48

                        
                        
ऋग्वेद सन्ध्या वन्दनम् अपवित्र पवित्रो वा सर्वावस्थां गतोपि वा। य स्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। (शुचौ देशे भूमिष्ठ पादोन्तर्जानु हस्तः, प्राङ्मुख उदङ्मुखो वोपविश्य, संहताङ्गुलिना शुद्धजलं गृहीत्वा मुक्ताङ्गुष्ठ कनिष्ठेन वामेनान्वारब्धेन पाणिना ब्रह्मतीर्थेन केशव नारायण माधवेति संबुद्ध्यन्तै स्त्रिभि र्नामभि स्त्रिरपःपिबेत्। ब्रह्मतीर्थ मंगुष्ठ मूलम्।) आचम्य।। ओं केशवाय स्वाहा। ओं नारायणाय स्वाहा। ओं माधवाय स्वाहा। ओं गोविन्दाय नमः। ओं विष्णवे नमः। ओं मधुसूदनाय नमः। ओं त्रिविक्रमाय नमः ओं वामनाय नमः। ओं श्रीधराय नमः ओं हृषीकेशाय नमः। ओं पद्मनाभाय नमः। ओं दामोदराय नमः। ओं सङ्कर्षणाय नमः । ओं वासुदेवाय नमः। ओं प्रद्युम्नाय नमः। ओं अनिरुद्धाय नमः। ओं पुरुषोत्तमाय नमः। ओं अधोक्षजाय नमः । ओं नारसिंहाय नमः । ओं अच्युताय नमः । ओं जनार्दनाय नमः । ओं उपेन्द्राय नमः । ओं हरये नमः । श्री कृष्णाय नमः। श्रीकृष्ण परब्रह्मणे नमः। उत्तिष्ठन्तु भूत पिशाचाः एते भूमि भारकाः। एतेषा मविरोधेन ब्रह्मकर्म समारभे।। अपसर्पन्तु ये भूता ये भूता भूमि संस्थिताः। ये भूता विघ्नकर्तार स्ते गच्छन्तु शिवाज्ञया।। अपक्रामन्तु भूतानि पिशाचा स्सर्वतो दिशम्। सर्वोषा मविरोधेन ब्रह्मकर्म समारभे।।) (प्रणवस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्रीच्छन्दः।। सप्तानां व्याहृतीनां विश्वामित्र जमदग्नि भरद्वाज गौतमात्रि वसिष्ठ कश्यपा ऋषयः। अग्नि वाय्वादित्य बृहस्पति वरुणेन्द्र विश्वे देवा देवताः। गायत्र्युष्णि गनुष्टुप्‌ जगत्य श्छन्दांसि। गायत्र्या विश्वामित्र ऋषिः। सविता देवता। गायत्री च्छन्दः।) प्रणायामे विनियोगः।  ओं भूः। ओं भुवः। ओं स्वः। ओं महः। ओं जनः। ओं तपः। ओं सत्यम्।  ओं तत्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।  ओं आपो ज्योती रसोमृतं ब्रह्म भूर्भुवस्स्वरोम्। सङ्कल्पः मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं शुभे शोभने मुहूर्ते, श्री महा विष्णोराज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणः द्वितीय परार्धे, श्वेतवराहकल्पे, वैवस्वत मन्वंतरे, कलियुगे प्रथम पादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य ------- प्रदेशे, --- - --- नद्यो र्मध्यदेशे ------ समस्त देवता गोब्राह्मण हरिहर चरण सन्निधौ, अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन प्रभवादि षष्टि संवथ्सराणां मध्ये, श्रीमत् ----- संवथ्सरे, ------- अयने, ------ ऋतौ,----- मासे, ------- पक्षे, ------ तिथौ, ------ वासरे, ------ नक्षत्रे,-------योगे,-------करणे, एवंगुण विशेषण विशिष्टायां अस्यां शुभतिथौ श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं प्रातस्संध्या (माध्याह्निक स्संध्या, सायं संध्या) मुपासिष्ये।। मार्जनम्। आपो हिष्ठेति तृचस्याम्बरीषः, सिन्धुद्वीप ऋषिः, आपोदेवता, गायत्री च्छन्दः, मार्जने विनियोगः।  ओम् आपोहिष्ठा मयोभुव स्तान ऊर्जे दधातन। महे रणाय चक्षसे।।  ओम् यो व श्शिवतमो रस स्तस्य भाजयतेह नः। उशतीरिव मातरः।  ओम् तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः। मन्त्राचमनम् (सूर्यश्चेति मन्त्रस्य, याज्ञवल्क्य उपनिषद ऋषिः, सूर्य मन्यु मन्युपति रात्रयो देवताः, प्रकृति श्छन्दः, मन्त्राचमने विनियोगः।)  ओम् सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्तां। यद्रात्रिया पाप मकार्षम्। मनसा वाचा हस्ताभ्याम्। पद्भ्यामुदरेण शिश्च्ञा। रात्रि स्तदव लुंपतु। यत्किंच दुरितं मयि। इद महं मा ममृतयोनौ। सूर्ये ज्योतिषि जुहोमि स्वाहा।। (इति जलं पीत्वाचम्य) (प्रणवस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्री च्छन्दः। व्याहृतीनां परमेष्ठी प्रजापतिः प्रजापतिर्बृहती गायत्र्या विश्वामित्रः सविता गायत्री।।) द्वितीय मार्जनम्।। आपो हिष्ठेति नवर्चस्याम्बरीषः, सिन्धुद्वीप ऋषिः, आपोदेवता, गायत्री च्छन्दः, पञ्चमी वर्धमाना, सप्तमी प्रतिष्ठा, अन्त्ये द्वे अनुष्टुभौ, एतेषां मार्जने विनियोगः।  ओम् आपोहिष्ठा मयोभुव स्तान ऊर्जे दधातन। महे रणाय चक्षसे।।  ओम् यो व श्शिवतमो रस स्तस्य भाजयतेह नः। उशतीरिव मातरः।  ओम् तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः।  शन्नो देवी रभिष्टय आपो भवन्तु पीतये। शँयो रभि स्रवन्तु नः।  ईशाना वार्याणां क्षयन्ती श्चर्‌षणीनाम्। अपो याचामि भेषजम्।  अप्सुमे सोमो अब्रवीदन्त र्विश्वानि भेषजा। अग्निञ्च विश्वशम्भुवम्।  आपः पृणीत भेषजं वरूथं तन्वे३(ए) मम। ज्योक्च सूर्य न्दृशे।  इद मापःप्रवहत यत्किञ्च दुरितं मयि। यद्वाहमभि दुद्रोह यद्वा शेप उतानृतम्।  आपो अद्यान्वचारिषं रसेन समगस्महि। पयस्वानग्न आगहि तं मा संसृज वर्चसा।।(इति अघमर्षणम्।।) (ऋतञ्चेति तृचस्य माधुच्छन्दसोऽघमर्षण ऋषिः। भाववृत्तं देवता। अनुष्टुप् च्छन्दः। अघमर्षणे विनियोगः।)  ओम् ऋतञ्च सत्यञ्चाभीद्धा त्तपसोध्याजायत। ततो रात्र्यजायत तत स्समुद्रो अर्णवः।  समुद्रा दर्णवा दधि संवत्सरो अजायत। अहोरात्राणि विदध द्विश्वस्य मिषतो वशी।  सूर्याचन्द्रमसौ धाता यथा पूर्व मकल्पयत्। दिवञ्च पृथिवी ञ्चान्तरिक्ष मथो स्वः।। (इति वामनासापुटेन वायुं निरुध्य, दक्षिण नासया पापपुरुषं निरस्य। तज्जल मनवलोकयन् वामभागे क्षितौ क्षिपेत्) आचम्य।। अर्घ्यप्रदानम्  (प्रणवस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्रीच्छन्दः।। सप्तानां व्याहृतीनां विश्वामित्र जमदग्नि भरद्वाज गौतमात्रि वसिष्ठ कश्यपा ऋषयः। अग्नि वाय्वादित्य बृहस्पति वरुणेन्द्र विश्वे देवा देवताः। गायत्र्युष्णि गनुष्टुप्‌ जगत्य श्छन्दांसि। गायत्र्या विश्वामित्र ऋषिः। सविता देवता। गायत्री च्छन्दः।अर्घ्यप्रदाने विनियोगः)  ओं तत्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। श्री सूर्यनारायणाय इदमर्घ्यं समर्पयामि। (इति त्रिः) असावादित्यो ब्रह्मा।। इत्यात्मानं प्रदक्षिणं परिषिच्याप उपस्पृशेत्।। (आचम्य, प्राणायामं कृत्वा) गायत्रीजपः ओम् भूर्भुवस्स्वरोम् (इति जपित्वा, आसने पद्मासनेनोपविश्य) (पृथ्वीति मन्त्रस्य। मेरुपृष्ठ ऋषिः। सुतलं च्छन्दः। कूर्मोदेवता। आसने विनियोगः)  ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वञ्च धारय मा न्देवि पवित्रं कुरु चासनम्।। ऊर्ध्ववकेशि विरूपाक्षि मांसशोणित भक्षणे। तिष्ठदेवि शिखाबन्धे चामुण्डेह्यपराजिते।। अपसर्पन्तु ते भूता ये भूता भूमि संस्थिताः। ये भूता विघ्नकर्तार स्ते गच्छन्तु शिवाज्ञया।। अपक्रामन्तु भूतानि पिशाचा स्सर्वतो दिशम्। सर्वोषा मविरोधेन ब्रह्मकर्म समारभे।। (गायत्र्या विश्वामित्र ऋषिः। सविता देवता। गायत्री च्छन्दः। न्यासे विनियोगः।) 1. ओं तथ्सवितुः - ब्रह्मात्मने अंगुष्ठाभ्यां नमः 2. ओं वरेण्यं - विष्ण्वात्मने तर्जनीभ्यां नमः 3. ओं भर्गो देवस्य - रुद्रात्मने मध्यमाभ्यां नमः 4. ओं धीमहि - सत्यात्मने अनामिकाभ्यां नमः 5. ओं धियोयोनः - ज्ञानात्मने कनिष्ठिकाभ्यां नमः 6. ओं प्रचोदयात् - सर्वात्मने करतल करपृष्ठाभ्यां नमः 1. ओं तथ्सवितुर् - ब्रह्मात्मने हृदयाय नमः 2. ओं वरेण्यं - विष्ण्वात्मने शिरसे स्वाहा 3. ओं भर्गो देवस्य - रुद्रात्मने शिखायै वषट् 4. ओं धीमहि - सत्यात्मने कवचाय हुं 5. ओं धियोयोनः - ज्ञानात्मने नेत्रतेरयाय वौषट् 6. ओं प्रचोदयात् - सर्वात्मने अस्त्रायफट् भूर्भुवस्सुवरोमिति दिग्बन्धः बालां बालादित्य मण्डल मध्यस्थां, रक्तवर्णां रक्ताम्बरानुलेपन स्रगम्बराम्, चतुर्वक्त्रां, दण्ड कमण्डल्वक्ष सूत्राभयाङ्क चतुर्भुजां, हंसासनारूढां ब्रह्म दैवत्यामृग्वेदमुदाहरन्तीं भुवर्लोकाधिष्ठात्रीं गायत्रीं नाम देवतां ध्यायामि।  आगच्छ वरदे देवि जपे मे सन्निधौ भव। गायन्तं त्रायसे यस्माद्गायत्री त्वं ततस्स्मृता।।  ओम् भूर्भुवस्स्वः।  ओम् तथ्सवितु र्वरेणियं, भर्गो देवस्य धीमहि। धियो योनप्रचोदयात्।। (इति अष्टोत्तर शतं जप्त्वा उपस्थानं कुर्यात्) उपस्थानम् (जातवेदसे मारीचकश्यपो जातवेदा अग्निस्त्रुष्टुप्, उपस्थाने विनियोगः)  जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः। स नपर्‌षदति दुर्गाणि विश्वा नावेव सिन्धु न्दुरितात्यग्निः।। (मित्रो जनानिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः, मित्रो देवता, त्रिष्टुप् छन्दः, अन्त्याश्चतस्रो गायत्र्यः, सूर्योपस्थाने विनियोगः)  मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवी मुत द्याम्। मित्रकृष्टी रनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत।।  प्रसमित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन। न हन्यते न जीयते त्वोतो नैन मँहो अश्नोत्यन्तितो न दूरात्।।  अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः। आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम।।  अयं मित्रो नमस्य स्सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम।।  महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः। तस्मा एतत् पन्यतमाय जुष्ट मग्नौ मित्राय हवि राजुहोत।।  मित्रस्य चर्‌षणीधृतो वो देवस्य सानसिम्। द्युम्न ञ्चित्रश्रवस्तमम्।।  अभि यो महिना दिवं मित्रो बभूव सप्रथाः। अभि श्रवोभिपृथिवीम्।।  मित्राय पञ्च येमिरे जना अभिष्टिशवसे। स देवान् विश्वान् बिभर्ति।।  मित्रो देवेष्वायुषु जनाय वृक्तबर्‌हिषे। इष इष्टव्रता अकः। (त्र्यम्बकं मैत्रावरुणि र्वसिष्ठो रुद्रोनुष्टुप्। उपस्थाने विनियोगः)  त्र्यम्बकँ यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुक मिव बन्धना न्मृत्यो र्मुक्षीय मामृतात्।। (तच्छँयो श्शँयु र्विश्वे देवा श्शक्वरी, उपस्थाने विनियोगः)  तच्छँयो रावृणीमहे गातुँ यज्ञाय गातुँ यज्ञपतये दैवी स्वस्ति रस्तु न स्स्वस्ति र्मानुषेभ्यः। ऊर्ध्व ञ्जिगातु भेषजं शन्नो अस्तु द्विपदे शञ्चतुष्पदे।। (नमो ब्रह्मणे प्रजापति र्विश्वे देवा जगती, उपस्थाने विनियोगः)  नमो ब्रह्मणे नमो अस्त्वग्नये नमपृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमि।। दिङ्नमस्कारः प्राच्यै दिशे, इन्द्राय च नमः। आग्नेय्यै दिशे, अग्नये च नमः। दक्षिणायै दिशे, यमाय च नमः। नैर्‌ऋत्यै दिशे, निर्ऋतये च नमः। प्रतीच्यै दिशे, वरुणाय च नमः। वायव्यै दिशे, वायवे च नमः। उदीच्यै दिशे, सोमाय च नमः। ईशान्यै दिशे, ईश्वराय च नमः। ऊर्ध्वायै दिशे, ब्रह्मणे च नमः। अधरायै दिशे, अनन्ताय च नमः। --------- सन्ध्या देवता नमस्कारः सन्ध्यायै नमः, सावित्र्यै नमः, गायत्र्यै नमः, सरस्वत्यै नमः, सर्वाभ्यो देवताभ्यो नमः। यां सदा सर्वभूतानि स्थावराणि चराणि च। सायं प्रातर्नमस्यन्ति सा मा सन्ध्याभिरक्षतु।। उद्वासनम्  उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि। ब्राह्मणेभ्यो भ्यनुज्ञाता गच्छ देवि यथासुखम्।  भद्रन्नो अपि वातय मनः। ओं शान्ति शान्ति श्शान्तिः (इति त्रिः) ब्राह्मण नमस्कारः आसत्यलोकात् पाताला दालोकालोक पर्वतात्। ये सन्ति ब्राह्मणा देवा स्तेभ्यो नित्यं नमो नमः।। गुरूनभिवादयेत्। अनेन प्रातस्सन्ध्यावन्दनेन कर्मणा श्री परमेश्वरप्रीयताम्। (द्विराचम्य) समाप्त प्रातस्सन्ध्यावन्दन प्रयोगः। ==00==