देवाः। • पितृ- पितामह- प्रपितामह.प्रसादोस्तु।। (मातृ- पितामही- प्रपितामही प्रसादोस्तु।।) • देव.पितृप्रसादेन, अस्मद्गोत्रं वर्धताम्। • (प्रतिवचनम्-) स्वस्ति वर्धतां गोत्रम्। • देवाश्च पितरः - स्वस्तीति ब्रूत। • (प्रतिवचनम्- ) ब्रूहि स्वस्ति।। (ततःपादप्रक्षालनस्थले न्यक्पात्र.मुत्तानं करोति) • भोजनपात्रा.ण्युच्चालयिष्ये। (प्रतिवचनम्- ) उच्चालय।। • पुरूरवार्द्रव संज्ञिका विश्वेदेवाः - मया दत्तं श्राद्ध.मन्नम्, अक्षय्योदक.मस्त्विति ब्रूत। (प्रतिवचनम्- ) अस्त्वक्षय्योदकम्।। >>(प्राचीनावीती) • पितृ- पितामह- प्रपितामहाः। {मातृ- पितामही- प्रपितामह्यः} • मया दत्तं श्राद्ध.मन्नम्-अक्षय्योदक.मस्त्विति ब्रूत। • (प्रतिवचनम्-) अस्त्वक्षय्योदकम्।। >> (सव्यम्) स्वाहां वाचयिष्ये। (प्रतिवचनम्- ) वाच्यताम्।।  ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः। अन्तर्‌हृदा मनसा पूयमानाः।  घृतस्य धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्।  तस्मि.न्थ्सुपर्णो मधुकृ.त्कुलायी भज.न्नास्ते मधु देवताभ्यः। तस्यासते हरय.स्सप्त तीरे स्वधा.न्दुहाना अमृतस्य धाराम्।। (कूर्चग्रन्थिं विस्रस्य) >>(प्राचीनावीती) पितृभ्यः, पितामहेभ्यः, प्रपितामहेभ्य.स्स्वधोच्यताम्। {मातृभ्यः, पितामहीभ्यः, प्रपितामहीभ्य स्स्वधोच्यताम्।} • अस्तु स्वधा। (इति भूमौ जलं सिञ्चति।) • दक्षिणादानम्, रजतदानम् >> (सव्यम्) संपद्यन्तां संपद्यन्ताम्। प्रीयन्तां विश्वे देवाः।। • पितॄणां वल्लभं यस्मा.- द्धरे कस्य शिवस्य च।रजतं पातु न.स्तस्मा - द्दुख.संसार.सागरात्।। • उपस्थितेभ्यो ब्राह्मणेभ्यो दक्षिणाः पान्तु। (प्रतिवचनम्-) पान्तु दक्षिणाः।  ओम् वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मध्व पिबत मादयध्वं तृप्ता यात पथिभि र्देवयानैः।। >>(प्राचीनावीती) उत्तिष्ठत पितरः। (इति पितॄ.नुत्थापयति।) >> (सव्यम्) अनूत्तिष्ठन्तु विश्वे देवाः। (विष्णुना सह)।  ओम् आमा वाजस्य प्रसवो जगम्या.दा द्यावापृथिवी विश्वशम्भू। आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्।। इति प्रदक्षिणीकृत्य।।  32) आशीर्वचनम् कर्तृ वचनम् - भोक्तृ वचनम् • दातारो नोभि वर्धन्ताम् - दातारो वोभिवर्धन्ताम्।। • वेदा,स्सन्ततिरेव नः। - वेदा.स्सन्तति रेव वः।। • श्रद्धा च नो मा व्यगमत्। - श्रद्धा च वो मा व्यगमत्।। • बहुदेयञ्च नोस्तु। - बहुदेयञ्च वोस्तु।। • अन्नञ्च नो बहु भवेत्। - अन्नञ्च वो बहु भवेत्।। • अतिथीश्च लभेमहि। - अतिथीश्च लभध्वम्।। • याचितारश्च न.स्सन्तु। - याचितारश्च व.स्सन्तु।। • मा च याचिष्म कञ्चन। - माच याचिढ्वं कञ्चन।।  ओं सत्या एता आशिषस्सन्तु। • अन्नशेष किं क्रियताम्? - इष्टै.स्सह भुज्यताम्।।  ओम्स्वादुषसद पितरो वयोधा कृच्छ्रेश्रित.श्शक्तीवन्तो गभीराः।चित्रसेना इषुबला अमृध्रा.-स्सतोवीरा उरवो व्रातसाहाः।  ब्राह्मणास पितर.स्सोम्यास.-श्शिवे नो द्यावापृथिवी अनेहसा। पूषा न पातु दुरिता.दृतावृधो- रक्षा माकि.र्नो अघशस ईशत।  ओम् इहैवस्तं मा वियोष्टं विश्व.मायु.र्व्यश्नुतम्। क्रीडन्तु पुत्रै. र्नप्तृभि.-र्मोदमानौ स्वे गृहे।  सर्वस्याप्त्यै सर्वस्य जित्यै सर्व.मेव तेनाप्नोति सर्व.ञ्जयति।।  ओं शतमानं भवति शतायु पुरुष श्शतेन्द्रिय.आयुष्येवेन्द्रिये प्रतितिष्ठति। • आयु प्रजान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्तु तथा राज्यं प्रीत्या नॄणां पितामहाः।। • अद्य मे सफलं जन्म भवत्पादाभिवन्दनात्।अद्य मे वंशजा.स्सर्वे याता वोनुग्रहा.द्दिवम्।। • पत्र-शाकादि-दानेन क्लेशिता यूय.मीदृशाः।तत्क्लेशजातं चित्तेषु विस्मृत्य क्षन्तु.मर्हथ।।सर्वं संपूर्णम्।। --------------- >>(प्राचीनावीती) मयाचरितं, (अस्मत्) - पितुः (मातुः) प्रातिसाँवत्सरिक मृताहाख्यान्न श्राद्धीयम्, अग्नौकरण- ब्राह्मण भोजन- पिण्डप्रदानाख्यं कर्मत्रयं, यथोक्तंयथाशास्त्रीयंयथाकालं गयाश्राद्ध फलद.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) यथोक्त.मस्तु। • (सव्यम्) आसीमान्त.मनुप्रजे।(प्रतिवचनम्-) अनुव्रज।।  ओं कयान.श्चित्र आभुव.दूती सदावृध स्सखा। कया शचिष्ठया वृता।।  ओं वामदेवाय नमो ज्येष्ठाय नम.श्श्रेष्ठाय नमो रुद्राय नम कालाय नम कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम स्सर्वभूतदमनाय नमो मनोन्मनाय नमः।।  ओम्अष्टावष्टा. वन्येषु धिष्णियेषूपदधा.त्यष्टाशफा पशव पशू. नेवाव रुन्धे षण्मार्जालीये षड्वा ऋतव ऋतव खलु वै देवा पितर ऋतूनेव देवा.न्पितॄ. न्प्रीणाति।।  ओम् आगन्त पितर पितृमा.नहं युष्माभि र्भूयास सुप्रजसो मया यूयं भूयास्त। • आशीर्वचनम् - वंशाभिवृद्धिरस्तु। गोत्राभिवृद्धिरस्तु।अस्मिन्गृहे महालक्ष्म्यास्स्थैर्यसिद्धि.रस्तु।। • कर्ता - पवित्रं विसृज्य, आचम्य  33) श्राद्धाङ्गतर्पणम् (परेद्युः श्राद्धाङ्ग◌तिलतर्पणं कर्तव्यं भवति। केचित्तु सौकर्यार्थं सद्यस्काले कुर्वन्ति।) • आचम्य ... एवंगुण विशेषण विशिष्टायां पुण्यतिथौ, >>(प्राचीनावीती), अस्मत् - पितुः (मातुः) प्राति साँवत्सरिक मृताहाख्यान्न श्राद्धाङ्गत्वेन, परेहनि कर्तव्यं तिल तर्पणं, देश-काल-देहधर्म-वैपरीत्यशङ्कया सद्यः, >> (सव्यम्) करिष्ये।। (अन्यत् पवित्रं धृत्वा) >>(प्राचीनावीती)– दक्षिणाभिमुखो भूत्वा।। • (अस्मत्) पितरं ... गोत्रं ... शर्माणं, वसुरूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) पितामहं ... गोत्रं ... शर्माणं, रुद्ररूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) प्रपितामहं ... गोत्रं ... शर्माणं, आदित्यरूपं, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। {• (अस्मत्) मातरं ... गोत्रां ... दां, वसुरूपां स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) पितामहीं ... गोत्रां ... दां, रुद्ररूपां, स्वधा नम स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। • (अस्मत्) प्रपितामहीं ... गोत्रां ... दां, आदित्यरूपां, स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि। स्वधा नम.स्तर्पयामि।} >>निवीती भूत्वा - • ये के चास्मत्कुले जाता- अपुत्रा गोत्रिणो मृताः।ते गृह्णन्तु मया दत्तं सूत्र .निष्पीडनोदकम्।। ( इति सूत्रं निष्पीड्य, तदुदुकं अपुत्रमृतकेभ्यो दद्यात्।• उपवीती पवित्रं विसृज्य, आचामेत्। • एतत्फलं श्री परमेश्वरार्पणमस्तु।समाप्तो याजुष श्राद्धप्रयोगः।    33)अन्नसूक्तम्, तद्ब्राह्मणम्  नमो ब्रह्मणे नमो अस्त्वग्नये नम पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि।।  ओं शान्ति श्शान्ति श्शान्तिः।। यज्ञोपवीत ब्राह्मणम् (स्वा।का। 1 (एकोनुवाकः 1) (तै.आ.2.1)   सह वै देवानाञ्चासुराणाञ्च यज्ञौ प्रततावास्ताँ वय स्वर्गँ लोकमेष्यामो वयमेष्याम इति तेसुरा स्सन्नह्य सहसैवाचर न्ब्रह्मचर्येण तपसैव देवा स्तेसुरा अमुह्य स्ते न प्राजानस्ते पराभवन्ते न स्वर्गँ लोकमाय न्प्रसृतेन वै यज्ञेन देवा स्स्वर्गँ लोकमाय न्न प्रसृतेनासुरा न्पराभावय न्प्रसृतो ह वै यज्ञोपवीतिनो यज्ञो प्रसृतोनुपवीतिनो यत्किञ्च ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत्तस्मा द्यज्ञोपवीत्येवाधीयीत याजये द्यजेत वा यज्ञस्य प्रसृत्या अजिनँ वासो वा दक्षिणत उपवीय दक्षिणं बाहु मुद्धरतेवधत्ते सव्य मिति यज्ञोपवीत मेत देव विपरीतं प्राचीनावीत सँवीतं मानुषम्।। 1।। रक्षासि ह वा पुरोनुवाके तपोग्र मतिष्ठन्त, ता न्प्रजापति र्वरेणोपामन्त्रयत, तानि वर मवृणीतादित्यो नो योद्धा इति, तान्प्रजापति रब्रवी द्योधयध्व मिति, तस्मा दुत्तिष्ठन्त ह वा तानि रक्षास्यादित्यँ योधयन्ति, याव दस्तमन्वगा त्तानि ह वा एतानि रक्षासि गायत्रियाभिमन्त्रितेनाम्भसा शाम्यन्ति, तदु ह वा एते ब्रह्मवादिन पूर्वाभिमुखा स्सन्ध्याया ङ्गायत्रिया भिमन्त्रिता आप ऊर्ध्वँ वि क्षिपन्ति, ता एता आपो वज्री भूत्वा तानि रक्षासि मन्देहारुणे द्वीपे प्रक्षिपन्ति, यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मान मवधून्व, -न्त्युद्यन्त मस्तँ यन्त मादित्य मभिध्याय न्कुर्व न्ब्राह्मणो विद्वा न्थ्सकलं भद्रमश्नुतेसावादित्यो ब्रह्मे-ति ब्रह्मैव सन्ब्रह्माप्येति य एवँ वेद।। अन्नसूक्त मन्त्राः (तै.ब्रा. 2.8.7)  अह मस्मि प्रथमजा ऋतस्य। पूर्व न्देवेभ्यो अमृतस्य नाभिः। यो मा ददाति स इदेव मावाः। अह मन्न मन्न मदन्त मद्मि।  पूर्व मग्ने रपि दहत्यन्नम्। यत्तौ हासाते अह मुत्तरेषु। व्यात्त मस्य पशव स्सुजम्भम्। पश्यन्ति धीरा प्रचरन्ति पाकाः।  जहाम्यन्य न्न जहाम्यन्यम्। अह मन्नँ वश मिच्चरामि। समान मर्थं पर्येमि भुञ्जत्। को मा मन्नं मनुष्यो दयेत।  पराके अन्न न्निहितँ लोक एतत्। विश्वै र्देवै पितृभि र्गुप्त मन्नम्। यदद्यते लुप्यते यत्परोप्यते। शततमी सा तनू र्मे बभूव।  महान्तौ चरू सकृ द्दुग्धेन पप्रौ। दिवञ्च पृश्च्ञि पृथिवीञ्च साकम्। तत्संपिबन्तो न मिनन्ति वेधसः। नैत द्भूयो भवति नो कनीयः।।  अन्नं प्राण मन्न मपान माहुः। अन्नं मृत्यु न्तमु जीवातु माहुः। अन्नं ब्रह्माणो जरसँ वदन्ति। अन्न माहु प्रजननं प्रजानाम्।  मोघ मन्नँ विन्दते अप्रचेताः। सत्यं ब्रवीमि वध इथ्स तस्य। नार्यमणं पुष्यति नो सखायम्। केवलाघो भवति केवलादी।  अहं मेघ स्तनयन् वर्ष न्नस्मि। मामद न्त्यह मद्म्यन्यान्।अह सदमृतो भवामि। मदादित्या अधि सर्वे तपन्ति।  अन्नमय कोश मन्त्राः (तै.आ. 8.1 मरियु तै.आ. 9.2,7,8,9)  सहनाववतु।  ब्रह्मविदाप्नोति परम्। तदेषाभ्युक्ता।  सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितङ्गुहायां परमे व्योमन्न्। सोश्च्ञुते सर्वान्कामाथ्सह। ब्रह्मणा विपश्चितेति।  तस्माद्वा एतस्मादात्मन आकाश स्सम्भूतः। आकाशाद्वायुः। वायोरग्निः। अग्ने रापः। अद्भ्य पृथिवी। पृथिव्या ओषधयः। ओषधीभ्योन्नम्। अन्नात्पुरुषः। स वा एष पुरुषोन्नरसमयः। तस्येद मेव शिरः। अय न्दक्षिण पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।। 1 ।।  अन्नाद्वै प्रजा प्रजायन्ते। याकाश्च पृथिवीश्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपि यन्त्यन्ततः। अन्नहि भूताना ञ्ज्येष्ठम्। तस्माथ्सर्वौषध मुच्यते। सर्वँ वै तेन्नमाप्नुवन्ति। येन्नं ब्रह्मोपासते। अन्न हि भूताना ञ्ज्येष्ठम्। तस्माथ्सर्वौषध मुच्यते। अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेत्ति च भूतानि। तस्मादन्न न्तदुच्यत इति।तस्माद्वा एतस्मादन्नर समयात्। अन्योन्तर आत्मा प्राणमयः। तेनैष पूर्णः। स वा एष पुरुष विध एव। तस्य पुरुष विधताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिण पक्षः। अपान उत्तर पक्षः। आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।।  अन्नं ब्रह्मेति व्यजानात्। अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभि सँविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितर मुपससार। अधीहि भगवो ब्रह्मेति। त होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोतप्यत। स तपस्तप्त्वा।। 2 ।।  अन्न न्न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्। शरीर मन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राण प्रतिष्ठितः। तदेत दन्न मन्ने प्रतिष्ठितम्। स य एतदन्न मन्ने प्रतिष्ठितँ वेद प्रतितिष्ठति। अन्नवा नन्नादो भवति। महान्भवति प्रजया पशुभि र्बह्मवर्चसेन। महान्कीर्त्या।। 7 ।।  अन्न न्न परिचक्षीत। तद्व्रतम्। आपो वा अन्नम्। ज्योति रन्नादम्। अफ्सुज्योति प्रतिष्ठितम्। ज्योतिष्याप प्रतिष्ठिताः।तदेत दन्न मन्ने प्रतिष्ठितम्। स य एतदन्न मन्ने प्रतिष्ठितँ वेद प्रतितिष्ठति। अन्नवा नन्नादो भवति। महान्भवति प्रजया पशुभि र्बह्मवर्चसेन। महान्कीर्त्या।। 8 ।।  अन्नं बहु कुर्वीत। तद्व्रतम्। पृथिवी वा अन्नम्। आकाशोन्नादः। पृथिव्या माकाश प्रतिष्ठितः। आकाशे पृथिवी प्रतिष्ठिता। तदेत दन्न मन्ने प्रतिष्ठितम्। स य एतदन्न मन्ने प्रतिष्ठितँ वेद प्रतितिष्ठति। अन्नवा नन्नादो भवति। महान्भवति प्रजया पशुभि र्बह्मवर्चसेन। महान्कीर्त्या।। 9 ।।  ओं सहनाववतु। सह नौ भुनक्तु। सह वीर्य ङ्करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै। ओं शान्ति श्शान्ति श्शान्तिः।।  सर्वाशीर्वचन मन्त्रः, ब्राह्मणम् (तै.सं.7.5.18 तै.ब्रा. 3.8.12)  आ ब्रह्म न्र्बाह्मणो ब्रह्मवर्चसी जायता मास्मि न्राष्ट्रे राजन्य इषव्य श्शूरो महारथो जायता न्दोग्ध्री धेनु र्वोढानड्वा नाशु स्सप्ति पुरन्धि र्योषा जिष्णू रथेष्ठा स्सभेयो युवास्य यजमानस्य वीरो जायतां निकामेनिकामेन पर्जन्यो वर्‌षतु फलिन्यो न ओषधय पच्यन्ताँ योगख्षेमो न कल्पताम्।।  आब्रह्म न्र्बाह्मणो ब्रह्मवर्चसी जायता मित्याह। ब्राह्मण एव ब्रह्मवर्चस न्दधाति। तस्मा त्पुरा ब्राह्मणो ब्रह्मवर्चस्यजायत। आस्मि न्राष्ट्रे राजन्य इषव्य श्शूरो महारथो जायता मित्याह। राजन्य एव शौर्यं महिमान न्दधाति। तस्मात्पुरा राजन्य इषव्य श्शूरो महारथोजायत। दोग्ध्री धेनु रित्याह। धेन्वा मेव पयो दधाति। तस्मात्पुरा दोग्ध्री धेनु रजायत। वोढानड्वानित्याह। अनडुह्येव वीर्य न्दधाति। तस्मात्पुरा वोढानड्वा नजायत। आशु स्सप्ति रित्याह। अश्व एव जव न्दधाति। तस्मात्पुराशु रश्वोजायत। पुरन्धि र्योषेत्याह। योषित्येव रूप न्दधाति। तस्माथ्स्त्री युवति प्रिया भावुका। जिष्णू रथेष्ठा इत्याह। आह वै तत्र जिष्णू रथेष्ठा जायते। यत्रैतेन यज्ञेन यजन्ते। सभेयो युवेत्याह। यो वै पूर्व वयसी। स सभेयो युवा। तस्मा द्युवा पुमा न्प्रियो भावुकः। आस्य यजमानस्य वीरो जायता मित्याह। आह है तत्र यजमानस्य वीरो जायते। यत्रैतेन यज्ञेन यजन्ते। निकामे निकामे न पर्जन्यो वर्‌षत्वित्याह। निकामे निकामे हवै तत्र पर्जन्यो वर्‌षति। यत्रैतेन यज्ञेन यजन्ते। फलिन्यो न ओषधय पच्यन्ता मित्याह। फलिन्यो ह वै तत्रौषधय पच्यन्ते। यत्रैतेन यज्ञेन यजन्ते। योगख्षेमो न कल्पता मित्याह। कल्पते हवै तत्र प्रजाभ्यो योगख्षेमः। यत्रैतेन यज्ञेन यजन्ते।। पारोक्ष्येण अन्न प्रस्तावका आश्वमेधिका मन्त्राः, तद्ब्राह्मणम् (तै.सं.7.4.17) (तै.ब्रा.3.9.5)  किस्वि दासी त्पूर्वचित्ति किस्विदासी द्बृहद्वयः। किस्वि दासी त्पिशङ्गिला किस्वि दासी त्पिलिप्पिला।  द्यौरासी त्पूर्वचित्ति रश्व आसी द्बृहद्वयः। रात्रि रासी त्पिशङ्गिलाविरासी त्पिलिप्पिला।  कस्स्वि देकाकी चरति क उ स्विज्जायते पुनः। किस्वि द्धिमस्य भेषज ङ्किस्वि दावपनं महत्।  सूर्य एकाकी चरति चन्द्रमा जायते पुनः। अग्निर्‌ हिमस्य भेषजं भूमि रावपनं महत्।  पृच्छामि त्वा परमन्तं पृथिव्या पृच्छामि त्वा भुवनस्य नाभिम्। पृच्छामि त्वा वृष्णो अश्वस्य रेत पृच्छामि वाच परमँ व्योम।  वेदि माहु परमन्तं पृथिव्या यज्ञ माहु र्भुवनस्य नाभिम्। सोम माहु र्वृष्णो अश्वस्य रेतो ब्रह्मैव वाच परमँ व्योम।।   तेजसा वा एष ब्रह्मवर्चसेन व्यृद्ध्यते। योश्वमेधेन यजते। होता च ब्रह्मा च ब्रह्मोद्यँ वदतः। तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः। दक्षिणतो ब्रह्मा भवति। दक्षिणत-आयतनो वै ब्रह्मा। बार्‌हस्पत्यो वै ब्रह्मा। ब्रह्मवर्चस मेवास्य दक्षिणतो दधाति। तस्मा द्दक्षिणोर्धो ब्रह्मवर्चसितरः। उत्तरतो होता भवति। उत्तरतआयतनो वै होता। आग्नेयो वै होता। तेजो वा अग्निः। तेज एवास्योत्तरतो दधाति। तस्मा दुत्तरोर्ध स्तेजस्वितरः। यूप मभितो वदतः। यजमानदेवत्यो वै यूपः। यजमान मेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः। किस्वि दासी त्पूर्वचित्ति रित्याह। द्यौर्वै वृष्टि पूर्वचित्तिः। दिवमेव वृष्टि मवरुन्धे। किस्वि दासी द्बृहद्वय इत्याह। अश्वोवै बृहद्वयः। अश्व मेवाव रुन्धे। किस्वि दासीत्पिशङ्गिलेत्याह। रात्रिर्वै पिशङ्गिला। रात्रि मेवावरुन्धे। किस्विदासी त्पिलिप्पिलेत्याह। श्रीर्वै पिलिप्पिला। अन्नाद्य मेवावरुन्धे। कस्स्विदेकाकी चरतीत्याह। असौ वा आदित्य एकाकी चरति। तेज एवावरुन्धे। क उ स्विज्जायते पुन रित्याह।। चन्द्रमा वै जायते पुनः। आयु रेवाव रुन्धे। किस्विद्धिमस्य भेषज मित्याह। अग्नि र्वै हिमस्य भेषजम्। ब्रह्मवर्चस मेवाव रुन्धे। किस्विदावपनं महदित्याह। अयँ वै लोक आवपनं महत्। अस्मिन्नेव लोके प्रतितिष्ठति। पृच्छामि त्वा परमन्तं पृथिव्या इत्याह। वेदिर्वै परोन्त पृथिव्याः। वेदि मेवाव रुन्धे। पृच्छामि त्वा भुवनस्य नाभि मित्याह। यज्ञो वै भुवनस्य नाभिः। यज्ञ मेवाव रुन्धे। पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह। सोमो वै वृष्णो अश्वस्य रेतः। सोमपीथ मेवावरुन्धे। पृच्छामि वाच परमँ व्योमेत्याह। ब्रह्म वै वाच परमँ व्योम। ब्रह्मवर्चस मेवावरुन्धे।। 8. अधिश्रवणम् - संहितानुवाकाः   युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितु परिष्टुतिः।  सुवाग्देव दुर्या आ वद देवश्रुतौ देवेष्वा घोषेथा मा नो वीरो जायता ङ्कर्मण्यो य सर्वेनुजीवाम यो बहूना मसद्वशी।  इदँ विष्णु र्विचक्रमे त्रेधा नि दधे पदम्। समूढमस्य पासुर इरावती धेनुमती हि भूत सूयवसिनी मनवे यशस्ये। व्यस्कभ्ना द्रोदसी विष्णु रेते दाधार पृथिवी मभितो मयूखैः।।  प्राची प्रेत मध्वर ङ्कल्पयन्ती ऊर्ध्वँ यज्ञ न्नयतं मा जीह्वरत मत्र रमेथाँ वर्ष्म न्पृथिव्या दिवो वा विष्णवुत वा पृथिव्या महो वा विष्णवुत वान्तरिक्षा द्धस्तौ पृणस्व बहुभि र्वसव्यैरा प्र यच्छ दक्षिणादोत सव्यात्।  विष्णोर्नुकँ वीर्याणि प्र वोचँ य पार्थिवानि विममे रजासि यो अस्कभाय दुत्तर सधस्थँ विचक्रमाण स्त्रेधोरुगायो  विष्णो रराट मसि विष्णो पृष्ठ मसि  विष्णो श्‌श्च्ञप्त्रे स्थो विष्णो स्स्यूरसि विष्णो र्ध्रुवमसि वैष्णवमसि विष्णवे त्वा।।   कृणुष्व पाज प्रसिति न्न पृथ्वीँ याहि राजेवामवा इभेन। तृष्वी मनु प्रसिति न्द्रूणानोस्तासि विध्य रक्षस स्तपिष्ठैः।।  तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः। तपूष्यग्ने जुह्वा पतङ्गा नसन्दितो वि सृज विष्वगुल्काः।।  प्रति स्पशो वि सृज तूर्णितमो भवा पायु र्विशो अस्या अदब्धः। यो नो दूरे अघशसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्‌षीत्।।  उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रा ओषता त्तिग्महेते। यो नो अराति समिधान चक्रे नीचा त न्धक्ष्यतसन्न शुष्कम्।।  ऊर्ध्वो भव प्रति विध्याध्यस्म दावि ष्कृणुष्व दैव्यान्यग्ने। अव स्थिरा तनुहि यातुजूनाञ्जामि मजामिं प्र मृणीहि शत्रून्।।  स ते जानाति सुमतिँ यविष्ठ य ईवते ब्रह्मणे गातु मैरत्। विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यरो वि दुरो अभि द्यौत्।।  सेदग्ने अस्तु सुभग स्सुदानु र्यस्त्वा नित्येन हविषा य उक्थैः। पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः।।  अर्चामि ते सुमतिङ्घोष्यर्वाख्सन्ते वावाता जरता मियङ्गीः। स्वश्वास्त्वा सुरथा मर्जयेमास्मे ख्षत्राणि धारये रनु द्यून्।।  इह त्वा भूर्या चरे दुप त्मन्दोषावस्त र्दीदिवास मनु द्यून्। क्रीडन्तस्त्वा सुमनस स्सपेमाभि द्युम्ना तस्थिवासो जनानाम्।।  यस्त्वा स्वश्व स्सुहिरण्यो अग्न उपयाति वसुमता रथेन। तस्य त्राता भवसि तस्य सखा यस्त आतिथ्य मानुष ग्जुजोषत्।।  महो रुजामि बन्धुता वचोभि स्तन्मा पितु र्गोतमा दन्वियाय। त्वन्नो अस्य वचस श्चिकिद्धि होत र्यविष्ठ सुक्रतो दमूनाः।।  अस्वप्नज स्तरणय स्सुशेवा अतन्द्रासोवृका अश्रमिष्ठाः। ते पायव स्सध्रियञ्चो निषद्याग्ने तव न पान्त्वमूर।।  ये पायवो मामतेयन्ते अग्ने पश्यन्तो अन्ध न्दुरिता दरक्षन्न्। ररक्ष तान्थ्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो ना ह देभुः।।  त्वया वय सधन्य स्त्वोता स्तव प्रणीत्यश्याम वाजान्। उभा शसा सूदय सत्यतातेनुष्ठुया कृणुह्यह्रयाण।।  अया ते अग्ने समिधा विधेम प्रति स्तोम शस्यमानङ्गृभाय। दहाशसो रक्षस पाह्यस्मा न्द्रुहो निदो मित्रमहो अवद्यात्।।  रक्षोहणँ वाजिन मा जिघर्मि मित्रं प्रथिष्ठ मुप यामि शर्म। शिशानो अग्नि क्रतुभि स्समिद्ध स्स नो दिवा स रिष पातु नक्तम्।।  विज्योतिषा बृहता भात्यग्नि राविर्विश्वानि कृणुते महित्वा। प्रादेवी र्माया स्सहते दुरेवा श्शिशीते शृङ्गे रक्षसे विनिक्षे।।  उत स्वानासो दिविषन्त्वग्ने स्तिग्मायुधा रक्षसे हन्तवा उ। मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः।।   रक्षोहणो वलगहनो वैष्णवा न्खना•मीद महन्तँ वलग मुद्वपामि यन्न स्समानो यमसमानो निचखानेदमेन मधर ङ्करोमि यो न स्समानो योसमानोरातीयति गायत्रेण छन्दसा वबाढो वलग किमत्र भद्र न्तन्नौ सह विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासा न्नाष्ट्राणा हन्तारक्षोहणो वलगहन प्रोक्षामि वैष्णवा न्रक्षोहणो वलगहनोव नयामि वैष्णवान् यवोसि यवयास्मद्द्वेषो यवयाराती रक्षोहणो वलगहनोव स्तृणामि वैष्णवा न्रक्षोहणो वलगहनोभि जुहोमि वैष्णवा न्रक्षोहणौ वलगहना वुप दधामि वैष्णवी रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी बृहन्नसि बृहद्ग्रावा बृहती मिन्द्राय वाचँ वद।।   सोमाय पितृमते पुरोडाश षट्कपाल न्निर्वपति पितृभ्यो बर्‌हिषद्भ्यो धाना पितृभ्योग्निष्वात्तेभ्योभिवान्यायै दुग्धे मन्थ • मेतत्ते तत ये चत्वाम•न्वेतत्ते पितामह --- प्रपितामह ये चत्वाम•न्वत्र पितरो यथाभागं मन्दध्व सुसन्दृशन्त्वा वयं मघव न्मन्दिषीमहि। प्रनूनं पूर्णवन्धुर स्स्तुतो यासि वशा अनु। योजा न्विन्द्र ते हरी।  अक्षन्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्र ते हरी।।  अक्ष न्पितरोमीमदन्त पितरोतीतृपन्त पितरोमीमृजन्त पितरः। • परेत पितर स्सोम्या गम्भीरै पथिभि पूर्व्यैः। अथा पितॄ न्थ्सुविदत्रा अपीत यमेन ये सधमादं मदन्ति। • मनो न्वाहुवामहे नाराशसेन स्तोमेन पितृणाञ्च मन्मभिः। • आ न एतु मन पुन क्रत्वे दक्षाय जीवसे। ज्योक्च सूर्य न्दृशे।।  पुनर्न पितरो मनो ददातु दैव्यो जनः। जीवँ व्रात सचेमहि।  यदन्तरिक्षं पृथिवी मुत द्याँ यन्मातरं पितरँ वा जिहिसिम। अग्निर्मा तस्मा देनसो गार्‌हपत्य प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम्।।   उशन्तस्त्वा हवामह उशन्त स्समिधीमहि। उशन्नुशत आ वह पितॄन् हविषे अत्तवे।।  त्व सोम प्रचिकितो मनीषा त्व रजिष्ठ मनु नेषि पन्थाम्। तव प्रणीती पितरो न इन्दो देवेषु रत्न मभजन्त धीराः।।  त्वया हि न पितर स्सोम पूर्वे कर्माणि चक्रु पवमान धीराः। वन्वन्नवात परिधी रपोर्णु वीरेभि रश्वै र्मघवा भवा नः।।  त्व सोम पितृभि स्सँविदानोनु द्यावापृथिवी आ ततन्थ। तस्मै त इन्दो हविषा विधेम वय स्याम पतयो रयीणाम्।।  अग्निष्वात्ता पितर एह गच्छत सदस्सद स्सदत सुप्रणीतयः। अत्ता हवीषि प्रयतानि बर्‌‌हिष्यथा रयि सर्ववीर न्दधातन।।  बर्‌‌हिषद पितर ऊत्यर्वा गिमा वो हव्या चकृमा जुषध्वम्। त आ गतावसा शन्तमेना थास्मभ्य शँ यो ररपो दधात।।  आहं पितॄ न्थ्सुविदत्रा अविथ्सि नपातञ्च विक्रमणञ्च विष्णोः। बर्‌‌हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः।।  उपहूता पितर स्सोम्यासो बर्‌‌हिष्येषु निधिषु प्रियेषु। त आ गमन्तु त इह श्रुव न्त्वधि ब्रुवन्तु ते अवन्त्वस्मान्।।  उदीरता मवर उत्परास उन्मध्यमा पितर स्सोम्यासः। असु य ईयु रवृका ऋतज्ञा स्ते नोवन्तु पितरो हवेषु।।  इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः। ये पार्थिवे रजस्या निषत्ता ये वा नून सुवृजनासु विक्षु।।  अधा यथा न पितर परास प्रत्नासो अग्न ऋत माशुषाणाः। शुचीदय न्दीधिति मुक्थशास क्षामा भिन्दन्तो अरुणी रप व्रन्न्।।  यदग्ने कव्यवाहन पितॄन् यक्ष्यृतावृधः। प्र च हव्यानि वक्ष्यसि देवेभ्यश्च पितृभ्य आ।।  त्वमग्न ईडितो जातवेदोवाड्ढव्यानि सुरभीणि कृत्वा। प्रादा पितृभ्य स्स्वधया ते अक्ष न्नद्धि त्वन्देव प्रयता हवीषि।।  मातली कव्यै र्यमो अङ्गिरोभि र्बृहस्पतिर् ऋक्वभि र्वावृधानः। याश्च देवा वावृधुर्ये च देवा न्थ्स्वाहान्ये स्वधयान्ये मदन्ति।।  इमँ यम प्रस्तर मा हि सीदाङ्गिरोभि पितृभि स्सँविदानः। आ त्वा मन्त्रा कविशस्ता वह न्त्वेना राजन् हविषा मादयस्व।।  अङ्गिरोभि रा गहि यज्ञियेभि र्यम वैरूपै रिह मादयस्व। विवस्वन्त हुवे य पिता तेस्मिन् यज्ञे बर्‌‌हिष्या निषद्य।।  अङ्गिरसो न पितरो नवग्वा अथर्वाणो भृगव स्सोम्यासः। तेषाँ वय सुमतौ यज्ञियाना मपि भद्रे सौमनसे स्याम।।   भक्षेहि माविश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो स्यश्विनोस्त्वा बाहुभ्या सघ्यास न्नृचक्षसन्त्वा देव सोम सुचक्षा अव ख्येषं मन्द्राभिभूति केतु र्यज्ञानाँ वाग्जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्यदिति रनाहतशीर्ष्णी वाग्जुषाणा सोमस्य तृप्यत्वेहि विश्वचर्‌षणे शम्भू र्मयोभू स्स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस्पोषाय सुवीरतायै मा मा राजन् विबीभिषो मा मे हार्दि त्विषा वधीः। वृषणे शुष्मायायुषे वर्चसे।  वसुमद्गणस्य सोम देव ते मतिविद प्रातस्सवनस्य गायत्रछन्दस इन्द्रपीतस्य -- नराशसपीतस्य पितृपीतस्य मधुमत उपहूत स्योपहूतो भक्षयामि -- -- रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यन्दिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य -- -- नराशसपीतस्य पितृपीतस्य मधुमत उपहूत स्योपहूतो भक्षया --म्यादित्यवद्गणस्य सोम देव ते मतिविद स्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य -- नराशसपीतस्य पितृपीतस्य मधुमत उपहूत स्योपहूतो भक्षयामि।  आ प्यायस्व समेतु ते विश्वत स्सोम वृष्णियम्। भवा वाजस्य सङ्गथे।  हिन्व मे गात्रा हरिवो गणान्मे मा वि तीतृषः। शिवो मे सप्तर्‌षी नुप तिष्ठस्व मा मेवाङ्नाभि मतिगाः।  अपाम सोम ममृता अभू मादर्श्म ज्योति रविदाम देवान्। किम स्मान्कृणव दराति किमु धूर्ति रमृत मर्त्यस्य।  यन्म आत्मनो मिन्दाभू दग्नि स्तत्पुन राहा र्जातवेदा विचर्‌षणिः।  पुन रग्नि श्चक्षु रदात्पुन रिन्द्रो बृहस्पतिः। पुनर्मे अश्विना युव ञ्चक्षु रा धत्त मक्ष्योः।  इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूत स्योपहूतो भक्षयामि। आपूर्या स्थामा पूरयत प्रजया च धनेन च।  एतत्ते तत ये च त्वा म न्वे तत्ते पितामह -- -- प्रपितामह ये च त्वाम न्वत्र पितरो यथाभागं मन्दध्व न्नमो व पितरो रसाय -- नमो व पितर श्शुष्माय -- नमो व पितरो जीवाय -- नमो व पितरःस्वधायै -- नमो व पितरो मन्यवे -- नमो व पितरो घोराय -- पितरो नमो वो य एतस्मि न्लोके स्थ युष्मा स्तेनु येस्मिन्लोके मान्तेनु य एतस्मिन्लोके स्थ यूय न्तेषाँ वसिष्ठा भूयास्त येस्मिन्लोकेह न्तेषाँ वसिष्ठो भूयासं  प्रजापते न त्वदेता न्यन्यो विश्वा जातानि परि ता बभूव। यत्कामास्ते जुहुम स्तन्नो अस्तु वय स्याम पतयो रयीणाम्।  देवकृत स्यैनसोवयजनमसि मनुष्यकृत स्यैनसोवयजनमसि पितृकृत स्यैनसो वयजनम स्यफ्सु धौतस्य सोम देव ते नृभि स्सुत स्येष्टयजुष स्स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनि र्यो गोसनि स्तस्य ते पितृभि र्भक्षङ्कृत स्योपहूत स्योपहूतो भक्षयामि।।   ध्रुवासि धरुणास्तृता विश्वकर्मणा सुकृता। मा त्वा समुद्र उद्वधीन्मा सुपर्णोव्यथमाना पृथिवी न्दृह।  प्रजापतिस्त्वा सादयतु पृथिव्या पृष्ठे व्यचस्वतीं प्रथस्वतीं प्रथोसि पृथिव्यसि भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीँ यच्छ पृथिवी न्दृह पृथिवीं मा हिसी र्विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायैचरित्रायाग्निस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्व द्ध्रुवा सीद।  काण्डात्काण्डा त्प्ररोहन्ती परुषपरुष परि। एवा नो दूर्वे प्र तनु सहस्रेण शतेन च।  या शतेन प्रतनोषि सहस्रेण विरोहसि। तस्यास्ते देवीष्टके विधेम हविषा वयम्।  अषाढासि सहमाना सहस्वाराती स्सहस्वारातीयत स्सहस्व पृतना स्सहस्व पृतन्यतः। सहस्रवीर्यासि सा मा जिन्व।  मधु वाता ऋतायते मधु ख्षरन्ति सिन्धवः। माध्वी र्न स्सन्त्वोषधीः।  मधु नक्त मुतोषसि मधुम त्पार्थिव रजः। मधु द्यौरस्तु न पिता।  मधुमान्नो वनस्पति र्मधुमा अस्तु सूर्यः। माध्वी र्गावो भवन्तु नः।  मही द्यौ पृथिवी च न इमँ यज्ञं मिमिख्षताम्। पिपृतान्नो भरीमभिः।  तद्विष्णो परमं पद सदा पश्यन्ति सूरयः। दिवीव चख्षु राततम्।  ध्रुवासि पृथिवि सहस्व पृतन्यतः। स्यूता देवेभि रमृतेनागाः।  यास्ते अग्ने सूर्ये रुच उद्यतो दिव मातन्वन्ति रश्मिभिः। ताभि स्सर्वाभी रुचे जनाय नस्कृधि।  या वो देवा स्सूर्ये रुचो गोष्वश्वेषु या रुचः। इन्द्राग्नी ताभि स्सर्वाभी रुचन्नो धत्त बृहस्पते।  विराड्ज्योति रधारय थ्सम्राड्ज्योति रधारय थ्स्वराड्ज्योति रधारयत्।  अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः। अरँ वहन्त्याशवः।  युक्ष्वा हि देवहूतमा अश्वा अग्ने रथीरिव। नि होता पूर्व्य स्सदः।  द्रफ्स श्चस्कन्द पृथिवी मनु द्यामिमञ्च योनि मनु यश्च पूर्वः। तृतीयँ योनि मनु सञ्चरन्त न्द्रफ्स ञ्जुहोम्यनु सप्तहोत्राः।  अभूदिदँ विश्वस्य भुवनस्य वाजिन मग्ने र्वैश्वानरस्य च। अग्नि र्ज्योतिषा ज्योतिष्मा न्रुक्मो वर्चसा वर्चस्वान्।  ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः। अन्तर्‌हृदा मनसा पूयमानाः। घृतस्य धारा अभि चाकशीमि। हिरण्ययो वेतसो मध्य आसाम्।  तस्मि न्थ्सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधु देवताभ्यः। तस्यासते हरय स्सप्त तीरे स्वधा न्दुहाना अमृतस्य धाराम्।।   आशु श्शिशानो वृषभो न युध्मो घनाघन ख्षोभण श्चर्‌षणीनाम्। सङ्क्रदनोनिमिष एकवीर श्शत सेना अजय थ्साकमिन्द्रः।  सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना। तदिन्द्रेण जयत तथ्सहध्वँ युधो नर इषुहस्तेन वृष्णा।  स इषुहस्तै स्स निषङ्गिभि र्वशी सस्रष्टा स युध इन्द्रो गणेन। ससृष्टजि थ्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभि रस्ता।  बृहस्पते परि दीया रथेन रख्षोहामित्रा अपबाधमानः। प्रभञ्ज‘2’न्थ्सेना प्रमृणो युधा जयन्नस्माक मेध्यविता रथानाम्।  गोत्रभिद ङ्गोविदँ वज्रबाहु ञ्जयन्त मज्म प्रमृणन्त मोजसा। इम सजाता अनु वीरयध्व मिन्द्र सखायोनु स रभध्वम्।  बलविज्ञाय स्स्थविर प्रवीर स्सहस्वान् वाजी सहमान उग्रः। अभिवीरो अभिसत्वा सहोजा जैत्र मिन्द्र रथ मा तिष्ठ गोवित्।  अभि गोत्राणि सहसा गाहमानोदायो वीर श्शतमन्यु रिन्द्रः। दुश्च्यवन पृतनाषाडयुध्योस्माक सेना अवतु प्र युथ्सु।  इन्द्र आसान्नेता बृहस्पति र्दख्षिणा यज्ञ पुर एतु सोमः। देवसेनाना मभिभञ्जतीना ञ्जयन्तीनां मरुतो यन्त्वग्रे।  इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुता शर्ध उग्रम्। महामनसां भुवनच्यवानाङ्घोषो देवाना ञ्जयता मुदस्थात्।  अस्माक मिन्द्र स्समृतेषु ध्वजेष्वस्माकँ या इषव स्ता जयन्तु।। अस्माकँ वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु।  उद्धर्‌षय मघव न्नायुधा न्युथ्सत्वनां मामकानां महासि। उद्वृत्रहन् वाजिनाँ वाजिना न्युद्रथाना ञ्जयता मेतु घोषः।  उप प्रेत जयता नर स्स्थिरा व स्सन्तु बाहवः। इन्द्रो व श्शर्म यच्छ त्वनाधृष्या यथासथ।  अवसृष्टा परा पत शरव्ये ब्रह्मसशिता। गच्छामित्रा न्प्र विश मैषा ङ्कञ्चनोच्छिषः।  मर्माणि ते वर्मभि श्छादयामि सोमस्त्वा राजामृते नाभि वस्ताम्। उरो र्वरीयो वरिवस्ते अस्तु जयन्तन्त्वा मनु मदन्तु देवाः।  यत्र बाणा स्संपतन्ति कुमारा विशिखा इव। इन्द्रो न स्तत्र वृत्रहा विश्वाहा शर्म यच्छतु।।   अग्न उदधे या त इषु र्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूया•स्माग्ने दुध्र -- • -- गह्य -- • -- किशिल -- • -- वन्य या त इषु र्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म -  पञ्च वा एतेग्नयो यच्चितय उदधिरेव नाम प्रथमो दुध्रोद्वितीयो गह्य स्तृतीय किशिल श्चतुर्थो वन्य पञ्चम स्तेभ्यो यदाहुती र्न जुहुया दध्वर्युञ्च यजमानञ्च प्र दहेयु र्यदेता आहुती र्जुहोति भागधेयेनैवाना ञ्छमयति नार्तिमार्छत्यध्वर्यु र्न यजमानो  वाङ्म आसन्नसो प्राणोक्ष्योश्चख्षु कर्णयो श्श्रोत्रं बाहुवो र्बल मूरुवो रोजोरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिसी-  रप वा एतस्मात्प्राणा क्रामन्ति योग्निञ्चिन्वन्नधिक्रामति वाङ्म आसन्नसो प्राण इत्याह प्राणानेवात्म न्धत्ते  यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अ-  स्त्वाहुतिभागा वा अन्ये रुद्रा हविर्भागाअन्ये शतरुद्रीय हुत्वा गावीधुक ञ्चरुमेतेन यजुषा चरमाया मिष्टकाया न्निदध्या द्भागधेयेनैवैन शमयति तस्य त्वै शतरुद्रीय हुतमित्याहु र्यस्यैतदग्नौ क्रियत इति  वसवस्त्वा रुद्रै पुरस्तात्पान्तु • पितरस्त्वा यमराजान पितृभि र्दख्षिणत पा•न्त्वादित्यास्त्वा विश्वैर्देवै पश्चात्पान्तु • द्युतानस्त्वा मारुतो मरुद्भिरुत्तरत पातु • देवा स्त्वेन्द्रज्येष्ठा वरुणराजा नोधस्ता च्चोपरिष्टाच्च पान्तु -  न वा एतेन पूतो न मेध्यो न प्रोख्षितो यदेनमत प्राचीनं प्रोख्षति यथ्सञ्चित माज्येनप्रोख्षति तेन पूत स्तेन मेध्य स्तेन प्रोख्षितः।।   शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्ते तस्मा च्छीर्ष न्प्राणा अधस्ता त्खायन्ते तस्मा दधस्ता च्छीर्ष्ण प्राणा रख्षोहणो वलगहनो वैष्णवा न्खनामीत्याह वैष्णवा हि देवतयोपरवा असुरा वै निर्यन्तो देवानां प्राणेषु वलगा न्न्यखन न्तान्बाहुमात्रे न्वविन्द न्तस्माद्बाहुमात्रा खायन्त इद मह न्तँ वलग मुद्वपामि यन्न स्समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलग न्निखनत स्तमेवोद्वपति सन्तृणत्ति तस्माथ्सन्तृण्णा अन्तरत प्राणा न सम्भिनत्ति तस्मा दसम्भिन्ना प्राणा अपोव नयति तस्मा दार्द्रा अन्तरत प्राणा यवमती रवनयत्युर्ग्वै यव प्राणा उपरवा प्राणेष्वेवोर्ज न्दधाति बर्हि रव स्तृणाति तस्मा ल्लोमशा अन्तरत प्राणा आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवा प्राणेष्वेव तेजो दधाति हनू वा एते यज्ञस्य यदधिषवणे न सन्तृणत्त्यसन्तृण्णे हि हनू अथो खलु दीर्घ सोमे सन्तृद्ये धृत्यै शिरो वा एत द्यज्ञस्य यद्धविर्धानंप्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुख माहवनीयो नासिकोत्तरवेदि रुदर सदो यदा खलु वै जिह्वया दथ्स्वधि खाद त्यथ मुखङ्गच्छति यदा मुख ङ्गच्छत्यथोदर ङ्गच्छति तस्मा द्धविर्धाने चर्म न्नधि ग्रावभि रभिषुत्याहवनीये हुत्वा प्रत्यञ्च परेत्य सदसि भख्षयन्ति यो वै विराजो यज्ञमुखे दोहँ वेद दुह एवैना मियँ वै विराट्तस्यै त्वक्चर्मोधोधिषवणे स्तना उपरवा ग्रावाणो वथ्सा ऋत्विजो दुहन्ति सोम पयो य एवँ वेद दुह एवैनाम्।।   असावादित्योस्मिन्लोक आसीत्तंदेवा पृष्ठै परिगृह्य सुवर्गँ लोक मगमय न्परैरवस्ता त्पर्यगृह्ण न्दिवाकीर्त्येन सुवर्गे लोके प्रत्यस्थापयन्परै परस्ता त्पर्यगृह्ण न्पृष्ठैरुपावारोह‘2’न्थ्स वा असावादित्योमुष्मिन्लोके परैरुभयत परिगृहीतो यत्पृष्ठानि भवन्ति सुवर्गमेव तै र्लोकँ यजमाना यन्ति परैरवस्तात्परि गृह्णन्ति दिवाकीर्त्येन सुवर्गे लोके प्रति तिष्ठन्ति परै परस्तात्परि गृह्णन्ति पृष्ठै रुपावरोहन्ति यत्परे परस्तान्नस्स्यु पराञ्च स्सुवर्गाल्लोकान्निष्पद्येरन् यदवस्तान्नस्स्यु प्रजा निर्दहेयु रभितो दिवाकीर्त्यं परस्सामानो भवन्ति सुवर्ग एवैना न्लोक उभयत परि गृह्णन्ति यजमाना वै दिवाकीर्त्य सँवथ्सर परस्सामानोभितो दिवाकीर्त्यं परस्सामानो भवन्ति सँवथ्सर एवोभयतप्रति तिष्ठन्ति पृष्ठँ वै दिवाकीर्त्यं पार्श्वे परस्सामानोभितो दिवाकीर्त्यं परस्सामानो भवन्ति तस्मादभित पृष्ठं पार्श्वे भूयिष्ठा ग्रहा गृह्यन्ते भूयिष्ठ शस्यते यज्ञस्यैव तन्मध्यतो ग्रन्थि ङ्ग्रथ्नन्त्यविस्रसाय सप्त गृह्यन्ते सप्त वै शीर्‌‌षण्या प्राणा प्राणानेव यजमानेषु दधति यत्पराचीनानि पृष्ठानि भवन्त्यमुमेव तै र्लोक मभ्यारोहन्ति यदिमँ लोकं न प्रत्यवरोहेयु रुद्वा माद्येयु र्यजमाना प्र वा मीयेरन् यत्प्रतीचीनानि पृष्ठानि भवन्तीममेव तै र्लोकं प्रत्यवरोहन्त्यथो अस्मिन्नेव लोके प्रति तिष्ठन्त्यनुन्मादायेन्द्रो वा अप्रतिष्ठित आसीथ्स प्रजापति मुपाधावत्तस्मा एतमेकविशतिरात्रं प्रायच्छत्त माहरत्तेना यजत ततो वै स प्रत्यतिष्ठद्ये बहुयाजिनोप्रतिष्ठिता स्स्युस्त एकविशतिरात्र मासीर न्द्वादश मासा पञ्चर्तव स्त्रय इमे लोका असावादित्य एकविश एतावन्तो वै देवलोका स्तेष्वेव यथापूर्वं प्रति तिष्ठन्त्यसावादित्यो न व्यरोचत स प्रजापति मुपाधाव त्तस्मा एत मेकविशतिरात्रं प्रायच्छत्तमाहरत्तेना यजत ततो वै सोरोचत य एवँ विद्वास एकविशतिरात्र मासते रोचन्त एवैकविशतिरात्रो भवति रुग्वा एकविशो रुचमेव गच्छन्त्यथो प्रतिष्ठामेव प्रतिष्ठा ह्येकविशोतिरात्रावभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै।। अधिश्रवणम् - ब्राह्मणान्तर्गता अनुवाकाः   सन्ततिर्वा एते ग्रहाः। यत्परस्सामानः। विषूवा न्दिवाकीर्त्यम्। यथा शालायै पक्षसी। एव सँवथ्सरस्य पक्षसी। यदेते न गृह्येरन्न्। विषूची सँवथ्सरस्य पक्षसी व्यवस्रसेयाताम्। आर्ति मार्छेयुः। यदेते गृह्यन्ते। यथा शालायै पक्षसी मध्यमँ वश मभि समायच्छति।। एव सँवथ्सरस्य पक्षसी दिवाकीर्त्य मभि सन्तन्वन्ति। नार्ति मार्छन्ति। एकविश मह र्भवति। शुक्राग्रा ग्रहा गृह्यन्ते। प्रत्युत्तब्ध्यै सयत्वाय। सौर्य एतदह पशु रालभ्यते। सौर्योतिग्राह्यो गृह्यते। अहरेव रूपेण समर्धयन्ति। अथो अह्न एवैष बलि र्ह्रियते। सप्तैत दह रतिग्राह्या गृह्यन्ते।। सप्त वै शीर्‌षण्या प्राणाः। असा वादित्य श्शिर प्रजानाम्। शीर्‌षन्नेव प्रजानां प्राणा न्दधाति। तस्माथ्सप्त शीर्‌ष न्प्राणाः। इन्द्रो वृत्र हत्वा। असुरा न्पराभाव्य। स इमा न्लोका नभ्यजयत्। तस्यासौ लोकोनभिजित आसीत्। तँ विश्वकर्मा भूत्वाभ्यजयत्। यद्वैश्वकर्मणो गृह्यते। सुवर्गस्य लोकस्याभिजित्यै। प्र वा एतेस्मा ल्लोका च्च्यवन्ते। ये वैश्वकर्मणङ्गृह्णते। आदित्यश्वो गृह्यते। इयँ वा अदितिः। अस्यामेव प्रति तिष्ठन्ति। अन्योन्यो गृह्येते। विश्वान्येवान्येन कर्माणि कुर्वाणा यन्ति। अस्या मन्येन प्रति तिष्ठन्ति। तावापरार्धा थ्सँवथ्सरस्यान्योन्यो गृह्येते। तावुभौ सह महाव्रते गृह्येते। यज्ञस्यैवान्तङ्गत्वा। उभयो र्लोकयो प्रतितिष्ठन्ति। अर्क्य मुक्थं भवति। अन्नाद्यस्यावरुद्ध्यै।।   एकविश एष भवति। एतेन वै देवा एकविशेन। आदित्य मित उत्तम सुवर्गँ लोक मारोहयन्न्। स वा एष इत एकविशः। तस्य दशावस्ता दहानि। दश परस्तात्। स वा एष विरा ज्युभयत प्रतिष्ठितः। विराजि हि वा एष उभयत प्रतिष्ठितः। तस्मादन्तरेमौ लोकौ यन्न्। सर्वेषु सुवर्गेषु लोके ष्वभितपन्नेति।। देवा वा आदित्यस्य सुवर्गस्य लोकस्य। पराचोतिपादा दबिभयुः। तञ्छन्दोभि रदृह न्धृत्यै। देवा वा आदित्यस्य सुवर्गस्य लोकस्य। अवाचोवपादा दबिभयुः। तं पञ्चभी रश्मिभि रुदवयन्न्। तस्मा देकविशेह न्पञ्च दिवाकीर्त्यानि क्रियन्ते। रश्मयो वै दिवाकीर्त्यानि। ये गायत्रे। ते गायत्रीषूत्तरयो पवमानयोः। महादिवाकीर्त्य होतु पृष्ठम्। विकर्णं ब्रह्मसामम्। भासोग्निष्टोमः। अथैतानि पराणि। परैर्वै देवा आदित्य सुवर्गँ लोक मपारयन्न्। यदपारयन्न्। तत्पराणां परत्वम्। पारय न्त्येनं पराणि। य एवँ वेद। अथैतानि स्पराणि। स्परैर्वै देवा आदित्य सुवर्गँ लोक मस्पारयन्न्। यदस्पारयन्न्। तथ्स्पराणा स्परत्वम्। स्पारयन्त्येन स्पराणि। य एवँ वेद।।   इन्द्रो वृत्र हत्वा। असुरा न्पराभाव्य। सोमावास्यां प्रत्यागच्छत्। ते पितर पूर्वेद्यु रागच्छन्न्। पितॄन् यज्ञोगच्छत्। त न्देवा पुन रयाचन्त। तमेभ्यो न पुन रददुः। तेब्रुवन् वरँ वृणामहै। अथ व पुन र्दास्यामः। अस्मभ्य मेव पूर्वेद्यु क्रियाता इति।। तमेभ्य पुनरददुः। तस्मा त्पितृभ्य पूर्वेद्यु क्रियते। यत्पितृभ्य पूर्वेद्यु करोति। पितृभ्य एव तद्यज्ञ न्निष्क्रीय यजमान प्रतनुते।  सोमाय पितृपीताय स्वधा नम  इत्याह। पितु रेवाधि सोमपीथ मवरुन्धे। न हि पिता प्रमीयमाण आहैष सोमपीथ इति। इन्द्रियँ वै सोमपीथः। इन्द्रियमेव सोमपीथ मवरुन्धे। तेनेन्द्रियेण द्वितीयाञ्जाया मभ्यश्च्ञुते।। एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामक्रन्न्। तस्मात्ते द्वे द्वे जाये अभ्याक्षत। य एवँ वेद। अभि द्वितीया ञ्जाया मश्च्ञुते।  अग्नये कव्यवाहनाय स्वधा नम -इत्याह। य एव पितृणा मग्निः। तं प्रीणाति। तिस्र आहुती र्जुहोति। त्रिर्नि दधाति। षट्थ्संपद्यन्ते।। षड्वा ऋतवः। ऋतूनेव प्रीणाति। तूष्णीं मेक्षण मादधाति। अस्ति वा हि षष्ठ ऋतु र्न वा। देवान्‌वै पितॄ न्प्रीतान्। मनुष्या पितरोनु प्रपिपते। तिस्र आहुती र्जुहोति। त्रिर्नि दधाति। षट्थ्संपद्यन्ते। षड्वा ऋतवः।। ऋतव खलु वै देवा पितरः। ऋतूनेव देवा न्पितॄ न्प्रीणाति। तान्प्रीतान्। मनुष्या पितरोनु प्रपिपते। सकृदाच्छिन्नं बर्‌हि र्भवति। सकृदिव हि पितरः। त्रिर्नि दधाति। तृतीये वा इतो लोके पितरः। तानेव प्रीणाति। परा ङावर्तते। ह्लीका हि पितरः। ओष्मणो व्यावृत उपास्ते। ऊष्मभागा हि पितरः। ब्रह्मवादिनो वदन्ति। प्राश्या(3) न्न प्राश्या(3) मिति। यत्प्राश्च्ञीयात्। जन्य मन्न मद्यात्। प्रमायुक स्स्यात्। यन्न प्राश्च्ञीयात्। अहवि स्स्यात्।। पितृभ्य आवृश्च्येत। अवघ्रेय मेव। तन्नेव प्राशित न्नेवाप्राशितम्। वीरँ वा वै पितर प्रयन्तो हरन्ति। वीरँ वा ददति। दशाञ्छिनत्ति। हरणभागा हि पितरः। पितॄनेव निरवदयते। उत्तर आयुषि लोम छिन्दीत। पितृणा ह्येतर्‌हि नेदीयः।। नमस्करोति। नमस्कारो हि पितृणाम्।  नमो व पितरो रसाय। --  नमो व पितर श्शुष्माय। --  नमो व पितरो जीवाय। --  नमो व पितर स्स्वधायै। --  नमो व पितरो मन्यवे। --  नमो व पितरो घोराय। --- पितरो नमो वः। य एतस्मि न्लोके स्थ।। युष्मा स्तेनु। येस्मि न्लोके। मान्तेनु। य एतस्मि न्लोके स्थ। यूय न्तेषाँ वसिष्ठा भूयास्त। येस्मि न्लोके। अह न्तेषाँ वसिष्ठो भूयास -  मित्याह। वसिष्ठ स्समानानां भवति। य एवँ विद्वा न्पितृभ्य करोति। एष वै मनुष्याणाँ यज्ञः।। देवानाँ वा इतरे यज्ञाः। तेन वा एत त्पितृलोके चरति। यत्पितृभ्य करोति। स ईश्वर प्रमेतोः। प्राजापत्ययर्चा पुनरैति। यज्ञो वै प्रजापतिः। यज्ञेनैव सह पुनरैति। न प्रमायुको भवति। पितृलोके वा एत द्यजमान श्चरति। यत्पितृभ्य करोति। स ईश्वर आर्ति मार्तोः। प्रजापति स्त्वावैन न्तत उन्नेतु मर्‌हतीत्याहुः। य  त्प्राजापत्ययर्चा  पुनरैति। प्रजापति रेवैन न्तत उन्नयति। नार्ति मार्छति यजमानः।।   वैश्वदेवेन वै प्रजापति प्रजा असृजत। ता वरुणप्रघासै र्वरुणपाशा दमुञ्चत्। साकमेधै प्रत्यस्थापयत्। त्र्यम्बकै रुद्र न्निरवादयत। पितृयज्ञेन सुवर्गँ लोक मगमयत्। यद्वैश्वदेवेन यजते। प्रजा एव तद्यजमान स्सृजते। ता वरुणप्रघासै र्वरुणपाशा न्मुञ्चति। साकमेधै प्रतिष्ठापयति। त्र्यम्बकै रुद्र न्निरवदयते। पितृयज्ञेन सुवर्गँ लोक ङ्गमयति। दक्षिणत प्राचीनावीती निर्वपति। दक्षिणावृद्धि पितृणाम्। अनादृत्य तत्। उत्तरत एवोपवीय निर्वपेत्। उभये हि देवाश्च पितर श्चेज्यन्ते। अथो यदेव दक्षिणार्धेधिश्रयति। तेन दक्षिणावृत्। सोमाय पितृमते पुरोडाश षट्कपाल न्निर्वपति। सँवथ्सरो वै सोम पितृमान्। सँवथ्सर मेव प्रीणाति। पितृभ्यो बर्‌हिषद्भ्यो धानाः। मासा वै पितरो बर्‌हिषदः। मासानेव प्रीणाति। यस्मिन् वा ऋतौ पुरुष प्रमीयते। सोस्यामुष्मि न्लोके भवति। बहुरूपा धाना भवन्ति। अहोरात्राणा मभिजित्यै। पितृभ्योग्निष्वात्तेभ्यो मन्थम्। अर्धमासा वै पितरोग्निष्वात्ताः।। अर्धमासा नेव प्रीणाति। अभिवान्यायै दुग्धे भवति। सा हि पितृदेवत्य न्दुहे। यत्पूर्णम्। तन्मनुष्याणाम्। उपर्यर्धो देवानाम्। अर्ध पितृणाम्। अर्ध उपमन्थति। अर्धो हि पितृणाम्। एकयोप मन्थति। एका हि पितृणाम्। दक्षिणोप मन्थति। दक्षिणावृद्धि पितृणाम्। अनारभ्योपमन्थति। तद्धि पितॄ न्गच्छति। इमा न्दिशँ वेदि मुद्धन्ति। उभये हि देवाश्च पितर श्चेज्यन्ते। चतुस्स्रक्ति र्भवति। सर्वा ह्यनु दिश पितरः। अखाता भवति। खाता हि देवानाम्। मध्यतोग्नि राधीयते। अन्ततो हि देवाना माधीयते। वर्‌षीया निध्म इध्मा द्भवति व्यावृत्त्यै। परिश्रयति। अन्तर्‌हितो हि पितृलोको मनुष्यलोकात्। यत्परुषि दिनम्। तद्देवानाम्। यदन्तरा। तन्मनुष्याणाम्।। यथ्समूलम्। तत्पितृणाम्। समूलं बर्हि र्भवति व्यावृत्त्यै। दक्षिणा स्तृणाति। दक्षिणावृद्धि पितृणाम्। त्रि पर्येति। तृतीये वा इतो लोके पितरः। तानेव प्रीणाति। त्रि पुन पर्येति। षट्थ्संपद्यन्ते। षड्वा ऋतवः। ऋतू नेव प्रीणाति। यत्प्रस्तरँ यजुषा गृह्णीयत्। प्रमायुको यजमान स्स्यात्। यन्न गृह्णीयात्। अनायतनस्स्यात्। तूष्णी मेव न्यस्येत्। न प्रमायुको भवति। नानायतनः। यत्त्रीन्परिधी न्परिदध्यात्। मृत्युना यजमानं परि गृह्णीयात्। यन्न परिदध्यात्। रक्षासि यज्ञ हन्युः। द्वौ परिधी परि दधाति। रक्षसा मपहत्यै। अथो मृत्यो रेव यजमान मुथ्सृजति। यत्त्रीणित्रीणि हवीष्युदाहरेयुः। त्रयस्त्रय एषा साकं प्रमीयेरन्न्। एकैक मनूचीना न्युदाहरन्ति। एकैक एवैषा मन्वञ्च प्रमीयते। कशिपु कशिपव्याय। उपबर्‌हण मुपबर्‌हण्याय। आञ्जन माञ्जन्याय। अभ्यञ्जन मभ्यञ्जन्याय। यथाभाग मेवैना न्प्रीणाति।।   अग्नये देवेभ्य पितृभ्य स्समिध्यमानायानु ब्रूही-  त्याह। उभये हि देवाश्च पितर श्चेज्यन्ते। एका मन्वाह। एका हि पितृणाम्। त्रिरन्वाह। त्रिर् हि देवानाम्। आघारा वाघारयति। यज्ञपरुषो रनन्तरित्यै। नार्‌षेयँ वृणीते। न होतारम्।। यदार्‌षेयँ वृणीत। यद्धोतारम्। प्रमायुको यजमान स्स्यात्। प्रमायुको होता। तस्मान्न वृणीते। यजमानस्य होतु र्गोपीथाय। अपबर्‌हिष प्रयाजान्, यजति। प्रजा वै बर्हिः। प्रजा एव मृत्यो रुथ्सृजति। आज्यभागौ यजति।। यज्ञस्यैव चक्षुषी नान्तरेति। प्राचीनावीती सोमँ यजति। पितृदेवत्या हि। एषाहुतिः। पञ्चकृत्वोव द्यति। पञ्च ह्येता देवताः। द्वे पुरोनुवाक्ये। याज्या देवता वषट्कारः। ता एव प्रीणाति। सन्तत मव द्यति।। ऋतूना सन्तत्यै। प्रैवैभ्य पूर्वया पुरोनुवाक्ययाह। प्रणयति द्वितीयया। गमयति याज्यया। तृतीये वा इतो लोके पितरः। अह्न एवैना न्पूर्वया पुरोनुवाक्ययात्यानयति। रात्रियै द्वितीयया। ऐवैनान्, याज्यया गमयति। दक्षिणतोवदाय। उद ङ्ङतिक्रामति व्यावृत्त्यै।।  आ स्वधे - त्या श्रावयति।  अस्तु स्वधे-ति प्रत्याश्रावयति।  स्वधा नम - इति वषट्करोति।  स्वधाकारो हि पितृणाम्। सोम मग्रे यजति। सोमप्रयाजा हि पितरः। सोमं पितृमन्तँ यजति। सँवथ्सरो वै सोम पितृमान्। सँवथ्सर मेव तद्यजति। पितॄन् बर्‌हिषदो यजति।। ये वै यज्वानः। ते पितरो बर्‌हिषदः। तानेव तद्यजति। पितॄ नग्निष्वात्तान् यजति। ये वा अयज्वानो गृहमेधिनः। ते पितरोग्निष्वात्ताः। तानेव तद्यजति। अग्निङ्कव्यवाहनँ यजति। य एव पितृणा मग्निः। तमेव तद्यजति।। अथो यथाग्नि स्विष्टकृतँ यजति। तादृगेव तत्। एतत्ते तत ये च त्वा मन्विति तिसृषु स्रक्तीषु निदधाति। तस्मा दातृतीया त्पुरुषा न्नाम न गृह्णन्ति। एतावन्तो हीज्यन्ते। अत्र पितरो यथाभागं मन्दध्व मित्याह। ह्लीका हि पितरः। उदञ्चो निष्क्रामन्ति। एषा वै मनुष्याणा न्दिक्। स्वामेव तद्दिश मनु निष्क्रामन्ति।। आहवनीय मुप तिष्ठन्ते। न्येवास्मै तद्ध्नुवते। यथ्सत्याहवनीये। अथान्यत्र चरन्ति। आ तमितो रुपतिष्ठन्ते। अग्नि मेवोपद्रष्टार ङ्कृत्वा। पितॄ न्निरवदयन्ते। अन्तँ वा एते प्राणाना ङ्गच्छन्ति। य आतमितो रुप तिष्ठन्ते। सुसन्दृश न्त्वा वय मित्याह।। प्राणो वै सुसन्दृक्। प्राण मेवात्म न्दधते। योजा न्विन्द्र ते हरी इत्याह। प्राण मेव पुनरयुक्त। अक्ष न्नमीमदन्त हीति गार्हपत्य मुप तिष्ठन्ते। अक्ष न्नमीमदन्ताथ त्वोप तिष्ठामह इति वावैतदाह। अमीमदन्त पितर स्स्योम्या इत्यभि प्र पद्यन्ते। अमीमदन्त पितरोथ त्वाभि प्रपद्यामह इति वावैतदाह। अप परिषिञ्चति। मार्जय त्येवैनान्। अथो तर्पयत्येव। तृप्यति प्रजया पशुभिः। य एवँ वेद। अपबर्‌हिषा वनूयाजौ यजति। प्रजा वै बर्हिः। प्रजा एव मृत्यो रुथ्सृजति। चतुर प्रयाजान् यजति। द्वावनूयाजौ। षट्थ्संपद्यन्ते। षड्वा ऋतवः।। ऋतू नेव प्रीणाति। न पत्न्यन्वास्ते। न सँ याजयन्ति। यत्पत्न्यन्वासीत। यथ्सँयाजयेयुः। प्रमायुका स्यात्। तस्मा न्नान्वास्ते। न सँ याजयन्ति। पत्नियै गोपीथाय।।   • उशन्तस्त्वा हवामह  आ नो अग्ने सुकेतुना ।  त्वसोम महे भग  न्त्व सोम प्रचिकितो मनीषा ।  त्वया हि न पितर स्सोम पूर्वे  त्व सोम पितृभि स्सँविदानः ।  बर्‌हिषद पितर  • आहं पितॄन् ।  उपहूता पितरो  •ग्निष्वात्ता पितरः ।  अग्निष्वात्ता नृतुमतो हवामहे। नराशसे सोमपीथँ य आशुः। ते नो अर्वन्त स्सुहवा भवन्तु। शन्नो भवन्तु द्विपदे शञ्चतुष्पदे।  ये अग्निष्वात्ता येनग्निष्वात्ताः।। अहोमुच पितर स्सोम्यासः। परेवरेमृतासो भवन्तः। अधिब्रुवन्तु ते अवन्त्वस्मान्।  वान्यायै दुग्धे जुषमाणा करम्भम्। उदीराणा अवरे परे च। अग्निष्वात्ता ऋतुभि स्सँविदानाः। इन्द्रवन्तो हवि रिद ञ्जुषन्ताम्।  यदग्ने कव्यवाहन  •त्वमग्न ईडितो जातवेदः ।  मातली कव्यैः ।  ये तातृपु र्देवत्रा जेहमानाः। होत्रावृध स्स्तोमतष्टासो अर्कैः। आग्ने याहि सुविदत्रेभि रर्वाङ्। सत्यै कव्यै पितृभि र्घर्मसद्भिः।  हव्यवाह मजरं पुरुप्रियम्। अग्नि ङ्घृतेन हविषा सपर्यन्न्। उपासद ङ्कव्यवाहं पितृणाम्। स न प्रजाँ वीरवती समृण्वतु।।  उपहूता पितरो ये मघासु। मनोजवस स्सुकृत स्सुकृत्याः। ते नो नक्षत्रे हव मागमिष्ठाः। स्वधाभि र्यज्ञं प्रयत ञ्जुषन्ताम्। 6।।  ये अग्निदग्धा येनग्निदग्धाः। येमुँ लोकं पितरः~क्षियन्ति। याश्च विद्म या उ चन प्रविद्म। मघासु यज्ञ सुकृत ञ्जुषन्ताम्।  पितरो वा अकामयन्त। पितृलोक ऋध्नुयामेति। त एतं पितृभ्यो मघाभ्य पुरोडाश षट्कपाल न्निरवपन्न्। ततो वै ते पितृलोक आर्ध्नुवन्न्। पितृलोके ह वा ऋध्नोति। य एतेन हविषा यजते। य उ चैनदेवँ वेद। सोत्र जुहोति।  पितृभ्य स्स्वाहा मघाभ्यः। स्वाहानघाभ्य स्स्वाहा गदाभ्यः। स्वाहारुन्धतीभ्य स्स्वाहेति।।   अयँ वाव य पवते। सोग्नि र्नाचिकेतः। स यत्प्राङ् पवते। तदस्य शिरः। अथ यद्दक्षिणा। स दक्षिण पक्षः। अथ यत्प्रत्यक्। तत्पुच्छम्। यदुदङ्ङ्। स उत्तर पक्षः।। अथ यथ्सँवाति। तदस्य समञ्चनञ्च प्रसारणञ्च। अथो सम्पदेवास्य सा। स ह वा अस्मै स काम पद्यते। यत्कामो यजते। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। यो ह वा अग्ने र्नाचिकेतस्यायतनँ वेद। आयतनवा न्भवति। गच्छति प्रतिष्ठाम्।। हिरण्यँ वाअग्ने र्नाचिकेतस्यायतनं प्रतिष्ठा। य एवँ वेद। आयतनवा न्भवति। गच्छति प्रतिष्ठाम्। यो ह वा अग्ने र्नाचिकेतस्य शरीरँ वेद। सशरीर एव स्वर्गँ लोक मेति। हिरण्यँ वा अग्ने र्नाचिकेतस्य शरीरम्। य एवँ वेद। सशरीर एव स्वर्गँ लोक मेति। अथो यथा रुक्म उत्तप्तो भाय्यात्।। एव मेव स तेजसा यशसा। अस्मि श्च लोकेमुष्मिश्च भाति। उरवो ह वै नामैते लोकाः। येवरेणादित्यम्। अथ है ते वरीयासो लोकाः। ये परेणादित्यम्। अन्तवन्त ह वा एष क्षय्यँ लोक ञ्जयति। योवरेणादित्यम्। अथ हैषोनन्त मपार मक्षय्यँ लोक ञ्जयति। य परेणादित्यम्।। अनन्त ह वा अपार मक्षय्यँ लोक ञ्जयति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथो यथा रथे तिष्ठ न्पक्षसी पर्यावर्तमाने प्रत्यपेक्षते। एव महोरात्रे प्रत्यपेक्षते। नास्याहोरात्रे लोक माप्नुतः। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद।।   उशन् ह वै वाजश्रवस स्सर्ववेदस न्ददौ। तस्य ह नचिकेता नाम पुत्र आस। त ह कुमार सन्तम्। दक्षिणासु नीयमानासु श्रद्धाविवेश। स होवाच। तत कस्मै मा न्दास्यसीति। द्वितीय न्तृतीयम्। त ह परीत उवाच। मृत्यवे त्वा ददामीति। त ह स्मोत्थितँ वागभि वदति।। गौतम कुमार मिति। स होवाच। परेहि मृत्यो र्गृहान्। मृत्यवे वै त्वादामिति। तँ वै प्रवसन्त ङ्गन्तासीति होवाच। तस्य स्म तिस्रो रात्री रनाश्वा न्गृहे वसतात्। स यदि त्वा पृच्छेत्। कुमार कति रात्री रवाथ्सी रिति। तिस्र इति प्रति ब्रूतात्। किं प्रथमा रात्रि माश्ना इति।। प्रजा न्त इति। कि न्द्वितीया मिति। पशू स्त इति। कि न्तृतीया मिति। साधुकृत्या न्त इति। तँ वै प्रवसन्त ञ्जगाम। तस्य ह तिस्रो रात्री रनाश्वा न्गृह उवास। तमागत्य पप्रच्छ। कुमार कति रात्री रवाथ्सी रिति। तिस्र इति प्रत्युवाच।। किं प्रथमा रात्रि माश्ना इति। प्रजा न्त इति। कि न्द्वितीया मिति। पशू स्त इति। कि न्तृतीया मिति। साधुकृत्या न्त इति। नमस्ते अस्तु भगव इति होवाच। वरँ वृणीष्वेति। पितर मेव जीव न्नयानीति। द्वितीयँ वृणीष्वेति।। इष्टापूर्तयो र्मेक्षितिं ब्रूहीति होवाच। तस्मै हैत मग्नि न्नाचिकेत मुवाच। ततो वै तस्येष्टापूर्ते नाक्षीयेते। नास्येष्टा पूर्ते क्षीयेते। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। तृतीयँ वृणीष्वेति। पुन र्मृत्यो र्मेपजितिं ब्रूहीति होवाच। तस्मै हैत मग्नि न्नाचिकेत मुवाच। ततो वै सोप पुन र्मृत्यु मजयत्।। अप पुन र्मृत्यु ञ्जयति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। प्रजापति र्वै प्रजाकाम स्तपोतप्यत। स हिरण्य मुदास्यत्। तदग्नौ प्रास्यत्। तदस्मै नाच्छदयत्। तद्द्वितीयं प्रास्यत्। तदस्मै नैवाच्छदयत्। तत्तृतीयं प्रास्यत्।। तदस्मै नैवाच्छदयत्। तदात्म न्नेव हृदय्येग्नौ वैश्वानरे प्रास्यत्। तदस्मा अच्छदयत्। तस्मा द्धिरण्य ङ्कनिष्ठ न्धनानाम्। भुञ्ज त्प्रियतमम्। हृदयज हि। स वैत मेव नाविन्दत्। यस्मै ता न्दक्षिणा मनेष्यत्। ता स्वायैव हस्ताय दक्षिणायानयत्। तां प्रत्यगृह्णात्।।  दक्षाय त्वा दक्षिणां प्रति गृह्णामी-ति।  सोदक्षत दक्षिणां प्रतिगृह्य। दक्षते ह वै दक्षिणां प्रतिगृह्य। य एवँ वेद। एतद्ध स्म वै तद्विद्वासो वाजश्रवसा गोतमाः। अप्यनूदेश्या न्दक्षिणां प्रति गृह्णन्ति। उभयेन वय न्दक्षिष्यामह एव दक्षिणां प्रतिगृह्येति। तेदक्षन्त दक्षिणां प्रतिगृह्य। दक्षते ह वै दक्षिणां प्रतिगृह्य। य एवँ वेद। प्र हान्यँ व्लीनाति।।   त हैत मेके पशुबन्ध एवोत्तरवेद्या ञ्चिन्वते। उत्तरवेदिसम्मित एषोग्नि रिति वदन्तः। तन्न तथा कुर्यात्। एत मग्नि ङ्कामेन व्यर्द्धयेत्। स एन ङ्कामेन व्यृद्धः। कामेन व्यर्धयेत्। सौम्ये वावैन मध्वरे चिन्वीत। यत्र वा भूयिष्ठा आहुतयो हूयेरन्न्। एत मग्नि ङ्कामेन समर्धयति। स एन ङ्कामेन समृद्धः।। कामेन समर्धयति। अथ हैनं पुरर्‌षयः। उत्तरवेद्या मेव सत्रिय मचिन्वत। ततो वै तेविन्दन्त प्रजाम्। अभि स्वर्गँ लोक मजयन्न्। विन्दत एव प्रजाम्। अभि स्वर्गँ लोक ञ्जयति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथ हैनँ वायुर्‌ऋद्धिकामः।। यथान्युप्त मेवोप दधे। ततो वै स एता मृद्धि मार्ध्नोत्। यामिदँ वायुर्‌ऋद्धः। एता मृद्धि मृध्नोति। यामिदँ वायुर्‌ऋद्धः। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथ हैनङ्गोबलो वार्ष्ण पशुकामः। पाङ्क्त मेव चिक्ये। पञ्च पुरस्तात्।। पञ्च दक्षिणतः। पञ्च पश्चात्। पञ्चोत्तरतः। एकां मध्ये। ततो वै स सहस्रं पशू न्प्राप्नोत्। प्र सहस्रं पशू नाप्नोति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथ हैनं प्रजापति र्ज्यैष्ठ्यकामो यशस्काम प्रजननकामः। त्रिवृत मेव चिक्ये।। सप्त पुरस्तात्। तिस्रो दक्षिणतः। सप्त पश्चात्। तिस्र उत्तरतः। एकां मध्ये। ततो वै स प्र यशो ज्यैष्ठ्य माप्नोत्। एतां प्रजातिं प्राजायत। यामिदं प्रजा प्रजायन्ते। त्रिवृद्वै ज्यैष्ठ्यम्। माता पिता पुत्रः।। त्रिवृत्प्रजननम्। उपस्थो योनि र्मध्यमा। प्र यशो ज्यैष्ठ्य माप्नोति। एतां प्रजातिं प्रजायते। यामिदं प्रजा प्रजायन्ते। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथ हैन मिन्द्रो ज्यैष्ठ्यकामः। ऊर्ध्वा एवोप दधे। ततो वै स ज्यैष्ठ्य मगच्छत्।। ज्यैष्ठ्य ङ्गच्छति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। अथ हैन मसा वादित्य स्स्वर्गकामः। प्राची रेवोप दधे। ततो वै सोभि स्वर्गँ लोक मजयत्। अभि स्वर्गँ लोक ञ्जयति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। स यदीच्छेत्। तेजस्वी यशस्वी ब्रह्मवर्चसी स्या मिति। प्राङाहोतु र्धिष्ण्या दुथ्सर्पेत्।  येयं प्रागा द्यशस्वती। सा मा प्रोर्णोतु। तेजसा यशसा ब्रह्मवर्चसेने- ति। तेजस्व्येव यशस्वी ब्रह्मवर्चसी भवति। अथ यदीच्छेत्। भूयिष्ठं मे श्रद्दधीरन्। भूयिष्ठा दक्षिणा नयेयु रिति। दक्षिणासु नीयमानासु  प्राच्येहि प्राच्येहीति प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याहवनीये जुहुयात्।। भूयिष्ठ मेवास्मै श्रद्दधते। भूयिष्ठा दक्षिणा नयन्ति। पुरीष मुपधाय। चितिक्लप्तिभि रभिमृश्य। अग्निं प्रणीयोपसमाधाय। चतस्रएता आहुती र्जुहोति। त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम्। अग्नाविष्णू इति वसोर्धारायाः। अन्नपत इत्यन्नहोमः। सप्त ते अग्ने समिध स्सप्त जिह्वा इति विश्वप्रीः।।   यां प्रथमा मिष्टका मुपदधाति। इम न्तया लोक मभि जयति। अथो या अस्मि न्लोके देवताः। तासा सायुज्य सलोकता माप्नोति। या न्द्वितीया मुपदधाति। अन्तरिक्षलोक न्तयाभि जयति। अथो या अन्तरिक्षलोके देवताः। तासा सायुज्य सलोकता माप्नोति। या न्तृतीया मुप दधाति। अमु न्तया लोक मभि जयति।। अथो या अमुष्मि न्लोके देवताः। तासा सायुज्य सलोकता माप्नोति। अथो या अमू रितरा अष्टादश। य एवामी उरवश्च वरीयासश्च लोकाः। तानेव ताभि रभि जयति। कामचारो ह वा अस्योरुषु च वरीयस्सु च लोकेषु भवति। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद। सँवथ्सरो वा अग्नि र्नाचिकेतः। तस्य वसन्त श्शिरः।। ग्रीष्मो दक्षिण पक्षः। वर्षा उत्तरः। शर त्पुच्छम्। मासा कर्मकाराः। अहोरात्रे शतरुद्रीयम्। पर्जन्यो वसो र्धारा। यथा वै पर्जन्य स्सुवृष्टँ वृष्ट्वा। प्रजाभ्य स्सर्वा न्कामा न्थ्संपूरयति। एव मेव स तस्य सर्वा न्कामा न्थ्संपूरयति। योग्नि न्नाचिकेत ञ्चिनुते।। य उ चैन मेवँ वेद। सँवथ्सरो वा अग्नि र्नाचिकेतः। तस्य वसन्त श्शिरः। ग्रीष्मो दक्षिण पक्षः। वर्‌षा पुच्छम्। शरदुत्तर पक्षः। हेमन्तो मध्यम्। पूर्वपक्षा श्चितयः। अपरपक्षा पुरीषम्। अहोरात्राणीष्टकाः। एष वाव सोग्नि रग्निमय पुनर्णवः। अग्निमयो ह वै पुनर्णवो भूत्वा। स्वर्गँ लोक मेति। आदित्यस्य सायुज्यम्। योग्नि न्नाचिकेत ञ्चिनुते। य उ चैन मेवँ वेद।।  • ऋचां प्राची महती दिगुच्यते। दक्षिणा माहु र्यजुषा मपाराम्। अथर्वणा मङ्गिरसां प्रतीची। साम्ना मुदीची महती दिगुच्यते।  ऋग्भि पूर्वाह्णे दिवि देव ईयते। यजुर्वेदे तिष्ठति मध्ये अह्नः। सामवेदेनास्तमये महीयते। वेदै रशून्य स्त्रिभि रेति सूर्यः।  ऋग्भ्यो जाता सर्वशो मूर्ति माहुः। सर्वा गति र्याजुषी हैव शश्वत्।। सर्व न्तेज स्सामरूप्य ह शश्वत्। सर्व हेदं ब्रह्मणा हैव सृष्टम्।  ऋग्भ्यो जातँ वैश्यँ वर्ण माहुः। यजुर्वेदं क्षत्रियस्याहु र्योनिम्। सामवेदो ब्राह्मणानां प्रसूतिः। पूर्वे पूर्वेभ्यो वच एतदूचुः।  आदर्‌श मग्निञ्चिन्वानाः। पूर्वे विश्वसृजोमृताः। शतँ वर्‌ष सहस्राणि। दीक्षिता स्सत्र मासत।।  तप आसी द्गृहपतिः। ब्रह्म ब्रह्माभव थ्स्वयम्। सत्य ह होतैषा मासीत्। यद्विश्वसृज आसत।  अमृत मेभ्य उदगायत्। सहस्रं परिवथ्सरान्। भूत ह प्रस्तोतैषा मसीत्। भविष्य त्प्रति चाहरत्।  प्राणो अध्वर्यु रभवत्। इद सर्व सिषासताम्।। अपानो विद्वा नावृतः। प्रति प्रातिष्ठ दध्वरे।  आर्तवा उपगातारः। सदस्या ऋतवोभवन्न्। अर्धमासाश्च मासाश्च। चमसाध्वर्यवो भवन्न्।  अशस द्ब्रह्मण स्तेजः। अच्छावाकोभव द्यशः। ऋत मेषां प्रशास्तासीत्। यद्विश्वसृज आसत।।  ऊर्ग्राजान मुदवहत्। ध्रुवगोप स्सहोभवत्। ओजोभ्यष्टौद्ग्राव्‌ण्णः। यद्विश्वसृज आसत।  अपचिति पोत्रीया मयजत्। नेष्ट्रीया मयज त्त्विषिः। आग्नीध्रा द्द्विदुषी सत्यम्। श्रद्धा हैवायज थ्स्वयम्। इरा पत्नी विश्वसृजाम्।  आकूति रपिन ड्ढविः।। इध्म ह क्षुच्चैभ्य उग्रे। तृष्णा चावहता मुभे। वागेषा सुब्रह्मण्यासीत्।  छन्दो योगान् विजानती। कल्पतन्त्राणि तन्वानाहः। सस्थाश्च सर्वशः।  अहोरात्रे पशुपाल्यौ। मुहूर्ता प्रेष्या अभवन्न्। मृत्यु स्तदभव द्धाता। शमितोग्रो विशां पतिः।।  विश्वसृज प्रथमा स्सत्र मासत। सहस्रसमं प्रसुतेन यन्तः। ततो ह जज्ञे भुवनस्य गोपाः। हिरण्मय श्शकुनि र्ब्रह्म नाम।  येन सूर्य स्तपति तेजसेद्धः। पिता पुत्रेण पितृमान् योनियोनौ। नावेदवि न्मनुते तं बृहन्तम्। सर्वानुभु मात्मान संपराये।  एष नित्यो महिमा ब्राह्मणस्य। न कर्मणा वर्धते नो कनीयान्।। तस्यैवात्मा पदवि त्तँ विदित्वा। न कर्मणा लिप्यते पापकेन। -  पञ्चपञ्चाशत स्त्रिवृत स्सँवथ्सराः। पञ्च पञ्चाशत पञ्चदशाः। पञ्च पञ्चाशत स्सप्तदशाः। पञ्च पञ्चाशत एकविशाः। विश्वसृजा सहस्रसँवथ्सरम्। एतेन वै विश्वसृज इदँ विश्व मसृजन्त। यद्विश्व मसृजन्त। तस्मा द्विश्वसृजः। विश्व मेनाननु प्रजायते। ब्रह्मण स्सायुज्य सलोकताँ यन्ति। एतासा मेव देवताना सायुज्यम्। सार्ष्टिता समानलोकताँ यन्ति। य एत दुपयन्ति। येचैन त्प्राहुः। येभ्य श्चैन त्प्राहुः।।  ओम्।। अधिश्रवण पारायणं समाप्तम्। ==00==